Tirthayatra Parva — The entry into the Gandhamadana
Volume II — Vana Parva · Chapter 158
Sanskrit
1वैशम्पायन उवाच निहते राक्षसे तस्मिन् पुनर्नारायणाश्रमम्। अभ्येत्य राजा कौन्तेयो निवासमकरोत् प्रभुः॥
2स समानीय तान् सर्वान् भ्रातृनित्यब्रवीद् वचः। द्रौपद्या सहितान् काले संस्मरन् भ्रातरं जयम्॥
3समाश्चतस्रोऽभिगताः शिवेन चरतां वने। कृतोद्देशः स बीभत्सु पञ्चमीमभितः समाम्॥
4प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम्। पुष्पितैर्दुमषण्डैश्च मत्तकोकिलषट्पदैः॥
5मयूरैश्चातकैश्चापि नित्योत्सवविभूषितम्। व्याप्रैर्वराहैर्महिषैर्गवयैर्हरिणैस्तथा॥
6श्वापदैर्व्यालरूपैश्च रुरुभिश्च निषेवितम्। फुल्लैः सहस्रपत्रैश्च शतपत्रैस्तथोत्पलैः॥
7प्रफुल्लैः कमलैश्चैव तथा नीलोत्पलैरपि। महापुण्यं पवित्रं च सुरासुरनिषेवितम्॥
8तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः। कृतश्च समयस्तेन पार्थेनामिततेजसा॥
9पञ्चवर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि। अत्र गाण्डीवधन्वानमवाप्तास्त्रमरिन्दमम्॥ देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम्। इत्युक्त्वा ब्राह्मणान् सर्वानामन्त्रयत पाण्डवः॥
10कारणं चैव तत् तेषामाचचक्षे तपस्विनाम्। तानुग्रतपसः प्रीतान् कृत्वा पार्थाः प्रदक्षिणाम्॥
11ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च। सुखोदकमिमं क्लेशमचिराद् भरतर्षभ।॥
12क्षत्रधर्मेणधर्मज्ञ तीर्खा गां पालयिष्यसि। तत् तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम्॥
13प्रतस्थे सह विप्रैस्तैर्धातृभिश्च परन्तपः। राक्षसैरनुयातो वै लोमशेनाभिरक्षितः॥
14क्वचित् पद्भ्यां ततोऽगच्छद् राक्षसैरुह्यते क्वचित्। तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः॥
15ततो युधिष्ठिरो राजा बहून् क्लेशान् विचिन्तयन्। सिंहव्याघ्रगजाकीर्णामुदीची प्रययौ दिशम्॥
16अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम्। गन्धमादनपादांश्च श्वेतं चापि शिलोच्चयम्॥
17उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः। पृष्ठं हिमवतः पुण्यं ययौ सप्तदशेऽहनि॥
18ददृशुः पाण्डवा राजन् गन्धमादनमन्तिकात्। पृष्ठे हिमवतः पुण्ये नानाद्रुमलतावृते॥ सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः। समावृतं पुण्यतममाश्रमं वृषपर्वणः॥
19तमुपागम्य राजर्षिधर्मात्मानमरिन्दमाः। पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः॥
20अभ्यनन्दत् स राजर्षिः पुत्रवद् भरतर्षभान्। पूजिताश्चावसंस्तत्र सप्तरात्रमरिन्दमाः॥
21अष्टमेऽहनि सम्प्राप्ते तमृषि लोकविश्रुतम्। आमन्त्र्य वृषपर्वाणं प्रस्थानं प्रत्यरोचयन्॥
22एकैकशश्च तान् विप्रान् निवेद्य वृषपर्वणि। न्यासभूतान् यथाकालं बन्धूनिव सुसत्कृतान्॥
23पारिबर्ह च तं शेषं परिदाय महात्मने। ततस्ते यज्ञपात्राणि रत्नान्याभरणानि च।॥ न्यदधुः पाण्डवा राजन्नाश्रमे वृषपर्वणः। अतीतानागते विद्वान् कुशलः सर्वधर्मवित्॥
24अन्वशासत् सधर्मज्ञः पुत्रवद्भरतर्षभान्। तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम्॥
25तान् प्रस्थितानभ्यगच्छद् वृषपर्वा महीपतिः। उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा॥ अनुसंसार्य कौन्तेयानाशीर्भिरभिनन्द्य च। वृषपर्वा निववृते पन्थानमुपदिश्य च॥
26नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः। पदातिर्धातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः॥
27नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु। पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः॥
28महाभ्रघनसंकाशं सलिलोपहितं शुभम्। मणिकाञ्चनरूप्यस्य शिलानां च समुच्चयम्॥
29ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा। अनुससुर्यथोद्देशं पश्यन्तो विविधान्नगान्॥
30उपर्युपरिः शैलस्य गुहाः परमदुर्गमाः। सुदुर्गमांस्ते सुबहून् सुखेनैवाभिचक्रमुः॥
31धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः। अगच्छन् सहितास्तत्र न कश्चिदवहीयते॥
32ते मृगद्विजसंघुष्टं नानादुमलतायुतम्। शाखामृगगणैश्चैव सेवितं सुमनोरमम्॥ पुण्यं पद्मसरोयुक्तं सपल्वलमहावनम्। उपतस्थुर्महाभागा माल्यवन्तं महागिरिम्॥
33ततः किम्पुरुषावासं सिद्धचारणसेवितम्। ददृशुर्हष्टरोमाणः पर्वतं गन्धमादनम्॥
34विद्याधरानुचरितं किन्नरीभिस्तथैव च। गजसङ्घसमावासं सिंहव्याघ्रगणायुतम्॥
35शरभोन्नादसंघुष्टं नानामृगनिषेवितम्। ते गन्धमादनवनं तन्नन्दनवनोपमम्॥ मुदिताः पाण्डुतनया मनोहृदयनन्दनम्। विविशुः क्रमशो वीराः शरण्यं शुभकाननम्॥ द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः। शृण्वन्तः प्रीतिजननान् वल्गून् मदकलाञ्छुभान्॥
36श्रोत्ररम्यान् सुमधुराज्छब्दान् खगमुखरितान्। सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान्॥ पश्यन्तः पादपांश्चापि फलभारावनामितान्। आम्रनाम्रातकान् भव्यान् नारिकेलान् सतिन्दुकान्॥
37मुञ्जातकांस्तथाञ्जीरान् दाडिमान् बीजपूरकान्। पनसॉल्लकुचान् मोचान् खजूरानम्लवेतसान्॥
38पारावतांस्तथा क्षौद्रान् नीपांश्चापि मनोरमान्। बिल्वान् कपित्थाञ्जम्बूंश्च काश्मरीबंदरीस्तथा॥
39प्लक्षानुदुम्बरबटानश्वत्थान् क्षीरिकांस्तथा। भल्लातकानामलकीहरीतकबिभीतकान्॥
40इङ्गुदान् करमर्दाश्च तिन्दुकांश्च महाफलान्। एतानन्यांश्च विविधान् गन्धमादनसानुषु॥
41फलैरमृतकल्पैस्तानाचितान् स्वादुभिस्तरून्। तथैव चम्पकाशोकान् केतकान् बकुलांस्तथा॥
42पुन्नागान् सप्तपर्णाश्च कर्णिकारान् सकेतकान्। पाटलान् कुटजान् रम्यान् मन्दारेन्दीवरांस्तथा॥
43पारिजातान् कोविदारान् देवदारुदुमांस्तथा। शालांस्तालास्तमालांच पिप्पलान् हिङ्गुकांस्तथा॥
44शाल्मली: किंशुकाशोकाञ्छिशपाः सरलांस्तथा। चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः॥
45कोकिलैः कलविहेच हारितैर्जीवजीविकैः। प्रियकैश्चातकैश्चैव तथान्यैर्विविधै खगैः॥ ओत्ररम्यं सुमधुरं कूजद्भिश्चात्यधिष्ठितान्। सरांसि च मनोज्ञानि समन्ताज्जलचारिभिः॥
46कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः। कलारैः कमलैश्चैव आचितानि समन्ततः॥
47कादम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः। कारण्डवैः प्लवैहसैर्बकैर्महगुभिरेव च॥
48एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः। हृष्टैस्तथा तामरसरसासवमदालसैः॥ पद्मोदरच्युतरजः किंजल्कारुणरञ्जितैः। मञ्जुस्वरैर्मधुकरैर्विरुतान् कमलाकरान्॥
49अपश्यंस्ते नरव्याघ्रा गन्धमादनसानुषु। तथैव पद्मपण्डैश्च मण्डितांश्च समन्ततः॥ शिखण्डिनीभिः सहिताँल्लतामण्डलकेषु च। मेघतूर्यरवोद्दाममदनाकुलितान् भृशम्॥ कृत्वैव केकामधुरं संगीतं मधुरस्वरम्। चित्रान् कलापान् विस्तीर्य सविलासान् मदालसान्।। मयूरान् ददृशुर्हष्टान् नृत्यतो वनलालसान्। कांश्चित् प्रियाभिः सहितान् रममाणान् कलापिनः॥६२। वल्लीलतासंकटेषु कुटजेषु स्थितांस्तथा। कांश्चिच्च कुटजानां तु विटपेषूत्कटानिव्र॥ कलापरुचिराटोपनिचितान् मुकुटानिव। विवरेषु तरूणां च रुचिरान् ददृशुश्च ते॥
