प्रजागर पर्व — विदुरद्वारा विवेचित नीति-उपदेश
खण्ड 3 — विराट र उद्योग पर्व · अध्याय 107
संस्कृत
1धृतराष्ट्र उवाच ब्रूहि भूयो महाबुद्ध धर्मार्थसहितं वचः। शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे॥
2विदुर उवाच सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्। उभे त्वेते समे स्यातामार्जवं वा विशिष्यते॥
3आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो। इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि॥
4यावत् कीर्तिर्मनुष्यस्य पुण्या लोके प्रगीयते। तावत् स पुरुषव्याघ्र स्वर्गलोके महीयते॥
5अत्राप्युदाहरन्तीममितिहासं पुरातनम्। विरोचनस्य संवादं केशिन्यर्थं सुधन्वना॥
6स्वयंवरे स्थिता कन्या केशिनी नाम नामतः। रूपेणाप्रतिमा राजन् विशिष्टपतिकाम्यया।॥
7विरोचनोऽथ दैतेयस्तदा तत्राजगाम ह। प्राप्तुमिच्छंस्ततस्तत्र दैत्येन्द्रं प्राह केशिनी॥
8केशिन्युवाच किं ब्राह्मणा: स्विच्छ्रेयांसो दितिजाः स्विद् विरोचन। अथ केन स्म पर्यवं सुधन्वा नाधिरोहति॥
9विरोचन उवाच प्राजापत्यास्तु वै श्रेष्ठा वयं केशिनि सत्तमाः। अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः॥
10केशिन्युवाच इहैवावां प्रतीक्षाव उपस्थाने विरोचन। सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ॥
11विरोचन उवाच तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे। सुधन्वानं च मां चैव प्रातर्दृष्टासि संगतौ॥
12विदुर उवाच अतीतायां च शर्वर्यामुदिते सूर्यमण्डले। अथाजगाम तं देशं सुधन्वा राजसत्तम। विरोचनो यत्र विभो केशिन्या सहितः स्थितः॥
13सुधन्वा च समागच्छत् प्राहादि केशिनी तथा। समागतं द्विजं दृष्ट्वा केशिनी भरतर्षभ। प्रत्युत्थायासनं तस्मै पाद्यमयं तदौ पुनः॥
14सुधन्वोवाच अन्वालभे हिरण्मयं प्राह्रादे ते वरासनम्। एकत्वमुपसम्पन्नो न त्वासेऽहं त्वया सह॥
15विरोचन उवाच तवाहते तु फलकं कूर्च वाप्यथवा बृसी। सुधन्वन्न त्वमोऽसि मया सह समासनम्॥
16सुधन्वोवाच पितापुत्रौ सहासीतां द्वौ विप्रौ क्षत्रियावपि। वृद्धौ वैश्यौ च शूद्रौ च न त्वन्यावितरेतरम्॥
17पिता हि ते समासीनमुपासीतैव मामधः। बालः सुखैधितो गेहे न त्वं किंचन बुध्यसे॥
18विरोचन उवाच हिरण्यं च गवावं च यद् वित्तमसुरेषु नः। सुधन्वन् विपणे तेन प्रश्नं पृच्छाव ये विदुः॥
19सुधन्वोवाच हिरण्यं च गवाश्चं च तवैवास्तु विरोचना प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः॥
20विरोचन उवाच आवां कुत्र गमिष्यावः प्राणयोविपणे कृते। न तु देवेष्वहं स्थाता न मनुष्येषु कहिचित्॥
21सुधन्वोवाच पितरं ते गमिष्यावः प्राणयोर्विपणे कृते। पुत्रस्यापि स हेतोहि प्रह्लाद नानृतं वदेत्॥
22विदुर उवाच एवं कृतपणौ क्रुद्धौ तत्राभिजग्मतुस्तदा। विरोचनसुधन्वानौ प्रह्लाद यत्र तिष्ठति॥
23प्रह्लाद उवाच इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह। आशीविषाविव क्रुद्धावेकमार्गाविहागतौ॥
24किं वै सहैवं चरथो न पुरा चरथः सह। विरोचनैतत् पृच्छामि किं ते सख्यं सुधन्वना॥
25विरोचन उवाच न मे सुधन्वना सख्यं प्राणयोर्विपणावहे। प्रह्लाद तत्त्वं पृच्छामि मा प्रश्नमनृतं वदेः॥
26प्रह्लाद उवाच उदकं मधुपर्क वाप्यानयन्तु सुधन्वने। ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता।॥
27सुधन्वोवाच उदकं मधुपर्कं च पथिष्वेवार्पितं मम। प्रह्लाद त्वं तु मे तथ्यं प्रश्न प्रबूहि पृच्छतः। किं ब्राह्मणाः स्विच्छ्रेयांस उताहो स्विद् विरोचनः।।
28प्रह्लाद उवाच पुत्र एको मम ब्रह्मंस्त्वं च साक्षादिहास्थितः। तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत्॥
29सुधन्वोवाच गां प्रदद्यास्त्वौरसाय यद्वान्यत् स्यात् प्रियं धनम्। द्वयोर्विवदतोस्तथ्यं वाच्यं च मतिमंस्वया॥
30प्रह्लाद उवाच अथ यो नैव प्रब्रूयात् सत्यं वा यदि वानृतम्। एतत् सुधन्वन् पृच्छामि दुर्विवक्ता स्म किं वसेत्॥
31सुधन्वोवाच यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः। यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत्॥
32नगरे प्रतिरुद्धः सन् बहिरे बुभुक्षितः। अमित्रान् भूयसः पश्येद् यः साक्ष्यमनृतं वदेत्॥
33पञ्च पश्चनृते हन्ति दश हन्ति गवानृते। शतमश्वानृते हन्ति सहस्रं पुरुषानृते।॥
34हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्। सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः॥
35प्रहाद उवाच मत्तः श्रेयानङ्गिरा वै सुधन्वा स्वद्विरोचन। मातास्य श्रेयसी मातुस्तस्मात् त्वं तेन वै जितः॥
36विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव। सुधन्वन् पुनरिच्छामि त्वया दत्तं विरोचनम्॥
37सुधन्वोवाच यद् धर्ममवृणीथास्त्वं न कामादनृतं वदीः। पुनर्ददामि ते पुत्रं तस्मात् प्रह्लाद दुर्लभम्॥
38एष प्रह्लाद पुत्रस्ते मया दत्तो विरोचनः। पादप्रक्षालनं कुर्यात् कुमार्याः संनिधौ मम॥
39विदुर उवाच तस्माद् राजेन्द्र भूम्यर्थं नानृतं वक्तुमर्हसि। मा गम: ससुतामात्यो नाशं पुत्रार्थमब्रुवन्॥
40न देवा दण्डमादाय रक्षन्ति पशुपालवत्। यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम्॥
41यथा यथा हि पुरुषः कल्याणे कुरुते मनः। तथा तथाऽस्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः॥
42नैनं छन्दांसि वृजिनात् तारयन्ति मायाविनं मायया वर्तमानम्। श्छन्दांस्येन प्रजहत्यन्तकाले॥
43मद्यपानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम्। राजद्विष्टं स्त्रीपुंसयोविवाद वान्याहुर्यश्च पन्थाः प्रदुष्टः॥
44सामुद्रिकं वणिजं चोरपूर्वं शलाकधूर्तं च चिकित्सकं च। अरिं च मित्रं च कुशीलवं च नैतान् साक्ष्ये त्वधिकुर्वीत सप्त॥
45मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः। एतानि चत्वार्यभयंकराणि भयं प्रयच्छन्त्ययथाकृतानि।।
46अगारदाही गरदः कुण्डाशी सोमविक्रयी। पर्वकारश्च सूची मित्रधुक् पारदारिकः॥ भ्रूणहा गुरुतल्पी च यश्च स्यात् पानपो द्विजः। अतितीक्ष्णश्च काकच नास्तिको वेदनिन्दकः॥ स्रुवप्रग्रहणो व्रात्य: कीनाशश्चात्मवानपि। रक्षेत्युक्तश्च यो हिंस्यात् सर्वे ब्रह्महभिः समाः॥
47तृणोल्कया ज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः। शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रेष्वापत्सु सुहृदश्चारयश्च॥
48जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया। क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः॥
49श्रीमङ्गलात् प्रभवति प्रागल्भ्यात् सम्प्रवर्धते। दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति।॥
50अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च। पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च॥
51एतान् गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्या राजा यदा सत्कुरुते मनुष्यं सर्वान् गुणानेष गुणो विभाति॥
52अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि। श्चत्वारि चैषामनुयान्ति सन्तः॥
53यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः। दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः।।
54इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा। अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥
55तत्र पूर्वचतुर्वर्गो दम्भार्थमपि सेव्यते। उत्तरश्च चतुर्वर्गो नामहात्मसु तिष्ठति॥
56न सा सभा यत्र न सन्ति वृद्धा वृद्धा ये न वदन्ति धर्मम्। नासौ धर्मो यत्र न सत्यमस्ति न तत् सत्यं यच्छलेनाभ्युपेतम्॥
57सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम्। शौर्यं च चित्रभाष्यं च दशेमे स्वर्गयोनयः॥
58पापं कुर्वन् पापकीर्तिः : पापमेवाश्नुते फलम्। पुण्यं कुर्वन् पुण्यकीर्तिः पुण्यमत्यन्तमश्नुते॥
59तस्मात् पापं न कुर्वीत पुरुषः शंसितव्रतः। पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः॥
60नष्टप्रज्ञः पापमेव नित्यमारभते नरः। पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः॥
61वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः। पुण्यं कुर्वन् पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति। तस्मात् पुण्यं निषेवेत पुरुषः सुसमाहितः॥
