The battle between Karna and Satyaki
Volume V — Drona Parva · Chapter 147
Sanskrit
1धृतराष्ट्र उवाच तस्मिन् विनिहते वीरे सैन्धवे सव्यसाचिना। मामका यदकुर्वन्त तन्ममाचक्ष्व संजय॥
2संजय उवाच सैन्धवं निहतं दृष्ट्वा रणे पार्थेन भारत। अमर्षवशमापन्न: कृपः शारद्वतस्ततः॥
3महता शरवर्षेण पाण्डवं समवाकिरत्। द्रौणिश्चाभ्यद्रवद् राजन् रथमास्थाय फाल्गुनम्॥
4तावेतौ रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमौ। उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम्॥
5स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः। पीड्यमानः परामार्तिमगमद् रथिनां वरः॥
6सोऽजिघांसुर्मुरं संख्ये गुरोस्तनयमवे च। चकाराचार्यकं तत्र कुन्तीपुत्रो धनंजयः॥
7अस्त्रैरस्त्राणि संवार्य द्रौणे: शारद्वतस्य च। मन्दवेगानिपूंस्ताभ्यामजिघांसुरवासृजत्॥
8ते चापि भृशमभ्यघ्नन् विशिखा: पार्थचोदिताः। बहुत्वात् तु परामाति शराणां तावगच्छताम्॥
9अथ शारद्वतो राजन् कौन्तेयशरपीडितः। अवासीदद् रथोपस्थे मूर्छामभिजगाम ह॥
10विह्वलं तमभिज्ञाय भर्तारं शरपीडितम्। हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत्॥
11तस्मिन् भग्ने महाराज कृपे शारद्वते युधि। अश्वत्थामाप्यपायासीत् पाण्डवेयाद् स्थान्तरम्॥
12दृष्ट्वा शारद्वतं पार्थो मूच्छितं शरपीडितम्। रथ एव महेष्वासः सकृपं पर्यदेवयत्॥
13अश्रुपूर्णमुखो दीनो वचनं चेदमब्रवीत्। पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्॥
14कुलान्तकरणे पापे जातमात्रे सुयोधने। नीयतां परलोकाय साध्वयं कुलपांसनः॥
15अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम्। तदिदं समनुप्राप्तं वचनं सत्यवादिनः॥
16तत्कृते ह्यद्य पश्यामि शरतल्पगतं गुरुम्। धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्॥
17को हि ब्राह्मणमाचार्यमभिदुह्येत मादृशः। ऋषिपुत्रो ममाचार्यो द्रोणस्य परमः सखा।॥
18एष शेते रथोपस्थे कृपो मद्बाणपीडितः। अकामयानेन मया विशिखैरर्दितो भृशम्॥
19अवसीदन् रथोपस्थे प्राणान् पीडयतीव मे। पुत्रशोकाभितप्तेन शरैरभ्यर्दितेन च॥
20अभ्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै। शोचयत्येष नियत्तं भूयः पुत्रवधाद्धि माम्॥
21कृपणं स्वरथे सन्नं पश्य कृष्ण यथागतम्। उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः॥
22प्रयच्छन्तीह ये कामान् देवत्वमुपयान्ति ते। ये च विद्यामुपादाय गुरुभ्यः पुरुषाधमाः॥
23प्रन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः। तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम्॥
24आचार्य शरवर्षेण रथे सादयता कृपम्। यत् तत् पूर्वमुपाकुर्वन्नत्रं मामब्रवीत् कृपः॥
25न कथंचन कौरव्य प्रहर्तव्यं गुराविति। तदिदं वचनं साधोराचार्यस्य महात्मनः॥
26नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता। नमस्तस्मै सुपूज्याय गौतमायापलायिने॥
27धिगस्तु मम वार्ष्णेय यदस्मै प्रहराम्यहम्। तथा विलयमाने तु सव्यसाचिनि तं प्रति॥
28सैन्धवं निहितं दृष्ट्वा राधेयः समुपाद्रवत्। तमापतन्तं राधेयमर्जुनस्य रथं प्रति॥
29पाञ्चाल्यौ सात्यकिश्चैव सहसा समुपाद्रवन्। उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः॥
30प्रहसन् देवकीपुत्रमिदं वचनमब्रवीत्। एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति॥
31न मृष्यति हतं नूनं भूरिश्रवसमाहवे। यत्र यात्येष तत्र त्वं चोदयाश्वान् जनार्दन॥
32न सौमदत्तिपदवीं गमयेत् सात्यकिं वृषः। एवमुक्तो महाबाहुः केशवः सव्यसाचिना॥
33प्रत्युवाच महातेजाः कालयुक्तमिदं वचः। अलमेष महाबाहुः कर्णायैकोऽपि पाण्डव।॥
34किं पुनद्रौपदेयाभ्यां सहितः सात्वतर्षभः। न च तावत् क्षमः पार्थ तव कर्णेन सङ्गरः॥
35प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी। त्वदर्थे पूज्यमानैषा रक्ष्यते परवीरहन्॥
36अतः कर्णः प्रयात्वत्र सात्वतस्य यथातथा। अहं ज्ञास्यामि कौन्तेय कालमस्य दुरात्मनः। यत्रैनं विशिखैस्तीक्ष्णैः पातयिष्यसि भूतले॥
37धृतराष्ट्र उवाच योऽसौ कर्णेन वीरस्य वार्ष्णेयस्य समागमः। हते तु भूरिश्रवसि सैन्धवे च निपातिते॥
38सात्यकिश्चापि विरथः कं समारूढवान् रथम्। चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व संजय॥
39संजय उवाच हन्त ते वर्तयिष्यामि यथा वृत्तं महारणे। शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः॥
40पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो। विजेतव्यो यथा वीरः सात्यकिः सौमदत्तिना॥
41अतीतानागते राजन् स हि वेत्ति जनार्दनः। ततः सूतं समाहूय दारुकं संदिदेश ह॥ रथो मे युज्यतां कल्यमिति राजन् महाबलः। न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः॥
42मानवा वापि जेतारः कृष्णयोः सन्ति केचन। पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः॥ तयोः : प्रभावमतुलं शृणु युद्धं तु तत् तथा। सात्यकिं विरथं दृष्ट्वा कर्ण चाभ्युद्यतं रणे॥
43दध्मौ शङ्ख महानादमाषभेणथ माधवः। दारुकोऽवेत्य सदेशं श्रुत्वा शङ्खस्य च स्वनम्॥
44स्थमन्वानयत् तस्मै सुपर्णोच्छ्रितकेतनम्। स केशवस्यानुमते रथं दारुकसंयुतम्॥ आरुरोह शिनेः पौत्रो ज्वलनादित्यसनिभम्। कामगैः शैब्यसुग्रीवमेघपुष्पबलाहकैः॥ हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः। युक्तं समारुह्य च तं विमानप्रतिमं रथम्॥
45अभ्यद्रवत् राधेयं प्रवपन् सायकान् बहून्। चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ॥
46धनंजयरथं हित्वा राधेयं प्रत्युदीयतुः। राधेयोऽपि महाराज शरवर्ष समुत्सृजन्॥
47अभ्यद्रवत् सुसंक्रुद्धो रणे शैनेयमच्युतम्। नैव दैवं न गान्धर्व नासुरं न च राक्षसम्॥
48तादृशं भुवि नो युद्धं दिवि वा श्रुतमित्युत। उपारमत तत् सैन्यं सरथाश्वनरद्विपम्॥
49तयोर्दृष्ट्वा महाराज कर्म सम्पूढचेतसः। सर्वे च समपश्यन्त तद् युद्धमतिमानुषम्॥
50तयोर्तृवरयो राजन् सारथ्यं दारुकस्य च। गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः॥
51सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः। नभस्तलगताश्चैव देवगन्धर्वदानवाः॥
52अतीवावहिता द्रष्टुं कर्णशैनेययो रणम्। मित्रार्थे तौ पराक्रान्तौ शुष्मिणो स्पर्घिनौ रणे॥
53कर्णश्चामरसंकाशो युयुधानश्च सात्यकिः। अन्योन्यं तौ महाराज शरवर्षैरवर्षताम्॥
54प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः। अमृष्यमाणो निधनं कौरव्यजलसंधयोः॥
55कर्णः शोकसमाविष्टो महोरग इव श्वसन्। स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा॥
56अभ्यधावत वेगेन पुनः पुनररिंदम। तं तु सक्रोधमालोक्य सात्यकिः प्रत्युयुध्यत॥
57महता शरवर्षेण गजं प्रति गजो यथा। तौ समेतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ॥ अन्योन्यं संततक्षाते रणेऽनुपमविक्रमौ। ततः कर्ण शिनेः पौत्रः सर्वपारसवैः शरैः॥ बिभेद सर्वगात्रेषु पुनः पुनररिंदम। सारथिं चास्य भल्लेन रथनीडादपातयत्॥
58अश्वांश्च चतुरः श्वेतान् निजघान शितैः शरैः। छित्त्वा ध्वजं रथं चैव शतधा पुरुषर्षभ॥
59चकार विस्थं कर्ण तव पुत्रस्य पश्यतः। ततो विमनसो राजंस्तावकास्ते महारथाः॥
60वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा। द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन्॥
61ततः पर्याकुलं सर्व न प्राज्ञायत किंचन। तथा सात्यकिना वीरे विस्थे सूतजे कृते॥
62हाहाकारस्ततो राजन् सर्वसैन्येष्वभून्महान्। कर्णोऽपि विरथो राजन् सात्वतेन कृतः शरैः॥
63दुर्योधनरथं तूर्णंमारुरोह विनिःश्वसन्। मानयंस्तव पुत्रस्य बाल्यात् प्रभृति सौहृदम्॥