50सिन्धुवारांस्तथोदारान् मन्मथस्येव तोमरान्। सुवर्णवर्णकुसुमान् गिरीणां शिखरेषु च॥ कर्णिकारान् विकसितान् कर्णपूरानिवोत्तमान्। तथापश्यन् कुरबकान् वनराजिषु पुष्पितान्॥ कामवश्यौत्सुक्यकरान् कामस्येव शरोत्करान्। तथैव वनराजीनामुदारान् रचितानिव॥ विराजमानांस्तेऽपश्यस्तिलकांस्तिलकानिव। तथानङ्गशराकारान् सहकारान् मनोरमान्॥ अपश्यन् भ्रमरारावान् मञ्जरीभिर्विराजितान्। हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि॥ लोहितैरञ्जनाभैश्च वैदूर्यसदृशैरपि। अतीव वृक्षा राजन्ते पुष्पिता: शैलसानुषु॥
51तथा शालांस्तमालांश्च पाटलान् बकुलानपि। माला इव समासक्ताः शैलानां शिखरेषु च॥
52विमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः। कलहंसैरुपेतानि सारसाभिरुतानि च॥ सरांसि बहुशः पार्थाः पश्यन्तः शैलासनुषु। पद्मोत्पलविमिश्राणि सुखशीतजलानि च।॥ एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः। गन्धवन्त्यथ माल्यानि रसवन्ति फलानि च॥ सरांसि च मनोज्ञानि वृक्षांश्चातिमनोरमान्। विविशुः पाण्डवाः सर्वे विस्मयोत्फुल्ललोचनाः॥
53कमलोत्पलकह्लारपुण्डरीकसुगन्धिना। सेव्यमाना वने तस्मिन् सुखस्पर्शेन वायुना॥
54ततो युधिष्ठिरो भीममाहेदं प्रीतिमद् वचः। अहो श्रीमदिदं भीम गन्धमादनकाननम्॥
55वने ह्यस्मिन् मनोरम्ये दिव्याः काननजा द्रुमाः। लताश्च विविधाकाराः पत्रपुष्पफलोपगा:॥
56भान्त्येते पुष्पविकचाः पुंस्कोकिलकुलाकुलाः। नात्र कण्टकिनः केचिन्न च विद्यन्त्यपुष्पिताः॥
57स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु। भ्रमरारावमधुरा नलिनी: फुल्लपङ्कजाः॥ विलोड्यमानाः पश्येमाः करिभिः सकरेणुभिः। पश्येमां नलिनी चान्यां कमलोत्पलमालिनीम्॥ स्रग्धरां विग्रहवती साक्षाच्छ्रियमिवापराम्। नानाकुसुमगन्धाढ्यास्तस्येमाः काननोत्तमे॥ उपगीयमाना भ्रमरै राजन्ते वनराजयः। पश्य भीम शुभान् देशान् देवाक्रीडान् समन्ततः॥८३।
58अमानुषगति प्राप्ताः संसिद्धाः स्म वृकोदर। लताभिः पुष्पिताग्राभिः पुष्पिताः पादपोत्तमाः॥ संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु। शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम्॥ नदतां शृणु निर्घोषं भीम पर्वतसानुषु। चकोराः शतपत्राश्च मत्तकोकिलसारिकाः॥
59पत्रिणः पुष्पितानेतान् संपतन्नि महाद्दुमान्। रक्तपीतारुणाः पार्थ पादपाग्रगताः खगाः॥ परस्परमुदीक्षन्ते बहवो जीवजीवकाः। हरितारुणवर्णानां शाद्वलानां समीपतः॥
60सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि। वदन्ति मधुरा वाचः सर्वभूतमनोरमाः॥ भृङ्गराजोपचक्राश्च लोहपृष्ठाः पतत्त्रिणः। चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः॥ एते वैदूर्यवर्णाभं क्षोभयन्ति महत् सरः। बहुतालसमुत्सेधाः शैलशृङ्गपरिच्युताः॥
61नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्ति च। भास्कराभाः प्रभाभिश्च शारदाभ्रधनोपमाः॥ शोभयन्ति महाशैलं नानारजतधातवः। क्वचिदञ्जनवर्णाभाः क्वचित् काञ्चनसंनिभाः॥ धातवो हरितालस्य क्वचिद्धिमुलकस्य च। मनः शिलागुहाश्चैव सन्ध्याभ्रनिकरोपमाः॥ शशलोहितवर्णाभाः क्वचिनैरिकधातवः। सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः॥ एते बहुविधाः शैलं शोभयन्ति महाप्रभाः। गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा॥
62दृश्यन्ते शैलशृङ्गेषु पार्थ किम्पुरुषैः सह। गीतानां समतालानां तथा साम्नां च निःस्वनः॥
63श्रूयते बहुधा भीम सर्वभूतमनोहरः। महागङ्गामुदीक्षस्व पुण्यां देवनदी शुभाम्॥
64कलहंसगणैर्जुष्टामृषिकिन्नरसेविताम् धातुभिश्च सरिदिश्च किन्नरैर्मृगपक्षिभिः॥ गन्धर्वैप्सरोभिश्च काननैश्च मनोरमैः। व्यालैश्च विविधाकारैः शतशीषैः समन्ततः॥ उपेतं पश्य कौन्तेय शैलराजमरिन्दम।
65वैशम्पायन उवाच ते प्रीतमनसः शूराः प्राप्ता गमिमनुत्तमाम्॥ नातृप्यन् पर्वतेन्द्रस्य दर्शनेन परन्तपाः। उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः॥ आष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा। ततस्ते तिग्मतपसं कृशंधमनिसंततम्। पारगं सर्वधर्माणामार्टिषेणमुपागमन्॥
English
1Vaishampayana said: That Rakshasa being killed, the lord king Yudhishthira, the royal son of Kunti, returning to the hermitage of Narayana, began to dwell there.
2He, (Yudhishthira) once upon a time, (during his stay in the hermitage) remembering Jaya (Arjuna) and summoning all his brothers together with Draupadi 1O his presence, addressed them thus:
3We have peacefully ranged in the forests these four years. It was arranged by Vivatsu that in the fifth year,
4He would get to that prince of mountains Shveta (Kailasha), the best of all peaks, enlivened with continuous festivities, celebrated by blossoming floral plants, Kokilas and black bees brimful of joy,
5And by peacocks and Chatakas, inhabited by tigers, boars, buffaloes, Gabayas and deer,
6And by all sorts of ferocious animals and Rurus; decked with full-blown lotuses of a thousand and hundred petals,
7And (bright) with blooming lilies and blue lilies; sacred, pure and frequented by the Suras (gods) and the Asuras (demons).
8And we too, with an ardent desire to meet him, had engaged to repair thither. It had been appointed by Partha of matchless prowess,
9That he should remain in the region of the gods for five years in order to learn all the tactics of warfare. We shall behold in that place (in the mountain Shveta) the wielder of the Gandiva, the terror of his foes returning to our world from the abode of the gods (enriched) with weapons (obtained from them). The Pandava Yudhishthira, having expressed himself thus, greeted the assembled Brahmanas.
10And having gone round and thereby pleased the sages of fervid devotion he related to them the matter mentioned above.
11The Brahmanas then approved of the proposal in terms bespeaking happiness and prosperity, saying, "O the most exalted of all the Bharatas, these troubles shall soon end in prosperity.
12O virtuous one, getting over all these difficulties you will govern the earth by the code of laws practised by the Kshatriyas.” Then the Raja Yudhishthira, having bowed to these words of the ascetics,
13Set out with his brothers and those Brahmanas (for the Shveta) followed by the Rakshasas and protected by Lomasha.
14And that one (Yudhishthira) of unrivalled energy and pious vows at some places walked on foot with his brothers and at others was carried by the Rakshasa.
15Then King Yudhishthira, apprehending a good many troubles, proceeded towards the north teeming with lions, tigers and elephants.
16Beholding the mountain Kailasha and Mainaka, the base of the mountain Gandhamadana and the rocky chiff Shveta,
17And many a sacred stream one above the other issuing from the mountain, he ascended the sacred plateau of the Himalayas on the seventeenth day.