62असूयको दन्दशूको निष्ठुरो वैरकृच्छठः। स कृच्छ्रे महदाप्नोति न चिरात् पापमाचरन्॥
63अनसूयुः कृतप्रज्ञः शोभनान्याचरन् सदा। नकृच्छ्रे महदाप्नोति सर्वत्र च विरोचते॥
64प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः। प्राज्ञो ह्यवाप्य धर्मार्थों शक्नोति सुखमेधितुम्॥
65दिवसेनैव तत् कुर्याद् येन रात्रो सुखं वसेत्। अष्टमासेन तत् कुर्याद् येन वर्षाः सुखं वसेत्॥
66पूर्वे वयसि तत् कुर्याद् येन वृद्धः सुखं वसेत्। यावज्जीवेन तत् कुर्याद् येन प्रेत्य सुखं वसेत्॥
67जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम्। शूरं विजितसंग्रामं गतपारं तपस्विनम्॥
68धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते। असंवृतं तद् भवथि ततोऽन्यदवदीर्यते॥
69गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्। अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः॥
70ऋषीणां च नदीनां च कुलानां च महात्मनाम्। प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च।॥
71द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी। क्षत्रियः शीलभाग् राजंश्चिरं पालयते महीम्॥
72सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्॥
73बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत। तानि जवाजघन्यानि भारप्रत्यवराणि च॥
74दुर्योधनेऽथ शकुनौ मूढे दुःशासने तथा। कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि॥
75सर्वैर्गुणैरुपेतास्तु पाण्डवा भरतर्षभ। पितृवत् त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत्॥
अङ्ग्रेजी
1Dhritarashtra said O you of great wisdom, repeat these sayings, that are consist on with morality and worldly benefit. What you say is most interesting; my desire for hearing them has not been satisfied.
2Vidura said Bathing in all the holy places and kindness to all beings-both these are equal. Perhaps kindness is better.
3O Lord, always show kindness to your sons; and thus you will attain to heaven after having gained great fame in this world.
4As long as a man's deeds are spoken of in this world, so long, O foremost among men, he is glorious in heaven.
5As an instance of this is cited the old story about the conversation between Virochana and Sudhanvan, suitors of Keshini's hand.
6A maiden named Keshini, of peerless beauty, o king, with the desire of a good husband, resolved to to choose in Svayamvara.
7Then Virochana, a son of Diti, came there with the desire of winning her. Then did Keshini address that chief among the Daityas thus. one a
8Keshini said Are the Brahmanas superior or are the sons of Diti superior, O Virochana? why should not Sudhanvan sit on the sofa?
9Virochana said We, the descendants of Prajapati, O Keshini, are the best among creatures. This world is ours. Who are the gods and who are the twice-born person?
10Keshini said Even in this very Pavilion shall we wait, O Virochana. Sudhanvan will come in the morning to-morrow; I shall both of you together.
11Virochana said 0gentle maiden, I shall do as you say, 0 timid one; you will see in the morning myself and Sudhanvan together.
12Vidura said The night had passed away and the solar disc had appeared, there came to that country, O best kings, Sudhanvan, where, O Lord, Virochana was staying with Keshini.
13Sudhanvan came to the son of Prahrada and Keshini; the latter, O best among the race if Bharata, having observed the approach of a Brahmana, rose up; and gave him water to wash his feet and the Arghya (mark of respect).
14Sudhanvan said (When asked by Virochana to sit on the sofa he occupied) O son of Prahrada, how can I touch that excellent gold seat occupied by you? I shall then come down to the same level with yourself. I shall not sit with you.
15Virochana said You are fit for (sitting on) a plank, a skin or a mat. O Sudhanvan, you are not fit for a seat equal to mine.
16Sudhanvan said Father and son, two Brahmanas, two Kshatriyas, two old men and two Sudras can sit together. Excepting these, no others can sit together.
17Your father used to respect me and occupy a seat lower than mine. You are a child bred in luxury at home; and do not know anything.
18Virochana said The gold kine, horses and all other wealth that we Asuras have-staking all these, o Sudhanvan, let us ask this question to them that know.
19Sudhanvan said O Virochana, let alone your gold, kine and horses. Let us stake our very lives and ask them the question that are able to answer.
20Virochana said Where shall we go after staking our lives. I shall not stand before any of the gods and never before any among men.
21Sudhanvan said We shall go your father after staking our lives. Prahrada will not tell a lie even for the sake of his son.
22Vidura said In this way having laid wagers, Virochana and Sudhanvan, enraged at each other, then went to the place where Prahrada was staying.
23Prahrada said These two now appear, who have never before been together, like two enraged serpents coming by the same road.
24Is it that friendship has now been established between you, among whom these was no friendship before? O Virochana, I ask you why this friendship with Sudhanvan.
25Virochana said There is no friendship between myself and Sudhanvan. (the Truth is that) we have wagered our lives. O sire, I shall ask you a question; do not answer it untruely.
26Prahrada said Let water, honey and curds be brought for Sudhanvan. O Brahmana, you ought to be respected by ine. A white and healthy cow is ready for you.
27Sudhanvan said Water, honey and curds have been presented to me on the way. O Prahrada, I ask you a question; answer truly what I ask you. Are the Brahmanas superior or is Virochana superior?
28Prahrada said I have got only one son; and you are a Brahmana present here in person. How can one situated as I am, answer the question, which is a matter of dispute between yourselves.
29Sudhanvan said Keep your cow and whatever wealth you hold dear for yourself; but, O wise man, you should speak the truth in a matter, on which we two are disputing.
30Prahrada said Who does not answer, truly or falsely; I ask you, Sudhanvan, where does that wrong user of his tongue live?
31Sudhanvan said One who makes a wrong use of his tongue lives passing his nights like a woman having her husband sleeping in the arms of a co-wife or like one who has been defeated at a game at dice or like one whose body is burning with troubles.
32The man, who is giving evidence tells lies, stays staving at the outer gates, shut out from the city; and he always sees his enemies.
33A lie for the sake of an animal means the degradation from heaven of five of one's ancestors; one for the sake of a cow means the downfall of ten; one for the sake of a horse means for the downfall of a hundred; while one for the sake of a man means the casting away of a thousand.