64कृतां राज्यप्रदानेन प्रतिज्ञा परिपालयन्। तथा तु विरथं कर्ण पुत्रांश्च तव पार्थिव॥ दुःशासनमुखान् वीरान् नावधीत् सात्यकिर्वशी। रक्षन् प्रतिज्ञां भीमेन पार्थेन च पुराकृताम्॥
65विरथान् विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत्। भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः॥
66अनुद्यूते च पार्थेन वध: कर्णस्य संश्रुतः। वधे त्वकुर्वन् यत्नं ते तस्य कर्णमुखास्तदा॥
67नाशकुवंस्ततो हन्तुं सात्यकिं प्रवरा रथाः। द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः॥
68निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः। काङ्क्षता परलोकं च धर्मराजस्य च प्रियम्॥
69कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुतापनः। जितवान् सर्वसैन्यानि तावकानि हसन्निव॥
70कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः। शैनेयो वा नरव्याघ्र चतुर्थस्तु न विद्यते॥
71धृतराष्ट्र उवाच
72अजय्यं वासुदेवस्य रथमास्थाय सात्यकिः। विरथं कृतवान् कर्ण वासुदेवसमो युधि॥ दारुकेण समायुक्तः स्वबाहुबलदर्पितः। कचिदन्यं समारूढः सात्यकि: शत्रुतापनः॥
73एतदिच्छाम्यहं श्रोतुं कुशलो ह्यासि भाषितुम्। असा तमहं मन्ये तन्ममाचक्ष्व संजय॥
74शृणु राजन् यथावृत्तं रथमन्यं महामतिः। दारुकस्यानुजस्तूर्ण कल्पनाविधिकल्पितम्॥ आयसैः काञ्चनैश्चापि पट्टैः संनद्धकूबरम्। तारासहस्रखचितं सिंहध्वजपताकिनम्॥ अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः। सैन्धवैरिन्दुसंकाशैः सर्वशब्दातिगैइँदैः॥
75चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशाम्पते। घण्टाजालाकुलरवं शक्तितोमरविद्युतम्॥
76युक्तं सांग्रामिकैर्द्रव्यैर्वहुशस्त्रपरिच्छदैः। रथं सम्पादयामास मेघगम्भीरनिःस्वनम्॥ तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत्। दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम्॥ कर्णस्यापि रथं राजशङ्खगोक्षीरपाण्डुरैः। चित्रकाञ्चनसंनाहैः सदश्वर्वेगवत्तरैः॥
77हेमकक्ष्याध्वजोपेतं क्लृप्तयन्त्रपताकिनम्। अग्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम्॥
78उपाजह्वस्तमास्थाय कर्णोऽप्यभ्यद्रवद् रिपून्। एतत् ते सर्वमाख्यातं यन्ां त्वं परिपृच्छसि॥ भूयश्चापि निबोधेमं तवापनयजं क्षयम्। एकत्रिंशत् तव सुता भीमसेनेन पातिताः॥ दुमुर्ख प्रमुखे कृत्वा सततं चित्रयोधिनम्।
79शतशो निहताः शूराः सात्वतेतार्जुनेन च॥ भीष्मं प्रमुखतः कृत्वा भगदत्तं च भारत। एवमेष क्षयो वृत्तो राजन् दुर्मन्त्रिते तव॥
English
1Dhritarashtra said The heroic king of Sindhu being killed by that one who could draw the bow with his left hand (i.e., Arjuna), relate to me O Sanjaya,
2Sanjaya said O king, seeing the king Sindhu slain in battle by Partha, Kripa, the son of Saradvat, waxing wrath.
3Surrounded the son of Pandu by a mighty discharge of arrows. The son of Drona too, seated on his car, rushed against Phalguna, the son of Pritha.
4Those two best and most excellent of carwarriors from two sides, began to shower keen darts, from their cars (upon Arjuna).
5That mighty-armed one, the best of carwarriors, sore oppressed by those mighty showers of arrows, experienced a great pain.
6Dhananjaya, the son of Kunti, not liking to slay his preceptor (i.e. Kripa) and his (other) preceptor's son (i.e. Ashvatthama) in battle began to act like a preceptor (teaching the science of arms of his pupil).
7And unwillingly warded off the weapons of the sons of Drona and Saradvat, by means of his own weapons and discharged at them arrows of milder speed.
8Overcome by the numbers of arrows though discharged mildly by Arjuna, those two (warriors) were greatly afflicted.
9Then, O monarch, the son of Saradvat, painted by the darts of the son of Kunti, lost all strength and fainted away on the terrace of his car.
10Seeing his master afflicted with darts and devoid of senses and taking him for dead his charioteer carried him off (from the field of battle).
11Then, O great king, Kripa being thus borne away from (the field of battle), Ashvatthaman too fled away in terror from the son of Pandu.
12(Then), seeing the son of Saradvat faint away and afflicted with arrows, the mighty bowman Partha, (seated) on his car, gave way to doleful cries.
13And with his face full of tears and in "Anticipating all this, the greatly wise Kshatta (Vidura) said to the king (Dhritarashtra).
14As soon as the destroyer of his race, the vile Suyodhana was born, Make away this destroyer of your race.
15(Or), through him a great disaster will befall the best of the Kuru race. Now the words of that truthful one have proved true.
16It is on his account, that I behold today my preceptor lying on an arrowy bed. Curse on the practices of the Kshatriyas and on my strength and manliness!
17(For) is there any body, who is, like me, hostile to a Brahmana who is his preceptor as well? He is (moreover) the son of a sage, my preceptor and the dear friend of Drona.
18Such a one lies (insensible) on the terrace of his car smitten with my darts. Although I did not wish it, (still), through me he has been crushed with the arrows.
19(The sight of his) lying insensible on the terrace of his car greatly afflicts my heart. Though sorely afflicted with his arrows, I should have looked at that one of great splendour (without striking him).
20Afflicted with various darts he has gone to the way of all creatures. I grieve more over his than on the slaughter of my son.
21O Krishna, beholding what a sad plight he is in, lying senseless of his car! Those most excellent of men, who after acquiring knowledge from their preceptors.
22Bestow on them what they desire, attain to Godhead. (But) those basest of men who after acquiring knowledge from their preceptors.
23Destroy them, are doomed to hell. Surely, what I have done today will lead me to hell.
24In as much as I have overpowered my preceptor with showers of arrows. Formerly when teaching me the science of weapons, Kripa said to me.
25"O scion of Kuru's race, on no account strike thy preceptor.” (But, those words of my virtuous and high-souled preceptor).
26I have disregarded and have struck him with showers of arrows. I bow down to that worshipful son of Goutama, who never flies away (from the field of battle).
27O scion of Vrishni's race, fie on me who have struck him. While that one who could draw his bow as well with the left hand (i.e. Arjuna) was thus grieving for him.
28The son of Radha beholding the king of Sindhu dead rushed against him. (Seeing?) the son of Radha make for the car of Arjuna.
29The two Panchala princes and Satyaki came up to him. Seeing the son of Radha rush (against him), the mighty car-warrior Partha.
30Said these words to the son of Devaki with a simile-“(Behold!) the son of Adhiratha is making for the car of Satyaki.
