आश्रमवासिक पर्व — भीमको क्रूर कर्म; धृतराष्ट्र र युधिष्ठिरको शोक
खण्ड 9 — अनुशासनदेखि स्वर्गारोहण पर्वसम्म · अध्याय 263
संस्कृत
1वैशम्पायन उवाच युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तदा। नान्तरं ददृशू राज्ये पुरुषाः प्रणयं प्रति॥
2यदा तु कौरवो राजा पुत्रं सस्मार दुर्मतिम्। तदा भीमं हृदा राजन्नपध्याति स पार्थिवः॥
3तथैव भीमसेनोऽपि धृतराष्ट्र जनाधिपम्। नामर्षयत राजेन्द्र सदैव दुष्टवद्धदा॥
4अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः। आज्ञा प्रत्यहरच्चापि कृतज्ञैः पुरुषैः सदा॥
5स्मरन् दुर्मन्त्रितं तस्य वृत्तान्यप्यस्य कानिचित्। अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत्॥ संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः। स्मृत्वा दुर्योधनं शत्रु कर्णदुःशासनावपि॥ प्रोवाचेदं सुरंब्धो भीमः स परुषं वचः।
6अन्धस्य नृपतेः पुत्रा मया परिघबाहुना॥ नीता लोकममुं सर्वे नानाशस्त्रास्त्रयोधिनः।
7इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ॥ ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः।
8ताविमौ चन्दनेनाक्तौ चन्दना) च मे भुजौ॥ याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः।
9एताश्चान्याश्च विविधाः शल्यभूता नराधिपः॥ वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत्।
10सा च बुद्धिमती देवी कालपर्यायवेदिनी॥ गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे।
11ततः पञ्चदशे वर्षे समतीते नराधिपः॥ राजा निर्वेदमापेदे भीमवाग्बाणपीडितः।
12नान्वबुध्यत तद् राजा कुन्तीपुत्रो युधिष्ठिरः॥ श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी। माद्रीपुत्रौ च धर्मज्ञौ चित्तं तस्यान्ववर्तताम्॥
13राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किञ्चिदप्रियम्। ततः समानयामास धृतराष्ट्रः सुहृज्जनम्॥ वाष्पसंदिग्धमन्यर्थमिदमाह च तान् भृशम्।
14धृतराष्ट्र उवाच विदितं भवतामेतद् यथा वृत्तः कुरुक्षयः॥ ममापराधात् तत् सर्वमनुज्ञातं च कौरवैः।
15योऽहं दुष्टमतिं मन्दो ज्ञातीनां भयवर्धनम्॥ दुर्योधनं कौरवाणामाधिपत्यऽभ्यषेचयम्।
16यच्चाहं वासुदेवस्य नाश्रौषं वाक्यमर्थवत्॥ वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः। पुत्रस्नेहाभिभूतस्तु हितमुक्तो मनीषिभिः॥ विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च। पदे पदे भगवता व्यासेन च महात्मना॥ संजयेनाथ गान्धार्या तदिदं तप्यते च माम्।
17यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु॥ न दत्तवाश्रियं दीप्तां पितृपैतामहीमिमाम्।
18विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः॥ एतच्छ्रेयस्तु परमममन्यत जनार्दनः।
19सोऽहमेतान्यलीकानि निवृत्तान्यान्मनस्तदा।।२३। हृदये शल्यभूतानि धारयामि सहस्रशः।
20विशेषतस्तु पश्यामि वर्षे पञ्चदरोऽद्य वै॥ अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः।
21चतुर्थे नियते काले कदाचिदपि चाष्टमे॥ तृष्णाविनयनं भुजे गान्धारी वेद तन्मम।
22करोत्याहारमिति मां सर्वः परिजनः सदा॥ युधिष्ठिरभयादेति भृशं तप्यति पाण्डवः।
23भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः॥ नियमव्यपदेशेन गान्धारी च यशस्विनी।
24हतं शतं तु पुत्राणां ययोर्युद्धेऽपलायिनाम्॥ नानुतप्यामि तच्चाहं क्षत्रधर्म हि ते विदुः।
25इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः॥ भद्रं ते यादवीमातर्वचश्चेदं निबोध मे।
26सुखमसम्युषितः पुत्र त्वया सुपरिपालितः॥ महादानानि दत्तानि श्राद्धानि च पुनः पुनः।
27प्रकृष्टं च यया पुत्र पुण्यं चीर्णं यथाबलम्॥ गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम्।
28द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः॥ समतीता नृशंसास्ते स्वधर्मेण हता युधि।
29न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन॥ सर्वे शस्त्रभृतां लोकान् गतास्तेऽभिमुखं हताः।
30आत्मनस्तु हितं पुण्यं प्रतिकर्तव्यमद्य वै॥ गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि।
31त्वं तु शस्त्रभृतां श्रेष्ठः सततं धर्मवत्सलः॥ राजा गुरुः प्राणभृतां तस्मादेतद् ब्रवीम्यहम्।
32अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम्॥ चीरवल्कलभृद् राजन् गान्धार्या सहितोऽनया।
33तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः॥ उचितं नः कुले तात सर्वेषां भरतर्षभ। पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप॥ तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन्। पल्या सहानया वीर चरिष्यामि तपः परम्॥
34त्वं चापि फलभाक् तात तपसः पार्थिवो ह्यसि। फलभाजो हि राजानः कल्याणस्येतरस्य वा॥
35युधिष्ठिर उवाच न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप। धिङ्नामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम्॥
36योऽहं भवन्तं दुःखार्तमुपवासकृशं भृशम्। जिनाहारं क्षितिशयं न विन्दे भ्रातृभिः सह॥
37अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना। विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः॥
38किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा। यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान्॥
39पीडितं चापि जानामि राज्यमान्मानमेव च। अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर॥
40भवान् पिता भवान् माता भवान् नः परमो गुरुः। भवता विप्रहीणा वै क्व नु तिष्ठामहे वयम्॥
41औरसो भवतः पुत्रो युयुत्सुनृपसत्तम। अस्तु राजा महाराज यमन्यं मन्यते भवान्॥
42अहं वनं गमिष्यामि प्रशासतु। न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि॥
43नाहं राजा भवान् राजा भवतः परवानहम्। कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे॥
44भवान् राज्य न मन्युर्हदि नः कश्चित् सुयोधनकृतेऽनघ। भवितव्यं तथा तद्धि वयं चान्ये च मोहिताः॥
45वयं पुत्रा हि भवतो यथा दुर्योधनादयः। गान्धारी चैव कुन्ती च निर्विशेषे मते मम॥
46स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि। पृष्ठतस्त्वनुयास्यामि सत्यमात्मानमालभे॥
47इयं हि वसूसम्पूर्णा मही सागरमेखला। भवता विप्रहीणस्य न मे प्रीतिकरी भवेत्॥
48भवदीयमिदं सर्वं शिरसा त्वां प्रसादये। त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः॥
49भवितव्यमनुप्राप्तो मन्ये त्वं वसुधाधिप। दिष्ट्या शुश्रूषमाणस्त्वां मोक्षिष्ये मनसो ज्वरम्।।५५
50धृतराष्ट्र उवाच तापस्ये मे मनस्तात वर्तते कुरुनन्दन। उचितं च कुलेऽस्माकमरण्यगमनं प्रभो॥
51चिरमसम्युषितः पुत्र चिरं शुश्रूषितस्त्वया। वृद्धं मामप्यनुज्ञातुमर्हसि त्वं नराधिप॥
52वैशम्पायन उवाच इत्युक्त्वा धर्मराजानं वेपमानं कृताञ्जलिम्। उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः॥ संजयं च महात्मानं कृपं चापि महारथम्। अनुनेनुमिहेच्छामि भवद्भिर्वसुधाधिपम्॥
53म्लायते मे मनो हीदं मुखं च परिशुष्यति। वयसा च प्रकृष्टेन वाग्व्यायामेन चैव ह॥
54इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरुद्वहः। गान्धारी शिश्रिये धीमान् सहसैव गतासुवत्॥
55तं तु दृष्ट्वा समासीनं विसंज्ञमिव कौरवम्। आर्ति राजागमत् तीव्रां कौन्तेयः परवीरहा॥
56युधिष्ठिर उवाच यस्य नागसहस्रेण शतसंख्येन वै बलम्। सोऽयं नारी व्यपाश्रित्य शेते राजा गतासुवत्॥
57आयसी प्रतिमा येन भीमसेनस्य सा पुरा। चूर्णीकृता बलवता सोऽबलामाश्रितः स्त्रियम्॥
58धिगस्तु मामधर्मज्ञं धिग् बुद्धिं धिक् च मे श्रुतम्। यत्कृते पृथिवीपाल: शेतेऽयमतथोचितः॥
59अहमप्युपवत्स्यामि यथैवायं गुरुर्मम। यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी॥
60वैशम्पायन उवाच ततोऽस्य पाणिना राजन् जलशीतेन पाण्डवः। उरो मुखं च शनकैः पर्यमार्जत धर्मवित्॥
61तेन रत्नौषधिमता पुण्येन च सुगन्धिना। पाणिस्पर्शन राज्ञः स राजा संज्ञामवाप ह॥
62धृतराष्ट्र उवाच स्पृश मां पाणिना भूयः परिष्वज च पाण्डव। जीवामीवातिसंस्पर्शात् तव राजीवलोचन॥
63मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप। पाणिभ्यां हि परिस्प्रष्टुं प्रीणनं हि महन्मम॥
64अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे। येनाहं कुरुशार्दूल शक्नोमि न विचेष्टितुम्॥
65व्यायामश्चायमत्यर्थे कृतस्त्वामभियाचता। ततो ग्लानमनास्तात नष्टसंज्ञ इवाभवम्॥
