भीष्म-वध पर्व — नवौँ दिनको युद्धको समाप्ति
खण्ड 4 — भीष्म पर्व · अध्याय 108
संस्कृत
1संजय उवाच ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः। आजघान रणे पार्थान् सहसेनान् समन्ततः॥ भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः। नकुलं च त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः॥
2युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत्। धृष्टद्युम्नं ततो विद्ध्वा ननाद सुमहाबलः॥ तं द्वादशाख्यैर्नकुलो माधवश्च त्रिभिः शरैः। धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च सप्तभिः॥
3युधिष्ठिरो द्वादशभिः प्रत्यविध्यत् पितामहम्। द्रोणस्तु सात्यकि विद्ध्वा भीमसेनमविध्यत॥
4एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः। तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः॥
5तोत्रैरिवं महानागं द्रोणं ब्राह्मणपुङ्गवम्। सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः॥
6अभीषाहाः शूरसेनाः शिवयोऽथ वसातयः। संग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः॥
7तथैवान्ये महीपाला नानादेशसमागताः। पाण्डवानभ्यवर्तन्त विविधायुधपाणयः॥
8तथैव पाण्डवा राजन् परिवब्रुः पितामहम्। स समन्तात् परिवृतो रथौधैरपराजितः॥
9गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन् परान्। रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः॥
10शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान्। सुवर्णपुङरिषुभिर्गार्धपक्षौः सुतेजनैः॥
11कर्णिनालीकनाराचैश्छादयामास तद् बलम्। अपातयद् ध्वजांश्चैव रथिनश्च शितैः शरैः॥
12मुण्डतालवनानीव चकार स रथव्रजान्। निर्मनुष्यान् रथान् राजन् गजाश्वांश्च संयुगे॥ अकरोत् स महाबाहुः सर्वशस्त्रभृतां वरः। तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः॥ निशम्य सर्वभूतानि समकम्पन्त भारत। अमोघा ह्यपतन् बाणाः पितुस्ते भरतर्षभ॥
13नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः। हतवीरान् रथान् राजन् संयुक्ताञ्जवनैर्हयैः॥ अपश्याम महाराज ह्रियमाणान् रणाजिरे। चेदिकाशिकरूषाणं सहस्राणि चतुर्दश॥ महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः। अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः॥ संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम्। निमग्नाः परलोकाय सवाजिरथकुञ्जराः॥
14भग्नाक्षोपस्करान् कांश्चिद् भग्नचक्रांश्च भारत। अपश्याम महाराज शतशोऽथ सहस्रशः॥
15सवरूथे रथैर्भग्नै रथिभिश्च निपातितः। शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशाम्पते।॥
16गदाभिर्भिन्दिपालैश्च निशितैश्च शिलीमुखैः। अनुकईंपासङ्गैश्चर्भग्नैश्च मारिष॥
17बाहुभिः कार्मुकैः खङ्गैः शिरोभिश्च सकुण्डलैः। तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः॥
18चापैश्च बहुधा च्छिन्नैः समास्तीर्यत मेदिनी। हतारोहा गजा राजन् हयाश्च हयसादिनः॥
19न्यपतन्त मतप्राणाः शतशोऽथ सहस्रशः। यतमानाश्च ते वीरा द्रवमाणान् महारथान्॥ नाशक्नुवन् वारयितुं भीष्मबाणप्रपीडितान्। महेन्द्रसमवीर्येण वध्यमाना महाचमूः॥ अभज्यत महाराज न च द्वौ सह धावतः। आविद्धरथनागाश्वं पतितध्वजसंकुलम्॥
20अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्। जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा।॥ प्रियं सखायं चाक्रन्दे सखा दैवबलात् कृतः। विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः॥ प्रकीर्य कैशान् धावन्तः प्रत्यदृश्यन्त सर्वशः। तद् गोकुलमिवोद्भ्रान्तमुद्घान्तरथकूबरम्॥ ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा। प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः॥
21उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्। अयं स कालः सम्प्राप्तः पार्थ यः काक्षितस्तव॥
22प्रहरास्मिन् नरव्याघ्र न चेन्मोहाद् विमुह्यसे। यत् पुरा कथितं वीर राज्ञां तेषां समागमे॥
23विराटनगरे तात संजयस्य समीपतः। भीष्मद्रोणमुखान् सर्वान् धार्तराष्ट्रस्य सैनिकान्॥ सानुबन्धान् हनिष्यामि ये मां योत्स्यन्ति संगरे। इति तत् कुरु कौन्तेय सत्यं वाक्यमरिंदम॥
24क्षत्रधर्ममनुस्मृत्य युध्यस्व विगतज्वरः। इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः॥ अकाम इव बीभत्सुरिदं वचनमब्रवीत्। अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम्॥
25दुःखानि वनवासे वा किं नु मे सुकृतं भवेत्। चोदयाश्वान् यतो भीष्मः करिष्ये वचनं तव॥
26पातयिष्यामि दुर्धर्षं भीष्मं कुरुपितामहम्। स चाश्वान् रजतप्रख्यांश्चोदयामास माधवः॥
27यतो भीष्मस्ततो राजन् दुष्प्रेक्ष्यो रश्मिवानिव।
28दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे। ततो भीष्मः कुरुश्रेष्ठः सिंहवद् विनदन् मुहुः॥
29धनंजयरथं शीघ्रं शरवर्षैरवाकिरत्। क्षणेन स रथस्तस्य सहयः सहसारथिः॥
30शरवर्षेण महता न प्राज्ञायत भारत। वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्वरः॥
31चोदयामास तानश्वान् विनुन्नान् भीष्मसायकैः। ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम्॥
32पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः। सच्छिन्नधन्वा कौरव्यः पुनरन्यन्महद् धनुः॥ निमेषान्तरमात्रेण सज्यं चक्रे पिता तव। चकर्ष च ततो दो• धनुर्जलदनिःस्वनम्॥ अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः।
33तस्य तत् पूजयामास लाघवं शान्तनोः सुतः॥ गाङ्गेयस्त्वब्रवीत् पार्थं धन्विश्रेष्ठमरिंदम। साधु साधु महाबाहो साधु कुन्तीसुतेति च॥
34समाभाष्यैवमपरं प्रगृह्य रुचिरं धनुः। मुमोच समरे भीष्मः शरान् पार्थरथं प्रति॥
35अदर्शयद् वासुदेवो हययाने परं बलम्। मोघान् कुर्वशरांस्तस्य मण्डलानि निदर्शयन्॥
36शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ। गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ॥
37वासुदेवस्तु सम्प्रेक्ष्य पार्थस्य मृदुयुद्धताम्। भीष्मं च शरवर्षाणि सृजनामनिशं युधि॥ प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः। वरान् वरान् विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्॥ युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले। नामृष्यत महाबाहुर्माधवः परवीरहा॥
38उत्सृज्य रजतप्रख्यान् हयान् पार्थस्य मारिष। वासुदेवस्ततो योगी प्रचस्कन्द महारथात्॥
39अभिदुद्राव भीष्मं स भुजप्रहरणो बली। प्रतोदपाणिस्तेजस्वी सिंहवद् विनदन् मुहुः॥ दारयन्निव पद्भ्यां स जगतीं जगदीश्वरः। क्रोधताप्रेक्षणः कृष्णो जिघांसुरमितद्युतिः॥
40ग्रसन्तमिव चेतांसि तावकानां महाहवे। दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यतमन्तिके॥
41हतो भीष्मो हतो भीष्मस्तत्र तत्र वचो महत्। अश्रूयत महाराज वासुदेवभयात् तदा॥
42पीतकौशेयसंवीतो मणिश्यामो जनार्दनः। शुशुभे विद्रवन् भीष्मं विद्युन्माली यथाम्बुदः॥
43स सिंह इव मातङ्गं यूथर्षभ इवर्षभम्। अभिदुद्राव वेगेन विनदन् यादवर्षभः॥
44तमापतन्तं सम्प्रेक्ष्य पुण्डरीकाक्षमाहवे। असम्भ्रमं रणे भीष्मो विचकर्ष महद् धनुः॥
45उवाच चैव गोविन्दमसम्भ्रान्तेन चेतसा। एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु ते॥
46मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे। त्वया हि देव संग्रामे हतस्यापि ममानघ॥
47श्रेय एव परं कृष्ण लोके भवति सर्वतः। सम्भावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे॥
48प्रहरस्व यथेष्टं वै दासौऽस्मि तव चानघ। पार्थः समभिद्रुत्य केशवम्॥ नग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै। निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः॥ जगामैवैनमादाय वेगेन पुरुषोत्तमः। पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा॥ अन्वगेव ततः निजग्राह हृषीकेशं कथंचिदं दशमे पदे।
49तत एवमुवाचार्तः क्रोधपर्याकुलेक्षणम्॥ निःश्वसन्तं यथा नागमर्जुनः प्रणयात् सखा। निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि॥ यत् त्वया कथितं पूर्वं न योत्स्यामिति केशव। मिथ्यावादीति लोकास्त्वां कथयिष्यन्ति माधव॥