31Surely, he cannot endure the destruction of Bhurisrava in battle. O Janaradana, drive the horses towards the place whither he goes.
32Have a care that Vrisha cannot send the Satvata hero to the path of Somadatta.” Thus addressed by that one who could draw his bow as well with the left hand, Keshava, possessed of mighty arms.
33And great energy, replied (to him) in words suited to the occasion “O Pandava, this mighty arıncd one (Satyaki) is alone capable of fighting with Karna.
34(And), much more son, since this most exalted of the Satvatas is joined by the two sons of Drupada. O Partha, you need (therefore, not fight with Karna at present.
35He has with him the blazing dart, like a terrible meteor, granted to him by Vasava. O destroyer of hostile warriors, he has preserved it (carefully) for (slaying) you and worships it.
36Let, therefore, Karna march against the scion of Satvatta's race as he wills. I am, O son of Kunti, conscious of the hour when this wicked-souled one will be struck down on the ground from his car (pierced) by keen darts.
37Dhritarashtra said How, after Bhurisrava and the king of Sindhu being slain, the heroic Karna and the scion of Vrishni's race, came incontact with each other.
38And on what cars the carless Satyaki and the two Panchala princes, the protectors of (Arjuna's) car-wheels (respectively) mounted, relate to me, O Sanjaya.
39Sanjaya said I will relate to you faithfully all that took place in that terrible encounter. Listen calmly to (the consequences of) your own culpable conduct.
40My Lord, Krishna knew it before hand, in his mind that the heroic Satyaki would be defeated by Yupaketu (i.e., Bhurisrava).
41O king, Janaradana is conversant with the past and the future alike. Therefore, O king, that highly-powerful one summoned Daruka and ordered him thus-"Get my car ready tomorrow." Neither the Gods nor the Gandharvas nor the Yakshas, nor the Uragas, nor the Rakshas.
42Nor men can conquer Krishna and Arjuna. Even the celestials with the (original) Grandsire (Brahma) at their head and the Siddhas are aware of the matchless strength of those two. Now hear about the battle as it took place. Seeing Satyaki without a car and Karna prepared for the encounter.
43Madhava loudly blew his conch in the Rishava note. Hearing the loud sound of the conch, Daruka understood the hint.
44And brought to him the car adorned with a lofty golden flag with Keshava's permission. The grandson of Sini ascended that car guided by Daruka and resembling in splendour the son or the fire. (And) mounting on that car, resembling a celestial chariot yoked unto which were the foremost of horses, viz., Savya, Sugriva, Meghapuspa and Balahaka endued with great fleetness and adorned with golden trappings.
45(Satyaki) discharging numerous. arrows, rushed upon the son of Radha. Then Yudhamanyu and Uttamouja, the protectors of Arjuna's car-wheels.
46Leaving the car of Dhananjaya, advanced against the son of Radha. (There upon) O monarch, the son of Radha too, began to discharge showers of arrows.
47And wrathfully rushed against the undeteriorating grandson of Sini in that encounter. Neither among the celestials, the Gandharvas, the Asuras, the Uragas, nor among the Rakshas.
48Was such a battle seen or heard in heaven or on earth as took place (between Karna and Satyaki.) The entire army consisting of cars, horses, men and elephants.
49Beholding their exploits, O monarch lay (as if) entranced. All of them witnessed that superhuman battle.
50Between those two best of men and the dexterity of Daruka as a charioteer. And the forward, backward, side long and circular movements (of the car).
51Caused by the charioteer Daruka the Kasyapa's race, stationed on the car, struck (everybody) with wonder. The celestials, the Gandharvas and the Danavas stationed in the firmament.
52Witnessed with rapt attention that encounter between Karna and the grandson of Sini. and for the sake of their friends those two powerful and highly-energetic ones challenged each other in that battle.
53O mighty monarch, Karna who resembled a god and Yuyudhana Satyaki showered upon each other volleys of arrows.
54First Karna, unable to endure the destruction of Jalasandha of the Kuru party, overpowered the grandson of Sini with downpours of shafts.
55And heaving sighs like a mighty serpent smitten with grief and darting wrathful glance upon the grandson of Sini as if to consume him (therewith) in that encounter, Karna.
56Rushed furiously again and again (towards him.) O chastiser of foes, seeing him greatly enraged, Satyaki smote him.
57With mighty discharges of arrows as an elephant smites (with his tusks) his rival elephant. Those two most valiant of mortals, as agile as tigers and endued with matchless strength wounded each other in that battle. Then the grandson of Sini by means of shafts made entirely of iron, pierced Karna, the chastiser of his foes, all through his body over and over again and with a broad headed arrows smote his (Karna's) charioteer from his niche in the car.
58(And he) killed the white steeds with sharpened darts. (Then) that most exalted of the Bharatas, cutting the standard (of Karna) into a hundred pieces.
59Made him carless in the very presence of your son. Thereupon, O king, O most exalted of the Bharatas, the warriors on your side got dispirited.
60(Then) Vrisasena, the son of Karna and Shalya, the king of Madra and the son of Drona surrounded the grandson of Sini on all sides.
61Then such a confusion followed (on the battlefield) that nothing could be seen. The heroic son of charioteer being thus made carless by Satyaki.
62The whose army set up a wail, O king. And Karna too, O monarch, greatly weakened by Satvatta's darts.
63Got to the car of Duryodhana, heaving deep sighs, remembering his friendship, O king, with your son from his very childhood.
64And striving to fulfill the promise that he had made on the occasion of the bestowal of the kingdom (of Anga) on him (by Duryodhana). But O lord of the earth, the selfrestrained Satyaki did not slay Karna thus made carless (by him) and your valiant son with Dushasana at their head. Desirous of not falsifying the vow made by Bhima and Partha formerly.
65He (simply) made them carless and destitute of energy, but did not deprive them of their lives. Bhimasena vowed to slay your sons.
66And at the second game of dice Partha swore to do away with Karna. Though the carwarriors with Karna at their head tried (their utmost) to slay.
67Satyaki, yet those foremost of car-warriors were unable to kill him. The son of Drona, Kritavarman and other great car-warriors.
68And hundreds of the foremost of the Kshatriyas were defeated with only one bow by Satyaki, who was desirous of doing good to Dharmaraja and of attaining heaven.
69Satyaki, the grinder of his foes, equal in prowess to either Krishna or Arjuna, defeated all your troops with a smile (i.e., very easily).
70(To achieve such feats) there is no fourth to be seen, besides Krishna, the bowman Partha and that most exalted of men, the grandson of Sini.
71on car
72Dhritarashtra said Mounting the invincible of Vasudeva, guided by Daruka, Satyaki, proud of the prowess of his arms and equal to Vasudeva in battle, made Karna carless. Did Satyaki ascend any other car (after the defeat of Karna)?
73I am desirous of listening to all this. You are a skillful narrator. I regard him invincible. O Sanjaya, relate to me this.
74Sanjaya said O king, listen to all this. The high-minded younger brother of Daruka soon brought (for Satyaki) another car duly furnished with all necessaries, having shafts attached to it by golden and iron chains and bands of silk, studded with a thousand stars, graced with a standard having the figure of a lion (painted on it) and to which were yoked horses fleet as the wind adorned with golden trappings and the rattling of which resembled the roar of the clouds.
75The grandson of Sini, having mounted on it, advanced against your forces. And Daruka also, of his own will, went over to Keshava.
76Then, O great monarch, a goodly car was also brought for Karna, drawn by fleet horses of the best breed, having the colour of the milk of the cow or conch and adorned with golden trappings. (The car was also) furnished with golden maces and standards, machines and flags. It had also an expert driver and was furnished with many weapons and accouterments. Having, O great king, mounted on this car, Karna too rushed upon his enemies. Now I have related to you all that you asked me.
77Listen again to the (great) destruction (of creatures) brought about by your vile policy. Thirty-one of your sons have been destroyed by Bhimasena.
78They had Durmukha at their head they were good warriors. Saivatta and Arjuna also destroyed hundreds of warriors,
79With Bhima at their head and Bhagadatta too (has been slain). This great destruction of creatures O king, has been brought about by your evil counsels.
