अर्जुनका वचन
खण्ड 2 — वन पर्व · अध्याय 168
संस्कृत
1अर्जुन उवाच ततस्तामवसं प्रीतो रजनीं तत्र भारत। प्रसादाद् देवदेवस्य त्र्यम्बकस्य महात्मनः॥
2व्युषितो रजनीं चाहं कृत्वा पौर्वाहिणकीः क्रियाः। अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा॥
3तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम्। भगवन्तं महादेवं समेतोऽस्मीति भारत॥
4स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः। दृष्टस्त्वया महादेवो यथा नान्येन केनचित्॥
5समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः। द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति॥
6एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः अगच्छत् स यथाकामं ब्राह्मण: सूर्यसंनिभः॥
7अथापराह्ने तस्याह्नः प्रावात् पुण्यः समीरणः। पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन्।॥
8दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च। शैशिरस्य गिरेः पादे प्रादुरासन् समीपतः॥
9वादित्राणि च दिव्यानि सुघोराणि समन्ततः। स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः॥
10गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च। पुरस्ताद् देवदेवस्य जगुर्गीतानि सर्वशः॥
11मरुतां च गणास्तत्र देवयानैरुपागमन्। महेन्द्रानुचरा ये च ये च सद्मनिवासिनः॥
12ततो मरुत्वान् हरिभिर्युक्तैर्वाहैः स्वलङ्कतैः। शची सहायस्तत्रायात् सह सर्वैस्तदामरैः॥
13एतस्मिन्नेव काले तु कुबेरो नरवाहनः। दर्शयामास मां राजॅल्लक्ष्म्या परमया युतः॥
14दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम्। वरुणं देवराजं च यथास्थानमवस्थितम्॥
15ते मामूचुर्महाराज सान्त्वयित्वा नरर्षभ। सव्यसाचिन् निरीक्षास्मॉल्लोकपालानवस्थितान्॥
16सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम्। अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः॥
17ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान्। प्रत्यगृहणं तदास्त्राणि महान्ति विधिवद् विभो॥
18गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत। अथ देवा ययुः सर्वे यथागतमरिदम॥
19मघवानपि देवेशो रथमारुह्य सुप्रभम। उवाच भगवान् स्वर्गं गन्तव्यं फाल्गुन त्वया॥
20पुरैवागमनादस्माद् वेदाहं त्वांधनंजय। अतः परं त्वहं वै त्वां दर्शये भरतर्षभ॥
21त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत्। तपश्चेदं महत् तप्तं स्वर्ग गन्तासि पाण्डव॥
22भूयश्चैव च तप्तव्यं तपश्चरणमुत्तमम्। स्वर्गं त्ववश्यं गन्तव्यं त्वया शत्रुनिषूदन॥
23मातलिमन्नियोगात् त्वां त्रिदिवं प्रापयिष्यति। विदितस्त्वं हि देवानां मुनीनां च महात्मनाम्।२३॥
24इहस्थः पाण्डवश्रेष्ठ तपः कुर्वन् सुदुष्करम्। ततोऽहमब्रुवं शक्रं प्रसीद भगवन् मम। आचार्यं वरयेयं त्वामस्त्रार्थं त्रिदशेश्वर।॥
25इन्द्र उवाच क्रूरकर्मास्त्रवित् तात भविष्यसि परंतप। यदर्थमस्त्राणीप्सुस्त्वं तं काम पाण्डवाप्नुहि॥
26ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन्। मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनात्॥
27तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप। लोकांश्चास्त्रजितान् पश्चाल्लभेयं सुरपुड़व॥
28इन्द्र उवाच परीक्षार्थं मयैतत् ते वाक्यमुक्तंधनंजय। ममात्मजस्य वचनं सूपपन्नमिदं तव॥
29शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत। वायोरग्नेर्वसुभ्योऽपि वरुणात् समरुद्गणात्॥
30साध्यं पैतामहं चैव गन्धर्वोरंगरक्षसाम्। वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च॥
31मद्गतानि च जानीहि सर्वास्त्राणि कुरूद्वह। एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत॥
32अथापश्यं हरियुतं रथमैन्द्रमुपस्थितम्। दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप।॥
33लोकपालेषु यातेषु मामुवाचाथ मातलिः। द्रष्टुमिच्छति शक्रस्त्वां देवराजो महायुते॥
34संसिद्ध्यस्व महाबाहो कुरु कार्यमनन्तरम्। पश्य पुण्यकृताँल्लोकान् सशरीरो दिवं व्रज॥
35देवराजः सहस्राक्षस्त्वां दिदृक्षति भारत। इत्युक्तोऽहं मातलिना गिरिममामन्त्र्य शैशिरम्॥
36प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम्। चोदयामास स हयान् मनोमारुतहंसः॥ मातलिहयतत्त्वज्ञो यथावद् भूरिदक्षिण: अवैक्षत च मे वर्क स्थितस्याथ स सारथिः॥ तथा भ्रान्ते रथे राजन् विस्मितश्चेदमब्रवीत्। अत्यद्भुतमिदं त्वद्य विचित्रं प्रतिभाति मे॥
37यदास्थितो रथं दिव्यं पदान चलितः पदम्। देवराजोऽपि हि मया नित्यमत्रोपलक्षितः॥ विचलन् प्रथमोत्पाते हयानां भरतर्षभ। त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह॥
38अतिशक्रमिदं सर्वं तवेति प्रतिभाति मे। इत्युक्त्वाऽऽकाशमाविश्य मातलिर्विबुधालयान्॥ दर्शयामास मे राजन् विमानानि च भारत। स रथो हरिभिर्युक्तो अ॒र्ध्वमाचक्रमे ततः॥
39ऋषयो देवताश्चैव पूजयन्ति नरोत्तम। ततः कामगमॉल्लोकानपश्यं वै सुरर्षिणाम्॥ गन्धर्वाप्सरसां चैव प्रभावममितौजसाम्। नन्दनादीनि देवानां वनान्युपवनानि च॥ दर्शयामास मे शीघ्रं मातलिः शक्रसारथिः। ततः शक्रस्य भवनमपश्यममरावतीम्॥
40दिव्यैः कामफलैर्वृक्ष रत्नैश्च समलङ्कृताम्। न तत्र सूर्यस्तपति न शीतोष्णे न च क्लमः॥ न बाधते तत्र रजस्तत्रास्ति न जरा नृप। न तत्र शोको दैन्यं वा दौर्बल्यं चोपलक्ष्यते॥ दिवौकसां महाराज न ग्लानिररिमर्दन। न क्रोधलोभौ तत्रास्तां सुरादीनां विशाम्पते॥
41नित्यतुष्टाश्च ते राजन् प्राणिनः सुरवेश्मनि। नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः॥
42पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः। शीतस्तत्र ववौ वायुः सुगन्धी जीवनः शुचिः॥
43सर्वरत्नविचित्रा च भूमिः पुष्पबिभूषिता। मृगद्विजाश्च बहवो रुचिरा मधुरस्वरा:॥
44विमानगामिनश्चात्र दृश्यन्ते बहवोऽम्बरे। ततोऽपश्यं वसून् रुद्रान् साध्यांश्च समरुद्गणान्॥
45आदित्यानश्चिनौ चैव तान् सर्वान् प्रत्यपूजयम्। ते मां वीर्येण यशसा तेजसा च बलेन च॥ अस्त्रैश्चाप्यन्वजानन्त संग्रामे विजयेन च। प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम्॥
46देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः। ददावर्धासनं प्रीतः शक्रो मे ददतां वरः॥
47बहुमानाच्च गात्राणि पस्पर्श मम वासवः। तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण॥
48अस्त्रार्थमवसं स्वर्गे शिक्षाणोऽस्त्राणि भारत। विश्वावसोश्च वै पुत्रश्चित्रसेनोऽभवत् सखा॥
49स च गान्धर्वमखिलं ग्राहयामास मां नृप। तत्राहमवसं राजन् गृहीतास्त्रः सुपूजितः॥ सुखं शक्रस्य भवने सर्वकामसमन्वितः। शृण्वन् वै गीतशब्दं च तूर्यशब्दं च पुष्कलम्। पश्यंश्चाप्सरसः श्रेष्ठा नृत्यन्तीर्भरतर्षभ॥
50तत् सर्वमनवज्ञाय तथ्यं विज्ञाय भारत। अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः॥
51ततोऽतुष्यत् सजस्राक्षस्तेन कामेन मे विभुः। एवं मे वसतो राजन्नेष कालोऽत्यगाद् दिवि॥
52कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः। संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत्॥
53न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि। किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः॥
54अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा। अजेयस्त्वं हि संग्रामे सर्वैरपि सुरासुरैः। अथाब्रवीत् पुनर्देवः सम्प्रहृष्टतनूरुहः॥