18Then, O king in the neighbourhood of the mountain Gandhamadana and on the sacred plateau of the Himalayas, decked with various sort of trees and creepers, the Pandavas beheld the most sacred hermitage of Vrishaparva encircled by blossoming trees growing near the water courses.
19The Pandavas, the tormentors of foes, on recovering from fatigue, approached the royal sage Vrishaparva and saluted him.
20The royal sage too welcomed those most exalted of the Bharatas as if they were his own children. Thus received, the tormentors of foes remained there for seven nights.
21On the eighth day, greeting the royal sage of world wide renown, they expressed their desire to start on their journey.
22And at the proper time having introduced to Vrishaparva the Brahmana, whom he only honoured and who had remained in his charge as friends,
23And having also committed to his charge their remaining clothes, O king, the sons of Pandu left their sacred ornaments and sacrificial vessels in the hermitage of Vrishaparva. That (sage) well learned, versed in all religions, having a knowledge of the past and the future,
24And pious gave instructions to the most exalted of the Bharatas as to his own sons. Thus instructed, the high-souled ones proceeded towards the north.
25The high-souled Vrishaparva accompanied them to a certain distance. And then committing those Pandavas of indomitable spirit of the care of the Brahma's and instructing and blessing those sons of Kunti, Vrishaparva retraced his steps after giving them directions as to the path they were to follow.
26Then Yudhishthira, the son of Kunti possessed of true prowess, began to proceed on foot along the mountain path inhabited by various kinds of beasts.
27And at times having dwelt on the level grounds above the mountains thickly overgrown with many trees, the Pandavas on the fourth day got to the mountain Shveta.
28Looking like a mighty mass of clouds, abounding in sacred waters and consisting of a mass of gems, gold, silver and marble.
29Following the route directed by Vrishaparva they proceeded on their journey beholding various mountains on (their way).
30There were many inaccessible caves higher and higher up the mountains which also were equally inaccessible; but they passed them with pleasure all these difficulties notwithstanding.
31Dhaumya, Krishna, Parthas and the great sage Lomasha all walked together (none lagging behind) without experiencing any fatigue.
32Those highly fortunate ones then reached that sacred and highly beautiful and mighty mountain Malayavana, resounding with the voices of birds and beasts, abounding in many trees and creepers, inhabited by monkeys and containing lotus lakes, marshes and great forests.
33Then with their hair standing on the end, they beheld with great pleasure the mount Gandhamadana, the abode of the Kimpurušas, frequented by the Siddhas and the Charanas,
34Visited by the Vidyadharas and the Kinnars, the abode of herds of elephants, full of lions and tigers,
35Resounding with the roar of Saravas and inhabited by various other animals. Then with great delight, the heroic Pandavas gradually entered the forest of the Gandhamadana resembling the Nandana gardens, pleasant to the mind and heart, auspicious and capable of affording protection,
36And as those heroes together with Draupadi and the noble-minded Brahmanas entered the forest of the Gandhamadana they began to hear inarticulate notes causing delight, sweet, auspicious, pleasant to the ear, sweetly melodious and issuing out of the mouth of birds. And they beheld various trees bending down under the weight of fruits and radiant with flowers of all seasons-such as mango Amarataka, Bhabya, Coconut, Tinduka,
37Munjataka, Jiva, Pomegranate, Beejpuran, Panasha, Lakucha, plantains, Kharjara, Amlabatasha,
38Parvata, Champaka and lovely Kadamba, Vilva, Kapitha, Jamboos, Kansmari, Badari,
39Plaksha, Udumbaras, Vata, Asvattha, Khirika, Bhallataka, Amalaki, Haritaki, Bhibhitaki,
40Inguda, Karamarda, Tinduka and Mahaphalas, these any many other trees on the plateau of the Gandhamadana,
41Clustered with delicious fruits of ambrosial taste. And (besides these) they beheld Champakas, Ashokas, Aetakas, Aakulas,
42Punnagas, Saptaparnas, Karnikaras, Patalas, Kutajas and beautiful Mandaras and lotuses,
43Parijatas, Kovidaras, Devadarus, Salas, Talas, Tamala, Pippalas, Hingukas,
44Salmalis, Kinshukas, Ashokas, Singshapas and Saralas. And these trees were inhabited by Chakoras, Satapatras, Bhringarajas, Shukas,
45Kokilas, Kalabinkas, Haritas, Jibojibakas, Priakas, Chatakas and various other birds warbling forth sweet notes pleasant to the ear. And they beheld also lakes all around looking beautiful with water birds filled.
46And interspersed with Kumudas, lotuses, Kakonadas and Utpalas, Kalharas and Kamalas,
47And teeming with Kadambas, Chakrabakas, Kuraras, waterfowls, Karandavas, Palavas, swans, cranes, Madgus,
48And other aquatic birds of all description. And those most exalted of men beheld on the plateau of the Gandhamadana lakes decorated all over with arrays of lotuses and ringing with the sweet hum of gladdened black-bees drowsy with drinking the intoxicating juice of red lotuses and reddened with pollens falling from the lotus-cups.
49And in the groves of creepers they beheld those joyful-wood-loving peacocks with their mates, maddened with an excess of animal propensity caused by the sound of the clouds resembling the trumpet-notes, sportive and drowsy with lust, dancing with their gorgeous tails out spread and warbling forth sweet and melodious notes. Some of the peacocks, seated on the Kutaja trees densely carpeted with creepers, were sporting with their sweet hearts; some, seated on the boughs of the Kutaja trees and proud of their splendid tails spread out looked like so many crowns worn by the trees; and some seated in the holes of trees looked exceedingly beautiful.
50On the summits of the mountains they saw the graceful Sindoofar trees looking like the arrows of Cupid and the blossoming and gold coloured Karnikaras appearing like ear-rings of excellent workmanship. And in the woods of the Gandhamadana they beheld the blossoming Kurubakas appearing like the shafts of Cupid and making the lustful persons more and more amorous. They beheld also the Tilaka trees appearing like beauty-spots painted on the forehead of the forest. They beheld further the beautiful Shahakaras (mango trees) have the efficacy of Cupid's darts, graced with blossoms and hummed over by black bees. There grew several trees on the plateau of the mountains; some of which bearing flowers of a golden hue, some, of the colour resembling forest conflagration, some red, some green and some sable, looked supremely beautiful.
51Then again there were rows of Sala, Tamalas Patalas and Bakulas encircling the summing of the mountains like so many garlands.
52Thus, gradually beholding on the plateau of the Gandhamadana, many lakes as transparent as crystal, full of swans of white plumage, ringing with the cries of Sarasas, decked with lotuses and lilies and containing water of pleasurable feel and also beholding fragrant flowers and luscious fruits, beautiful lakes and highly beautiful trees, the heroic Parthas with eyes expanded with wonder penetrated into the forest (of Gandhamadana).
53And as they walked on they were fanned by the breeze of balmy feel perfumed by Kamalas, Utapalas, Kalparas and Pandarikas.
54Then Yudhishthira said to Bhima in affectionate terms "O Bhima, beautiful indeed is this forest of the Gandhamadana!
55In this pleasant forest there are various excellent wild trees and creepers covered with foliage, flowers and fruits.
56This forest is beautified with handsome flowers and maddened male Kokilas, nor there are in it any thorny trees and trees that do not flower.
57On the plateau of the Gandhamadana all the trees are furnished with glossy foliage and fruits. Look! how these lotus-lakes decked with full blown lotuses and sweet with the hum of black fees are being agitated by elephants with their mates! look at another lotus lake decked with an array of lotuses and looking like a second Sree in very flesh and blood with a garland encircling her neck. In this excellent forest, there are ranges of woods rich with the fragrance of various flowers and ringing with the hum of the black fees. O Bhima, behold on all sides the auspicious sporting grounds of the gods!
58O Vrikodara, by our arrival here we have attained to a state transcending the human and our desire has been fulfilled. O Partha, on these plateaus of the Gandhamadana, you excellent blossoming trees, embraced by flower creepers, look supremely handsome. O Bhima, listen to the warbles of the peacocks wandering with their sweet-hearts on the slopes of the mountain, of the Chataka, Satapatra and maddened Kokila and Sarikas.