Hindi
1धृतराष्ट्र ने कहा — बायें हाथ से भी धनुष चला सकने वाले उस वीर (अर्थात् अर्जुन) द्वारा वीर सिन्धुराज के मारे जाने पर जो हुआ, वह मुझे बताओ, हे सञ्जय।
2सञ्जय ने कहा — हे राजन्, पार्थ द्वारा युद्ध में सिन्धुराज को मारा गया देखकर शरद्वान् के पुत्र कृप क्रोध से भर उठे।
3उन्होंने पाण्डुपुत्र को बाणों की प्रबल वर्षा से घेर लिया। द्रोणपुत्र भी अपने रथ पर बैठकर पृथापुत्र फाल्गुन पर टूट पड़े।
4वे दोनों श्रेष्ठतम महारथी दो ओर से अपने रथों से (अर्जुन पर) तीक्ष्ण बाणों की वर्षा करने लगे।
5बाणों की उन प्रबल वर्षाओं से अत्यन्त पीड़ित होकर उन महाबाहु महारथिश्रेष्ठ ने बड़ी वेदना अनुभव की।
6कुन्तीपुत्र धनञ्जय ने युद्ध में अपने गुरु (अर्थात् कृप) और अपने (दूसरे) गुरु के पुत्र (अर्थात् अश्वत्थामा) का वध करना न चाहते हुए एक गुरु के समान आचरण करना आरम्भ किया (अर्थात् मानो अपने शिष्य को अस्त्रविद्या सिखा रहे हों)।
7और अनिच्छापूर्वक उन्होंने द्रोणपुत्र तथा शरद्वान्पुत्र के अस्त्रों को अपने ही अस्त्रों से निवारित किया और उन पर मन्द गति के बाण छोड़े।
8यद्यपि अर्जुन ने वे बाण मन्द गति से छोड़े थे, तथापि उनकी संख्या से आक्रान्त होकर वे दोनों (योद्धा) अत्यन्त पीड़ित हुए।
9तब, हे राजन्, कुन्तीपुत्र के बाणों से पीड़ित शरद्वान्पुत्र समस्त शक्ति खोकर अपने रथ के मंच पर मूर्च्छित हो गए।
10अपने स्वामी को बाणों से पीड़ित और संज्ञाहीन देखकर तथा उन्हें मरा हुआ समझकर उनका सारथि उन्हें (रणभूमि से) हटा ले गया।
11तब, हे महाराज, कृप के इस प्रकार (रणभूमि से) ले जाए जाने पर अश्वत्थामा भी भयभीत होकर पाण्डुपुत्र के सामने से भाग गए।
12(तब) शरद्वान्पुत्र को मूर्च्छित और बाणों से पीड़ित देखकर महाधनुर्धर पार्थ ने अपने रथ पर (बैठे-बैठे) करुण विलाप किया।
13और आँसुओं से भरे मुख से उन्होंने कहा — "यह सब पहले से जानकर ही महाबुद्धिमान् क्षत्ता (विदुर) ने राजा (धृतराष्ट्र) से कहा था —
14— अपने वंश का विनाशक नीच सुयोधन ज्यों ही उत्पन्न हुआ, त्यों ही अपने वंश के इस विनाशक को दूर कर दीजिए।
15(अन्यथा) इसके कारण कुरुवंश के श्रेष्ठ पुरुषों पर महान् विपत्ति आ पड़ेगी।' अब उस सत्यवादी के वचन सत्य सिद्ध हो गए।
16उसी के कारण आज मैं अपने गुरु को बाणशय्या पर पड़ा देख रहा हूँ। धिक्कार है क्षत्रियों की रीतियों को और मेरे बल तथा पुरुषार्थ को!
17(क्योंकि) क्या मेरे समान कोई और ऐसा है जो अपने गुरु भी होने वाले ब्राह्मण के प्रति शत्रुभाव रखता हो? वे (इसके अतिरिक्त) एक ऋषि के पुत्र, मेरे गुरु और द्रोण के प्रिय मित्र हैं।
18ऐसे पुरुष मेरे बाणों से आहत होकर अपने रथ के मंच पर (अचेत) पड़े हैं। यद्यपि मैं ऐसा नहीं चाहता था, (तथापि) मेरे ही द्वारा वे बाणों से कुचले गए हैं।
19उनका अपने रथ के मंच पर अचेत पड़ा रहना (यह दृश्य) मेरे हृदय को अत्यन्त पीड़ित करता है। उनके बाणों से अत्यन्त पीड़ित होते हुए भी मुझे उन महातेजस्वी की ओर (बिना प्रहार किए) देखते ही रहना चाहिए था।
20नाना बाणों से पीड़ित होकर वे समस्त प्राणियों के मार्ग पर चले गए हैं। अपने पुत्र के वध से भी अधिक मैं उनके लिए शोक करता हूँ।
21हे कृष्ण, देखिए तो, अपने रथ पर संज्ञाहीन पड़े हुए वे कैसी शोचनीय दशा में हैं! वे पुरुषश्रेष्ठ, जो अपने गुरुजनों से विद्या पाकर —
22— उन्हें उनका अभीष्ट अर्पित करते हैं, वे देवत्व को प्राप्त होते हैं। (किन्तु) वे नराधम, जो अपने गुरुजनों से विद्या पाकर —
23— उन्हीं का विनाश करते हैं, वे नरक के भागी होते हैं। निश्चय ही आज मैंने जो किया है वह मुझे नरक ले जाएगा —
24— इस अर्थ में कि मैंने अपने गुरु को बाणों की वर्षा से पराभूत किया। पहले जब कृप मुझे अस्त्रविद्या सिखा रहे थे, तब उन्होंने मुझसे कहा था —
25— 'हे कुरुवंशी, किसी भी दशा में अपने गुरु पर प्रहार मत करना।' (किन्तु अपने उन धर्मात्मा और महात्मा गुरु के उन वचनों की) —
26— मैंने अवहेलना की है और उन पर बाणों की वर्षा से प्रहार किया है। रणभूमि से कभी न भागने वाले उन पूजनीय गौतमपुत्र को मैं प्रणाम करता हूँ।
27हे वृष्णिवंशी, मुझ पर धिक्कार है जिसने उन पर प्रहार किया।" जब बायें हाथ से भी धनुष चला सकने वाले वे (अर्जुन) इस प्रकार उनके लिए शोक कर रहे थे —
28— तब सिन्धुराज को मरा हुआ देखकर राधापुत्र उन पर टूट पड़े। राधापुत्र को अर्जुन के रथ की ओर बढ़ते देखकर —
29— दोनों पाञ्चालराजकुमार और सात्यकि उनके पास आ पहुँचे। राधापुत्र को (अपनी ओर) टूटते देखकर महारथी पार्थ ने —
30— देवकीपुत्र से उपमा देते हुए ये वचन कहे — "(देखिए!) अधिरथपुत्र सात्यकि के रथ की ओर बढ़ रहा है।
31निश्चय ही वह युद्ध में भूरिश्रवा के विनाश को सह नहीं सकता। हे जनार्दन, जिधर वह जा रहा है उधर ही घोड़े हाँकिए।
32ध्यान रखिए कि वृष (कर्ण) सात्वतवीर को सोमदत्त के मार्ग पर न भेज सके।" बायें हाथ से भी धनुष चला सकने वाले उन (अर्जुन) द्वारा इस प्रकार सम्बोधित किए जाने पर महाबाहु —
33— और महातेजस्वी केशव ने अवसर के अनुरूप वचनों में (उन्हें) उत्तर दिया — "हे पाण्डव, ये महाबाहु (सात्यकि) अकेले ही कर्ण से युद्ध करने में समर्थ हैं।
34(और) कहीं अधिक तब, जब इन सात्वतश्रेष्ठ के साथ द्रुपद के दोनों पुत्र भी जुड़े हुए हैं। हे पार्थ, अतः आपको इस समय कर्ण से युद्ध करने की आवश्यकता नहीं।
35उसके पास वासव द्वारा प्रदान की गई वह प्रज्वलित शक्ति है, जो भयानक उल्का के समान है। हे शत्रुयोद्धाओं के विनाशक, उसने उसे (सावधानी से) आपके (वध के) लिए सुरक्षित रखा है और उसकी पूजा करता है।
36अतः कर्ण को अपनी इच्छानुसार सात्वतवंशी के विरुद्ध बढ़ने दीजिए। हे कुन्तीपुत्र, वह घड़ी मुझे ज्ञात है जब यह दुष्टात्मा तीक्ष्ण बाणों से (बिंधकर) अपने रथ से भूमि पर गिराया जाएगा।"
37धृतराष्ट्र ने कहा — भूरिश्रवा और सिन्धुराज के मारे जाने के पश्चात् वीर कर्ण और वृष्णिवंशी (सात्यकि) परस्पर किस प्रकार भिड़े —
38— और रथहीन सात्यकि तथा (अर्जुन के) रथचक्रों के रक्षक वे दोनों पाञ्चालराजकुमार किन-किन रथों पर चढ़े, यह मुझे बताओ, हे सञ्जय।
