राजधर्मानुशासन पर्व — परशुरामद्वारा क्षत्रियहरूको संहारपछि उनीहरू पुनः कसरी बढे — युधिष्ठिरको भीष्मसँग प्रश्न
खण्ड 7 — शान्ति पर्व (1) · अध्याय 49
संस्कृत
1वासुदेव उवाच शृणु कौन्तेय रामस्य प्रभावो यो मया श्रुतः। महर्षीणां कथयतां विक्रमं तस्य जन्म च।।।।
2यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः। उद्भूता राजवंशेषु ये भूयो भारते हताः॥
3जह्रोरजस्तु तनयो बलाकाश्वस्तु तत्सुतः। कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपते।॥
4अग्र्यं तपः समातिष्ठत् सहस्राक्षसमो भुवि। पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत॥
5तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः। समर्थं पुत्रजनने स्वयमेवान्वपद्यत॥
6पुत्रत्वमगमद् राजस्तस्य लोकेश्वरेश्वरः। गाधिर्नामाभवत् पुत्रः कौशिकः पाकशासनः॥
7तस्य कन्याभवद् राजन् नाम्ना सत्यवतीप्रभो। तां गाधिर्भुगुपुत्राय सर्चीकाय ददौ प्रभुः॥
8तस्याः प्रीतः स शौचेन भार्गवः कुरुनन्दन! पुत्रार्थं अपयामास चरुं गाधेस्तथैव च॥
9आहूयोवाच तां भार्यां सर्चीको भार्गवस्तदा। उपभोज्यश्चरुरयं त्वया मात्राप्ययं तव॥
10तस्या जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः। अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः॥
11तवापि पुत्रं कल्याणि धृतिमन्तं शमात्मकम्। तपोऽन्वितं द्विजश्रेष्ठं चरुरेष विधास्यति॥
12इत्येवमुक्त्वा तां भार्यां सर्चीको भृगुनन्दनः। तपस्यभिरतः श्रीमाजगामारण्यमेव हि॥
13एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः। गाधिः सदारः सम्प्राप्तः सर्चीकस्याश्रमं प्रति॥
14चरुद्वयं गृहीत्वा च राजन् सत्यवती तदा। भर्तुर्वाक्यं तदाव्यग्रा मात्रे हृष्टा न्यवेदयत्॥
15माता तु तस्याः कौन्तेय दुहिने स्वं चकं ददौ। तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह॥
16अथ सत्यवती गर्भ क्षत्रियान्तकरं तदा। धारयामास दीप्तेन वपुषा घोरदर्शनम्॥
17तामृचीकस्तदा दृष्ट्वा तस्या गर्भगतं द्विजम्। अब्रवीद् भृगुशार्दूलः स्वां भार्यां देवरूपिणीम्॥
18भविष्यति हि ते पुत्रः क्रूरकर्मात्यमर्षणः॥ उत्पत्स्यति च ते भ्राता ब्रह्मभूतस्तपोरतः।
19विश्वं हि ब्रह्म सुमहच्चरौ तव समाहितम्॥ क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम्।
20विपर्ययेण ते भद्रे नैतदेवं भविष्यति॥ मातुस्ते ब्राह्मणो भूयात् तव च क्षत्रियः सुतः।
21सैवमुक्ता महाभागा भ; सत्यवती तदा॥ पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम्। नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः। ब्राह्मणापसदं पुत्रं प्राप्स्यसीति हि मां प्रभो॥
22ऋचीक उवाच नैष संकल्पितः कामो मया भद्रे तथा त्वयि। उग्रकर्मा समुत्पन्नश्चरुव्यत्यासहेतुना॥
23सत्यवत्युवाच इच्छल्लोकानपि मुने सृजेथाः किं पुनः सुतम्। शामात्मकमजुं पुत्रं दातुमर्हसि मे प्रभो॥
24ऋचीक उवाच नोक्तपूर्वानृतं भद्रे स्वैरेष्वपि कदाचन। किमुताग्निं समाधाय मन्त्रवच्चरुसाधने॥
25दृष्टमेतत् पुरा भद्रे ज्ञातं च तपसा मया। ब्रह्मभूतं हि सकलं पितुस्तव कुलं भवेत्॥
26सत्यवत्युवाच काममेवं भवेत् पौत्रो ममेह तव च प्रभो। शमात्मकमहं पुत्रं लभेयं जपतां वर॥
27ऋचीक उवाच पुत्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि। यथा त्वयोक्तं वचनं तथा भद्रे भविष्यति॥
28वासुदेव उवाच ततः सत्यवती पुत्रं जनयामास भार्गवम्। तपस्यभिरतं शान्तं जमदग्निं यतव्रतम्॥
29विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः। यः प्राप ब्रह्मसमितं विश्वैर्ब्रह्मगुणैर्युतम्॥
30ऋचीको जनयामास जमदग्निं तपोनिधिम्। सोऽपि पुत्रं ह्यजनयज्जमदग्निः सुदारुणम्॥
31सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्। रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम्॥
32तोषयित्वा महादेवं पर्वते गन्धमादने। अस्त्राणि वरयामास परशुं चातितेजसम्॥
33स तेनाकुण्ठधारेण ज्वलितानलवर्चसा। कुठारेणाप्रमेयेण लोकेष्वप्रतिमोऽभवत्॥
34एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली। अर्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः॥ दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान्। चक्रवर्ती महातेजा विप्राणामाश्वमेधिके॥ ददौ स पृथिवीं सर्वां सप्तद्वीपां सपर्वताम्। स्वबाह्वस्त्रबलेनाजौ जित्वा परमधर्मवित्॥
35तृषितेन च कौन्तेय भिक्षितश्चित्रभानुना। सहस्रबाहुर्विक्रान्तः प्रादाद् भिक्षामथाग्नये॥
36ग्रामान् पुराणि राष्ट्राणि घोषांश्चैव तु वीर्यवान्। जज्वाल तस्य बाणाग्राच्चित्रभानुर्दिधक्षया।॥
37स तस्य पुरुषेन्द्रस्य प्रभावेण महौजसः। ददाह कार्तवीर्यस्य शैलानथ वनस्पतीन्॥
38स शून्यमाश्रमं रम्यमापवस्य महात्मनः। ददाह पवनेनेद्धश्चित्रभानुः सहैहयः॥
39आपवस्तु ततो रोषाच्छशापार्जुनमच्युत। दग्धेऽऽश्रमे महाबाहो कार्तवीर्येण वीर्यवान्॥ त्वया न वर्जितं यस्मान्नमेदं हि महद् वनम्। दग्धं तस्माद् रणे रामो बाहूंस्ते छेत्स्यतेऽर्जुन॥
40अर्जुनस्तु महातेजा बली नित्यं शमात्मकः। ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत॥ नाचिन्तयत् तदा शापं तेन दत्तं महात्मना। तस्य पुत्रास्तु बलिनः शापेनासन् पितुर्वर्धे॥ निमित्तादवलिप्ता वै नृशंसाश्चैव सर्वदा। जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ॥ अज्ञातं कार्तवीर्येण हैहेयेन्द्रेण धीमता। तनिमित्तमभूद् युद्धं जामदग्नेर्महात्मनः॥
41ततोऽर्जुनस्य बाहूंस्तांश्छित्त्वा रामो रुषान्वितः। तं भ्रमन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम्॥ प्रत्यानयत राजेन्द्र तेषामन्तःपुरात् प्रभुः।
42अर्जुनस्य सुतास्ते तु सम्भूयाबुद्धयस्तदा॥ गत्वाऽऽश्रममसम्बुद्धा जमदग्नेर्महात्मनः। अपातयन्त भल्लाप्रैः शिरः कायान्नराधिप।॥ समित्कुशार्थं रामस्य निर्यातस्य यशस्विनः।
43ततः पितृवधामर्षाद् रामः परममन्युमान्॥ निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्वत।
44ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान्॥ विक्रम्य निजघानाशु पुत्रान् पौत्रांश्च सर्वशः।
45स हैहयसहस्राणि हत्वा परममन्युमान्॥ चकार भार्गवो राजन् महीं शोणितकर्दमाम्।
46स तथाऽऽशु महातेजाः कृत्वा निःक्षत्रियां महीम्।।५४। कृपया परयाऽऽविष्टो वनमेव जगाम ह।
47ततो वर्षसहस्रेषु समतीतेषु केषुचित्॥ क्षेपं सम्प्राप्तवांस्तत्र प्रकृत्या कोपन: प्रभुः।
48विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः।। परावसुर्महाराज क्षिप्त्वाऽऽह जनसंसदि। ये ते ययातिपतने यज्ञे सन्तः समागताः॥ प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते।
49मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि॥ भयात् क्षत्रियवीराणां पर्वतं समुपाश्रितः।
50सा पुनः क्षत्रियशतैः पृथिवी सर्वतः स्तृता॥ परावसोर्वचः श्रुत्वा शस्त्रं जग्राह भार्गवः।
51ततो ये क्षत्रिया राजन् शतशस्तेन वर्जिताः॥ ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन्।
52स पुनस्ताञ्जघानाशु बालानपि नराधिप॥ गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत् तदा।
