जयद्रथ-विमोक्षण पर्व
खण्ड 2 — वन पर्व · अध्याय 272
संस्कृत
1वैशम्पायन उवाच जयद्रथस्तु सम्प्रेक्ष्य भ्रातरावुद्यतावुभौ। प्राधावत् तूर्णमव्यचो जीवितेऽप्सुः सुदुःखिताः॥
2तं भीमसेनो धावन्तमवतीर्य रथाद् बली। अभिदुत्य निजग्राह केशपक्षे ह्यमर्षणः॥
3समुद्यम्य च तं भीमो निष्पिपेष महीतले। शिरो गृहीत्वा राजानं ताडयामास चैव ह॥
4पुनः संजीवमानस्य तस्योत्पतितुमिच्छतः। पदा मूर्ध्नि महाबाहुः प्राहरद् विलपिष्यतः॥
5तस्य जानू ददौ भीमो जघ्ने चैनमरलिना। स मोहमगमद् राजा प्रहारवरपीडितः॥
6सरोषं भीमसेनं तु वारयामास फाल्गुनः। दुःशलायाः कृते राजा यत् तदाहेति कौरव॥
7भीमसेन उवाच नायं पापसमाचारो मत्तो जीवितुमर्हति। कृष्णायास्तदनस्याः परिक्लेष्टा नराधमः॥
8किं नु शक्यं मया कर्तुं यद् राजा सततं घृणी। त्वं च बालिशया बुद्ध्या सदैवास्मान् प्रबाधसे॥
9एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः। अर्धचन्द्रेण बाणेन किंचिदब्रुवतस्तदा॥
10विकत्थयित्वा राजानं ततः प्राह वृकोदरः। जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु॥
11दासोऽस्मीति तथा वाच्यं संसत्सु च सभासु च) एवं ते जीवितं दद्यामेष युद्धजितो विधिः॥
12एवमस्त्विति तं राजा कृष्यमाणो जयद्रथः। प्रोवाच पुरुषव्याघ्र भीममहावशोभिनम्॥
13तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः। रथमारोपयामास विसंज्ञं पांसुगुण्ठितम्॥
14ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा। अभ्येत्याश्रममध्यस्थमभ्यगच्छद् युधिष्ठिरम्॥
15दर्शयामास भीमस्तु तदवस्थं जयद्रथम्। तं राजा प्राहसद् दृष्ट्वा मुच्यतामिति चाब्रवीत्॥
16राजानं चाब्रवीद् भीमो द्रौपद्याः कथ्यतामिति। दासभावगतो ह्येष पाण्डूनां पापचेतनः॥
17तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः। मुञ्चैनमधमाचारं प्रमाणा यदि ते वयम्॥
18द्रौपदी चाब्रवीद् भीममभिप्रेक्ष्य युधिष्ठिरम्। दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः॥
19स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम्। ववन्दे विह्वलो राजस्तांश्च दृष्ट्वा मुनींस्तदा॥
20तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः। तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना॥
21अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित्। स्त्रीकामं वा धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान्॥
22एवंविधं हि कः कुर्यात् त्वदन्यः पुरुषाधमः। गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम्॥ सम्प्रेक्ष्य भरतश्रेष्ठः :: कृपां चक्रे नराधिपः। धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः॥
23साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ। एवमुक्तस्तु सव्रीडं तूष्णीं किंचिदवाड्मुखः॥
24जगाम राजन् दुःखार्तो गङ्गाद्वाराय भारत। स देवं शरणं गत्वा विरूपाक्षमुमापितम्॥
25तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः। बलिं स्वयं प्रत्यगृह्णात् प्रीयणाणस्त्रिलोचनः॥
26वरं चास्मै ददौ देवः स जग्राह च तच्छृणु। समस्तान् सरथान् पञ्च जयेयं युधि पाण्डवान्॥
27इति राजाब्रवीद् देवं नेति देवस्तमब्रवीत्। अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान् युधि॥ ऋतेऽर्जुनं महाबाहुं नरं नाम सुरेश्वरम्। बदाँ तप्ततपसं नारायणसहायकम्॥
28अजितं सर्वलोकानां देवैरपि दुरासदम्। मया दत्तं पाशुपतं दिव्यमप्रतिमं शरम्। अवाप लोकपालेभ्यो वलादीन् स महाशरान्॥
29देवदेवो ह्यनन्तात्मा विष्णुः सुरगुरुः प्रभुः। प्रधानपुरुषोऽव्यक्तो विश्वात्मा विश्वमूर्तिमान्॥
30युगान्तकाले सम्प्राप्ते कालाग्निर्दहते जगत्। सपर्वतार्णवद्वीपं सशैलवनकाननम्॥
31निर्दहन् नागलोकांश्च पातालतलचारिणः। अथान्तरिक्षे सुमहन्नानावर्णाः पयोधराः॥
32घोरस्वरा विनदिनस्तडिन्मालावलम्बिनः। समुत्तिष्ठन् दिशः सर्वा विवर्षन्तः समन्ततः॥
33ततोऽग्नि नाशयामासुः संवर्ताग्निनियामकाः। अक्षमात्रैश्च धाराभिस्तिष्ठन्त्यापूर्य सर्वशः॥
34एकार्णवे तदा तस्मिन्नुपशान्तचराचरे। नष्टचन्द्रार्कपवने ग्रहनक्षत्रवर्जिते॥ चतुर्युगसहस्रान्ते सलिलेनाप्लुता मही। ततो नारायणाख्यस्तु सहस्राक्षः सहस्रपात्॥ सहस्रशीर्षाः पुरुषः स्वप्तुकामस्त्वतीन्द्रियः। फटासहस्रविकटं शेषं पर्यङ्कभाजनम्॥ सहस्रमिव तिग्मांशुसंघातममितद्युतिम्। कुन्देन्दुहारगोक्षीरमृणालकुमुदप्रभम्॥ तत्रासौ भगवान् देवः स्वपञ्जलनिधौ तदा। नैशेन तमसा व्याप्तां स्वां रात्रिं कुरुते विभुः॥
35सत्त्वोद्रेकात् प्रबुद्धस्तु शून्यं लोकमपश्यत। इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति॥
36आपो नारास्तत्तनव इत्यपां नाम शुश्रुम। अयनं तेन चैवास्ते तेन नारायणः स्मृतः॥
37प्रध्यानसमकालं तु प्रजाहेतोः सनातनः। ध्यातमात्रे तु भगवन्नाभ्यां पद्मः समुत्थितः॥
38ततश्चतुर्मुखो ब्रह्मा नाभिपद्माद् विनिःसृतः। तत्रोपविष्टः सहसा पद्मे लोकपितामहः॥
39शून्यं दृष्ट्वा जगत् कृत्स्नं मानसानात्मनः समान् ततो मरीचिप्रमुखान् महर्षीनसृजन्नव॥
40तेऽसृजन् सर्वभूतानि त्रसानि स्थावराणि च। यक्षराक्षसभूतानि पिशाचोरगमानुषान्॥
41सृज्यते ब्रह्ममूर्तिस्तु रक्षते पौरुषी तनुः। रौद्रीभावेन शमयेत् तिस्रोऽवस्थाः प्रजापतेः॥