39सञ्जय ने कहा — उस भयानक संग्राम में जो कुछ हुआ, वह सब मैं आपको यथावत् सुनाऊँगा। अपने ही दोषपूर्ण आचरण के (परिणामों को) शान्तिपूर्वक सुनिए।
40हे स्वामी, कृष्ण ने अपने मन में पहले से ही यह जान लिया था कि वीर सात्यकि यूपकेतु (अर्थात् भूरिश्रवा) द्वारा परास्त होंगे।
41हे राजन्, जनार्दन भूत और भविष्य दोनों के ज्ञाता हैं। इसलिए, हे राजन्, उन महाशक्तिशाली ने दारुक को बुलाकर यह आज्ञा दी — "कल मेरा रथ सज्ज रखना।" न देवता, न गन्धर्व, न यक्ष, न उरग, न राक्षस —
42— न मनुष्य कृष्ण और अर्जुन को जीत सकते हैं। स्वयं पितामह (ब्रह्मा) को अग्रणी बनाए हुए देवगण और सिद्ध भी उन दोनों के अनुपम बल से परिचित हैं। अब जिस प्रकार वह युद्ध हुआ, वह सुनिए। सात्यकि को रथहीन और कर्ण को युद्ध के लिए उद्यत देखकर —
43— माधव ने उच्च स्वर में ऋषभ स्वर में अपना शंख बजाया। शंख की उस प्रचण्ड ध्वनि को सुनकर दारुक ने संकेत समझ लिया —
44— और केशव की अनुमति से वे उनके पास ऊँची स्वर्णध्वजा से सुशोभित रथ ले आए। सिनि के पौत्र (सात्यकि) दारुक द्वारा हाँके जाने वाले और तेज में अग्निपुत्र के समान उस रथ पर चढ़े। (और) उस दिव्य रथ के समान रथ पर चढ़कर, जिसमें अश्वश्रेष्ठ सैव्य, सुग्रीव, मेघपुष्प और बलाहक जुते हुए थे, जो महान् वेगवाले और स्वर्ण के साज-सज्जा से अलंकृत थे —
45— (सात्यकि) असंख्य बाण छोड़ते हुए राधापुत्र पर टूट पड़े। तब अर्जुन के रथचक्रों के रक्षक युधामन्यु और उत्तमौजा —
46— धनञ्जय का रथ छोड़कर राधापुत्र के विरुद्ध आगे बढ़े। (तत्पश्चात्) हे राजन्, राधापुत्र भी बाणों की वर्षा करने लगे —
47— और उस संग्राम में क्रोधपूर्वक सिनि के अजेय पौत्र पर टूट पड़े। न देवताओं में, न गन्धर्वों में, न असुरों में, न उरगों में, न राक्षसों में —
48— स्वर्ग में अथवा पृथ्वी पर ऐसा युद्ध कभी देखा या सुना गया जैसा (कर्ण और सात्यकि के बीच) हुआ। रथों, घोड़ों, मनुष्यों और हाथियों से बनी समस्त सेना —
49— उनके पराक्रम देखकर, हे राजन्, (मानो) मन्त्रमुग्ध होकर पड़ी रही। उन सबने उस अलौकिक युद्ध को देखा —
50— उन दोनों पुरुषश्रेष्ठों के बीच का वह युद्ध और सारथि के रूप में दारुक का कौशल। और (रथ की) आगे, पीछे, बगल तथा मण्डलाकार गतियाँ —
51— जो रथ पर स्थित कश्यपवंशी सारथि दारुक द्वारा की गईं, उन्होंने (सबको) आश्चर्यचकित कर दिया। आकाश में स्थित देवता, गन्धर्व और दानव —
52— कर्ण और सिनिपौत्र के उस संग्राम को एकाग्र चित्त से देखा। और अपने-अपने मित्रों के लिए उन दोनों महाशक्तिशाली और महातेजस्वी वीरों ने उस युद्ध में एक-दूसरे को ललकारा।
53हे महाराज, देवता के समान कर्ण और युयुधान सात्यकि ने एक-दूसरे पर बाणों की झड़ी लगा दी।
54पहले कर्ण ने, कुरुपक्षीय जलसन्ध के विनाश को सह न पाकर, सिनिपौत्र को बाणों की वर्षा से पराभूत किया।
55और शोक से पीड़ित महासर्प के समान लम्बी साँसें भरते तथा उस संग्राम में सिनिपौत्र पर मानो उन्हें भस्म कर देने के लिए क्रोधभरी दृष्टि डालते हुए कर्ण —
56— बारम्बार क्रोधपूर्वक (उनकी ओर) झपटे। हे शत्रुदमन, उन्हें अत्यन्त क्रुद्ध देखकर सात्यकि ने उन पर प्रहार किया —
57— बाणों की प्रबल वर्षा से, जैसे एक हाथी अपने प्रतिद्वन्द्वी हाथी पर (अपने दाँतों से) प्रहार करता है। बाघों के समान फुर्तीले और अनुपम बल से सम्पन्न वे दोनों परम पराक्रमी मनुष्य उस युद्ध में एक-दूसरे को घायल करते रहे। तब सिनिपौत्र ने पूर्णतः लोहे के बने बाणों से शत्रुदमन कर्ण को बारम्बार सारे शरीर में बींधा और एक चौड़े फलवाले बाण से उनके (कर्ण के) सारथि को रथ के उसके स्थान से गिरा दिया।
58(और उन्होंने) तीक्ष्ण बाणों से (कर्ण के) श्वेत अश्वों का वध कर दिया। (तब) उन भरतश्रेष्ठ ने (कर्ण की) ध्वजा को सौ टुकड़ों में काटकर —
59— आपके पुत्र के देखते-देखते ही उन्हें रथहीन कर दिया। तत्पश्चात्, हे राजन्, हे भरतश्रेष्ठ, आपके पक्ष के योद्धा हतोत्साह हो गए।
60(तब) कर्णपुत्र वृषसेन, मद्रराज शल्य और द्रोणपुत्र ने सिनिपौत्र को चारों ओर से घेर लिया।
61तब (रणभूमि पर) ऐसी अव्यवस्था फैल गई कि कुछ भी दिखाई न देता था। सात्यकि द्वारा वीर सूतपुत्र को इस प्रकार रथहीन किया गया देखकर —
62— हे राजन्, समस्त सेना ने हाहाकार मचा दिया। और, हे राजन्, सात्वत के बाणों से अत्यन्त दुर्बल हुए कर्ण भी —
63— गहरी साँसें भरते हुए दुर्योधन के रथ पर जा चढ़े, हे राजन्, बालपन से ही आपके पुत्र के साथ अपनी मैत्री का स्मरण करते हुए —
64— और उस प्रतिज्ञा को पूर्ण करने का प्रयत्न करते हुए जो उन्होंने (दुर्योधन द्वारा) उन्हें (अंग का) राज्य दिए जाने के अवसर पर की थी। किन्तु, हे पृथ्वीपते, आत्मसंयमी सात्यकि ने इस प्रकार (अपने द्वारा) रथहीन किए गए कर्ण का तथा दुःशासन को आगे रखे हुए आपके वीर पुत्रों का वध नहीं किया, क्योंकि वे पहले भीम और पार्थ द्वारा की गई प्रतिज्ञा को मिथ्या नहीं करना चाहते थे।
65उन्होंने (केवल) उन्हें रथहीन और तेजहीन कर दिया, किन्तु उन्हें प्राणों से वंचित नहीं किया। भीमसेन ने आपके पुत्रों के वध की प्रतिज्ञा की थी —
66— और दूसरे द्यूत के अवसर पर पार्थ ने कर्ण का अन्त करने की शपथ ली थी। यद्यपि कर्ण को अग्रणी बनाए हुए महारथियों ने (अपनी पूरी सामर्थ्य से) —
67— सात्यकि का वध करने का प्रयत्न किया, तथापि वे महारथिश्रेष्ठ उनका वध न कर सके। द्रोणपुत्र, कृतवर्मा और अन्य महारथी —
68— तथा सैकड़ों क्षत्रियश्रेष्ठ सात्यकि द्वारा केवल एक धनुष से परास्त किए गए, जो धर्मराज का हित करने और स्वर्ग प्राप्त करने के इच्छुक थे।
69कृष्ण अथवा अर्जुन के समान पराक्रमवाले शत्रुमर्दन सात्यकि ने मुस्कराते हुए (अर्थात् अत्यन्त सहज ही) आपकी समस्त सेनाओं को परास्त कर दिया।
70(ऐसे कर्म कर दिखाने में) कृष्ण, धनुर्धर पार्थ और उन पुरुषश्रेष्ठ सिनिपौत्र के अतिरिक्त कोई चौथा दिखाई नहीं देता।
71[यह श्लोक उपलब्ध नहीं है]
72धृतराष्ट्र ने कहा — दारुक द्वारा हाँके जाने वाले वासुदेव के अजेय रथ पर चढ़कर, अपनी भुजाओं के पराक्रम पर गर्व करने वाले और युद्ध में वासुदेव के समान सात्यकि ने कर्ण को रथहीन कर दिया। क्या (कर्ण की पराजय के पश्चात्) सात्यकि किसी अन्य रथ पर चढ़े?