53जातं जातं स गर्भं तु पुनरेव जघान ह॥ अरक्षंश्च सुतान् कांश्चित् तदा क्षत्रिययोषितः।
54त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः॥ दक्षिणामश्वमेधान्ते कश्यपायाददत् ततः।
55स क्षत्रियाणां शेषार्थं करेणोद्दिश्य कश्यपः॥ स्रुक्प्रग्रहवता राजंस्ततो वाक्यमथाब्रवीत्। गच्छ तीरं समुद्रस्य दक्षिणस्य महामुने॥ न ते मद् विषये राम वस्तव्यमिह कर्हिचित्।
56ततः शूर्पारकं देशं सागरस्तस्य निर्ममे॥ सहसा जामदग्न्यस्य सोऽपरान्तमहीतलम्।
57कश्यपस्तां महाराज प्रतिगृह्य वसुन्धराम्॥ कृत्वा ब्राह्मणसंस्थां वै प्रविष्टः सुमहद् वनम्।
58ततः शूद्राश्च वैश्याश्च यथा स्वैरप्रचारिणः॥ अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ।
59अराजके जीवलोके दुर्बला बलवत्तरैः॥ पीड्यन्ते न हि विप्रेषु प्रभुत्वं कस्यचित् तदा।
60ततः कालेन पृथिवी पीड्यमाना दुरात्मभिः॥ विपर्ययेण तेनाशु प्रविवेश रसातलम्। अरक्ष्यमाणा विधिवत् क्षत्रियैर्धर्मरक्षिभिः॥
61तां दृष्ट्वा द्रवतीं तत्र संत्रासात् स महामनाः। ऊरुणा धारयामास कश्यपः पृथिवीं ततः॥ धृता तेनोरुणा येन तेनोर्वाति मही स्मृता।
62रक्षणार्थं समुद्दिश्य ययाचे पृथिवी तदा॥ प्रसाद्य कश्यपं देवी वरयामास भूमिपम्।
63पृथिव्युवाच सन्ति ब्रह्मन् मया गुप्ताः स्त्रीषु क्षत्रियपुङ्गवाः॥ हैहयानां कुले जातास्ते संरक्षन्तु मां मुने।
64अस्ति पौरवदायादो विदूरथसुतः प्रभो॥ ऋक्षैः संवर्धितो विप्र ऋक्षवत्यथ पर्वते।
65तथानुकम्पमानेन यज्वनाथामितौजसा॥ पराशरेण दायादः सौदासस्याभिरक्षितः।
66सर्वकर्माणि कुरुते शूद्रवत् तस्य स द्विजः॥ सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः।
67शिबिपुत्रो महातेजा गोपतिर्नाम नामतः॥ वने संवर्धितो गोभिः सोऽभिरक्षतु मां मुने।
68प्रतर्दनस्य पुत्रस्तु वत्सो नाम महाबलः॥ वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः।
69दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य च॥ गुप्तः स गौतमेनासीद् गङ्गाकूलेऽभिरक्षितः।
70बृहद्रथो महातेजा भूरिभूतिपरिष्कृतः॥ गोलाङ्गलैर्महाभागो गृध्रकूटेऽभिरक्षितः।
71मरुत्तस्यान्ववाये च रक्षिता: क्षत्रियात्मजाः॥ मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः।
72एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः॥ धोकारहेमकारादिजातिं नित्यं समाश्रिताः। यदि मामभिरक्षन्ति ततः स्थास्यामि निश्चला॥
73एतेषां पितरश्चैव तथैव च पितामहाः। मदर्थं निहता युद्धे रामेणाक्लिश्कर्मणा॥ तेषामपचितिश्चैव मया कार्या महामुने।
74न ह्यहं कामये नित्यमतिक्रान्तेन रक्षणम्। वर्तमानेन वर्तेयं तत् क्षिप्रं संविधीयताम्॥
75वासुदेव उवाच ततः पृथिव्या निर्दिशंस्तान् समानीय कश्यपः। अभ्यषिञ्चन्महीपालान् क्षत्रियान् वीर्यसम्मतान्॥
76तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः। एवमेतत् पुरावृत्तं यन्मां पृच्छसि पाण्डव॥
77वैशम्पायन उवाच एवं ब्रुवंस्तं च यदुप्रवीरो युधिष्ठिरं धर्मभृतां वरिष्ठम्। रथेन तेनाशु ययौ महात्मा दिशः प्रकाशम्भगवानिवार्कः॥
अङ्ग्रेजी
1Vasudeva said Listen, O son of Kunti, to the story of Rama's energy and powers and birth as I heard from great Rishis discoursing upon the subject.
2Listen to the story of how millions of Kshatriyas were killed by Jamadagni's son and how those that were born again in the various royal houses in Bharata were again killed.
3Jahnu had a son named Rajas. Rajas had a son named Balakashva. King Balakashva had a pious son named Kushika.
4Resembling the thousand-eyed Indra on Earth, Kushika, practised the austerest of penances from desire of getting the lord of the three worlds for a son.
5Seeing him engaged in the hardest of penances and capable of begetting a son, the thousand-eyed Purandara himself inspired the king with his energy.
6The great lord of the three worlds, viz., the chastiser of Paka, o king, then became Kushika's son known by the name of Gadhi.
7Gadhi had a daughter, O king, by the name of Satyavati. The powerful Gadhi married her to Richika a descendant of Bhrigu.
8Her husband of Bhrigu's race, O delighter of the Kurus, became highly pleased with her for the purity of her conduct. He cooked charu the sacrificial food of milk and rice for giving to Gandhi a son.
9Calling his wife, Richika of Bhrigu's race, said,This portion of the sanctified food should be taken by you, and this (the other) portion by your mother.
10An energetic son will be born of her who will be the foremost of the Kshatriyas, Invincible by Kshatriyas on Earth, he will be the destroyer of the foremost of Kshatriyas.
11As regards you, O blessed lady, this portion of the food will give you a son of great wisdom, a personification of tranquillity, endued with ascetic penances, and the foremost of Brahmanas.
12Having said these words to his wife, the blessed Richika of Bhrigu's race, setting his heart on penances, entered into the woods.
13About this time, king Gandhi, making a pilgrimage to the sacred waters, arrived with his queen at the hermitage of Richika.
14O king, thereupon taking the two portions of the sanctified food, Satyavati cheerfully and quickly, represented the words of her husband to her inother.
15The queen-mother, O son of Kunti, gave the portion reserved for herself to her daughter, and herself took unwittingly the portion intended for the latter.
16Thereupon Satyavati, her body blazing with lustre, conceived a child of dreadful form intended to become the exterminator of the Kshatriyas.
17Seeing the Brahmana child lying within her womb, that foremost of the Bhrigus said to his wife of heavenly beauty these wordsमात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना।
18You have been imposed upon by your mother, O blessed lady, by the substitution of the sanctified food. Your son will become a man of cruel deeds and vindictive heart. Your brother again (born of your mother) will be Brahmana ever devoted to ascetic penances.
19The seed of the supreme and universal Brahma had been placed into the sanctified food intended for you, while into that intended for your mother had been placed the sum-total of Kshatriya energy.
20On account of the substitution of the two parts, O blessed lady, that which had been intended will not happen. Your mother will got a Brahmana child while you will get a son that will become a Kshatriya.
