द्रोण-वध पर्व — द्रोणको वध
खण्ड 5 — द्रोण पर्व · अध्याय 193
संस्कृत
1संजय उवाच सात्वतस्य तु तत् कर्म दृष्ट्वा दुर्योधनादयः। शैनेयं सर्वतः क्रुद्धा वारयामासुरञ्जसा॥
2कृपकर्णौ च समरे पुत्राश्च तव मारिष। शैनेयं त्वरयाभ्येत्य विनिघ्नन् निशितैः शरैः॥
3युधिष्ठिरस्ततो राजा माद्रीपुत्रौ च पाण्डवौ। भीमसेनश्च बलवान् सात्यकि पर्यवारयन्॥
4कर्णश्च शरवर्षेण गौतमश्च महारथः। दुर्योधनादयस्ते च शैनेयं पर्यवारयन्॥
5तां वृष्टिं सहसा राजन्नुत्थितां घोररूपिणीम्। वारयामास शैनेयो योधयंस्तान् महारथान्॥
6तेषामस्राणि दिव्यानि संहितानि महात्मनाम्। वारयामास विधिवद् दिव्यैरस्त्रैर्महामृधे॥
7क्रूरमायोधनं जज्ञे तस्मिन् राजसमागमे। रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तान् पशून् पुरा॥
8हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत।
9छत्राणां चापविद्धानां चामराणां च संचयैः॥ राशयः स्म व्यदृश्यन्त तत्र तत्र रणाजिरे। भग्नचकै रथैश्चापि पातितैश्च महाध्वजैः॥
10सादिभिश्च हतैः शूरैः संकीर्णा वसुधाभवत्। बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम॥
11चेष्टन्तो विविधाचेष्टा व्यदृश्यन्त महाहवे। वर्तमाने तथा युद्धे घोरे देवासुरोपमे॥
12अब्रवीत् क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः। अभिद्रवत संयत्ताः कुम्भयोनि महारथाः॥
13एषो हि पार्षतो वीरो भारद्वाजेन संगतः। घटते च यथाशक्ति भारद्वाजस्य नाशने॥
14यादृशानि हि रूपाणि दृश्यन्तेऽस्य महारणे। अद्य द्रोणं रणे क्रुद्धो घातयिष्यति पार्षतः॥
15ते यूयं सहिता भूत्वा युध्यध्वं कुम्भसम्भवम्। युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः॥
16अभ्यद्रवन्त संयत्ता भारद्वाजजिघांसवः। तान् समापततः सर्वान् भारद्वाजो महारथः॥ अभ्यवर्तत वेगेन मर्तव्यमिति निश्चितः। प्रयाते सत्यसंधे तु समकम्पत मेदिनी॥
17ववुर्वाताः सनिर्घातास्रासयाना वरूथिनीम्। पपात महती चोल्का आदित्यानिश्चरन्त्युत॥
18दीपयन्ती उभे सेने शंसन्तीव महद् भयम्। जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष॥
19रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन्। हतौजा इव चाप्यासीद् भारद्वाजो महारथः॥
20प्रास्फुरन्नयनं चास्य वाम बाहुस्तथैव च। विमनाश्चाभवद् युद्धे दृष्ट्वा पार्षतमग्रतः॥
21ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति। सुयुद्धेन ततः प्राणानुत्स्रष्टमुपचक्रमे॥
22ततश्चतुर्दिशं सैन्यैर्दुपदस्याभिसंवृतः। निर्दहन् क्षत्रियव्रातान् द्रोणः पर्यचरद् रणे॥
23हत्वा विंशतिसाहस्रान् क्षत्रियानरिमर्दनः। दशायुतानि करिणामवधीद् विशिखैः शितैः॥
24सोऽतिष्ठदाहवे यत्तो विधूमोऽग्निरिव ज्वलन्। क्षत्रियाणामभावाय ब्राह्ममस्रं समास्थितः॥
25पाञ्चाल्यं विरथं भीमो हतसर्वायुधं बली। सुविषण्णं महात्मानं त्वरमाणः समभ्ययात्॥
26ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः। अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकाम्॥
27न त्वदन्य इहाचार्यं योद्धमुत्सहते पुमान्। त्वरख प्राग् वधायैव त्वयि भारः समाहितः॥
28स तथोक्तो महाबाहुः सर्वभारसहं धनुः। अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम्॥
29संरब्धश्च शरानस्यन् द्रोणं दुर्वारणं रणे। विवारयिषुराचार्यं शरवर्षैरवाकिरत्॥
30तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ। उदीरयेतां ब्राह्माणि दिव्यान्यस्राण्यनेकशः॥
31स महास्त्रैर्महाराज द्रोणमाच्छादयद् रणे। निहत्य सर्वाण्यस्राणि भारद्वाजस्य पार्षतः॥
32सवसातीशिबींश्चैव बाह्रीकान् कौरवानपि। रक्षिष्यमाणान् संग्रामे द्रोणं व्यधमदच्युतः॥
33धृष्टद्युम्नस्तथा राजन् गभस्तिभिरिवांशुमान्। बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः॥
34तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः। मर्माण्यभ्यहनद् भूयः स व्यथां परमामगात्॥
35ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम्। शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत्॥
36यदि नाम न युध्येरशिक्षिता ब्रह्मबन्धवः। स्वकर्मभिरसंतुष्टा न स्म क्षत्रं क्षयं व्रजेत्॥
37अहिंसां सर्वभूतेषु धर्म ज्यायस्तरं विदुः। तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः॥
38श्वपाकवम्लेच्छगणान् हत्वा चान्याद् पृथग्विधान्। अज्ञानान्मूढवद् ब्रह्मन् पुत्रदारधनेप्सया॥ एकस्यार्थे बहून् हत्वा पुत्रस्याधर्मविद्यया। स्वकर्मस्थान् विकर्मस्थो न व्यपत्रसे कथम्॥
39यस्यार्थे शस्त्रमादाय यमपेक्ष्य च जीवसि। च साद्य पतितः शेते पृष्ठे नावेदितस्तव॥
40धर्मराजस्य तद् वाक्यं नाभिशङ्कितुमर्हसि। एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद् धनुः॥
41सर्वाण्यत्राणि धर्मात्मा हातुकामोऽभ्यभाषत। कर्ण कर्ण महेष्वास कृप दुर्योधनेति च॥
42संग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः। पाण्डवेभ्य: शिवं वोऽस्तु शस्रमभ्युत्सृजाम्यहम्॥
43इति तत्र महाराज प्राक्रोशद् द्रौणिमेव च। उत्सृज्य च रणे शस्त्रं रथोपस्थे निविश्य च॥
44अभयं सर्वभूतानां प्रददौ योगमीयिवान्। तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः प्रतापवान्॥
45सशरं तद् धनुर्घोरं संन्यस्याथ रथे ततः। खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात्॥
46हाहाकृतानि भूतानि मानुषाणीतराणि च। द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम्॥
47हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन्। द्रोणोऽपि शस्त्राण्युत्सृज्य परमं सांख्यमास्थितः॥
48तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः। पुराणं पुरुषं विष्णुं जगाम मनसा परम्॥
49मुखं किंचित् समुन्नाम्य विष्टभ्य उरमग्रतः। निमीलिताक्षः सत्त्वस्थो निक्षिप्य हृदि धारणाम्॥
50ओमित्येकाक्षरं ब्रह्म ज्योतिर्भूतो महातपाः। स्मरित्वा देवदेवेशमक्षरं परमं प्रभुम्॥
51दिवमाक्रामदाचार्यः साक्षात् सद्भिर्द्धराक्रमाम्। द्वौ सूर्याविति नो बुद्धिरासीत् तस्मिस्तथागते॥
52एकाग्रमिव चासीच ज्योतिर्भिः पूरितं नमः। समपद्यत चार्काभे भारद्वाजदिवाकरे॥
53निमेषमात्रेण च तज्जयोतिरन्तरधीयत। आसीत् किलकिलाशब्दः प्रहृष्टानां दिवौकसाम्॥
54ब्रह्मलोकगते द्रोणे धृष्टद्युम्ने च मोहिते। वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः॥
55योगयुक्तं महात्मानं गच्छन्तं परमां गतिम्। अहं धनंजयः पार्थो कृपः शारद्वतस्तथा॥
56वासुदेवश्च वार्ष्णेयो धर्मपुत्रश्च पाण्डवः। अन्ये त सर्वे नापश्यन् भारद्वाजस्य धीमतः॥ महिमानं महाराज योगयुक्तस्य गच्छतः। ब्रह्मलोकं महद् दिव्यं देवगुह्यं हि तत् परम्॥
57गतिं परमिकां प्राप्तमजानन्तो नृयोनयः। नापश्यन् गच्छमानं हि तं सार्धमृषिपुङ्गवैः॥ आचार्यं योगमास्थाय ब्रह्मलोकमरिंदमम्। वितुन्नाङ्गं शरव्रातैस्तायुधमसृकक्षरम्॥
58धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत्। तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः॥
59किंचिद्रब्रुवतः कायाद् विचकर्तासिना शिरः। हर्षेण महता युक्तो भारद्वाजे निपातिते॥
60सिंहनादरवं चक्रे भ्रामयन् खङ्गमाहवे। आकर्णपलितः श्यामो वयसाशीतिपञ्चकः॥
61त्वत्कृते व्यचरत् संख्ये स तु षोडशवर्षवत्। उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनंजयः॥
62जीवन्तमानयाचार्य मा वधी?पदात्मजा न हन्तव्यो न हन्तव्य इति ते सैनिकाच ह॥
63उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाव्रजत्। क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः॥
64धृष्टद्युम्नोऽवधीद् द्रोणं रथतल्पे नरर्षभम्। शोणितेन परिक्लिन्नो रथाद् भूमिमथापतत्॥ लोहिताङ्ग इवादित्यो दुर्धर्षः समपद्यता एवं तं निहतं संख्ये ददृशे सैनिको जनः॥
65धृष्टद्युम्नस्तु तद् राजन् भारद्वाजशिरोऽहरत्। तावकानां महेष्वासः प्रमुखे तत् समाक्षिपत्॥
66ते तु दृष्ट्वा शिरो राजन् भारद्वाजस्य तावकाः। पलायनकृतोत्साहा दुद्रुवुः सर्वतो दिशम्॥
67द्रोणस्तु दिवमास्थाय नक्षत्रमथमाविशत्। अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप॥
68ऋषेः प्रसादात् कृष्णस्य सत्यवत्याः सुतस्य च। विधूमामिह संयान्तीमुल्कां प्रज्वलितामिव॥ अपश्याम दिवं स्तब्वा गच्छन्तं तं महाद्युतिम्। हते द्रोणे निरुत्साहान् कुरून् पाण्डवसृञ्जयाः॥
69अभ्यद्रवन् महावेगास्ततः सैन्यं व्यदीर्यत। निहता हतभूयिष्ठाः संग्रामे निशितैः शरैः॥
70तावका निहते द्रोणे गतासव इवाभवन्। पराजयमथावाप्य परत्र च महद् भयम्॥
71उभयेनैव ते हीना नाविन्दन् धृतिमात्मनः। अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः॥
72नान्वगच्छन् महाराज कबन्धायुतसंकुले। पाण्डवास्तु जयं लब्ध्वा परत्र च महद् यशः॥
73बाणशङ्खरवांश्चक्रुः सिंहनादांश्च पुष्कलान्। भीमसेनस्ततो राजन् धृष्टद्युम्नश्च पार्षतः॥
74वरूथिन्यामनृत्येतां परिष्वज्य परस्परम्। अब्रवीच तदा भीमः पार्षतं शत्रुतापनम्॥
75भूयोऽहं त्वां विजयिनं परिष्वज्यामि पार्षत। सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे॥
76एतावदुक्त्वा भीमस्तु हर्षेण महता युतः। बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः॥
77तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि। क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः॥
78पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन् विशाम्पते। अरिक्षयं च संग्रामे तेन ते सुखमाप्नुवन्॥
अङ्ग्रेजी
1Sanjaya said Then beholding those feats of that one of the Satvata race, Duryodhana and others, filled with rage, quickly encompassed the grandson of Shini on all sides.
2Kripa and Karma and your sons, O sire, quickly assailing Shini's grandson in the battle, began to pierce him with sharp arrows.
3Thereupon king Yudhishthira, the two sons of Madri begotten by Pandu and the mighty Bhimasena rushed to protect him of the Satvata race.
4Karna and the son of Gotama, that mighty car-warrior and Duryodhana and others, then covered Shini's grandson with their shafts.
5Then fighting, O king, (fearlessly) on with those warriors, that scion of Shini's race checked that awful shower of pouring arrows which had been begun so suddenly.
6In that great battle, with his various celestial weapons, he duly baffled the celestial weapons of his high-souled opponents, that were aimed at him.
7The field of battle looked dreadful during the progress of that encounter between royal con batants and if resembled the scene of of the field where in days of yore Rudra, filled with rage, had slaughtered all creatures.
8Human arms and heads and bows and torn umbrellas and chamaras, O Bharata.
9Where seen in heaps on that field of battle. With broken-wheeled cars, with fallen arms.
10And with heroic horsemen lying slain, the earth became impassable. O foremost of the Kurus, the warriors lacerated with the falling shafts.
11Were seen to roll in various movements on the ground in that great battle. During the progress of that terrible battle resembling that between the Gods and the Asuras in days of yore.
12The very virtuous king Yudhishthira addressing the Kshatriyas said-"You mighty car-warriors, rush unitedly upon the pot-born Drona.
13Yonder is the heroic son of Prisata engaged with the son of Bharadvaja; he is trying to the best of his endeavours to encompass the death of Drona.
14Judging from the appearances of his mighty battle, it may be inferred that filled with rage the son of Prisata will today over-throw in battle the son of Bharadvaja.
15Therefore do you unitedly rush upon the pot-born Drona. Thus commanded by Yudhishthira, the mighty car-warriors of the Srinjayas.
16Impelled by a desire for slaying the son of Bharadvaja, assailed him. The mighty carwarrior the son of Bharadvaja, then received those advancing hosts in fury, knowing death to be inevitable. When Drona of unfailing aim thus advanced, the earth began to tremble.
17Fierce winds began to blow filling the troops of the enemy with fear. Mighty meteors began to drop down, seeming to issue out of the solar disc.
18In their fall they illumined the welkin and foreboded great danger. O sire, the weapons of Bharadvaja's son began to blaze forth.
19Cars emitted loud clatters and horses began to shed tears. The mighty car-warrior Drona the son of Bhardvaja, appeared to be devoid of his energy.
20His eyes and his left arms began to tremble. And beholding Prishata's son before him, he became cheerless.
21Coincide to this a memory to take a departure in the abode of Brahma as stated by Rishis, well-known to Brahman, decided to abandon leave their lives through fighting in the battle field with chivalry.
22Then desirous of the compass were covered with the troops of Drupada's son. Consuming hosts of Kshatriyas Drona then careered on the field of battle. care
23Then that crusher of foes having slain twenty thousand Kshatriyas, slew another hundred thousands with whetted shafts of keen points.
24Then exerting himself with he remained in the battle-field and appeared like a blazing fire without even a curl of smoke. For the destruction of the Kshatriyas. he then grasped the Brahma weapons.
25Then the self-controlled Bhima beholding the prince of the Panchalas carless and weaponless, quickly rushed to the rescue of that high-souled warrior.
26Then beholding the prince of the Panchalas strike Drona from a near point Bhima, that subduer of foes, took him up on his car and
27Except yourself there is none who can fight with the preceptor in such close quarters; therefore be quick in compassing his slaughter, inasmuch as the burden rests wholly on you.
28Thus spoken to by Bhima, the mightyarmed Dhristadyumna, quickly took up a strong and new bow of very superior make and capable of bearing a great strain.
29Worked up with rage and discharging his arrows in that battle at the indomitable Drona, Dhristadyumna covered the preceptor with arrows with a desire to withstand him.