66तवामृतरसप्रख्यं हस्तस्पर्शमिमं प्रभो। लब्धा संजीवितोऽस्मीति मन्ये कुरुकुलोद्वह॥
67वैशम्पायन उवाच एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत। पस्पर्श सर्वगात्रेषु सौहार्दात् तं शनैस्तदा॥
68उपलभ्य ततः प्राणान् धृतराष्ट्रो महीपतिः। बाहुभ्यां सम्परिष्वज्य मूर्ध्याजिघ्रत पाण्डवम्॥
69विदुरादयश्च ते सर्वे रुरुदुदुःखिता भृशम्। अतिदुःखात् तु राजानं नोचुः किंचन पाण्डवम्॥
70गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम्। दुःखान्यधारयाद् राजन् मैवमित्येव चाब्रवीत्॥
71इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः। नेत्रैरागतविक्लेदैः परिवार्य स्थिताऽभवन्॥
72अथाब्रवीत् पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम्। अनुजानीहि मां राजस्तापस्ये भरतर्षभ॥
73ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः। न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि॥
74तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम्। सर्वेषामेव योधानामार्तनादो महानभूत्॥
75दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम्। उपवासपरिश्रान्तं त्वगस्थिपरिवारणम्॥ धर्मपुत्रः स्वपितरं परिष्वज्य महाप्रभुम्। शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत्॥
76न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा। यथा तव प्रियं राजंश्चिकीर्षामि परंतप॥
77यदि चाहमनुग्राह्यो भवतो दयितोऽपि वा। क्रियतां तावदाहारस्ततो वेत्स्याम्यहं परम्॥
78ततोऽब्रवीन्महातेजा धृतराष्ट्रो युधिष्ठिरम्। अनुज्ञातस्त्वया पुत्र भुजीयामिति कामये॥
79इति ब्रुवति राजेन्द्र धृतराष्ट्रे युधिष्ठिरम्। ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत्।।८७।
अङ्ग्रेजी
1The people who lived in the Kuru kingdom could not mark any difference in the cordiality which existed between king Yudhishthira and the father of Duryodhana.
2When the Kuru king recollected his wicked son, he then could not but feel unfriendly, in his heart, towards Bhima.
3Bhiimasena also, O king, moved by a wicked heart, was unable to put up with king Dhritarashtra.
4Vrikodara secretly did many deeds that were disagreeable to the old king. Through deceitful servants he caused the commands of his uncle to be disobeyed.
5Recollecting the evil advice of the old king and some deeds of his, Bhima, one days, in the midst of his friends, slapped his armpits, in the hearing of Dhritarashtra and of Gandhari. The angry Vrikodara, recollecting his enemies Duyrodhana and Karna and Dushasana, gave way to a fit of passion, and said these harsh words :-'The sons of the blind king, capable of fighting with various kinds of weapons, have all been dispatched by me to the other world with these arms of mine which resemble a pair of iron clubs.
6Indeed, these are those two arms of mine, loO king like maces of iron, and invincible by cnemies, coming within whose clasp the sons of Dhritarashtra have all been killed.
7These are those two well-developed and round arms of mine, resembling a pair of elephantine trunks. Coming within their clasp, the foolish sons of Dhritarashtra have all been killed.
8Smeared with sandal-paste and deserving of that adornment are those two arms of mine by which Duryodhana has been sent to the other world along with all his sons and kinsmen.'
9Hearing these and many other words, O king, of Vrikodara, which were so many darts, king Dhritarashtra gave way to cheerlessness and sorrow.
10Queen Gandhari, however, who conversant with every duty and endued with great intelligence, and who knew what Time brings on its course, considered them as untrue.
11Then, after fifteen years had passed away, o monarch, king Dhritarashtra, afflicted (constantly) by the wordy arrows of Bhima, became stricken with despair and sorrow.
12King Yudhishthira thc son of Kunti, however, knew it not; nor Arjuna of white horses; nor Kunti; nor Draupadi possessed of great fame; nor the twin sons of Madri, knowing every duty and who were always engaged in acting after the wishes of Dhritarashtra. was to
13Employed in doing the behest's of the king, the twins never said anything that was disagreeable the old king. Then Dhritarashtra one day honoured his friends by his confidence. Addressing them with tearful eyes, he said these words.
14Dhritarashtra said You know how the destruction of Kurus has happened. All that was brought about by my fault, though the Kauravas approved of all my counsels.
15Fool that I was, I installed the wickedminded Duryodhana, that enhancer of the terrors of kinsmen, to rule over the Kurus.
16Vasudeva had said to me, 'Let this sinful wretch of wicked understanding be slain along with all his friends and counselors.' I did not listen to those words of great significance. All wise men gave me the same beneficial advice. Vidura, Bhishina, Drona, and Kripa said the same thing. The holy and great Vyasa repeatedly said the same, as also Sanjaya and Gandhari. Overwhelmed, however, by filial affection, I could not follow that advice. Bitter repentance is now my lot for my neglect.
17I also repent for not having bestowed that blazing prosperity, derived from sires and grandsires on the great Pandavas possessed of every accomplishment.
18The eldest brother of Gada foresaw the destruction of all the king; Janardana, however, considered that destruction as highly beneficial.
19So many battalions of troops belonging to me, have been destroyed! Alas, my heart is pierced with thousands of darts on account of all these results.
20Of wicked understanding as I am, now, after the lapse of fifteen years, I am trying to expiate my sins.
21Now at the fourth division of the day or sometimes at the eighth division, with the regularity of a vow, I eat a little food for simply satisfying my thirst. Gandhari knows this.
22All my attendants believe that I eat as usual. Through feat of Yudhishthira alone I concealed my deeds, for if the eldest son of Pandu came to know of my vow, he would feel great pain.
23Clad in deer-skin, I lie down on the Earth, spreading a small quantity of Kusha grass, and pass the time in silent recitations. The illustrious Gandhari, also, passes her time in the observance of similar vows.
24Thus do we both act, we who have lost a hundred sons none of whom ever retreated from battle. I do not, however, grieve for those children of mine. They have all died while performing Kshatriya duties.
25Having said these words, the old king then addressed Yudhishthira in particular and said, 'Blessed by you, O son of the princess of Yudu's race! Listen now to what I say.
26Cherished by you, O son, I have lived these years very happily. I have (with your help) made large gifts and performed Sharaddhas repeatedly.
27I have, O son, to the best of my power, acquired merit largely. This Gandhari, though destitute of sons, has lived with great fortitude, loO king all the while at me.
28They who inflicted great wrongs on Draupadi and robbed you of your affluence, those cruel men-have all left the world, killed in battle according to the practice of their order.