21Thus addressed by her husband the highly blessed Satyavati bent down her head to his feet and tremblingly said,-You should not, O holy one, speak such words to me, viz.,-You will obtain a wretch among Brahmanas for your son.
22Richika said This was not intended by me, o blessed lady, for you. A son of terrific deeds has been conceived by you for the substitution of the sanctified food.
23If you wish, O sage, you can create other worlds, what shall I say of a child? You should, O powerful one, give me a son who will be pious and peaceful.
24Richika said 'I had never uttered even in jest, O blessed lady, an untruth. What need then be said of a time for preparing sanctified food with the help of Vedic formulae after lighting a fire?
25It was ordained of yore by destiny, O lovely damsel. I have known it all by my penances. All the descendants of your father will be endued with Brahmanic virtues.
26O powerful one, let our grandson be such, but, O foremost of ascetics, let me have a quiet son.
27Richika said O fair lady, I see no distinction, between a son and a grandson. It will be, O lovely lady, as you say.
28Vasudeva said, Then Satyavati gave birth to a son in Bhrigu's race who was devoted to penances and peaceful occupations, viz., Jamadagni of regulated vows.
29Kaushika's son Gadhi begot a son named Vishvamitra. Possessed of every attribute of a Brahmana, that son though a Kshatriya by birth was equal to a Brahmana.
30Richika (thus) beget Jamadagni, that sea of penances. Jamadagni begot a son of dreadful deeds.
31The foremost of men, that son mastered all the sciences, including that of arms. Like a burning fire, that son was Rama, the exterminator of the Kshatriyas.
32Having satisfied Mahadeva the mountains of Gandhamadana, he begged from that deity for weapons, especially the axe of fierce power in his hands.
33For that peerless axe of fiery splendour and irresistible sharpness, he became unequalled on Earth.
34Meanwhile the powerful son of Kritavirya, the king of the Haihayas, endued with great power, highly pious, and possessed of a on thousand arms through the favour of the great Rishi) Dattatreya, having conquered in battle, by the strength of his own arms, the entire Earth with her mountains and seven islands, became a very powerful sovereign and (at iast) gave away the Earth to the Brahmanas in a house-sacrifice.
35Once begged by the thirsty god of fire, O son of Kunti, the thousand-armed king of great prowess gave alms to that deity.
36Originating from the point of his arrow, the highly powerful god of fire, desirous of consuming (what was offered) burnt villages and towns and kingdoms and hamlets of cowherds.
37Through the prowess of that foremost of inen, viz., the powerful Kartavirya, the god of fire consumed mountains and great forests.
38Helped by the king of the Haihayas the god of fire, increased more by the wind, consumed the uninhabited but the charming hermitage of the high-souled Apava.
39O mighty-armed king, seeing his hermitage consumed by the powerful Kshatriya, the highly energetic Apava cursed that monarch in anger, saying,-Since, O Arjuna, without reserving these my woods, you have burnt them, therefore, Rama (of Bhrigu's race), will cut your thousand arins.
40The powerful Arjuna, however, of great prowess, always devoted to peace, ever obedient to Brahmanas and ready to protect all classes, and charitable brave, O Bharata, did not think of that curse imprecated on him by that great Rishi. His powerful sons, always proud and cruel, on account of that curse, became the indirect cause of his death. The princes, O foremost of Bharata's race, caught and brought away the calf of Jamadagani's Homa COW, against the knowledge of Kartavirya the king of the Haihayas. For this reason a dispute took place between the great Jamadagni and the Haihayas.
41The powerful Rama, the son of Jamadagni, filled with anger cut off the arms of Arjuna and brought back, O king, his father's calf which was grazing within the inner appointment of the king's mansion.
42Then the foolish sons of Arjuna, going in a body to the hermitage of the great Jamadagni, cut with their lances, O king, the head of that Rishi from off his trunk while the celebrated Rama had gone out for fetching sacred fuel and grass.
43Worked up with anger at the death of his father and filled with vengeance, Rama vowed to rid the Earth of Kshatriyas and took up arms.
44Then that foremost of the Bhrigus, endued with great energy, displaying his prowess, quickly killed all the sons and grandsons of Kartavirya.
45Killing thousand of Haihayas in anger, the descendant of Bhrigu, o king, covered the Earth with blood.
46Highly energetic, he speedily freed the Earth of all Kshatriyas. Filled then with pity, he retired into the woods.
47Afterwards, after the expiry of some thousands of years, the powerful Rama, who was angry by nature, was accused of cowardice.
48The grandson of Vishvamitra and son of Raivya, possessed of great ascetic merit, named Paravasu, O king, began to accuse Rama publicly, saying,-O Rama, were not those pious men, viz., Pratardana and others, who were assembled at a sacrifice at the time of Yayati's death, Kshatriyas by birth?
49You are not truthful, O Rama! You simply brag before people. For fear of Kshatriya heroes you have betaken yourself to the mountains.
50Hearing these words of Paravashu, the descendant of Bhrigu, once more took up arms and once more covered the Earth with hundreds of Kshatriya bodies.
51Those Kshatriyas, however, king counting by hundreds, that were not killed by Rama, multiplied (in time) and became powerful monarchs on Earth.
52Rama once more killed them quickly, not sparing even the very children, O king. The Earth again was covered with the bodies of Kshatriya children of premature birth.
53As soon as Kshatriya children were born, Rama killed them. Some Kshatriya ladies, however, succeeded in hiding their children from Rama.
54Having made the Earth shorn of Kshatriyas for twenty-one times, the powerful Bhargava, at the completion of a horse-sacrifice, gave away the Earth the Earth as sacrificial present to Kashyapa.
55For preserving the residence of the Kshatriyas, Kashyapa, O king, pointing with his hand that still held the sacrificial ladle, said these words,-Ogreat sage, go to the shores of the southern ocean. You should not, O Rama, live within my kingdom.
56At these words, Ocean all on a sudden made for Jamadagni's son, on his other shore, a region called Surparaka.
57Kashyapa also, O king, having accepted the Earth in gift, and made a present of it to the Brahmanas, entered into woods.
58Then Shudras and Vaishyas, began wilfully to know, O foremost of Bharata's race, the wives of Brahmanas.
59When anarchy begins on Earth, the weak are oppressed by the strong, and no man is master of his own possessions.
60By the course of Time, the earth was assailed by wicked men. Unprotected duly by the virtuous Kshatriyas, and oppressed by the wicked for that disorder, the Earth quickly sank to the lowest depths.
61Seeing the Earth sinking from fear, the great Kashyapa held her on his lap; and because the great Rishi held her on his lap (uru) therefore is the Earth known by the name of Urvi.
62The goddess Earth for securing protection, pleased Kashyapa and begged of him a king.
63The Earth said-There are, O Rishi, some leading Kshatriyas concealed by me among women. They were born in the family of the Haihayas. Let them, O sage, protect me.
64There is another person of Puru's family, viz., Viduratha's son, O powerful one, who has been brought up among bears in the Rikshavat mountains.
65Another, viz., the son of Saudasa, has been protected, through pity, by the highly energetic Parashara ever engaged in sacrifices.
66Though born in the family of a twice-born one, yet like a Shudra he does everything for that Rishi and has, therefore been named servant of all work.
67Shivi's energetic son Gopati, has, been brought up in the forest among kine. Let him, O sage, protect me.
68Pratradana's highly powerful son named Vatsa has been brought up among calves in a cowpen. Let that Kshatriya protect me.
69Dadhivahana's grandson and Diviratha's son was kept hidden on the banks of Ganga by the sage Gautama.
70His name is Brihadratha. Possessed of great energy and endued with numerous accomplishments, that blessed princes has been protected by wolves and the mountains of Griddhrakuta.
71Many Kshatriyas of the race of Marutta have been protected. Equally energetic like the lord of Maruts, they have been brought up by Ocean.
72These children of the Kshatriyas have been heard of as housing in different places. They are residing with artisans and goldsmiths. If they protect me I shall then remain unmoved.
73Their fathers and grandfathers have been killed for my sake by the highly powerful Rama. It is my duty, O great sage, to see that their funeral rites are properly performed.
74I do not desire that I should be protected by my present kings. Do you, O sage, quickly make such arrangements that I may remain (as before).
75Vasudeva said are Then finding out those energetic Kshatriyas whom the goddess had named, the sage Kashyapa installed them duly as kings.