42न श्रुतं ते सिन्धुपते विष्णोरद्भुतकर्मणः। कथ्यमानानि मुनिभिर्ब्राह्मणैर्वेदपारगैः॥
43जलेन समनुप्राप्ते सर्वतः पृथिवीतले। तदा चैकार्णवे तस्मिन्नेकाकाशे प्रभुश्चरन्।॥ निशायामिव खद्योतः प्रावृट् काले समन्ततः। प्रतिष्ठानाय पृथिवीं मार्गमाणस्तदाभवत्॥
44जले निमग्नां गां दृष्ट्वा चोद्धर्तुं मनसेच्छति। किं नु रूपमहं कृत्वा सलिलादुद्धरे महीम्॥
45एवं संचिन्त्य मनसा दृष्ट्वा दिव्येन चक्षुषा। जलक्रीडाभिरुचितं वाराह रूपमस्मरत्॥
46कृत्वा वराहवपुषं वाङ्मयं वेदसम्मितम्। दशयोजनविस्तीर्णमायतं शतयोजनम्॥ महापर्वतवभिं तीक्ष्णदंष्ट्र प्रदीप्तिमत्। महामेघौघनिर्घोषं नीलजीमूतसंनिभम्॥ भूत्वा यज्ञवराहो वै अपः सम्प्राविशत् प्रभुः। दंष्ट्रेणैकेन चोद्धृत्य स्वे स्थाने न्यविशन्महीम्॥
47पुनरेव माहाबहुरपर्वां तनुमाश्रितः। नरस्य कृत्वार्धतर्नु सिंहस्यार्धतर्नु प्रभुः॥ दैत्येन्द्रस्य सभां गत्वा पाणिं संस्पृश्य पाणिना। दैत्यानामादिपुरुषः सुरारिदितिनन्दनः॥ दृष्ट्वा चापूर्वपुरुषं क्रोधात् संरक्तलोचनः।
48शूलोद्यतकरः स्रग्वी हिरण्यकशिपुस्तदा॥ मेघस्तनितनि?षो नीलाभ्रचयसंनिभः। देवारिदितिजो वीरो नृसिंहं समुपाद्रवत्॥
49समुपेत्य ततस्तीक्ष्णैर्मृगेन्द्रेण बलीयसा। नारसिंहेन वपुषा दारित: करजैर्भृशम्॥
50एवं निहत्य भगवान् दैत्येन्द्रं रिपुघातिनम्। भूयोऽन्यः पुण्डरीकाक्षः प्रभुलॊकहिताय च॥ कश्यपस्यात्मजः श्रीमानदित्या गर्भधारितः। पूर्णे वर्षसहस्रे तु प्रसूता गर्भमुत्तमम्॥
51दुर्दिनाम्भोदसदृशो दीप्ताक्षो वामनाकृतिः। दण्डी कमण्डलुधरः श्रीवत्सोरसि भूषितः॥६३।
52जटी यज्ञोपवीती च भगवान् बालरूपधृक्। यज्ञवाटं गतः श्रीमान् दानवेन्द्रस्य वै तदा॥
53बृहस्पतिसहायोऽसौ प्रविष्टो बलिनो मखे। तं दृष्ट्वा वामनतनुं प्रहष्टो बलिरब्रवीत्॥
54प्रीतोऽस्मि दर्शने विप्र ब्रूहि त्वं किं ददानि ते। एवमुक्तस्तु बलिना वामनः प्रत्युवाच ह॥ स्वस्तीत्युक्त्वा बलिं देवः स्मयमानोऽभ्यभाषत। मेदिनी दानवपते देहि मे विक्रमत्रयम्॥
55बलिर्ददौ प्रसन्नात्मा विप्रायामिततेजसे। ततो दिव्याद्भुततमं रूपं विक्रमतो हरेः॥
56विक्रमैस्त्रिभिरक्षोभ्यो जहाराशु स मेदिनीम्। ददौ शक्राय च महीं विष्णुर्देवः सनातनः॥
57एष ते वामनो नाम प्रादुर्भावः प्रकीर्तितः। तेन देवाः प्रादुरासन् वैष्णवं चोच्यते जगत्॥
58असतां निग्रहार्थाय धर्मसंरक्षणाय च। अवतीर्णो मनुष्याणामजायत यदुक्षये॥
59स एवं भगवान् विष्णुः कृष्णेति परिकीर्त्यते। अनाद्यन्तमजं देवं प्रभुं लोकनमस्कृतम्॥
60यं देवं विदुषो गान्ति तस्य कर्माणि सैन्धव। यामाहुरजितं कृष्णं शङ्खचक्रगदाधरम्॥
61श्रीवत्सधारिणं देवं पीतकौशेयवाससम्। प्रधानः सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते॥
62सहायः पुण्डरीकाक्षः श्रीमानतुलविक्रमः। समानस्यन्दने पार्थमास्थाय परवीरहा॥
63न शक्यते तेन जेतुं त्रिदशैरपि दुःसहः। कः पुनर्मानुषो भावो रणे पार्थं विजेष्यति॥
64तमेकं वर्जयित्वा तु सर्वं यौधिष्ठरं बलम्। चतुरः पाण्डवान् राजन् दिनैकं जेष्यसे रिपून्॥
65वैशम्पायन उवाच इत्येवमुक्त्वा नृपतिं सर्वपापहरो हरः। उमापतिः पशुपतिर्यज्ञहा त्रिपुरार्दनः॥
66वामनैर्विकटैः कुब्जैरुच श्रवणदर्शनैः। वृतः पारिषदैर्पोरैर्नानाप्रहरणोद्यतैः॥ त्र्यम्बको राजशार्दूलो भगनेत्रनिपातनः। उमासहायो भगवांस्तत्रैवान्तरधीयत॥
67जयद्रथोऽपि मन्दात्मा स्वमेव भवनं ययौ। पाण्डवाश्च वने तस्मिन् न्यवसन् काम्यके तथा॥
अङ्ग्रेजी
1Vaishampayana said : Beholding the two brothers with upraised weapons, Jayadratha, desirous of living, stricken sorely with grief, ran away speedily and coolly.
2But getting down from his chariot the powerful Bhimasena pursued him speedily, who had thus taken to his heels and seized him by the hair of his head.
3Holding him up Bhima again crushed him on earth; then taking the king by the head, he knocked him about.
4When regaining his consciousness he expressed his desire of getting up the mightyarmcu herces kicked him on the head.
5Bhima struck him on the breast with his knees and fists, and thus assailed the king soon lost his consciousness.
6Falguna prevented the wrathful Bhimasena by reminding him of what the Kaurava king had said on behalf of Duhshala.
7Bhima said: “This vilest and foolish man has done a great injury to Krishna who does not deserve it; so he does not deserve to live.
8But what can I do? The king is always merciful and you too, out of childishness, are always preventing me.”
9Having said this Vrikodara, with his crescent-shaped arrow, shaved the hair of the king's head keeping five tufts at five places. But (Jayadratha) did not utter a word.
10Thereupon Vrikodara said to the king, “O fool, if you wish to live, listen, I shall tell you the means.
11In public meetings and open courts you should always say that you are our slave; (if you can make this condition) I can give you your life. This is the custom of the victorious."