50ममैषः भारः सर्वो हि हनिष्यामि पितामहम्। शपे केशव शस्त्रेण सत्येन सुकृतेन च॥
51अन्तं यथा गमिष्यामि शत्रूणां शत्रुसूदन। अद्यैव पश्य दुर्धर्षं पात्यमानं महास्थम्॥
52तारापतिमिवापूर्णमन्तकाले यदृच्छया। माधवस्तु वचः श्रुत्वा फाल्गुनस्य महात्मनः॥ (अभवत् परमप्रीतो ज्ञात्वा पार्थस्य विक्रमम्।)
53न किंचिदुक्त्वा सक्रोध आरुरोह रथं पुनः। तौ रथस्थौ नरव्याघ्रो भीष्मः शान्तनवः पुनः॥ ववर्ष शरवर्षेण मेघो वृष्ट्या यथाऽचलौ। प्राणानादत्त योधानां पिता देवव्रतस्तव॥
54गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये। यथा कूरूणां सैन्यानि बभ युधि पाण्डवाः॥
55तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता। हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः॥ निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे। मध्यंगतमिवादित्यं प्रतपन्तं स्वतेजसा॥ ते वध्यमाना भीष्मेण शतशोऽथ सहस्रशः। कुर्वाणं समरे कर्माण्यतिमानुषविक्रमम्॥ वीक्षांचक्रुर्महाराज पाण्डवा भयपीडिताः। तथा पाण्डवसैन्यानि द्राव्यमाणानि भारत॥ त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव। पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे॥
56महारथं भारत दुष्प्रकम्पं शरौघिणं प्रतपन्तं नरेन्द्रान्। भीष्मं न शेकुः प्रतिभीक्षितुं ते शरार्चिषं सूर्यमिवातपन्तम्॥
57मस्तं जगामाथ सहस्ररश्मिः। ततो बलानां श्रमकर्शितानां मनोऽवहारं प्रति सम्बभूव॥
अङ्ग्रेजी
1Sanjaya said Thereupon your father, waxing worth, began to pierce the sons of Pritha and their troops, with excellent shafts of exceeding sharpness. Piercing Bhima with twelve, Satyaki with nine shafts, Nakula with three, Sahadeva with seven, he pierced.
2Yudhishthira with twelve shafts on the arms and on the breast. Then that highly powerful hero, having pierced Dhrishtadyumna also, uttered a loud roar. Nakula pierced him in return with twelve shafts, the descendant of Madhu's race with three, Sahadeva with seventy, Partha with nine, Dhrishtadyumna with seventy and Bhimasena with seven shafts.
3Then Yudhishthira pierced the grandsire in return with twelve shafts. Drona having pierced Satyaki began to pierce Bhima,
4Each time with five whetted shafts resembling the rods of Death himself. Those two heroes, each then with three straight shafts, pierced in return,
5That foremost of Brahmanas namely Drona, like a guide piercing a mighty elephant with the hook. The Souviras, the Kitavas, the Easterners, the Westerners, the Northerners, the Malavas,
6The Abhishahas, the Shurasenas, the Shibi's and the Vasatis, these did not avoid Bhishma through fearfully slaughtered by him in battle with whetted shafts.
7So also many other kings, come from various other realms, rushed at the Pandavas, bearing in their hands weapons of diverse kinds.
8The Pandavas also surrounded the grandsire on all sides. That invincible one (Bhishma) surrounded by that mighty division of cars,
9Blazed forth destroying the foe, like a terrible conflagration in a wood. His car was his fire chamber, his bow was his flames, his sword, dares, and maces were his fuels.
10His arrows were the scintillation's, and Bhishma himself was the fire that consumed the forest of the Kshatriyas. With arrows furnished with golden wings and the feathers of vultures and charged with great energy,
11With barbed arrows, with Nalikas and Narachas, Bhishma covered that army of the Pandavas. He felled with whetted shafts elephants and car-warriors.
12He made the large detachment of carwarriors look like a palmyra-forest with its trees deprived of their tops. In that battle, ) king, that mighty-armed hero, the foremost of all wielders of weapons, made cars, elephants and steeds deprived of their riders. Hearing the twang, that resembled the rumbling of the thunder, of your father's bow, ( Bharata, ali creatures began to tremble, and O foremost of the Bharatas, then the arrows of your father seemed to be incapable of being baffled.
13Then the arrows, shot from the bow of Bhishma, did not only strike against the armours of combatants but penetrated through them. We saw, O monarch, many cars dragged over the field, by the fleet steeds that were harnessed to them, in consequence of the death of the heroes that rode them. Four and ten thousand car-warriors belonging to the Chedis, the Kashis and the Karushas, all well-known, and born of illustrious family, never retreating from field and owners of golden standards, prepared to lay down their lives in battle, encountering Bhishma who looked like Death himself with mouth wide open, were all dispatched to the regions of the departed along with their steeds, cars and elephants.
14We beheld, O monarch, chariots by hundreds and thousands then, some with their Akihas shattered and bottoms broken, some with their wheels broken.
15Then, O monarch, with cars broken along with their wooden fences, with fallen carwarriors, with arrows, with beautiful but broken armours, with battle axes,
16With maces, with short arrows, and whetted shafts, with car bottoms, with quivers, shattered wheels, O sire,
17With arms, bows, words, and heads graced with ear-rings, with finger-protectors and gloves, and broken standards,
18With bows splintered into pieces, the earth become strewn over. Then, O king, elephants with their riders slain, and slaughtered horsemen,
19Began to fall down dead on the field by hundreds and by thousands. Striving their least, the heroic warriors of the Pandava army could not rally the car-warriors who, afflicted by the arrows of Bhishma, were flying then in all directions. That mighty host (of the Pandavas), slaughtered by Bhishma who equaled even Indra in prowess, were so completely broken that no two persons were seen to fly together. With its chariots, elephants and horses laid low and with its standards and flags overthrown in profusion,
20The army of the sons of Pandu, deprived of its consciousness began to utter cries of “Oh” and "Alas.” In that battle father slew his own son and son slew his own father, and friend slew his dear friend urged on to the deed by Destiny. Many combatants of the Pandava army, doffing their armours, were seen to run away in all directions with their hair disheveled. Then the troops belonging to the son of Pandu were seen to run hurriedly in fear like a herd of bulls throwing aside the yokes of cars, and the cries of distress that these troops then uttered were indeed fearful. Then the descendant of the Yadava race beholding the army thus routed,
21Spoke to Vibhatsu the son of Pritha reining in the excellent chariot he drove, "O Partha, the hour which you so ardently looked forward to, has now arrived.