76Those Kshatriya races that are now in existence the offsprings of those princes.-What you have questioned me son of Pandu, thus took place in days of yore.
77Vaishampayana said, Conversing thus with Yudhishthira, that foremost of pious men, the great Yadava hero proceeded quickly on thai car lighting up all the quarters like the divine Sun himself.
हिन्दी
1वासुदेव ने कहा — हे कुन्तीपुत्र, राम (परशुराम) के तेज, पराक्रम और जन्म की वह कथा सुनो, जो मैंने इस विषय पर विवेचन करते हुए महर्षियों से सुनी थी।
2सुनो कि जमदग्नि के पुत्र द्वारा लाखों क्षत्रिय किस प्रकार मारे गए और भारत के विविध राजकुलों में जो पुनः उत्पन्न हुए, वे किस प्रकार फिर मारे गए।
3जह्नु के रजस् नामक पुत्र हुआ। रजस् के बालाकाश्व नामक पुत्र हुआ। राजा बालाकाश्व के कुशिक नामक धर्मात्मा पुत्र हुआ।
4पृथ्वी पर सहस्राक्ष इन्द्र के समान कुशिक ने त्रिलोकीनाथ को पुत्र रूप में पाने की इच्छा से अत्यन्त कठोर तपस्या की।
5उन्हें कठोरतम तपस्या में लगा और पुत्र उत्पन्न करने में समर्थ देखकर सहस्राक्ष पुरन्दर ने स्वयं उस राजा में अपना तेज स्थापित किया।
6हे राजन्, तब त्रिलोक के महान् स्वामी, अर्थात् पाकशासन (इन्द्र), गाधि नाम से विख्यात कुशिक के पुत्र हुए।
7हे राजन्, गाधि के सत्यवती नामक एक कन्या हुई। पराक्रमी गाधि ने उसका विवाह भृगुवंशी ऋचीक से किया।
8हे कुरुनन्दन, भृगुवंशी उनके पति उनके आचरण की पवित्रता से अत्यन्त प्रसन्न हुए। उन्होंने गाधि को पुत्र देने के लिए चरु — दूध और चावल का यज्ञीय अन्न — पकाया।
9भृगुवंशी ऋचीक ने अपनी पत्नी को बुलाकर कहा — इस संस्कारित अन्न का यह भाग तुम्हें ग्रहण करना चाहिए और यह (दूसरा) भाग तुम्हारी माता को।
10उनसे एक तेजस्वी पुत्र उत्पन्न होगा जो क्षत्रियों में श्रेष्ठ होगा; पृथ्वी पर क्षत्रियों द्वारा अजेय, वह श्रेष्ठ क्षत्रियों का संहारक होगा।
11हे कल्याणी, तुम्हारे विषय में — अन्न का यह भाग तुम्हें महान् बुद्धिमान्, शान्ति की मूर्ति, तपस्या से सम्पन्न और ब्राह्मणों में श्रेष्ठ पुत्र देगा।
12अपनी पत्नी से ये वचन कहकर भृगुवंशी भगवान् ऋचीक तपस्या में मन लगाकर वन में चले गए।
13इसी समय राजा गाधि तीर्थों की यात्रा करते हुए अपनी रानी सहित ऋचीक के आश्रम में आ पहुँचे।
14हे राजन्, तब सत्यवती ने संस्कारित अन्न के दोनों भाग लेकर प्रसन्नतापूर्वक और शीघ्र ही अपने पति के वचन अपनी माता से कह सुनाए।
15हे कुन्तीपुत्र, रानी माता ने अपने लिए नियत भाग अपनी पुत्री को दे दिया और स्वयं अनजाने में वह भाग ले लिया जो पुत्री के लिए नियत था।
16तब सत्यवती ने, जिनका शरीर तेज से देदीप्यमान हो उठा, उस भयंकर रूप वाले बालक को गर्भ में धारण किया जो क्षत्रियों का संहारक होने वाला था।
17अपने गर्भ में स्थित उस ब्राह्मण बालक को देखकर उन भृगुश्रेष्ठ ने अपनी दिव्य सौन्दर्यवती पत्नी से ये वचन कहे — "मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना।"
18हे कल्याणी, तुम्हारी माता ने संस्कारित अन्न बदलकर तुम्हें छल लिया है। तुम्हारा पुत्र क्रूरकर्मा और प्रतिशोधी हृदय वाला होगा। और तुम्हारा भाई (जो तुम्हारी माता से उत्पन्न होगा) सदा तपस्या में रत ब्राह्मण होगा।
19तुम्हारे लिए नियत संस्कारित अन्न में परम एवं विश्वव्यापी ब्रह्म का बीज रखा गया था, और तुम्हारी माता के लिए नियत अन्न में समस्त क्षत्रिय तेज का सार।
20हे कल्याणी, दोनों भागों के बदल जाने के कारण जो अभिप्रेत था वह अब नहीं होगा। तुम्हारी माता को ब्राह्मण पुत्र प्राप्त होगा और तुम्हें ऐसा पुत्र प्राप्त होगा जो क्षत्रिय होगा।
21अपने पति के इस प्रकार कहने पर परम भाग्यशालिनी सत्यवती ने उनके चरणों में सिर झुकाया और काँपते हुए कहा — हे भगवन्, आपको मुझसे ऐसे वचन नहीं कहने चाहिए कि "तुम्हें पुत्र रूप में ब्राह्मणों में अधम प्राप्त होगा।"
22ऋचीक ने कहा — हे कल्याणी, मैंने तुम्हारे लिए ऐसा अभिप्रेत नहीं किया था। संस्कारित अन्न के बदल जाने के कारण तुमने भयंकर कर्म करने वाला पुत्र गर्भ में धारण किया है।
23हे मुनि, यदि आप चाहें तो अन्य लोकों की भी सृष्टि कर सकते हैं, फिर एक बालक की क्या बात? हे शक्तिशाली, आप मुझे ऐसा पुत्र दीजिए जो धर्मात्मा और शान्त हो।
24ऋचीक ने कहा — हे कल्याणी, मैंने हँसी में भी कभी असत्य नहीं कहा। फिर उस समय की क्या बात, जब अग्नि प्रज्वलित कर वैदिक मन्त्रों से संस्कारित अन्न तैयार किया जा रहा हो?