73मैं यह सब सुनने का इच्छुक हूँ। तुम कुशल वक्ता हो। मैं उन्हें अजेय मानता हूँ। हे सञ्जय, यह मुझे बताओ।
74सञ्जय ने कहा — हे राजन्, यह सब सुनिए। दारुक के उदारचित्त अनुज शीघ्र ही (सात्यकि के लिए) दूसरा रथ ले आए, जो समस्त आवश्यक सामग्री से विधिपूर्वक सुसज्जित था, जिसमें सोने और लोहे की जंजीरों तथा रेशम की पट्टियों से बाणों के आवरण बँधे थे, जो सहस्र ताराओं से जड़ा था, जो सिंह की आकृति (अंकित) वाली ध्वजा से सुशोभित था और जिसमें स्वर्ण के साज-सज्जा से अलंकृत वायु के समान वेगवाले घोड़े जुते थे तथा जिसकी घरघराहट मेघों की गर्जना के समान थी।
75सिनिपौत्र उस पर चढ़कर आपकी सेनाओं के विरुद्ध आगे बढ़े। और दारुक भी अपनी इच्छा से केशव के पास लौट गए।
76तब, हे महाराज, कर्ण के लिए भी एक उत्तम रथ लाया गया, जिसमें उत्तम नस्ल के वेगवान् घोड़े जुते थे, जिनका वर्ण गाय के दूध अथवा शंख के समान था और जो स्वर्ण के साज-सज्जा से अलंकृत थे। (वह रथ) स्वर्ण की गदाओं, ध्वजाओं, यन्त्रों और पताकाओं से भी सुसज्जित था। उसमें एक कुशल सारथि भी था और वह अनेक अस्त्रों तथा साज-सामग्री से सज्जित था। हे महाराज, इस रथ पर चढ़कर कर्ण भी अपने शत्रुओं पर टूट पड़े। अब आपने मुझसे जो कुछ पूछा था, वह सब मैंने आपको सुना दिया।
77अब फिर आपकी नीच नीति से हुए (प्राणियों के महान्) विनाश को सुनिए। भीमसेन ने आपके इकतीस पुत्रों का विनाश कर दिया है।
78उनके अग्रणी दुर्मुख थे और वे सब अच्छे योद्धा थे। सात्वत और अर्जुन ने भी सैकड़ों योद्धाओं का विनाश किया —
79— जिनके अग्रणी भीम थे, और भगदत्त भी (मारा गया है)। हे राजन्, प्राणियों का यह महान् विनाश आपकी दुष्ट सम्मतियों से ही हुआ है।
Nepali
1धृतराष्ट्रले भने — देब्रे हातले पनि धनु चलाउन सक्ने त्यस वीर (अर्थात् अर्जुन)द्वारा वीर सिन्धुराज मारिएपछि जे भयो, त्यो मलाई भन, हे सञ्जय।
2सञ्जयले भने — हे राजन्, पार्थद्वारा युद्धमा सिन्धुराज मारिएको देखेर शरद्वान्का पुत्र कृप क्रोधले भरिए।
3उनले पाण्डुपुत्रलाई बाणको प्रबल वर्षाले घेरे। द्रोणपुत्र पनि आफ्नो रथमा बसेर पृथापुत्र फाल्गुनमाथि जाइलागे।
4ती दुवै श्रेष्ठतम महारथीहरू दुई तर्फबाट आफ्ना रथबाट (अर्जुनमाथि) तीक्ष्ण बाणको वर्षा गर्न थाले।
5बाणका ती प्रबल वर्षाले अत्यन्त पीडित भई ती महाबाहु महारथिश्रेष्ठले ठूलो वेदना अनुभव गरे।
6कुन्तीपुत्र धनञ्जयले युद्धमा आफ्ना गुरु (अर्थात् कृप) र आफ्ना (अर्को) गुरुका पुत्र (अर्थात् अश्वत्थामा)को वध गर्न नचाहेर एक गुरुजस्तै आचरण गर्न थाले (अर्थात् मानौँ आफ्ना शिष्यलाई अस्त्रविद्या सिकाइरहेका होऊन्)।
7र अनिच्छापूर्वक उनले द्रोणपुत्र तथा शरद्वान्पुत्रका अस्त्रलाई आफ्नै अस्त्रले निवारण गरे र तिनीहरूमाथि मन्द गतिका बाण छोडे।
8यद्यपि अर्जुनले ती बाण मन्द गतिले छोडेका थिए, तथापि तिनका सङ्ख्याले आक्रान्त भई ती दुवै (योद्धा) अत्यन्त पीडित भए।
9तब, हे राजन्, कुन्तीपुत्रका बाणले पीडित शरद्वान्पुत्र सम्पूर्ण शक्ति गुमाएर आफ्नो रथको मञ्चमा मूर्च्छित भए।
10आफ्ना स्वामीलाई बाणले पीडित र संज्ञाहीन देखेर तथा उनलाई मरेको ठानेर उनका सारथिले उनलाई (रणभूमिबाट) हटाएर लगे।
11तब, हे महाराज, कृपलाई यसरी (रणभूमिबाट) लगिएपछि अश्वत्थामा पनि भयभीत भई पाण्डुपुत्रको सामुबाट भागे।
12(तब) शरद्वान्पुत्रलाई मूर्च्छित र बाणले पीडित देखेर महाधनुर्धर पार्थले आफ्नो रथमा (बसेरै) करुण विलाप गरे।
13र आँसुले भरिएको मुखले उनले भने — "यो सबै पहिल्यै जानेर नै महाबुद्धिमान् क्षत्ता (विदुर)ले राजा (धृतराष्ट्र)लाई भनेका थिए —
14— आफ्नो वंशको विनाशक नीच सुयोधन जन्मनासाथ आफ्नो वंशको यस विनाशकलाई हटाइदिनुहोस्।
15(नत्र) यसका कारण कुरुवंशका श्रेष्ठ पुरुषहरूमाथि महान् विपत्ति आइपर्नेछ।' अब त्यस सत्यवादीका वचन सत्य सिद्ध भए।
16उसैका कारण आज म आफ्ना गुरुलाई बाणशय्यामा पल्टिएको देखिरहेको छु। धिक्कार छ क्षत्रियका रीतिलाई र मेरो बल तथा पुरुषार्थलाई!