34A lie for the sake of gold means the destruction of one's race born and unborn; and one for the sake of land means the ruin of everything. Therefore do not tell lies for the sake of land.
35Prahrada said Superior to me is Angirasa; and superior to you is Sudhanvan, O Virochana. His mother, too, is superior to (your) mother. Therefore you have been vanquished by him.
36O Virochana, this Sudhanvan is now the lord of your life. O Sudhanvan, I desire it (the life) to be restored by you to Virochana.
37Sudhanvan said you have chosen virtue and have not I spoken an untruth from temptation; therefore I give back your dear son his life, O Prahrada.
38This son of your, Virochana, who is given to you by me, O Prahrada, should wash my feet before the maiden. Since you
39Vidura said Therefore, O chief among kings you should not speak an untruth for the sake of land. Do not ruin yourself with your sons and ministers by refraining from speaking the truth.
40The gods do not look after men with club in hands, like the herdsman. To those they want to protect, they give intelligence.
41In proportion as a man is inclined towards virtue, his wishes meet with success, there is no doubt about it.
42The Vedas do not rescue one who is deceitful and lives by deceit from sins. Indeed, the Vedas, when the end approaches, forsake him, as the full-fledge birds forsake their nests.
43Drinking quarrels, enmity with many, separating husband from wife (by sowing dissensions), family quarrels, disloyalty to the king, causing quarrels between husbands and wife ought, it is said, to be avoided, as well as the sinful ways of life.
44A palmist, a merchant who has formerly been a thief, a cunning fowler, a medical man, an enemy, a friend and one who is of bad habits these seven should not be cited as witnesses.
45An Agnihotra ceremony performed out of vanity, silence, study out of vanity and pride based upon haughtiness, these four though not fearful of themselves, become fearful when performed unduly.
4646-An incendiary, one who imprisons other persons, a pander, a wine-seller, a manufacturer of arrows, an astrologer, one who injuries friends, one who violates other's wives, one who causes miscarriage, one who violates the wife of his elders and superiors, a twice-born who drinks wine, one who uses excessively harsh words, one who opens up old hostilities, an atheist, one who speaks ill of the Vedas, one addicted to taking bribes, one whose holy thread ceremony has not been performed even through the time has come, one who secretly poisons cattle and one who injures a person who says "protect me”-all these are on the same level with those who slay Brahmanas.
47Gold is known by fire, one of good birth by his behaviour, an honest man by his conduct, a hero in times of panic, a patient man during the time of poverty and friends and enemies during the seasons of difficulties and dangers.
48Old age destroys beauty; patience hope; death, life envy, virtue; passion, prosperity; association with the vulgar good manners; lust, modesty; and vanity, everything.
49Prosperity has for its source good deeds; it increases owing to activity and takes root owing to skill and continues its existence owing to self-control.
50Eight qualities glorify a man, viz., wisdom, good birth, self-restraint, learning, strength, littleness of speech, gift to the best of his power and gratitude.
51But, O dear, one thing alone can make all these great qualities come together. When a king honours a man, all the qualities shed luster on him.
52These eight, O king, in this world of human beings are considered as the marks of heaven. Of these, four are the attributes of the good; and the honest men follow the other four.
53Sacrificial ceremonies, gifts, study and devotion, these tour are followed by the good. Self-control, truth, kindness and humanity, these four are also the attributes of the good.
54Sacrificial ceremonies, study, gift, devotion, truth, forgiveness, mercy and contentment, these are the eight ways to virtue, according to the Smriti.
55The first four of these may be followed from motives of vanity; but the last four do not exist in those that are not great.
56That one is not an assembly where there are no old men. Those are not old men who do not speak of virtue. That is not virtue where truth does not exist; and that is not truth where deceit pervades.
57Truth, beauty, learning, knowledge, good birth, good manners, strength, wealth, heroism and ability to talk on diverse topics, these ten have their origin in heaven.
58A man, who is notoriously sinful by doing sinful acts, gets evil fruits; and one, who is reputed to be virtuous by doing virtuous acts, gains great happiness.
59There should a man firmly resolve not to do sinful acts. The sinful acts being committed again and again destroy wisdom.
60The man who has lost his wisdom constantly commits sin. The virtuous acts being done again and again increase wisdom.
61An old man and wise always does virtuous acts. By doing virtuous acts he gains a good reputation and goes to a holy place (hereafter). Therefore should a man intently practice virtue.
62A man that is envious, one that gravely injures another, one who is cruel, one who is always making enemies of others and one who is deceitful by committing sins, soon meets with grave difficulties.
63He that is not envious and he who is wise by always doing graceful acts, never meets with any grave difficulties; and shines with luster everywhere.
64He that assimilates the wisdom of the wise is himself wise; and he who is wise by doing acts, both virtuous and conducive to worldly benefits, succeeds in gaining happiness.
65That act should be done by one during the day, which will enable him to live in comfort during the night; and that should be done in eight months which will enable one to live in comfort throughout the year.
66That act should be done during the early years of life, which will enable one to live in comfort during the old age. That act should be done in this life which will enable one to live in happiness after death.
67People speak well of that food which has been digested. They speak well of the wife whose youth has passed away and of that hero who has come off victorious in the battle and of that ascetic who has gone over to the other side (of life).
68The hole, that one seeks to stop by wealth acquired by foul means, remains uncovered; and others come into existence in other places.
69The preceptor is the controller of those who have their souls under restraint; the king is the controller of those who have bad souls; and Yama, the son of Vivasvata, is the controller of those who sin in secret.
70The greatness of Rishis, of rivers, of the banks of rivers and of the noble-minded cannot be conceived, as also the wickedness of a woman.
71One attached to the worship of the twiceborn, one that makes gifts, one who behaves generously towards his cousins and the Kshatriya of good manners, rules the earth forever.
72These three, viz., the brave, the wise and these who know how to protect others, plucks flowers of gold from the earth.
73Acts performed by means of the intellect are the best; those performed by the arms come next; O Bharata, those by the things are bad; while those performed by carrying loads are the worst.
74Having entrusted your kingdom Duryodhana, Shakuni and the fool Dushasana and Karna, how can you hope for prosperity?
75The Pandavas who are possessed of every virtue, O best among the race of Bharata, depend on you as their father. Do you also depends upon them as your sons. to
हिन्दी
1धृतराष्ट्र ने कहा — हे महाबुद्धिमान्, धर्म तथा अर्थ के अनुकूल इन वचनों को और कहो। जो तुम कह रहे हो वह अत्यन्त रुचिकर है; उन्हें सुनने की मेरी इच्छा अभी तृप्त नहीं हुई।
2विदुर ने कहा — समस्त तीर्थों में स्नान करना तथा समस्त प्राणियों पर दया करना — ये दोनों समान हैं। सम्भवतः दया ही श्रेष्ठ है।
3हे स्वामी, अपने पुत्रों पर सदा दया दिखाओ; इस प्रकार इस लोक में महान् यश प्राप्त करके तुम स्वर्ग को प्राप्त करोगे।
4हे नरश्रेष्ठ, जब तक इस संसार में मनुष्य के कर्मों की चर्चा होती रहती है, तब तक वह स्वर्ग में यशस्वी रहता है।
5इस विषय में केशिनी के पाणिग्रहण के इच्छुक विरोचन तथा सुधन्वा के संवाद का प्राचीन इतिहास कहा जाता है।
6हे राजन्, केशिनी नाम की एक अनुपम सुन्दरी कन्या थी, जिसने उत्तम पति की कामना से स्वयंवर में वर चुनने का निश्चय किया।
7तब दिति के पुत्र विरोचन उन्हें जीतने की इच्छा से वहाँ आए। तब केशिनी ने दैत्यों में श्रेष्ठ उस (विरोचन) से इस प्रकार कहा।
8केशिनी ने कहा — हे विरोचन, ब्राह्मण श्रेष्ठ हैं अथवा दिति के पुत्र श्रेष्ठ हैं? सुधन्वा को आसन पर क्यों नहीं बैठना चाहिए?