25हे सुन्दरी, यह पहले से ही भाग्य द्वारा नियत था। मैंने अपनी तपस्या से यह सब जान लिया है। तुम्हारे पिता के समस्त वंशज ब्राह्मणोचित गुणों से युक्त होंगे।
26हे शक्तिशाली, हमारा पौत्र वैसा हो, किन्तु हे तपस्वीश्रेष्ठ, मुझे शान्त स्वभाव वाला पुत्र प्राप्त हो।
27ऋचीक ने कहा — हे सुमुखी, मुझे पुत्र और पौत्र में कोई भेद नहीं दिखता। हे सुन्दरी, जैसा तुम कहती हो वैसा ही होगा।
28वासुदेव ने कहा — तब सत्यवती ने भृगुवंश में ऐसे पुत्र को जन्म दिया जो तपस्या और शान्त कर्मों में रत था, अर्थात् नियमित व्रत वाले जमदग्नि को।
29कौशिक के पुत्र गाधि ने विश्वामित्र नामक पुत्र उत्पन्न किया। ब्राह्मण के समस्त गुणों से सम्पन्न वह पुत्र जन्म से क्षत्रिय होते हुए भी ब्राह्मण के तुल्य था।
30इस प्रकार ऋचीक ने तपस्या के सागर जमदग्नि को उत्पन्न किया। जमदग्नि ने भयंकर कर्म करने वाले पुत्र को उत्पन्न किया।
31नरश्रेष्ठ वह पुत्र अस्त्रविद्या सहित समस्त शास्त्रों में निष्णात हुआ। प्रज्वलित अग्नि के समान वह पुत्र राम (परशुराम) था, क्षत्रियों का संहारक।
32गन्धमादन पर्वत पर महादेव को प्रसन्न करके उन्होंने उस देव से अस्त्र माँगे, विशेषतः वह प्रचण्ड शक्ति वाला परशु जो उनके हाथों में रहा।
33अग्नि के समान तेजस्वी और अप्रतिहत धार वाले उस अनुपम परशु के कारण वे पृथ्वी पर अद्वितीय हो गए।
34इसी बीच कृतवीर्य के पराक्रमी पुत्र, हैहयराज, जो महान् शक्ति से सम्पन्न, परम धर्मात्मा और (महर्षि) दत्तात्रेय की कृपा से सहस्र भुजाओं वाले थे, अपनी भुजाओं के बल से युद्ध में पर्वतों और सात द्वीपों सहित समस्त पृथ्वी को जीतकर अत्यन्त पराक्रमी सम्राट् बने और (अन्ततः) एक गृहयज्ञ में उन्होंने वह पृथ्वी ब्राह्मणों को दान कर दी।
35हे कुन्तीपुत्र, एक बार तृषित अग्निदेव के माँगने पर उन महापराक्रमी सहस्रबाहु राजा ने उस देव को भिक्षा दी।
36उनके बाण की नोक से प्रकट होकर वह महाशक्तिशाली अग्निदेव, जो दिए गए (हव्य) को भस्म करना चाहता था, गाँवों, नगरों, राज्यों और गोपालों की बस्तियों को जलाने लगा।
37उन नरश्रेष्ठ, अर्थात् पराक्रमी कार्तवीर्य के प्रताप से अग्निदेव ने पर्वतों और महावनों को भस्म कर दिया।
38हैहयराज की सहायता पाकर और वायु से और अधिक बढ़कर अग्निदेव ने महात्मा आपव के उस मनोहर आश्रम को भस्म कर दिया, यद्यपि वह उस समय निर्जन था।
39हे महाबाहु राजन्, अपने आश्रम को उस पराक्रमी क्षत्रिय द्वारा भस्म हुआ देखकर परम तेजस्वी आपव ने क्रोध में उस राजा को शाप दिया और कहा — हे अर्जुन (कार्तवीर्य), चूँकि तुमने मेरे इन वनों को बिना छोड़े जला डाला है, इसलिए राम (भृगुवंशी) तुम्हारी सहस्र भुजाएँ काट डालेंगे।
40हे भरत, किन्तु महापराक्रमी अर्जुन (कार्तवीर्य), जो सदा शान्तिप्रिय, ब्राह्मणों के प्रति सदा आज्ञाकारी, समस्त वर्णों की रक्षा में तत्पर, दानशील और वीर थे, उन्होंने उस महर्षि द्वारा दिए गए उस शाप की चिन्ता नहीं की। उनके पराक्रमी पुत्र, जो सदा अभिमानी और क्रूर थे, उस शाप के कारण उनकी मृत्यु के परोक्ष कारण बने। हे भरतश्रेष्ठ, उन राजकुमारों ने हैहयराज कार्तवीर्य की जानकारी के बिना जमदग्नि की होमधेनु का बछड़ा पकड़कर हर लिया। इसी कारण महान् जमदग्नि और हैहयों के बीच विवाद उत्पन्न हुआ।
41जमदग्नि के पुत्र पराक्रमी राम ने क्रोध से भरकर अर्जुन की भुजाएँ काट डालीं और हे राजन्, अपने पिता का वह बछड़ा वापस ले आए जो राजा के महल के भीतरी भाग में चर रहा था।
42तब अर्जुन के मूर्ख पुत्रों ने समूह में महान् जमदग्नि के आश्रम में जाकर, हे राजन्, अपने भालों से उस ऋषि का सिर धड़ से काट डाला, जब यशस्वी राम पवित्र समिधा और कुश लाने के लिए बाहर गए हुए थे।
43अपने पिता की मृत्यु से क्रोध में भरकर और प्रतिशोध से आविष्ट होकर राम ने पृथ्वी को क्षत्रियों से रहित करने की प्रतिज्ञा की और शस्त्र उठा लिए।
44तब महान् तेज से सम्पन्न उन भृगुश्रेष्ठ ने अपना पराक्रम दिखाते हुए कार्तवीर्य के समस्त पुत्रों और पौत्रों का शीघ्र ही वध कर डाला।
45हे राजन्, क्रोध में सहस्रों हैहयों का वध करते हुए भृगुवंशी ने पृथ्वी को रक्त से आच्छादित कर दिया।
46परम तेजस्वी उन्होंने शीघ्र ही पृथ्वी को समस्त क्षत्रियों से रहित कर दिया। तब दया से भरकर वे वन में चले गए।
47तत्पश्चात् कुछ सहस्र वर्ष बीत जाने पर स्वभाव से ही क्रोधी उन पराक्रमी राम पर कायरता का आरोप लगाया गया।
48हे राजन्, विश्वामित्र के पौत्र और रैभ्य के पुत्र, महान् तपस्वी परावसु ने सबके सम्मुख राम पर दोषारोपण करना आरम्भ किया और कहा — हे राम, क्या वे धर्मात्मा पुरुष, अर्थात् प्रतर्दन आदि, जो ययाति की मृत्यु के समय एक यज्ञ में एकत्र हुए थे, जन्म से क्षत्रिय नहीं थे?
49हे राम, तुम सत्यवादी नहीं हो! तुम केवल लोगों के सम्मुख डींग हाँकते हो। क्षत्रिय वीरों के भय से तुमने पर्वतों का आश्रय लिया है।
50परावसु के ये वचन सुनकर भृगुवंशी ने पुनः शस्त्र उठाए और फिर से पृथ्वी को सैकड़ों क्षत्रिय शवों से आच्छादित कर दिया।
51हे राजन्, किन्तु सैकड़ों की संख्या में जो क्षत्रिय राम द्वारा नहीं मारे गए थे, वे (समय के साथ) बढ़ते गए और पृथ्वी पर पराक्रमी राजा बन गए।
52हे राजन्, राम ने उन्हें भी शीघ्र ही मार डाला, बालकों तक को नहीं छोड़ा। पृथ्वी पुनः अकाल में उत्पन्न क्षत्रिय बालकों के शवों से भर गई।
53ज्यों ही क्षत्रिय बालक उत्पन्न होते, राम उन्हें मार डालते। किन्तु कुछ क्षत्रिय स्त्रियाँ अपने बालकों को राम से छिपाने में सफल हो गईं।
54इक्कीस बार पृथ्वी को क्षत्रियों से रहित कर देने के पश्चात् पराक्रमी भार्गव ने एक अश्वमेध यज्ञ की समाप्ति पर वह पृथ्वी कश्यप को दक्षिणा रूप में दे दी।
55हे राजन्, क्षत्रियों के निवास की रक्षा के लिए कश्यप ने अपने उस हाथ से संकेत करते हुए, जिसमें अब भी यज्ञ का स्रुव था, ये वचन कहे — हे महामुनि, तुम दक्षिण समुद्र के तट पर चले जाओ। हे राम, तुम्हें मेरे राज्य के भीतर नहीं रहना चाहिए।
56इन वचनों पर समुद्र ने सहसा जमदग्नि के पुत्र के लिए अपने दूसरे तट पर शूर्पारक नामक एक प्रदेश बना दिया।
57हे राजन्, कश्यप ने भी पृथ्वी को दान में स्वीकार करके और उसे ब्राह्मणों को दे देने के पश्चात् वन में प्रवेश किया।
58तब, हे भरतश्रेष्ठ, शूद्र और वैश्य स्वेच्छाचारपूर्वक ब्राह्मणों की स्त्रियों का संसर्ग करने लगे।
59जब पृथ्वी पर अराजकता आरम्भ होती है, तब निर्बल बलवानों द्वारा पीड़ित होते हैं और कोई भी अपनी सम्पत्ति का स्वामी नहीं रह जाता।
60काल के प्रवाह से पृथ्वी दुष्ट पुरुषों द्वारा आक्रान्त हो गई। धर्मात्मा क्षत्रियों द्वारा विधिवत् अरक्षित और उस अव्यवस्था में दुष्टों द्वारा पीड़ित होकर पृथ्वी शीघ्र ही अधोगति में धँस गई।