12Being thus treated the king Jayadratha said to that best of men, Bhima, who beautifies the battle-field "So be it."
13Thereupon taking him who was unconscious and besmeared with dust Partha and Vrikodara placed him on the chariot.
14Thereupon placing him on the car, Bhima, followed by Partha, reached the hermitage and approached Yudhishthira who sat in the middle.
15Bhima showed him Jayadratha who was in that plight. Seeing him, the king smilingly said "set him at liberty,"
16Bhima said to the king, “Tell Draupadi, that this vile man has become the slave of the Pandavas."
17Thereupon his eldest brother said to him a affectionate terms. "If you have any regard for me let him be free."
18Beholding Yudhishthira Draupadi also said to Bhima, "Release him who is the slave of the king and whom you have disfigured by leaving five tufts on his head."
19Being released he approached and bowed to the king Yudhishthira; and seeing the ascetics there, he, beside himself, saluted them all.
20Beholding Jayadratha supported by Savyasachi, the kind king Yudhishthira, Dharma's son, said to him,
21"You are a free man, go, I release you; but do not commit any such thing again. Fie on you! You wanted to take away a female by force, although you are so weak and powerless.
22What other vile man, except you, would think of doing this again?” Knowing that he had lost heart and looking at that perpetrator of evil deed, the foremost of Bharatas and king of men showed mercy (saying), "May your heart grow in virtue, never think of doing any such impious deed.
23O Jayadratha, go now in peace with your charioteers, cavalry and infantry." Being this accosted he was filled with shame; then bending low his head,
24And stricken with sorrow the king, O Bharata, went to the gate of the Ganges. Then sceking the shelter of the deity Virupaksha, the lord of Uma.
25He engaged in great austerity and Shiva was pleased with him. Being pleased the three-eyed deity himself brought his offerings.
26The Deity conferred upon him a boon and hear, how he took it, “May I be able to vanquish in battle all the five sons of Pandu on their chariots."
27This the king said to the god but he said "this cannot be." You shall once check them in battle who are unconquerable and are not capable of being slain, except the mightyarmed Arjuna who is the lord of the celestials incarnate named Nara. He carried on devout penances in Badari and is backed by Narayana.
28He is unconquerable by all men even by the celestials; I myself have given him the celestial shaft Pashupata. He obtained from the Lokapalas thunderbolt and other mighty shafts.
29The great god Vishnu, the Infinite Spirit, the Lord preceptor of the celestials, is the unmanifest, Pradhana Purusha, the soul of the universe and has His manifestation in the universe.
30At the end of the Yuga, assuming the form of the all consuming fire he burnt down the universe, with mountains, seas, islands, hills, woods and forest.
31After he had consumed the region of the Nagas who range in the region underneath the earth, huge clouds of many colours were seen in the sky.
32Loud sounding accompanied by lighting and sr reading all over the sky.
33Then filling all quarters with showers thick as axles of cars they extinguished that allconsuming fire.
34When at the end of the four thousand Yugas the earth was over flooded with water like one vast ocean and all mobile and immobile creatures were silenced to death, the sun, moon and the winds were all destroyed and the universe was shorn of planets and stars, the supreme being, Narayana, who is beyond the perception of senses and is adorned with a thousand heads eyes and ears, longed for rest. The dreadful serpent Shesha, having thousand heads and the lustre of ten thousand suns and white as the Kunda flower or the moon or a string of pearls or the white lotus or milk, of fibres of lotus, became His conch. There the Divine Lord slept on the bosom of the deep enveloping all quarters with nocturnal darkness.
35When His creative faculty was excited he awoke and saw the universe void of everything. In this connection there is a Sloka recited (throwing light on the word) Narayana.
36The water was the body of the (Rishi) Nara and we hear it called Nara; and because it formed his resting place he is called Narayana.
37As soon as the Eternal deity engaged in thought for the creation of progeny a lotus sprang up from the navel of the Divine Lord.
38Thereupon arose from the lotus navel the four-headed deity Brahma; there on the lotus sat all on a sudden the Grandfather of the creatures.
39Seeing the universe entirely blank he created after him and from his mind the nine great ascetics Marichi and others.
40They also seeing the same thing created Yakshas, Rakshasas, Pishachas, reptiles, men and all mobile and immobile creatures.
41There are three states of the supreme being; in the form of Brahma, he is the creator, in the form of Vishnu, he is the preserver and in the form of Rudra he is the destroyer.
42O king of Sindhu, have you not heard of the marvellous exploits of Vishnu recounted to you by the ascetics and Brahmanas well-versed in the Vedas?
43While the entire surface of the earth was converted into a vast expanse of water, with only one sky above it, the lord, like a fire-fly at night during the rainy season, moved about here and there in search of a permanent footing for re-establishing the earth.
44Beholding the earth submerged in water he made up his mind to rescue it (He thought) "Assuming what form shall I rescue the earth from water?"
45Thus thinking in his mind and seeing with his divine eyes he thought of the shape of a boar fond of sporting in water.
46Assuming the form of a sacrificial boar, effulgent and instinct with the Vedas, ten yojanas in length, with pointed tusks, having the hue of dark clouds, a body huge as a mountain and roaring like the muttering of clouds, the Lord went into the water, raised up the Earth with one of its tusks and replaced it in its proper place.
47Again assuming a wonderful form, half-lion, half-man, the mighty armed Lord, squeezing his hand, went to the court of the king of Daityas. The first man of the Daitya race, the enemy of the celestials, the son of Diti, beholding this wonderful form, became worked up with anger and his eyes became red.
48Hiranyakashipu, the heroic son of Diti and the enemy of the celestials adorned with garlands and looking like a mass of dark clouds, rushed on that Being half lion, half . man, with an uplifted mace in his inand.
49Then approaching him, that king of beasts, half lion, half man, immediately rent him with his sharp claws.
50Having thus slain the king of Daityas, the killer of his enemies, for the behalf of creatures, the lotus-eyed, effulgent lord, again took his birth as Kashyapa's son in the womb of Aditi. At the expiration of full one thousand years she was delivered of that excellent conception.
51He became of dwarfish stature, with bright eyes and of the complexion of the rain-charged clouds. He had the ascetic staff and Kamandalu (water pot) in his hand and was adorned with the mystic mark of Srivatsa on his breast.
52The Lord wore matted locks, the sacrificial thread and was stout, beautiful and effulgent.
53With the help of Brihaspati he entered into the sacrificial ground of Bali. Beholding his dwarfish stature Bali laughed and said,
54“I am pleased on seeing you, O Vipra, tell me what can I give you." Being thus accosted by Bali the dwarf replied. Saying "may good betide you" the Deity smilingly said to Bali, “O king of Danavas, give me land to cover my three footsteps."
55Delightedly Bali gave what that highly powerful Vipra wanted. Thereupon while measuring the space Hari assumed a highly wonderful form.
56With his three foot-steps he immediately covered the entire earth then the eternal deity Vishnu gave the earth to Shakra.
57This history which I have just related is known as the incarnation of the dwarf; from him all the celestials came into being and the universe is called Vaishnava (or pervaded by Vishnu).
58For the suppression of the impious and the protection of virtue he has taken his birth among men in the race of the Yadus.