29I have nothing to do for them, O delighter of the Kurus! Killed with their faces towards battle, they have attained to those regions which reserved for the wielders of weapons.
30I should now, do what is bencficial and meritorious for me as also for Gandhari. O great king, you should grant mc permission. are
31You are the foremost of all righteous persons. You are always devoted to virtue. The king is the preceptor of all creatures. It is for this that I say so.
32With your permission, O hero, I shall retire into the forest, clad in rags and darks, O king, along with this Gandhari.
33I shall live in the forest, always blessing you. It is proper, O son, for the members of our family, to make over sovereignty, when old age comes, to children and lead the forest mode of life. Living there on air alone, or abstaining froin all food, I shall, with this wife of mine, O hero, practice severe austeities.
34You shall be a sharer of those penances, o son, for you are the king. Kings are sharers of both auspicious and inauspicious acts done in their kingdom.
35Yudhishthira said When you, O king, are thus subject to grief, sovereignty does not please me at all. Fie on me who am of wicked understanding, devoted o the pleasures of own and absolutely negligent of my true concerns.
36Alas, I, with all my brothers, was ignorant of yourself having so long been stricken with grief, emaciated with fasts, abstaining from food, and lying on the naked earth.
37Alas, foolish that I am, I have been deceived by you who have great intelligence, inasmuch as, having filled me with confidence at first you have latterly undergone such grief.
38What need have I of kingdom or of articles of enjoyment, what need of sacrifices or of happiness, when you, O king, have undergone so much affliction.
39I consider my kingdom as a disease, and myself also as afflicted. Plunged though I am in sorrow, what however, is the sue of these words that I am addressing you?
40You are our father, you are our mother; you are our foremost of superiors. Deprived of your presence, how shall we live.
41O best of kings, let Yuyutsu, the son of your loins, be made king, or indeed, anybody else whom you may wish.
42I shall go into the forest. Do you rule the kingdom You should not burn me who am already burned by infamy.
43I am not the king. You are the king. I am dependent on your will. How can I dare grant permission to you who are my preceptor?
44O sinless one, I cherish no resentment in my heart on account of the wrongs done to us by Suyodhana. It was ordained that it should be so. Both ourselves and others were stupefied (by fate).
45We are your children as Duryodhana and others were. My conviction is that Gandhari is as much my mother as Kunti.
46If you, O king of kings, go to the forest leaving me, I shall then follow you. I swear by iny soul.
47This Earth, with her belt of seas, so full of riches, will not be a source of joy to me when I am deprived of your presence.
48All this belongs to you. Bending my head low I make my obeisance. We are all dependent on you, O king of kings. Let the fever of your heart be removed.
49I think, O king, that all this that has come upon you is due to destiny. By good luck, I had thought, that waiting upon you and executing your commands obediently, I would rescue you from the fever of your heart.
50Dhritarashtra said-Odelighter of the Kurus, my mind is fixed, O son, on penances. O powerful one, it is proper for our family that I should retire into the forest.
51I have lived long under your protection, O son. I have for many years been served by you with respect. I am now old. You should, O king, grant me permission.
52Vaishampayana said Having said these words to king Yudhishthira the just, king Dhritarashtra, the son of Ambika, trembling all the while and with hands joined together, further said to the great Sanjaya and the great car-warrior Kripa, these words: I wish to solicit the king through you.
53My mind has become dispirited, my mouth has become dry, through the weakness of age and the exertion of speaking.
54Having said so, that perpetuator of Kuru's race, viz., the pious old king, blessed with prosperity, leaned to Gandhari and suddenly looked like one dcad.
55Seeing him thus seated like one shom of consciousness, that destroyer of hostile heroes, viz., the royal son of Kunti, became penetrated by a piercing grief.
56on me am Yudhishthira said Alas, he whose strength was equal to that of a hundred thousand elephants, alas, that king sits today, learning on a woman.
57Alas, he by whom the iron image of Bhima on a former occasion was reduced to pieces, leans today on a weak woman.
58Fic who exceedingly unrighteous. Fie on my understanding. Fie on my knowledge of the scriptures. Fie on me for whom this king lies today in a manner that is not worthy of him.
59I also shall fast even as my preceptor. Indeed, I shall fast if this king and Gandhari of great fame abstain from food.
60Vaishampayana said The Pandava king, knowing every duty, using his own hand, then softly rubbed with cold water the breast and the face of the old king.
61At the touch of the king's hand which was auspicious and fragrant, and on which were jewels and medicinal herb's, Dhritarashtra regained his consciousness.
62Dhritarashtra said Do you, again, touch me, O son of Pandu, with your hand, and do you embrace me. O you having eyes like lotus petals, I am restored to my senses through the auspicious touch of your hand.
63O king, I wish to smell your head. The clasp of your arms is highly gratifying to me.
64This is the eighth division of the day and therefore, the hour for taking may food. For not having taken my food, O scion of Kuru's race, I am so weak that I cannot move.
65Great has been my exertion while soliciting you. Rendered cheerless by it, O son, I had fainted.
66O perpetuator of Kuru's race, I think that receiving the touch of your hand, which is like nectar in its vivifying effects I have been restored to my senses.
67Thus addressed, O Bharata, by the eldest brother of his father, the son of Kunti, from affection, gently touched every part of his body.
68Regaining his life, king Dhritarashtra embraced the son of Pandu with his arms and smelled his head.
69Vidura and others wept aloud in great sorrow. On account, however, of thc poignancy of their sorrow, they said nothing to either the old king or the son of Pandu.
70Gandhari, knowing every duty, bore her sorrow with patience, and loaded as her heart was,, O king, said nothing.
71The other ladies, Kunti among them, became greatly afflicted. They wept, shedding profuse tears, and sat surrounding the old king.
72Then Dhritarashtra, once more addressing Yudhishthira, said these words-Do you, O king, permit me to practice penance's.
73By speaking repeatedly, O son, my mind becomes weakened. You should not, O son, afflict me after this.
74When that foremost one of Kuru's race was saying so to Yudhishthira, a loud sound of wailing arose from all the warriors there present.
75Seeing his royal father of great splendour, emaciated and palc, reduced to unworthy of him worn out with fasts, and loO king like skeleton covered with skin, Dharma's son Yudhishthira shed tears of grief and once more said these words.
76a state O foremost of men, I do not wish for life and the Earth! O scorcher of enemies, I shall engage myself in doing what is pleasant to you.
77If I deserve your favour, if I am dear to you, do you eat something. I shall then know what to do.
78Gifted with great energy, Dhritarashtra then said to Yudhishthira, “I wish, O son, to take some food, with your permission.
79When Dhritarashtra said these words to Yudhishthira, Datyavati's son Vyasa came the and said as follows.