59Birds alighting these great blossoming trees. O Partha, seated on the boughs these myriad of Yivajevaka birds of scarlet, yellow and red colour are looking at one another. And near the green and red grass plots,
60And also near the mountain spring. The cranes are seen and the Bhringaraja, Chakoas and herons are sending forth melodious notes causing delight to all creatures. Elephants, furnished with four tusks and of the colour of lotuses, accompanied by their mates,
61Are agitating that great lake of the colour of lapses. And torrents gushing down from the summits of the mountains are spouting forth as high as several palm trees from the springs. And many silvery minerals of sun-like splendour and looking like a dense mass of autumnal clouds are beautifying this mighty mountain. In some places minerals of the hue of the collyrium, in some of golden hue and in some yellow orpiment, in some vermilion and in some caves of red arsenic resembling the evening clouds, in some red chalk of the hue of the rabbit and in some minerals resembling white and sable clouds and of the rays of the rising sun-these and many other minerals of mighty splendour, are adding largely to the beauty of the mountain. As was told by Vrishparvana, Gandharvas with their sweethearts,
62And accompanied by the Kimpurushas, O Partha, are seen on the summits of the mountain. Songs exactly keeping time and also the chanting of the Samaveda,
63Delightful to all creatures are being repeatedly heard. Behold the auspicious and sacred celestials river Mahaganga
64Adorned with swans and worshipped by the sages and the Kinnaras. O tormentor of foes, O son of Kunti, behold this prince of mountains containing minerals and rivulets, Kinnaras, deer and birds, Gandharvas and Apsaras and pleasant gardens and snakes of many shapes and of hundred heads.
65Vaishampayana said: Those tormentors of foes, those heroes accompanied by Draupadi and the high-souled Brahmanas having attained to an excellent state were highly glad at heart and were not satiated by beholding (over and over again) that prince of mountains. They then viewed the hermitage of the royal sage Arstisena adorned with flowers and trees bearing fruits. And they approached that royal sage of fervid devotion, versed in all religious lores and having muscles bare.
Hindi
1वैशम्पायन ने कहा — उस राक्षस के मारे जाने पर कुन्ती के राजपुत्र भगवान् राजा युधिष्ठिर नारायण के आश्रम में लौटकर वहीं निवास करने लगे।
2एक दिन (आश्रम में रहते हुए) उन्होंने (युधिष्ठिर ने) जय (अर्जुन) का स्मरण करके अपने समस्त भाइयों को तथा द्रौपदी को अपने समीप बुलाकर उनसे इस प्रकार कहा —
3"हम इन चार वर्षों तक वनों में शान्तिपूर्वक विचरण करते रहे हैं। विभत्सु (अर्जुन) के द्वारा यह निश्चय किया गया था कि पाँचवें वर्ष में
4वे उस पर्वतश्रेष्ठ श्वेत (कैलास) पर आएँगे, जो समस्त शिखरों में उत्तम है, जहाँ निरन्तर उत्सव की छटा रहती है, जो पुष्पित लताओं-वृक्षों से, कोकिलों से और आनन्द से भरे भ्रमरों से शोभित है,
5तथा मयूरों और चातकों से; और जो व्याघ्रों, वराहों, महिषों, गवयों तथा मृगों से बसा हुआ है,
6तथा सब प्रकार के हिंस्र पशुओं और रुरु मृगों से; और जो सहस्र तथा शत दलों वाले पूर्ण खिले कमलों से सुसज्जित है,
7और खिले हुए कुमुदों तथा नीलकमलों से (उज्ज्वल) है; जो पवित्र, निर्मल तथा सुरों (देवताओं) और असुरों (दानवों) से सेवित है।
8और हमने भी उनसे मिलने की तीव्र उत्कण्ठा से वहाँ जाने का वचन दिया था। अतुल पराक्रम वाले पार्थ के द्वारा यह निश्चित किया गया था
9कि वे समस्त युद्धकौशल सीखने के लिए पाँच वर्ष तक देवलोक में रहेंगे। हम उस स्थान पर (श्वेत पर्वत पर) गाण्डीवधारी, शत्रुओं के त्रासक उन (अर्जुन) को देखेंगे, जो देवताओं के धाम से (उनसे प्राप्त) अस्त्रों से समृद्ध होकर हमारे लोक में लौट रहे होंगे।" पाण्डुनन्दन युधिष्ठिर ने इस प्रकार अपना मत प्रकट करके एकत्रित ब्राह्मणों का अभिवादन किया।
10और प्रदक्षिणा करके उन उग्र तपस्वी मुनियों को प्रसन्न करके उन्होंने उनसे उपर्युक्त बात कह सुनाई।
11तब ब्राह्मणों ने मंगल और समृद्धि सूचित करने वाले शब्दों में उस प्रस्ताव का अनुमोदन किया और कहा — "हे भरतश्रेष्ठ, ये कष्ट शीघ्र ही समृद्धि में परिणत होंगे।
12हे धर्मात्मन्, इन समस्त कठिनाइयों को पार करके आप क्षत्रियों द्वारा आचरित धर्म-विधान से पृथ्वी का शासन करेंगे।" तब राजा युधिष्ठिर ने उन तपस्वियों के इन वचनों को प्रणाम किया,
13और अपने भाइयों तथा उन ब्राह्मणों के साथ (श्वेत पर्वत की ओर) चल पड़े, जिनके पीछे राक्षस थे और जिनकी रक्षा लोमश कर रहे थे।
14अतुल तेजस्वी और पवित्र व्रत वाले वे (युधिष्ठिर) कहीं-कहीं अपने भाइयों के साथ पैदल चलते थे और कहीं-कहीं राक्षस उन्हें ले चलते थे।
15तब अनेक कष्टों की आशंका करते हुए राजा युधिष्ठिर सिंहों, व्याघ्रों और गजों से भरे हुए उत्तर दिशा की ओर बढ़े।
16कैलास और मैनाक पर्वत को, गन्धमादन पर्वत के मूल को तथा श्वेत नामक शैलशिखर को देखते हुए,
17और उस पर्वत से निकलने वाली एक के ऊपर एक अनेक पवित्र धाराओं को देखते हुए वे सत्रहवें दिन हिमालय के पवित्र पठार पर चढ़ गए।
18तब हे राजन्, गन्धमादन पर्वत के समीप और विविध प्रकार के वृक्षों तथा लताओं से सुसज्जित हिमालय के उस पवित्र पठार पर पाण्डवों ने वृषपर्वा का अत्यन्त पवित्र आश्रम देखा, जो जलधाराओं के निकट उगे हुए पुष्पित वृक्षों से घिरा हुआ था।
19शत्रुतापन पाण्डवों ने थकान दूर होने पर राजर्षि वृषपर्वा के पास जाकर उन्हें प्रणाम किया।
20उन राजर्षि ने भी उन भरतश्रेष्ठों का ऐसा स्वागत किया मानो वे उनके अपने ही पुत्र हों। इस प्रकार सत्कार पाकर वे शत्रुतापन वहाँ सात रात रहे।
21आठवें दिन विश्वविख्यात उन राजर्षि का अभिवादन करके उन्होंने अपनी यात्रा पर चलने की इच्छा प्रकट की।
22और उचित समय पर उन ब्राह्मणों को वृषपर्वा के हाथों सौंपकर, जिनका वे ही सम्मान करते थे और जो मित्रों के रूप में उनके संरक्षण में रह गए थे,
23तथा अपने शेष वस्त्र भी उनके संरक्षण में सौंपकर, हे राजन्, पाण्डुपुत्रों ने अपने पवित्र आभूषण तथा यज्ञपात्र वृषपर्वा के आश्रम में ही छोड़ दिए। वे (मुनि) सुविज्ञ, समस्त धर्मों के ज्ञाता, भूत और भविष्य के जानने वाले
24तथा धर्मपरायण थे; उन्होंने उन भरतश्रेष्ठों को अपने ही पुत्रों के समान उपदेश दिया। इस प्रकार उपदेश पाकर वे महात्मा उत्तर दिशा की ओर बढ़े।
25महात्मा वृषपर्वा कुछ दूर तक उनके साथ गए। और फिर उन अदम्य तेज वाले पाण्डवों को ब्राह्मणों के संरक्षण में सौंपकर तथा कुन्ती के उन पुत्रों को उपदेश और आशीर्वाद देकर, जिस मार्ग से उन्हें जाना था उसका निर्देश देकर वृषपर्वा लौट गए।