59That Divine Vishnu is now called Krishna. That unborn Deity, without beginning or end, is adored by the world.
60These are his achievement, O Saindhava, whom the wise thus describe. They call him the unconquerable Krishna, with conch, discus and club in his hands.
61The Deity has the mystic mark of Srivatsa, is clad in yellow silken raiment and is the best of those versed in the use of weapons. (Arjuna) is protected by such Krishna.
62The graceful, lotus-eyed deity of incomparable prowess, the slayer of hostile heroes in his help and he rides with Partha in the same chariot.
63Even the celestials with great difficulty cannot defeat him; how can again a man vanquish Partha in battle?
64Leaving him alone you shall for one day defeat the army of Yudhishthira, O king, with your four enemies.
65Vaishampayana said : Having said this to the king, Hara, the destroyer of all sins, Uma's lord, Pashupati, the destroyer of (Daksha's) sacrifice, the slayer of Tripura.
66He, who had taken out the eyes of Bhaga encircled by his dwarfish haunch-backed and dreadful followers, with fearful eyes and ears and uplifted weapons, Traymbaka, having Uma as his help, disappeared.
67The vicious-minded Jayadratha too repaired to his own house, the Pandavas too lived in the forest of Kamyaka.
हिन्दी
1वैशम्पायन ने कहा — उन दोनों भाइयों को अस्त्र उठाए देखकर जीवित रहने की इच्छा से जयद्रथ शोक से अत्यन्त पीड़ित होकर चुपचाप शीघ्रता से भाग निकला।
2किन्तु अपने रथ से उतरकर महाबली भीमसेन ने पीठ दिखाकर भागते हुए उसका शीघ्र पीछा किया और उसके सिर के केश पकड़ लिए।
3उसे ऊपर उठाकर भीम ने पुनः उसे भूमि पर पटक दिया; फिर उस राजा को सिर से पकड़कर उन्होंने उसे इधर-उधर पटका।
4जब वह चेतना पाकर उठने की इच्छा प्रकट करता, तब वे महाबाहु वीर उसके सिर पर लात मारते।
5भीम ने उसके वक्षःस्थल पर घुटनों और मुक्कों से प्रहार किया, और इस प्रकार आहत होकर वह राजा शीघ्र ही अपनी चेतना खो बैठा।
6तब फाल्गुन ने कुपित भीमसेन को यह स्मरण दिलाकर रोका कि कौरवराज ने दुःशला के पक्ष में क्या कहा था।
7भीम ने कहा — "इस नीचतम और मूर्ख पुरुष ने कृष्णा का घोर अपकार किया है, जो इसके योग्य नहीं थीं; अतः यह जीवित रहने के योग्य नहीं है।
8किन्तु मैं क्या करूँ? राजा सदा दयालु हैं और तुम भी बालबुद्धि से मुझे सदा रोकते रहते हो।"
9यह कहकर वृकोदर ने अपने अर्धचन्द्राकार बाण से उस राजा के सिर के केश मूँड़ दिए और पाँच स्थानों पर पाँच चोटियाँ छोड़ दीं। किन्तु (जयद्रथ) ने एक शब्द भी नहीं कहा।
10तत्पश्चात् वृकोदर ने उस राजा से कहा — "हे मूर्ख! यदि तू जीवित रहना चाहता है, तो सुन, मैं तुझे उपाय बताता हूँ।
11जनसभाओं और खुले दरबारों में तुझे सदा यह कहना होगा कि तू हमारा दास है; (यदि तू यह शर्त मान सके) तो मैं तुझे प्राणदान दे सकता हूँ। विजेताओं की यही रीति है।"
12इस प्रकार व्यवहार पाकर राजा जयद्रथ ने रणभूमि की शोभा बढ़ाने वाले उन नरश्रेष्ठ भीम से कहा — "ऐसा ही हो।"
13तत्पश्चात् उस अचेत और धूल से सने हुए को उठाकर पार्थ और वृकोदर ने उसे रथ पर बैठा दिया।
14तत्पश्चात् उसे रथ पर बैठाकर भीम, पार्थ के साथ, आश्रम पहुँचे और उन युधिष्ठिर के पास गए जो बीच में बैठे हुए थे।
15भीम ने उन्हें उस दशा में पड़े जयद्रथ को दिखाया। उसे देखकर राजा ने मुस्कराते हुए कहा — "इसे मुक्त कर दो।"
16भीम ने राजा से कहा — "द्रौपदी से कहिए कि यह नीच पुरुष पाण्डवों का दास हो गया है।"
17तब उनके ज्येष्ठ भ्राता ने स्नेहपूर्ण वचनों में उनसे कहा — "यदि तुम्हारे मन में मेरे लिए कोई आदर है, तो इसे मुक्त कर दो।"
18युधिष्ठिर को देखकर द्रौपदी ने भी भीम से कहा — "इसे छोड़ दीजिए, जो राजा का दास है और जिसे आपने सिर पर पाँच चोटियाँ छोड़कर कुरूप कर दिया है।"
19मुक्त किए जाने पर वह राजा युधिष्ठिर के पास जाकर उन्हें प्रणाम किया; और वहाँ तपस्वियों को देखकर उसने आपे से बाहर होकर उन सबका अभिवादन किया।
20सव्यसाची द्वारा सँभाले गए जयद्रथ को देखकर दयालु राजा धर्मपुत्र युधिष्ठिर ने उससे कहा —
21"तुम स्वतन्त्र पुरुष हो, जाओ, मैं तुम्हें मुक्त करता हूँ; किन्तु फिर कभी ऐसा कर्म मत करना। तुम्हें धिक्कार है! तुम इतने दुर्बल और असमर्थ होकर भी एक स्त्री को बलपूर्वक हर ले जाना चाहते थे।