17(किनभने) के मजस्तै अरू कोही यस्तो छ जो आफ्ना गुरु पनि भएका ब्राह्मणप्रति शत्रुभाव राख्छ? उनी (यसबाहेक) एक ऋषिका पुत्र, मेरा गुरु र द्रोणका प्रिय मित्र हुन्।
18यस्ता पुरुष मेरा बाणले आहत भई आफ्नो रथको मञ्चमा (अचेत) पल्टिएका छन्। यद्यपि म त्यसो चाहन्नथेँ, (तथापि) मेरै द्वारा उनी बाणले कुल्चिएका छन्।
19उनी आफ्नो रथको मञ्चमा अचेत पल्टिरहनु (यो दृश्य)ले मेरो हृदयलाई अत्यन्त पीडित पार्छ। उनका बाणले अत्यन्त पीडित हुँदा पनि मैले ती महातेजस्वीतिर (प्रहार नगरी) हेरिरहनुपर्थ्यो।
20नाना बाणले पीडित भई उनी सम्पूर्ण प्राणीहरूको मार्गमा गएका छन्। आफ्नो पुत्रको वधभन्दा पनि बढी म उनका लागि शोक गर्दछु।
21हे कृष्ण, हेर्नुहोस् त, आफ्नो रथमा संज्ञाहीन पल्टिएका उनी कस्तो शोचनीय दशामा छन्! ती पुरुषश्रेष्ठहरू, जो आफ्ना गुरुजनबाट विद्या पाएर —
22— तिनलाई तिनको अभीष्ट अर्पण गर्छन्, तिनीहरू देवत्व प्राप्त गर्छन्। (तर) ती नराधमहरू, जो आफ्ना गुरुजनबाट विद्या पाएर —
23— तिनकै विनाश गर्छन्, तिनीहरू नरकका भागी हुन्छन्। निश्चय नै आज मैले जे गरेको छु त्यसले मलाई नरक लैजानेछ —
24— यस अर्थमा कि मैले आफ्ना गुरुलाई बाणको वर्षाले पराभूत गरेँ। पहिले जब कृपले मलाई अस्त्रविद्या सिकाइरहेका थिए, तब उनले मलाई भनेका थिए —
25— 'हे कुरुवंशी, कुनै पनि अवस्थामा आफ्ना गुरुमाथि प्रहार नगर्नू।' (तर आफ्ना ती धर्मात्मा र महात्मा गुरुका ती वचनको) —
26— मैले अवहेलना गरेको छु र उनीमाथि बाणको वर्षाले प्रहार गरेको छु। रणभूमिबाट कहिल्यै नभाग्ने ती पूजनीय गौतमपुत्रलाई म प्रणाम गर्दछु।
27हे वृष्णिवंशी, ममाथि धिक्कार छ जसले उनीमाथि प्रहार गऱ्यो।" जब देब्रे हातले पनि धनु चलाउन सक्ने ती (अर्जुन) यसरी उनका लागि शोक गरिरहेका थिए —
28— तब सिन्धुराजलाई मरेको देखेर राधापुत्र उनीमाथि जाइलागे। राधापुत्रलाई अर्जुनको रथतिर बढेको देखेर —
29— दुवै पाञ्चालराजकुमार र सात्यकि उनको छेउमा आइपुगे। राधापुत्रलाई (आफूतिर) जाइलागेको देखेर महारथी पार्थले —
30— देवकीपुत्रसँग उपमा दिँदै यी वचन भने — "(हेर्नुहोस्!) अधिरथपुत्र सात्यकिको रथतिर बढिरहेको छ।
31निश्चय नै उसले युद्धमा भूरिश्रवाको विनाश सहन सक्दैन। हे जनार्दन, जता ऊ गइरहेको छ उतै घोडा हाँक्नुहोस्।
32ध्यान राख्नुहोस् कि वृष (कर्ण)ले सात्वतवीरलाई सोमदत्तको मार्गमा पठाउन नसकोस्।" देब्रे हातले पनि धनु चलाउन सक्ने ती (अर्जुन)द्वारा यसरी सम्बोधन गरिएपछि महाबाहु —
33— र महातेजस्वी केशवले अवसरअनुरूप वचनमा (उनलाई) उत्तर दिए — "हे पाण्डव, यी महाबाहु (सात्यकि) एक्लै कर्णसँग युद्ध गर्न समर्थ छन्।
34(र) कति बढी तब, जब यी सात्वतश्रेष्ठसँग द्रुपदका दुवै पुत्र पनि जोडिएका छन्। हे पार्थ, अतः तपाईंलाई यस बेला कर्णसँग युद्ध गर्नुपर्ने आवश्यकता छैन।
35उसँग वासवले प्रदान गरेको त्यो प्रज्वलित शक्ति छ, जो भयानक उल्काजस्तै छ। हे शत्रुयोद्धाहरूका विनाशक, उसले त्यसलाई (सावधानीपूर्वक) तपाईंका (वध)का लागि सुरक्षित राखेको छ र त्यसको पूजा गर्दछ।
36अतः कर्णलाई आफ्नो इच्छाअनुसार सात्वतवंशीविरुद्ध बढ्न दिनुहोस्। हे कुन्तीपुत्र, त्यो घडी मलाई थाहा छ जब यो दुष्टात्मा तीक्ष्ण बाणले (छेडिएर) आफ्नो रथबाट भूमिमा खसालिनेछ।"
37धृतराष्ट्रले भने — भूरिश्रवा र सिन्धुराज मारिएपछि वीर कर्ण र वृष्णिवंशी (सात्यकि) परस्पर कसरी भिडे —
38— र रथहीन सात्यकि तथा (अर्जुनका) रथचक्रका रक्षक ती दुवै पाञ्चालराजकुमार कुन-कुन रथमा चढे, त्यो मलाई भन, हे सञ्जय।
39सञ्जयले भने — त्यस भयानक सङ्ग्राममा जे-जति भयो, त्यो सबै म तपाईंलाई यथावत् सुनाउनेछु। आफ्नै दोषपूर्ण आचरणका (परिणामलाई) शान्तिपूर्वक सुन्नुहोस्।
40हे स्वामी, कृष्णले आफ्नो मनमा पहिल्यै यो जानिसकेका थिए कि वीर सात्यकि यूपकेतु (अर्थात् भूरिश्रवा)द्वारा परास्त हुनेछन्।
41हे राजन्, जनार्दन भूत र भविष्य दुवैका ज्ञाता हुन्। त्यसैले, हे राजन्, ती महाशक्तिशालीले दारुकलाई बोलाएर यो आज्ञा दिए — "भोलि मेरो रथ सज्जित राख्नू।" न देवता, न गन्धर्व, न यक्ष, न उरग, न राक्षस —
42— न मनुष्यहरूले कृष्ण र अर्जुनलाई जित्न सक्छन्। स्वयं पितामह (ब्रह्मा)लाई अग्रणी बनाएका देवगण र सिद्धहरू पनि ती दुवैको अनुपम बलसँग परिचित छन्। अब जसरी त्यो युद्ध भयो, त्यो सुन्नुहोस्। सात्यकिलाई रथहीन र कर्णलाई युद्धका लागि उद्यत देखेर —
43— माधवले उच्च स्वरमा ऋषभ स्वरमा आफ्नो शङ्ख फुके। शङ्खको त्यस प्रचण्ड ध्वनि सुनेर दारुकले सङ्केत बुझे —
44— र केशवको अनुमतिले उनी उनको छेउमा अग्लो स्वर्णध्वजाले सुशोभित रथ ल्याए। सिनिका नाति (सात्यकि) दारुकले हाँक्ने र तेजमा अग्निपुत्रजस्तै त्यस रथमा चढे। (र) त्यस दिव्य रथजस्तै रथमा चढेर, जसमा अश्वश्रेष्ठ सैव्य, सुग्रीव, मेघपुष्प र बलाहक जोतिएका थिए, जो महान् वेगवाला र सुनका साजसज्जाले अलङ्कृत थिए —
45— (सात्यकि) असङ्ख्य बाण छोड्दै राधापुत्रमाथि जाइलागे। तब अर्जुनका रथचक्रका रक्षक युधामन्यु र उत्तमौजा —
46— धनञ्जयको रथ छाडेर राधापुत्रविरुद्ध अघि बढे। (त्यसपछि) हे राजन्, राधापुत्र पनि बाणको वर्षा गर्न थाले —
47— र त्यस सङ्ग्राममा क्रोधपूर्वक सिनिका अजेय नातिमाथि जाइलागे। न देवताहरूमा, न गन्धर्वहरूमा, न असुरहरूमा, न उरगहरूमा, न राक्षसहरूमा —
48— स्वर्गमा अथवा पृथ्वीमा यस्तो युद्ध कहिल्यै देखिएको वा सुनिएको थिएन जस्तो (कर्ण र सात्यकिबीच) भयो। रथ, घोडा, मनुष्य र हात्तीले बनेकी सम्पूर्ण सेना —
49— तिनको पराक्रम देखेर, हे राजन्, (मानौँ) मन्त्रमुग्ध भई रहिरही। ती सबैले त्यो अलौकिक युद्ध हेरे —