22Now strike, O foremost of men, or you shall be unconscious being overwhelm by a swoon. O hero, the words you uttered before in the assemblage of kings.
23In the city of Virata, before Sanjaya himself. O Pritha's son, those words are 'I will slay all the combatants of Dhritarashtra's son along with their followers, headed by Bhishma and Drona, all who will fight with me.' O son of Kunti, O grinder of foes, do you now verify those words of yours.
24Remembering the duties of a Kshatriya go to fighting without harbouring any anxious feeling.” Thus spoken to, by the son of Vasudeva, with his head hung down and loO king askance, Arjuna as if unwilling said these words to the former. “Either to acquire monarchy with hell at the end by the slighter of those who ought not to be slain,
25Or to suffer the woes of an exiled life, which of these should now be considered as my duty? However, O Hrishikesha, urged the steeds on, I shall do your bidding.
26I will lay low Bhishma the grandsire of the Kurus." Thereupon that descendant of Madhu's race, drove those steeds of Argentine hue,
27To the spot, O king, where Bhishma; incapable of being gazed at like the sun himself, was staying. Thereupon the mighty army of king Yudhishthira returned to the charge,
28Beholding the mighty-armed son of Pritha rush for an encounter with Bhishma in that terrible fight. Thereupon, O foremost of the Kurus, Bhishma uttered his war-cry even like a roaring lion,
29And then quickly covered the car of Dhananjaya with a shower of arrows. Within a moment Arjuna's car with the steeds and charioteer,
30Were lost to view in consequence of that thick arrows shower. But the son of Vasudeva, with the least delay and with patience, fearlessly,
31Drove forward those steeds mangled with the shafts of Bhishma. Then the son of Pritha taking up his bow of celestial make and of twang as loud as the rumble of clouds,
32Felled the bow of Bhishma having burst it open with whetted shafts. Then deprived of his bow, that foremost of the Kurus, viz., your father, within a moment made another bow ready for use. But Arjuna, waxing worth, cut off even that bow of his.
33Then the son of Shantanu highly praised Arjuna's lightness of hand saying "Well-done well-done, O mighty-armed one, well-done, 0 son of Kunti."
34Having thus applauded Partha and taking up another bow of great excellence, Bhishma sped, in that battle, arrows against the chariot of the former.
35Then the son of Vasudeva displayed superior skill in the management of horses in as much as he baffled Bhishma's arrows by a swift whirling of the car in a circular motion.
36Mangled with the shafts of Bhishma, those two foremost of men, (Arjuna and Krishna) then appeared beautiful like two heifers, enraged, and mangled with scratches of their horns.
37Then that slayer of hostile heroes, that mighty-armed descendant of Madhu's race, viz., the son of Vasudeva, seeing that Arjuna was fighting mildly, and that Bhishma was continually pouring his showers of arrows in battle, also that the latter standing in the centre of the two hosts, was scorching (every thing) like the sun himself and was slaying the foremost combatants of the army of Pandu's son, and was producing in the army of Yudhishthira a total annihilation like that at the end of a Yuga, was unable to bear it any longer.
38Then, O sire, throwing away the reins of Partha's steeds of Argentine hue, that illustrious Yogin (Krishna) waxing irascible, jumped down from that huge chariot.
39Then roaring repeatedly like a lion, Krishna endued with strength and fleetness, and of incomparable effulgence, that lord of the universe, having his bare arms for his weapons and wielding the whip in his hands, and with his eyes coppery in rage, rushed towards Bhishma, splitting the earth with his tread, and desirous of slaying the latter.
40In that mighty battle, the hearts of your warriors were filled with terror as they beheld him of Madhu's race near Bhishma, ready to fall upon the latter.
41Then, O mighty monarch, exclamations of 'Bhishma is slain, Bhishma is slain' were heard there, uttered by your troops inspired with the fear of Vasudeva's son.
42Then Janardana, vested in yellow silk raiment’s and blue in complexion like the lapis lazuli, rushing towards Bhishma appeared beautiful like a rain cloud charged with lightning.
43Just as the king of beasts uttering loud roars rushes towards the leader of an elephant-herd, so then that foremost of Madhu's race rushed impetuously towards Bhishma, uttering loud roars.
44Then beholding in that dreadful battle, Krishna of eyes like lotus petals rush furiously towards him, Bhishma began to stretch his strong and mighty bow.
45Then addressing Govinda with a dauntless heart, he said "Come, come, O you of eyes like lotus petals! O god of gods, I do bow down unto you.
46Lay me low, O foremost of the Satvata race, this day in this dreadful fight! O sinless one, slain by you in this battle, O god,
47I shall reap great good, O Krishna, in every respect in this world. O Govinda, today, in the three worlds, have I attained great honour in battle.
48Strike me as it pleases you, O sinless one, as I am merely a slave of yours.” Meanwhile the mighty-armed son of Pritha, running behind Keshava, seized the latter embracing him with his two arms. That foremost of men viz., Krishna of eyes like expanded lotuses, thus held by the son of Pritha proceeded even carrying the latter with him. Then that slayer of hostile heroes, that puissant warrior, the son of Pritha, forcibly encircling (with his two arms) the two legs of Hrishikesha stopped him when he was going to take the tenth step.
49Then his friend Arjuna, highly distressed, affectionately addressing Keshava, who was then breathing like a snake and whose eyes were rolling in wrath, said 'Stop, O mightyarmed one! It behooves you not to falsify those words of yours viz., 'I will not fight,' that you had spoken before, O Keshava. Then, O descendant of Madhu's race, men will call your a liar.
50Let all the burden be on me, I will slay the grandsire! Ishvara, O Keshava, o Keshava, by my weapons, by my troth and by iny good achievements,
51That, O destroyer of foes, I will do everything by which the destruction of the enemy may be accomplished. Even this day behold the invincible mighty car-warrior overthrown.
52By me, with the least difficulty like the crescent moon at the end of a Yuga.” Hearing those words of the high-souled Phalguna, that descendant of Madhu's race, became cheerful knowing the prowess of Partha.
53Without speaking any thing, again mounted the chariot in rage. Then Bhishma the son of Shantanu, once more covered those two foremost of men on their cars, with an arrows downpour, like clouds drenching the mountain breast with showers of rain. Then your sire Devavrata took the lives of all hostile warriors,
54Like the sun drawing energies from all things with his rays at the end of the winter season. As the sons of Pandu broke the ranks of the Kuru troops in battle.
55So your father also broke the Pandava ranks in battle. The soldiers thus routed, and despondent and cheerless, slain, by hundreds and thousands, by Bhishma, were unable to gaze at the incomparable Bhishma, who was scorching the foe like the sun in the meridian. The Pandava troops then afflicted with terror, O monarch, (fearfully) looked at Bhishma who was achieving great feats with his superhuman prowess. Then, O Bharata, the Pandava troops thus crushed by Bhishma, could not find a protector, like kine sunk in slough, or like an ephemeral ant afflicted by a powerful creature.
56The combatants of the Pandava hosts, O Bharata, were unable to look at that mighty car-warrior Bhishma, who was incapable of being shaken, who with his arrow showers was afflicting the hostile kings, and who in consequence of his blazing shafts looked like the shining sun.
57While he was thus crushing the Pandava troops, the sun of thousand rays went below the horizon. Then the hearts, of all those warriors exhausted with fatigue, yearned for the order of withdrawal.