30Those two ornaments of battle, those two superior warriors, filled with rage, then resisted one another and invoked into existence many celestial and Brahma weapons.
31Then, O mighty monarch, Dhristadyumna covered Drona in that battle with many weapons. Destroying all those weapons of Bharadvaja's son, the prince of the Panchalas.
32That warrior of unfading renown, began to consume the Vasatis, the Shinis, the Valhikas and the Kurus who were then engaged in protecting Drona.
33O king, discharging numerous shafts on all sides, Dhristadyumna at that time appeared beautiful like the sun of myriad rays.
34Drona however once more cut-off the prince's bow and pierced the vitals of the prince himself with large number of shafts. Thus wounded the prince was greatly pained.
35Thereupon Bhima of great fury holding the chariot of Drona, distinctly spoke those words to him
36If vile Brahmanas dissatisfied with the duties of their own order but versed in the use of weapons, did not fight, then the Kshatriya a order would not have become reduced in numerical strength.
37Sparing life has been declared to be most excellent of all virtues. The Brahmana is the toot of that virtue. You are again the foremost of all men conversant with Brahma.
38Like Chandala, slaying numerous Mlechchas and diverse other warriors, who however are all engaged in performing the duties of their order, moved to the deed by folly and ignorance, O Brahmana and by the desire of benefiting your family and son, indeed for the sake of your only son indeed slaying all like one ignorant of his duties and disregarding your own avocation why do you not feel ashamed?
39He for whose sake you have taken up arms and for whom you live, he, deprived of life, today lies on the field of battle, unknown to you and behind your back.
40It behoves you not to doubt the words the very virtuous king Yudhishthira has told you, Thus addressed by Bhima, Drona, laid his bow aside.
41Then desirous of laying all his weapons aside, Bharadvaja's son of illustrious soul, said aloud-"O Karna, O Karna, Ogreat bowman, O Kripa, O Duryodhana.
42Exert your best in the battle: this I tell you repeatedly; may no injury befall you from the Pandavas; I am going to lay aside my weapons.
43Having spoken thus, O mighty monarch, Drona began to cry out the name of Ashvatthaman at the top of his voice; and laying aside his weapons, he then sat down on the terrace of his car.
44Then betaking to yoga, he assuredly gave safety to creature. Taking advantage of that opportunity. Dhristadyumna collected all his energies.
45Then placing his dreadful bow with arrows fixed on its string on his car, he jumped down from it armed with a sword and then rushed furiously upon Drona.
46Then men and other creatures beholding Drona on the point of falling a victim to Dhristadyumna, began to utter loud cries of Oh and Alas.
47They bewailed piteously and they cried alas and oh and said fie. Meanwhile Drona, having laid aside his weapons, was peacefully seated on his car.
48Having spoken as before, Drona, had betaken to yoga. Endued with great splendour and possessed of ascetic merit, he had set his heart on that ancient and paramount being viz., Vishnu.
49Slightly bending down his face and throwing his breast forward and shutting his eyes and reposing on the quality of goodness and directing his mind on meditation.
50And thinking on the monosyllabic Om representing Brahma and recollecting the mighty, paramount and indestructible god of gods and effulgent Drona of great ascetic merit.
51The preceptor of the Kurus and the Pandavas, went to heaven, which is so difficult of being attained even by the virtuous. Indeed when Drona proceeded to heaven, it appeared to us that there were two suns in the sky.
52The whole welkin was ablaze and appeared to be one vast sheet of equal light when the sun-like Bharadvaja, of solar splendour, proceeded towards heaven.
53But within an wink of time however, that light disappeared and then tumultuous noise of the delighted celestials were heard there,
54When Drona thus ascended to heaven, Dhristadyumna was standing beside him stupefied; only we five amongst mortal creatures beheld.
55The illustrious Drona, lost in yoga and meditation, ascend to the highest regions of blessedness. These five were, myself, Pritha's son Dhananjaya, Ashvatthaman, the son of Drona.
56Vasudeva of the Vrisni race and king Yudhishthira the virtuous son of Pandu, All else could not seen the halo of glory that surrounded the intelligent son of Bharadvaja as he ascended, rapt up in yoga, to the Brahma regions, which are mysterious even to the gods and which is the highest of all celestial regions.
57In fact all human beings were then unaware of the fact that Drona had attained to the highest mode of existence. None of them could then descry the preceptor, that subduer of foes, ascend to the region of Brahma, devoted to yoga, in company with the best of sages, his body mangled with arrows and steeped in blood after he had set aside his weapons.
58Prisata's meanwhile, though all creatures cried fie on him, yet casting his eyes on the lifeless Drona's head, began to drag it (by the hair.)
59Then with his sword he lopped that head off the trunk of his foe who remained silent all the while. Then upon the slaughter of Bharadvaja's son he was filled with delight.
60Dhristadyumna began to send up loud warcries whirling his sword all the while in the air. son With his hoary locks flowing down his ears, of a dark complexion that old man of eighty-five years.
61For your sake used to career on the field of battle, like a boy of sixteen. The mighty-armed Dhananjaya, that son of Kunti, had said (before
62"O son of Drupada, bring the preceptor alive. Do not slay him. He should not be slain, he should not be slain.” Even thus did you troops also.
63Cry out; especially Arjuna had exclaimed aloud melting with compassion for his preceptor. But unmindful of the cries of Arjuna and those of other rulers of the earth.
64O foremost of men, Dhristadyumna slew Drona in the terrace of his own car. Then that indomitable subduer of foes, his body stained with blood, jumped down from the car on the earth, looking red like the (newly-risen) solar disc. Thus the soldiers behold Drona slain in the battle.
65Thereafter, O king, that furied bowman Dhristadyumna, threw that large head of Bharadvaja's son at the front ranks of your troops.
66Then the troops beholding that head of Bharadvaja's son, felt inclined to fly and O king, without much hesitation they took to their heels.
67Meanwhile Drona proceeding to the heavens entered the stellar path. I only saw the (true circumstances of the) death of Drona.
68Through the grace of the sage KrishnaDvaipayana, the son of Satyavati. I then beheld that effulgent one proceeding, after his ascension to the sky, like a blazing flame-beam free from even a curl of smoke flying through the welkin. Upon the slaughter of Drona, the Kurus, the Pandavas and the Srinjayas, all became depressed.
69And every body fled in great haste. The army then broke away. Many had been slain and many wounded with keen arrows.
70Upon the death of Drona, your troops appeared to be senseless. Having suffered a defeat and being inspired with fear about the future.
71The Kurus lost the benefit of this as well as of the next world. Really they lost all selfcontrol. The rulers of earth then searching for the body of Bharadvaja's son.
72Could not find it out in consequence of the field being covered over with numerous headless trunks. The Pandavas on the other hand, having obtained victory here and prospects of fame in the future.
73Began to make loud sounds with their arrows and conches conches and they uttered tremendous war-cries. Then Bhimasena and Prisata's son Dhristadyumna.
74Embraced each other in the midst of the Pandava host which looked upon them both. Then that afflicter of foes Bhima addressing Prisata's son said
75"O son of Prisata, I will again embrace your victorious self, when the sinful sons of Suta and Dhritarashtra will be slain in the battle.
76Having spoken thus much and filled with joy, Pandu's son Bhima, caused the earth to tremble with the sound of his arm-strokes.
77At that sound your troops, panic stricken, began to fly away; and disregarding the duties of Kshatriyas they exerted themselves in flying away.
78The Pandavas, having obtained victory were transported with joy, O ruler of men; and great was their happiness at the destruction of their foes in battle.