55अस्त्रयुद्धे समो वीर न ते कश्चिद् भविष्यति। अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः॥
56ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह। अस्त्राणि समवाप्तानि त्वया दश च पञ्च च॥
57पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः। प्रयोगमुपसंहारमावृत्तिं चधनंजय॥
58प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः। ततो गुर्वर्थकालोऽयं समुत्पन्नः परंतप॥
59प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम्। ततोऽहमब्रुवं राजन् देवराजमिदं वचः॥
60विषह्यं यन्मया कर्तुं कृतमेव निबोध तत्। ततो मामब्रवीद् राजन् प्रहसन् बलवृत्रहा॥
61नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन। निवातकवचा नाम दानवा मम शत्रवः॥
62समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत। तिस्रः कोट्य: समाख्यातास्तुल्यरूपबलप्रभाः॥
63तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति। ततो मातलिसंयुक्तं मयूरसमरोमभिः॥ हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम्। बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम्॥
64स्वरूपसदृशं चैव प्रादादङ्गविभूषणम्। अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम्॥
65अजरां ज्यामिमां चापि गाण्डीवे समयोजयत्। ततः प्रायामहं तेन स्यन्दनेन विराजता॥
66येनाजयद् देवपतिर्बलिं वैरोचनि पुरा। ततो देवाः सर्व एव तेन घोषेण बोधिताः॥
67मेऽनघाः। मन्वाना देवराजं मां समाजग्मुर्विशाम्पते। दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फाल्गुन॥
68तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे। निवातकवचानां तु प्रस्थितं मां वधैषिणम्॥ निबोधत महाभागाः शिवं चाशास्त ततो वाग्भिः प्रशस्ताभिस्त्रिदशाः पृथिवीपते। तुष्टुवुर्मी प्रसन्नास्ते यथा देवं पुरंदरम्॥
69रथेनानेन मघवा जितवान् शम्बरं युधि। नमुचिं बलवृत्रौ च प्रह्लादनरकावपि॥
70बहूनि च सहस्राणि प्रयुतान्यर्बुदान्यपि। रथेनानेन दैत्यानां जितवान् मघवा युधि॥
71त्वमप्यनेन कौन्तेय निवातकवचान् रणे। विजेता युधि विक्रम्य पुरेव मघवा वशी॥
72अयं च शङ्खप्रवरो येन जेतासि दानवान्। अनेन विजिता लोकाः शक्रेणापि महात्मना।1८४॥
73प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम्। प्रत्यगृहणं जयायैनं स्तूयमानस्तदामरैः॥
74स शडी कवची बाणी प्रगृहीतशरासनः। दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया॥
अङ्ग्रेजी
1Arjuna said : Then, O Bharata, by the favour of that highsouled god of gods-Tryambaka-I pleasantly passed that night there.
2Having performed my morning devotions when the night drew to a close, I beheld that best of the Brahmanas whom I had previously seen. see
3I related to him faithfully all that occurred, namely, O Bharata, my interview with the divine Mahadev.
4O king of kings, that best of the Brahmanas said to me pleased "none else can Mahadeva as you have seen.
5O sinless being, you will behold the lord of the celestials, together with Vaivasvata and all the Lokapalas, who (the lord of the celestials) will grant you weapons.
6O king, saying this and embracing me again and again, that sun-like Brahmana went away whither he liked.
7Then, O destroyer of foes, in the afternoon of that day, it pure brceze began to blow, as if making this world anew.
8(And) at the foot of the mountain Himalayas, fragrant, fresh and fair flowers began to blossomi near and around me.
9(And) there was heard from all sides, celestials and sweet symphony together with charming eulogy to Indra.
10Multitudes of Gandharvas and Apsaras chanted various songs before the god of gods.
11And the whole body of the Marutas, the followers of Mahendra and all the inhabitants of the heavenly regions appeared there on celestials cars.
12Then Marutvana, accompanied by Sachi and all the immortals, appeared there in ornamental cars drawn by horses.
13And, at the very moment, O king, Kubera, of transcendental beauty who is carried on the shoulders of men, came to my presence.
14(And) I beheld Yama seated towards the southern point and the king of the gods and Varuna in their respective places.
15Having cheered me up, O great king, O best of mortals, they said to me, “O Savyasachi, behold us the Lokapalas seated (here).
16You have beheld Mahadeva in order to perform the task in behalf of the celestials. Now, receive the weapons from us seated around.
17Thereupon, O lord bowing down to those best of the celestials and with a pure heart I duly accepted those powerful weapons.
18O Bharata, having accepted the weapons I was recognized by the gods (as one of them). And then, O tormentor of foes, all the gods returned to their respective places.
19And the lord king of the gods-Maghavana too, having ascended his splendid car, said "O Falguni, you will have to visit the celestials regions.
20O Dhananjaya, even before my arrival here I had known you (would come). After this, O best of the Bharatas, I will reveal myself to you (in heaven).
21O Pandava, as you formerly performed ablutions in various Tirthas (i.e. sacred places resorted to by pilgrims) and were absorbed in rigid asceticism, you will be able to go to heaven.
22O destroyer of foes, you will have to practise severe austerities again, for O Pandava, you will surely have to stay in heaven (now in this mortal frame).
23At my command Matali will take you to heaven, You are already known to the celestials and the high-souled sages.'
24Thereupon I said to Sakra, “be favourably disposed towards me. In order to learn (the science of) weapons, O lord of heaven, I make you my preceptor."
25Indra said: O tormentor of foes, O child, you will achieve terrible feats (of arms). And that desire of yours which makes you eager to obtain weapons shall be fulfilled.
26Thereupon I replied, "O destroyer of foes, I will never hurt these celestials weapons at mortals except to ward off their weapons.
27Therefore, O lord of the gods, O best of the celestials, grant me those celestials weapons. Then I shall afterwards attain to the region of the warriors."
28Indra said : "O Dhananjaya, in order to test you I have said these words. You being my son, this speech is worthy of you.
29Repairing to my abode, O Bharata, learn all the weapons of Vayu, of Agni, of the Vasus, of Varuna of the Marutas,
30Of the Sadhyas, of Pitamaha, of the Gandharvas, of the Uragas, of the Rakshasas, of Vishnu and of the Nairitas;
31And, Operpetuator of the Kuru race, all those weapons are presided over by me." Addressing me thus, Sakra vanished at that very spot.