हिन्दी
1कुरुराज्य में रहने वाले लोग राजा युधिष्ठिर और दुर्योधन के पिता के बीच जो सौहार्द था उसमें कोई अन्तर नहीं देख पाते थे।
2जब कुरुराज को अपने दुष्ट पुत्र का स्मरण होता, तब वे मन ही मन भीम के प्रति अमैत्रीपूर्ण भाव अनुभव किए बिना न रह सकते थे।
3हे राजन्, भीमसेन भी दुष्ट हृदय से प्रेरित होकर राजा धृतराष्ट्र को सहन नहीं कर पाते थे।
4वृकोदर ने गुप्त रूप से अनेक ऐसे कार्य किए जो उन वृद्ध राजा को अप्रिय थे। छली सेवकों के द्वारा वे अपने ताऊ की आज्ञाओं का उल्लङ्घन करवाते थे।
5उन वृद्ध राजा की कुमन्त्रणा और उनके कुछ कर्मों का स्मरण करके एक दिन भीम ने अपने मित्रों के बीच, धृतराष्ट्र और गान्धारी के सुनते हुए, अपनी काँख ठोकीं। अपने शत्रुओं दुर्योधन, कर्ण और दुःशासन का स्मरण करके क्रुद्ध वृकोदर आवेश के वशीभूत होकर ये कठोर वचन बोले — "विविध प्रकार के अस्त्रों से युद्ध करने में समर्थ उस अन्धे राजा के पुत्र मेरी इन भुजाओं से, जो लोहे के दो मुद्गरों के समान हैं, परलोक भेज दिए गए हैं।
6सचमुच, ये मेरी वे ही दो भुजाएँ हैं, जो लोहे की गदाओं जैसी दिखती हैं और शत्रुओं के लिए अजेय हैं, जिनकी पकड़ में आकर धृतराष्ट्र के सब पुत्र मारे गए हैं।
7ये मेरी वे ही सुविकसित और गोल भुजाएँ हैं, जो हाथी की दो सूँडों के समान हैं। इनकी पकड़ में आकर धृतराष्ट्र के मूर्ख पुत्र सब मारे गए हैं।
8चन्दन से लिप्त और उस अलङ्करण के योग्य हैं मेरी वे दो भुजाएँ, जिनके द्वारा दुर्योधन को अपने समस्त पुत्रों और बन्धुजनों सहित परलोक भेजा गया है।"
9हे राजन्, वृकोदर के ये और ऐसे अनेक वचन सुनकर, जो अनेक बाणों के समान थे, राजा धृतराष्ट्र उदासी और शोक के वशीभूत हो गए।
10किन्तु समस्त धर्मों की ज्ञाता और महाबुद्धिमती रानी गान्धारी ने, जो जानती थीं कि काल अपने प्रवाह में क्या लाता है, उन वचनों को असत्य माना।
11हे सम्राट्, तत्पश्चात् जब पन्द्रह वर्ष बीत गए, तब भीम के वचनरूपी बाणों से (निरन्तर) पीड़ित राजा धृतराष्ट्र निराशा और शोक से ग्रस्त हो गए।
12किन्तु कुन्तीपुत्र राजा युधिष्ठिर को इसका ज्ञान न था; न श्वेत अश्वों वाले अर्जुन को; न कुन्ती को; न महायशस्विनी द्रौपदी को; और न समस्त धर्मों के ज्ञाता माद्री के उन जुड़वाँ पुत्रों को, जो सदा धृतराष्ट्र की इच्छा के अनुसार आचरण करने में लगे रहते थे।
13राजा की आज्ञाओं का पालन करने में लगे हुए वे जुड़वाँ भाई कभी ऐसा कुछ नहीं कहते थे जो उन वृद्ध राजा को अप्रिय हो। तब एक दिन धृतराष्ट्र ने अपने मित्रों को अपने विश्वास से सम्मानित किया। अश्रुपूर्ण नेत्रों से उन्हें सम्बोधित करके उन्होंने ये वचन कहे।
14धृतराष्ट्र ने कहा — आप जानते हैं कि कुरुओं का विनाश कैसे हुआ। वह सब मेरे ही दोष से हुआ, यद्यपि कौरवों ने मेरी समस्त मन्त्रणाओं का अनुमोदन किया था।
15मूर्ख मैंने बन्धुजनों के भय को बढ़ाने वाले उस दुर्बुद्धि दुर्योधन को कुरुओं पर शासन करने के लिए स्थापित किया।
16वासुदेव ने मुझसे कहा था — "इस दुर्बुद्धि पापी को उसके समस्त मित्रों और मन्त्रियों सहित मार डाला जाए।" मैंने उन महत्त्वपूर्ण वचनों को नहीं सुना। समस्त बुद्धिमान् पुरुषों ने मुझे वही हितकर परामर्श दिया। विदुर, भीष्म, द्रोण और कृप ने भी वही कहा। पवित्र और महान् व्यास ने बार-बार वही कहा, और सञ्जय तथा गान्धारी ने भी। किन्तु पुत्रस्नेह से अभिभूत होकर मैं उस परामर्श का पालन न कर सका। अपनी उस उपेक्षा के लिए अब मुझे तीव्र पश्चात्ताप ही मिला है।
17मुझे इस बात का भी पश्चात्ताप है कि मैंने पिता-पितामहों से प्राप्त उस देदीप्यमान समृद्धि को समस्त गुणों से सम्पन्न महान् पाण्डवों को नहीं सौंपा।
18गद के ज्येष्ठ भ्राता (बलराम) ने समस्त राजाओं का विनाश पहले से ही देख लिया था; किन्तु जनार्दन ने उस विनाश को अत्यन्त हितकर माना।
19मेरी कितनी ही सेनाओं का विनाश हो गया! हाय, इन सब परिणामों के कारण मेरा हृदय सहस्रों बाणों से बिंधा हुआ है।
20दुर्बुद्धि जो मैं हूँ, अब पन्द्रह वर्ष बीत जाने पर मैं अपने पापों का प्रायश्चित्त करने का प्रयत्न कर रहा हूँ।
21अब मैं दिन के चौथे भाग में, अथवा कभी-कभी आठवें भाग में, व्रत की नियमितता से थोड़ा सा भोजन करता हूँ, केवल अपनी तृष्णा शान्त करने के लिए। गान्धारी यह जानती हैं।
22मेरे समस्त सेवक यही मानते हैं कि मैं पहले की भाँति भोजन करता हूँ। केवल युधिष्ठिर के भय से मैंने अपने कर्म छिपाए, क्योंकि यदि पाण्डु के ज्येष्ठ पुत्र को मेरे व्रत का पता चल जाता तो उन्हें बड़ी पीड़ा होती।
23मृगचर्म पहनकर मैं थोड़ी सी कुशा बिछाकर पृथ्वी पर लेटता हूँ, और मौन जप में समय बिताता हूँ। यशस्विनी गान्धारी भी वैसे ही व्रतों के पालन में समय बिताती हैं।
24हम दोनों ऐसा ही करते हैं — हम, जिनके सौ पुत्र मारे गए और जिनमें से कोई भी युद्ध से पीछे नहीं हटा। किन्तु मैं अपनी उन सन्तानों के लिए शोक नहीं करता। वे सब क्षत्रियधर्म का पालन करते हुए मरे हैं।
25ये वचन कहकर उन वृद्ध राजा ने तत्पश्चात् विशेष रूप से युधिष्ठिर को सम्बोधित करके कहा — "हे यदुवंशी राजकुमारी के पुत्र, तुम्हारा कल्याण हो! अब मैं जो कहता हूँ उसे सुनो।
26हे पुत्र, तुम्हारे द्वारा पालित होकर मैंने ये वर्ष अत्यन्त सुखपूर्वक बिताए हैं। मैंने (तुम्हारी सहायता से) बड़े-बड़े दान किए हैं और बार-बार श्राद्ध किए हैं।
27हे पुत्र, मैंने अपनी सामर्थ्य भर बहुत पुण्य अर्जित किया है। ये गान्धारी, यद्यपि पुत्रहीन हैं, तथापि सारा समय मेरी ओर देखती हुई महान् धैर्य के साथ जीती रही हैं।
28जिन्होंने द्रौपदी पर घोर अन्याय किया और तुमसे तुम्हारा वैभव छीन लिया, वे क्रूर पुरुष — वे सब अपने वर्ण की रीति के अनुसार युद्ध में मारे जाकर संसार से चले गए हैं।
29हे कुरुनन्दन, मुझे उनके लिए कुछ नहीं करना है! युद्ध की ओर मुख किए हुए मारे जाने के कारण उन्होंने वे लोक प्राप्त कर लिए हैं जो शस्त्रधारियों के लिए सुरक्षित हैं।
30अब मुझे वही करना चाहिए जो मेरे लिए तथा गान्धारी के लिए हितकर और पुण्यकारी हो। हे महाराज, तुम्हें मुझे अनुमति देनी चाहिए।
31तुम समस्त धर्मात्मा पुरुषों में श्रेष्ठ हो। तुम सदा धर्म में तत्पर रहते हो। राजा समस्त प्राणियों का गुरु होता है। इसीलिए मैं ऐसा कहता हूँ।
32हे वीर, हे राजन्, तुम्हारी अनुमति से मैं इन गान्धारी सहित चीर और वल्कल पहनकर वन में चला जाऊँगा।
33मैं वन में रहूँगा और सदा तुम्हें आशीर्वाद देता रहूँगा। हे पुत्र, हमारे कुल के सदस्यों के लिए यही उचित है कि वृद्धावस्था आने पर वे सन्तान को राज्य सौंपकर वानप्रस्थ जीवन बिताएँ। वहाँ केवल वायु पर जीवित रहते हुए, अथवा समस्त आहार त्यागकर, हे वीर, मैं अपनी इस पत्नी के साथ कठोर तपस्या करूँगा।
34हे पुत्र, तुम उस तपस्या के भागी होगे, क्योंकि तुम राजा हो। राजा अपने राज्य में किए गए शुभ और अशुभ — दोनों कर्मों के भागी होते हैं।
35युधिष्ठिर ने कहा — हे राजन्, जब आप इस प्रकार शोक से ग्रस्त हैं, तब राज्य मुझे तनिक भी प्रिय नहीं लगता। धिक्कार है मुझ दुर्बुद्धि को, जो अपने ही सुखों में लिप्त रहा और अपने वास्तविक कर्तव्यों के प्रति पूर्णतः उदासीन रहा।
36हाय, मैं अपने समस्त भाइयों सहित यह नहीं जान सका कि आप इतने समय से शोक से पीड़ित, उपवासों से कृश, आहार से विरत और नङ्गी भूमि पर शयन करते रहे हैं।
37हाय, मूर्ख जो मैं हूँ, महाबुद्धिमान् आपके द्वारा मैं ठगा गया हूँ, क्योंकि पहले मुझे विश्वास से भरकर बाद में आपने ऐसा शोक भोगा।
38हे राजन्, जब आपने इतना कष्ट भोगा है, तब मुझे राज्य से अथवा भोग्य वस्तुओं से क्या प्रयोजन, यज्ञों से अथवा सुख से क्या प्रयोजन?
