भीष्म-वध पर्व — द्वन्द्व-युद्ध
खण्ड 4 — भीष्म पर्व · अध्याय 46
संस्कृत
1संजय उवाच पूर्वाह्ने तस्य रौद्रस्य युद्धमह्नो विशाम्पते। प्रावर्तत महाघोरं राज्ञां देहावकर्तनम्॥
2कुरूणां सृञ्जयानां च जिगीषूणां परस्परम्। सिंहानामिव संह्रादो दिवमुर्वी च नादयन्॥
3आसीत् किलकिलाशब्दस्तलशङ्खरवैः सह। जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम्॥
4तलवाभिहताश्चैव ज्याशब्दा भरतर्षभ। पत्तीनां पादशब्दश्च वाजिनां च महास्वनः॥
5तोत्राङ्कुशनिपातश्च आयुधानां च नि:स्वनः। घण्टाशब्दश्च नागानामन्योन्यमभिधावताम्॥
6तस्मिन् समुदिते शब्दे तुमुले लोमहर्षणे। बभूव रथनिर्घोषः पर्जन्यनिनदोपमः॥
7ते मनः क्रूरमाधाय समभित्यक्तजीविताः। पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः॥
8अथ शान्तनवो राजन्नभ्यधावद् धनंजयम्। प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे॥
9अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम्। अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि॥
10तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ। गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयत् बली।।१०
11तथैव पाण्डवो राजन् भीष्मं नाकम्पयद् युधि। सात्यकिस्तु महेष्वासः कृतवर्माणमभ्ययात्॥
12तयोः समभवद् युद्धं तुमुलं लोमहर्षणम्। सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम्॥ आनछुतुः शरैरैस्तक्षमाणौ परस्परम्। तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ॥ वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ। अभिमन्युर्महेष्वासं बृहद्बलमयोधयत्॥
13ततः कोसलराजाऽसावभिमन्योर्विशाम्पते। ध्वजं चिच्छेद समरे सारथिं च न्यपातयत्॥
14सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ। बृहद्वलं महाराज विव्याध नवभिः शरैः॥
15अथापराव्यां भल्लाभ्यां शिताभ्यामरिमर्दनः। ध्वजमेकेन चिच्छेद पार्णिमेकेन सारथिम्॥
16अन्योन्यं च शरैः क्रुद्धौ ततक्षाते परस्परम्। मानिनं समरे दृप्तं कृतवैरं महारथम्॥ भीमसेनस्तव सुतं दुर्योधनमयोधयत्। तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ॥
17अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे। तौ वीक्ष्य तु महात्मानौ कृतिनौ चित्रयोधिनौ॥ विस्मयः सर्वभूतानां समपद्यत भारत। दुःशासनस्तु नकुलं प्रत्युद्याय महाबलम्॥ अविध्यन्निशितैर्बाणैहुभिर्मर्मदिभिः। तस्य माद्रीसुतः केतुं सशरं च शरासनम्॥ चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत। अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्॥
18पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे। तुरङ्गांश्चिच्छिदे बाणैर्ध्वजं चैवाभ्यपातयत्॥
19दुर्मुखः सहदेवं च प्रत्युद्याय महाबलम्। विव्याध शरवर्षेण यतमानं महाहवे॥
20सहदेवस्ततो वीरो दुर्मुखस्य महारणे। शरेण भृशतीक्ष्णेन पातयामास सारथिम्॥
21तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ। त्रासयेतां शरैोरैः कृतप्रतिकृतैषिणौ।॥
22युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात्। तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष॥
23तदपास्य धनुश्च्छिन्नं कुन्तीपुत्रो युधिष्ठिरः। अन्यत् कार्मुकमादाय वेगवद् बलवत्तरम्॥
24ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः। छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्॥
25धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत। तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम्॥ त्रिधा चिच्छेद समरे पाञ्चाल्यस्य तु कार्मुकम्। शरं चैव महाघोरं कालदण्डमिवापरम्॥ प्रेषयामास समरे सोऽस्य काये न्यमज्जत। अथान्यद् धनुरादाय सायकांश्च चतुर्दश॥ द्रोण द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे। तावन्योन्यं सुसंक्रुद्धौ चक्रतुः सुभृशं रणम्॥
26सौमदत्तिं रणे शङ्खो रभसं रभसो युधि। प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत्॥
27तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम्। सौमदत्तिस्तथा शङ्ख जत्रुदेशे समाहनत्॥
28तयोस्तदभवद् युद्धं घोररूपं विशाम्पते। दृप्तयोः समरे पूर्वं वृत्रवासवयोरिव।॥
29बाह्रीकं तु रणे क्रुद्धं क्रुद्धरूपो विशाम्पते। अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः॥
30बाह्रीकस्तु रणे राजन् धृष्टकेतुममर्षणः। शरैर्बहुभिरानछेत् सिहनादमथानदत्॥
31चेदिराजस्तु संक्रुद्धो बाह्रीकं नवभिः शरैः। विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम्॥ तौ तत्र समरे क्रुद्धौ नर्दन्तौ च पुनः पुनः। समीयतुः सुसंक्रुद्धावङ्गारकबुधाविव॥ राक्षसं रौद्रकर्माणं क्रूरकर्मा घटोत्कचः। अलम्बुषं प्रत्युदियाद् बलं शक्र इवाहवे॥
32घटोत्कचस्ततः क्रुद्धो राक्षसं तं महाबलम्। नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत॥
33अलम्बुषस्तु समरे भैमसेनि महाबलम्। बहुधा दारयामास शरैः संनतपर्वभिः॥
34व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ। यथा देवासुरे युद्धे बलशक्रौ महाबलौ॥
35शिखण्डी समरे राजन् द्रौणिमभ्युद्ययौ बली। अश्वत्थामा ततः क्रुद्धः शिखण्डिनमुपस्थितम्॥
36नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा ह्यकम्पयत्। शिखण्ड्यपि ततो राजन् द्रोणपुत्रमताडयत्॥
37सायकेन सुपीतेन तीक्ष्णेन निशितेन च। तौ जनतुस्तदाऽन्योन्यं शरैर्बहुविधैर्मधे॥४८॥ भगदत्तं रणे शूरं विराटो वाहिनीपतिः। अभ्ययात् त्वरितो राजंस्ततो युद्धमवर्तत॥ विराटो भगदत्तं तु शरवर्षेण भारत। अभ्यवर्षत् सुसंक्रुद्धो मेघो वृष्ट्या इवाचलम्॥ भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम्। छादयामास समरे मेघः सूर्यमिवोदितम्॥
38बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ। तं कृपः शरवर्षेण च्छादयामास भारत॥
39गौतमं कैकयः क्रुद्धः शरवृष्ययाऽभ्यपूरयत्। तावन्योन्यं हयान् हत्वा धनुश्छित्त्वा च भारत॥ विरथावसियुद्धाय समीयतुरमर्षणौ।
40तयोस्तदभवद् युद्धं घोररूपं सुदारुणम्॥ द्रुपदस्तु अभ्युद्ययौ हृष्टरूपो हृष्टरूपं परंतपः॥ ततः सैन्धवको राजा दुपदं विशिखैस्त्रिभिः। ताडयामास समरे स च तं प्रत्यविध्यत॥
41तयोस्तदभवद् युद्धं घोररूपं सुदारुणम्। ईक्षणप्रीतिजननं शुक्राङ्गारकयोरिव॥ विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम्। अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत॥ ततो राजन् राजन् सैन्धवं वै सैन्धवं वै जयद्रथम्। विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः।
42सुतसोमो विकर्णं च तदद्भुतविवाभवत्॥ सुशर्माणं नरव्याघ्रश्चेकितानो महारथः। अभ्यद्रवत् सुसंक्रुद्धः पाण्डवार्थे पराक्रमीः॥ सुशर्मा तु महाराज चेकितानं महारथम्। महता शरवर्षेण वारयामास संयुगे॥ चेकितानोऽपि संरब्धः सुशर्माणं महाहवे। प्राच्छादयत् तमिषुभिर्महामेघ इवाचलम्॥
43शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी। अभ्यद्रवत राजेन्द्र मत्तः सिंह इव द्विपम्॥
44यौधिष्ठिरस्तु संक्रुद्धः सौबलं निशितैः शरैः। व्यदारयत संसंग्रामे मघवानिव दानवम्॥
45शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे। व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः॥
46सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम्। श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे॥
47सुदक्षिणस्तु समरे साहदेविं महारथम्। विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम्॥
48श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम्। शरैर्बहुभिरानछेद् दारयन्निव सर्वशः॥
49इरावानथ संक्रुद्धः श्रुतायुषमरिंदमम्। प्रत्युद्ययौ रणे यत्तो यत्तरूपं परंतपः॥
50आर्जुनिस्तस्य समरे हयान् हत्वा महारथः। ननाद बलवन्नादं तत् सैन्यं प्रत्यपूरयत्॥
51श्रुतायुस्तु ततः क्रुद्धः फाल्गुनेः समरे हयान्। निजघान गदाग्रेण ततो युद्धमवर्तत॥
52विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम्। ससेनं ससुतं वीरं संससज्जतुराहवे॥
53तत्राद्भुतमपश्याम तयो?रं पराक्रमम्। अयुध्येतां स्थिरौ भूत्वा महत्या सेनया सह॥
54अनुविन्दस्तु गदया कुन्तिभोजमताडयत्। कुन्तिभोजश्च तं तूर्णं शरवातैरवाकिरत्॥
55कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः। स च तं प्रतिविव्याध तदद्भुतमिवाभवत्॥
56केकया भ्रातरः पञ्च गान्धारान् पञ्च मारिष। ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे॥
57वीरबाहुश्च ते पुत्रो वैराटि रथसत्तमम्। उत्तरं योधयामास विव्याध निशितैः शरैः॥
58उत्तस्थापि तं वीरं विव्याध निशितैः शरैः। चेदिराट् समरे राजन्नुलूकं समभिद्रवत्॥
59तथैव शरवर्षेण उलूकं समविद्ध्यता उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः॥
60तयोर्युद्धं समभवद् घोररूपं विशाम्पते। दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ॥
61एवं द्वन्द्वसहस्राणि रथवारणवाजिनाम्। पदातीनं च समरे तव तेषां च संकुले॥
62मुहूर्तमिव तद् युद्धमासीन्मधुरदर्शनम्। तत उन्मत्तवद् राजन् न प्राज्ञायत किंचन॥
63गजो गजेन समरे रथिनं च रथी ययौ। अश्वोऽश्वं समभिप्रायात् पदातिश्च पदातिनम्॥
64ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत। शूराणां समरे तत्र समासाद्येतरेतरम्॥
65तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः। प्रेक्षन्त तद् रणं घोरं देवासुरसमं भुवि॥
66ततो दन्तिसहस्राणि रथानां चापि मारिष। अश्वौघाः पुरुषौघाश्च विपरीतं समाययु॥
67तत्र तत्र प्रदृश्यन्ते रथवारणपत्तयः। सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः॥
अङ्ग्रेजी
1Sanjaya said O king, in the morning of that awful day commenced the fearful battle that mangled the bodies of so many kings.
2Desiring victory in battle, the loud shouts that the Kurus and the Srinjayas made, resembling those of so many lions, caused the earth and the sky to be resounded.
3A tremendous uproar was heard mingled with the flapping of the leather and the blare of conchs. Lion-like roars rose from men shouting at one another.
4O best of the Bharata race, the twang of the bow-strings, the heavy feared of infantry, the furious neighing of horses.
5The falling of sticks and iron hooks the clash of weapons, the jingle of bells round the necks of elephants rushing upon one another.
6The clatter of the wheels of cars that resembled the roars of clouds, all these mingled together, produced a hair-stirring uproar.
7All the Kuru warriors, reckless of their lives, with cruel intentions, rushed upon the Pandavas with their standards upraised.
8O king, taking up a fearful bow that resembled the rod of death himself, the son of Shantanu, Bhishma, rushed upon Dhananjaya (Arjuna) on the field of battle.
9The greatly powerful Arjuna also a king up the bow Gandiva which is celebrated all over the world, rushed upon the son of Ganga (Bhishma) on the field of battle.
10Both those two foremost heroes of the Kuru race desired to kill each other. Though the mighty son of Ganga pierced Partha with his arrows, yet he could not make him waver.
11O king, that son of Pandu (Arjuna) also could not make Bhishma waver in battle. The great bowman Satyaki rushed against Kritavarma.
12The fight between these two(heroes) was extremely fearful and hair-string. Satyaki wounded Kritavarma and Kritavarma wounded Satyaki with loud shouts and thus they weakened each other. Pierced all over the body with arrows, those two great warriors shone like two blossoming Kinshukas, when they are adorned with flowers in spring. The great bowman Abhimanyu fought with Brihadbala.
13O king, the ruler of Kosala, soon in that battle, cut off the standard and overthrew the charioteer of the son of Subhadra, (Abhimanyu).
14When his charioteer was overthrown, Subhadra's son was filled with wrath. O king, be pierced Brihadbala with nine arrows.
15That chastiser of foes, (Abhimanyu) with a couple of sharp arrows cut off his standard, with one (arrow) he cut down one of the protectors of his car-wheels and with another his charioteer.
16Those (two) chastisers of foes fought on and weakened each other with sharp arrows. Bhimasena fought with your son Duryodhana, that great car-warrior who had injured (the Pandavas) in pride. Both of those Kuru chiefs are foremost of men and both of them are great car-warriors.
17They covered each other, on the field of battle, with showers of arrows. O descendant of Bharata, seeing the fight between these two illustrious and accomplished warrior learned in all the modes of warfare all creatures were filled with amazement. Dushasana rushed against the great car warrior Nakula and pierced him with many sharp arrows. The son of Madri laughingly cut off with his sharp arrows the standard and the bow of his adversary. He then wounded him with twenty five small headed arrows.
18Your son who is ever difficult to be vanquished then killed in that fearful battle Nakula's horses and then cut down his standard.
19Durmukha rushed upon the mighty Sahadeva. He fought with him in that terrible battle and pierced him with a shower of arrows.
20The heroic Sahadeva soon overthrew in that fearful battle Durmukha's charioteer with a sharp arrow.
21Both of them were irresistible in fight. Each attacking the other, and being desirous of warding of each other's attack struck terror into each other with fearful arrows.