हिन्दी
1सञ्जय ने कहा — तत्पश्चात् क्रोध से भरकर आपके पिता अत्यन्त तीक्ष्ण उत्तम बाणों से पृथापुत्रों और उनकी सेनाओं को बींधने लगे। भीम को बारह, सात्यकि को नौ, नकुल को तीन और सहदेव को सात बाणों से बींधकर उन्होंने —
2युधिष्ठिर को भुजाओं और वक्षःस्थल पर बारह बाणों से बींधा। तब उन अत्यन्त शक्तिशाली वीर ने धृष्टद्युम्न को भी बींधकर महान् गर्जना की। बदले में नकुल ने उन्हें बारह बाणों से, मधुवंशी सात्यकि ने तीन, सहदेव ने सत्तर, पार्थ ने नौ, धृष्टद्युम्न ने सत्तर और भीमसेन ने सात बाणों से बींधा।
3तब युधिष्ठिर ने बदले में पितामह को बारह बाणों से बींधा। द्रोण ने सात्यकि को बींधकर भीम को बींधना आरम्भ किया —
4प्रत्येक बार साक्षात् यमदण्ड के समान पाँच तीक्ष्ण बाणों से। तब उन दोनों वीरों ने भी तीन-तीन सीधे बाणों से बदले में —
5उन ब्राह्मणश्रेष्ठ द्रोण को इस प्रकार बींधा जैसे महावत अंकुश से विशाल हाथी को बींधता है। सौवीर, कितव, पूर्वी, पश्चिमी, उत्तरी, मालव,
6अभिषाह, शूरसेन, शिबि और वसाति — ये सब युद्ध में तीक्ष्ण बाणों से भीष्म द्वारा भयंकर रूप से मारे जाने पर भी उनके सम्मुख से नहीं हटे।
7इसी प्रकार विविध अन्य देशों से आए अनेक राजा भी हाथों में नाना प्रकार के शस्त्र लिए पाण्डवों पर टूट पड़े।
8पाण्डवों ने भी पितामह को चारों ओर से घेर लिया। रथों की उस विशाल सेना से घिरे वे अजेय (भीष्म) —
9वन में भयंकर दावानल के समान शत्रुओं का नाश करते हुए प्रज्वलित हो उठे। उनका रथ उनकी अग्निशाला था, उनका धनुष ज्वालाएँ, और उनकी तलवार, ऋष्टियाँ तथा गदाएँ ईंधन थीं।
10उनके बाण चिंगारियाँ थे, और स्वयं भीष्म वह अग्नि थे जो क्षत्रियों के वन को भस्म कर रही थी। सुवर्णमय पंखों और गीधों के परों से युक्त तथा महान् वेग से भरे बाणों से,
11कँटीले बाणों से, नालिकों और नाराचों से भीष्म ने पाण्डवों की उस सेना को ढक दिया। उन्होंने तीक्ष्ण बाणों से हाथियों और रथियों को गिरा डाला।
12उन्होंने रथियों की उस विशाल टुकड़ी को शिखरहीन वृक्षों वाले ताड़वन के समान बना दिया। हे राजन्, उस युद्ध में समस्त शस्त्रधारियों में श्रेष्ठ उन महाबाहु वीर ने रथों, हाथियों और अश्वों को उनके सवारों से रहित कर दिया। हे भरतवंशी, मेघगर्जन के समान आपके पिता के धनुष की टंकार सुनकर समस्त प्राणी काँपने लगे, और हे भरतश्रेष्ठ, तब आपके पिता के बाण अव्यर्थ प्रतीत होने लगे।
13तब भीष्म के धनुष से छूटे बाण योद्धाओं के कवचों से टकराते ही नहीं थे, अपितु उन्हें भेदकर पार निकल जाते थे। हे राजन्, हमने ऐसे बहुत से रथ देखे जो अपने में जुते वेगवान् अश्वों द्वारा रणभूमि पर घसीटे जा रहे थे, क्योंकि उन पर सवार वीर मारे जा चुके थे। चेदि, काशी और करूष देशों के चौदह सहस्र रथी, जो सब प्रसिद्ध थे, यशस्वी कुलों में उत्पन्न थे, रणभूमि से कभी पीछे न हटने वाले तथा सुवर्ण की ध्वजाओं के स्वामी थे और युद्ध में प्राण त्यागने को उद्यत थे, मुख फैलाए साक्षात् मृत्यु के समान दिखते भीष्म से भिड़कर अपने अश्वों, रथों और हाथियों सहित परलोक भेज दिए गए।
14हे राजन्, तब हमने सैकड़ों और सहस्रों रथ देखे — कुछ के अक्ष (धुरे) चूर-चूर हो चुके थे और तल टूट चुके थे, कुछ के पहिए टूट चुके थे।
15तब, हे राजन्, अपने काष्ठ के कठघरों सहित टूटे रथों से, गिरे हुए रथियों से, बाणों से, सुन्दर किन्तु टूटे कवचों से, फरसों से,
16गदाओं से, छोटे बाणों से और तीक्ष्ण शरों से, रथों के तलों से, तूणीरों से, हे तात, टूटे पहियों से,
17भुजाओं से, धनुषों से, तलवारों से, कुण्डलों से सुशोभित सिरों से, अंगुलित्राणों और दस्तानों से, तथा टूटी ध्वजाओं से,
18और टुकड़े-टुकड़े हुए धनुषों से पृथ्वी पट गई। तब, हे राजन्, जिनके आरोही मारे जा चुके थे ऐसे हाथी और मारे गए अश्वारोही —
19सैकड़ों और सहस्रों की संख्या में रणभूमि में मृत होकर गिरने लगे। पाण्डव सेना के वीर योद्धा अपना पूरा प्रयत्न करके भी उन रथियों को नहीं रोक सके जो भीष्म के बाणों से पीड़ित होकर सब दिशाओं में भाग रहे थे। पराक्रम में इन्द्र के भी समान भीष्म द्वारा संहार की जा रही (पाण्डवों की) वह विशाल सेना इतनी पूर्णतः छिन्न-भिन्न हो गई कि दो व्यक्ति भी साथ भागते नहीं दिखे। अपने रथों, हाथियों और अश्वों के धराशायी होने तथा ध्वजाओं और पताकाओं के प्रचुर मात्रा में गिर जाने पर —
20पाण्डुपुत्रों की सेना अपनी सुध-बुध खोकर "हाय!" और "अरे!" की पुकार करने लगी। उस युद्ध में दैव से प्रेरित होकर पिता ने अपने ही पुत्र का वध किया, पुत्र ने अपने ही पिता का, और मित्र ने अपने प्रिय मित्र का। पाण्डव सेना के अनेक योद्धा अपने कवच उतारकर बिखरे केशों के साथ सब दिशाओं में भागते देखे गए। तब पाण्डुपुत्र की सेनाएँ रथों के जुओं को फेंककर भागते बैलों के झुण्ड के समान भय से शीघ्रता से भागती दिखीं, और तब उन सेनाओं ने जो आर्तनाद किया वह सचमुच भयंकर था। तब सेना को इस प्रकार भागते देखकर यादववंशी (कृष्ण) ने —
21जो उत्तम रथ हाँक रहे थे, उसके अश्वों की रास खींचकर पृथापुत्र विभत्सु (अर्जुन) से कहा — "हे पार्थ, जिस घड़ी की तुम इतनी उत्कण्ठा से प्रतीक्षा कर रहे थे, वह अब आ पहुँची है।