61भय से धँसती हुई पृथ्वी को देखकर महात्मा कश्यप ने उसे अपनी जाँघ (ऊरु) पर धारण किया; और चूँकि उन महर्षि ने उसे अपनी ऊरु पर धारण किया, इसीलिए पृथ्वी उर्वी नाम से जानी जाती है।
62पृथ्वी देवी ने रक्षा पाने के लिए कश्यप को प्रसन्न किया और उनसे एक राजा की याचना की।
63पृथ्वी ने कहा — हे ऋषि, कुछ श्रेष्ठ क्षत्रिय हैं जिन्हें मैंने स्त्रियों के बीच छिपा रखा है। वे हैहयों के कुल में उत्पन्न हुए थे। हे मुनि, वे ही मेरी रक्षा करें।
64हे शक्तिशाली, पुरुवंश का एक और पुरुष है, अर्थात् विदूरथ का पुत्र, जो ऋक्षवान् पर्वत पर भालुओं के बीच पाला गया है।
65एक और, अर्थात् सौदास का पुत्र, सदा यज्ञों में रत परम तेजस्वी पराशर द्वारा दया करके रक्षित किया गया है।
66यद्यपि वह द्विज के कुल में उत्पन्न हुआ है, तथापि शूद्र के समान वह उन ऋषि का सब कार्य करता है और इसीलिए उसका नाम "सर्वकर्मा" (सब काम करने वाला सेवक) पड़ा है।
67शिवि के तेजस्वी पुत्र गोपति वन में गौओं के बीच पाले गए हैं। हे मुनि, वे ही मेरी रक्षा करें।
68प्रतर्दन के महापराक्रमी पुत्र वत्स नामक एक गोशाला में बछड़ों के बीच पाले गए हैं। वे क्षत्रिय मेरी रक्षा करें।
69दधिवाहन के पौत्र और दिविरथ के पुत्र को गौतम मुनि ने गंगा के तट पर छिपाकर रखा है।
70उनका नाम बृहद्रथ है। महान् तेज से सम्पन्न और अनेक गुणों से युक्त वे भाग्यशाली राजकुमार भेड़ियों तथा गृध्रकूट पर्वत द्वारा रक्षित हुए हैं।
71मरुत्त के वंश के अनेक क्षत्रिय रक्षित हुए हैं। मरुतों के स्वामी के समान ही तेजस्वी वे समुद्र द्वारा पाले गए हैं।
72क्षत्रियों के ये बालक विभिन्न स्थानों में निवास करते सुने गए हैं। वे शिल्पियों और स्वर्णकारों के साथ रह रहे हैं। यदि वे मेरी रक्षा करें तो मैं अविचल रहूँगी।
73उनके पिता और पितामह मेरे लिए ही महापराक्रमी राम द्वारा मारे गए हैं। हे महामुने, यह मेरा कर्तव्य है कि उनकी अन्त्येष्टि क्रियाएँ विधिपूर्वक सम्पन्न हों।
74मैं नहीं चाहती कि मेरी रक्षा इन वर्तमान राजाओं द्वारा की जाए। हे मुनि, आप शीघ्र ऐसी व्यवस्था कीजिए कि मैं (पहले के समान) स्थिर रह सकूँ।
75वासुदेव ने कहा — तब देवी (पृथ्वी) ने जिन तेजस्वी क्षत्रियों के नाम बताए थे, उन्हें खोजकर मुनि कश्यप ने विधिपूर्वक राजाओं के पद पर अभिषिक्त किया।
76जो क्षत्रिय वंश आज विद्यमान हैं, वे उन्हीं राजकुमारों की सन्तति हैं। हे पाण्डुपुत्र, तुमने मुझसे जो पूछा था, वह प्राचीन काल में इस प्रकार हुआ था।
77वैशम्पायन ने कहा — धर्मात्माओं में श्रेष्ठ युधिष्ठिर से इस प्रकार वार्तालाप करते हुए वे महान् यादव वीर उस रथ पर शीघ्र आगे बढ़े, और साक्षात् दिव्य सूर्य के समान समस्त दिशाओं को प्रकाशित करते चले।
नेपाली
1वासुदेवले भने — हे कुन्तीपुत्र, राम (परशुराम)को तेज, पराक्रम र जन्मको त्यो कथा सुन, जो मैले यस विषयमा विवेचना गर्दै गरेका महर्षिहरूबाट सुनेको थिएँ।
2सुन कि जमदग्निका पुत्रद्वारा लाखौँ क्षत्रिय कसरी मारिए र भारतका विविध राजकुलमा जो पुनः जन्मिए, तिनीहरू कसरी फेरि मारिए।
3जह्नुका रजस् नामक पुत्र भए। रजसका बालाकाश्व नामक पुत्र भए। राजा बालाकाश्वका कुशिक नामक धर्मात्मा पुत्र भए।
4पृथ्वीमा सहस्राक्ष इन्द्रजस्तै कुशिकले त्रिलोकीनाथलाई पुत्रका रूपमा पाउने इच्छाले अत्यन्त कठोर तपस्या गरे।
5उनलाई कठोरतम तपस्यामा संलग्न र पुत्र उत्पन्न गर्न समर्थ देखेर सहस्राक्ष पुरन्दरले स्वयं त्यस राजामा आफ्नो तेज स्थापित गरे।
6हे राजन्, तब त्रिलोकका महान् स्वामी, अर्थात् पाकशासन (इन्द्र), गाधि नामले विख्यात कुशिकका पुत्र भए।
7हे राजन्, गाधिकी सत्यवती नामकी एक कन्या भइन्। पराक्रमी गाधिले उनको विवाह भृगुवंशी ऋचीकसँग गरिदिए।
8हे कुरुनन्दन, भृगुवंशी उनका पति उनको आचरणको पवित्रताले अत्यन्त प्रसन्न भए। उनले गाधिलाई पुत्र दिनका लागि चरु — दूध र चामलको यज्ञीय अन्न — पकाए।
9भृगुवंशी ऋचीकले आफ्नी पत्नीलाई बोलाएर भने — यस संस्कारित अन्नको यो भाग तिमीले ग्रहण गर्नू र यो (अर्को) भाग तिम्री आमाले।
10उनीबाट एक तेजस्वी पुत्र जन्मनेछ जो क्षत्रियहरूमा श्रेष्ठ हुनेछ; पृथ्वीमा क्षत्रियहरूद्वारा अजेय, ऊ श्रेष्ठ क्षत्रियहरूको संहारक हुनेछ।
11हे कल्याणी, तिम्रो विषयमा — अन्नको यो भागले तिमीलाई महान् बुद्धिमान्, शान्तिको मूर्ति, तपस्याले सम्पन्न र ब्राह्मणहरूमा श्रेष्ठ पुत्र दिनेछ।
12आफ्नी पत्नीलाई यी वचन भनेर भृगुवंशी भगवान् ऋचीक तपस्यामा मन लगाएर वनमा प्रवेश गरे।
13यसै समयमा राजा गाधि तीर्थहरूको यात्रा गर्दै आफ्नी रानीसहित ऋचीकको आश्रममा आइपुगे।
14हे राजन्, तब सत्यवतीले संस्कारित अन्नका दुवै भाग लिएर प्रसन्नतापूर्वक र चाँडै आफ्ना पतिका वचन आफ्नी आमालाई सुनाइन्।
15हे कुन्तीपुत्र, रानी आमाले आफ्ना लागि तोकिएको भाग आफ्नी छोरीलाई दिइन् र आफैँले अन्जानमा त्यो भाग लिइन् जो छोरीका लागि तोकिएको थियो।
16तब सत्यवतीले, जसको शरीर तेजले दैदीप्यमान भयो, त्यस भयङ्कर रूप भएको बालकलाई गर्भमा धारण गरिन् जो क्षत्रियहरूको संहारक हुने थियो।
17आफ्नो गर्भमा रहेको त्यस ब्राह्मण बालकलाई देखेर ती भृगुश्रेष्ठले आफ्नी दिव्य सौन्दर्यवती पत्नीलाई यी वचन भने — "मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना।"
18हे कल्याणी, तिम्री आमाले संस्कारित अन्न साटेर तिमीलाई छलेकी छिन्। तिम्रो पुत्र क्रूरकर्मा र प्रतिशोधी हृदय भएको हुनेछ। र तिम्रो भाइ (जो तिम्री आमाबाट जन्मनेछ) सधैँ तपस्यामा रत ब्राह्मण हुनेछ।
19तिम्रा लागि तोकिएको संस्कारित अन्नमा परम एवं विश्वव्यापी ब्रह्मको बीज राखिएको थियो, र तिम्री आमाका लागि तोकिएको अन्नमा सम्पूर्ण क्षत्रिय तेजको सार।
20हे कल्याणी, दुवै भाग साटिएका कारण जे अभिप्रेत थियो त्यो अब हुनेछैन। तिम्री आमाले ब्राह्मण पुत्र पाउनेछिन् र तिमीले यस्तो पुत्र पाउनेछौ जो क्षत्रिय हुनेछ।
21आफ्ना पतिले यसरी भनेपछि परम भाग्यशालिनी सत्यवतीले उनका चरणमा शिर झुकाइन् र काँप्दै भनिन् — हे भगवन्, तपाईंले मलाई यस्ता वचन भन्नुहुँदैन कि "तिमीले पुत्रका रूपमा ब्राह्मणहरूमा अधम पाउनेछौ।"
22ऋचीकले भने — हे कल्याणी, मैले तिम्रा लागि त्यस्तो अभिप्रेत गरेको थिइनँ। संस्कारित अन्न साटिएका कारण तिमीले भयङ्कर कर्म गर्ने पुत्र गर्भमा धारण गरेकी छौ।
23हे मुनि, यदि तपाईं चाहनुहुन्छ भने अन्य लोकको समेत सृष्टि गर्न सक्नुहुन्छ, फेरि एउटा बालकको के कुरा? हे शक्तिशाली, तपाईंले मलाई यस्तो पुत्र दिनुहोस् जो धर्मात्मा र शान्त होस्।
24ऋचीकले भने — हे कल्याणी, मैले ठट्टामा पनि कहिल्यै असत्य बोलेको छैनँ। अनि त्यस समयको के कुरा, जब अग्नि प्रज्वलित गरी वैदिक मन्त्रले संस्कारित अन्न तयार पारिँदै छ?