22The king Yudhishthira himself fought with the ruler of the Madra. The Madra king cut off the bow of Yudhishthira.
23Thereupon, the son of Kunti, took up another bow which was stronger and capable of imparting greater velocity.
24The king, then saying in great wrath “Wait" covered the king of Madra with straight arrows.
25O descendant of Bharata, Dhrishtadyumna rushed against Drona. In great anger Drona cut off in that battle the hard bow of the illustrious Panchala prince, the bow which was ever capable of taking the lives of the foes. He shot in that battle a fearful arrow which was like the second rod of Yama. The arrow thus shot son penetrated into the body of the prince. Taking up another bow and fourteen arrows, the son of Drupada pierced Drona with his arrows. Enraged with each other they fought on.
26O king, the impetuous Shankha met Somadatta son who was equally impetuous in battle and he shouted out to him "Wait" “Wait".
27That hero then pierced his right arm in that fight. Thereupon the of Somadatta wounded Shankha on the shoulders.
28O king, the battle that was fought between these two proud heroes soon became as fearful as the battle between the celestial and the Asuras.
29O king, that high-souled great car-warrior Dhrishtaketu angrily rushed upon Balhika who was the very embodiment of anger.
30O king, great Balhika, sending up a lionlike roar, weakened the wrathful Dhrishtaketu with countless arrows.
31The king of the Chedis, then becoming exceedingly, angry, quickly pierced Balhika with nine arrows in that battle. Like an infuriated elephants, attacking another infuriated elephants, they roared against each other in great anger. They fought in great wrath and they looked like the planets Angaraka and Budha. Ghatotkacha the barbarous monster attacked on the monster known as Alambusha, the evildoer. This attack was made same way as Indra invaded on Bala, a dangerous demon.
32The doer of cruel deeds, Ghototkacha, O descendant of Bharata, wounded that mighty and angry Rakshasa (Alambusha with ninety sharp arrows.
33Alambusha, in that great battle, wounded the mighty son of Bhimasena (Ghototkacha) in many places with straight arrows.
34Wounded with arrows they appeared in the battle like the mighty Indra and the powerful Bala in the battle between the celestial and the Danavas.
35O king, the mighty Shikhandin attacked Drona's son. But Ashvatthama severely wounded Shikhandin with a sharp arrows and thus made him tremble.
36O king, Shikhandin also wounded the son of Drona (Ashvatthama) with a sharp and excellent weapon.
37They brought on striking cach other with various kinds of arrows. O king, Virata, that commander of an army, against the heroic Bhagadatta in battle. Becoming exceedingly angry, Virata shot at Bhagadatta a shower of arrows, as the clouds shower of arrows, as the clouds shower rain on a mountain. But that ruler of earth, Bhagadatta, soon covered Virata with arrows as clouds cover the sun.
38The son of Sharadvata, Kripa, attacked the ruler of the Kaikeyas named Brihatkshatra. O descendant of Bharata, Kripa covered him with a shower of arrows.
39Brihatkshatra also cover the angry son of Gautama with a shower of arrows. Having killed each other's steeds and cut off each other's bows, those (two) warriors were both deprived of their cars. Becoming exceedingly angry, they attacked each other with swords.
40The battle they then fought was fearful and unparalleled. That chastiser of foes, king Drupada, angrily rushed on the ruler of Sindhu, Jayadratha. The Sindhu king wounded Drupada in that battle with three arrows, and Drupada too wounded him in return.
41The battle they fought was fearful and terrible. It gave satisfaction to the hearts of all spectators it was like the conflict between the planets Shukra and Angaraka your son Vikarna with fleet steeds attacked the greatly powerful Sutasoma and they began to fight. Though Vikarna wounded Sutasoma with many arrows, yet he failed to make him waver.
42Sutasoma also could not make Vikarna waver. It was a wonderful sight. That great carwarrior, that foremost of men, that greatly powerful Chekitan rushed upon Susharma for the sake of the Pandavas. O king of kings, Susharma however cheated the advance of that great car-warrior Chekitana with heavy shower of Chekitana also becoming exceedingly angry showered on Susharma a shower of arrows as a mass of clouds shower rain on a mountain.
430 king the greatly powerful Shakuni attacked 'the might Prativindhya as a lion attacks an infuriated elephant.
44The son of Yudhishthira in great anger wounded Subala's son with many sharp arrows as Maghavat (Indra) mangles a Danava.
45In that terrible, battle, Shakuni also wounded Prativindhya and mangled the body arrows. of that greatly intelligent warrior with sharp arrows.
46O great king, Shrutakarma attacked in that battle the great car warrior, the mighty Sudakshina, the king of the Kambojas.
47O king of kings, Sudakshina wounded that great car-warrior the son of Sahadeva, but he could not make him waver; he stood as the Mainaka mountain.
48Thereupon Shrutakarma in great anger weakened that great car warrior of the Kambojas with countless arrows and mangled him in many parts of his body.
49That chastiser of foes, Iravan rushed in great anger on the wrathful Shrutayush in that great battle.
50The mighty son of Arjuna that great carwarrior, then killing the horses of his adversary, sent up a loud roar. O king, all the kings praised him (by his this great fear).
51Shruthayusha, in the battle the horses of the son of Arjuna with a great mace and then they fought on.
52The two princes of Avanti, Vinda and Anuvinda attacked in that battle the great carwarrior the brave Kuntibhoja who was with his son at the head of his troops.
53We saw wonderful prowess in those two princes for they fought with great coolness, though they had to fight with a very large number of troops.
54Anuvinda hurled a mace of Kuntibhoja but he (Kuntibhoja) soon covered him with a shower of arrows.
55The son of Kuntibhoja wounded Vinda with many arrows but he too wounded him in return. The battle they fought was wonderful.
56O respected one, the Kaikeya brothers at the head of their troops attacked in that battle the five Gandharva princes with their troops.
57Your son Virabahu fought with that foremost of car-warriors, Uttara, the son of Virata and wounded him with nine arrows.
58Uttara also wounded him with many sharp arrows; O king, the ruler of Chedi attacked in that battle Uluka.
59He wounded Uluka with a shower of arrows and Uluka too wounded him with sharp arrows with excellent wings.
60O king, the battle they fought was fearful in the extreme, for, being unable to defeat each other, they fearfully mangled each other body.
61Thus in that great battle thousands of single combats were fought between car-warriors, elephants men, horse-men sand foot-soldiers of both the sides.
62For a short time the battle looked beautiful, but O king, it soon grew furious and nothing could be seen.
63In that battle elephants rushed against elephants, car-warriors against car-warriors, horseman against horseman and foot-soldiers against foot-soldiers.
64Thus battle then became confused and fearful in the extreme. The heroes rushed against one another in a great number.
65The celestial Rishis, the Siddhas and Charanas who were present, saw that battle as if it were the battle between the gods and the demons.
66Thousands of elephants and cars, countless horsemen and foot-soldiers, appeared to have altered their character.
67O foremost of men, it was seen that carwarriors, elephants, horsemen and foot. soldiers, all fought with one another, again and again , on the same place.