9विरोचन ने कहा — हे केशिनी, हम प्रजापति के वंशज ही प्राणियों में श्रेष्ठ हैं। यह संसार हमारा है। देवता कौन हैं और द्विज कौन हैं?
10केशिनी ने कहा — हे विरोचन, हम इसी मण्डप में प्रतीक्षा करेंगी। कल प्रातःकाल सुधन्वा आएँगे; मैं तुम दोनों को एक साथ देखूँगी।
11विरोचन ने कहा — हे सौम्य कन्या, हे भीरु, मैं वैसा ही करूँगा जैसा तुम कहती हो; प्रातःकाल तुम मुझे तथा सुधन्वा को एक साथ देखोगी।
12विदुर ने कहा — रात्रि बीत गई और सूर्यमण्डल प्रकट हुआ; तब हे राजाओं में श्रेष्ठ, सुधन्वा उस देश में आए, जहाँ हे स्वामी, विरोचन केशिनी के साथ ठहरे हुए थे।
13सुधन्वा प्रह्लाद के पुत्र तथा केशिनी के समीप आए; हे भरतवंश में श्रेष्ठ, ब्राह्मण को आते देखकर केशिनी उठ खड़ी हुईं और उन्हें चरण धोने का जल तथा अर्घ्य (सम्मान का उपचार) अर्पित किया।
14सुधन्वा ने कहा — (विरोचन के द्वारा अपने ही आसन पर बैठने को कहे जाने पर) हे प्रह्लादपुत्र, तुम्हारे द्वारा अधिकृत उस उत्तम स्वर्ण-आसन को मैं कैसे स्पर्श कर सकता हूँ? तब तो मैं तुम्हारे ही समान स्तर पर उतर आऊँगा। मैं तुम्हारे साथ नहीं बैठूँगा।
15विरोचन ने कहा — हे सुधन्वा, तुम काष्ठफलक, मृगचर्म अथवा चटाई के योग्य हो; तुम मेरे समान आसन के योग्य नहीं हो।
16सुधन्वा ने कहा — पिता और पुत्र, दो ब्राह्मण, दो क्षत्रिय, दो वृद्ध तथा दो शूद्र — ये एक साथ बैठ सकते हैं। इनके अतिरिक्त और कोई एक साथ नहीं बैठ सकते।
17तुम्हारे पिता मेरा आदर करते थे और मुझसे नीचे आसन पर बैठते थे। तुम तो घर में विलास में पले हुए बालक हो; और कुछ नहीं जानते।
18विरोचन ने कहा — हे सुधन्वा, हम असुरों के पास जो स्वर्ण, गौएँ, अश्व तथा अन्य समस्त सम्पत्ति है — इन सबको दाँव पर लगाकर हम यह प्रश्न उनसे पूछें जो जानते हैं।
19सुधन्वा ने कहा — हे विरोचन, अपना स्वर्ण, गौएँ तथा अश्व रहने दो। हम अपने प्राणों को ही दाँव पर लगाकर उनसे यह प्रश्न पूछें जो उत्तर देने में समर्थ हैं।
20विरोचन ने कहा — प्राणों को दाँव पर लगाकर हम कहाँ जाएँगे? मैं न किसी देवता के सम्मुख खड़ा होऊँगा और न कभी किसी मनुष्य के सम्मुख।
21सुधन्वा ने कहा — प्राणों को दाँव पर लगाकर हम तुम्हारे पिता के पास चलेंगे। प्रह्लाद अपने पुत्र के लिए भी असत्य नहीं कहेंगे।
22विदुर ने कहा — इस प्रकार बाजी लगाकर, एक-दूसरे पर क्रुद्ध हुए विरोचन तथा सुधन्वा वहाँ गए जहाँ प्रह्लाद ठहरे हुए थे।
23प्रह्लाद ने कहा — ये दोनों, जो पहले कभी एक साथ नहीं हुए, अब एक ही मार्ग से आते हुए दो क्रुद्ध सर्पों के समान दिखाई दे रहे हैं।
24क्या तुम दोनों में, जिनमें पहले कोई मित्रता नहीं थी, अब मित्रता हो गई है? हे विरोचन, मैं तुमसे पूछता हूँ कि सुधन्वा के साथ यह मित्रता कैसी है।
25विरोचन ने कहा — मेरे तथा सुधन्वा के बीच कोई मित्रता नहीं है। (सत्य यह है कि) हमने अपने प्राणों की बाजी लगाई है। हे तात, मैं आपसे एक प्रश्न पूछूँगा; उसका उत्तर असत्य मत दीजिए।
26प्रह्लाद ने कहा — सुधन्वा के लिए जल, मधु तथा दधि लाया जाए। हे ब्राह्मण, तुम मेरे द्वारा पूजनीय हो। तुम्हारे लिए एक श्वेत तथा हृष्ट-पुष्ट गौ प्रस्तुत है।
27सुधन्वा ने कहा — जल, मधु तथा दधि मुझे मार्ग में ही अर्पित किए जा चुके हैं। हे प्रह्लाद, मैं आपसे एक प्रश्न पूछता हूँ; जो पूछूँ उसका सच्चा उत्तर दीजिए। ब्राह्मण श्रेष्ठ हैं अथवा विरोचन श्रेष्ठ है?
28प्रह्लाद ने कहा — मेरा एक ही पुत्र है; और तुम ब्राह्मण यहाँ साक्षात् उपस्थित हो। मेरी-सी स्थिति में पड़ा हुआ पुरुष उस प्रश्न का उत्तर कैसे दे, जो तुम दोनों के बीच विवाद का विषय है?
29सुधन्वा ने कहा — अपनी गौ तथा जो भी धन आपको प्रिय हो, उसे अपने पास रखिए; किन्तु हे बुद्धिमान्, जिस विषय में हम दोनों विवाद कर रहे हैं, उसमें आपको सत्य ही कहना चाहिए।
30प्रह्लाद ने कहा — हे सुधन्वा, मैं तुमसे पूछता हूँ — जो सत्य अथवा असत्य कुछ भी उत्तर नहीं देता, वह जिह्वा का दुरुपयोग करने वाला पुरुष कहाँ निवास करता है?