हिन्दी
1सञ्जय ने कहा — तदनन्तर सात्वतवंशी उस वीर के वे पराक्रम देखकर दुर्योधन आदि क्रोध से भरकर शीघ्र ही शिनिपौत्र (सात्यकि) को चारों ओर से घेरने लगे।
2हे तात, कृप, कर्ण तथा आपके पुत्रों ने युद्ध में शीघ्रता से शिनिपौत्र पर आक्रमण करके उन्हें तीक्ष्ण बाणों से बींधना आरम्भ किया।
3तब राजा युधिष्ठिर, पाण्डु से उत्पन्न माद्री के दोनों पुत्र तथा महाबली भीमसेन उस सात्वतवंशी वीर की रक्षा के लिए दौड़ पड़े।
4तब कर्ण, महारथी गौतमपुत्र (कृप), दुर्योधन आदि ने शिनिपौत्र को अपने बाणों से ढँक दिया।
5हे राजन्, तब उन योद्धाओं के साथ निर्भय होकर युद्ध करते हुए उस शिनिवंशी वीर ने बाणों की उस भयंकर वर्षा को रोक दिया, जो इतनी अकस्मात् आरम्भ हुई थी।
6उस महायुद्ध में उन्होंने अपने विविध दिव्यास्त्रों से अपने ऊपर छोड़े गए महात्मा शत्रुओं के दिव्यास्त्रों को विधिपूर्वक व्यर्थ कर दिया।
7राजकीय योद्धाओं के उस संग्राम के चलते रणभूमि भयानक दिखाई देने लगी, और वह उस दृश्य के समान प्रतीत हुई जब पूर्वकाल में क्रोध से भरे रुद्र ने समस्त प्राणियों का संहार किया था।
8हे भरत, मनुष्यों की भुजाएँ और सिर, धनुष तथा फटे हुए छत्र और चँवर —
9उस रणभूमि पर राशियों के रूप में दिखाई दिए। टूटे पहियों वाले रथों से तथा गिरे हुए शस्त्रों से,
10और मारे पड़े वीर घुड़सवारों से पृथ्वी अगम्य हो गई। हे कुरुश्रेष्ठ, गिरते हुए बाणों से क्षत-विक्षत योद्धा —
11उस महायुद्ध में भूमि पर विविध प्रकार से लोटते हुए दिखाई दिए। पूर्वकाल के देवासुर-संग्राम के समान उस भयंकर युद्ध के चलते —
12परम धर्मात्मा राजा युधिष्ठिर ने क्षत्रियों को सम्बोधित करते हुए कहा — "हे महारथियो, तुम सब मिलकर कलशोद्भव द्रोण पर टूट पड़ो।
13वह देखो, वीर पार्षत भरद्वाजपुत्र से जूझ रहा है; वह अपनी पूरी शक्ति से द्रोण की मृत्यु का उपाय करने में लगा है।
14उसके इस प्रचण्ड युद्ध के लक्षणों से अनुमान होता है कि क्रोध से भरा पार्षत आज युद्ध में भरद्वाजपुत्र को गिरा देगा।
15अतः तुम सब मिलकर कलशोद्भव द्रोण पर टूट पड़ो।" युधिष्ठिर के इस प्रकार आदेश देने पर सृञ्जयों के महारथी —
16भरद्वाजपुत्र का वध करने की इच्छा से प्रेरित होकर उन पर टूट पड़े। तब मृत्यु को अनिवार्य जानते हुए महारथी भरद्वाजपुत्र ने क्रोधपूर्वक उन बढ़ती हुई सेनाओं का सामना किया। जब अमोघ लक्ष्य वाले द्रोण इस प्रकार आगे बढ़े, तब पृथ्वी काँपने लगी।
17प्रचण्ड वायु चलने लगी, जिसने शत्रु की सेनाओं को भय से भर दिया। सूर्यमण्डल से निकलते हुए से प्रतीत होने वाले बड़े-बड़े उल्कापिण्ड गिरने लगे।
18गिरते समय उन्होंने आकाश को आलोकित कर दिया और महान् संकट की सूचना दी। हे तात, भरद्वाजपुत्र के अस्त्र स्वयं ही जलने लगे।
19रथों से कर्कश ध्वनि निकलने लगी और घोड़े आँसू बहाने लगे। महारथी भरद्वाजपुत्र द्रोण अपने तेज से रहित से प्रतीत होने लगे।
20उनकी आँखें तथा बाईं भुजा फड़कने लगीं। और अपने सम्मुख पार्षत को देखकर वे उत्साहहीन हो गए।
21इसी के साथ उन्हें ऋषियों के कहे अनुसार ब्रह्मलोक को प्रस्थान करने का स्मरण हो आया, और ब्रह्म के ज्ञाता उन (द्रोण) ने रणभूमि में वीरतापूर्वक युद्ध करते हुए ही प्राण त्याग देने का निश्चय किया।
22तदनन्तर वे द्रुपदपुत्र की सेनाओं से चारों ओर से घिर गए। क्षत्रियों की सेनाओं को भस्म करते हुए द्रोण तब रणभूमि में विचरने लगे।
23तब उन शत्रुमर्दन ने बीस सहस्र क्षत्रियों का वध करके तीक्ष्ण नोक वाले सान चढ़े बाणों से एक लाख और योद्धाओं का वध किया।
24तब पूरे प्रयत्न के साथ वे रणभूमि में डटे रहे और धूमरहित प्रज्वलित अग्नि के समान प्रतीत हुए। क्षत्रियों के विनाश के लिए उन्होंने तब ब्रह्मास्त्र ग्रहण किया।
25तब जितेन्द्रिय भीम ने पाञ्चालराजकुमार को रथहीन तथा अस्त्रहीन देखकर उस महात्मा योद्धा की रक्षा के लिए शीघ्रता की।
26तब पाञ्चालराजकुमार को अत्यन्त निकट से द्रोण पर प्रहार करते देखकर उन शत्रुदमन भीम ने उसे अपने रथ पर चढ़ा लिया और कहा —
27"तुम्हारे अतिरिक्त और कोई नहीं है जो आचार्य के साथ इस प्रकार आमने-सामने युद्ध कर सके; अतः शीघ्र उनके वध का उपाय करो, क्योंकि यह सारा भार तुम्हीं पर है।"
28भीम के इस प्रकार कहने पर महाबाहु धृष्टद्युम्न ने शीघ्र ही अत्यन्त उत्तम बनावट का, महान् तनाव सह सकने वाला एक दृढ़ तथा नया धनुष उठा लिया।
29क्रोध से भरकर उस युद्ध में अजेय द्रोण पर अपने बाण छोड़ते हुए धृष्टद्युम्न ने उन्हें रोकने की इच्छा से आचार्य को बाणों से ढँक दिया।
30तब रण के आभूषणस्वरूप वे दोनों श्रेष्ठ योद्धा क्रोध से भरकर एक-दूसरे को रोकने लगे और अनेक दिव्यास्त्रों तथा ब्रह्मास्त्रों का आह्वान करने लगे।
31हे महाराज, तब धृष्टद्युम्न ने उस युद्ध में द्रोण को अनेक अस्त्रों से ढँक दिया। भरद्वाजपुत्र के उन समस्त अस्त्रों को नष्ट करके पाञ्चालराजकुमार —
32उन अक्षय कीर्ति वाले योद्धा ने उस समय द्रोण की रक्षा में लगे हुए वसाति, शिनि, बाह्लीक तथा कुरु योद्धाओं को भस्म करना आरम्भ किया।
33हे राजन्, चारों ओर असंख्य बाण छोड़ते हुए धृष्टद्युम्न उस समय सहस्र किरणों वाले सूर्य के समान सुन्दर प्रतीत हुए।
34किन्तु द्रोण ने एक बार फिर उस राजकुमार का धनुष काट डाला और स्वयं राजकुमार के मर्मस्थलों को बहुसंख्यक बाणों से बींध डाला। इस प्रकार घायल होकर वह राजकुमार अत्यन्त पीड़ित हुआ।
35तब महाक्रोध से भरे भीम ने द्रोण के रथ को पकड़कर उनसे स्पष्ट स्वर में ये वचन कहे —
36"यदि नीच ब्राह्मण अपने ही वर्ण के कर्मों से असन्तुष्ट होकर, किन्तु अस्त्रों के प्रयोग में निपुण होकर, युद्ध न करते, तो क्षत्रिय वर्ण की संख्या इस प्रकार क्षीण न होती।
37प्राणियों के प्राणों की रक्षा समस्त धर्मों में श्रेष्ठ कही गई है। ब्राह्मण ही उस धर्म का मूल है। और तुम ब्रह्म के ज्ञाताओं में सबसे श्रेष्ठ हो।
38हे ब्राह्मण, चाण्डाल की भाँति असंख्य म्लेच्छों तथा अन्य अनेक योद्धाओं का — जो सब अपने-अपने वर्ण के कर्म ही निभा रहे हैं — वध करते हुए, मूर्खता और अज्ञान से प्रेरित होकर, तथा अपने कुल और पुत्र के हित की कामना से, वस्तुतः अपने एकमात्र पुत्र के लिए ही, अपने कर्तव्य से अनजान मनुष्य के समान सबका वध करते हुए और अपनी वृत्ति की उपेक्षा करते हुए तुम्हें लज्जा क्यों नहीं आती?