32Then, O king, I saw that sacred, celestials and wonderful and car of Indra, yoked with horses and driven by Matali arrive (there).
33The Lokapalas having gone away, Matali said to me “O you of unrivalled splendour, the lord of the celestials, Sakra, wishes to see you.
34O creation of powerful arms, acquire perfection first and then perform your task. Behold the regions of the virtuous and repair to heaven even in the (mortal) frame.
35O Bharata, the thousand-eyed king of the gods is desirous of seeing you.” Thus addressed by Matali and greeting the mountain Himalaya,
36And going round it, I ascended that excellent car. And the exceedingly generous Matali, expert in horse-flesh, properly drove the horses fleet as the mind or the wind. (And)o king that charioteer, seeing that I was steadily seated in the car in motion, looked at my face and being lost in wonder said, “Today it appears to me highly wonderful and unprecedented,
37That placed in this celestials car you are not jerked even a step from your seat. O best of the Bharatas, I have often noticed that (even) the king of the gods is unable to keep up his balance at the first pull by the horses. O perpetuator of the Kuru race, your sitting (steadily) in the car while in motion,
38Appears to me that this power of yours has surpassed even that of Sakra himself." O king, O Bharata, saying this and soaring up to the celestials regions, Matali showed to me the abodes and palaces of the celestials. Then that car yoked with horses soared upwards.
39(And) O the best of mortals, the sages and the gods began to pay their adorations to it. Then I beheld the regions moving at will and the splendour of the highly energetic divine sages, of the Gandharvas and of the Apsaras. (And) the charioteer of Indra, Matali, soon showed to me the garden of Nandana and other gardens and bowers of the celestials. Then I beheld the palace of Indra, Amravati,
40Gracefully adorned with jewels and celestials trees yielding all sorts of fruits that are desired. There the sun does not shed heat, nor is there any one oppressed with cold, heat or fatigue. And O king there is no senility. O great king, O grinder of foes, nor are the celestials seen there (to be affected with) grief, poverty of spirit, weakness or lassitude. Nor, O lord of the world, there the celestials and others have anger or covetousness.
41O king, in the abodes of the celestials all beings are always cheerful. There the trees are always covered with green leaves and fruits and flowers,
42And the lakes are adorned with fragrant lotuses. The breeze is there cool, pleasant, fragrant, pure and invigorating.
43(There) the ground is variegated with all sorts of gems and decked with flowers. Various beautiful beasts, birds of sweet voice,
44And numerous rangers of the sky are to be seen in the air. I then, beheld the Vasus, the Rudras, the Saddhyas, the Marutas,
45The Adityas Adityas and the Ashvins and worshipped them all. They uttered benedictions for my strength, renown, energy prowess, (skill in) aims and victory in battle. Entering that delightful city, adored by the gods and the Gandharvas,
46I stood before the hundred-eyed king of the gods with joined hands. And Sakra, the best of the liberal-handed, gladly offered to me half his seat.
47Honouring me greatly Vasava ached my body. There with the generous-hearted gods and the Gandharvas.
48I began, O Bharata, to dwell in heaven desirous of obtaining arms and engaged in the study of the science of weapons. (And) Chitrasena, the son of Visvavasu, became my friend.
49It was he who taught me that entire science (of arms) known to the Gandharvas, Othe best of the Bharatas, there in the abode of Sakra I began to live happily, duly honoured, acquiring weapons, with my desires gratified, hearing songs and the clear sounds of musical instruments and witnessing the dance of the best of the Apsaras.
50O Bharata, without despising those fine arts which I learnt properly, I specially devoted my attention to the acquisition of arms.
51Thereupon, that thousand-eyed lord was pleased with that desire of mine. O king, thus dwelling in heaven I have passed this period.
52When I was skilled in weapons and gained his confidence, that one, who is borne by horses, touching my head with his hands, said these words:
53"Not to speak of men of imperfect minds dwelling on earth, even the gods are not now capable of conquering you.
54You are incomprehensible in strength, irrepressible and also incomparable in fight.” Then with the hair of his body standing erect he said again,
55"No one shall be equal to you in fighting with weapons who are always vigilant, dexterous, truthful, self-controlled,
56Protector of the Brahmana, skilled in arms and brave, O perpetuator of the Kurus. You have obtained five and ten weapons,
57Together with the five methods of using (them). O Partha, (Therefore) you have no equal, O Dhananjaya; you have also learnt the methods of their discharge, withdrawal, frequent re-discharge and re-withdrawal,
58And the revival of harmless beings burnt by the fire of weapons and the revival of the weapons (themselves) when baffled by those of the enemies. Now, O tormentor of foes the time has arrived for paying your preceptor's fees.
59Promise to pay it and then I shall tell you what you will have to do.” Thereupon, O king I said to the king of the gods these words:
60“If it be in my power to perform the task then consider it as already performed.” Then, O king, the slayer of Vitra said to me smiling:
61"There is nothing in these three worlds that cannot be achieved by you. My enemies, the Danavas styled Nivatakavachas,
62Taking refugee in the womb of the ocean, dwell in forts. They are thirty millions in number and are all equal in structure, prowess and splendour.
63O son of Kunti, destroy them there (and) that will be your preceptor's fee.” Then he gave me that splendid celestials car driven by Matali and yoked with horse furnished with hair beautiful as the feather of peacocks. (And) he set upon my head this excellent coronet.
64Gave me ornaments for my person worthy of his own body and this impenetrable excellent armour of pleasurable feel,
65And strung the Gandiva with this strong chord. I then set out ascending that splendid car,
66Riding which, in days of yore the king of the gods conquered Bali, the son of Virochana. Then all the gods, being aroused by the sound of that car,
67And mistaking me for the king of the gods, O lord of the earth, approached me. (But) having beheld me they asked “O Falguni, what will you do?"
68I related to them exactly what had passed and said "I will do this in battle, O sinless ones, O highly fortunate beings; know I have set out with the desire of slaying the Nivalakavachas and bless me for my success.” (And) being pleased, they paid their adoration to me as to the god, Purandara.
69(And said): “ascending this car, Maghavana had conquered in battle, Samvara, Namuchi, Vritra, Bala, Prahrada and Naraka.
70And riding on this car also Maghavana had conquered in battle several thousands and millions and hundreds of millions of Daityas.
71You too, O son of Kunti, mounted on this (car) shall, displaying your prowess, obtain victory over the Nivatakavachas in fight as of yore the self-contained Maghavana did.
72Here is that excellent conch by which you will conquer the Danavas. By (the help of) it, the high-souled Sakra conquered the worlds.
73And then the gods presented to me this shell, Devadatta, having its origin in the sea. I too accepted it for victory. Then the immortals began to eulogise me.
74Desirous of fighting, I then set out for the terrible abode of the Danavas equipped with conch, armour and bow."