हिन्दी
1संजय ने कहा — हे राजन्, उस भयानक दिन के प्रातःकाल वह भयंकर युद्ध आरम्भ हुआ जिसने इतने राजाओं के शरीरों को क्षत-विक्षत कर दिया।
2युद्ध में विजय की इच्छा से कौरवों और सृंजयों ने जो सिंहों के समान ऊँची गर्जनाएँ कीं, उनसे पृथ्वी और आकाश गूँज उठे।
3चर्मपट्टियों की फटकार और शंखों की ध्वनि से मिला हुआ भयंकर कोलाहल सुनाई पड़ा। एक-दूसरे पर चिल्लाते हुए मनुष्यों से सिंह के समान गर्जनाएँ उठीं।
4हे भरतश्रेष्ठ, धनुष की प्रत्यंचाओं की टंकार, पैदल सैनिकों के भारी पदचाप, घोड़ों की उग्र हिनहिनाहट,
5दण्डों और लोहे के अंकुशों का गिरना, शस्त्रों की टकराहट, एक-दूसरे पर टूट पड़ते हाथियों के गले की घण्टियों की झनकार,
6और मेघों की गर्जना के समान रथों के पहियों की खड़खड़ाहट — ये सब मिलकर रोमांचकारी कोलाहल उत्पन्न कर रहे थे।
7अपने प्राणों की चिन्ता छोड़कर, क्रूर अभिप्राय से भरे समस्त कुरुयोद्धा अपनी ध्वजाएँ ऊँची किए हुए पाण्डवों पर टूट पड़े।
8हे राजन्, साक्षात् यमदण्ड के समान भयंकर धनुष उठाकर शान्तनुपुत्र भीष्म युद्धभूमि में धनंजय (अर्जुन) पर टूट पड़े।
9महाबली अर्जुन ने भी संसार भर में प्रसिद्ध गाण्डीव धनुष उठाकर युद्धभूमि में गंगापुत्र (भीष्म) पर आक्रमण किया।
10कुरुवंश के वे दोनों श्रेष्ठ वीर एक-दूसरे को मारना चाहते थे। यद्यपि गंगा के महाबली पुत्र ने पार्थ को अपने बाणों से बेधा, तथापि वे उन्हें विचलित न कर सके।
11हे राजन्, वे पाण्डुपुत्र (अर्जुन) भी युद्ध में भीष्म को विचलित न कर सके। महाधनुर्धर सात्यकि कृतवर्मा पर टूट पड़े।
12इन दोनों (वीरों) के बीच का युद्ध अत्यन्त भयंकर और रोमांचकारी था। सात्यकि ने कृतवर्मा को घायल किया और कृतवर्मा ने ऊँचे स्वर से गर्जते हुए सात्यकि को — इस प्रकार उन्होंने एक-दूसरे को दुर्बल किया। सारे शरीर में बाणों से बिंधे हुए वे दोनों महायोद्धा वसन्त में फूलों से सजे हुए दो खिले किंशुक वृक्षों के समान शोभा पा रहे थे। महाधनुर्धर अभिमन्यु ने बृहद्बल से युद्ध किया।
13हे राजन्, कोसलराज ने उस युद्ध में शीघ्र ही सुभद्रापुत्र (अभिमन्यु) की ध्वजा काट दी और उनके सारथि को गिरा दिया।
14अपना सारथि गिर जाने पर सुभद्रापुत्र क्रोध से भर गए। हे राजन्, उन्होंने बृहद्बल को नौ बाणों से बेध दिया।
15उन शत्रुदमन (अभिमन्यु) ने दो तीखे बाणों से उसकी ध्वजा काट दी, एक बाण से उसके रथ के पहियों के एक रक्षक को गिरा दिया और दूसरे से उसके सारथि को।
16वे (दोनों) शत्रुदमन युद्ध करते रहे और तीखे बाणों से एक-दूसरे को दुर्बल करते रहे। भीमसेन ने आपके पुत्र दुर्योधन से, उस महारथी से, युद्ध किया जिसने अभिमानवश (पाण्डवों का) अपकार किया था। वे दोनों कुरुश्रेष्ठ पुरुषों में अग्रगण्य हैं और दोनों ही महारथी हैं।
17युद्धभूमि में उन्होंने बाणों की वर्षा से एक-दूसरे को ढक दिया। हे भरतवंशी, युद्ध की समस्त विधियों में निपुण उन दोनों यशस्वी और कुशल योद्धाओं का युद्ध देखकर समस्त प्राणी आश्चर्य से भर गए। दुःशासन महारथी नकुल पर टूट पड़ा और उसे अनेक तीखे बाणों से बेध दिया। माद्रीपुत्र ने हँसते हुए अपने तीखे बाणों से अपने प्रतिद्वन्द्वी की ध्वजा और धनुष काट दिए। फिर उसने उसे पच्चीस छोटे मुख वाले बाणों से घायल किया।
18तब सदा अजेय रहने वाले आपके पुत्र ने उस भयंकर युद्ध में नकुल के घोड़ों को मार डाला और फिर उनकी ध्वजा काट दी।
19दुर्मुख महाबली सहदेव पर टूट पड़ा। उसने उस भयंकर युद्ध में उनसे युद्ध किया और उन्हें बाणों की वर्षा से बेध दिया।
20वीर सहदेव ने उस भयंकर युद्ध में शीघ्र ही एक तीखे बाण से दुर्मुख के सारथि को गिरा दिया।
21वे दोनों युद्ध में अजेय थे। एक-दूसरे पर आक्रमण करते हुए और एक-दूसरे के आक्रमण को रोकने की इच्छा से वे भयंकर बाणों से एक-दूसरे में आतंक भरते रहे।
22राजा युधिष्ठिर स्वयं मद्रराज से भिड़े। मद्रराज ने युधिष्ठिर का धनुष काट दिया।
23तब कुन्तीपुत्र ने दूसरा धनुष उठाया, जो अधिक दृढ़ था और अधिक वेग देने में समर्थ था।
24तब उन राजा ने महान् क्रोध से "ठहरो!" कहकर मद्रराज को सीधे बाणों से ढक दिया।
25हे भरतवंशी, धृष्टद्युम्न द्रोण पर टूट पड़े। महान् क्रोध में द्रोण ने उस युद्ध में यशस्वी पांचालराजकुमार का वह दृढ़ धनुष काट दिया, जो सदा शत्रुओं के प्राण लेने में समर्थ था। उन्होंने उस युद्ध में एक भयंकर बाण छोड़ा, जो यम के दूसरे दण्ड के समान था। इस प्रकार छोड़ा गया वह बाण शीघ्र ही उस राजकुमार के शरीर में घुस गया। तब दूसरा धनुष और चौदह बाण उठाकर द्रुपदपुत्र ने द्रोण को अपने बाणों से बेध दिया। एक-दूसरे पर क्रुद्ध होकर वे युद्ध करते रहे।
26हे राजन्, वेगवान् शंख उस युद्ध में समान रूप से वेगवान् सोमदत्तपुत्र से भिड़े और उसे ललकारते हुए बोले — "ठहरो! ठहरो!"