26तब सत्यपराक्रमी कुन्तीनन्दन युधिष्ठिर नाना प्रकार के पशुओं से बसे हुए उस पर्वतीय मार्ग पर पैदल चलने लगे।
27और बीच-बीच में पर्वतों के ऊपर के उन समतल स्थलों पर ठहरते हुए, जो अनेक वृक्षों से सघन थे, पाण्डव चौथे दिन श्वेत पर्वत पर जा पहुँचे —
28जो विशाल मेघपुंज के समान दिखाई देता था, पवित्र जलधाराओं से भरा हुआ था और रत्नों, स्वर्ण, रजत तथा संगमरमर की राशि से बना था।
29वृषपर्वा के बताए मार्ग का अनुसरण करते हुए वे (अपने मार्ग में) विविध पर्वतों को देखते हुए यात्रा करते रहे।
30पर्वतों पर ऊपर से और ऊपर अनेक दुर्गम गुफाएँ थीं, और वे पर्वत भी उतने ही दुर्गम थे; किन्तु इन समस्त कठिनाइयों के होते हुए भी वे उन्हें प्रसन्नतापूर्वक पार करते गए।
31धौम्य, कृष्णा, पार्थगण तथा महर्षि लोमश — सब बिना किसी थकान के एक साथ चलते रहे (कोई पीछे नहीं छूटा)।
32तब वे महाभाग्यशाली उस पवित्र, परम रमणीय और विशाल मालयवान् पर्वत पर पहुँचे, जो पक्षियों और पशुओं के स्वरों से गूँजता था, अनेक वृक्षों और लताओं से भरा था, वानरों से बसा था और जिसमें कमल-सरोवर, दलदल तथा विशाल वन थे।
33तब रोमांचित होकर उन्होंने अत्यन्त प्रसन्नता से गन्धमादन पर्वत को देखा, जो किम्पुरुषों का निवास है और सिद्धों तथा चारणों से सेवित है,
34जहाँ विद्याधर और किन्नर आते-जाते हैं, जो गजयूथों का निवास है, जो सिंहों और व्याघ्रों से भरा है,
35जो शरभों की गर्जना से गूँजता है और जिसमें अन्य नाना प्रकार के पशु बसते हैं। तब महान् आनन्द के साथ वे वीर पाण्डव धीरे-धीरे गन्धमादन के उस वन में प्रविष्ट हुए, जो नन्दनवन के समान था, मन और हृदय को प्रिय था, मंगलमय था और आश्रय देने में समर्थ था;
36और ज्यों ही वे वीर द्रौपदी तथा उदारचेता ब्राह्मणों के साथ गन्धमादन के उस वन में प्रविष्ट हुए, त्यों ही उन्हें पक्षियों के मुख से निकलने वाले वे अस्फुट स्वर सुनाई देने लगे, जो आनन्ददायक, मधुर, मंगलमय, कर्णप्रिय और मीठे संगीत से भरे थे। और उन्होंने फलों के भार से झुके हुए तथा सब ऋतुओं के पुष्पों से देदीप्यमान अनेक वृक्ष देखे — जैसे आम्र, आम्रातक, भव्य, नारियल, तिन्दुक,
37मुञ्जातक, जीवक, अनार, बीजपूर, पनस, लकुच, कदली, खर्जूर, अम्लवेतस,
38पार्वत, चम्पक और मनोहर कदम्ब, बिल्व, कपित्थ, जम्बू, काश्मरी, बदरी,
39प्लक्ष, उदुम्बर, वट, अश्वत्थ, क्षीरिका, भल्लातक, आमलकी, हरीतकी, विभीतकी,
40इंगुद, करमर्द, तिन्दुक तथा महाफल — ये और गन्धमादन के उस पठार पर उगे हुए अन्य अनेक वृक्ष,
41जो अमृत के समान स्वाद वाले सुस्वादु फलों के गुच्छों से लदे थे। और (इनके अतिरिक्त) उन्होंने चम्पक, अशोक, केतक, बकुल,
42पुन्नाग, सप्तपर्ण, कर्णिकार, पाटल, कुटज तथा मनोहर मन्दार और कमल देखे,
43पारिजात, कोविदार, देवदारु, साल, ताल, तमाल, पिप्पल, हिंगुक,
44शाल्मली, किंशुक, अशोक, शिंशपा और सरल भी। और उन वृक्षों पर चकोर, शतपत्र, भृंगराज, शुक,
45कोकिल, कलविंक, हारीत, जीवजीवक, प्रियक, चातक तथा अन्य नाना प्रकार के पक्षी बसते थे, जो कान को प्रिय लगने वाले मधुर स्वर में कूजते थे। और उन्होंने चारों ओर ऐसे सरोवर भी देखे, जो जलपक्षियों से भरे होने के कारण अत्यन्त सुन्दर लगते थे —
46और जिनमें कुमुद, कमल, कोकनद, उत्पल, कल्हार तथा कमलिनी बिखरे हुए थे,
47और जो कादम्ब, चक्रवाक, कुरर, जलमुर्ग, कारण्डव, प्लव, हंस, सारस, मद्गु
48तथा सब प्रकार के अन्य जलपक्षियों से भरे थे। और उन नरश्रेष्ठों ने गन्धमादन के उस पठार पर ऐसे सरोवर देखे, जो चारों ओर कमलों की पंक्तियों से सुसज्जित थे और उन प्रसन्न भ्रमरों के मधुर गुंजार से गूँजते थे, जो लाल कमलों का मादक मधु पीकर निद्रालु हो गए थे और कमलकोषों से झरते पराग से लाल हो उठे थे।
49और लताकुंजों में उन्होंने वन-प्रिय मयूरों को अपनी मयूरियों के साथ आनन्दमग्न देखा, जो मेघों के तूर्यनाद-सदृश गर्जन से उत्पन्न अत्यधिक मद से उन्मत्त होकर, क्रीड़ाशील और काम से निद्रालु होकर, अपनी सुन्दर पूँछें फैलाए नाच रहे थे और मधुर तथा संगीतमय स्वर में कूज रहे थे। कुछ मयूर लताओं से सघन रूप से आच्छादित कुटज वृक्षों पर बैठकर अपनी प्रियाओं के साथ क्रीड़ा कर रहे थे; कुछ कुटज वृक्षों की शाखाओं पर बैठे और अपनी फैली हुई सुन्दर पूँछों पर गर्वित होकर ऐसे लगते थे मानो वृक्षों के धारण किए हुए अनेक मुकुट हों; और कुछ वृक्षों के कोटरों में बैठे अत्यन्त सुन्दर दिखाई देते थे।
50पर्वतशिखरों पर उन्होंने मनोहर सिन्दुवार वृक्ष देखे, जो कामदेव के बाणों के समान लगते थे, और खिले हुए स्वर्णवर्ण कर्णिकार, जो उत्कृष्ट शिल्प से बने कर्णफूलों के समान प्रतीत होते थे। और गन्धमादन के वनों में उन्होंने खिले हुए कुरबक देखे, जो कामदेव के शरों के समान लगते थे और कामी जनों को और भी अधिक कामातुर बना देते थे। उन्होंने तिलक वृक्ष भी देखे, जो वन के ललाट पर लगाए गए सौन्दर्य-तिलक के समान प्रतीत होते थे। उन्होंने आगे मनोहर सहकार (आम्र) वृक्ष देखे, जिनमें कामदेव के बाणों की-सी शक्ति थी, जो मंजरियों से शोभित थे और जिन पर भ्रमर गुंजार करते थे। पर्वतों के उस पठार पर अनेक वृक्ष उगे थे; उनमें कुछ स्वर्ण के रंग के पुष्प धारण करते थे, कुछ दावानल के रंग के, कुछ लाल, कुछ हरे और कुछ श्याम — वे सब परम सुन्दर लगते थे।
51फिर वहाँ साल, तमाल, पाटल और बकुल की पंक्तियाँ थीं, जो पर्वतशिखरों को अनेक मालाओं के समान घेरे हुए थीं।
52इस प्रकार गन्धमादन के उस पठार पर क्रमशः स्फटिक के समान निर्मल अनेक सरोवरों को देखते हुए, जो श्वेत पंखों वाले हंसों से भरे थे, सारसों के स्वरों से गूँजते थे, कमलों और कुमुदों से सुसज्जित थे और जिनका जल स्पर्श में सुखद था, तथा सुगन्धित पुष्पों और रसीले फलों को, सुन्दर सरोवरों और परम मनोहर वृक्षों को देखते हुए, विस्मय से विस्फारित नेत्रों वाले वे वीर पार्थगण (गन्धमादन के) उस वन में और भीतर प्रविष्ट हुए।
53और चलते-चलते उन पर कमलों, उत्पलों, कल्हारों और पुण्डरीकों से सुवासित शीतल-सुखद वायु के झोंके लगते रहे।
54तब युधिष्ठिर ने भीम से स्नेहपूर्ण वचनों में कहा — "हे भीम, गन्धमादन का यह वन सचमुच परम सुन्दर है!
55इस रमणीय वन में पत्तों, पुष्पों और फलों से लदे हुए विविध उत्तम वन्य वृक्ष और लताएँ हैं।
56यह वन मनोहर पुष्पों और मत्त कोकिलों से सुशोभित है, और इसमें न कोई काँटेदार वृक्ष है, न ही कोई ऐसा वृक्ष जो पुष्पित न होता हो।
57गन्धमादन के इस पठार पर सभी वृक्ष चिकने पत्तों और फलों से युक्त हैं। देखो! पूर्ण खिले कमलों से सुसज्जित और भ्रमरों के गुंजार से मधुर ये कमल-सरोवर किस प्रकार गजों के द्वारा अपनी हथिनियों सहित विक्षुब्ध किए जा रहे हैं! उस दूसरे कमल-सरोवर को देखो, जो कमलों की पंक्ति से सुसज्जित होकर ऐसा लगता है मानो साक्षात् दूसरी श्री हो, जिसके कण्ठ में माला पड़ी हो। इस उत्तम वन में वनश्रेणियाँ हैं, जो विविध पुष्पों की सुगन्ध से समृद्ध हैं और भ्रमरों के गुंजार से गूँजती हैं। हे भीम, चारों ओर देवताओं के इन मंगलमय क्रीड़ास्थलों को देखो!