25हे सुन्दरी, यो पहिलेदेखि नै भाग्यद्वारा तोकिएको थियो। मैले आफ्नो तपस्याले यो सबै थाहा पाइसकेको छु। तिम्रा पिताका सम्पूर्ण वंशज ब्राह्मणोचित गुणले युक्त हुनेछन्।
26हे शक्तिशाली, हाम्रो नाति त्यस्तै होस्, तर हे तपस्वीश्रेष्ठ, मलाई शान्त स्वभावको पुत्र प्राप्त होस्।
27ऋचीकले भने — हे सुमुखी, मलाई पुत्र र नातिमा कुनै भेद देखिँदैन। हे सुन्दरी, जस्तो तिमी भन्छ्यौ त्यस्तै हुनेछ।
28वासुदेवले भने — तब सत्यवतीले भृगुवंशमा यस्तो पुत्रलाई जन्म दिइन् जो तपस्या र शान्त कर्ममा रत थियो, अर्थात् नियमित व्रत भएका जमदग्निलाई।
29कौशिकका पुत्र गाधिले विश्वामित्र नामक पुत्र उत्पन्न गरे। ब्राह्मणका सम्पूर्ण गुणले सम्पन्न त्यो पुत्र जन्मले क्षत्रिय भए पनि ब्राह्मणसरह थियो।
30यसरी ऋचीकले तपस्याका सागर जमदग्निलाई उत्पन्न गरे। जमदग्निले भयङ्कर कर्म गर्ने पुत्रलाई उत्पन्न गरे।
31नरश्रेष्ठ त्यो पुत्र अस्त्रविद्यासहित सम्पूर्ण शास्त्रमा निष्णात भयो। प्रज्वलित अग्निजस्तै त्यो पुत्र राम (परशुराम) थियो, क्षत्रियहरूको संहारक।
32गन्धमादन पर्वतमा महादेवलाई प्रसन्न पारेर उनले त्यस देवतासँग अस्त्र मागे, विशेषगरी त्यो प्रचण्ड शक्ति भएको परशु जो उनका हातमा रह्यो।
33अग्निजस्तै तेजस्वी र अप्रतिहत धार भएको त्यस अनुपम परशुका कारण उनी पृथ्वीमा अद्वितीय भए।
34यसै बीचमा कृतवीर्यका पराक्रमी पुत्र, हैहयराज, जो महान् शक्तिले सम्पन्न, परम धर्मात्मा र (महर्षि) दत्तात्रेयको कृपाले सहस्र भुजा भएका थिए, आफ्ना भुजाको बलले युद्धमा पर्वत र सात द्वीपसहित सम्पूर्ण पृथ्वी जितेर अत्यन्त पराक्रमी सम्राट् बने र (अन्ततः) एउटा गृहयज्ञमा उनले त्यो पृथ्वी ब्राह्मणहरूलाई दान गरिदिए।
35हे कुन्तीपुत्र, एक पटक तृषित अग्निदेवले मागेपछि ती महापराक्रमी सहस्रबाहु राजाले त्यस देवतालाई भिक्षा दिए।
36उनको बाणको टुप्पोबाट प्रकट भई त्यो महाशक्तिशाली अग्निदेवले, जो दिइएको (हव्य) भस्म गर्न चाहन्थ्यो, गाउँ, नगर, राज्य र गोठालाहरूका बस्ती जलायो।
37ती नरश्रेष्ठ, अर्थात् पराक्रमी कार्तवीर्यको प्रतापले अग्निदेवले पर्वत र महावनहरू भस्म गरे।
38हैहयराजको सहायता पाएर र वायुले अझ बढेर अग्निदेवले महात्मा आपवको त्यस मनोहर आश्रमलाई भस्म गरे, यद्यपि त्यो त्यस बेला निर्जन थियो।
39हे महाबाहु राजन्, आफ्नो आश्रम त्यस पराक्रमी क्षत्रियद्वारा भस्म भएको देखेर परम तेजस्वी आपवले क्रोधमा त्यस राजालाई श्राप दिए र भने — हे अर्जुन (कार्तवीर्य), किनभने तिमीले मेरा यी वनहरू नछोडी जलाइदियौ, त्यसैले राम (भृगुवंशी)ले तिम्रा सहस्र भुजा काटिदिनेछन्।
40हे भरत, तर महापराक्रमी अर्जुन (कार्तवीर्य), जो सधैँ शान्तिप्रिय, ब्राह्मणहरूप्रति सधैँ आज्ञाकारी, सम्पूर्ण वर्णको रक्षामा तत्पर, दानशील र वीर थिए, उनले त्यस महर्षिले दिएको त्यस श्रापको चिन्ता गरेनन्। उनका पराक्रमी पुत्रहरू, जो सधैँ अभिमानी र क्रूर थिए, त्यस श्रापका कारण उनको मृत्युका परोक्ष कारण बने। हे भरतश्रेष्ठ, ती राजकुमारहरूले हैहयराज कार्तवीर्यको जानकारीविना जमदग्निको होमधेनुको बाछो समातेर लगे। यसै कारण महान् जमदग्नि र हैहयहरूका बीच विवाद उत्पन्न भयो।
41जमदग्निका पुत्र पराक्रमी रामले क्रोधले भरिएर अर्जुनका भुजा काटिदिए र हे राजन्, आफ्ना पिताको त्यो बाछो फिर्ता ल्याए जो राजाको महलको भित्री भागमा चरिरहेको थियो।
42तब अर्जुनका मूर्ख पुत्रहरूले समूहमा महान् जमदग्निको आश्रममा गएर, हे राजन्, आफ्ना भालाले त्यस ऋषिको टाउको धडबाट काटिदिए, जब यशस्वी राम पवित्र समिधा र कुश ल्याउन बाहिर गएका थिए।
43आफ्ना पिताको मृत्युले क्रोधले भरिएर र प्रतिशोधले आविष्ट भई रामले पृथ्वीलाई क्षत्रियरहित बनाउने प्रतिज्ञा गरे र शस्त्र उठाए।
44तब महान् तेजले सम्पन्न ती भृगुश्रेष्ठले आफ्नो पराक्रम देखाउँदै कार्तवीर्यका सम्पूर्ण पुत्र र नातिको चाँडै वध गरिदिए।
45हे राजन्, क्रोधमा सहस्रौँ हैहयको वध गर्दै भृगुवंशीले पृथ्वीलाई रगतले ढाकिदिए।
46परम तेजस्वी उनले चाँडै पृथ्वीलाई सम्पूर्ण क्षत्रियबाट रहित गरिदिए। तब दयाले भरिएर उनी वनमा गए।
47त्यसपछि केही सहस्र वर्ष बितेपछि स्वभावले नै क्रोधी ती पराक्रमी राममाथि कायरताको आरोप लगाइयो।
48हे राजन्, विश्वामित्रका नाति र रैभ्यका पुत्र, महान् तपस्वी परावसुले सबैका सामु राममाथि दोषारोपण गर्न थाले र भने — हे राम, के ती धर्मात्मा पुरुषहरू, अर्थात् प्रतर्दन आदि, जो ययातिको मृत्युका बेला एउटा यज्ञमा भेला भएका थिए, जन्मले क्षत्रिय थिएनन्?