27तब उस वीर ने उस युद्ध में उसकी दाहिनी भुजा बेध दी। इस पर सोमदत्तपुत्र ने शंख के कन्धों पर घाव किए।
28हे राजन्, इन दोनों अभिमानी वीरों के बीच जो युद्ध हुआ, वह शीघ्र ही देवताओं और असुरों के युद्ध के समान भयंकर हो गया।
29हे राजन्, वे महात्मा महारथी धृष्टकेतु क्रोध में साक्षात् क्रोध की मूर्ति बाह्लीक पर टूट पड़े।
30हे राजन्, महान् बाह्लीक ने सिंह के समान गर्जना करते हुए क्रुद्ध धृष्टकेतु को असंख्य बाणों से दुर्बल कर दिया।
31तब चेदिराज ने अत्यन्त क्रुद्ध होकर उस युद्ध में शीघ्र ही बाह्लीक को नौ बाणों से बेध दिया। जैसे एक मदोन्मत्त हाथी दूसरे मदोन्मत्त हाथी पर आक्रमण करता है, वैसे ही वे महान् क्रोध में एक-दूसरे के विरुद्ध गरजे। वे अत्यन्त क्रोध में युद्ध करते रहे और अंगारक तथा बुध ग्रहों के समान दिखाई देते थे। भयानक राक्षस घटोत्कच ने दुष्कर्मी अलम्बुष नामक राक्षस पर आक्रमण किया — ठीक वैसे ही जैसे इन्द्र ने भयंकर दानव बल पर आक्रमण किया था।
32हे भरतवंशी, क्रूर कर्म करने वाले घटोत्कच ने उस बलवान् और क्रुद्ध राक्षस (अलम्बुष) को नब्बे तीखे बाणों से घायल किया।
33अलम्बुष ने भी उस महायुद्ध में भीमसेन के महाबली पुत्र (घटोत्कच) को सीधे बाणों से अनेक स्थानों पर घायल किया।
34बाणों से घायल वे दोनों उस युद्ध में ऐसे दिखाई दे रहे थे मानो देवताओं और दानवों के युद्ध में महाबली इन्द्र और पराक्रमी बल हों।
35हे राजन्, महाबली शिखण्डी ने द्रोणपुत्र पर आक्रमण किया। किन्तु अश्वत्थामा ने तीखे बाणों से शिखण्डी को बुरी तरह घायल कर दिया और इस प्रकार उसे काँपने पर विवश किया।
36हे राजन्, शिखण्डी ने भी एक तीखे और उत्तम शस्त्र से द्रोणपुत्र (अश्वत्थामा) को घायल किया।
37वे नाना प्रकार के बाणों से एक-दूसरे पर प्रहार करते रहे। हे राजन्, सेनापति विराट युद्ध में वीर भगदत्त पर टूट पड़े। अत्यन्त क्रुद्ध होकर विराट ने भगदत्त पर बाणों की वैसी ही वर्षा की जैसे मेघ पर्वत पर वर्षा करते हैं। किन्तु उस पृथ्वीपति भगदत्त ने शीघ्र ही विराट को बाणों से वैसे ही ढक दिया जैसे मेघ सूर्य को ढक देते हैं।
38शरद्वान् के पुत्र कृप ने बृहत्क्षत्र नामक कैकेयराज पर आक्रमण किया। हे भरतवंशी, कृप ने उसे बाणों की वर्षा से ढक दिया।
39बृहत्क्षत्र ने भी क्रुद्ध गौतमपुत्र को बाणों की वर्षा से ढक दिया। एक-दूसरे के घोड़े मारकर और एक-दूसरे के धनुष काटकर वे (दोनों) योद्धा रथहीन हो गए। तब अत्यन्त क्रुद्ध होकर उन्होंने तलवारों से एक-दूसरे पर आक्रमण किया।
40तब उन्होंने जो युद्ध किया वह भयंकर और अनुपम था। शत्रुदमन राजा द्रुपद क्रोध में सिन्धुराज जयद्रथ पर टूट पड़े। सिन्धुराज ने उस युद्ध में द्रुपद को तीन बाणों से घायल किया, और द्रुपद ने भी बदले में उसे घायल किया।
41उन्होंने जो युद्ध किया वह भयंकर और घोर था। उसने समस्त दर्शकों के हृदय को सन्तोष दिया; वह शुक्र और अंगारक ग्रहों के संघर्ष के समान था। आपके पुत्र विकर्ण ने वेगवान् घोड़ों सहित महाबली सुतसोम पर आक्रमण किया और वे युद्ध करने लगे। यद्यपि विकर्ण ने सुतसोम को अनेक बाणों से घायल किया, तथापि वह उसे विचलित न कर सका।
42सुतसोम भी विकर्ण को विचलित न कर सका। वह एक अद्भुत दृश्य था। वे महारथी, पुरुषों में श्रेष्ठ, महाबली चेकितान पाण्डवों के हित के लिए सुशर्मा पर टूट पड़े। हे राजाओं के राजा, किन्तु सुशर्मा ने बाणों की भारी वर्षा से उस महारथी चेकितान की गति रोक दी। चेकितान ने भी अत्यन्त क्रुद्ध होकर सुशर्मा पर बाणों की वैसी ही वर्षा की जैसे मेघपुंज पर्वत पर वर्षा करता है।
43हे राजन्, महाबली शकुनि ने महाबली प्रतिविन्ध्य पर वैसे ही आक्रमण किया जैसे सिंह मदोन्मत्त हाथी पर करता है।
44युधिष्ठिरपुत्र ने महान् क्रोध में सुबलपुत्र को अनेक तीखे बाणों से वैसे ही घायल किया जैसे मघवान् (इन्द्र) किसी दानव को क्षत-विक्षत करते हैं।
45उस भयंकर युद्ध में शकुनि ने भी प्रतिविन्ध्य को घायल किया और उस परम बुद्धिमान् योद्धा के शरीर को तीखे बाणों से क्षत-विक्षत कर दिया।
46हे महाराज, श्रुतकर्मा ने उस युद्ध में महारथी, महाबली कम्बोजराज सुदक्षिण पर आक्रमण किया।
47हे राजाओं के राजा, सुदक्षिण ने उस महारथी सहदेवपुत्र को घायल किया, किन्तु उसे विचलित न कर सका; वह मैनाक पर्वत के समान अडिग खड़ा रहा।
48तब श्रुतकर्मा ने महान् क्रोध में असंख्य बाणों से उस कम्बोज महारथी को दुर्बल कर दिया और उसके शरीर के अनेक भागों को क्षत-विक्षत कर दिया।
49उस महायुद्ध में शत्रुदमन इरावान् महान् क्रोध में क्रुद्ध श्रुतायु पर टूट पड़े।