हिन्दी
1अर्जुन ने कहा — तदनन्तर, हे भरत, उन महात्मा देवाधिदेव त्र्यम्बक की कृपा से मैंने वह रात्रि वहाँ सुखपूर्वक बिताई।
2रात्रि के समाप्त होने पर प्रातःकालीन सन्ध्यावन्दना करके मैंने उन ब्राह्मणश्रेष्ठ को देखा, जिन्हें मैंने पहले देखा था।
3मैंने उन्हें जो कुछ हुआ था, वह सब यथार्थ रूप से सुनाया — अर्थात्, हे भरत, दिव्य महादेव से मेरी भेंट का वृत्तान्त।
4हे राजाधिराज, उन ब्राह्मणश्रेष्ठ ने प्रसन्न होकर मुझसे कहा — "जैसे तुमने महादेव को देखा है, वैसे और कोई नहीं देख सकता।
5हे निष्पाप, तुम वैवस्वत तथा समस्त लोकपालों सहित देवेश्वर के दर्शन करोगे, और वे (देवेश्वर) तुम्हें अस्त्र प्रदान करेंगे।"
6हे राजन्, यह कहकर और मुझे बार-बार गले लगाकर वे सूर्य के समान तेजस्वी ब्राह्मण जहाँ चाहा, वहाँ चले गए।
7तदनन्तर, हे शत्रुनाशक, उसी दिन अपराह्न में पवित्र वायु बहने लगी, मानो इस संसार को नया बना रही हो।
8(और) हिमालय पर्वत की तलहटी में मेरे समीप तथा चारों ओर सुगन्धित, नवीन और सुन्दर पुष्प खिलने लगे।
9(और) चारों ओर से इन्द्र की मनोहर स्तुति के साथ दिव्य और मधुर संगीत सुनाई पड़ने लगा।
10गन्धर्वों और अप्सराओं के समूह देवाधिदेव के सम्मुख नाना प्रकार के गीत गाने लगे।
11और सम्पूर्ण मरुद्गण, महेन्द्र के अनुचर तथा स्वर्गलोक के समस्त निवासी दिव्य रथों पर वहाँ प्रकट हुए।
12तब शची और समस्त अमरों सहित मरुत्वान् (इन्द्र) घोड़ों से जुते अलंकृत रथों में वहाँ प्रकट हुए।
13और, हे राजन्, उसी क्षण अलौकिक सौन्दर्य वाले कुबेर, जो मनुष्यों के कन्धों पर वहन किए जाते हैं, मेरे समीप आए।
14(और) मैंने यम को दक्षिण दिशा की ओर विराजमान तथा देवराज और वरुण को उनके अपने-अपने स्थानों पर देखा।
15हे महाराज, हे मनुष्यश्रेष्ठ, उन्होंने मुझे उत्साहित करते हुए कहा — "हे सव्यसाची, हमें लोकपालों को (यहाँ) विराजमान देखो।
16तुमने देवताओं का कार्य सिद्ध करने के लिए महादेव के दर्शन किए हैं। अब चारों ओर विराजमान हमसे अस्त्र ग्रहण करो।"
17तदनन्तर, हे स्वामी, देवताओं में श्रेष्ठ उन्हें प्रणाम करके और शुद्ध हृदय से मैंने वे शक्तिशाली अस्त्र विधिपूर्वक स्वीकार किए।
18हे भरत, अस्त्र ग्रहण कर लेने पर देवताओं ने मुझे (अपने में से एक के रूप में) मान्यता दी। और तब, हे शत्रुतापन, समस्त देवता अपने-अपने स्थानों को लौट गए।
19और देवराज स्वामी मघवान् ने भी अपने तेजस्वी रथ पर आरूढ़ होकर कहा — "हे फाल्गुनी, तुम्हें स्वर्गलोक आना होगा।
20हे धनंजय, यहाँ आने से पूर्व ही मैं जानता था कि तुम (आओगे)। इसके पश्चात्, हे भरतश्रेष्ठ, मैं (स्वर्ग में) तुम्हें अपने स्वरूप का दर्शन कराऊँगा।
21हे पाण्डव, चूँकि तुमने पहले नाना तीर्थों (अर्थात् तीर्थयात्रियों द्वारा सेवित पवित्र स्थानों) में स्नान किया और कठोर तपस्या में लीन रहे, इसलिए तुम स्वर्ग जा सकोगे।
22हे शत्रुनाशक, तुम्हें पुनः कठोर तपस्या करनी होगी, क्योंकि हे पाण्डव, तुम्हें निश्चय ही (इसी मर्त्य देह में) स्वर्ग में रहना पड़ेगा।
23मेरी आज्ञा से मातलि तुम्हें स्वर्ग ले जाएँगे। तुम्हें देवता और महात्मा ऋषि पहले से ही जानते हैं।"
24तदनन्तर मैंने शक्र से कहा — "मुझ पर कृपालु होइए। हे स्वर्गपति, अस्त्रविद्या सीखने के लिए मैं आपको अपना गुरु बनाता हूँ।"
25इन्द्र ने कहा — हे शत्रुतापन, हे वत्स, तुम (अस्त्रों के) भयंकर पराक्रम दिखाओगे। और तुम्हारी वह इच्छा, जो तुम्हें अस्त्र प्राप्त करने को उत्सुक करती है, पूर्ण होगी।
26तदनन्तर मैंने उत्तर दिया — "हे शत्रुनाशक, मैं इन दिव्य अस्त्रों को मर्त्य मनुष्यों पर कभी नहीं चलाऊँगा, केवल उनके अस्त्रों के निवारण के अतिरिक्त।
27अतः हे देवेश्वर, हे देवताओं में श्रेष्ठ, मुझे वे दिव्य अस्त्र प्रदान कीजिए। तब मैं आगे चलकर वीरों के लोक को प्राप्त करूँगा।"
28इन्द्र ने कहा — "हे धनंजय, तुम्हारी परीक्षा लेने के लिए ही मैंने ये वचन कहे थे। तुम मेरे पुत्र हो, अतः यह वाणी तुम्हारे योग्य ही है।
29हे भरत, मेरे धाम में आकर वायु, अग्नि, वसुओं, वरुण, मरुद्गण,
30साध्यों, पितामह, गन्धर्वों, उरगों, राक्षसों, विष्णु और नैर्ऋतों के — समस्त अस्त्र सीखो;
31और, हे कुरुवंश के प्रवर्धक, वे समस्त अस्त्र मेरे ही अधिष्ठान में हैं।" मुझसे इस प्रकार कहकर शक्र उसी स्थान पर अन्तर्धान हो गए।
32तब, हे राजन्, मैंने इन्द्र का वह पवित्र, दिव्य और अद्भुत रथ देखा, जो घोड़ों से जुता और मातलि द्वारा हाँका जाता हुआ (वहाँ) आ पहुँचा।
33लोकपालों के चले जाने पर मातलि ने मुझसे कहा — "हे अनुपम तेजवाले, देवेश्वर शक्र तुमसे मिलना चाहते हैं।
34हे महाबाहु, पहले सिद्धि प्राप्त करो और तब अपना कार्य सिद्ध करो। धर्मात्माओं के लोक देखो और इसी (मर्त्य) देह में स्वर्ग को चलो।
35हे भरत, सहस्रनेत्र देवराज तुमसे मिलने के इच्छुक हैं।" मातलि के इस प्रकार कहने पर मैंने हिमालय पर्वत का अभिवादन किया,
36और उसकी परिक्रमा करके मैं उस उत्तम रथ पर आरूढ़ हुआ। और अश्वविद्या में निपुण परम उदार मातलि ने उन घोड़ों को मन अथवा वायु के समान वेगवान् रूप से भलीभाँति हाँका। (और) हे राजन्, उस सारथि ने यह देखकर कि चलते हुए रथ में मैं स्थिरतापूर्वक बैठा हूँ, मेरे मुख की ओर देखा और आश्चर्य में डूबकर कहा — "आज मुझे यह अत्यन्त अद्भुत और अभूतपूर्व प्रतीत होता है,
37कि इस दिव्य रथ में स्थित होकर तुम अपने आसन से एक पग भी नहीं डगमगाए। हे भरतश्रेष्ठ, मैंने प्रायः देखा है कि घोड़ों के प्रथम झटके पर (स्वयं) देवराज तक अपना सन्तुलन नहीं रख पाते। हे कुरुवंश के प्रवर्धक, चलते हुए रथ में तुम्हारा (स्थिरतापूर्वक) बैठना —