58हे वृकोदर, यहाँ आ पहुँचने से हमने मानवीय अवस्था से परे की अवस्था प्राप्त कर ली है और हमारी अभिलाषा पूर्ण हो गई है। हे पार्थ, गन्धमादन के इन पठारों पर पुष्पलताओं से आलिंगित वे खिले हुए उत्तम वृक्ष परम मनोहर लगते हैं। हे भीम, पर्वत की ढलानों पर अपनी प्रियाओं के साथ विचरते मयूरों के, तथा चातक, शतपत्र, मत्त कोकिल और सारिकाओं के कूजन को सुनो।
59ये पक्षी इन विशाल पुष्पित वृक्षों पर उतर रहे हैं। हे पार्थ, शाखाओं पर बैठे ये असंख्य जीवजीवक पक्षी — रक्त, पीत और अरुण वर्ण के — एक-दूसरे को निहार रहे हैं। और हरे तथा लाल घास के मैदानों के निकट,
60तथा पर्वतीय जलस्रोत के निकट सारस दिखाई दे रहे हैं और भृंगराज, चकोर तथा बगुले मधुर स्वर निकाल रहे हैं, जो समस्त प्राणियों को आनन्द देते हैं। चार दाँतों वाले और कमल के रंग के गज अपनी हथिनियों के साथ
61नीलमणि के रंग वाले उस विशाल सरोवर को विक्षुब्ध कर रहे हैं। और पर्वतशिखरों से गिरती जलधाराएँ स्रोतों से कई ताड़ वृक्षों जितनी ऊँची उछल रही हैं। और सूर्य के समान तेजस्वी तथा शरत्कालीन मेघपुंज के समान दिखाई देने वाले अनेक रजतवर्ण खनिज इस विशाल पर्वत की शोभा बढ़ा रहे हैं। कहीं अंजन के रंग के खनिज, कहीं स्वर्ण के रंग के, कहीं पीत हरिताल, कहीं सिन्दूर और कहीं सन्ध्याकालीन मेघों के समान लाल मैनसिल की गुफाएँ, कहीं शशक के रंग की गेरु और कहीं श्वेत तथा श्याम मेघों के तथा उदीयमान सूर्य की किरणों के समान खनिज — ये और महान् तेज वाले अन्य अनेक खनिज इस पर्वत की शोभा को अत्यधिक बढ़ा रहे हैं। जैसा वृषपर्वा ने कहा था, गन्धर्व अपनी प्रियाओं के साथ
62और किम्पुरुषों के साथ, हे पार्थ, पर्वत के शिखरों पर दिखाई देते हैं। ठीक ताल में बँधे गीत और सामवेद का गान भी,
63जो समस्त प्राणियों को आनन्ददायक हैं, बार-बार सुनाई पड़ रहे हैं। उस मंगलमय और पवित्र देवनदी महागंगा को देखो,
64जो हंसों से सुशोभित है और जिसकी मुनिगण तथा किन्नर उपासना करते हैं। हे शत्रुतापन, हे कुन्तीनन्दन, इस पर्वतराज को देखो, जिसमें खनिज और निर्झर हैं, किन्नर, मृग और पक्षी हैं, गन्धर्व और अप्सराएँ हैं, तथा रमणीय उद्यान और नाना रूपों वाले सैकड़ों फणों वाले सर्प हैं।"
65वैशम्पायन ने कहा — वे शत्रुतापन वीर द्रौपदी तथा महात्मा ब्राह्मणों के साथ उत्कृष्ट अवस्था को प्राप्त होकर हृदय से अत्यन्त प्रसन्न थे और उस पर्वतराज को (बार-बार) देखकर भी तृप्त नहीं होते थे। तदनन्तर उन्होंने राजर्षि आर्ष्टिषेण का आश्रम देखा, जो पुष्पों तथा फलयुक्त वृक्षों से सुशोभित था। और वे उन उग्र तपस्वी राजर्षि के पास गए, जो समस्त धर्मशास्त्रों के ज्ञाता थे और जिनकी देह केवल हड्डी और नसों की रह गई थी।
Nepali
1वैशम्पायनले भने — त्यो राक्षस मारिएपछि कुन्तीका राजपुत्र भगवान् राजा युधिष्ठिर नारायणको आश्रममा फर्केर त्यहीँ निवास गर्न थाले।
2एक दिन (आश्रममा बस्दा) उनले (युधिष्ठिरले) जय (अर्जुन)को सम्झना गरेर आफ्ना सम्पूर्ण भाइहरू तथा द्रौपदीलाई आफ्नो नजिक बोलाएर उनीहरूलाई यसरी भने —
3"हामी यी चार वर्षसम्म वनहरूमा शान्तिपूर्वक विचरण गर्दै रह्यौँ। विभत्सु (अर्जुन)द्वारा यो निश्चय गरिएको थियो कि पाँचौँ वर्षमा
4उनी त्यो पर्वतश्रेष्ठ श्वेत (कैलास)मा आउनेछन्, जो सम्पूर्ण शिखरहरूमा उत्तम छ, जहाँ निरन्तर उत्सवको छटा रहन्छ, जो फुलेका लहरा-रूखहरूले, कोइलीहरूले र आनन्दले भरिएका भमराहरूले शोभित छ,
5तथा मयूर र चातकहरूले; र जो बाघ, बँदेल, अर्ना, गवय तथा मृगहरूले भरिएको छ,
6तथा सबै प्रकारका हिंस्रक पशु र रुरु मृगहरूले; र जो हजार तथा सय पत्र भएका पूरै फुलेका कमलहरूले सुसज्जित छ,
7र फुलेका कुमुद तथा नीलकमलहरूले (उज्ज्वल) छ; जो पवित्र, निर्मल तथा सुर (देवता) र असुर (दानव)हरूले सेवित छ।
8र हामीले पनि उनीसँग भेट्ने तीव्र उत्कण्ठाले त्यहाँ जाने वचन दिएका थियौँ। अतुल पराक्रम भएका पार्थद्वारा यो निश्चित गरिएको थियो
9कि उनी सम्पूर्ण युद्धकौशल सिक्न पाँच वर्षसम्म देवलोकमा रहनेछन्। हामी त्यस स्थानमा (श्वेत पर्वतमा) गाण्डीवधारी, शत्रुहरूका त्रासक ती (अर्जुन)लाई देख्नेछौँ, जो देवताहरूको धामबाट (उनीहरूबाट प्राप्त) अस्त्रहरूले समृद्ध भई हाम्रो लोकमा फर्किरहेका हुनेछन्।" पाण्डुनन्दन युधिष्ठिरले यसरी आफ्नो मत प्रकट गरेर एकत्रित ब्राह्मणहरूलाई अभिवादन गरे।
10र प्रदक्षिणा गरेर ती उग्र तपस्वी मुनिहरूलाई प्रसन्न पारेर उनले उनीहरूलाई माथि भनिएको कुरा सुनाए।
11तब ब्राह्मणहरूले मङ्गल र समृद्धि सूचित गर्ने शब्दहरूमा त्यो प्रस्तावको अनुमोदन गरे र भने — "हे भरतश्रेष्ठ, यी कष्टहरू चाँडै नै समृद्धिमा परिणत हुनेछन्।
12हे धर्मात्मन्, यी सम्पूर्ण कठिनाइ पार गरेर तपाईंले क्षत्रियहरूद्वारा आचरित धर्म-विधानले पृथ्वीको शासन गर्नुहुनेछ।" तब राजा युधिष्ठिरले ती तपस्वीहरूका यी वचनलाई प्रणाम गरे,
13र आफ्ना भाइहरू तथा ती ब्राह्मणहरूसँग (श्वेत पर्वततर्फ) हिँडे, जसका पछाडि राक्षसहरू थिए र जसको रक्षा लोमशले गरिरहेका थिए।
14अतुल तेजस्वी र पवित्र व्रत भएका ती (युधिष्ठिर) कतैकतै आफ्ना भाइहरूसँग पैदल हिँड्थे र कतैकतै राक्षसहरूले उनलाई बोकेर लैजान्थे।
15तब अनेक कष्टको आशङ्का गर्दै राजा युधिष्ठिर सिंह, बाघ र हात्तीहरूले भरिएको उत्तर दिशातर्फ बढे।
16कैलास र मैनाक पर्वतलाई, गन्धमादन पर्वतको फेदलाई तथा श्वेत नामक शैलशिखरलाई हेर्दै,