22हे नरश्रेष्ठ, अब प्रहार करो, अन्यथा तुम मूर्च्छा से अभिभूत होकर अपनी सुध खो बैठोगे। हे वीर, राजाओं की सभा में तुमने पहले जो वचन कहे थे —
23विराट की नगरी में, स्वयं सञ्जय के सम्मुख। हे पृथापुत्र, वे वचन ये थे — 'मैं भीष्म और द्रोण के नेतृत्व में धृतराष्ट्रपुत्र के उन समस्त योद्धाओं का उनके अनुचरों सहित वध करूँगा, जो मुझसे युद्ध करेंगे।' हे कुन्तीपुत्र, हे शत्रुदमन, अब तुम अपने उन वचनों को सत्य करो।
24क्षत्रिय के कर्तव्यों का स्मरण करते हुए किसी चिन्ता को मन में न रखकर युद्ध में जाओ।" वासुदेव द्वारा इस प्रकार कहे जाने पर अर्जुन ने सिर झुकाकर और तिरछी दृष्टि से देखते हुए, मानो अनिच्छा से, उनसे ये वचन कहे — "जो वध के योग्य नहीं हैं उनका वध करके अन्त में नरक देने वाला राज्य प्राप्त करना,
25अथवा वनवास के कष्ट सहना — इनमें से किसे अब मेरा कर्तव्य माना जाए? तथापि, हे हृषीकेश, अश्वों को आगे बढ़ाइए; मैं आपकी आज्ञा का पालन करूँगा।
26मैं कुरुओं के पितामह भीष्म को धराशायी कर दूँगा।" तत्पश्चात् उन मधुवंशी (कृष्ण) ने रजत के रंग वाले उन अश्वों को हाँका —
27हे राजन्, उस स्थान की ओर जहाँ स्वयं सूर्य के समान दुर्निरीक्ष्य भीष्म खड़े थे। तत्पश्चात् राजा युधिष्ठिर की विशाल सेना पुनः युद्ध की ओर लौट आई,
28उस भयंकर युद्ध में महाबाहु पृथापुत्र को भीष्म से भिड़ने के लिए दौड़ते देखकर। तत्पश्चात्, हे कुरुश्रेष्ठ, भीष्म ने गरजते सिंह के समान अपना युद्धघोष किया,
29और फिर शीघ्र ही धनञ्जय के रथ को बाणों की वर्षा से ढक दिया। क्षण भर में अर्जुन का रथ अपने अश्वों और सारथि सहित —
30उस घनी बाणवर्षा के कारण दृष्टि से ओझल हो गया। किन्तु वासुदेव ने तनिक भी विलम्ब किए बिना, धैर्य के साथ और निर्भय होकर —
31भीष्म के बाणों से क्षत-विक्षत उन अश्वों को आगे हाँका। तब पृथापुत्र ने अपना दिव्य धनुष उठाया, जिसकी टंकार मेघों की गड़गड़ाहट के समान थी,
32और तीक्ष्ण बाणों से भीष्म के धनुष को तोड़कर गिरा दिया। तब धनुष से रहित हुए उन कुरुश्रेष्ठ, अर्थात् आपके पिता ने, क्षण भर में दूसरा धनुष तैयार कर लिया। किन्तु क्रोध से भरे अर्जुन ने उनके उस धनुष को भी काट डाला।
33तब शान्तनुपुत्र ने अर्जुन के हस्तलाघव की बहुत प्रशंसा की और कहा — "साधु! साधु! हे महाबाहु, साधु, हे कुन्तीपुत्र!"
34इस प्रकार पार्थ की सराहना करके और अत्यन्त उत्तम दूसरा धनुष उठाकर भीष्म ने उस युद्ध में उनके रथ पर बाण छोड़े।
35तब वासुदेव ने अश्वसञ्चालन में अपनी श्रेष्ठ कुशलता दिखाई, क्योंकि उन्होंने रथ को वेग से गोलाकार घुमाकर भीष्म के बाणों को व्यर्थ कर दिया।
36भीष्म के बाणों से क्षत-विक्षत वे दोनों नरश्रेष्ठ (अर्जुन और कृष्ण) क्रुद्ध हुए और अपने सींगों की खरोंचों से क्षत-विक्षत दो बछड़ों के समान सुशोभित हुए।
37तब शत्रुवीरों का संहार करने वाले महाबाहु मधुवंशी वासुदेव ने देखा कि अर्जुन मृदुता से युद्ध कर रहे हैं और भीष्म युद्ध में निरन्तर बाणों की वर्षा कर रहे हैं, तथा दोनों सेनाओं के मध्य में खड़े होकर स्वयं सूर्य के समान (सब कुछ) तपा रहे हैं, पाण्डुपुत्र की सेना के श्रेष्ठ योद्धाओं का वध कर रहे हैं और युधिष्ठिर की सेना में युगान्त के समान सर्वनाश उत्पन्न कर रहे हैं — तब वे इसे और अधिक सह न सके।
38तब, हे तात, रजत के रंग वाले पार्थ के अश्वों की रास फेंककर वे यशस्वी योगी (कृष्ण) क्रोध से भरकर उस विशाल रथ से कूद पड़े।
39तब बार-बार सिंह के समान गरजते हुए, बल और वेग से सम्पन्न, अनुपम तेज वाले वे जगदीश्वर कृष्ण अपनी नंगी भुजाओं को ही शस्त्र बनाकर, हाथों में चाबुक लिए और क्रोध से ताम्रवर्ण नेत्रों के साथ, अपने पगों से पृथ्वी को विदीर्ण करते हुए भीष्म का वध करने की इच्छा से उनकी ओर दौड़े।
40उस महायुद्ध में मधुवंशी (कृष्ण) को भीष्म के निकट, उन पर टूट पड़ने को उद्यत देखकर आपके योद्धाओं के हृदय भय से भर गए।
41हे महाराज, तब वासुदेवपुत्र के भय से भरे आपके सैनिकों द्वारा कहे गए "भीष्म मारे गए, भीष्म मारे गए" ये उद्गार वहाँ सुनाई पड़े।
42तब पीत रेशमी वस्त्र धारण किए और नीलमणि के समान श्यामवर्ण जनार्दन भीष्म की ओर दौड़ते हुए विद्युत् से युक्त वर्षामेघ के समान सुशोभित हुए।
43जैसे मृगराज उच्च स्वर से गरजता हुआ गजयूथ के नायक की ओर दौड़ता है, वैसे ही वे मधुवंशश्रेष्ठ उच्च गर्जना करते हुए वेग से भीष्म की ओर दौड़े।
44तब उस भयंकर युद्ध में कमलदल के समान नेत्रों वाले कृष्ण को क्रोधपूर्वक अपनी ओर दौड़ते देखकर भीष्म अपना दृढ़ और विशाल धनुष खींचने लगे।
45तब निर्भय हृदय से गोविन्द को सम्बोधित करते हुए उन्होंने कहा — "आइए, आइए, हे कमलदललोचन! हे देवाधिदेव, मैं आपको प्रणाम करता हूँ।
46हे सात्वतश्रेष्ठ, आज इस भयंकर युद्ध में मुझे धराशायी कर दीजिए! हे निष्पाप, हे देव, इस युद्ध में आपके हाथों मारा जाकर —
47हे कृष्ण, मैं इस लोक में सब प्रकार से महान् कल्याण प्राप्त करूँगा। हे गोविन्द, आज तीनों लोकों में मैंने युद्ध में महान् सम्मान पा लिया है।