38मुझे यह प्रतीत कराता है कि तुम्हारी यह शक्ति स्वयं शक्र की शक्ति से भी बढ़कर है।" हे राजन्, हे भरत, यह कहकर और स्वर्गलोक की ओर ऊपर उठते हुए मातलि ने मुझे देवताओं के निवास और भवन दिखाए। तब घोड़ों से जुता वह रथ ऊपर की ओर उड़ चला।
39(और) हे मनुष्यश्रेष्ठ, ऋषि और देवता उसकी अर्चना करने लगे। तब मैंने इच्छानुसार विचरने वाले लोक तथा परम तेजस्वी देवर्षियों, गन्धर्वों और अप्सराओं का तेज देखा। (और) इन्द्र के सारथि मातलि ने शीघ्र ही मुझे नन्दन उद्यान तथा देवताओं के अन्य उद्यान और लताकुंज दिखाए। तब मैंने इन्द्र का भवन अमरावती देखा,
40जो रत्नों और समस्त इच्छित फल देने वाले दिव्य वृक्षों से मनोहर रूप से अलंकृत था। वहाँ न सूर्य ताप देता है, न कोई शीत, ताप अथवा थकान से पीड़ित होता है। और हे राजन्, वहाँ वृद्धावस्था नहीं है। हे महाराज, हे शत्रुमर्दन, वहाँ देवता शोक, दीनता, दुर्बलता अथवा आलस्य से (ग्रस्त) नहीं दिखाई देते। और हे लोकनाथ, वहाँ देवताओं और अन्यों में क्रोध अथवा लोभ भी नहीं है।
41हे राजन्, देवताओं के धामों में समस्त प्राणी सदा प्रसन्न रहते हैं। वहाँ वृक्ष सदा हरे पत्तों, फलों और फूलों से आच्छादित रहते हैं,
42और सरोवर सुगन्धित कमलों से अलंकृत रहते हैं। वहाँ की वायु शीतल, सुखद, सुगन्धित, पवित्र और स्फूर्तिदायक है।
43(वहाँ) भूमि नाना प्रकार के रत्नों से चित्रित और पुष्पों से सजी है। नाना प्रकार के सुन्दर पशु, मधुरभाषी पक्षी,
44और आकाश में विचरने वाले असंख्य जीव वहाँ की वायु में दिखाई देते हैं। तब मैंने वसुओं, रुद्रों, साध्यों, मरुद्गण,
45आदित्यों और अश्विनीकुमारों को देखा और उन सबकी पूजा की। उन्होंने मेरे बल, यश, तेज, पराक्रम, अस्त्रकौशल और युद्ध में विजय के लिए आशीर्वाद दिए। देवताओं और गन्धर्वों द्वारा पूजित उस रमणीय नगरी में प्रवेश करके —
46मैं हाथ जोड़े शतनेत्र देवराज के सम्मुख खड़ा हुआ। और उदारहस्तों में श्रेष्ठ शक्र ने प्रसन्नतापूर्वक मुझे अपना आधा आसन दे दिया।
47मेरा महान् सम्मान करते हुए वासव ने मेरे शरीर का स्पर्श किया। वहाँ उदारहृदय देवताओं और गन्धर्वों के साथ —
48हे भरत, मैं अस्त्रप्राप्ति की इच्छा से और अस्त्रविद्या के अध्ययन में लगकर स्वर्ग में निवास करने लगा। (और) विश्वावसु के पुत्र चित्रसेन मेरे मित्र बन गए।
49उन्होंने ही मुझे गन्धर्वों को ज्ञात वह सम्पूर्ण (अस्त्र)विद्या सिखाई। हे भरतश्रेष्ठ, शक्र के धाम में मैं विधिपूर्वक सम्मानित होकर, अस्त्र प्राप्त करते हुए, अपनी कामनाएँ पूर्ण होते हुए, गीत और वाद्ययन्त्रों की स्पष्ट ध्वनियाँ सुनते हुए तथा श्रेष्ठ अप्सराओं का नृत्य देखते हुए सुखपूर्वक रहने लगा।
50हे भरत, जिन ललित कलाओं को मैंने भलीभाँति सीखा, उनकी अवहेलना किए बिना मैंने विशेष रूप से अपना ध्यान अस्त्रों की प्राप्ति में लगाया।
51तदनन्तर वे सहस्रनेत्र स्वामी मेरी उस इच्छा से प्रसन्न हुए। हे राजन्, इस प्रकार स्वर्ग में निवास करते हुए मैंने यह अवधि बिताई है।
52जब मैं अस्त्रों में निपुण हो गया और उनका विश्वास प्राप्त कर लिया, तब अश्वों द्वारा वहन किए जाने वाले उन्होंने अपने हाथों से मेरे मस्तक का स्पर्श करते हुए ये वचन कहे —
53"पृथ्वी पर निवास करने वाले अपूर्ण बुद्धि के मनुष्यों की बात तो छोड़ो, अब तो देवता भी तुम्हें जीतने में समर्थ नहीं हैं।
54तुम बल में अचिन्त्य, अदम्य और युद्ध में भी अनुपम हो।" तब रोमांचित होकर उन्होंने पुनः कहा —
55"अस्त्रों से युद्ध करने में तुम्हारे समान कोई न होगा — तुम, जो सदा सतर्क, दक्ष, सत्यवादी, संयमी,
56ब्राह्मणों के रक्षक, अस्त्रों में निपुण और वीर हो, हे कुरुवंश के प्रवर्धक। तुमने पन्द्रह अस्त्र प्राप्त किए हैं,
57उनके (प्रयोग की) पाँच विधियों सहित। हे पार्थ, (अतः) तुम्हारे समान कोई नहीं है, हे धनंजय; तुमने उनके छोड़ने, लौटाने, बार-बार पुनः छोड़ने और पुनः लौटाने की विधियाँ भी सीख ली हैं,
58तथा अस्त्रों की अग्नि से जले निर्दोष प्राणियों को पुनर्जीवित करने और शत्रुओं के अस्त्रों द्वारा व्यर्थ कर दिए गए (अपने) अस्त्रों को पुनः जीवित करने की विधि भी। अब, हे शत्रुतापन, तुम्हारे गुरुदक्षिणा चुकाने का समय आ गया है।
59उसे चुकाने की प्रतिज्ञा करो और तब मैं तुम्हें बताऊँगा कि तुम्हें क्या करना होगा।" तदनन्तर, हे राजन्, मैंने देवराज से ये वचन कहे —
60"यदि वह कार्य करना मेरी सामर्थ्य में हो, तो उसे पूर्ण हुआ ही समझिए।" तब, हे राजन्, वृत्रहन्ता ने मुस्कराते हुए मुझसे कहा —
61"इन तीनों लोकों में ऐसा कुछ नहीं जो तुमसे सिद्ध न हो सके। निवातकवच नामक मेरे शत्रु दानव —
62समुद्र के गर्भ में शरण लेकर दुर्गों में निवास करते हैं। वे संख्या में तीन करोड़ हैं और शरीर, पराक्रम तथा तेज में सब समान हैं।
63हे कुन्तीपुत्र, वहाँ जाकर उनका संहार करो — (और) वही तुम्हारी गुरुदक्षिणा होगी।" तब उन्होंने मुझे मातलि द्वारा हाँका जाने वाला और मयूरपंख के समान सुन्दर बालों वाले घोड़ों से जुता वह तेजस्वी दिव्य रथ दिया। (और) उन्होंने मेरे मस्तक पर यह उत्तम किरीट रखा।
64अपने ही शरीर के योग्य आभूषण मुझे दिए और सुखद स्पर्श वाला यह अभेद्य उत्तम कवच भी,
65और गाण्डीव पर यह दृढ़ प्रत्यंचा चढ़ाई। तब मैं उस तेजस्वी रथ पर आरूढ़ होकर चल पड़ा,
66जिस पर सवार होकर पूर्वकाल में देवराज ने विरोचन के पुत्र बलि को जीता था। तब उस रथ की ध्वनि से जागृत होकर समस्त देवता —
67और मुझे देवराज समझकर, हे पृथ्वीपति, मेरे समीप आए। (किन्तु) मुझे देखकर उन्होंने पूछा — "हे फाल्गुनी, तुम क्या करोगे?"