22तुम्हारे अतिरिक्त और कौन नीच पुरुष फिर ऐसा करने की सोचेगा?" यह जानकर कि उसका साहस टूट चुका है और उस दुष्कर्मी को देखकर भरतश्रेष्ठ नरेन्द्र ने दया दिखाई (और कहा) — "तुम्हारा हृदय धर्म में बढ़े, फिर कभी ऐसे अधर्म का विचार न करना।
23हे जयद्रथ! अब अपने सारथियों, अश्वारोहियों और पदातियों सहित शान्तिपूर्वक जाओ।" इस प्रकार सम्बोधित होकर वह लज्जा से भर गया; तब अपना सिर नीचा किए हुए —
24— और शोक से पीड़ित होकर, हे भरतनन्दन! वह राजा गंगाद्वार को चला गया। तब उमापति भगवान् विरूपाक्ष की शरण लेकर —
25— उसने कठोर तपस्या की और शिव उस पर प्रसन्न हुए। प्रसन्न होकर उन त्रिनेत्रधारी देव ने स्वयं उसकी अर्पित सामग्री ग्रहण की।
26उन देव ने उसे वरदान दिया, और सुनो कि उसने वह किस प्रकार माँगा — "मैं युद्ध में रथों पर आरूढ़ पाँचों पाण्डुपुत्रों को पराजित करने में समर्थ हो जाऊँ।"
27यह उस राजा ने देव से कहा, किन्तु उन्होंने कहा — "यह नहीं हो सकता। तुम युद्ध में उन्हें एक बार रोक भर सकोगे, जो अजेय हैं और वध के योग्य नहीं हैं — केवल महाबाहु अर्जुन को छोड़कर, जो नर नामक देवेश्वर के अवतार हैं। उन्होंने बदरिकाश्रम में कठोर तप किया है और नारायण उनके पीछे हैं।
28वे समस्त मनुष्यों द्वारा, यहाँ तक कि देवताओं द्वारा भी अजेय हैं; मैंने स्वयं उन्हें दिव्य पाशुपत अस्त्र दिया है। उन्होंने लोकपालों से वज्र तथा अन्य महान् अस्त्र प्राप्त किए हैं।
29महादेव विष्णु, अनन्त आत्मा, देवताओं के स्वामी और आचार्य, अव्यक्त, प्रधान पुरुष, विश्व की आत्मा हैं और उन्हीं की अभिव्यक्ति यह विश्व है।
30युग के अन्त में सर्वभक्षी अग्नि का रूप धारण करके उन्होंने पर्वतों, समुद्रों, द्वीपों, पहाड़ियों, वनों और अरण्यों सहित समस्त विश्व को भस्म कर डाला।
31पृथ्वी के नीचे के प्रदेश में विचरण करने वाले नागों के लोक को भस्म कर देने के पश्चात् आकाश में अनेक रंगों के विशाल मेघ दिखाई दिए।
32घोर गर्जना करते हुए, बिजली से युक्त और सारे आकाश में फैलते हुए।
33तब रथों की धुरी के समान मोटी धाराओं की वर्षा से समस्त दिशाओं को भरकर उन्होंने उस सर्वभक्षी अग्नि को बुझा दिया।
34जब चार सहस्र युगों के अन्त में पृथ्वी एक विशाल समुद्र के समान जल से आप्लावित हो गई और समस्त चर-अचर प्राणी मृत्यु में मौन हो गए, सूर्य, चन्द्रमा और वायु सब नष्ट हो गए तथा विश्व ग्रहों और नक्षत्रों से रहित हो गया, तब वे परमपुरुष नारायण, जो इन्द्रियों की पकड़ से परे हैं और जो सहस्र मस्तकों, नेत्रों और कानों से सुशोभित हैं, विश्राम की इच्छा करने लगे। सहस्र फणों वाले, दस सहस्र सूर्यों की कान्ति वाले तथा कुन्द के पुष्प, चन्द्रमा, मोतियों की माला, श्वेत कमल, दुग्ध अथवा कमलनाल के तन्तुओं के समान श्वेत वे भयंकर शेषनाग उनकी शय्या बने। वहाँ वे भगवान् समस्त दिशाओं को रात्रि के अन्धकार से ढकते हुए गहरे जल के वक्ष पर सो गए।
35जब उनकी सर्जनशक्ति जागृत हुई, तब वे जागे और उन्होंने विश्व को सर्वथा शून्य देखा। इस प्रसंग में नारायण शब्द (पर प्रकाश डालने वाला) एक श्लोक कहा जाता है।
36जल (ऋषि) नर का शरीर था और हम उसे नार कहा जाता सुनते हैं; और चूँकि वही उनका विश्रामस्थल बना, इसलिए वे नारायण कहलाते हैं।
37ज्यों ही उन सनातन देव ने प्रजा की सृष्टि का विचार किया, त्यों ही उन भगवान् की नाभि से एक कमल उत्पन्न हुआ।
38तत्पश्चात् उस नाभिकमल से चतुर्मुख देव ब्रह्मा प्रकट हुए; उस कमल पर सहसा प्रजाओं के पितामह विराजमान हो गए।
39विश्व को सर्वथा शून्य देखकर उन्होंने अपने पश्चात् और अपने मन से मरीचि आदि नौ महातपस्वियों की सृष्टि की।
40उन्होंने भी वही देखकर यक्षों, राक्षसों, पिशाचों, सरीसृपों, मनुष्यों तथा समस्त चर-अचर प्राणियों की सृष्टि की।
41उस परमपुरुष की तीन अवस्थाएँ हैं; ब्रह्मा के रूप में वे स्रष्टा हैं, विष्णु के रूप में वे पालक हैं और रुद्र के रूप में वे संहारक हैं।
42हे सिन्धुराज! क्या तुमने वेदों के ज्ञाता तपस्वियों और ब्राह्मणों द्वारा तुम्हें सुनाए गए विष्णु के अद्भुत कर्मों के विषय में नहीं सुना?
43जब पृथ्वी का सम्पूर्ण तल जल के एक विशाल विस्तार में बदल गया था और उसके ऊपर केवल आकाश ही था, तब भगवान् वर्षा ऋतु की रात्रि में जुगनू के समान पृथ्वी को पुनः स्थापित करने के लिए स्थिर आधार की खोज में इधर-उधर विचरण करते रहे।
44पृथ्वी को जल में डूबी देखकर उन्होंने उसका उद्धार करने का निश्चय किया। (उन्होंने सोचा) — "कौन-सा रूप धारण करके मैं पृथ्वी का जल से उद्धार करूँ?"