31सुधन्वा ने कहा — जो अपनी जिह्वा का दुरुपयोग करता है, वह उस स्त्री के समान रातें बिताता है जिसका पति सौत की गोद में सोता हो, अथवा उस पुरुष के समान जो द्यूत में हार गया हो, अथवा उसके समान जिसका शरीर चिन्ताओं से जल रहा हो।
32जो साक्षी होकर असत्य कहता है, वह नगर से बहिष्कृत होकर बाहरी द्वारों पर पड़ा रहता है; और सदा अपने शत्रुओं को ही देखता है।
33पशु के लिए कहा गया असत्य पाँच पूर्वजों को स्वर्ग से गिरा देता है; गौ के लिए कहा गया असत्य दस को; अश्व के लिए कहा गया असत्य सौ को; और मनुष्य के लिए कहा गया असत्य सहस्र पूर्वजों का परित्याग करा देता है।
34स्वर्ण के लिए कहा गया असत्य जन्मे तथा अजन्मे — सम्पूर्ण वंश का नाश कर देता है; और भूमि के लिए कहा गया असत्य सब कुछ नष्ट कर देता है। इसलिए भूमि के लिए असत्य मत कहिए।
35प्रह्लाद ने कहा — हे विरोचन, मुझसे अंगिरा श्रेष्ठ हैं; और तुमसे सुधन्वा श्रेष्ठ हैं। इनकी माता भी (तुम्हारी) माता से श्रेष्ठ हैं। इसलिए तुम इनसे पराजित हो चुके हो।
36हे विरोचन, अब ये सुधन्वा तुम्हारे प्राणों के स्वामी हैं। हे सुधन्वा, मेरी इच्छा है कि तुम विरोचन को उसके प्राण लौटा दो।
37सुधन्वा ने कहा — हे प्रह्लाद, आपने धर्म को चुना और लोभवश असत्य नहीं कहा; इसलिए मैं आपके प्रिय पुत्र को उसके प्राण लौटा देता हूँ।
38हे प्रह्लाद, आपका यह पुत्र विरोचन, जिसे मैंने आपको लौटा दिया है, उस कन्या के सम्मुख मेरे चरण धोए।
39विदुर ने कहा — इसलिए हे राजाओं में श्रेष्ठ, तुम्हें भूमि के लिए असत्य नहीं कहना चाहिए। सत्य बोलने से विमुख होकर अपने पुत्रों तथा मन्त्रियों सहित अपना नाश मत करो।
40देवता ग्वाले की भाँति हाथ में लाठी लेकर मनुष्यों की रखवाली नहीं करते। जिनकी वे रक्षा करना चाहते हैं, उन्हें बुद्धि प्रदान कर देते हैं।
41मनुष्य जितना-जितना धर्म की ओर प्रवृत्त होता है, उतनी-उतनी ही उसकी कामनाएँ सफल होती हैं — इसमें कोई सन्देह नहीं।
42जो कपटी है और कपट से जीविका चलाता है, वेद उसे पापों से नहीं बचाते। सचमुच अन्तकाल आने पर वेद उसे वैसे ही छोड़ देते हैं जैसे पंख निकल आने पर पक्षी अपना घोंसला छोड़ देते हैं।
43मद्यपान से उत्पन्न कलह, बहुतों से वैर, फूट डालकर पति-पत्नी को अलग करना, कुल में कलह, राजा के प्रति द्रोह तथा पति और पत्नी के बीच झगड़ा कराना — इन सबका, और साथ ही पापपूर्ण जीविका-मार्गों का, त्याग करना चाहिए, ऐसा कहा गया है।
44हस्तरेखा देखने वाला, पहले चोर रह चुका व्यापारी, धूर्त व्याध, वैद्य, शत्रु, मित्र तथा दुराचारी — ये सात साक्षी के रूप में नहीं लिए जाने चाहिए।
45दिखावे के लिए किया गया अग्निहोत्र, दिखावे के लिए धारण किया गया मौन, दिखावे के लिए किया गया अध्ययन तथा अहंकार पर आधारित गर्व — ये चार अपने आप में भयावह न होते हुए भी, अनुचित रूप से किए जाने पर भयावह हो जाते हैं।
46आग लगाने वाला, दूसरों को बन्दी बनाने वाला, कुटना, मद्य बेचने वाला, बाण बनाने वाला, ज्योतिषी, मित्रों को हानि पहुँचाने वाला, परस्त्रीगामी, गर्भपात कराने वाला, गुरुजनों तथा श्रेष्ठजनों की स्त्री से व्यभिचार करने वाला, मद्यपान करने वाला द्विज, अत्यन्त कठोर वचन बोलने वाला, पुराने वैर को फिर उभारने वाला, नास्तिक, वेदों की निन्दा करने वाला, घूस लेने का व्यसनी, समय आ जाने पर भी जिसका उपनयन संस्कार न हुआ हो, गुप्त रूप से पशुओं को विष देने वाला तथा "मेरी रक्षा करो" कहने वाले को हानि पहुँचाने वाला — ये सब ब्रह्महत्या करने वालों के ही समान हैं।
47स्वर्ण की परीक्षा अग्नि से होती है, कुलीन की उसके आचरण से, सज्जन की उसके व्यवहार से, वीर की संकट के समय, धैर्यवान् की दरिद्रता के समय, और मित्र तथा शत्रु की परीक्षा विपत्ति और संकट के समय होती है।
48वृद्धावस्था सौन्दर्य को नष्ट करती है; धैर्य आशा को; मृत्यु जीवन को; ईर्ष्या धर्म को; क्रोध समृद्धि को; नीचों की संगति सदाचार को; काम लज्जा को; और अभिमान सब कुछ नष्ट कर देता है।
49समृद्धि का मूल सत्कर्म है; वह उद्यम से बढ़ती है, कौशल से जड़ पकड़ती है और आत्मसंयम से टिकी रहती है।
50आठ गुण मनुष्य को शोभित करते हैं — बुद्धि, उत्तम कुल, आत्मसंयम, विद्या, बल, मितभाषिता, यथाशक्ति दान तथा कृतज्ञता।
51किन्तु हे प्रिय, केवल एक ही वस्तु इन समस्त महान् गुणों को एक साथ प्रकट कर देती है। जब राजा किसी पुरुष का सम्मान करता है, तब ये सब गुण उस पर आभा बिखेरने लगते हैं।
52हे राजन्, इस मनुष्यलोक में ये आठ स्वर्ग के चिह्न माने जाते हैं। इनमें से चार सत्पुरुषों के गुण हैं; और शेष चार का अनुसरण सज्जन करते हैं।
53यज्ञ, दान, अध्ययन तथा तप — इन चारों का अनुसरण सत्पुरुष करते हैं। आत्मसंयम, सत्य, दया तथा मानवता — ये चार भी सत्पुरुषों के ही गुण हैं।
54यज्ञ, अध्ययन, दान, तप, सत्य, क्षमा, दया तथा सन्तोष — स्मृति के अनुसार ये आठ धर्म के मार्ग हैं।
55इनमें से प्रथम चार का पालन दिखावे के लिए भी किया जा सकता है; किन्तु अन्तिम चार उनमें नहीं होते जो महान् नहीं हैं।
56वह सभा नहीं है जिसमें वृद्ध न हों। वे वृद्ध नहीं हैं जो धर्म की बात न करें। वह धर्म नहीं है जिसमें सत्य न हो; और वह सत्य नहीं है जिसमें छल व्याप्त हो।
57सत्य, रूप, विद्या, ज्ञान, उत्तम कुल, सदाचार, बल, धन, वीरता तथा विविध विषयों पर बोलने की सामर्थ्य — इन दसों का उद्गम स्वर्ग है।
58जो पापकर्म करके पापी के रूप में विख्यात हो जाता है, उसे बुरे फल मिलते हैं; और जो पुण्यकर्म करके धर्मात्मा के रूप में विख्यात होता है, उसे महान् सुख प्राप्त होता है।
59इसलिए मनुष्य को दृढ़ संकल्प करना चाहिए कि वह पापकर्म नहीं करेगा। बार-बार किए गए पापकर्म बुद्धि का नाश कर देते हैं।
60जिसकी बुद्धि नष्ट हो गई है, वह निरन्तर पाप करता रहता है। और बार-बार किए गए पुण्यकर्म बुद्धि को बढ़ाते हैं।
61वृद्ध तथा बुद्धिमान् पुरुष सदा पुण्यकर्म ही करता है। पुण्यकर्म करके वह उत्तम कीर्ति पाता है और (परलोक में) पवित्र लोक को जाता है। इसलिए मनुष्य को एकाग्र होकर धर्म का आचरण करना चाहिए।
62जो ईर्ष्यालु है, जो दूसरों को गम्भीर हानि पहुँचाता है, जो क्रूर है, जो सदा दूसरों से वैर बाँधता है और जो पाप करके छल करता है — वह शीघ्र ही घोर विपत्ति में पड़ता है।
63जो ईर्ष्यालु नहीं है और जो सदा सत्कर्म करके बुद्धिमान् है, वह कभी किसी घोर विपत्ति में नहीं पड़ता; और सर्वत्र तेज से प्रकाशित होता है।
64जो बुद्धिमानों की बुद्धि को आत्मसात् कर लेता है, वह स्वयं बुद्धिमान् है; और जो धर्म तथा अर्थ — दोनों के अनुकूल कर्म करके बुद्धिमान् है, वह सुख प्राप्त करने में सफल होता है।
65मनुष्य को दिन में वह कर्म करना चाहिए जिससे वह रात सुख से बिता सके; और आठ महीनों में वह कर्म करना चाहिए जिससे वह पूरे वर्ष सुख से रह सके।
66जीवन के प्रथम वर्षों में वह कर्म करना चाहिए जिससे वृद्धावस्था सुख से बीते। इस जीवन में वह कर्म करना चाहिए जिससे मृत्यु के पश्चात् सुख से रहा जा सके।
67लोग उसी अन्न की प्रशंसा करते हैं जो पच गया हो। वे उसी स्त्री की प्रशंसा करते हैं जिसका यौवन बीत चुका हो, उसी वीर की जो युद्ध में विजयी होकर लौटा हो और उसी तपस्वी की जो (जीवन के) पार पहुँच चुका हो।
68अनुचित उपायों से अर्जित धन के द्वारा जिस छिद्र को भरने का प्रयत्न किया जाता है, वह खुला ही रह जाता है; और दूसरे स्थानों पर और भी छिद्र उत्पन्न हो जाते हैं।
69जिनकी आत्मा संयत है, उनका नियन्ता गुरु है; जिनकी आत्मा दुष्ट है, उनका नियन्ता राजा है; और जो गुप्त रूप से पाप करते हैं, उनके नियन्ता विवस्वान् के पुत्र यम हैं।
70ऋषियों की, नदियों की, नदियों के तटों की तथा महात्माओं की महिमा का अनुमान नहीं लगाया जा सकता — वैसे ही जैसे स्त्री की कुटिलता का।
71जो द्विजों की पूजा में अनुरक्त है, जो दान देता है, जो अपने बन्धु-बान्धवों के प्रति उदार व्यवहार करता है और जो सदाचारी क्षत्रिय है — वह चिरकाल तक पृथ्वी पर शासन करता है।
72ये तीन — शूरवीर, विद्वान् तथा जो दूसरों की रक्षा करना जानता है — पृथ्वी से स्वर्ण के पुष्प चुनते हैं।
73बुद्धि से किए गए कर्म श्रेष्ठ हैं; भुजाओं से किए गए कर्म उनके पश्चात् हैं; हे भरतवंशी, जंघाओं से (चलकर) किए गए कर्म निकृष्ट हैं; और भार ढोकर किए गए कर्म सबसे अधम हैं।
74दुर्योधन, शकुनि, मूर्ख दुःशासन तथा कर्ण को अपना राज्य सौंपकर तुम समृद्धि की आशा कैसे कर सकते हो?