49हे राम, तिमी सत्यवादी होइनौ! तिमी केवल मानिसहरूका सामु फूर्ति लाउँछौ। क्षत्रिय वीरहरूको डरले तिमीले पर्वतको आश्रय लिएका छौ।
50परावसुका यी वचन सुनेर भृगुवंशीले पुनः शस्त्र उठाए र फेरि पृथ्वीलाई सयौँ क्षत्रिय शवले ढाकिदिए।
51हे राजन्, तर सयौँको सङ्ख्यामा जुन क्षत्रियहरू रामद्वारा मारिएका थिएनन्, तिनीहरू (समयक्रममा) बढ्दै गए र पृथ्वीमा पराक्रमी राजा बने।
52हे राजन्, रामले तिनीहरूलाई पनि चाँडै मारिदिए, बालकहरूलाई समेत छाडेनन्। पृथ्वी पुनः अकालमा जन्मेका क्षत्रिय बालकहरूका शवले भरियो।
53जसै क्षत्रिय बालक जन्मन्थे, रामले तिनीहरूलाई मारिदिन्थे। तर केही क्षत्रिय स्त्रीहरू आफ्ना बालकलाई रामबाट लुकाउन सफल भइन्।
54एक्काइस पटक पृथ्वीलाई क्षत्रियरहित बनाएपछि पराक्रमी भार्गवले एउटा अश्वमेध यज्ञको समाप्तिमा त्यो पृथ्वी कश्यपलाई दक्षिणाका रूपमा दिइदिए।
55हे राजन्, क्षत्रियहरूको निवासको रक्षाका लागि कश्यपले आफ्नो त्यस हातले सङ्केत गर्दै, जसमा अझै यज्ञको स्रुवा थियो, यी वचन भने — हे महामुनि, तिमी दक्षिण समुद्रको किनारमा जाऊ। हे राम, तिमीले मेरो राज्यभित्र बस्नुहुँदैन।
56यी वचनमा समुद्रले अकस्मात् जमदग्निका पुत्रका लागि आफ्नो अर्को किनारमा शूर्पारक नामक एउटा प्रदेश बनाइदियो।
57हे राजन्, कश्यपले पनि पृथ्वीलाई दानमा स्वीकार गरेर र त्यो ब्राह्मणहरूलाई दिइसकेपछि वनमा प्रवेश गरे।
58तब, हे भरतश्रेष्ठ, शूद्र र वैश्यहरू स्वेच्छाचारपूर्वक ब्राह्मणहरूका स्त्रीसँग सम्पर्क राख्न थाले।
59जब पृथ्वीमा अराजकता सुरु हुन्छ, तब निर्बलहरू बलवान्हरूद्वारा पीडित हुन्छन् र कोही पनि आफ्नो सम्पत्तिको स्वामी रहँदैन।
60कालको प्रवाहले पृथ्वी दुष्ट पुरुषहरूद्वारा आक्रान्त भयो। धर्मात्मा क्षत्रियहरूद्वारा विधिवत् अरक्षित र त्यस अव्यवस्थामा दुष्टहरूद्वारा पीडित भई पृथ्वी चाँडै अधोगतिमा धसियो।
61डरले धसिँदै गरेको पृथ्वीलाई देखेर महात्मा कश्यपले त्यसलाई आफ्नो तिघ्रा (ऊरु)मा धारण गरे; र किनभने ती महर्षिले त्यसलाई आफ्नो ऊरुमा धारण गरे, त्यसैले पृथ्वी उर्वी नामले चिनिन्छ।
62पृथ्वी देवीले रक्षा पाउनका लागि कश्यपलाई प्रसन्न पारिन् र उनीसँग एउटा राजाको याचना गरिन्।
63पृथ्वीले भनिन् — हे ऋषि, केही श्रेष्ठ क्षत्रिय छन् जसलाई मैले स्त्रीहरूका बीचमा लुकाएर राखेकी छु। तिनीहरू हैहयहरूको कुलमा जन्मेका थिए। हे मुनि, तिनीहरूले नै मेरो रक्षा गरून्।
64हे शक्तिशाली, पुरुवंशको अर्को एक पुरुष छ, अर्थात् विदूरथका पुत्र, जो ऋक्षवान् पर्वतमा भालुहरूका बीचमा हुर्काइएको छ।
65अर्को एक, अर्थात् सौदासका पुत्र, सधैँ यज्ञमा रत परम तेजस्वी पराशरद्वारा दया गरेर रक्षित गरिएको छ।
66यद्यपि ऊ द्विजको कुलमा जन्मेको हो, तथापि शूद्रजस्तै उसले ती ऋषिको सबै काम गर्दछ र त्यसैले उसको नाम "सर्वकर्मा" (सबै काम गर्ने सेवक) रहेको छ।
67शिविका तेजस्वी पुत्र गोपति वनमा गाईहरूका बीचमा हुर्काइएका छन्। हे मुनि, उनैले मेरो रक्षा गरून्।
68प्रतर्दनका महापराक्रमी पुत्र वत्स नामक एउटा गोठमा बाछाहरूका बीचमा हुर्काइएका छन्। ती क्षत्रियले मेरो रक्षा गरून्।
69दधिवाहनका नाति र दिविरथका पुत्रलाई गौतम मुनिले गङ्गाको किनारमा लुकाएर राखेका छन्।
70उनको नाम बृहद्रथ हो। महान् तेजले सम्पन्न र अनेक गुणले युक्त ती भाग्यशाली राजकुमार ब्वाँसाहरू तथा गृध्रकूट पर्वतद्वारा रक्षित भएका छन्।
71मरुत्तको वंशका अनेक क्षत्रिय रक्षित भएका छन्। मरुत्हरूका स्वामीजस्तै तेजस्वी तिनीहरू समुद्रद्वारा हुर्काइएका छन्।
72क्षत्रियहरूका यी बालक विभिन्न स्थानमा बसिरहेका सुनिएका छन्। तिनीहरू शिल्पी र सुनारहरूसँग बसिरहेका छन्। यदि तिनीहरूले मेरो रक्षा गरे भने म अविचल रहनेछु।
73तिनीहरूका पिता र पितामह मेरै लागि महापराक्रमी रामद्वारा मारिएका हुन्। हे महामुने, यो मेरो कर्तव्य हो कि तिनीहरूका अन्त्येष्टि क्रिया विधिपूर्वक सम्पन्न होऊन्।
74म चाहन्नँ कि मेरो रक्षा यी वर्तमान राजाहरूद्वारा गरियोस्। हे मुनि, तपाईं चाँडै यस्तो व्यवस्था गर्नुहोस् कि म (पहिलेजस्तै) स्थिर रहन सकूँ।
75वासुदेवले भने — तब देवी (पृथ्वी)ले जुन तेजस्वी क्षत्रियहरूका नाम बताएकी थिइन्, तिनीहरूलाई खोजेर मुनि कश्यपले विधिपूर्वक राजाका पदमा अभिषिक्त गरे।
76जुन क्षत्रिय वंशहरू आज विद्यमान छन्, तिनीहरू तिनै राजकुमारका सन्तति हुन्। हे पाण्डुपुत्र, तिमीले मसँग जे सोधेका थियौ, त्यो प्राचीन कालमा यसरी भएको थियो।
77वैशम्पायनले भने — धर्मात्माहरूमा श्रेष्ठ युधिष्ठिरसँग यसरी वार्तालाप गर्दै ती महान् यादव वीर त्यस रथमा चाँडै अगाडि बढे, र साक्षात् दिव्य सूर्यजस्तै सम्पूर्ण दिशालाई प्रकाशित गर्दै गए।