45मन में इस प्रकार विचार करते हुए और अपने दिव्य नेत्रों से देखते हुए उन्होंने जल में क्रीड़ा करने के प्रिय वराह के रूप का स्मरण किया।
46तेजस्वी और वेदमय, दस योजन लम्बे, नुकीले दाँतों वाले, काले मेघों के वर्ण वाले, पर्वत के समान विशाल शरीर वाले तथा मेघगर्जन के समान गरजने वाले यज्ञवराह का रूप धारण करके भगवान् जल में गए, अपने एक दाँत से पृथ्वी को ऊपर उठाया और उसे उसके यथोचित स्थान पर पुनः स्थापित कर दिया।
47पुनः आधा सिंह और आधा मनुष्य का अद्भुत रूप धारण करके वे महाबाहु भगवान् अपने हाथ भींचते हुए दैत्यराज के दरबार में गए। दैत्यवंश का वह प्रथम पुरुष, देवताओं का शत्रु, दिति का पुत्र, इस अद्भुत रूप को देखकर क्रोध से भर उठा और उसके नेत्र लाल हो गए।
48मालाओं से सुशोभित और काले मेघों के पुंज के समान दिखाई देने वाला दिति का वीर पुत्र तथा देवताओं का शत्रु हिरण्यकशिपु हाथ में गदा उठाए उस आधे सिंह और आधे मनुष्य वाले सत्त्व पर झपटा।
49तब उसके निकट पहुँचकर उस आधे सिंह और आधे मनुष्य वाले मृगराज ने तत्काल अपने तीखे नखों से उसे विदीर्ण कर डाला।
50इस प्रकार प्राणियों के हित के लिए दैत्यराज का वध करके उन शत्रुहन्ता, कमलनयन, तेजस्वी भगवान् ने पुनः अदिति के गर्भ से कश्यप के पुत्र के रूप में जन्म लिया। पूरे एक सहस्र वर्ष पूर्ण होने पर अदिति ने उस उत्तम गर्भ को जन्म दिया।
51वे वामन कद के, उज्ज्वल नेत्रों वाले और वर्षा से भरे मेघों के वर्ण वाले हुए। उनके हाथ में तपस्वी का दण्ड और कमण्डलु (जलपात्र) था तथा उनका वक्षःस्थल श्रीवत्स के मांगलिक चिह्न से सुशोभित था।
52भगवान् ने जटाएँ और यज्ञोपवीत धारण किया था तथा वे हृष्ट-पुष्ट, सुन्दर और तेजस्वी थे।
53बृहस्पति की सहायता से वे बलि की यज्ञभूमि में प्रविष्ट हुए। उनका वामन कद देखकर बलि हँस पड़ा और बोला —
54"हे विप्र! आपको देखकर मैं प्रसन्न हुआ हूँ; बताइए, मैं आपको क्या दे सकता हूँ?" बलि के इस प्रकार पूछने पर उन वामन ने उत्तर दिया। "आपका कल्याण हो" कहकर उन देव ने मुस्कराते हुए बलि से कहा — "हे दानवराज! मुझे अपने तीन पगों से नापी जाने वाली भूमि दे दो।"
55उन परम प्रभावशाली विप्र ने जो माँगा, बलि ने प्रसन्नतापूर्वक दे दिया। तत्पश्चात् भूमि नापते समय हरि ने अत्यन्त अद्भुत रूप धारण कर लिया।
56अपने तीन पगों से उन्होंने तत्काल समस्त पृथ्वी को नाप लिया; तब उन सनातन देव विष्णु ने पृथ्वी शक्र (इन्द्र) को दे दी।
57यह वृत्तान्त जो मैंने अभी सुनाया, वामन-अवतार के नाम से प्रसिद्ध है; उन्हीं से समस्त देवता उत्पन्न हुए और यह विश्व वैष्णव (अर्थात् विष्णु से व्याप्त) कहलाता है।
58अधर्मियों के दमन और धर्म की रक्षा के लिए उन्होंने यदुवंश में मनुष्यों के बीच जन्म लिया है।
59वे दिव्य विष्णु अब कृष्ण कहलाते हैं। वे अजन्मा देव, जिनका न आदि है न अन्त, संसार द्वारा पूजित हैं।
60हे सैन्धव! ये उनके वे कर्म हैं, जिनका वर्णन ज्ञानीजन इस प्रकार करते हैं। वे उन्हें हाथों में शंख, चक्र और गदा धारण किए हुए अजेय कृष्ण कहते हैं।
61उन देव के वक्ष पर श्रीवत्स का मांगलिक चिह्न है, वे पीत रेशमी वस्त्र धारण करते हैं और अस्त्रविद्या के ज्ञाताओं में श्रेष्ठ हैं। (अर्जुन) ऐसे कृष्ण द्वारा संरक्षित हैं।
62वे शोभासम्पन्न, कमलनयन, अतुलनीय पराक्रम वाले, शत्रुवीरों का संहार करने वाले देव उनके सहायक हैं और वे पार्थ के साथ एक ही रथ पर बैठते हैं।
63देवता भी बड़ी कठिनाई से उन्हें पराजित नहीं कर सकते; फिर कोई मनुष्य युद्ध में पार्थ को कैसे जीत सकता है?
64हे राजन्! उन्हें छोड़कर तुम एक दिन के लिए अपने चार शत्रुओं सहित युधिष्ठिर की सेना को पराजित कर सकोगे।
65वैशम्पायन ने कहा — राजा से यह कहकर समस्त पापों के नाशक हर, उमापति, पशुपति, (दक्ष के) यज्ञ के विध्वंसक, त्रिपुर के संहारक —
66— वे, जिन्होंने भग के नेत्र निकाल लिए थे, अपने बौने, कुबड़े और भयंकर गणों से घिरे हुए, जिनके नेत्र और कान भयावने थे तथा जिनके अस्त्र उठे हुए थे, वे त्र्यम्बक उमा को अपनी सहचरी बनाए हुए अन्तर्धान हो गए।
67दुर्बुद्धि जयद्रथ भी अपने घर लौट गया, और पाण्डव भी काम्यक वन में रहने लगे।
नेपाली
1वैशम्पायनले भने — ती दुवै भाइलाई अस्त्र उठाएको देखेर जीवित रहने इच्छाले जयद्रथ शोकले अत्यन्त पीडित भई चुपचाप शीघ्रताले भाग्यो।
2तर आफ्नो रथबाट ओर्लेर महाबली भीमसेनले पिठ्युँ देखाएर भाग्दै गरेको उसको शीघ्र पछ्याइ गरे र उसको टाउकोको कपाल समाते।
3उसलाई माथि उठाएर भीमले पुनः उसलाई भुइँमा बजारे; अनि त्यस राजालाई टाउकोबाट समातेर उनले उसलाई यताउता बजारे।
4जब ऊ चेतना फर्केर उठ्ने इच्छा प्रकट गर्थ्यो, तब ती महाबाहु वीरले उसको टाउकोमा लात हान्थे।
5भीमले उसको छातीमा घुँडा र मुक्काले प्रहार गरे, र यसरी घाइते भई त्यो राजा शीघ्रै आफ्नो चेतना गुमायो।
6तब फाल्गुनले कुपित भीमसेनलाई यो सम्झाएर रोके कि कौरवराजले दुःशलाको पक्षमा के भनेका थिए।
7भीमले भने — "यस नीचतम र मूर्ख पुरुषले कृष्णाको घोर अपकार गरेको छ, जो यसका योग्य थिइनन्; त्यसैले यो जीवित रहन योग्य छैन।
8तर म के गरूँ? राजा सधैँ दयालु छन् र तिमी पनि बालबुद्धिले मलाई सधैँ रोकिरहन्छौ।"
9यसो भनेर वृकोदरले आफ्नो अर्धचन्द्राकार बाणले त्यस राजाको टाउकोको कपाल खौरिदिए र पाँच ठाउँमा पाँच टुप्पी छोडिदिए। तर (जयद्रथले) एक शब्द पनि बोलेन।