68मैंने उन्हें जो कुछ हुआ था, ठीक-ठीक सुनाया और कहा — "हे निष्पापो, हे परम भाग्यशालियो, मैं युद्ध में यह करूँगा; जान लीजिए कि मैं निवातकवचों के वध की इच्छा से निकला हूँ; मेरी सफलता के लिए मुझे आशीर्वाद दीजिए।" (और) प्रसन्न होकर उन्होंने मेरी वैसी ही अर्चना की जैसी देव पुरन्दर की।
69(और कहा) — "इसी रथ पर आरूढ़ होकर मघवान् ने युद्ध में शम्बर, नमुचि, वृत्र, बल, प्रह्लाद और नरक को जीता था।
70और इसी रथ पर सवार होकर मघवान् ने युद्ध में कई सहस्र, कई लाख और कई करोड़ दैत्यों को जीता था।
71हे कुन्तीपुत्र, तुम भी इस (रथ) पर आरूढ़ होकर, अपना पराक्रम दिखाते हुए, युद्ध में निवातकवचों पर वैसी ही विजय प्राप्त करोगे जैसी पूर्वकाल में संयमी मघवान् ने की थी।
72यह वह उत्तम शंख है जिससे तुम दानवों को जीतोगे। इसकी (सहायता) से महात्मा शक्र ने लोकों को जीता था।"
73और तब देवताओं ने मुझे समुद्र से उत्पन्न यह शंख देवदत्त प्रदान किया। मैंने भी विजय के लिए उसे स्वीकार किया। तब अमरगण मेरी स्तुति करने लगे।
74तब युद्ध की इच्छा से मैं शंख, कवच और धनुष से सुसज्जित होकर दानवों के भयंकर धाम की ओर चल पड़ा।
नेपाली
1अर्जुनले भने — त्यसपछि, हे भरत, ती महात्मा देवाधिदेव त्र्यम्बकको कृपाले मैले त्यो रात त्यहाँ सुखपूर्वक बिताएँ।
2रात सकिएपछि प्रातःकालीन सन्ध्यावन्दना गरेर मैले ती ब्राह्मणश्रेष्ठलाई देखेँ, जसलाई मैले पहिले देखेको थिएँ।
3मैले उनलाई जे-जति भएको थियो, त्यो सबै यथार्थ रूपमा सुनाएँ — अर्थात्, हे भरत, दिव्य महादेवसँग मेरो भेटको वृत्तान्त।
4हे राजाधिराज, ती ब्राह्मणश्रेष्ठले प्रसन्न भई मलाई भने — "जसरी तिमीले महादेवलाई देखेका छौ, त्यसरी अरू कसैले देख्न सक्दैन।
5हे निष्पाप, तिमीले वैवस्वत तथा सम्पूर्ण लोकपालसहित देवेश्वरको दर्शन गर्नेछौ, र उनले (देवेश्वरले) तिमीलाई अस्त्र प्रदान गर्नेछन्।"
6हे राजन्, यसो भनेर र मलाई पटक-पटक अङ्गालो हालेर ती सूर्यजस्तै तेजस्वी ब्राह्मण जता चाहे, त्यतै गए।
7त्यसपछि, हे शत्रुनाशक, त्यसै दिनको अपराह्नमा पवित्र वायु बहन थाल्यो, मानौँ यस संसारलाई नयाँ बनाइरहेको छ।
8(र) हिमालय पर्वतको फेदमा मेरो नजिक तथा चारैतिर सुगन्धित, नयाँ र सुन्दर फूलहरू फुल्न थाले।
9(र) चारैतिरबाट इन्द्रको मनोहर स्तुतिसँगै दिव्य र मधुर सङ्गीत सुनिन थाल्यो।
10गन्धर्व र अप्सराहरूका समूहले देवाधिदेवको सामु नाना प्रकारका गीत गाउन थाले।
11र सम्पूर्ण मरुद्गण, महेन्द्रका अनुचर तथा स्वर्गलोकका सम्पूर्ण निवासी दिव्य रथहरूमा त्यहाँ प्रकट भए।
12तब शची र सम्पूर्ण अमरहरूसहित मरुत्वान् (इन्द्र) घोडा जोतिएका अलङ्कृत रथहरूमा त्यहाँ प्रकट भए।
13र, हे राजन्, त्यही क्षण अलौकिक सौन्दर्य भएका कुबेर, जो मानिसहरूका काँधमा बोकिन्छन्, मेरो नजिक आए।
14(र) मैले यमलाई दक्षिण दिशातिर विराजमान तथा देवराज र वरुणलाई उनका आफ्ना-आफ्ना स्थानमा देखेँ।
15हे महाराज, हे मनुष्यश्रेष्ठ, उनीहरूले मलाई उत्साहित पार्दै भने — "हे सव्यसाची, हामी लोकपालहरूलाई (यहाँ) विराजमान हेर।
16तिमीले देवताहरूको कार्य सिद्ध गर्न महादेवको दर्शन गरेका छौ। अब चारैतिर विराजमान हामीबाट अस्त्र ग्रहण गर।"
17त्यसपछि, हे स्वामी, देवताहरूमा श्रेष्ठ उनीहरूलाई प्रणाम गरेर र शुद्ध हृदयले मैले ती शक्तिशाली अस्त्र विधिपूर्वक स्वीकार गरेँ।
18हे भरत, अस्त्र ग्रहण गरेपछि देवताहरूले मलाई (आफूमध्येका एकजनाका रूपमा) मान्यता दिए। र तब, हे शत्रुतापन, सम्पूर्ण देवता आफ्ना-आफ्ना स्थानमा फर्के।
19र देवराज स्वामी मघवान्ले पनि आफ्नो तेजस्वी रथमा आरूढ भई भने — "हे फाल्गुनी, तिमीले स्वर्गलोक आउनुपर्नेछ।
20हे धनञ्जय, यहाँ आउनुभन्दा पहिले नै म जान्दथेँ कि तिमी (आउनेछौ)। यसपछि, हे भरतश्रेष्ठ, म (स्वर्गमा) तिमीलाई आफ्नो स्वरूपको दर्शन गराउनेछु।
21हे पाण्डव, किनकि तिमीले पहिले नाना तीर्थ (अर्थात् तीर्थयात्रीहरूले सेवा गरेका पवित्र स्थान) मा स्नान गर्यौ र कठोर तपस्यामा लीन रह्यौ, त्यसैले तिमी स्वर्ग जान सक्नेछौ।
22हे शत्रुनाशक, तिमीले पुनः कठोर तपस्या गर्नुपर्नेछ, किनभने हे पाण्डव, तिमीले निश्चय नै (यसै मर्त्य देहमा) स्वर्गमा बस्नुपर्नेछ।
23मेरो आज्ञाले मातलिले तिमीलाई स्वर्ग लैजानेछन्। तिमीलाई देवता र महात्मा ऋषिहरूले पहिलेदेखि नै चिन्दछन्।"