39मैं अपने राज्य को एक रोग मानता हूँ, और स्वयं को भी पीड़ित। यद्यपि मैं शोक में डूबा हूँ, तथापि आपसे कहे जा रहे इन वचनों से क्या लाभ?
40आप हमारे पिता हैं, आप हमारी माता हैं; आप हमारे गुरुजनों में श्रेष्ठ हैं। आपकी उपस्थिति से वञ्चित होकर हम कैसे जीएँगे?
41हे राजाओं में श्रेष्ठ, आपके अपने औरस पुत्र युयुत्सु को राजा बनाया जाए, अथवा जिसे भी आप चाहें उसे।
42मैं वन में चला जाऊँगा। आप राज्य कीजिए। जो पहले से ही अपयश से जल रहा है, उस मुझे आप और न जलाइए।
43मैं राजा नहीं हूँ। राजा आप हैं। मैं आपकी इच्छा पर निर्भर हूँ। आप जो मेरे गुरु हैं, आपको मैं अनुमति देने का साहस कैसे कर सकता हूँ?
44हे निष्पाप, सुयोधन द्वारा हमारे साथ किए गए अन्यायों के कारण मैं अपने हृदय में कोई द्वेष नहीं रखता। ऐसा ही होना विधाता ने नियत किया था। हम भी और दूसरे भी (भाग्य से) मोहित थे।
45हम आपके सन्तान हैं, जैसे दुर्योधन तथा अन्य थे। मेरा विश्वास है कि गान्धारी उतनी ही मेरी माता हैं जितनी कुन्ती।
46हे राजाधिराज, यदि आप मुझे छोड़कर वन में जाते हैं, तो मैं भी आपके पीछे चलूँगा। मैं अपनी आत्मा की शपथ लेकर कहता हूँ।
47समुद्ररूपी मेखला से घिरी यह धनसम्पन्न पृथ्वी, आपकी उपस्थिति से वञ्चित होने पर, मेरे लिए आनन्द का स्रोत नहीं रहेगी।
48यह सब आपका ही है। सिर झुकाकर मैं आपको प्रणाम करता हूँ। हे राजाधिराज, हम सब आप पर ही निर्भर हैं। आपके हृदय का सन्ताप दूर हो।
49हे राजन्, मैं समझता हूँ कि आप पर जो कुछ आ पड़ा है वह सब भाग्य के कारण है। मैंने सोचा था कि सौभाग्य से आपकी सेवा करके और आपकी आज्ञाओं का आज्ञाकारी होकर पालन करके मैं आपको आपके हृदय के सन्ताप से उबार लूँगा।
50धृतराष्ट्र ने कहा — हे कुरुनन्दन, हे पुत्र, मेरा मन तपस्या पर स्थिर हो चुका है। हे बलशाली, हमारे कुल के लिए यही उचित है कि मैं वन में चला जाऊँ।
51हे पुत्र, मैं तुम्हारे संरक्षण में दीर्घ काल तक रहा हूँ। अनेक वर्षों तक तुमने आदरपूर्वक मेरी सेवा की है। अब मैं वृद्ध हूँ। हे राजन्, तुम्हें मुझे अनुमति देनी चाहिए।
52वैशम्पायन ने कहा — धर्मात्मा राजा युधिष्ठिर से ये वचन कहकर अम्बिकापुत्र राजा धृतराष्ट्र ने सारा समय काँपते हुए और हाथ जोड़े हुए महान् सञ्जय तथा महारथी कृप से आगे ये वचन कहे — "मैं आपके द्वारा राजा से याचना करना चाहता हूँ।
53वृद्धावस्था की दुर्बलता और बोलने के परिश्रम से मेरा मन शिथिल हो गया है, मेरा मुख सूख गया है।"
54यह कहकर कुरुवंश के वे परिपालक, अर्थात् समृद्धि से युक्त वे पवित्र वृद्ध राजा, गान्धारी पर टिक गए और सहसा मृत के समान दिखाई देने लगे।
55उन्हें इस प्रकार चेतनाशून्य होकर बैठा देखकर शत्रुवीरों के विनाशक कुन्ती के राजपुत्र तीव्र शोक से बिंध गए।
56युधिष्ठिर ने कहा — हाय, जिनका बल एक लाख हाथियों के समान था, हाय, वे राजा आज एक स्त्री के सहारे बैठे हैं।
57हाय, जिन्होंने पूर्व में भीम की लौह-प्रतिमा को चूर-चूर कर डाला था, वे आज एक दुर्बल स्त्री के सहारे टिके हैं।
58धिक्कार है मुझ अत्यन्त अधर्मी को। धिक्कार है मेरी बुद्धि को। धिक्कार है शास्त्रों के मेरे ज्ञान को। धिक्कार है मुझे, जिसके कारण आज ये राजा ऐसी दशा में पड़े हैं जो उनके योग्य नहीं है।
59मैं भी अपने गुरु के समान ही उपवास करूँगा। सचमुच, यदि ये राजा और महायशस्विनी गान्धारी आहार से विरत रहेंगे तो मैं भी उपवास करूँगा।
60वैशम्पायन ने कहा — समस्त धर्मों के ज्ञाता उन पाण्डवराज ने तब अपने ही हाथ से शीतल जल द्वारा उन वृद्ध राजा की छाती और मुख को धीरे-धीरे सहलाया।
61राजा के उस हाथ के स्पर्श से, जो मङ्गलमय और सुगन्धित था और जिस पर रत्न तथा औषधियाँ थीं, धृतराष्ट्र को चेतना लौट आई।
62धृतराष्ट्र ने कहा — हे पाण्डुपुत्र, तुम मुझे अपने हाथ से फिर छुओ, और मेरा आलिङ्गन करो। हे कमलदल के समान नेत्रों वाले, तुम्हारे हाथ के मङ्गलमय स्पर्श से मेरी चेतना लौट आई है।
63हे राजन्, मैं तुम्हारा मस्तक सूँघना चाहता हूँ। तुम्हारी भुजाओं का आलिङ्गन मुझे अत्यन्त सुखकर लगता है।
64यह दिन का आठवाँ भाग है और इसलिए मेरे भोजन का समय है। हे कुरुवंशी, भोजन न करने के कारण मैं इतना दुर्बल हो गया हूँ कि हिल भी नहीं सकता।
65तुमसे याचना करते समय मुझे बड़ा परिश्रम करना पड़ा। हे पुत्र, उससे उदास होकर मैं मूर्च्छित हो गया था।
66हे कुरुवंश के परिपालक, मैं समझता हूँ कि तुम्हारे हाथ का स्पर्श पाकर, जो अपने जीवनदायी प्रभाव में अमृत के समान है, मेरी चेतना लौट आई है।
67हे भरत, अपने पिता के ज्येष्ठ भ्राता द्वारा इस प्रकार कहे जाने पर कुन्तीपुत्र ने स्नेह से उनके शरीर के प्रत्येक अङ्ग को कोमलता से स्पर्श किया।
68प्राण लौट आने पर राजा धृतराष्ट्र ने अपनी भुजाओं से पाण्डुपुत्र का आलिङ्गन किया और उनका मस्तक सूँघा।