10त्यसपछि वृकोदरले त्यस राजालाई भने — "हे मूर्ख! यदि तँ जीवित रहन चाहन्छस् भने, सुन, म तँलाई उपाय बताउँछु।
11जनसभा र खुला दरबारमा तैँले सधैँ यो भन्नुपर्नेछ कि तँ हाम्रो दास होस्; (यदि तैँले यो सर्त मान्न सक्छस्) भने म तँलाई प्राणदान दिन सक्छु। विजेताहरूको यही रीति हो।"
12यसरी व्यवहार पाएपछि राजा जयद्रथले रणभूमिको शोभा बढाउने ती नरश्रेष्ठ भीमलाई भन्यो — "यस्तै होस्।"
13त्यसपछि त्यस अचेत र धूलोले लतपतिएकालाई उठाएर पार्थ र वृकोदरले उसलाई रथमा बसालिदिए।
14त्यसपछि उसलाई रथमा बसालेर भीम, पार्थसँगै, आश्रम पुगे र ती युधिष्ठिरकहाँ गए जो बीचमा बसेका थिए।
15भीमले उनलाई त्यस दशामा परेको जयद्रथलाई देखाए। उसलाई देखेर राजाले मुस्कुराउँदै भने — "यसलाई मुक्त गरिदेऊ।"
16भीमले राजालाई भने — "द्रौपदीलाई भन्नुहोस् कि यो नीच पुरुष पाण्डवहरूको दास भइसकेको छ।"
17तब उनका जेठा दाजुले स्नेहपूर्ण वचनमा उनलाई भने — "यदि तिम्रो मनमा मप्रति कुनै आदर छ भने, यसलाई मुक्त गरिदेऊ।"
18युधिष्ठिरलाई देखेर द्रौपदीले पनि भीमलाई भनिन् — "यसलाई छोडिदिनुहोस्, जो राजाको दास हो र जसलाई तपाईंले टाउकोमा पाँच टुप्पी छोडेर कुरूप बनाइदिनुभएको छ।"
19मुक्त गरिएपछि ऊ राजा युधिष्ठिरकहाँ गएर उनलाई प्रणाम गर्यो; र त्यहाँ तपस्वीहरूलाई देखेर उसले आफ्नो होस गुमाएझैँ ती सबैको अभिवादन गर्यो।
20सव्यसाचीद्वारा सम्हालिएको जयद्रथलाई देखेर दयालु राजा धर्मपुत्र युधिष्ठिरले उसलाई भने —
21"तिमी स्वतन्त्र पुरुष हौ, जाऊ, म तिमीलाई मुक्त गर्छु; तर फेरि कहिल्यै यस्तो कर्म नगर्नू। तिमीलाई धिक्कार छ! तिमी यति दुर्बल र असमर्थ भएर पनि एउटी स्त्रीलाई बलपूर्वक हरण गर्न चाहन्थ्यौ।
22तिमीबाहेक अरू कुन नीच पुरुषले फेरि यस्तो गर्ने सोच्नेछ?" यो थाहा पाएर कि उसको साहस टुटिसकेको छ र त्यस दुष्कर्मीलाई देखेर भरतश्रेष्ठ नरेन्द्रले दया देखाए (र भने) — "तिम्रो हृदय धर्ममा बढोस्, फेरि कहिल्यै यस्तो अधर्मको विचार नगर्नू।
23हे जयद्रथ! अब आफ्ना सारथि, अश्वारोही र पैदल सेनासहित शान्तिपूर्वक जाऊ।" यसरी सम्बोधित भई ऊ लाजले भरियो; तब आफ्नो शिर निहुराएर —
24— र शोकले पीडित भई, हे भरतनन्दन! त्यो राजा गङ्गाद्वारतिर गयो। तब उमापति भगवान् विरूपाक्षको शरण लिएर —
25— उसले कठोर तपस्या गर्यो र शिव उसमाथि प्रसन्न भए। प्रसन्न भई ती त्रिनेत्रधारी देवले आफैँ उसको अर्पित सामग्री ग्रहण गरे।
26ती देवले उसलाई वरदान दिए, र सुन कि उसले त्यो कसरी माग्यो — "म युद्धमा रथमा आरूढ पाँचै पाण्डुपुत्रलाई पराजित गर्न समर्थ होऊँ।"
27यो त्यस राजाले देवलाई भन्यो, तर उनले भने — "यो हुन सक्दैन। तिमीले युद्धमा तिनलाई एक पटक रोक्न मात्र सक्नेछौ, जो अजेय छन् र वधयोग्य छैनन् — केवल महाबाहु अर्जुनलाई छोडेर, जो नर नामक देवेश्वरका अवतार हुन्। उनले बदरिकाश्रममा कठोर तप गरेका छन् र नारायण उनको पछाडि छन्।
28उनी समस्त मानिसद्वारा, यहाँसम्म कि देवताहरूद्वारा पनि अजेय छन्; मैले आफैँ उनलाई दिव्य पाशुपत अस्त्र दिएको छु। उनले लोकपालहरूबाट वज्र तथा अन्य महान् अस्त्र प्राप्त गरेका छन्।
29महादेव विष्णु, अनन्त आत्मा, देवताहरूका स्वामी र आचार्य, अव्यक्त, प्रधान पुरुष, विश्वको आत्मा हुन् र उनकै अभिव्यक्ति यो विश्व हो।
30युगको अन्तमा सर्वभक्षी अग्निको रूप धारण गरेर उनले पर्वत, समुद्र, द्वीप, पहाड, वन र अरण्यसहित समस्त विश्वलाई भस्म पारिदिए।
31पृथ्वीमुनिको प्रदेशमा विचरण गर्ने नागहरूको लोक भस्म गरिसकेपछि आकाशमा अनेक रङका विशाल बादल देखिए।
32घोर गर्जन गर्दै, बिजुलीले युक्त र सारा आकाशमा फैलिँदै।
33तब रथका धुरीसमान मोटा धाराको वर्षाले समस्त दिशा भरेर तिनले त्यो सर्वभक्षी अग्नि निभाइदिए।
34जब चार हजार युगको अन्तमा पृथ्वी एउटा विशाल समुद्रसमान जलले डुबान भयो र समस्त चराचर प्राणी मृत्युमा मौन भए, सूर्य, चन्द्रमा र वायु सबै नष्ट भए तथा विश्व ग्रह र नक्षत्रबाट रहित भयो, तब ती परमपुरुष नारायण, जो इन्द्रियको पकडभन्दा पर छन् र जो हजार शिर, नेत्र र कानले सुशोभित छन्, विश्रामको इच्छा गर्न थाले। हजार फणा भएका, दस हजार सूर्यको कान्ति भएका तथा कुन्दको फूल, चन्द्रमा, मोतीको माला, सेतो कमल, दूध अथवा कमलनालका तन्तुसमान सेता ती भयंकर शेषनाग उनको शय्या बने। त्यहाँ ती भगवान् समस्त दिशालाई रातको अन्धकारले ढाक्दै गहिरो जलको छातीमा सुते।
35जब उनको सर्जनशक्ति जागृत भयो, तब उनी ब्युँझे र उनले विश्वलाई सर्वथा शून्य देखे। यस प्रसङ्गमा नारायण शब्द (माथि प्रकाश पार्ने) एउटा श्लोक भनिन्छ।
36जल (ऋषि) नरको शरीर थियो र हामी त्यसलाई नार भनिएको सुन्छौँ; र किनभने त्यही उनको विश्रामस्थल बन्यो, त्यसैले उनी नारायण कहलिन्छन्।
37जब ती सनातन देवले प्रजाको सृष्टिको विचार गरे, तत्कालै ती भगवान्को नाभिबाट एउटा कमल उत्पन्न भयो।
38त्यसपछि त्यस नाभिकमलबाट चतुर्मुख देव ब्रह्मा प्रकट भए; त्यस कमलमा अचानक प्रजाहरूका पितामह विराजमान भए।
39विश्वलाई सर्वथा शून्य देखेर उनले आफूपछि र आफ्नै मनबाट मरीचि आदि नौ महातपस्वीको सृष्टि गरे।
40तिनीहरूले पनि त्यही देखेर यक्ष, राक्षस, पिशाच, सरीसृप, मानिस तथा समस्त चराचर प्राणीको सृष्टि गरे।
41ती परमपुरुषका तीन अवस्था छन्; ब्रह्माका रूपमा उनी स्रष्टा हुन्, विष्णुका रूपमा उनी पालक हुन् र रुद्रका रूपमा उनी संहारक हुन्।
42हे सिन्धुराज! के तिमीले वेदका ज्ञाता तपस्वी र ब्राह्मणहरूले तिमीलाई सुनाएका विष्णुका अद्भुत कर्मका विषयमा सुनेका छैनौ?