24त्यसपछि मैले शक्रलाई भनेँ — "ममाथि कृपालु हुनुहोस्। हे स्वर्गपति, अस्त्रविद्या सिक्नका लागि म तपाईंलाई आफ्नो गुरु बनाउँछु।"
25इन्द्रले भने — हे शत्रुतापन, हे वत्स, तिमीले (अस्त्रका) भयङ्कर पराक्रम देखाउनेछौ। र तिम्रो त्यो इच्छा, जसले तिमीलाई अस्त्र प्राप्त गर्न उत्सुक बनाउँछ, पूरा हुनेछ।
26त्यसपछि मैले उत्तर दिएँ — "हे शत्रुनाशक, म यी दिव्य अस्त्र मर्त्य मानिसहरूमाथि कहिल्यै चलाउनेछैनँ, केवल तिनका अस्त्रको निवारणबाहेक।
27त्यसैले हे देवेश्वर, हे देवताहरूमा श्रेष्ठ, मलाई ती दिव्य अस्त्र प्रदान गर्नुहोस्। तब म अगाडि गएर वीरहरूको लोक प्राप्त गर्नेछु।"
28इन्द्रले भने — "हे धनञ्जय, तिम्रो परीक्षा लिनका लागि नै मैले यी वचन भनेको थिएँ। तिमी मेरा पुत्र हौ, त्यसैले यो वाणी तिम्रै योग्य छ।
29हे भरत, मेरो धाममा आएर वायु, अग्नि, वसुहरू, वरुण, मरुद्गण,
30साध्यहरू, पितामह, गन्धर्व, उरग, राक्षस, विष्णु र नैर्ऋतहरूका — सम्पूर्ण अस्त्र सिक;
31र, हे कुरुवंशका प्रवर्धक, ती सम्पूर्ण अस्त्र मेरै अधिष्ठानमा छन्।" मलाई यसरी भनेर शक्र त्यही स्थानमा अन्तर्धान भए।
32तब, हे राजन्, मैले इन्द्रको त्यो पवित्र, दिव्य र अद्भुत रथ देखेँ, जो घोडा जोतिएको र मातलिद्वारा हाँकिएको (त्यहाँ) आइपुग्यो।
33लोकपालहरू गएपछि मातलिले मलाई भने — "हे अनुपम तेज भएका, देवेश्वर शक्र तिमीलाई भेट्न चाहन्छन्।
34हे महाबाहु, पहिले सिद्धि प्राप्त गर र त्यसपछि आफ्नो कार्य सिद्ध गर। धर्मात्माहरूको लोक हेर र यसै (मर्त्य) देहमा स्वर्गतिर हिँड।
35हे भरत, सहस्रनेत्र देवराज तिमीलाई भेट्न इच्छुक छन्।" मातलिले यसरी भनेपछि मैले हिमालय पर्वतको अभिवादन गरेँ,
36र त्यसको परिक्रमा गरेर म त्यस उत्तम रथमा आरूढ भएँ। र अश्वविद्यामा निपुण परम उदार मातलिले ती घोडाहरूलाई मन अथवा वायुजस्तै वेगवान् रूपमा राम्ररी हाँके। (र) हे राजन्, त्यस सारथिले यो देखेर कि चलिरहेको रथमा म स्थिरतापूर्वक बसेको छु, मेरो मुखतिर हेरे र आश्चर्यमा डुबेर भने — "आज मलाई यो अत्यन्त अद्भुत र अभूतपूर्व लाग्दछ,
37कि यस दिव्य रथमा स्थित भई तिमी आफ्नो आसनबाट एक पाइला पनि हल्लिएनौ। हे भरतश्रेष्ठ, मैले प्रायः देखेको छु कि घोडाहरूको पहिलो झट्कामा (स्वयम्) देवराजले समेत आफ्नो सन्तुलन राख्न सक्दैनन्। हे कुरुवंशका प्रवर्धक, चलिरहेको रथमा तिम्रो (स्थिरतापूर्वक) बस्नु —
38मलाई यो लाग्दछ कि तिम्रो यो शक्ति स्वयम् शक्रको शक्तिभन्दा पनि बढी छ।" हे राजन्, हे भरत, यसो भनेर र स्वर्गलोकतिर माथि उड्दै मातलिले मलाई देवताहरूका निवास र भवन देखाए। तब घोडा जोतिएको त्यो रथ माथितिर उड्यो।
39(र) हे मनुष्यश्रेष्ठ, ऋषि र देवताहरूले त्यसको अर्चना गर्न थाले। तब मैले इच्छाअनुसार विचरण गर्ने लोक तथा परम तेजस्वी देवर्षि, गन्धर्व र अप्सराहरूको तेज देखेँ। (र) इन्द्रका सारथि मातलिले चाँडै नै मलाई नन्दन उद्यान तथा देवताहरूका अन्य उद्यान र लताकुञ्ज देखाए। तब मैले इन्द्रको भवन अमरावती देखेँ,
40जो रत्न र सम्पूर्ण इच्छित फल दिने दिव्य रूखहरूले मनोहर रूपमा अलङ्कृत थियो। त्यहाँ न सूर्यले ताप दिन्छ, न कोही शीत, ताप अथवा थकानले पीडित हुन्छ। र हे राजन्, त्यहाँ वृद्धावस्था छैन। हे महाराज, हे शत्रुमर्दन, त्यहाँ देवताहरू शोक, दीनता, दुर्बलता अथवा आलस्यले (ग्रस्त) देखिँदैनन्। र हे लोकनाथ, त्यहाँ देवता र अरूहरूमा क्रोध अथवा लोभ पनि छैन।
41हे राजन्, देवताहरूका धाममा सम्पूर्ण प्राणी सधैँ प्रसन्न रहन्छन्। त्यहाँ रूखहरू सधैँ हरिया पात, फल र फूलले आच्छादित रहन्छन्,
42र सरोवरहरू सुगन्धित कमलले अलङ्कृत रहन्छन्। त्यहाँको वायु शीतल, सुखद, सुगन्धित, पवित्र र स्फूर्तिदायक छ।
43(त्यहाँ) भूमि नाना प्रकारका रत्नले चित्रित र फूलले सजिएको छ। नाना प्रकारका सुन्दर पशु, मधुरभाषी पक्षी,
44र आकाशमा विचरण गर्ने असङ्ख्य जीव त्यहाँको वायुमा देखिन्छन्। तब मैले वसु, रुद्र, साध्य, मरुद्गण,
45आदित्य र अश्विनीकुमारहरूलाई देखेँ र ती सबैको पूजा गरेँ। उनीहरूले मेरो बल, यश, तेज, पराक्रम, अस्त्रकौशल र युद्धमा विजयका लागि आशीर्वाद दिए। देवता र गन्धर्वहरूद्वारा पूजित त्यस रमणीय नगरीमा प्रवेश गरेर —
46म हात जोडेर शतनेत्र देवराजको सामु उभिएँ। र उदारहस्तहरूमा श्रेष्ठ शक्रले प्रसन्नतापूर्वक मलाई आफ्नो आधा आसन दिए।
47मेरो महान् सम्मान गर्दै वासवले मेरो शरीरको स्पर्श गरे। त्यहाँ उदारहृदय देवता र गन्धर्वहरूसँग —