17र त्यो पर्वतबाट निस्कने एकमाथि अर्को गरी अनेक पवित्र धाराहरू हेर्दै उनीहरू सत्रौँ दिनमा हिमालयको पवित्र पठारमा चढे।
18तब हे राजन्, गन्धमादन पर्वतको छेउमा र विविध प्रकारका रूख तथा लहराले सुसज्जित हिमालयको त्यो पवित्र पठारमा पाण्डवहरूले वृषपर्वाको अत्यन्त पवित्र आश्रम देखे, जो जलधाराका नजिक उम्रेका फुलेका रूखहरूले घेरिएको थियो।
19शत्रुतापन पाण्डवहरूले थकान हटेपछि राजर्षि वृषपर्वाकहाँ गएर उनलाई प्रणाम गरे।
20ती राजर्षिले पनि ती भरतश्रेष्ठहरूको यस्तो स्वागत गरे मानौँ उनीहरू उनकै आफ्ना छोरा हुन्। यसरी सत्कार पाएर ती शत्रुतापनहरू त्यहाँ सात रात बसे।
21आठौँ दिन विश्वविख्यात ती राजर्षिको अभिवादन गरेर उनीहरूले आफ्नो यात्रामा हिँड्ने इच्छा प्रकट गरे।
22र उचित समयमा ती ब्राह्मणहरूलाई वृषपर्वाको हातमा सुम्पेर, जसको उनैले सम्मान गर्थे र जो मित्रका रूपमा उनको संरक्षणमा रहेका थिए,
23तथा आफ्ना बाँकी वस्त्र पनि उनकै संरक्षणमा सुम्पेर, हे राजन्, पाण्डुपुत्रहरूले आफ्ना पवित्र आभूषण तथा यज्ञपात्र वृषपर्वाकै आश्रममा छाडिदिए। ती (मुनि) सुविज्ञ, सम्पूर्ण धर्मका ज्ञाता, भूत र भविष्य जान्ने
24तथा धर्मपरायण थिए; उनले ती भरतश्रेष्ठहरूलाई आफ्नै छोराहरूजस्तै उपदेश दिए। यसरी उपदेश पाएर ती महात्माहरू उत्तर दिशातर्फ बढे।
25महात्मा वृषपर्वा केही टाढासम्म उनीहरूसँगै गए। र फेरि ती अदम्य तेज भएका पाण्डवहरूलाई ब्राह्मणहरूको संरक्षणमा सुम्पेर तथा कुन्तीका ती छोराहरूलाई उपदेश र आशीर्वाद दिएर, जुन बाटो उनीहरूले जानुपर्थ्यो त्यसको निर्देश दिएर वृषपर्वा फर्के।
26तब सत्यपराक्रमी कुन्तीनन्दन युधिष्ठिर नानाथरीका पशुहरूले भरिएको त्यो पर्वतीय बाटोमा पैदल हिँड्न थाले।
27र बीचबीचमा पर्वतमाथिका ती समतल स्थलहरूमा बस्दै, जो अनेक रूखले सघन थिए, पाण्डवहरू चौथो दिन श्वेत पर्वतमा पुगे —
28जो विशाल मेघपुञ्जजस्तै देखिन्थ्यो, पवित्र जलधाराले भरिएको थियो र रत्न, सुन, चाँदी तथा संगमरमरको राशिले बनेको थियो।
29वृषपर्वाले बताएको बाटो पछ्याउँदै उनीहरू (आफ्नो बाटोमा) विविध पर्वतहरू हेर्दै यात्रा गरिरहे।
30पर्वतहरूमा माथिबाट अझ माथि अनेक दुर्गम गुफाहरू थिए, र ती पर्वतहरू पनि त्यत्तिकै दुर्गम थिए; तर यी सम्पूर्ण कठिनाइ हुँदाहुँदै पनि उनीहरूले तिनलाई प्रसन्नतापूर्वक पार गर्दै गए।
31धौम्य, कृष्णा, पार्थगण तथा महर्षि लोमश — सबै कुनै थकानविना सँगै हिँडिरहे (कोही पछाडि परेनन्)।
32तब ती महाभाग्यशालीहरू त्यो पवित्र, परम रमणीय र विशाल मालयवान् पर्वतमा पुगे, जो पक्षी र पशुहरूका स्वरले गुञ्जिन्थ्यो, अनेक रूख र लहराले भरिएको थियो, वानरहरूले बसेको थियो र जसमा कमल-सरोवर, सिमसार तथा विशाल वनहरू थिए।
33तब रोमाञ्चित भई उनीहरूले अत्यन्त प्रसन्नताका साथ गन्धमादन पर्वत हेरे, जो किम्पुरुषहरूको निवास हो र सिद्ध तथा चारणहरूले सेवित छ,
34जहाँ विद्याधर र किन्नरहरू आउजाउ गर्छन्, जो गजयूथहरूको निवास हो, जो सिंह र बाघहरूले भरिएको छ,
35जो शरभहरूको गर्जनले गुञ्जिन्छ र जसमा अन्य नानाथरीका पशुहरू बस्छन्। तब महान् आनन्दका साथ ती वीर पाण्डवहरू बिस्तारै गन्धमादनको त्यो वनमा प्रविष्ट भए, जो नन्दनवनजस्तै थियो, मन र हृदयलाई प्रिय थियो, मङ्गलमय थियो र आश्रय दिन समर्थ थियो;
36र जब ती वीरहरू द्रौपदी तथा उदारचेता ब्राह्मणहरूसँग गन्धमादनको त्यो वनमा प्रविष्ट भए, तब उनीहरूले पक्षीहरूको मुखबाट निस्कने ती अस्फुट स्वर सुन्न थाले, जो आनन्ददायक, मधुर, मङ्गलमय, कर्णप्रिय र मीठो सङ्गीतले भरिएका थिए। र उनीहरूले फलको भारले निहुरिएका तथा सबै ऋतुका पुष्पले देदीप्यमान अनेक रूख देखे — जस्तै आँप, आम्रातक, भव्य, नरिवल, तिन्दुक,
37मुञ्जातक, जीवक, अनार, बीजपूर, रुखकटहर, लकुच, केरा, खर्जुर, अम्लवेतस,
38पार्वत, चम्पक र मनोहर कदम्ब, बेल, कपित्थ, जामुन, काश्मरी, बदरी,
39प्लक्ष, उदुम्बर, वट, अश्वत्थ, क्षीरिका, भल्लातक, अमला, हर्रो, बर्रो,
40इङ्गुद, करमर्द, तिन्दुक तथा महाफल — यी र गन्धमादनको त्यो पठारमा उम्रेका अन्य अनेक रूखहरू,
41जो अमृतजस्तै स्वाद भएका सुस्वादु फलका झुप्पाहरूले लटकिएका थिए। र (यीबाहेक) उनीहरूले चम्पक, अशोक, केतकी, बकुल,
42पुन्नाग, सप्तपर्ण, कर्णिकार, पाटल, कुटज तथा मनोहर मन्दार र कमल देखे,
43पारिजात, कोविदार, देवदारु, साल, ताल, तमाल, पिप्पल, हिङ्गुक,
44शाल्मली, किंशुक, अशोक, शिंशपा र सरल पनि। र ती रूखहरूमा चकोर, शतपत्र, भृङ्गराज, सुगा,
45कोइली, कलविङ्क, हारीत, जीवजीवक, प्रियक, चातक तथा अन्य नानाथरीका पक्षीहरू बस्थे, जो कानलाई प्रिय लाग्ने मधुर स्वरमा कुहुकुहु गर्थे। र उनीहरूले चारैतिर यस्ता सरोवर पनि देखे, जो जलपक्षीहरूले भरिएका कारण अत्यन्त सुन्दर लाग्थे —
46र जसमा कुमुद, कमल, कोकनद, उत्पल, कल्हार तथा कमलिनी छरिएका थिए,
47र जो कादम्ब, चक्रवाक, कुरर, जलकुखुरा, कारण्डव, प्लव, हंस, सारस, मद्गु
48तथा सबै प्रकारका अन्य जलपक्षीले भरिएका थिए। र ती नरश्रेष्ठहरूले गन्धमादनको त्यो पठारमा यस्ता सरोवर देखे, जो चारैतिर कमलका पङ्क्तिले सुसज्जित थिए र ती प्रसन्न भमराहरूको मधुर गुञ्जनले गुञ्जिन्थे, जो रातो कमलको मादक मह पिएर निद्रालु भएका थिए र कमलकोषबाट झर्ने परागले रातो भएका थिए।