39जिसके लिए तुमने शस्त्र उठाया और जिसके लिए तुम जीवित हो, वही आज प्राणों से रहित होकर रणभूमि में पड़ा है — तुम्हारे अनजाने में और तुम्हारी पीठ पीछे।
40परम धर्मात्मा राजा युधिष्ठिर ने तुमसे जो कहा है, उस पर सन्देह करना तुम्हें शोभा नहीं देता।" भीम के इस प्रकार कहने पर द्रोण ने अपना धनुष रख दिया।
41तब अपने समस्त अस्त्र त्याग देने की इच्छा से महात्मा भरद्वाजपुत्र ने उच्च स्वर में कहा — "हे कर्ण, हे कर्ण! हे महाधनुर्धर! हे कृप! हे दुर्योधन!
42युद्ध में अपना पूरा प्रयत्न करो — यह मैं तुमसे बार-बार कहता हूँ; पाण्डवों से तुम्हारा कोई अनिष्ट न हो; मैं अपने अस्त्र त्याग रहा हूँ।"
43हे महाराज, ऐसा कहकर द्रोण उच्च स्वर में अश्वत्थामा का नाम पुकारने लगे; और अपने अस्त्र रखकर वे अपने रथ के पृष्ठ भाग पर बैठ गए।
44तब योग का आश्रय लेकर उन्होंने निश्चय ही समस्त प्राणियों को अभय दे दिया। उसी अवसर का लाभ उठाकर धृष्टद्युम्न ने अपनी समस्त शक्ति एकत्र की।
45तब प्रत्यंचा पर बाण चढ़ाया हुआ अपना भयंकर धनुष रथ पर रखकर वे तलवार लिए उससे कूद पड़े और क्रोधपूर्वक द्रोण की ओर झपटे।
46तब द्रोण को धृष्टद्युम्न का ग्रास बनते देखकर मनुष्य तथा अन्य प्राणी 'हाय! हाय!' के उच्च स्वर में विलाप करने लगे।
47वे करुण विलाप करने लगे, 'हाय! हाय!' कहने लगे और 'धिक्कार है' कहने लगे। इसी बीच द्रोण अपने अस्त्र रखकर शान्तभाव से अपने रथ पर बैठे रहे।
48पूर्वोक्त वचन कहकर द्रोण योग में स्थित हो गए थे। महान् तेज से युक्त तथा तपोबल से सम्पन्न उन्होंने अपना चित्त उस सनातन तथा परम पुरुष विष्णु में लगा दिया था।
49अपना मुख कुछ नीचे झुकाकर, वक्षःस्थल आगे किए, नेत्र मूँदकर, सत्त्वगुण में स्थित होकर तथा अपने मन को ध्यान में लगाकर —
50और ब्रह्म के वाचक एकाक्षर ॐ का चिन्तन करते हुए तथा उन महान्, परम एवं अविनाशी देवाधिदेव का स्मरण करते हुए, महान् तपस्वी तेजस्वी द्रोण —
51कुरुओं तथा पाण्डवों के वे आचार्य उस स्वर्ग को चले गए, जो धर्मात्माओं के लिए भी दुर्लभ है। सचमुच, जब द्रोण स्वर्ग को गए, तब हमें ऐसा लगा मानो आकाश में दो सूर्य हों।
52जब सूर्य के समान तेजस्वी वे भरद्वाजपुत्र स्वर्ग की ओर बढ़े, तब समस्त आकाश जगमगा उठा और एक विशाल समान प्रकाशपटल के समान प्रतीत हुआ।
53किन्तु पलक झपकते ही वह प्रकाश लुप्त हो गया, और तब वहाँ आनन्दित देवताओं का कोलाहल सुनाई दिया।
54जब द्रोण इस प्रकार स्वर्ग को गए, तब धृष्टद्युम्न स्तब्ध होकर उनके पास खड़ा था; मर्त्य प्राणियों में केवल हम पाँच ने ही देखा —
55कि योग और ध्यान में लीन यशस्वी द्रोण परम कल्याणमय लोकों को जा रहे हैं। वे पाँच थे — मैं स्वयं, पृथापुत्र धनञ्जय, द्रोणपुत्र अश्वत्थामा,
56वृष्णिवंशी वासुदेव तथा पाण्डु के धर्मात्मा पुत्र राजा युधिष्ठिर। और कोई भी उस तेजोमय आभा को नहीं देख सका, जो बुद्धिमान् भरद्वाजपुत्र को घेरे हुए थी, जब वे योग में लीन होकर उन ब्रह्मलोकों को जा रहे थे, जो देवताओं के लिए भी रहस्यमय हैं और जो समस्त दिव्य लोकों में सर्वोच्च हैं।
57वस्तुतः उस समय समस्त मनुष्य इस बात से अनभिज्ञ थे कि द्रोण ने परम गति प्राप्त कर ली है। उनमें से कोई भी उन शत्रुदमन आचार्य को नहीं देख सका, जो अस्त्र त्याग देने के पश्चात्, बाणों से क्षत-विक्षत तथा रक्त से सने शरीर के साथ, योग में स्थित होकर श्रेष्ठ मुनियों के साथ ब्रह्मलोक को जा रहे थे।
58इसी बीच, यद्यपि समस्त प्राणी उसे धिक्कार रहे थे, तथापि पार्षत ने प्राणहीन द्रोण के सिर पर दृष्टि डालकर उसे (केशों से पकड़कर) घसीटना आरम्भ किया।
59फिर उसने अपनी तलवार से अपने उस शत्रु का सिर धड़ से काट डाला, जो इस बीच मौन ही रहा। तब भरद्वाजपुत्र के वध से वह हर्ष से भर उठा।
60धृष्टद्युम्न आकाश में लगातार अपनी तलवार घुमाते हुए उच्च स्वर में सिंहनाद करने लगा। कानों तक लटकते श्वेत केशों वाले तथा श्याम वर्ण के वे पचासी वर्ष के वृद्ध —
61आपके ही लिए रणभूमि में सोलह वर्ष के किशोर के समान विचरा करते थे। कुन्तीपुत्र महाबाहु धनञ्जय ने (पहले ही) कहा था —
62"हे द्रुपदपुत्र, आचार्य को जीवित लाओ। उनका वध मत करो। उनका वध नहीं होना चाहिए, उनका वध नहीं होना चाहिए।" आपकी सेनाओं ने भी इसी प्रकार —
63पुकार लगाई; विशेषतः अर्जुन अपने आचार्य के प्रति करुणा से द्रवित होकर उच्च स्वर में चिल्लाए थे। किन्तु अर्जुन की तथा अन्य भूपालों की उन पुकारों की उपेक्षा करके,