48हे भरत, म अस्त्रप्राप्तिको इच्छाले र अस्त्रविद्याको अध्ययनमा लागेर स्वर्गमा निवास गर्न थालेँ। (र) विश्वावसुका पुत्र चित्रसेन मेरा मित्र बने।
49उनैले मलाई गन्धर्वहरूलाई ज्ञात त्यो सम्पूर्ण (अस्त्र)विद्या सिकाए। हे भरतश्रेष्ठ, शक्रको धाममा म विधिपूर्वक सम्मानित भई, अस्त्र प्राप्त गर्दै, आफ्ना कामना पूरा हुँदै, गीत र वाद्ययन्त्रका स्पष्ट ध्वनि सुन्दै तथा श्रेष्ठ अप्सराहरूको नृत्य हेर्दै सुखपूर्वक बस्न थालेँ।
50हे भरत, जुन ललित कलाहरू मैले राम्ररी सिकेँ, तिनको अवहेलना नगरी मैले विशेष रूपमा आफ्नो ध्यान अस्त्रको प्राप्तिमा लगाएँ।
51त्यसपछि ती सहस्रनेत्र स्वामी मेरो त्यस इच्छाले प्रसन्न भए। हे राजन्, यसरी स्वर्गमा निवास गर्दै मैले यो अवधि बिताएको छु।
52जब म अस्त्रमा निपुण भएँ र उनको विश्वास प्राप्त गरेँ, तब अश्वहरूद्वारा बोकिने उनले आफ्ना हातले मेरो शिरको स्पर्श गर्दै यी वचन भने —
53"पृथ्वीमा निवास गर्ने अपूर्ण बुद्धि भएका मानिसहरूको कुरा त छोड, अब त देवताहरू पनि तिमीलाई जित्न समर्थ छैनन्।
54तिमी बलमा अचिन्त्य, अदम्य र युद्धमा पनि अनुपम छौ।" तब रोमाञ्चित भई उनले पुनः भने —
55"अस्त्रले युद्ध गर्नमा तिम्रो समान कोही हुनेछैन — तिमी, जो सधैँ सतर्क, दक्ष, सत्यवादी, संयमी,
56ब्राह्मणहरूका रक्षक, अस्त्रमा निपुण र वीर छौ, हे कुरुवंशका प्रवर्धक। तिमीले पन्ध्र अस्त्र प्राप्त गरेका छौ,
57तिनका (प्रयोगका) पाँच विधिसहित। हे पार्थ, (त्यसैले) तिम्रो समान कोही छैन, हे धनञ्जय; तिमीले तिनका छाड्ने, फर्काउने, बारम्बार पुनः छाड्ने र पुनः फर्काउने विधि पनि सिकिसकेका छौ,
58तथा अस्त्रको अग्निले जलेका निर्दोष प्राणीलाई पुनर्जीवित गर्ने र शत्रुहरूका अस्त्रद्वारा व्यर्थ पारिएका (आफ्ना) अस्त्रलाई पुनः जीवित गर्ने विधि पनि। अब, हे शत्रुतापन, तिम्रो गुरुदक्षिणा चुकाउने समय आयो।
59त्यो चुकाउने प्रतिज्ञा गर र तब म तिमीलाई बताउनेछु कि तिमीले के गर्नुपर्नेछ।" त्यसपछि, हे राजन्, मैले देवराजलाई यी वचन भनेँ —
60"यदि त्यो कार्य गर्नु मेरो सामर्थ्यमा छ भने, त्यसलाई पूरा भइसकेकै ठान्नुहोस्।" तब, हे राजन्, वृत्रहन्ताले मुस्कुराउँदै मलाई भने —
61"यी तीनै लोकमा यस्तो केही छैन जो तिमीबाट सिद्ध नहोस्। निवातकवच नामक मेरा शत्रु दानवहरू —
62समुद्रको गर्भमा शरण लिएर दुर्गहरूमा निवास गर्दछन्। तिनीहरू सङ्ख्यामा तीन करोड छन् र शरीर, पराक्रम तथा तेजमा सबै समान छन्।
63हे कुन्तीपुत्र, त्यहाँ गएर तिनको संहार गर — (र) त्यही तिम्रो गुरुदक्षिणा हुनेछ।" तब उनले मलाई मातलिद्वारा हाँकिने र मयूरपङ्खजस्तै सुन्दर बाल भएका घोडा जोतिएको त्यो तेजस्वी दिव्य रथ दिए। (र) उनले मेरो शिरमा यो उत्तम किरीट राखिदिए।
64आफ्नै शरीरको योग्य आभूषण मलाई दिए र सुखद स्पर्श भएको यो अभेद्य उत्तम कवच पनि,
65र गाण्डीवमा यो दृढ प्रत्यञ्चा चढाइदिए। तब म त्यस तेजस्वी रथमा आरूढ भई हिँडेँ,
66जसमा सवार भई पूर्वकालमा देवराजले विरोचनका पुत्र बलिलाई जितेका थिए। तब त्यस रथको ध्वनिले जागृत भई सम्पूर्ण देवता —
67र मलाई देवराज ठानेर, हे पृथ्वीपति, मेरो नजिक आए। (तर) मलाई देखेर उनीहरूले सोधे — "हे फाल्गुनी, तिमी के गर्नेछौ?"
68मैले उनीहरूलाई जे-जति भएको थियो, ठीक-ठीक सुनाएँ र भनेँ — "हे निष्पापहरू, हे परम भाग्यशालीहरू, म युद्धमा यो गर्नेछु; जान्नुहोस् कि म निवातकवचहरूको वधको इच्छाले निस्केको छु; मेरो सफलताका लागि मलाई आशीर्वाद दिनुहोस्।" (र) प्रसन्न भई उनीहरूले मेरो त्यस्तै अर्चना गरे जस्तो देव पुरन्दरको।
69(र भने) — "यसै रथमा आरूढ भई मघवान्ले युद्धमा शम्बर, नमुचि, वृत्र, बल, प्रह्लाद र नरकलाई जितेका थिए।
70र यसै रथमा सवार भई मघवान्ले युद्धमा कैयौँ हजार, कैयौँ लाख र कैयौँ करोड दैत्यलाई जितेका थिए।
71हे कुन्तीपुत्र, तिमी पनि यस (रथ) मा आरूढ भई, आफ्नो पराक्रम देखाउँदै, युद्धमा निवातकवचहरूमाथि त्यस्तै विजय प्राप्त गर्नेछौ जस्तो पूर्वकालमा संयमी मघवान्ले गरेका थिए।
72यो त्यो उत्तम शङ्ख हो जसले तिमीले दानवहरूलाई जित्नेछौ। यसको (सहायता) ले महात्मा शक्रले लोकहरू जितेका थिए।"
73र तब देवताहरूले मलाई समुद्रबाट उत्पन्न यो शङ्ख देवदत्त प्रदान गरे। मैले पनि विजयका लागि त्यो स्वीकार गरेँ। तब अमरगणहरूले मेरो स्तुति गर्न थाले।
74तब युद्धको इच्छाले म शङ्ख, कवच र धनुले सुसज्जित भई दानवहरूको भयङ्कर धामतिर हिँडेँ।