50— ती दुवै पुरुषश्रेष्ठबीचको त्यो युद्ध र सारथिका रूपमा दारुकको कौशल। र (रथका) अघि, पछि, छेउ तथा मण्डलाकार गतिहरू —
51— जो रथमा स्थित कश्यपवंशी सारथि दारुकले गरे, ती (सबैलाई) आश्चर्यचकित पारे। आकाशमा स्थित देवता, गन्धर्व र दानवहरूले —
52— कर्ण र सिनिनातिको त्यो सङ्ग्राम एकाग्र चित्तले हेरे। र आफ्ना-आफ्ना मित्रका लागि ती दुवै महाशक्तिशाली र महातेजस्वी वीरले त्यस युद्धमा एकअर्कालाई ललकारे।
53हे महाराज, देवताजस्तै कर्ण र युयुधान सात्यकिले एकअर्कामाथि बाणको झरी लगाइदिए।
54पहिले कर्णले, कुरुपक्षीय जलसन्धको विनाश सहन नसकेर, सिनिनातिलाई बाणको वर्षाले पराभूत गरे।
55र शोकले पीडित महासर्पजस्तै लामो सास फेर्दै तथा त्यस सङ्ग्राममा सिनिनातिमाथि मानौँ उनलाई भस्म पार्नकै लागि क्रोधले भरिएको दृष्टि हाल्दै कर्ण —
56— बारम्बार क्रोधपूर्वक (उनीतिर) झम्टिए। हे शत्रुदमन, उनलाई अत्यन्त क्रुद्ध देखेर सात्यकिले उनीमाथि प्रहार गरे —
57— बाणको प्रबल वर्षाले, जसरी एउटा हात्तीले आफ्नो प्रतिद्वन्द्वी हात्तीमाथि (आफ्ना दाँतले) प्रहार गर्छ। बाघजस्तै फुर्तिला र अनुपम बलले सम्पन्न ती दुवै परम पराक्रमी मनुष्यले त्यस युद्धमा एकअर्कालाई घाइते पार्दै रहे। तब सिनिनातिले पूर्णतः फलामका बनेका बाणले शत्रुदमन कर्णलाई बारम्बार सारा शरीरमा छेडे र एउटा चौडा फल भएको बाणले उनका (कर्णका) सारथिलाई रथको उनको स्थानबाट खसालिदिए।
58(र उनले) तीक्ष्ण बाणले (कर्णका) श्वेत अश्वहरूको वध गरिदिए। (तब) ती भरतश्रेष्ठले (कर्णको) ध्वजालाई सय टुक्रामा काटेर —
59— तपाईंका पुत्रले हेरिरहेकै बेला उनलाई रथहीन पारिदिए। त्यसपछि, हे राजन्, हे भरतश्रेष्ठ, तपाईंको पक्षका योद्धाहरू हतोत्साह भए।
60(तब) कर्णपुत्र वृषसेन, मद्रराज शल्य र द्रोणपुत्रले सिनिनातिलाई चारैतिरबाट घेरे।
61तब (रणभूमिमा) यस्तो अव्यवस्था फैलियो कि केही पनि देखिँदैनथ्यो। सात्यकिद्वारा वीर सूतपुत्रलाई यसरी रथहीन पारिएको देखेर —
62— हे राजन्, सम्पूर्ण सेनाले हाहाकार मच्चाए। र, हे राजन्, सात्वतका बाणले अत्यन्त दुर्बल भएका कर्ण पनि —
63— गहिरो सास फेर्दै दुर्योधनको रथमा गएर चढे, हे राजन्, बाल्यकालदेखि नै तपाईंका पुत्रसँगको आफ्नो मैत्री सम्झँदै —
64— र त्यो प्रतिज्ञा पूरा गर्ने प्रयत्न गर्दै जुन उनले (दुर्योधनद्वारा) उनलाई (अङ्गको) राज्य दिइएको अवसरमा गरेका थिए। तर, हे पृथ्वीपति, आत्मसंयमी सात्यकिले यसरी (आफूद्वारा) रथहीन पारिएका कर्णको तथा दुःशासनलाई अगाडि राखेका तपाईंका वीर पुत्रहरूको वध गरेनन्, किनभने उनी पहिले भीम र पार्थले गरेको प्रतिज्ञालाई मिथ्या पार्न चाहँदैनथे।
65उनले (केवल) तिनलाई रथहीन र तेजहीन पारिदिए, तर तिनलाई प्राणबाट वञ्चित गरेनन्। भीमसेनले तपाईंका पुत्रहरूको वधको प्रतिज्ञा गरेका थिए —
66— र दोस्रो द्यूतको अवसरमा पार्थले कर्णको अन्त्य गर्ने शपथ लिएका थिए। यद्यपि कर्णलाई अग्रणी बनाएका महारथीहरूले (आफ्नो पूरा सामर्थ्यले) —
67— सात्यकिको वध गर्ने प्रयत्न गरे, तथापि ती महारथिश्रेष्ठहरूले उनको वध गर्न सकेनन्। द्रोणपुत्र, कृतवर्मा र अन्य महारथीहरू —
68— तथा सयौँ क्षत्रियश्रेष्ठ सात्यकिद्वारा केवल एउटा धनुले परास्त पारिए, जो धर्मराजको हित गर्न र स्वर्ग प्राप्त गर्न इच्छुक थिए।
69कृष्ण अथवा अर्जुनजस्तै पराक्रम भएका शत्रुमर्दन सात्यकिले मुस्कुराउँदै (अर्थात् अत्यन्त सजिलै) तपाईंका सम्पूर्ण सेनालाई परास्त पारिदिए।
70(यस्ता कर्म गरेर देखाउनमा) कृष्ण, धनुर्धर पार्थ र ती पुरुषश्रेष्ठ सिनिनातिबाहेक कोही चौथो देखिँदैन।
71[यो श्लोक उपलब्ध छैन]
72धृतराष्ट्रले भने — दारुकले हाँक्ने वासुदेवको अजेय रथमा चढेर, आफ्ना पाखुराको पराक्रममा गर्व गर्ने र युद्धमा वासुदेवसमान सात्यकिले कर्णलाई रथहीन पारिदिए। के (कर्णको पराजयपछि) सात्यकि कुनै अर्को रथमा चढे?
73म यो सबै सुन्न इच्छुक छु। तिमी कुशल वक्ता हौ। म उनलाई अजेय मान्दछु। हे सञ्जय, यो मलाई भन।
74सञ्जयले भने — हे राजन्, यो सबै सुन्नुहोस्। दारुकका उदारचित्त भाइ चाँडै नै (सात्यकिका लागि) अर्को रथ ल्याए, जो सम्पूर्ण आवश्यक सामग्रीले विधिपूर्वक सुसज्जित थियो, जसमा सुन र फलामका साङ्ला तथा रेशमका पट्टीले बाणका आवरण बाँधिएका थिए, जो हजार ताराले जडिएको थियो, जो सिंहको आकृति (अङ्कित) भएको ध्वजाले सुशोभित थियो र जसमा सुनका साजसज्जाले अलङ्कृत वायुजस्तै वेग भएका घोडा जोतिएका थिए तथा जसको घरघराहट मेघको गर्जनजस्तै थियो।
75सिनिनाति त्यसमा चढेर तपाईंका सेनाहरूविरुद्ध अघि बढे। र दारुक पनि आफ्नो इच्छाले केशवकहाँ फर्के।
76तब, हे महाराज, कर्णका लागि पनि एउटा उत्तम रथ ल्याइयो, जसमा उत्तम नस्लका वेगवान् घोडा जोतिएका थिए, जसको वर्ण गाईको दूध अथवा शङ्खजस्तै थियो र जो सुनका साजसज्जाले अलङ्कृत थिए। (त्यो रथ) सुनका गदा, ध्वजा, यन्त्र र पताकाले पनि सुसज्जित थियो। त्यसमा एउटा कुशल सारथि पनि थियो र त्यो अनेक अस्त्र तथा साजसामग्रीले सज्जित थियो। हे महाराज, यस रथमा चढेर कर्ण पनि आफ्ना शत्रुहरूमाथि जाइलागे। अब तपाईंले मसँग जे-जति सोध्नुभएको थियो, त्यो सबै मैले तपाईंलाई सुनाइदिएँ।
77अब फेरि तपाईंको नीच नीतिबाट भएको (प्राणीहरूको महान्) विनाश सुन्नुहोस्। भीमसेनले तपाईंका एकतीस पुत्रको विनाश गरिदिएका छन्।
78तिनका अग्रणी दुर्मुख थिए र तिनीहरू सबै असल योद्धा थिए। सात्वत र अर्जुनले पनि सयौँ योद्धाको विनाश गरे —
79— जसका अग्रणी भीम थिए, र भगदत्त पनि (मारिएको छ)। हे राजन्, प्राणीहरूको यो महान् विनाश तपाईंकै दुष्ट सम्मतिबाट भएको हो।