64हे नरश्रेष्ठ, धृष्टद्युम्न ने द्रोण का उन्हीं के रथ के पृष्ठ भाग पर वध कर डाला। तब वह अजेय शत्रुदमन, रक्त से रँगे शरीर के साथ, रथ से पृथ्वी पर कूद पड़ा और (नवोदित) सूर्यमण्डल के समान रक्तवर्ण दिखाई दिया। इस प्रकार सैनिकों ने द्रोण को युद्ध में मारा गया देखा।
65हे राजन्, तत्पश्चात् उस क्रुद्ध धनुर्धर धृष्टद्युम्न ने भरद्वाजपुत्र के उस विशाल सिर को आपकी सेना की अग्रिम पंक्तियों में फेंक दिया।
66तब भरद्वाजपुत्र का वह सिर देखकर सैनिकों का मन भागने को हो आया, और हे राजन्, बिना अधिक हिचक के वे भाग खड़े हुए।
67इसी बीच स्वर्ग को जाते हुए द्रोण नक्षत्रमार्ग में प्रविष्ट हो गए। द्रोण की मृत्यु का (वास्तविक स्वरूप) केवल मैंने ही देखा।
68सत्यवतीपुत्र मुनि कृष्णद्वैपायन की कृपा से मैंने उन तेजस्वी को देखा, जो आकाश में आरोहण करने के पश्चात् धूम की एक लट से भी रहित प्रज्वलित ज्योतिपुंज के समान आकाश में उड़ते हुए जा रहे थे। द्रोण के वध से कुरु, पाण्डव तथा सृञ्जय — सभी खिन्न हो उठे।
69और सब बड़ी शीघ्रता से भाग खड़े हुए। तब सेना छिन्न-भिन्न हो गई। बहुत से मारे जा चुके थे और बहुत से तीक्ष्ण बाणों से घायल थे।
70द्रोण की मृत्यु से आपकी सेना संज्ञाशून्य-सी हो गई। पराजय भोगकर तथा भविष्य के भय से भरकर —
71कुरुओं ने इस लोक तथा परलोक — दोनों का लाभ खो दिया। वस्तुतः वे सारा आत्मसंयम खो बैठे। तब भूपालों ने भरद्वाजपुत्र के शरीर की खोज की,
72किन्तु रणभूमि के असंख्य शिरविहीन धड़ों से ढक जाने के कारण वे उसे ढूँढ़ न सके। दूसरी ओर पाण्डव, जिन्होंने यहाँ विजय पाई थी और भविष्य में यश की सम्भावना अर्जित की थी,
73अपने बाणों तथा शंखों से उच्च ध्वनि करने लगे और उन्होंने भयंकर सिंहनाद किए। तब भीमसेन तथा पार्षत धृष्टद्युम्न —
74पाण्डव-सेना के मध्य में, जो उन दोनों को देख रही थी, परस्पर आलिंगनबद्ध हो गए। तब उन शत्रुसंतापक भीम ने पार्षत को सम्बोधित करते हुए कहा —
75"हे पार्षत, मैं तुम्हें, विजयी तुम्हें, तब पुनः आलिंगन करूँगा जब युद्ध में पापी सूतपुत्र (कर्ण) तथा धृतराष्ट्र के पुत्र मारे जाएँगे।"
76इतना कहकर तथा हर्ष से भरकर पाण्डुपुत्र भीम ने अपनी भुजाओं के आस्फोट की ध्वनि से पृथ्वी को कँपा दिया।
77उस ध्वनि से आपकी सेना भयभीत होकर भागने लगी; और क्षत्रियों के धर्म की उपेक्षा करके वे भाग निकलने में ही अपना पूरा प्रयत्न लगाने लगे।
78हे नरेश्वर, विजय पाकर पाण्डव हर्ष से भर उठे; और युद्ध में अपने शत्रुओं के विनाश से उनका आनन्द महान् था।
नेपाली
1सञ्जयले भने — त्यसपछि सात्वतवंशी ती वीरका ती पराक्रम देखेर दुर्योधन आदि क्रोधले भरिएर चाँडै शिनिपौत्र (सात्यकि)लाई चारैतिरबाट घेर्न थाले।
2हे तात, कृप, कर्ण तथा तपाईंका छोराहरूले युद्धमा हतारिँदै शिनिपौत्रमाथि आक्रमण गरेर उनलाई तीक्ष्ण बाणले घोच्न थाले।
3तब राजा युधिष्ठिर, पाण्डुबाट उत्पन्न माद्रीका दुवै छोरा तथा महाबली भीमसेन ती सात्वतवंशी वीरको रक्षाका लागि दगुरे।
4तब कर्ण, महारथी गौतमपुत्र (कृप), दुर्योधन आदिले शिनिपौत्रलाई आफ्ना बाणले छोपिदिए।
5हे राजन्, तब ती योद्धाहरूसँग निर्भय भई युद्ध गर्दै ती शिनिवंशी वीरले बाणको त्यो भयंकर वर्षा रोकिदिए, जो यति अकस्मात् सुरु भएको थियो।
6त्यस महायुद्धमा उनले आफ्ना विविध दिव्यास्त्रले आफूमाथि छोडिएका महात्मा शत्रुहरूका दिव्यास्त्र विधिपूर्वक व्यर्थ पारिदिए।
7राजकीय योद्धाहरूको त्यो सङ्ग्राम चल्दा रणभूमि भयानक देखिन थाल्यो, र त्यो त्यस्तै दृश्यजस्तै लाग्यो जब पूर्वकालमा क्रोधले भरिएका रुद्रले सम्पूर्ण प्राणीको संहार गरेका थिए।
8हे भरत, मानिसहरूका पाखुरा र शिर, धनुष तथा च्यातिएका छाता र चँवर —
9त्यस रणभूमिमा थुप्रोका रूपमा देखिए। भाँचिएका पाङ्ग्रा भएका रथहरूले तथा खसेका शस्त्रहरूले,
10र मारिएर ढलेका वीर घोडसवारहरूले पृथ्वी अगम्य भयो। हे कुरुश्रेष्ठ, खस्दै गरेका बाणले क्षतविक्षत योद्धाहरू —
11त्यस महायुद्धमा भुइँमा विविध प्रकारले लडिबुडी गरिरहेका देखिए। पूर्वकालको देवासुर-सङ्ग्रामजस्तै त्यस भयंकर युद्ध चल्दै गर्दा —
12परम धर्मात्मा राजा युधिष्ठिरले क्षत्रियहरूलाई सम्बोधन गर्दै भने — "हे महारथीहरू, तिमीहरू सबै मिलेर कलशोद्भव द्रोणमाथि जाइलाग।
13त्यो हेर, वीर पार्षत भरद्वाजपुत्रसँग जुधिरहेका छन्; उनी आफ्नो पूरा शक्तिले द्रोणको मृत्युको उपाय गर्नमा लागेका छन्।
14उनको यस प्रचण्ड युद्धका लक्षणबाट अनुमान हुन्छ कि क्रोधले भरिएका पार्षतले आज युद्धमा भरद्वाजपुत्रलाई ढालिदिनेछन्।