75हे भरतवंश में श्रेष्ठ, समस्त गुणों से सम्पन्न पाण्डव तुम्हें अपना पिता मानकर तुम पर निर्भर हैं। तुम भी उन्हें अपने पुत्र मानकर उन पर निर्भर रहो।
नेपाली
1धृतराष्ट्रले भने — हे महाबुद्धिमान्, धर्म तथा अर्थअनुकूल यी वचन अझै भन। तिमीले जे भनिरहेका छौ त्यो अत्यन्त रुचिकर छ; ती सुन्ने मेरो इच्छा अझै तृप्त भएको छैन।
2विदुरले भने — सम्पूर्ण तीर्थमा स्नान गर्नु तथा सम्पूर्ण प्राणीमाथि दया गर्नु — यी दुवै समान हुन्। सम्भवतः दया नै श्रेष्ठ हो।
3हे स्वामी, आफ्ना छोराहरूमाथि सधैँ दया देखाऊ; यसरी यस लोकमा महान् यश प्राप्त गरेर तिमी स्वर्ग प्राप्त गर्नेछौ।
4हे नरश्रेष्ठ, जबसम्म यस संसारमा मानिसका कर्मको चर्चा भइरहन्छ, तबसम्म त्यो स्वर्गमा यशस्वी रहन्छ।
5यस विषयमा केशिनीको पाणिग्रहणका इच्छुक विरोचन तथा सुधन्वाको संवादको प्राचीन इतिहास भनिन्छ।
6हे राजन्, केशिनी नाम गरेकी एक अनुपम सुन्दरी कन्या थिइन्, जसले उत्तम पतिको कामनाले स्वयंवरमा वर छान्ने निश्चय गरिन्।
7तब दितिका छोरा विरोचन उनलाई जित्ने इच्छाले त्यहाँ आए। तब केशिनीले दैत्यहरूमा श्रेष्ठ त्यस (विरोचन)लाई यसरी भनिन्।
8केशिनीले भनिन् — हे विरोचन, ब्राह्मणहरू श्रेष्ठ छन् अथवा दितिका छोराहरू श्रेष्ठ छन्? सुधन्वा आसनमा किन नबस्ने?
9विरोचनले भने — हे केशिनी, हामी प्रजापतिका वंशज नै प्राणीहरूमा श्रेष्ठ हौँ। यो संसार हाम्रो हो। देवता को हुन् र द्विज को हुन्?
10केशिनीले भनिन् — हे विरोचन, हामी यसै मण्डपमा प्रतीक्षा गर्नेछौँ। भोलि बिहान सुधन्वा आउनेछन्; म तिमी दुवैलाई सँगै हेर्नेछु।
11विरोचनले भने — हे सौम्य कन्या, हे भीरु, म त्यसै गर्नेछु जस्तो तिमी भन्छ्यौ; बिहान तिमीले मलाई र सुधन्वालाई सँगै देख्नेछ्यौ।
12विदुरले भने — रात बित्यो र सूर्यमण्डल प्रकट भयो; तब हे राजाहरूमा श्रेष्ठ, सुधन्वा त्यस देशमा आए, जहाँ हे स्वामी, विरोचन केशिनीसँग बसेका थिए।
13सुधन्वा प्रह्लादका छोरा तथा केशिनीको छेउमा आए; हे भरतवंशमा श्रेष्ठ, ब्राह्मणलाई आइरहेको देखेर केशिनी उठिन् र तिनलाई चरण धुने जल तथा अर्घ्य (सम्मानको उपचार) अर्पण गरिन्।
14सुधन्वाले भने — (विरोचनले आफ्नै आसनमा बस्न भनेपछि) हे प्रह्लादपुत्र, तिमीले ओगटेको त्यो उत्तम सुनको आसन म कसरी छुन सक्छु? तब त म तिम्रै समान स्तरमा ओर्लनेछु। म तिमीसँग बस्दिनँ।
15विरोचनले भने — हे सुधन्वा, तिमी काठको पाटा, मृगचर्म अथवा गुन्द्रीको योग्य छौ; तिमी मेरो समान आसनको योग्य छैनौ।
16सुधन्वाले भने — पिता र छोरा, दुई ब्राह्मण, दुई क्षत्रिय, दुई वृद्ध तथा दुई शूद्र — यी सँगै बस्न सक्छन्। यीबाहेक अरू कोही सँगै बस्न सक्दैनन्।
17तिम्रा पिताले मेरो आदर गर्थे र मभन्दा तलको आसनमा बस्थे। तिमी त घरमा विलासमा हुर्केको बालक हौ; र केही जान्दैनौ।
18विरोचनले भने — हे सुधन्वा, हामी असुरहरूसँग जुन सुन, गाई, घोडा तथा अन्य सम्पूर्ण सम्पत्ति छ — ती सबै दाउमा राखेर हामी यो प्रश्न तिनीहरूसँग सोधौँ जसले जान्दछन्।
19सुधन्वाले भने — हे विरोचन, आफ्नो सुन, गाई तथा घोडा रहन देऊ। हामी आफ्नै प्राण दाउमा राखेर तिनीहरूसँग यो प्रश्न सोधौँ जो उत्तर दिन समर्थ छन्।
20विरोचनले भने — प्राण दाउमा राखेर हामी कहाँ जाने? म न कुनै देवताको सामु उभिनेछु, न कहिल्यै कुनै मानिसको सामु।
21सुधन्वाले भने — प्राण दाउमा राखेर हामी तिम्रा पिताकहाँ जानेछौँ। प्रह्लादले आफ्नो छोराका लागि पनि असत्य भन्नेछैनन्।
22विदुरले भने — यसरी बाजी लगाएर, एकअर्कासँग क्रुद्ध भएका विरोचन तथा सुधन्वा त्यहाँ गए जहाँ प्रह्लाद बसेका थिए।
23प्रह्लादले भने — यी दुवै, जो पहिले कहिल्यै सँगै भएनन्, अब एउटै बाटोबाट आइरहेका दुई क्रुद्ध सर्पजस्तै देखिन्छन्।
24के तिमी दुवैमा, जसमा पहिले कुनै मित्रता थिएन, अब मित्रता भएको छ? हे विरोचन, म तिमीसँग सोध्छु कि सुधन्वासँग यो मित्रता कस्तो हो।
25विरोचनले भने — मेरो तथा सुधन्वाबीच कुनै मित्रता छैन। (सत्य यो हो कि) हामीले आफ्ना प्राणको बाजी लगाएका छौँ। हे तात, म तपाईंसँग एउटा प्रश्न सोध्नेछु; त्यसको उत्तर असत्य नदिनुहोस्।
26प्रह्लादले भने — सुधन्वाका लागि जल, मह तथा दही ल्याइयोस्। हे ब्राह्मण, तिमी मबाट पूजनीय छौ। तिम्रा लागि एउटा सेतो तथा हृष्टपुष्ट गाई प्रस्तुत छ।
27सुधन्वाले भने — जल, मह तथा दही मलाई बाटोमै अर्पण गरिसकिएको छ। हे प्रह्लाद, म तपाईंसँग एउटा प्रश्न सोध्छु; जे सोध्छु त्यसको साँचो उत्तर दिनुहोस्। ब्राह्मणहरू श्रेष्ठ छन् अथवा विरोचन श्रेष्ठ छ?