69विदुर तथा अन्य लोग महान् शोक से फूट-फूटकर रोए। किन्तु अपने शोक की तीव्रता के कारण उन्होंने न वृद्ध राजा से कुछ कहा और न पाण्डुपुत्र से।
70हे राजन्, समस्त धर्मों की ज्ञाता गान्धारी ने अपना शोक धैर्यपूर्वक सहा, और यद्यपि उनका हृदय भारी था, तथापि उन्होंने कुछ नहीं कहा।
71कुन्ती सहित अन्य स्त्रियाँ अत्यन्त पीड़ित हो उठीं। वे प्रचुर आँसू बहाती हुई रोईं और उन वृद्ध राजा को घेरकर बैठ गईं।
72तब धृतराष्ट्र ने एक बार फिर युधिष्ठिर को सम्बोधित करके ये वचन कहे — हे राजन्, तुम मुझे तपस्या करने की अनुमति दो।
73हे पुत्र, बार-बार बोलने से मेरा मन दुर्बल हो जाता है। हे पुत्र, इसके पश्चात् तुम्हें मुझे और पीड़ा नहीं देनी चाहिए।
74जब वे कुरुवंशश्रेष्ठ युधिष्ठिर से ऐसा कह रहे थे, तब वहाँ उपस्थित समस्त योद्धाओं से एक महान् विलाप का शब्द उठा।
75महातेजस्वी अपने राजपिता को कृश और पीला, अपने योग्य न रहने वाली दशा को प्राप्त, उपवासों से क्षीण, और चमड़े से ढँके कङ्काल के समान दिखाई देते हुए देखकर धर्मपुत्र युधिष्ठिर ने शोक के आँसू बहाए और एक बार फिर ये वचन कहे।
76हे नरश्रेष्ठ, मैं न जीवन चाहता हूँ और न पृथ्वी! हे शत्रुतापन, मैं अपने को आपको प्रिय लगने वाला कार्य करने में ही लगाऊँगा।
77यदि मैं आपकी कृपा के योग्य हूँ, यदि मैं आपको प्रिय हूँ, तो आप कुछ भोजन कीजिए। तब मैं जानूँगा कि मुझे क्या करना है।
78तब महातेजस्वी धृतराष्ट्र ने युधिष्ठिर से कहा — "हे पुत्र, मैं तुम्हारी अनुमति से कुछ भोजन करना चाहता हूँ।"
79जब धृतराष्ट्र ने युधिष्ठिर से ये वचन कहे, तब सत्यवतीपुत्र व्यास वहाँ आए और इस प्रकार कहा।
नेपाली
1कुरुराज्यमा बस्ने मानिसहरूले राजा युधिष्ठिर र दुर्योधनका पिताबीच जुन सौहार्द थियो त्यसमा कुनै फरक देख्न सक्दैनथे।
2जब कुरुराजलाई आफ्नो दुष्ट छोराको सम्झना हुन्थ्यो, तब उनी मनमनै भीमप्रति अमैत्रीपूर्ण भाव अनुभव नगरी रहन सक्दैनथे।
3हे राजन्, भीमसेन पनि दुष्ट हृदयले प्रेरित भई राजा धृतराष्ट्रलाई सहन सक्दैनथे।
4वृकोदरले गुप्त रूपमा अनेक यस्ता कार्य गरे जो ती वृद्ध राजालाई अप्रिय थिए। छली सेवकहरूद्वारा उनी आफ्ना ठूलाबुबाका आज्ञाको उल्लङ्घन गराउँथे।
5ती वृद्ध राजाको कुमन्त्रणा र उनका केही कर्मको सम्झना गरेर एक दिन भीमले आफ्ना मित्रहरूका बीच, धृतराष्ट्र र गान्धारीले सुन्ने गरी, आफ्ना काखी ठोके। आफ्ना शत्रु दुर्योधन, कर्ण र दुःशासनको सम्झना गरेर क्रुद्ध वृकोदर आवेशको वशमा परी यी कठोर वचन बोले — "विविध प्रकारका अस्त्रले युद्ध गर्न समर्थ त्यस अन्धा राजाका छोराहरू मेरा यी पाखुराले, जो फलामका दुई मुँग्राजस्तै छन्, परलोक पठाइएका छन्।
6साँच्चै, यी मेरा तिनै दुई पाखुरा हुन्, जो फलामका गदाजस्ता देखिन्छन् र शत्रुहरूका लागि अजेय छन्, जसको पकडमा परेर धृतराष्ट्रका सबै छोरा मारिएका छन्।
7यी मेरा तिनै सुविकसित र गोला पाखुरा हुन्, जो हात्तीका दुई सुँडजस्ता छन्। यिनको पकडमा परेर धृतराष्ट्रका मूर्ख छोराहरू सबै मारिएका छन्।
8चन्दनले लिप्त र त्यस अलङ्करणका योग्य छन् मेरा ती दुई पाखुरा, जसद्वारा दुर्योधनलाई आफ्ना सम्पूर्ण छोरा र बन्धुजनसहित परलोक पठाइएको छ।"
9हे राजन्, वृकोदरका यी र यस्ता अनेक वचन सुनेर, जो अनेक बाणजस्ता थिए, राजा धृतराष्ट्र उदासी र शोकको वशमा परे।
10तर सम्पूर्ण धर्मकी ज्ञाता र महाबुद्धिमती रानी गान्धारीले, जो जान्दथिन् कि कालले आफ्नो प्रवाहमा के ल्याउँछ, ती वचनलाई असत्य ठानिन्।
11हे सम्राट्, त्यसपछि जब पन्ध्र वर्ष बिते, तब भीमका वचनरूपी बाणले (निरन्तर) पीडित राजा धृतराष्ट्र निराशा र शोकले ग्रस्त भए।
12तर कुन्तीपुत्र राजा युधिष्ठिरलाई यसको ज्ञान थिएन; न श्वेत अश्व भएका अर्जुनलाई; न कुन्तीलाई; न महायशस्विनी द्रौपदीलाई; र न सम्पूर्ण धर्मका ज्ञाता माद्रीका ती जुम्ल्याहा छोराहरूलाई, जो सधैँ धृतराष्ट्रको इच्छाअनुसार आचरण गर्नमा लागिरहन्थे।
13राजाका आज्ञाको पालन गर्नमा लागेका ती जुम्ल्याहा भाइहरूले कहिल्यै यस्तो केही भन्दैनथे जो ती वृद्ध राजालाई अप्रिय होस्। तब एक दिन धृतराष्ट्रले आफ्ना मित्रहरूलाई आफ्नो विश्वासले सम्मानित गरे। अश्रुपूर्ण नेत्रले उनीहरूलाई सम्बोधन गर्दै उनले यी वचन भने।
14धृतराष्ट्रले भने — तपाईंहरूलाई थाहा छ कुरुहरूको विनाश कसरी भयो। त्यो सबै मेरै दोषबाट भयो, यद्यपि कौरवहरूले मेरा सम्पूर्ण मन्त्रणाको अनुमोदन गरेका थिए।
15मूर्ख मैले बन्धुजनहरूको भय बढाउने त्यस दुर्बुद्धि दुर्योधनलाई कुरुहरूमाथि शासन गर्न स्थापित गरेँ।
16वासुदेवले मलाई भनेका थिए — "यस दुर्बुद्धि पापीलाई उसका सम्पूर्ण मित्र र मन्त्रीसहित मारियोस्।" मैले ती महत्त्वपूर्ण वचन सुनिनँ। सम्पूर्ण बुद्धिमान् पुरुषले मलाई त्यही हितकर सल्लाह दिए। विदुर, भीष्म, द्रोण र कृपले पनि त्यही भने। पवित्र र महान् व्यासले बारम्बार त्यही भने, र सञ्जय तथा गान्धारीले पनि। तर पुत्रस्नेहले अभिभूत भई म त्यस सल्लाहको पालन गर्न सकिनँ। आफ्नो त्यस उपेक्षाका लागि अब मलाई तीव्र पश्चात्ताप नै मिलेको छ।