15त्यसैले तिमीहरू सबै मिलेर कलशोद्भव द्रोणमाथि जाइलाग।" युधिष्ठिरले यसरी आदेश दिएपछि सृञ्जयहरूका महारथीहरू —
16भरद्वाजपुत्रको वध गर्ने इच्छाले प्रेरित भई उनीमाथि जाइलागे। तब मृत्यु अनिवार्य छ भन्ने जान्दाजान्दै महारथी भरद्वाजपुत्रले क्रोधपूर्वक ती बढ्दै आएका सेनाहरूको सामना गरे। जब अमोघ लक्ष्य भएका द्रोण यसरी अगाडि बढे, तब पृथ्वी काँप्न थाल्यो।
17प्रचण्ड वायु चल्न थाल्यो, जसले शत्रुका सेनाहरूलाई भयले भरिदियो। सूर्यमण्डलबाट निस्किएझैँ देखिने ठूला-ठूला उल्कापिण्ड खस्न थाले।
18खस्दा तिनीहरूले आकाश आलोकित पारे र महान् सङ्कटको सूचना दिए। हे तात, भरद्वाजपुत्रका अस्त्रहरू आफैँ बल्न थाले।
19रथहरूबाट कर्कश ध्वनि निस्कन थाल्यो र घोडाहरू आँसु झार्न थाले। महारथी भरद्वाजपुत्र द्रोण आफ्नो तेजबाट रहितजस्ता देखिन थाले।
20उनका आँखा तथा देब्रे पाखुरा फरफराउन थाले। र आफ्नो सामु पार्षतलाई देखेर उनी उत्साहहीन भए।
21यसैसँगै उनलाई ऋषिहरूले भनेअनुसार ब्रह्मलोकतिर प्रस्थान गर्ने कुराको सम्झना भयो, र ब्रह्मका ज्ञाता ती (द्रोण)ले रणभूमिमा वीरतापूर्वक युद्ध गर्दै नै प्राण त्याग्ने निश्चय गरे।
22त्यसपछि उनी द्रुपदपुत्रका सेनाहरूले चारैतिरबाट घेरिए। क्षत्रियहरूका सेनाहरूलाई भस्म पार्दै द्रोण तब रणभूमिमा विचरण गर्न थाले।
23तब ती शत्रुमर्दनले बीस हजार क्षत्रियको वध गरेर तीक्ष्ण टुप्पा भएका उध्रिएका बाणले एक लाख अरू योद्धाको वध गरे।
24तब पूरा प्रयत्नका साथ उनी रणभूमिमा डटिरहे र धुवाँरहित प्रज्वलित अग्निजस्तै देखिए। क्षत्रियहरूको विनाशका लागि उनले तब ब्रह्मास्त्र ग्रहण गरे।
25तब जितेन्द्रिय भीमले पाञ्चालराजकुमारलाई रथविहीन तथा अस्त्रविहीन देखेर ती महात्मा योद्धाको रक्षाका लागि हतार गरे।
26तब पाञ्चालराजकुमारलाई अत्यन्त नजिकबाट द्रोणमाथि प्रहार गरिरहेको देखेर ती शत्रुदमन भीमले उनलाई आफ्नो रथमा चढाए र भने —
27"तिमीबाहेक अरू कोही छैन जसले आचार्यसँग यसरी आमनेसामने युद्ध गर्न सकोस्; त्यसैले चाँडै उनको वधको उपाय गर, किनभने यो सम्पूर्ण भार तिमीमाथि नै छ।"
28भीमले यसरी भनेपछि महाबाहु धृष्टद्युम्नले चाँडै अत्यन्त उत्तम बनावटको, महान् तनाव थेग्न सक्ने एउटा दृढ तथा नयाँ धनुष उठाए।
29क्रोधले भरिएर त्यस युद्धमा अजेय द्रोणमाथि आफ्ना बाण छोड्दै धृष्टद्युम्नले उनलाई रोक्ने इच्छाले आचार्यलाई बाणले छोपिदिए।
30तब रणका आभूषणस्वरूप ती दुवै श्रेष्ठ योद्धा क्रोधले भरिएर एकअर्कालाई रोक्न थाले र अनेक दिव्यास्त्र तथा ब्रह्मास्त्रको आह्वान गर्न थाले।
31हे महाराज, तब धृष्टद्युम्नले त्यस युद्धमा द्रोणलाई अनेक अस्त्रले छोपिदिए। भरद्वाजपुत्रका ती सम्पूर्ण अस्त्र नष्ट पारेर पाञ्चालराजकुमार —
32ती अक्षय कीर्ति भएका योद्धाले त्यस बेला द्रोणको रक्षामा लागेका वसाति, शिनि, बाह्लीक तथा कुरु योद्धाहरूलाई भस्म पार्न थाले।
33हे राजन्, चारैतिर असंख्य बाण छोड्दै धृष्टद्युम्न त्यस बेला हजार किरण भएको सूर्यजस्तै सुन्दर देखिए।
34तर द्रोणले एकपटक फेरि ती राजकुमारको धनुष काटिदिए र स्वयं राजकुमारका मर्मस्थललाई असंख्य बाणले घोचिदिए। यसरी घाइते भई ती राजकुमार अत्यन्त पीडित भए।
35तब महाक्रोधले भरिएका भीमले द्रोणको रथ समातेर उनलाई स्पष्ट स्वरमा यी वचन भने —
36"यदि नीच ब्राह्मणहरू आफ्नै वर्णका कर्मबाट असन्तुष्ट भई, तर अस्त्रहरूको प्रयोगमा निपुण भई, युद्ध नगरेका भए क्षत्रिय वर्णको सङ्ख्या यसरी क्षीण हुने थिएन।
37प्राणीहरूका प्राणको रक्षा सम्पूर्ण धर्ममा श्रेष्ठ भनिएको छ। ब्राह्मण नै त्यस धर्मको मूल हो। र तिमी ब्रह्मका ज्ञाताहरूमा सबैभन्दा श्रेष्ठ हौ।
38हे ब्राह्मण, चाण्डालजस्तै असंख्य म्लेच्छ तथा अन्य अनेक योद्धाहरूको — जो सबै आ-आफ्नो वर्णको कर्म नै निभाइरहेका छन् — वध गर्दै, मूर्खता र अज्ञानले प्रेरित भई, तथा आफ्नो कुल र छोराको हितको कामनाले, वास्तवमा आफ्नो एउटै छोराका लागि नै, आफ्नो कर्तव्य नजान्ने मानिसजस्तै सबैको वध गर्दै र आफ्नो वृत्तिको उपेक्षा गर्दै तिमीलाई लाज किन लाग्दैन?
39जसका लागि तिमीले शस्त्र उठायौ र जसका लागि तिमी बाँचिरहेका छौ, त्यही आज प्राणविहीन भई रणभूमिमा ढलेको छ — तिमीलाई थाहै नदिई र तिम्रो पिठ्यूँपछाडि।
40परम धर्मात्मा राजा युधिष्ठिरले तिमीलाई जे भनेका छन्, त्यसमा शङ्का गर्नु तिमीलाई सुहाउँदैन।" भीमले यसरी भनेपछि द्रोणले आफ्नो धनुष राखिदिए।
41तब आफ्ना सम्पूर्ण अस्त्र त्याग्ने इच्छाले महात्मा भरद्वाजपुत्रले उच्च स्वरमा भने — "हे कर्ण, हे कर्ण! हे महाधनुर्धर! हे कृप! हे दुर्योधन!