48हे निष्पाप, जैसे आपको रुचे वैसे मुझ पर प्रहार कीजिए, क्योंकि मैं तो केवल आपका दास हूँ।" इसी बीच महाबाहु पृथापुत्र केशव के पीछे दौड़कर उन्हें अपनी दोनों भुजाओं से आलिंगन करते हुए पकड़ बैठे। पृथापुत्र द्वारा इस प्रकार पकड़े जाने पर भी वे नरश्रेष्ठ, विकसित कमलों के समान नेत्रों वाले कृष्ण, उन्हें अपने साथ लिए हुए ही आगे बढ़ते रहे। तब शत्रुवीरों का संहार करने वाले उन पराक्रमी योद्धा पृथापुत्र ने हृषीकेश के दोनों चरणों को (अपनी दोनों भुजाओं से) बलपूर्वक जकड़कर उन्हें तब रोका जब वे दसवाँ पग रखने जा रहे थे।
49तब अत्यन्त व्यथित होकर उनके मित्र अर्जुन ने केशव को, जो उस समय सर्प के समान फुफकार रहे थे और जिनके नेत्र क्रोध से घूम रहे थे, स्नेहपूर्वक सम्बोधित करके कहा — "रुकिए, हे महाबाहु! हे केशव, आपने पहले जो वचन कहे थे — 'मैं युद्ध नहीं करूँगा' — उन्हें मिथ्या करना आपको शोभा नहीं देता। हे मधुवंशी, अन्यथा लोग आपको मिथ्यावादी कहेंगे।
50यह सारा भार मुझ पर रहने दीजिए, मैं ही पितामह का वध करूँगा! हे ईश्वर, हे केशव, हे केशव, मैं अपने शस्त्रों की, अपने सत्य की और अपने सत्कर्मों की शपथ खाकर कहता हूँ —
51कि हे शत्रुनाशन, मैं वह सब करूँगा जिससे शत्रु का विनाश सिद्ध हो सके। आज ही देखिए, वे अजेय महारथी धराशायी होंगे —
52मेरे द्वारा, अत्यन्त सहजता से, युगान्त के चन्द्रमा की कला के समान।" महात्मा फाल्गुन के ये वचन सुनकर वे मधुवंशी पार्थ के पराक्रम को जानते हुए प्रसन्न हो उठे।
53कुछ भी न कहकर वे क्रोध में पुनः रथ पर चढ़ गए। तब शान्तनुपुत्र भीष्म ने एक बार फिर अपने रथों पर स्थित उन दोनों नरश्रेष्ठों को बाणों की वर्षा से उसी प्रकार ढक दिया जैसे मेघ वर्षा की धाराओं से पर्वत के वक्षःस्थल को भिगो देते हैं। तब आपके पिता देवव्रत ने समस्त शत्रुयोद्धाओं के प्राण हर लिए —
54जैसे शिशिर ऋतु के अन्त में सूर्य अपनी किरणों से समस्त वस्तुओं का सार खींच लेता है। जैसे पाण्डुपुत्रों ने युद्ध में कुरु सेना की पंक्तियाँ तोड़ीं,
55वैसे ही आपके पिता ने भी युद्ध में पाण्डवों की पंक्तियाँ तोड़ीं। इस प्रकार छिन्न-भिन्न, निराश और उत्साहहीन तथा भीष्म द्वारा सैकड़ों-सहस्रों की संख्या में मारे जाते हुए वे सैनिक उन अनुपम भीष्म की ओर देख तक न सके, जो मध्याह्न के सूर्य के समान शत्रु को तपा रहे थे। हे राजन्, तब भय से पीड़ित पाण्डव सेना ने भीष्म की ओर (भयपूर्वक) देखा, जो अपने अलौकिक पराक्रम से महान् कर्म कर रहे थे। तब, हे भरतवंशी, भीष्म द्वारा इस प्रकार कुचली गई पाण्डव सेना को कोई रक्षक न मिला — जैसे दलदल में धँसी गायों को, अथवा किसी बलवान् प्राणी से पीड़ित क्षणभंगुर चींटी को।
56हे भरतवंशी, पाण्डव सेना के योद्धा उन महारथी भीष्म की ओर देख तक न सके, जो विचलित किए जाने में असमर्थ थे, जो अपनी बाणवर्षा से शत्रुराजाओं को पीड़ित कर रहे थे और जो अपने प्रज्वलित बाणों के कारण देदीप्यमान सूर्य के समान दिखते थे।
57जब वे इस प्रकार पाण्डव सेना को कुचल रहे थे, तब सहस्ररश्मि सूर्य क्षितिज के नीचे चला गया। तब थकान से चूर उन समस्त योद्धाओं के हृदय सेना हटाने की आज्ञा के लिए तरस उठे।
नेपाली
1सञ्जयले भने — त्यसपछि क्रोधले भरिएर तपाईंका पिता अत्यन्त तीक्ष्ण उत्तम बाणले पृथापुत्रहरू र तिनका सेनालाई छेड्न थाले। भीमलाई बाह्र, सात्यकिलाई नौ, नकुललाई तीन र सहदेवलाई सात बाणले छेडेर उनले —
2युधिष्ठिरलाई पाखुरा र छातीमा बाह्र बाणले छेडे। तब ती अत्यन्त शक्तिशाली वीरले धृष्टद्युम्नलाई पनि छेडेर महान् गर्जन गरे। बदलामा नकुलले उनलाई बाह्र बाणले, मधुवंशी सात्यकिले तीन, सहदेवले सत्तरी, पार्थले नौ, धृष्टद्युम्नले सत्तरी र भीमसेनले सात बाणले छेडे।
3तब युधिष्ठिरले बदलामा पितामहलाई बाह्र बाणले छेडे। द्रोणले सात्यकिलाई छेडेर भीमलाई छेड्न थाले —
4प्रत्येक पटक साक्षात् यमदण्डजस्तै पाँच तीक्ष्ण बाणले। तब ती दुवै वीरले पनि तीन-तीन सोझा बाणले बदलामा —
5ती ब्राह्मणश्रेष्ठ द्रोणलाई यसरी छेडे जसरी महावतले अङ्कुशले विशाल हात्तीलाई छेड्छ। सौवीर, कितव, पूर्वी, पश्चिमी, उत्तरी, मालव,
6अभिषाह, शूरसेन, शिबि र वसाति — यी सबै युद्धमा तीक्ष्ण बाणले भीष्मद्वारा भयङ्कर रूपमा मारिँदा पनि उनको सामुबाट हटेनन्।
7त्यसै गरी विविध अन्य देशबाट आएका अनेक राजाहरू पनि हातमा नाना प्रकारका हतियार लिएर पाण्डवहरूमाथि जाइलागे।
8पाण्डवहरूले पनि पितामहलाई चारैतिरबाट घेरे। रथहरूको त्यस विशाल सेनाले घेरिएका ती अजेय (भीष्म) —
9वनमा भयङ्कर डढेलोजस्तै शत्रुहरूको नाश गर्दै प्रज्वलित भए। उनको रथ उनको अग्निशाला थियो, उनको धनु ज्वाला, र उनको तरवार, ऋष्टि तथा गदा इन्धन थिए।
10उनका बाण झिल्का थिए, र स्वयं भीष्म त्यो अग्नि थिए जसले क्षत्रियहरूको वन भस्म गर्दै थियो। सुनौला प्वाँख र गिद्धका प्वाँखले युक्त तथा महान् वेगले भरिएका बाणले,
11काँडे बाणले, नालिक र नाराचले भीष्मले पाण्डवहरूको त्यस सेनालाई ढाकिदिए। उनले तीक्ष्ण बाणले हात्ती र रथीहरूलाई ढालिदिए।