50तब अर्जुन के महाबली पुत्र, उन महारथी ने अपने प्रतिद्वन्द्वी के घोड़ों को मारकर ऊँचे स्वर से गर्जना की। हे राजन्, समस्त राजाओं ने उनके इस महान् पराक्रम की प्रशंसा की।
51श्रुतायु ने उस युद्ध में एक विशाल गदा से अर्जुनपुत्र के घोड़ों को मार डाला, और फिर वे युद्ध करते रहे।
52अवन्ती के दोनों राजकुमार विन्द और अनुविन्द ने उस युद्ध में महारथी वीर कुन्तिभोज पर आक्रमण किया, जो अपने पुत्र सहित अपनी सेना के आगे थे।
53हमने उन दोनों राजकुमारों में अद्भुत पराक्रम देखा, क्योंकि अत्यन्त विशाल सेना से युद्ध करना पड़ने पर भी वे महान् धैर्य से लड़े।
54अनुविन्द ने कुन्तिभोज पर एक गदा फेंकी, किन्तु उन्होंने (कुन्तिभोज ने) शीघ्र ही उसे बाणों की वर्षा से ढक दिया।
55कुन्तिभोज के पुत्र ने विन्द को अनेक बाणों से घायल किया, किन्तु उसने भी बदले में उन्हें घायल किया। उन्होंने जो युद्ध किया वह अद्भुत था।
56हे पूज्य, केकयवंशी भाइयों ने अपनी सेनाओं के आगे रहकर उस युद्ध में अपनी सेनाओं सहित पाँच गन्धर्व राजकुमारों पर आक्रमण किया।
57आपके पुत्र वीरबाहु ने महारथियों में श्रेष्ठ विराटपुत्र उत्तर से युद्ध किया और उसे नौ बाणों से घायल किया।
58उत्तर ने भी उसे अनेक तीखे बाणों से घायल किया। हे राजन्, उस युद्ध में चेदिराज ने उलूक पर आक्रमण किया।
59उन्होंने उलूक को बाणों की वर्षा से घायल किया, और उलूक ने भी उन्हें उत्तम पंखों वाले तीखे बाणों से घायल किया।
60हे राजन्, उन्होंने जो युद्ध किया वह अत्यन्त भयंकर था, क्योंकि एक-दूसरे को पराजित करने में असमर्थ होकर उन्होंने एक-दूसरे के शरीर को भयंकर रूप से क्षत-विक्षत कर दिया।
61इस प्रकार उस महायुद्ध में दोनों पक्षों के रथियों, गजारोहियों, अश्वारोहियों और पैदल सैनिकों के बीच सहस्रों द्वन्द्वयुद्ध हुए।
62थोड़ी देर तक वह युद्ध सुन्दर दिखाई दिया, किन्तु हे राजन्, वह शीघ्र ही प्रचण्ड हो गया और फिर कुछ भी दिखाई नहीं देता था।
63उस युद्ध में हाथी हाथियों पर, रथी रथियों पर, अश्वारोही अश्वारोहियों पर और पैदल सैनिक पैदल सैनिकों पर टूट पड़े।
64इस प्रकार वह युद्ध घोर संकुल और अत्यन्त भयंकर हो गया। वीर बड़ी संख्या में एक-दूसरे पर टूट पड़े।
65वहाँ उपस्थित देवर्षियों, सिद्धों और चारणों ने उस युद्ध को ऐसे देखा मानो वह देवताओं और दानवों का युद्ध हो।
66सहस्रों हाथी और रथ, असंख्य अश्वारोही और पैदल सैनिक — सब मानो अपना स्वरूप ही बदल चुके थे।
67हे पुरुषश्रेष्ठ, देखा गया कि रथी, हाथी, अश्वारोही और पैदल सैनिक — सब एक ही स्थान पर बार-बार एक-दूसरे से लड़ रहे थे।
नेपाली
1सञ्जयले भने — हे राजन्, त्यस भयानक दिनको बिहानै त्यो भयङ्कर युद्ध सुरु भयो जसले यति धेरै राजाहरूका शरीर क्षतविक्षत पारिदियो।
2युद्धमा विजयको इच्छाले कौरव र सृञ्जयहरूले जुन सिंहसमान ठूला गर्जन गरे, तिनले पृथ्वी र आकाश गुञ्जाइदिए।
3चर्मपट्टीको फट्कार र शङ्खको ध्वनिसँग मिसिएको भयङ्कर कोलाहल सुनियो। एक-अर्कामाथि कराउँदै गरेका मानिसहरूबाट सिंहसमान गर्जन उठे।
4हे भरतश्रेष्ठ, धनुका ताँदोको टङ्कार, पैदल सैनिकहरूको भारी पदचाप, घोडाहरूको उग्र हिनहिनाहट,
5लट्ठी र फलामका अङ्कुश खस्नु, शस्त्रको ठोक्काइ, एक-अर्कामाथि जाइलाग्ने हात्तीहरूका घाँटीका घण्टीको झन्कार,
6र मेघको गर्जनसमान रथका पाङ्ग्राको खडखडाहट — यी सबै मिलेर रोमाञ्चकारी कोलाहल उत्पन्न गरिरहेका थिए।
7आफ्ना प्राणको चिन्ता छोडेर, क्रूर अभिप्रायले भरिएका सम्पूर्ण कुरुयोद्धाहरू आफ्ना ध्वजा उच्च पारेर पाण्डवहरूमाथि जाइलागे।
8हे राजन्, साक्षात् यमदण्डसमान भयङ्कर धनु उठाएर शान्तनुपुत्र भीष्म युद्धभूमिमा धनञ्जय (अर्जुन)माथि जाइलागे।
9महाबली अर्जुनले पनि संसारभरि प्रसिद्ध गाण्डीव धनु उठाएर युद्धभूमिमा गङ्गापुत्र (भीष्म)माथि आक्रमण गरे।
10कुरुवंशका ती दुवै श्रेष्ठ वीरहरू एक-अर्कालाई मार्न चाहन्थे। यद्यपि गङ्गाका महाबली पुत्रले पार्थलाई आफ्ना बाणले बेधे, तथापि उनले उनलाई विचलित पार्न सकेनन्।
11हे राजन्, ती पाण्डुपुत्र (अर्जुन)ले पनि युद्धमा भीष्मलाई विचलित पार्न सकेनन्। महाधनुर्धर सात्यकि कृतवर्मामाथि जाइलागे।
12यी दुवै (वीर)बीचको युद्ध अत्यन्त भयङ्कर र रोमाञ्चकारी थियो। सात्यकिले कृतवर्मालाई घाइते पारे र कृतवर्माले ठूलो स्वरले गर्जँदै सात्यकिलाई — यसरी तिनीहरूले एक-अर्कालाई दुर्बल पारे। सारा शरीरमा बाणले बिँधिएका ती दुवै महायोद्धा वसन्तमा फूलले सजिएका दुई फुलेका किंशुक रूखसमान शोभायमान थिए। महाधनुर्धर अभिमन्युले बृहद्बलसँग युद्ध गरे।
13हे राजन्, कोसलराजले त्यस युद्धमा चाँडै सुभद्रापुत्र (अभिमन्यु)को ध्वजा काटिदिए र उनका सारथिलाई ढालिदिए।