17मलाई यो कुराको पनि पश्चात्ताप छ कि मैले पिता-पितामहबाट प्राप्त त्यस देदीप्यमान समृद्धिलाई सम्पूर्ण गुणले सम्पन्न महान् पाण्डवहरूलाई सुम्पिनँ।
18गदका जेठा दाजु (बलराम)ले सम्पूर्ण राजाहरूको विनाश पहिल्यै देखिसकेका थिए; तर जनार्दनले त्यस विनाशलाई अत्यन्त हितकर ठाने।
19मेरा कति नै सेनाको विनाश भयो! हाय, यी सबै परिणामका कारण मेरो हृदय हजारौँ बाणले घोचिएको छ।
20दुर्बुद्धि जो म छु, अब पन्ध्र वर्ष बितेपछि म आफ्ना पापको प्रायश्चित्त गर्ने प्रयत्न गरिरहेको छु।
21अब म दिनको चौथो भागमा, अथवा कहिलेकाहीँ आठौँ भागमा, व्रतको नियमितताले थोरै भोजन गर्छु, केवल आफ्नो तिर्खा शान्त पार्न। गान्धारीलाई यो थाहा छ।
22मेरा सम्पूर्ण सेवकले यही ठान्छन् कि म पहिलेझैँ भोजन गर्छु। केवल युधिष्ठिरको भयले मैले आफ्ना कर्म लुकाएँ, किनभने यदि पाण्डुका जेठा छोरालाई मेरो व्रतको थाहा हुन्थ्यो भने उनलाई ठूलो पीडा हुन्थ्यो।
23मृगचर्म लगाएर म थोरै कुश बिछ्याएर पृथ्वीमा सुत्छु, र मौन जपमा समय बिताउँछु। यशस्विनी गान्धारीले पनि त्यस्तै व्रतको पालनमा समय बिताउँछिन्।
24हामी दुवैले यस्तै गर्छौं — हामी, जसका सय छोरा मारिए र जसमध्ये कोही पनि युद्धबाट पछि हटेन। तर म आफ्ना ती सन्तानका लागि शोक गर्दिनँ। तिनीहरू सबै क्षत्रियधर्मको पालन गर्दै मरेका हुन्।
25यी वचन भनेर ती वृद्ध राजाले त्यसपछि विशेष रूपमा युधिष्ठिरलाई सम्बोधन गर्दै भने — "हे यदुवंशी राजकुमारीका छोरा, तिम्रो कल्याण होस्! अब म जे भन्छु त्यो सुन।
26हे छोरा, तिमीद्वारा पालित भई मैले यी वर्ष अत्यन्त सुखपूर्वक बिताएको छु। मैले (तिम्रो सहायताले) ठूला-ठूला दान गरेको छु र बारम्बार श्राद्ध गरेको छु।
27हे छोरा, मैले आफ्नो सामर्थ्यभर धेरै पुण्य आर्जन गरेको छु। यी गान्धारी, यद्यपि पुत्रहीन छिन्, तापनि सारा समय मतिर हेर्दै महान् धैर्यसहित बाँचिरहेकी छिन्।
28जसले द्रौपदीमाथि घोर अन्याय गरे र तिमीबाट तिम्रो वैभव खोसे, ती क्रूर पुरुषहरू — तिनीहरू सबै आफ्नो वर्णको रीतिअनुसार युद्धमा मारिएर संसारबाट गइसकेका छन्।
29हे कुरुनन्दन, मैले तिनीहरूका लागि केही गर्नु छैन! युद्धतिर मुख फर्काएर मारिएकाले तिनीहरूले ती लोक प्राप्त गरिसकेका छन् जो शस्त्रधारीहरूका लागि सुरक्षित छन्।
30अब मैले त्यही गर्नुपर्छ जो मेरा लागि तथा गान्धारीका लागि हितकर र पुण्यकारी होस्। हे महाराज, तिमीले मलाई अनुमति दिनुपर्छ।
31तिमी सम्पूर्ण धर्मात्मा पुरुषहरूमा श्रेष्ठ छौ। तिमी सधैँ धर्ममा तत्पर रहन्छौ। राजा सम्पूर्ण प्राणीको गुरु हुन्छ। त्यसैले म यसो भन्छु।
32हे वीर, हे राजन्, तिम्रो अनुमतिले म यिनै गान्धारीसहित चीर र वल्कल लगाएर वनमा जानेछु।
33म वनमा बस्नेछु र सधैँ तिमीलाई आशीर्वाद दिइरहनेछु। हे छोरा, हाम्रो कुलका सदस्यहरूका लागि यही उचित छ कि वृद्धावस्था आएपछि तिनीहरूले सन्तानलाई राज्य सुम्पेर वानप्रस्थ जीवन बिताऊन्। त्यहाँ केवल वायुमा जीवित रहँदै, अथवा सम्पूर्ण आहार त्यागेर, हे वीर, म आफ्नी यस पत्नीसँग कठोर तपस्या गर्नेछु।
34हे छोरा, तिमी त्यस तपस्याका भागी हुनेछौ, किनभने तिमी राजा हौ। राजाहरू आफ्नो राज्यमा गरिएका शुभ र अशुभ — दुवै कर्मका भागी हुन्छन्।
35युधिष्ठिरले भने — हे राजन्, जब तपाईं यसरी शोकले ग्रस्त हुनुहुन्छ, तब राज्य मलाई तनिक पनि प्रिय लाग्दैन। धिक्कार छ मजस्तो दुर्बुद्धिलाई, जो आफ्नै सुखमा लिप्त रह्यो र आफ्ना वास्तविक कर्तव्यप्रति पूर्णतः उदासीन रह्यो।
36हाय, म आफ्ना सम्पूर्ण भाइसहित यो जान्न सकिनँ कि तपाईं यति समयदेखि शोकले पीडित, उपवासले कृश, आहारबाट विरत र नाङ्गो भुइँमा सुतिरहनुभएको छ।
37हाय, मूर्ख जो म छु, महाबुद्धिमान् तपाईंबाट म ठगिएको छु, किनभने पहिले मलाई विश्वासले भरेर पछि तपाईंले यस्तो शोक भोग्नुभयो।
38हे राजन्, जब तपाईंले यति कष्ट भोग्नुभएको छ, तब मलाई राज्य वा भोग्य वस्तुसँग के प्रयोजन, यज्ञ वा सुखसँग के प्रयोजन?
39म आफ्नो राज्यलाई एउटा रोग ठान्छु, र आफूलाई पनि पीडित। यद्यपि म शोकमा डुबेको छु, तापनि तपाईंलाई भनिँदै गरेका यी वचनबाट के लाभ?
40तपाईं हाम्रा पिता हुनुहुन्छ, तपाईं हाम्री माता हुनुहुन्छ; तपाईं हाम्रा गुरुजनहरूमा श्रेष्ठ हुनुहुन्छ। तपाईंको उपस्थितिबाट वञ्चित भई हामी कसरी बाँच्नेछौँ?
41हे राजाहरूमा श्रेष्ठ, तपाईंका आफ्नै औरस छोरा युयुत्सुलाई राजा बनाइयोस्, अथवा जसलाई पनि तपाईं चाहनुहुन्छ उसलाई।
42म वनमा जानेछु। तपाईंले राज्य गर्नुहोस्। जो पहिल्यैदेखि अपयशले जलिरहेको छ, त्यस मलाई तपाईंले अझ नजलाउनुहोस्।
43म राजा होइन। राजा तपाईं हुनुहुन्छ। म तपाईंको इच्छामा निर्भर छु। तपाईं जो मेरा गुरु हुनुहुन्छ, तपाईंलाई म अनुमति दिने साहस कसरी गर्न सक्छु?