43जब पृथ्वीको सम्पूर्ण सतह जलको एउटा विशाल विस्तारमा परिणत भएको थियो र त्यसमाथि केवल आकाश मात्र थियो, तब भगवान् वर्षा ऋतुको रातमा जुनकिरीसमान पृथ्वीलाई पुनः स्थापित गर्न स्थिर आधारको खोजीमा यताउता विचरण गरिरहे।
44पृथ्वीलाई जलमा डुबेको देखेर उनले त्यसको उद्धार गर्ने निश्चय गरे। (उनले सोचे) — "कुन रूप धारण गरेर म पृथ्वीको जलबाट उद्धार गरूँ?"
45मनमा यसरी विचार गर्दै र आफ्ना दिव्य नेत्रले हेर्दै उनले जलमा क्रीडा गर्न रुचाउने वराहको रूपको सम्झना गरे।
46तेजस्वी र वेदमय, दस योजन लामो, धारिला दाँत भएको, कालो बादलको वर्ण भएको, पर्वतसमान विशाल शरीर भएको तथा मेघगर्जनसमान गर्जने यज्ञवराहको रूप धारण गरेर भगवान् जलमा गए, आफ्नो एउटा दाँतले पृथ्वीलाई माथि उठाए र त्यसलाई त्यसको यथोचित स्थानमा पुनः स्थापित गरिदिए।
47पुनः आधा सिंह र आधा मानिसको अद्भुत रूप धारण गरेर ती महाबाहु भगवान् आफ्ना हात कस्दै दैत्यराजको दरबारमा गए। दैत्यवंशको त्यो प्रथम पुरुष, देवताहरूको शत्रु, दितिको पुत्र, यो अद्भुत रूप देखेर क्रोधले भरियो र उसका नेत्र राता भए।
48मालाले सुशोभित र कालो बादलको पुञ्जसमान देखिने दितिको वीर पुत्र तथा देवताहरूको शत्रु हिरण्यकशिपु हातमा गदा उठाएर त्यस आधा सिंह र आधा मानिस भएको सत्त्वमाथि झम्ट्यो।
49तब उसको नजिक पुगेर त्यस आधा सिंह र आधा मानिस भएका मृगराजले तत्कालै आफ्ना तीखा नङले उसलाई विदीर्ण पारिदिए।
50यसरी प्राणीहरूको हितका लागि दैत्यराजको वध गरेर ती शत्रुहन्ता, कमलनयन, तेजस्वी भगवान्ले पुनः अदितिको गर्भबाट कश्यपका पुत्रका रूपमा जन्म लिए। पूरै एक हजार वर्ष पूरा भएपछि अदितिले त्यो उत्तम गर्भलाई जन्म दिइन्।
51उनी वामन कदका, उज्ज्वल नेत्र भएका र वर्षाले भरिएका बादलको वर्ण भएका भए। उनको हातमा तपस्वीको दण्ड र कमण्डलु (जलपात्र) थियो तथा उनको छाती श्रीवत्सको माङ्गलिक चिह्नले सुशोभित थियो।
52भगवान्ले जटा र यज्ञोपवीत धारण गर्नुभएको थियो तथा उनी हृष्टपुष्ट, सुन्दर र तेजस्वी थिए।
53बृहस्पतिको सहायताले उनी बलिको यज्ञभूमिमा पसे। उनको वामन कद देखेर बलि हाँस्यो र भन्यो —
54"हे विप्र! तपाईंलाई देखेर म प्रसन्न भएको छु; भन्नुहोस्, म तपाईंलाई के दिन सक्छु?" बलिले यसरी सोधेपछि ती वामनले जवाफ दिए। "तिम्रो कल्याण होस्" भनेर ती देवले मुस्कुराउँदै बलिलाई भने — "हे दानवराज! मलाई आफ्ना तीन पाइलाले नापिने भूमि देऊ।"
55ती परम प्रभावशाली विप्रले जे मागे, बलिले प्रसन्नतापूर्वक दिइदियो। त्यसपछि भूमि नाप्ने बेला हरिले अत्यन्त अद्भुत रूप धारण गरे।
56आफ्ना तीन पाइलाले उनले तत्कालै समस्त पृथ्वी नापिहाले; तब ती सनातन देव विष्णुले पृथ्वी शक्र (इन्द्र) लाई दिइदिए।
57यो वृत्तान्त जुन मैले भर्खरै सुनाएँ, वामन-अवतारका नामले प्रसिद्ध छ; उनैबाट समस्त देवता उत्पन्न भए र यो विश्व वैष्णव (अर्थात् विष्णुले व्याप्त) कहलिन्छ।
58अधर्मीहरूको दमन र धर्मको रक्षाका लागि उनले यदुवंशमा मानिसहरूबीच जन्म लिएका छन्।
59ती दिव्य विष्णु अब कृष्ण कहलिन्छन्। ती अजन्मा देव, जसको न आदि छ न अन्त, संसारद्वारा पूजित छन्।
60हे सैन्धव! यी उनका ती कर्म हुन्, जसको वर्णन ज्ञानीजनहरूले यसरी गर्छन्। तिनीहरूले उनलाई हातमा शङ्ख, चक्र र गदा धारण गरेका अजेय कृष्ण भन्छन्।
61ती देवको छातीमा श्रीवत्सको माङ्गलिक चिह्न छ, उनी पहेँलो रेशमी वस्त्र धारण गर्छन् र अस्त्रविद्याका ज्ञाताहरूमा श्रेष्ठ छन्। (अर्जुन) यस्ता कृष्णद्वारा संरक्षित छन्।
62ती शोभासम्पन्न, कमलनयन, अतुलनीय पराक्रम भएका, शत्रुवीरहरूको संहार गर्ने देव उनका सहायक हुन् र उनी पार्थसँग एउटै रथमा बस्छन्।
63देवताहरूले पनि ठूलो कठिनाइले पनि उनलाई पराजित गर्न सक्दैनन्; अनि कुनै मानिसले युद्धमा पार्थलाई कसरी जित्न सक्छ?
64हे राजन्! उनलाई छोडेर तिमीले एक दिनका लागि आफ्ना चार शत्रुसहित युधिष्ठिरको सेनालाई पराजित गर्न सक्नेछौ।
65वैशम्पायनले भने — राजालाई यो भनेर समस्त पापका नाशक हर, उमापति, पशुपति, (दक्षको) यज्ञका विध्वंसक, त्रिपुरका संहारक —
66— ती, जसले भगका नेत्र निकालिदिएका थिए, आफ्ना बाउना, कुप्रा र भयंकर गणहरूले घेरिएका, जसका नेत्र र कान भयावह थिए तथा जसका अस्त्र उठेका थिए, ती त्र्यम्बक उमालाई आफ्नी सहचरी बनाएर अन्तर्धान भए।
67दुर्बुद्धि जयद्रथ पनि आफ्नो घर फर्क्यो, र पाण्डवहरू पनि काम्यक वनमा बस्न थाले।