12उनले रथीहरूको त्यस विशाल टुकडीलाई टुप्पोविहीन रूखहरू भएको ताडवनजस्तै बनाइदिए। हे राजन्, त्यस युद्धमा सम्पूर्ण शस्त्रधारीहरूमा श्रेष्ठ ती महाबाहु वीरले रथ, हात्ती र घोडालाई तिनका सवारबाट वञ्चित पारिदिए। हे भरतवंशी, मेघगर्जनजस्तै तपाईंका पिताको धनुको टङ्कार सुनेर सम्पूर्ण प्राणी काँप्न थाले, र हे भरतश्रेष्ठ, तब तपाईंका पिताका बाण अव्यर्थ देखिन थाले।
13तब भीष्मको धनुबाट छुटेका बाण योद्धाहरूका कवचसँग ठोक्किने मात्र थिएनन्, बरु तिनलाई भेदेर पारि निस्कन्थे। हे राजन्, हामीले यस्ता धेरै रथ देख्यौँ जो तिनमा नारिएका वेगवान् घोडाहरूद्वारा रणभूमिमा घिसारिँदै थिए, किनभने तिनमा सवार वीरहरू मारिइसकेका थिए। चेदि, काशी र करूष देशका चौध हजार रथी, जो सबै प्रसिद्ध थिए, यशस्वी कुलमा जन्मेका थिए, रणभूमिबाट कहिल्यै पछि नहट्ने तथा सुनका ध्वजाका स्वामी थिए र युद्धमा प्राण त्याग्न उद्यत थिए, मुख बाएको साक्षात् मृत्युजस्तै देखिने भीष्मसँग भिडेर आफ्ना घोडा, रथ र हात्तीसहित परलोक पठाइए।
14हे राजन्, तब हामीले सयौँ र हजारौँ रथ देख्यौँ — कतिका अक्ष (धुरी) चूरचूर भइसकेका थिए र तल्लो भाग भाँचिइसकेका थिए, कतिका पाङ्ग्रा भाँचिइसकेका थिए।
15तब, हे राजन्, आफ्ना काठका घेरासहित भाँचिएका रथले, ढलेका रथीले, बाणले, सुन्दर तर भाँचिएका कवचले, बन्चरोले,
16गदाले, साना बाणले र तीक्ष्ण शरले, रथका तल्लो भागले, ठर्राले, हे तात, भाँचिएका पाङ्ग्राले,
17पाखुराले, धनुले, तरवारले, कुण्डलले सुशोभित टाउकाले, अङ्गुलित्राण र पन्जाले, तथा भाँचिएका ध्वजाले,
18र टुक्रा-टुक्रा भएका धनुले पृथ्वी छोपियो। तब, हे राजन्, जसका सवार मारिइसकेका थिए त्यस्ता हात्ती र मारिएका घोडचढीहरू —
19सयौँ र हजारौँको सङ्ख्यामा रणभूमिमा मृत भई ढल्न थाले। पाण्डव सेनाका वीर योद्धाहरूले आफ्नो पूरा प्रयत्न गरेर पनि ती रथीहरूलाई रोक्न सकेनन् जो भीष्मका बाणले पीडित भई सबै दिशामा भाग्दै थिए। पराक्रममा इन्द्रकै समान भीष्मद्वारा संहार गरिँदै गरेको (पाण्डवहरूको) त्यो विशाल सेना यति पूर्ण रूपमा छिन्नभिन्न भयो कि दुई जना पनि सँगै भागेको देखिएन। आफ्ना रथ, हात्ती र घोडा धराशायी भएपछि तथा ध्वजा र पताका प्रशस्त मात्रामा ढलेपछि —
20पाण्डुपुत्रहरूको सेना आफ्नो सुधबुध गुमाएर "हाय!" र "अरे!" को पुकार गर्न थाल्यो। त्यस युद्धमा दैवबाट प्रेरित भई पिताले आफ्नै पुत्रको वध गरे, पुत्रले आफ्नै पिताको, र मित्रले आफ्नो प्रिय मित्रको। पाण्डव सेनाका अनेक योद्धा आफ्ना कवच फुकालेर छरिएका कपालसहित सबै दिशामा भाग्दै देखिए। तब पाण्डुपुत्रका सेनाहरू रथका जुवा फ्याँकेर भाग्ने साँढेका बथानजस्तै भयले हतारिँदै भागेको देखियो, र तब ती सेनाहरूले गरेको आर्तनाद साँच्चै भयङ्कर थियो। तब सेना यसरी भागेको देखेर यादववंशी (कृष्ण)ले —
21जुन उत्तम रथ हाँकिरहेका थिए, त्यसका घोडाको लगाम तानेर पृथापुत्र विभत्सु (अर्जुन)लाई भने — "हे पार्थ, जुन घडीको तिमी यति उत्कण्ठाले प्रतीक्षा गरिरहेका थियौ, त्यो अब आइपुगेको छ।
22हे नरश्रेष्ठ, अब प्रहार गर, नत्र तिमी मूर्च्छाले अभिभूत भई आफ्नो सुध गुमाउनेछौ। हे वीर, राजाहरूको सभामा तिमीले पहिले जुन वचन भनेका थियौ —
23विराटको नगरीमा, स्वयं सञ्जयको सामु। हे पृथापुत्र, ती वचन यी थिए — 'म भीष्म र द्रोणको नेतृत्वमा धृतराष्ट्रपुत्रका ती सम्पूर्ण योद्धाको तिनका अनुचरसहित वध गर्नेछु, जो मसँग युद्ध गर्नेछन्।' हे कुन्तीपुत्र, हे शत्रुदमन, अब तिमी आफ्ना ती वचन सत्य पार।
24क्षत्रियका कर्तव्य सम्झँदै कुनै चिन्ता मनमा नराखी युद्धमा जाऊ।" वासुदेवद्वारा यसरी भनिएपछि अर्जुनले शिर निहुराएर र छड्के दृष्टिले हेर्दै, मानौँ अनिच्छाले, उनलाई यी वचन भने — "जो वधयोग्य छैनन् तिनको वध गरेर अन्त्यमा नरक दिने राज्य प्राप्त गर्नु,
25अथवा वनवासका कष्ट सहनु — यीमध्ये कुनलाई अब मेरो कर्तव्य मानियोस्? तथापि, हे हृषीकेश, घोडाहरूलाई अगाडि बढाउनुहोस्; म तपाईंको आज्ञा पालन गर्नेछु।
26म कुरुहरूका पितामह भीष्मलाई धराशायी पारिदिनेछु।" त्यसपछि ती मधुवंशी (कृष्ण)ले चाँदीको रङ भएका ती घोडा हाँके —
27हे राजन्, त्यस ठाउँतिर जहाँ स्वयं सूर्यजस्तै हेर्नै नसकिने भीष्म उभिएका थिए। त्यसपछि राजा युधिष्ठिरको विशाल सेना फेरि युद्धतिर फर्कियो,
28त्यस भयङ्कर युद्धमा महाबाहु पृथापुत्रलाई भीष्मसँग भिड्न दौडेको देखेर। त्यसपछि, हे कुरुश्रेष्ठ, भीष्मले गर्जने सिंहजस्तै आफ्नो युद्धघोष गरे,
29र फेरि चाँडै धनञ्जयको रथलाई बाणको वर्षाले ढाकिदिए। क्षणभरमै अर्जुनको रथ आफ्ना घोडा र सारथिसहित —
30त्यस बाक्लो बाणवर्षाका कारण दृष्टिबाट ओझेल भयो। तर वासुदेवले अलिकति पनि ढिलाइ नगरी, धैर्यका साथ र निर्भय भई —
31भीष्मका बाणले क्षतविक्षत ती घोडालाई अगाडि हाँके। तब पृथापुत्रले आफ्नो दिव्य धनु उठाए, जसको टङ्कार बादलको गडगडाहटजस्तै थियो,
32र तीक्ष्ण बाणले भीष्मको धनु भाँचेर खसालिदिए। तब धनुबाट वञ्चित भएका ती कुरुश्रेष्ठ, अर्थात् तपाईंका पिताले, क्षणभरमै अर्को धनु तयार पारे। तर क्रोधले भरिएका अर्जुनले उनको त्यो धनु पनि काटिदिए।
33तब शान्तनुपुत्रले अर्जुनको हस्तलाघवको धेरै प्रशंसा गरे र भने — "साधु! साधु! हे महाबाहु, साधु, हे कुन्तीपुत्र!"