14आफ्नो सारथि ढलेपछि सुभद्रापुत्र क्रोधले भरिए। हे राजन्, उनले बृहद्बललाई नौ बाणले बेधे।
15ती शत्रुदमन (अभिमन्यु)ले दुई तीखा बाणले उसको ध्वजा काटिदिए, एक बाणले उसको रथका पाङ्ग्राका एक रक्षकलाई ढालिदिए र अर्कोले उसको सारथिलाई।
16ती (दुवै) शत्रुदमनहरूले युद्ध गरिरहे र तीखा बाणले एक-अर्कालाई दुर्बल पारिरहे। भीमसेनले तपाईंका पुत्र दुर्योधनसँग, त्यस महारथीसँग, युद्ध गरे जसले अभिमानवश (पाण्डवहरूको) अपकार गरेको थियो। ती दुवै कुरुश्रेष्ठ पुरुषहरूमा अग्रगण्य हुन् र दुवै नै महारथी हुन्।
17युद्धभूमिमा तिनीहरूले बाणको वर्षाले एक-अर्कालाई ढाके। हे भरतवंशी, युद्धका सम्पूर्ण विधिमा निपुण ती दुवै यशस्वी र कुशल योद्धाको युद्ध देखेर सम्पूर्ण प्राणी आश्चर्यले भरिए। दुःशासन महारथी नकुलमाथि जाइलाग्यो र उनलाई अनेक तीखा बाणले बेध्यो। माद्रीपुत्रले हाँस्दै आफ्ना तीखा बाणले आफ्नो प्रतिद्वन्द्वीको ध्वजा र धनु काटिदिए। त्यसपछि उनले उसलाई पच्चीस साना मुख भएका बाणले घाइते पारे।
18तब सधैँ अजेय रहने तपाईंका पुत्रले त्यस भयङ्कर युद्धमा नकुलका घोडा मारे र त्यसपछि उनको ध्वजा काटिदिए।
19दुर्मुख महाबली सहदेवमाथि जाइलाग्यो। उसले त्यस भयङ्कर युद्धमा उनीसँग युद्ध गर्यो र उनलाई बाणको वर्षाले बेध्यो।
20वीर सहदेवले त्यस भयङ्कर युद्धमा चाँडै एक तीखो बाणले दुर्मुखका सारथिलाई ढालिदिए।
21ती दुवै युद्धमा अजेय थिए। एक-अर्कामाथि आक्रमण गर्दै र एक-अर्काको आक्रमण रोक्ने इच्छाले तिनीहरूले भयङ्कर बाणले एक-अर्कामा आतङ्क भरिरहे।
22राजा युधिष्ठिर आफैँ मद्रराजसँग भिडे। मद्रराजले युधिष्ठिरको धनु काटिदिए।
23तब कुन्तीपुत्रले अर्को धनु उठाए, जो बढी दृढ थियो र बढी वेग दिन समर्थ थियो।
24तब ती राजाले महान् क्रोधले "पर्ख!" भन्दै मद्रराजलाई सीधा बाणले ढाके।
25हे भरतवंशी, धृष्टद्युम्न द्रोणमाथि जाइलागे। महान् क्रोधमा द्रोणले त्यस युद्धमा यशस्वी पाञ्चालराजकुमारको त्यो दृढ धनु काटिदिए, जो सधैँ शत्रुहरूका प्राण लिन समर्थ थियो। उनले त्यस युद्धमा एउटा भयङ्कर बाण छोडे, जो यमको दोस्रो दण्डसमान थियो। यसरी छोडिएको त्यो बाण चाँडै त्यस राजकुमारको शरीरमा पस्यो। तब अर्को धनु र चौध बाण उठाएर द्रुपदपुत्रले द्रोणलाई आफ्ना बाणले बेधे। एक-अर्कामाथि क्रुद्ध भई तिनीहरू युद्ध गरिरहे।
26हे राजन्, वेगवान् शङ्ख त्यस युद्धमा समान रूपमा वेगवान् सोमदत्तपुत्रसँग भिडे र उसलाई ललकार्दै भने — "पर्ख! पर्ख!"
27तब त्यस वीरले त्यस युद्धमा उसको दाहिने पाखुरा बेधे। यसमा सोमदत्तपुत्रले शङ्खको काँधमा घाउ गरे।
28हे राजन्, यी दुवै अभिमानी वीरबीच जुन युद्ध भयो, त्यो चाँडै देवता र असुरहरूको युद्धसमान भयङ्कर भयो।
29हे राजन्, ती महात्मा महारथी धृष्टकेतु क्रोधमा साक्षात् क्रोधको मूर्ति बाह्लीकमाथि जाइलागे।
30हे राजन्, महान् बाह्लीकले सिंहसमान गर्जँदै क्रुद्ध धृष्टकेतुलाई असङ्ख्य बाणले दुर्बल पारे।
31तब चेदिराजले अत्यन्त क्रुद्ध भई त्यस युद्धमा चाँडै बाह्लीकलाई नौ बाणले बेधे। जसरी एउटा मदोन्मत्त हात्तीले अर्को मदोन्मत्त हात्तीमाथि आक्रमण गर्दछ, त्यसै गरी तिनीहरू महान् क्रोधमा एक-अर्काविरुद्ध गर्जे। तिनीहरू अत्यन्त क्रोधमा युद्ध गरिरहे र अङ्गारक तथा बुध ग्रहसमान देखिन्थे। भयानक राक्षस घटोत्कचले दुष्कर्मी अलम्बुष नामक राक्षसमाथि आक्रमण गरे — ठीक त्यसै गरी जसरी इन्द्रले भयङ्कर दानव बलमाथि आक्रमण गरेका थिए।
32हे भरतवंशी, क्रूर कर्म गर्ने घटोत्कचले त्यस बलवान् र क्रुद्ध राक्षस (अलम्बुष)लाई नब्बे तीखा बाणले घाइते पारे।
33अलम्बुषले पनि त्यस महायुद्धमा भीमसेनका महाबली पुत्र (घटोत्कच)लाई सीधा बाणले अनेक ठाउँमा घाइते पारे।
34बाणले घाइते ती दुवै त्यस युद्धमा यस्ता देखिन्थे मानौँ देवता र दानवहरूको युद्धमा महाबली इन्द्र र पराक्रमी बल हुन्।
35हे राजन्, महाबली शिखण्डीले द्रोणपुत्रमाथि आक्रमण गरे। तर अश्वत्थामाले तीखा बाणले शिखण्डीलाई नराम्ररी घाइते पारे र यसरी उसलाई काँप्न बाध्य पारे।
36हे राजन्, शिखण्डीले पनि एउटा तीखो र उत्तम शस्त्रले द्रोणपुत्र (अश्वत्थामा)लाई घाइते पारे।
37तिनीहरू नाना प्रकारका बाणले एक-अर्कामाथि प्रहार गरिरहे। हे राजन्, सेनापति विराट युद्धमा वीर भगदत्तमाथि जाइलागे। अत्यन्त क्रुद्ध भई विराटले भगदत्तमाथि बाणको त्यस्तै वर्षा गरे जसरी मेघले पर्वतमाथि वर्षा गर्दछ। तर ती पृथ्वीपति भगदत्तले चाँडै विराटलाई बाणले त्यसै गरी ढाके जसरी मेघले सूर्यलाई ढाक्दछ।
38शरद्वान्का पुत्र कृपले बृहत्क्षत्र नामक कैकेयराजमाथि आक्रमण गरे। हे भरतवंशी, कृपले उसलाई बाणको वर्षाले ढाके।