28प्रह्लादले भने — मेरो एउटै छोरा छ; र तिमी ब्राह्मण यहाँ साक्षात् उपस्थित छौ। मजस्तो अवस्थामा परेको पुरुषले त्यो प्रश्नको उत्तर कसरी देओस्, जुन तिमी दुवैबीचको विवादको विषय हो?
29सुधन्वाले भने — आफ्नो गाई तथा जुनसुकै धन तपाईंलाई प्रिय छ, त्यो आफैँसँग राख्नुहोस्; तर हे बुद्धिमान्, जुन विषयमा हामी दुवै विवाद गरिरहेका छौँ, त्यसमा तपाईंले सत्य नै भन्नुपर्छ।
30प्रह्लादले भने — हे सुधन्वा, म तिमीसँग सोध्छु — जसले सत्य वा असत्य केही पनि उत्तर दिँदैन, त्यो जिब्रोको दुरुपयोग गर्ने पुरुष कहाँ बस्छ?
31सुधन्वाले भने — जसले आफ्नो जिब्रोको दुरुपयोग गर्छ, त्यसले त्यस स्त्रीजस्तै रातहरू बिताउँछ जसको पति सौतको काखमा सुतेको होस्, अथवा त्यस पुरुषजस्तै जो जुवामा हारेको होस्, अथवा त्यसैजस्तै जसको शरीर चिन्ताले जलिरहेको होस्।
32जो साक्षी भएर असत्य बोल्छ, त्यो नगरबाट बहिष्कृत भई बाहिरी ढोकामा पल्टिरहन्छ; र सधैँ आफ्ना शत्रुहरूलाई नै देख्छ।
33पशुका लागि भनिएको असत्यले पाँच पुर्खालाई स्वर्गबाट खसाल्छ; गाईका लागि भनिएको असत्यले दसलाई; घोडाका लागि भनिएको असत्यले सयलाई; र मानिसका लागि भनिएको असत्यले हजार पुर्खाको परित्याग गराउँछ।
34सुनका लागि भनिएको असत्यले जन्मेका तथा नजन्मेका — सम्पूर्ण वंशको नाश गर्छ; र भूमिका लागि भनिएको असत्यले सबै कुरा नष्ट गर्छ। त्यसैले भूमिका लागि असत्य नभन्नुहोस्।
35प्रह्लादले भने — हे विरोचन, मभन्दा अंगिरा श्रेष्ठ छन्; र तिमीभन्दा सुधन्वा श्रेष्ठ छन्। तिनकी माता पनि (तिम्री) माताभन्दा श्रेष्ठ छिन्। त्यसैले तिमी तिनीबाट पराजित भइसकेका छौ।
36हे विरोचन, अब यी सुधन्वा तिम्रा प्राणका स्वामी हुन्। हे सुधन्वा, मेरो इच्छा छ कि तिमीले विरोचनलाई उसका प्राण फर्काइदेऊ।
37सुधन्वाले भने — हे प्रह्लाद, तपाईंले धर्म रोज्नुभयो र लोभवश असत्य भन्नुभएन; त्यसैले म तपाईंको प्रिय छोरालाई उसका प्राण फर्काइदिन्छु।
38हे प्रह्लाद, तपाईंको यो छोरा विरोचन, जसलाई मैले तपाईंलाई फर्काइदिएँ, त्यस कन्याको सामु मेरा चरण धोओस्।
39विदुरले भने — त्यसैले हे राजाहरूमा श्रेष्ठ, तिमीले भूमिका लागि असत्य भन्नु हुँदैन। सत्य बोल्नबाट विमुख भएर आफ्ना छोरा तथा मन्त्रीहरूसहित आफ्नो नाश नगर।
40देवताहरूले गोठालाजस्तै हातमा लौरो लिएर मानिसहरूको रखवाली गर्दैनन्। जसको तिनीहरू रक्षा गर्न चाहन्छन्, तिनलाई बुद्धि प्रदान गर्छन्।
41मानिस जति-जति धर्मतर्फ प्रवृत्त हुन्छ, उति-उति नै त्यसका कामना सफल हुन्छन् — यसमा कुनै सन्देह छैन।
42जो कपटी छ र कपटले जीविका चलाउँछ, वेदले त्यसलाई पापबाट बचाउँदैनन्। साँच्चै अन्तकाल आएपछि वेदले त्यसलाई त्यसै गरी छोड्छन् जसरी प्वाँख आएपछि चराहरूले आफ्नो गुँड छोड्छन्।
43मद्यपानबाट उत्पन्न कलह, धेरैसँग वैर, फुट पारेर पतिपत्नीलाई अलग गर्नु, कुलमा कलह, राजाप्रति द्रोह तथा पति र पत्नीबीच झगडा गराउनु — यी सबैको, र सँगै पापपूर्ण जीविका-मार्गको पनि, त्याग गर्नुपर्छ, यस्तो भनिएको छ।
44हस्तरेखा हेर्ने, पहिले चोर भइसकेको व्यापारी, धूर्त व्याध, वैद्य, शत्रु, मित्र तथा दुराचारी — यी सात साक्षीका रूपमा लिइनु हुँदैन।
45देखावटका लागि गरिएको अग्निहोत्र, देखावटका लागि धारण गरिएको मौन, देखावटका लागि गरिएको अध्ययन तथा अहंकारमा आधारित गर्व — यी चार आफैँमा भयावह नभए पनि, अनुचित रूपले गरिँदा भयावह हुन्छन्।
46आगो लगाउने, अरूलाई बन्दी बनाउने, कुटनी, मद्य बेच्ने, वाण बनाउने, ज्योतिषी, मित्रलाई हानि पुर्याउने, परस्त्रीगामी, गर्भपात गराउने, गुरुजन तथा श्रेष्ठजनकी स्त्रीसँग व्यभिचार गर्ने, मद्यपान गर्ने द्विज, अत्यन्त कठोर वचन बोल्ने, पुरानो वैर फेरि उठाउने, नास्तिक, वेदको निन्दा गर्ने, घुस लिने व्यसनी, समय आइसक्दा पनि जसको उपनयन संस्कार नभएको होस्, गुप्त रूपमा पशुलाई विष दिने तथा "मेरो रक्षा गर" भन्नेलाई हानि पुर्याउने — यी सबै ब्रह्महत्या गर्नेकै समान हुन्।
47सुनको परीक्षा आगोले हुन्छ, कुलीनको उसको आचरणले, सज्जनको उसको व्यवहारले, वीरको सङ्कटको बेला, धैर्यवान्को दरिद्रताको बेला, र मित्र तथा शत्रुको परीक्षा विपत्ति र सङ्कटको बेला हुन्छ।
48वृद्धावस्थाले सौन्दर्यलाई नष्ट गर्छ; धैर्यले आशालाई; मृत्युले जीवनलाई; ईर्ष्याले धर्मलाई; क्रोधले समृद्धिलाई; नीचहरूको सङ्गतले सदाचारलाई; कामले लाजलाई; र अभिमानले सबै कुरा नष्ट गर्छ।