34यसरी पार्थको सराहना गरेर र अत्यन्त उत्तम अर्को धनु उठाएर भीष्मले त्यस युद्धमा उनको रथमाथि बाण छोडे।
35तब वासुदेवले घोडा हाँक्नमा आफ्नो श्रेष्ठ कुशलता देखाए, किनभने उनले रथलाई वेगले गोलाकार घुमाएर भीष्मका बाण व्यर्थ पारिदिए।
36भीष्मका बाणले क्षतविक्षत ती दुवै नरश्रेष्ठ (अर्जुन र कृष्ण) रिसाएका र आफ्ना सिङका कोतरले क्षतविक्षत दुई बाच्छाजस्तै सुशोभित भए।
37तब शत्रुवीरहरूको संहार गर्ने महाबाहु मधुवंशी वासुदेवले देखे कि अर्जुन मृदुतापूर्वक युद्ध गर्दै छन् र भीष्म युद्धमा निरन्तर बाणको वर्षा गर्दै छन्, तथा दुवै सेनाको बीचमा उभिएर स्वयं सूर्यजस्तै (सबै कुरा) तताइरहेका छन्, पाण्डुपुत्रको सेनाका श्रेष्ठ योद्धाहरूको वध गर्दै छन् र युधिष्ठिरको सेनामा युगान्तजस्तै सर्वनाश उत्पन्न गर्दै छन् — तब उनले यो अझ बढी सहन सकेनन्।
38तब, हे तात, चाँदीको रङ भएका पार्थका घोडाको लगाम फ्याँकेर ती यशस्वी योगी (कृष्ण) क्रोधले भरिएर त्यस विशाल रथबाट हामफाले।
39तब बारम्बार सिंहजस्तै गर्जँदै, बल र वेगले सम्पन्न, अनुपम तेज भएका ती जगदीश्वर कृष्ण आफ्ना नाङ्गा पाखुरालाई नै हतियार बनाएर, हातमा कोर्रा लिएर र क्रोधले ताम्रवर्ण आँखासहित, आफ्ना पाइलाले पृथ्वी विदीर्ण गर्दै भीष्मको वध गर्ने इच्छाले उनीतिर दौडे।
40त्यस महायुद्धमा मधुवंशी (कृष्ण)लाई भीष्मको नजिक, उनीमाथि जाइलाग्न उद्यत देखेर तपाईंका योद्धाहरूका हृदय भयले भरिए।
41हे महाराज, तब वासुदेवपुत्रको भयले भरिएका तपाईंका सिपाहीहरूले भनेका "भीष्म मारिए, भीष्म मारिए" यी उद्गार त्यहाँ सुनिए।
42तब पहेँलो रेशमी वस्त्र धारण गरेका र नीलमणिजस्तै श्यामवर्ण जनार्दन भीष्मतिर दौडँदै विद्युत्ले युक्त वर्षाको बादलजस्तै सुशोभित भए।
43जसरी मृगराज चर्को स्वरले गर्जँदै गजयूथका नायकतिर दौडन्छ, त्यसै गरी ती मधुवंशश्रेष्ठ चर्को गर्जन गर्दै वेगले भीष्मतिर दौडे।
44तब त्यस भयङ्कर युद्धमा कमलदलजस्ता आँखा भएका कृष्णलाई क्रोधपूर्वक आफूतिर दौडेको देखेर भीष्म आफ्नो दृढ र विशाल धनु तान्न थाले।
45तब निर्भय हृदयले गोविन्दलाई सम्बोधन गर्दै उनले भने — "आउनुहोस्, आउनुहोस्, हे कमलदललोचन! हे देवाधिदेव, म तपाईंलाई प्रणाम गर्दछु।
46हे सात्वतश्रेष्ठ, आज यस भयङ्कर युद्धमा मलाई धराशायी पारिदिनुहोस्! हे निष्पाप, हे देव, यस युद्धमा तपाईंका हातबाट मारिएर —
47हे कृष्ण, म यस लोकमा सबै प्रकारले महान् कल्याण प्राप्त गर्नेछु। हे गोविन्द, आज तीनै लोकमा मैले युद्धमा महान् सम्मान पाइसकेको छु।
48हे निष्पाप, जसरी तपाईंलाई मन लाग्छ त्यसै गरी ममाथि प्रहार गर्नुहोस्, किनभने म त केवल तपाईंको दास हुँ।" यसैबीच महाबाहु पृथापुत्र केशवको पछाडि दौडेर उनलाई आफ्ना दुवै पाखुराले अङ्गालो हाल्दै समाते। पृथापुत्रद्वारा यसरी समातिए पनि ती नरश्रेष्ठ, फुलेका कमलजस्ता आँखा भएका कृष्ण, उनलाई आफूसँगै लिएरै अगाडि बढिरहे। तब शत्रुवीरहरूको संहार गर्ने ती पराक्रमी योद्धा पृथापुत्रले हृषीकेशका दुवै चरणलाई (आफ्ना दुवै पाखुराले) बलपूर्वक जकडेर उनलाई तब रोके जब उनी दसौँ पाइला राख्न लागेका थिए।
49तब अत्यन्त व्यथित भई उनका मित्र अर्जुनले केशवलाई, जो त्यस बेला सर्पजस्तै फुत्कारिरहेका थिए र जसका आँखा क्रोधले घुमिरहेका थिए, स्नेहपूर्वक सम्बोधन गरेर भने — "रोकिनुहोस्, हे महाबाहु! हे केशव, तपाईंले पहिले जुन वचन भन्नुभएको थियो — 'म युद्ध गर्नेछैनँ' — त्यसलाई मिथ्या पार्नु तपाईंलाई सुहाउँदैन। हे मधुवंशी, नत्र मानिसहरूले तपाईंलाई मिथ्यावादी भन्नेछन्।
50यो सारा भार ममाथि नै रहन दिनुहोस्, म नै पितामहको वध गर्नेछु! हे ईश्वर, हे केशव, हे केशव, म आफ्ना हतियारको, आफ्नो सत्यको र आफ्ना सत्कर्मको शपथ खाएर भन्दछु —
51कि हे शत्रुनाशन, म त्यो सबै गर्नेछु जसबाट शत्रुको विनाश सिद्ध होस्। आजै हेर्नुहोस्, ती अजेय महारथी धराशायी हुनेछन् —
52मबाट, अत्यन्त सहजतासाथ, युगान्तको चन्द्रमाको कलाजस्तै।" महात्मा फाल्गुनका यी वचन सुनेर ती मधुवंशी पार्थको पराक्रम जान्दै प्रसन्न भए।
53केही पनि नभनी उनी क्रोधमा फेरि रथमा चढे। तब शान्तनुपुत्र भीष्मले एक पटक फेरि आफ्ना रथमा रहेका ती दुवै नरश्रेष्ठलाई बाणको वर्षाले त्यसै गरी ढाकिदिए जसरी बादलले वर्षाका धाराले पर्वतको छाती भिजाइदिन्छन्। तब तपाईंका पिता देवव्रतले सम्पूर्ण शत्रुयोद्धाहरूका प्राण हरे —
54जसरी शिशिर ऋतुको अन्त्यमा सूर्यले आफ्ना किरणले सम्पूर्ण वस्तुको सार तानिलिन्छ। जसरी पाण्डुपुत्रहरूले युद्धमा कुरु सेनाका पङ्क्ति भाँचे,
55त्यसै गरी तपाईंका पिताले पनि युद्धमा पाण्डवहरूका पङ्क्ति भाँचे। यसरी छिन्नभिन्न, निराश र उत्साहहीन तथा भीष्मद्वारा सयौँ-हजारौँको सङ्ख्यामा मारिँदै गरेका ती सिपाहीहरूले ती अनुपम भीष्मतिर हेर्नसम्म सकेनन्, जो मध्याह्नको सूर्यजस्तै शत्रुलाई तताइरहेका थिए। हे राजन्, तब भयले पीडित पाण्डव सेनाले भीष्मतिर (भयपूर्वक) हेर्यो, जो आफ्नो अलौकिक पराक्रमले महान् कर्म गर्दै थिए। तब, हे भरतवंशी, भीष्मद्वारा यसरी कुल्चिएको पाण्डव सेनाले कुनै रक्षक पाएन — जसरी दलदलमा फसेका गाईले, अथवा कुनै बलवान् प्राणीबाट पीडित क्षणभङ्गुर कमिलाले।
56हे भरतवंशी, पाण्डव सेनाका योद्धाहरूले ती महारथी भीष्मतिर हेर्नसम्म सकेनन्, जो विचलित पार्नै नसकिने थिए, जो आफ्नो बाणवर्षाले शत्रुराजाहरूलाई पीडित पार्दै थिए र जो आफ्ना प्रज्वलित बाणका कारण देदीप्यमान सूर्यजस्तै देखिन्थे।
57जब उनी यसरी पाण्डव सेनालाई कुल्चँदै थिए, तब सहस्ररश्मि सूर्य क्षितिजमुनि गयो। तब थकानले चूर ती सम्पूर्ण योद्धाहरूका हृदय सेना हटाउने आज्ञाका लागि तड्पिए।