42युद्धमा आफ्नो पूरा प्रयत्न गर — यो म तिमीहरूलाई बारम्बार भन्दछु; पाण्डवहरूबाट तिमीहरूको कुनै अनिष्ट नहोस्; म आफ्ना अस्त्र त्यागिरहेको छु।"
43हे महाराज, यसो भनेर द्रोण उच्च स्वरमा अश्वत्थामाको नाम पुकार्न थाले; र आफ्ना अस्त्र राखेर उनी आफ्नो रथको पछिल्लो भागमा बसे।
44तब योगको आश्रय लिएर उनले निश्चय नै सम्पूर्ण प्राणीलाई अभय दिए। त्यही अवसरको फाइदा उठाएर धृष्टद्युम्नले आफ्नो सम्पूर्ण शक्ति एकत्र गरे।
45तब ताँदोमा बाण चढाइएको आफ्नो भयंकर धनुष रथमा राखेर उनी तरवार लिएर त्यसबाट हामफाले र क्रोधपूर्वक द्रोणतिर झम्टिए।
46तब द्रोणलाई धृष्टद्युम्नको ग्रास बन्न लागेको देखेर मानिस तथा अन्य प्राणीहरू 'हाय! हाय!' भन्दै उच्च स्वरमा विलाप गर्न थाले।
47तिनीहरू करुण विलाप गर्न थाले, 'हाय! हाय!' भन्न थाले र 'धिक्कार छ' भन्न थाले। यसै बीच द्रोण आफ्ना अस्त्र राखेर शान्त भावले आफ्नो रथमा बसिरहे।
48पूर्वोक्त वचन भनेर द्रोण योगमा स्थित भइसकेका थिए। महान् तेजले युक्त तथा तपोबलले सम्पन्न उनले आफ्नो चित्त त्यस सनातन तथा परम पुरुष विष्णुमा लगाइसकेका थिए।
49आफ्नो मुख केही तल झुकाएर, छाती अगाडि पारेर, आँखा चिम्लेर, सत्त्वगुणमा स्थित भई तथा आफ्नो मन ध्यानमा लगाएर —
50र ब्रह्मका वाचक एकाक्षर ॐको चिन्तन गर्दै तथा ती महान्, परम एवं अविनाशी देवाधिदेवको स्मरण गर्दै, महान् तपस्वी तेजस्वी द्रोण —
51कुरु तथा पाण्डवहरूका ती आचार्य त्यस स्वर्गमा गए, जो धर्मात्माहरूका लागि पनि दुर्लभ छ। साँच्चै, जब द्रोण स्वर्गतिर गए, तब हामीलाई यस्तो लाग्यो मानौँ आकाशमा दुई सूर्य छन्।
52जब सूर्यजस्तै तेजस्वी ती भरद्वाजपुत्र स्वर्गतिर बढे, तब सम्पूर्ण आकाश जगमगायो र एउटा विशाल समान प्रकाशपटलजस्तै देखियो।
53तर आँखा झिम्क्याउँदै त्यो प्रकाश लोप भयो, र तब त्यहाँ आनन्दित देवताहरूको कोलाहल सुनियो।
54जब द्रोण यसरी स्वर्गतिर गए, तब धृष्टद्युम्न स्तब्ध भई उनको छेउमा उभिएका थिए; मर्त्य प्राणीहरूमध्ये हामी पाँच जनाले मात्र देख्यौँ —
55कि योग र ध्यानमा लीन यशस्वी द्रोण परम कल्याणमय लोकहरूतिर गइरहेका छन्। ती पाँच थिए — म स्वयं, पृथापुत्र धनञ्जय, द्रोणपुत्र अश्वत्थामा,
56वृष्णिवंशी वासुदेव तथा पाण्डुका धर्मात्मा पुत्र राजा युधिष्ठिर। अरू कसैले पनि त्यो तेजोमय आभा देख्न सकेन, जसले बुद्धिमान् भरद्वाजपुत्रलाई घेरेको थियो, जब उनी योगमा लीन भई ती ब्रह्मलोकतिर गइरहेका थिए, जो देवताहरूका लागि पनि रहस्यमय छन् र जो सम्पूर्ण दिव्य लोकहरूमा सर्वोच्च छन्।
57वास्तवमा त्यस बेला सम्पूर्ण मानिसहरू यो कुरादेखि अनभिज्ञ थिए कि द्रोणले परम गति प्राप्त गरिसकेका छन्। तिनीहरूमध्ये कसैले पनि ती शत्रुदमन आचार्यलाई देख्न सकेन, जो अस्त्र त्यागेपछि, बाणले क्षतविक्षत तथा रगतले लत्पतिएको शरीरका साथ, योगमा स्थित भई श्रेष्ठ मुनिहरूसँगै ब्रह्मलोकतिर गइरहेका थिए।
58यसै बीच, यद्यपि सम्पूर्ण प्राणीले उनलाई धिक्कारिरहेका थिए, तथापि पार्षतले प्राणविहीन द्रोणको शिरमाथि दृष्टि हालेर त्यसलाई (कपालबाट समातेर) घिसार्न थाले।
59त्यसपछि उनले आफ्नो तरवारले आफ्ना ती शत्रुको शिर धडबाट काटिदिए, जो यस बीच मौनै रहे। तब भरद्वाजपुत्रको वधले उनी हर्षले भरिए।
60धृष्टद्युम्न आकाशमा निरन्तर आफ्नो तरवार घुमाउँदै उच्च स्वरमा सिंहनाद गर्न थाले। कानसम्म झुल्ने सेता कपाल भएका तथा श्याम वर्णका ती पचासी वर्षका वृद्ध —
61तपाईंकै लागि रणभूमिमा सोह्र वर्षको किशोरजस्तै विचरण गर्दथे। कुन्तीपुत्र महाबाहु धनञ्जयले (पहिले नै) भनेका थिए —
62"हे द्रुपदपुत्र, आचार्यलाई जीवितै ल्याऊ। उनको वध नगर। उनको वध हुनुहुँदैन, उनको वध हुनुहुँदैन।" तपाईंका सेनाहरूले पनि यसै गरी —
63पुकारा गरे; विशेषतः अर्जुन आफ्ना आचार्यप्रति करुणाले द्रवित भई उच्च स्वरमा चिच्याएका थिए। तर अर्जुनका तथा अन्य भूपालहरूका ती पुकारा उपेक्षा गरेर,
64हे नरश्रेष्ठ, धृष्टद्युम्नले द्रोणको उनकै रथको पछिल्लो भागमा वध गरिदिए। तब ती अजेय शत्रुदमन, रगतले रङ्गिएको शरीरका साथ, रथबाट पृथ्वीमा हामफाले र (नवोदित) सूर्यमण्डलजस्तै रातो देखिए। यसरी सैनिकहरूले द्रोणलाई युद्धमा मारिएको देखे।
65हे राजन्, त्यसपछि ती क्रुद्ध धनुर्धर धृष्टद्युम्नले भरद्वाजपुत्रको त्यो विशाल शिर तपाईंको सेनाको अगाडिको पङ्क्तिमा फ्याँकिदिए।
66तब भरद्वाजपुत्रको त्यो शिर देखेर सैनिकहरूको मन भाग्न चाह्यो, र हे राजन्, धेरै हिचकिचाहटविनै तिनीहरू भागे।
67यसै बीच स्वर्गतिर जाँदै गरेका द्रोण नक्षत्रमार्गमा प्रवेश गरे। द्रोणको मृत्युको (वास्तविक स्वरूप) मैले मात्र देखेँ।
68सत्यवतीपुत्र मुनि कृष्णद्वैपायनको कृपाले मैले ती तेजस्वीलाई देखेँ, जो आकाशमा आरोहण गरेपछि धुवाँको एउटा लहरसमेत नभएको प्रज्वलित ज्योतिपुञ्जजस्तै आकाशमा उडेर जाँदै थिए। द्रोणको वधले कुरु, पाण्डव तथा सृञ्जय — सबै खिन्न भए।
69र सबै ठूलो हतारका साथ भागे। तब सेना छिन्नभिन्न भयो। धेरै मारिइसकेका थिए र धेरै तीक्ष्ण बाणले घाइते थिए।
70द्रोणको मृत्युले तपाईंको सेना संज्ञाशून्यजस्तै भयो। पराजय भोगेर तथा भविष्यको भयले भरिएर —
71कुरुहरूले यो लोक तथा परलोक — दुवैको लाभ गुमाए। वास्तवमा तिनीहरूले सम्पूर्ण आत्मसंयम गुमाए। तब भूपालहरूले भरद्वाजपुत्रको शरीरको खोजी गरे,
72तर रणभूमि असंख्य शिरविहीन धडले ढाकिएकाले तिनीहरूले त्यो भेट्टाउन सकेनन्। अर्कोतिर पाण्डवहरू, जसले यहाँ विजय पाएका थिए र भविष्यमा यशको सम्भावना आर्जन गरेका थिए,
73आफ्ना बाण तथा शङ्खले उच्च ध्वनि गर्न थाले र तिनीहरूले भयंकर सिंहनाद गरे। तब भीमसेन तथा पार्षत धृष्टद्युम्न —
74पाण्डव-सेनाको बीचमा, जसले ती दुवैलाई हेरिरहेको थियो, आपसमा अङ्गालो मारे। तब ती शत्रुसन्तापक भीमले पार्षतलाई सम्बोधन गर्दै भने —
75"हे पार्षत, म तिमीलाई, विजयी तिमीलाई, तब फेरि अङ्गालो मार्नेछु जब युद्धमा पापी सूतपुत्र (कर्ण) तथा धृतराष्ट्रका छोराहरू मारिनेछन्।"
76यति भनेर तथा हर्षले भरिएर पाण्डुपुत्र भीमले आफ्ना पाखुराको आस्फोटको ध्वनिले पृथ्वी काँपाइदिए।
77त्यस ध्वनिले तपाईंको सेना भयभीत भई भाग्न थाल्यो; र क्षत्रियहरूको धर्मको उपेक्षा गरेर तिनीहरू भाग्नमै आफ्नो पूरा प्रयत्न लगाउन थाले।
78हे नरेश्वर, विजय पाएर पाण्डवहरू हर्षले भरिए; र युद्धमा आफ्ना शत्रुहरूको विनाशले तिनीहरूको आनन्द महान् थियो।