49समृद्धिको मूल सत्कर्म हो; त्यो उद्यमले बढ्छ, कौशलले जरा गाड्छ र आत्मसंयमले टिकिरहन्छ।
50आठ गुणले मानिसलाई शोभित गर्छन् — बुद्धि, उत्तम कुल, आत्मसंयम, विद्या, बल, मितभाषिता, यथाशक्ति दान तथा कृतज्ञता।
51तर हे प्रिय, केवल एउटै वस्तुले यी सम्पूर्ण महान् गुणलाई एकैसाथ प्रकट गरिदिन्छ। जब राजाले कुनै पुरुषको सम्मान गर्छ, तब यी सबै गुणले त्यसमाथि आभा छर्न थाल्छन्।
52हे राजन्, यस मनुष्यलोकमा यी आठ स्वर्गका चिह्न मानिन्छन्। यीमध्ये चार सत्पुरुषका गुण हुन्; र बाँकी चारको अनुसरण सज्जनहरूले गर्छन्।
53यज्ञ, दान, अध्ययन तथा तप — यी चारको अनुसरण सत्पुरुषहरूले गर्छन्। आत्मसंयम, सत्य, दया तथा मानवता — यी चार पनि सत्पुरुषकै गुण हुन्।
54यज्ञ, अध्ययन, दान, तप, सत्य, क्षमा, दया तथा सन्तोष — स्मृतिअनुसार यी आठ धर्मका मार्ग हुन्।
55यीमध्ये पहिला चारको पालन देखावटका लागि पनि गर्न सकिन्छ; तर अन्तिम चार तिनमा हुँदैनन् जो महान् छैनन्।
56त्यो सभा होइन जसमा वृद्धहरू छैनन्। तिनी वृद्ध होइनन् जसले धर्मको कुरा गर्दैनन्। त्यो धर्म होइन जसमा सत्य छैन; र त्यो सत्य होइन जसमा छल व्याप्त छ।
57सत्य, रूप, विद्या, ज्ञान, उत्तम कुल, सदाचार, बल, धन, वीरता तथा विविध विषयमा बोल्न सक्ने सामर्थ्य — यी दसैको उद्गम स्वर्ग हो।
58जो पापकर्म गरेर पापीका रूपमा विख्यात हुन्छ, त्यसले नराम्रो फल पाउँछ; र जो पुण्यकर्म गरेर धर्मात्माका रूपमा विख्यात हुन्छ, त्यसले महान् सुख प्राप्त गर्छ।
59त्यसैले मानिसले दृढ सङ्कल्प गर्नुपर्छ कि उसले पापकर्म गर्नेछैन। बारम्बार गरिएका पापकर्मले बुद्धिको नाश गर्छन्।
60जसको बुद्धि नष्ट भइसक्यो, त्यसले निरन्तर पाप गरिरहन्छ। र बारम्बार गरिएका पुण्यकर्मले बुद्धिलाई बढाउँछन्।
61वृद्ध तथा बुद्धिमान् पुरुषले सधैँ पुण्यकर्म नै गर्छ। पुण्यकर्म गरेर त्यसले उत्तम कीर्ति पाउँछ र (परलोकमा) पवित्र लोक जान्छ। त्यसैले मानिसले एकाग्र भई धर्मको आचरण गर्नुपर्छ।
62जो ईर्ष्यालु छ, जसले अरूलाई गम्भीर हानि पुर्याउँछ, जो क्रूर छ, जसले सधैँ अरूसँग वैर बाँध्छ र जसले पाप गरेर छल गर्छ — त्यो चाँडै नै घोर विपत्तिमा पर्छ।
63जो ईर्ष्यालु छैन र जो सधैँ सत्कर्म गरेर बुद्धिमान् छ, त्यो कहिल्यै कुनै घोर विपत्तिमा पर्दैन; र सर्वत्र तेजले प्रकाशित हुन्छ।
64जसले बुद्धिमान्हरूको बुद्धिलाई आत्मसात् गर्छ, त्यो आफैँ बुद्धिमान् हो; र जो धर्म तथा अर्थ — दुवैअनुकूल कर्म गरेर बुद्धिमान् छ, त्यो सुख प्राप्त गर्न सफल हुन्छ।
65मानिसले दिनमा त्यो कर्म गर्नुपर्छ जसले उसले रात सुखले बिताउन सकोस्; र आठ महिनामा त्यो कर्म गर्नुपर्छ जसले उसले पूरै वर्ष सुखले रहन सकोस्।
66जीवनका पहिला वर्षमा त्यो कर्म गर्नुपर्छ जसले वृद्धावस्था सुखले बितोस्। यस जीवनमा त्यो कर्म गर्नुपर्छ जसले मृत्युपछि सुखले रहन सकियोस्।
67मानिसहरूले त्यही अन्नको प्रशंसा गर्छन् जुन पचिसकेको होस्। तिनीहरूले त्यही स्त्रीको प्रशंसा गर्छन् जसको यौवन बितिसकेको होस्, त्यही वीरको जो युद्धमा विजयी भई फर्केको होस् र त्यही तपस्वीको जो (जीवनको) पारि पुगिसकेको होस्।
68अनुचित उपायबाट आर्जित धनद्वारा जुन प्वाल टाल्ने प्रयत्न गरिन्छ, त्यो खुल्लै रहन्छ; र अन्य ठाउँमा अरू प्वाल पनि उत्पन्न हुन्छन्।
69जसको आत्मा संयत छ, तिनको नियन्ता गुरु हुन्; जसको आत्मा दुष्ट छ, तिनको नियन्ता राजा हुन्; र जसले गुप्त रूपमा पाप गर्छन्, तिनका नियन्ता विवस्वान्का छोरा यम हुन्।
70ऋषिहरूको, नदीहरूको, नदीका किनाराको तथा महात्माहरूको महिमाको अनुमान लगाउन सकिँदैन — त्यसै गरी जसरी स्त्रीको कुटिलताको।
71जो द्विजहरूको पूजामा अनुरक्त छ, जसले दान दिन्छ, जसले आफ्ना बन्धुबान्धवप्रति उदार व्यवहार गर्छ र जो सदाचारी क्षत्रिय छ — त्यसले चिरकालसम्म पृथ्वीमाथि शासन गर्छ।
72यी तीन — शूरवीर, विद्वान् तथा जसले अरूको रक्षा गर्न जान्दछ — पृथ्वीबाट सुनका फूल टिप्छन्।
73बुद्धिले गरिएका कर्म श्रेष्ठ छन्; पाखुराले गरिएका कर्म त्यसपछिका हुन्; हे भरतवंशी, तिघ्राले (हिँडेर) गरिएका कर्म निकृष्ट छन्; र भारी बोकेर गरिएका कर्म सबैभन्दा अधम छन्।
74दुर्योधन, शकुनि, मूर्ख दुःशासन तथा कर्णलाई आफ्नो राज्य सुम्पेर तिमीले समृद्धिको आशा कसरी गर्न सक्छौ?
75हे भरतवंशमा श्रेष्ठ, सम्पूर्ण गुणले सम्पन्न पाण्डवहरू तिमीलाई आफ्नो पिता मानेर तिमीमाथि निर्भर छन्। तिमी पनि तिनीहरूलाई आफ्ना छोरा मानेर तिनीहरूमाथि निर्भर रहौ।