39बृहत्क्षत्रले पनि क्रुद्ध गौतमपुत्रलाई बाणको वर्षाले ढाके। एक-अर्काका घोडा मारेर र एक-अर्काका धनु काटेर ती (दुवै) योद्धा रथविहीन भए। तब अत्यन्त क्रुद्ध भई तिनीहरूले तरवारले एक-अर्कामाथि आक्रमण गरे।
40तब तिनीहरूले जुन युद्ध गरे त्यो भयङ्कर र अनुपम थियो। शत्रुदमन राजा द्रुपद क्रोधमा सिन्धुराज जयद्रथमाथि जाइलागे। सिन्धुराजले त्यस युद्धमा द्रुपदलाई तीन बाणले घाइते पारे, र द्रुपदले पनि बदलामा उसलाई घाइते पारे।
41तिनीहरूले जुन युद्ध गरे त्यो भयङ्कर र घोर थियो। त्यसले सम्पूर्ण दर्शकको हृदयलाई सन्तोष दियो; त्यो शुक्र र अङ्गारक ग्रहको सङ्घर्षसमान थियो। तपाईंका पुत्र विकर्णले वेगवान् घोडासहित महाबली सुतसोममाथि आक्रमण गरे र तिनीहरू युद्ध गर्न थाले। यद्यपि विकर्णले सुतसोमलाई अनेक बाणले घाइते पारे, तथापि उसले उसलाई विचलित पार्न सकेन।
42सुतसोमले पनि विकर्णलाई विचलित पार्न सकेनन्। त्यो एउटा अद्भुत दृश्य थियो। ती महारथी, पुरुषहरूमा श्रेष्ठ, महाबली चेकितान पाण्डवहरूको हितका लागि सुशर्मामाथि जाइलागे। हे राजाहरूका राजा, तर सुशर्माले बाणको भारी वर्षाले त्यस महारथी चेकितानको गति रोकिदिए। चेकितानले पनि अत्यन्त क्रुद्ध भई सुशर्मामाथि बाणको त्यस्तै वर्षा गरे जसरी मेघपुञ्जले पर्वतमाथि वर्षा गर्दछ।
43हे राजन्, महाबली शकुनिले महाबली प्रतिविन्ध्यमाथि त्यसै गरी आक्रमण गरे जसरी सिंहले मदोन्मत्त हात्तीमाथि गर्दछ।
44युधिष्ठिरपुत्रले महान् क्रोधमा सुबलपुत्रलाई अनेक तीखा बाणले त्यसै गरी घाइते पारे जसरी मघवान् (इन्द्र)ले कुनै दानवलाई क्षतविक्षत पार्दछन्।
45त्यस भयङ्कर युद्धमा शकुनिले पनि प्रतिविन्ध्यलाई घाइते पारे र त्यस परम बुद्धिमान् योद्धाको शरीरलाई तीखा बाणले क्षतविक्षत पारे।
46हे महाराज, श्रुतकर्माले त्यस युद्धमा महारथी, महाबली कम्बोजराज सुदक्षिणमाथि आक्रमण गरे।
47हे राजाहरूका राजा, सुदक्षिणले त्यस महारथी सहदेवपुत्रलाई घाइते पारे, तर उसलाई विचलित पार्न सकेनन्; ऊ मैनाक पर्वतसमान अडिग उभिइरह्यो।
48तब श्रुतकर्माले महान् क्रोधमा असङ्ख्य बाणले त्यस कम्बोज महारथीलाई दुर्बल पारे र उसका शरीरका अनेक भाग क्षतविक्षत पारे।
49त्यस महायुद्धमा शत्रुदमन इरावान् महान् क्रोधमा क्रुद्ध श्रुतायुमाथि जाइलागे।
50तब अर्जुनका महाबली पुत्र, ती महारथीले आफ्नो प्रतिद्वन्द्वीका घोडा मारेर ठूलो स्वरले गर्जना गरे। हे राजन्, सम्पूर्ण राजाहरूले उनको यस महान् पराक्रमको प्रशंसा गरे।
51श्रुतायुले त्यस युद्धमा एउटा विशाल गदाले अर्जुनपुत्रका घोडा मारे, र त्यसपछि तिनीहरू युद्ध गरिरहे।
52अवन्तीका दुवै राजकुमार विन्द र अनुविन्दले त्यस युद्धमा महारथी वीर कुन्तिभोजमाथि आक्रमण गरे, जो आफ्नो पुत्रसहित आफ्नो सेनाको अगाडि थिए।
53हामीले ती दुवै राजकुमारमा अद्भुत पराक्रम देख्यौँ, किनभने अत्यन्त विशाल सेनासँग युद्ध गर्नुपर्दा पनि तिनीहरू महान् धैर्यले लडे।
54अनुविन्दले कुन्तिभोजमाथि एउटा गदा फ्याँके, तर उनले (कुन्तिभोजले) चाँडै उसलाई बाणको वर्षाले ढाके।
55कुन्तिभोजका पुत्रले विन्दलाई अनेक बाणले घाइते पारे, तर उसले पनि बदलामा उनलाई घाइते पार्यो। तिनीहरूले गरेको युद्ध अद्भुत थियो।
56हे पूज्य, केकयवंशी दाजुभाइहरूले आफ्ना सेनाको अगाडि रहेर त्यस युद्धमा आफ्ना सेनासहित पाँच गन्धर्व राजकुमारमाथि आक्रमण गरे।
57तपाईंका पुत्र वीरबाहुले महारथीहरूमा श्रेष्ठ विराटपुत्र उत्तरसँग युद्ध गरे र उनलाई नौ बाणले घाइते पारे।
58उत्तरले पनि उसलाई अनेक तीखा बाणले घाइते पारे। हे राजन्, त्यस युद्धमा चेदिराजले उलूकमाथि आक्रमण गरे।
59उनले उलूकलाई बाणको वर्षाले घाइते पारे, र उलूकले पनि उनलाई उत्तम प्वाँख भएका तीखा बाणले घाइते पारे।
60हे राजन्, तिनीहरूले गरेको युद्ध अत्यन्त भयङ्कर थियो, किनभने एक-अर्कालाई पराजित गर्न असमर्थ भई तिनीहरूले एक-अर्काको शरीर भयङ्कर रूपमा क्षतविक्षत पारे।
61यसरी त्यस महायुद्धमा दुवै पक्षका रथी, गजारोही, अश्वारोही र पैदल सैनिकहरूबीच हजारौँ द्वन्द्वयुद्ध भए।
62केही बेरसम्म त्यो युद्ध सुन्दर देखियो, तर हे राजन्, त्यो चाँडै प्रचण्ड भयो र त्यसपछि केही पनि देखिँदैनथ्यो।
63त्यस युद्धमा हात्ती हात्तीमाथि, रथी रथीमाथि, अश्वारोही अश्वारोहीमाथि र पैदल सैनिक पैदल सैनिकमाथि जाइलागे।
64यसरी त्यो युद्ध घोर सङ्कुल र अत्यन्त भयङ्कर भयो। वीरहरू ठूलो सङ्ख्यामा एक-अर्कामाथि जाइलागे।
65त्यहाँ उपस्थित देवर्षि, सिद्ध र चारणहरूले त्यो युद्धलाई यसरी हेरे मानौँ त्यो देवता र दानवहरूको युद्ध हो।
66हजारौँ हात्ती र रथ, असङ्ख्य अश्वारोही र पैदल सैनिक — सबै मानौँ आफ्नो स्वरूपै बदलिसकेका थिए।
67हे पुरुषश्रेष्ठ, देखियो कि रथी, हात्ती, अश्वारोही र पैदल सैनिक — सबै एउटै ठाउँमा बारम्बार एक-अर्कासँग लडिरहेका थिए।