49र लताकुञ्जहरूमा उनीहरूले वनप्रिय मयूरहरूलाई आफ्ना मयूरीहरूसँग आनन्दमग्न देखे, जो मेघको तुरही-जस्तो गर्जनले उत्पन्न अत्यधिक मदले उन्मत्त भई, क्रीडाशील र कामले निद्रालु भई, आफ्ना सुन्दर पुच्छर फैलाएर नाचिरहेका थिए र मधुर तथा सङ्गीतमय स्वरमा कुहुकुहु गरिरहेका थिए। केही मयूरहरू लहराले सघन रूपमा छोपिएका कुटज रूखहरूमा बसेर आफ्ना प्रियासँग क्रीडा गरिरहेका थिए; केही कुटज रूखका हाँगामा बसेर र आफ्ना फैलिएका सुन्दर पुच्छरमा गर्वित भई यस्तो देखिन्थे मानौँ रूखहरूले धारण गरेका अनेक मुकुट हुन्; र केही रूखका दुलामा बसेका अत्यन्त सुन्दर देखिन्थे।
50पर्वतशिखरहरूमा उनीहरूले मनोहर सिन्दुवार रूखहरू देखे, जो कामदेवका बाणजस्तै लाग्थे, र फुलेका स्वर्णवर्ण कर्णिकार, जो उत्कृष्ट शिल्पले बनेका कर्णफूलजस्तै देखिन्थे। र गन्धमादनका वनहरूमा उनीहरूले फुलेका कुरबक देखे, जो कामदेवका शरजस्तै लाग्थे र कामी जनहरूलाई अझ बढी कामातुर बनाइदिन्थे। उनीहरूले तिलक रूखहरू पनि देखे, जो वनको निधारमा लगाइएको सौन्दर्य-तिलकजस्तै देखिन्थे। उनीहरूले अझ अगाडि मनोहर सहकार (आँप) रूखहरू देखे, जसमा कामदेवका बाणकै शक्ति थियो, जो मञ्जरीले शोभित थिए र जसमा भमराहरू गुञ्जन गर्थे। पर्वतको त्यो पठारमा अनेक रूख उम्रेका थिए; तीमध्ये कतिपयले सुनको रङका पुष्प धारण गर्थे, कतिपयले दावानलको रङका, कतिपय रातो, कतिपय हरियो र कतिपय श्याम — ती सबै परम सुन्दर लाग्थे।
51फेरि त्यहाँ साल, तमाल, पाटल र बकुलका पङ्क्तिहरू थिए, जसले पर्वतशिखरहरूलाई अनेक मालाजस्तै घेरेका थिए।
52यसरी गन्धमादनको त्यो पठारमा क्रमशः स्फटिकजस्तै निर्मल अनेक सरोवरहरू हेर्दै, जो सेता प्वाँख भएका हंसहरूले भरिएका थिए, सारसहरूका स्वरले गुञ्जिन्थे, कमल र कुमुदले सुसज्जित थिए र जसको पानी स्पर्शमा सुखद थियो, तथा सुगन्धित पुष्प र रसिला फलहरू, सुन्दर सरोवर र परम मनोहर रूखहरू हेर्दै, विस्मयले विस्फारित नेत्र भएका ती वीर पार्थगण (गन्धमादनको) त्यो वनभित्र अझ भित्र प्रविष्ट भए।
53र हिँड्दाहिँड्दै उनीहरूमाथि कमल, उत्पल, कल्हार र पुण्डरीकले सुवासित शीतल-सुखद बतासका झोक्का लागिरहे।
54तब युधिष्ठिरले भीमलाई स्नेहपूर्ण वचनमा भने — "हे भीम, गन्धमादनको यो वन साँच्चै परम सुन्दर छ!
55यो रमणीय वनमा पात, पुष्प र फलले लटकिएका विविध उत्तम वन्य रूख र लहराहरू छन्।
56यो वन मनोहर पुष्प र मात्तिएका कोइलीहरूले सुशोभित छ, र यसमा न कुनै काँडेदार रूख छ, न त कुनै यस्तो रूख छ जो नफुल्ने होस्।
57गन्धमादनको यो पठारमा सबै रूख चिल्ला पात र फलले युक्त छन्। हेर! पूरै फुलेका कमलले सुसज्जित र भमराहरूको गुञ्जनले मधुर यी कमल-सरोवर कसरी हात्तीहरूद्वारा आफ्ना हात्तिनीसहित विक्षुब्ध पारिँदै छन्! त्यो अर्को कमल-सरोवर हेर, जो कमलको पङ्क्तिले सुसज्जित भई यस्तो लाग्छ मानौँ साक्षात् दोस्री श्री हुन्, जसको घाँटीमा माला परेको होस्। यो उत्तम वनमा वनश्रेणीहरू छन्, जो विविध पुष्पको सुगन्धले समृद्ध छन् र भमराहरूको गुञ्जनले गुञ्जिन्छन्। हे भीम, चारैतिर देवताहरूका यी मङ्गलमय क्रीडास्थलहरू हेर!
58हे वृकोदर, यहाँ आइपुगेर हामीले मानवीय अवस्थाभन्दा परको अवस्था प्राप्त गरिसकेका छौँ र हाम्रो अभिलाषा पूर्ण भएको छ। हे पार्थ, गन्धमादनका यी पठारमा पुष्पलताले अङ्गालिएका ती फुलेका उत्तम रूखहरू परम मनोहर लाग्छन्। हे भीम, पर्वतका ढलानहरूमा आफ्ना प्रियासँग विचरण गर्ने मयूरहरूको, तथा चातक, शतपत्र, मात्तिएका कोइली र सारिकाहरूको कुजन सुन।
59यी पक्षीहरू यी विशाल फुलेका रूखहरूमा ओर्लिरहेका छन्। हे पार्थ, हाँगाहरूमा बसेका यी असङ्ख्य जीवजीवक पक्षी — रातो, पहेँलो र अरुण वर्णका — एकअर्कालाई हेरिरहेका छन्। र हरिया तथा राता घाँसे मैदानका नजिक,
60तथा पर्वतीय जलस्रोतको नजिक सारसहरू देखिँदै छन् र भृङ्गराज, चकोर तथा बकुल्लाहरू मधुर स्वर निकालिरहेका छन्, जसले सम्पूर्ण प्राणीलाई आनन्द दिन्छन्। चार दाँत भएका र कमलको रङका हात्तीहरू आफ्ना हात्तिनीसँग
61नीलमणिको रङ भएको त्यो विशाल सरोवरलाई विक्षुब्ध पारिरहेका छन्। र पर्वतशिखरहरूबाट झर्ने जलधाराहरू स्रोतबाट कैयौँ ताल रूखजति अग्लो उफ्रिरहेका छन्। र सूर्यजस्तै तेजस्वी तथा शरत्कालीन मेघपुञ्जजस्तै देखिने अनेक रजतवर्ण खनिजले यो विशाल पर्वतको शोभा बढाइरहेका छन्। कतै अञ्जनको रङका खनिज, कतै सुनको रङका, कतै पहेँलो हरिताल, कतै सिन्दूर र कतै साँझका मेघजस्तै रातो मैनसिलका गुफा, कतै खरायोको रङको गेरु र कतै सेता तथा श्याम मेघका र उदाउँदो सूर्यका किरणजस्ता खनिज — यी र महान् तेज भएका अन्य अनेक खनिजले यो पर्वतको शोभा अत्यधिक बढाइरहेका छन्। जस्तो वृषपर्वाले भनेका थिए, गन्धर्वहरू आफ्ना प्रियासँग
62र किम्पुरुषहरूसँगै, हे पार्थ, पर्वतका शिखरहरूमा देखिन्छन्। ठिक तालमा बाँधिएका गीत र सामवेदको गान पनि,
63जो सम्पूर्ण प्राणीलाई आनन्ददायक छन्, बारम्बार सुनिँदै छन्। त्यो मङ्गलमय र पवित्र देवनदी महागङ्गालाई हेर,
64जो हंसहरूले सुशोभित छ र जसको मुनिगण तथा किन्नरहरूले उपासना गर्छन्। हे शत्रुतापन, हे कुन्तीनन्दन, यो पर्वतराजलाई हेर, जसमा खनिज र झरनाहरू छन्, किन्नर, मृग र पक्षीहरू छन्, गन्धर्व र अप्सराहरू छन्, तथा रमणीय उद्यान र नाना रूपका सयौँ फणा भएका सर्पहरू छन्।"
65वैशम्पायनले भने — ती शत्रुतापन वीरहरू द्रौपदी तथा महात्मा ब्राह्मणहरूसँग उत्कृष्ट अवस्था प्राप्त गरेर हृदयदेखि अत्यन्त प्रसन्न थिए र त्यो पर्वतराजलाई (बारम्बार) हेर्दा पनि तृप्त हुँदैनथे। त्यसपछि उनीहरूले राजर्षि आर्ष्टिषेणको आश्रम देखे, जो पुष्प तथा फलयुक्त रूखहरूले सुशोभित थियो। र उनीहरू ती उग्र तपस्वी राजर्षिकहाँ गए, जो सम्पूर्ण धर्मशास्त्रका ज्ञाता थिए र जसको देह केवल हाड र नसाको मात्र बाँकी थियो।