44हे निष्पाप, सुयोधनले हामीसँग गरेका अन्यायका कारण म आफ्नो हृदयमा कुनै द्वेष राख्दिनँ। यस्तै हुनु विधाताले नियत गरेको थियो। हामी पनि र अरू पनि (भाग्यले) मोहित थियौँ।
45हामी तपाईंका सन्तान हौँ, जसरी दुर्योधन तथा अरू थिए। मेरो विश्वास छ कि गान्धारी त्यति नै मेरी माता हुन् जति कुन्ती।
46हे राजाधिराज, यदि तपाईं मलाई छोडेर वनमा जानुहुन्छ भने, म पनि तपाईंको पछि लाग्नेछु। म आफ्नो आत्माको शपथ लिएर भन्छु।
47समुद्ररूपी मेखलाले घेरिएको यो धनसम्पन्न पृथ्वी, तपाईंको उपस्थितिबाट वञ्चित हुँदा, मेरा लागि आनन्दको स्रोत रहनेछैन।
48यो सबै तपाईंकै हो। शिर निहुराएर म तपाईंलाई प्रणाम गर्छु। हे राजाधिराज, हामी सबै तपाईंमै निर्भर छौँ। तपाईंको हृदयको सन्ताप दूर होस्।
49हे राजन्, म बुझ्छु कि तपाईंमाथि जे परेको छ त्यो सबै भाग्यका कारण हो। मैले सोचेको थिएँ कि सौभाग्यले तपाईंको सेवा गरेर र तपाईंका आज्ञा आज्ञाकारी भई पालन गरेर म तपाईंलाई तपाईंको हृदयको सन्तापबाट उबार्नेछु।
50धृतराष्ट्रले भने — हे कुरुनन्दन, हे छोरा, मेरो मन तपस्यामा स्थिर भइसकेको छ। हे बलशाली, हाम्रो कुलका लागि यही उचित छ कि म वनमा जाऊँ।
51हे छोरा, म तिम्रो संरक्षणमा लामो समय रहेको छु। अनेक वर्षसम्म तिमीले आदरपूर्वक मेरो सेवा गरेका छौ। अब म वृद्ध छु। हे राजन्, तिमीले मलाई अनुमति दिनुपर्छ।
52वैशम्पायनले भने — धर्मात्मा राजा युधिष्ठिरलाई यी वचन भनेर अम्बिकापुत्र राजा धृतराष्ट्रले सारा समय काँप्दै र हात जोडेर महान् सञ्जय तथा महारथी कृपलाई अगाडि यी वचन भने — "म तपाईंहरूद्वारा राजासँग याचना गर्न चाहन्छु।
53वृद्धावस्थाको दुर्बलता र बोल्ने परिश्रमले मेरो मन शिथिल भएको छ, मेरो मुख सुकेको छ।"
54यसो भनेर कुरुवंशका ती परिपालक, अर्थात् समृद्धिले युक्त ती पवित्र वृद्ध राजा, गान्धारीमाथि अडेस लागे र एकाएक मृतकजस्तै देखिन थाले।
55उनलाई यसरी चेतनाशून्य भई बसेको देखेर शत्रुवीरहरूका विनाशक कुन्तीका राजपुत्र तीव्र शोकले घोचिए।
56युधिष्ठिरले भने — हाय, जसको बल एक लाख हात्तीको बराबर थियो, हाय, ती राजा आज एउटी स्त्रीको सहारामा बसेका छन्।
57हाय, जसले पहिले भीमको फलामको प्रतिमालाई धुलोपिठो पारेका थिए, उनी आज एउटी दुर्बल स्त्रीको सहारामा अडेका छन्।
58धिक्कार छ म अत्यन्त अधर्मीलाई। धिक्कार छ मेरो बुद्धिलाई। धिक्कार छ शास्त्रहरूको मेरो ज्ञानलाई। धिक्कार छ मलाई, जसका कारण आज यी राजा यस्तो दशामा परेका छन् जो उनको योग्य छैन।
59म पनि आफ्ना गुरुझैँ नै उपवास गर्नेछु। साँच्चै, यदि यी राजा र महायशस्विनी गान्धारी आहारबाट विरत रहनेछन् भने म पनि उपवास गर्नेछु।
60वैशम्पायनले भने — सम्पूर्ण धर्मका ज्ञाता ती पाण्डवराजले तब आफ्नै हातले शीतल जलद्वारा ती वृद्ध राजाको छाती र मुखलाई बिस्तारै सुम्सुम्याए।
61राजाको त्यस हातको स्पर्शले, जो मङ्गलमय र सुगन्धित थियो र जसमा रत्न तथा औषधि थिए, धृतराष्ट्रलाई चेतना फर्कियो।
62धृतराष्ट्रले भने — हे पाण्डुपुत्र, तिमी मलाई आफ्नो हातले फेरि छोऊ, र मेरो अङ्गालो हाल। हे कमलदलजस्ता नेत्र भएका, तिम्रो हातको मङ्गलमय स्पर्शले मेरो चेतना फर्किएको छ।
63हे राजन्, म तिम्रो शिर सुँघ्न चाहन्छु। तिम्रा पाखुराको अङ्गालो मलाई अत्यन्त सुखकर लाग्छ।
64यो दिनको आठौँ भाग हो र त्यसैले मेरो भोजनको समय हो। हे कुरुवंशी, भोजन नगरेकाले म यति दुर्बल भएको छु कि हल्लिन पनि सक्दिनँ।
65तिमीसँग याचना गर्दा मलाई ठूलो परिश्रम गर्नुपर्यो। हे छोरा, त्यसैले उदास भई म मूर्च्छित भएको थिएँ।
66हे कुरुवंशका परिपालक, म बुझ्छु कि तिम्रो हातको स्पर्श पाएर, जो आफ्नो जीवनदायी प्रभावमा अमृतझैँ छ, मेरो चेतना फर्किएको छ।
67हे भरत, आफ्ना पिताका जेठा दाजुले यसरी भनेपछि कुन्तीपुत्रले स्नेहले उनको शरीरको प्रत्येक अङ्गलाई कोमलताले स्पर्श गरे।
68प्राण फर्किएपछि राजा धृतराष्ट्रले आफ्ना पाखुराले पाण्डुपुत्रको अङ्गालो हाले र उनको शिर सुँघे।
69विदुर तथा अन्य मानिसहरू महान् शोकले डाँको छोडेर रोए। तर आफ्नो शोकको तीव्रताका कारण तिनीहरूले न वृद्ध राजालाई केही भने न पाण्डुपुत्रलाई।
70हे राजन्, सम्पूर्ण धर्मकी ज्ञाता गान्धारीले आफ्नो शोक धैर्यपूर्वक सहिन्, र यद्यपि उनको हृदय गह्रौँ थियो, तापनि उनले केही भनिनन्।
71कुन्तीसहित अन्य स्त्रीहरू अत्यन्त पीडित भए। तिनीहरू प्रचुर आँसु बगाउँदै रोए र ती वृद्ध राजालाई घेरेर बसे।
72तब धृतराष्ट्रले एक पटक फेरि युधिष्ठिरलाई सम्बोधन गर्दै यी वचन भने — हे राजन्, तिमी मलाई तपस्या गर्ने अनुमति देऊ।
73हे छोरा, बारम्बार बोल्दा मेरो मन दुर्बल हुन्छ। हे छोरा, यसपछि तिमीले मलाई अझ पीडा दिनुहुँदैन।
74जब ती कुरुवंशश्रेष्ठले युधिष्ठिरलाई यसो भन्दै थिए, तब त्यहाँ उपस्थित सम्पूर्ण योद्धाहरूबाट एउटा महान् विलापको आवाज उठ्यो।
75महातेजस्वी आफ्ना राजपितालाई कृश र पहेँलो, आफ्नो योग्य नरहने दशामा पुगेका, उपवासले क्षीण, र छालाले ढाकिएको कङ्कालजस्तै देखिएको देखेर धर्मपुत्र युधिष्ठिरले शोकका आँसु बगाए र एक पटक फेरि यी वचन भने।
76हे नरश्रेष्ठ, म न जीवन चाहन्छु न पृथ्वी! हे शत्रुतापन, म आफूलाई तपाईंलाई प्रिय लाग्ने कार्य गर्नमै लगाउनेछु।
77यदि म तपाईंको कृपाको योग्य छु, यदि म तपाईंलाई प्रिय छु भने, तपाईंले केही भोजन गर्नुहोस्। तब म जान्नेछु कि मैले के गर्नुपर्छ।
78तब महातेजस्वी धृतराष्ट्रले युधिष्ठिरलाई भने — "हे छोरा, म तिम्रो अनुमतिले केही भोजन गर्न चाहन्छु।"
79जब धृतराष्ट्रले युधिष्ठिरलाई यी वचन भने, तब सत्यवतीपुत्र व्यास त्यहाँ आए र यसरी भने।