खाण्डवदाह पर्व — अग्निको पराजय
खण्ड 1 — आदि र सभा पर्व · अध्याय 223
संस्कृत
1वैशम्पायन उवाच सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम्। लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः॥
2ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा। भिक्षे वार्ष्णेयपार्थो वामेकां तृप्तिं प्रयच्छतम्॥
3एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ। केनान्नेन भवांस्तृप्येत् तस्यान्नस्य यतावहे॥
4एवमुक्तः स भगवानब्रवीत् तावुभौ ततः। भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति॥
5ब्राह्मण उवाच नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम्। यदन्नमनुरूपं मे तद् युवां सम्प्रयच्छतम्॥
6इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति। न च शक्रोम्यहं दग्धुं रक्ष्यमाणं महात्मना॥
7वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा। सगणस्तत्कृते दावं परिरक्षति वज्रभृत्॥
8तत्र भूतान्यनेकानि रक्षतेऽस्य प्रसङ्गतः। तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा॥
9स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति। ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सिताम्॥
10स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः। दहेयं खाण्डवं दावमेतदन्नं वृतं मया॥
11युवां ह्यदकधारास्ता भूतानि च समन्ततः। उत्तमास्त्रविदौ सम्यक् सर्वतो वारयिष्यथः॥
12जनमेजय उवाच किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति। रक्ष्यमाणं महेन्द्रेण नानासत्त्वसमायुतम्॥
13न ह्येतत् कारणं ब्रह्मन्नल्पं सम्प्रतिभाति मे। यद् ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः॥ एतद् विस्तरशो ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः। खाण्डवस्य पुरा दाहो यथा समभवन्मुने॥
14वैशम्पायन उवाच शृणु मे ब्रुवतो राजन् सर्वमेतद् यथातथम्। यनिमित्तं ददाहाग्निः खाण्डवं पृथिवीपते॥
15हन्त ते कथयिष्यामि पौराणीमृषिसंस्तुताम्। कथामिमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम्॥
16पौराणः श्रूयते राजन् राजा हरिहयोपमः। श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः॥
17यज्वा दानपतिर्थीमान् यथा नान्योऽस्ति कञ्चन। ईजे च स महायज्ञैः क्रतुभिश्चाप्तदक्षिणैः॥
18तस्य नान्याभवद् बुद्धिर्दिवसे दिवसे नृप। सत्रे क्रियासमारम्भे दानेषु विविधेषु च॥ ऋत्विग्भिः सहितो धीमानेवमीजे स भूमिपः। ततस्तु ऋत्विजश्चास्य धूमव्याकुललोचनाः॥ कालेन महता खिन्नास्तत्यजुस्ते नराधिपम्। ततः प्रचोदयामास ऋत्विजस्तान् महीपतिः॥ चक्षुर्विकलतां प्राप्ता न प्रपेदुश्च ते क्रतुम्।
19ततस्तेषामनुमते तद् विप्रैस्तु नराधिपः॥ सत्रं समापयामास ऋत्विग्भिपरैः सह।
20तस्यैवं वर्तमानस्य कदाचित् कालपयये॥ सत्रमाहर्तुकामस्य सवंत्सरशतं किल। ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः॥
21स च राजाकरोद् यत्नं महान्तं ससुहृज्जनः। प्रणिपातेन सान्त्वेन दानेन च महायशाः॥ ऋत्विजोऽनुनयामास भूयो भूयस्त्वतन्द्रितः। ते चास्य तमभिप्रायं न चक्रुरमितौजसः॥
22स चाश्रमस्थान् राजर्षिस्तानुवाच रुषान्वितः। यद्यहं पतितो विप्राः शुश्रूषायां न च स्थितः॥ आशु त्याज्योऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः। तन्नार्हथ क्रतुश्रद्धां व्याघातयितुमद्य ताम्॥
23अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः। प्रपन्न एव वो विप्राः प्रसादं कर्तुमर्हथ॥ सान्त्वदानादिभिर्वाक्येस्तत्त्वतः कार्यवत्तया। प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः॥ अथवाहं परित्यक्तो भवद्भिदे॒षकारणात्। ऋत्विजोऽन्यान् गमिष्यामि याजनार्थं द्विजोत्तमाः॥
24एतावदुक्त्वा वचनं विरराम स पार्थिवः। यदा न शेकू राजानं याजनार्थं परंतपः॥ ततस्ते याजकः क्रुद्धास्तमूचुर्नृपसत्तमम्। तव कर्माण्यजस्रं वै वर्तन्ते पार्थिवोत्तम॥
25ततो वयं परिश्रान्ताः सततं कर्मवाहिनः। श्रमादस्मात् परिश्रान्तान् स त्वं नस्त्यक्तुमर्हसि॥ बुद्धिमोहं समास्थाय त्वरासम्भावितोऽनघ। गच्छ रुद्रसकाशं त्वं स हि त्वां याजयिष्यति॥
26साधिक्षेपं वचः श्रुत्वा संक्रुद्धः श्वेतकिर्नृपः। कैलास पर्वतं गत्वा तप उग्रं समास्थितः॥ आराधयन् महादेवं नियतः संशितव्रतः। उपवासपरो राजन् दीर्घकालमतिष्ठत॥
27कदाचिद् द्वादशे काले कदाचिदपि षोडशे। आहारमकरोद् राजा मूलानि च फलानि च॥
28ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन् स्थाणुरिवाचलः। षण्मासानभवद् राजा श्वेतकिः सुसमाहितः॥
29तं तथा नृपशार्दूलं तप्यमानं महत् तपः। शंकरः परमप्रीत्या दर्शयामास भारत॥
30उवाच चैनं भगवान् स्निग्धगम्भीरया गिरा। प्रीतोऽस्मि नरशार्दूल तपसा ते परंतप॥
31वरं वृणीष्व भद्रं ते यं त्वमिच्छसि पार्थिव। एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः॥
32प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत। यदि मे भगवान् प्रीतः सर्वलोकनमस्कृतः॥ स्वयं मां देवदेवेश याजयस्व सुरेश्वर। एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम्॥
33उवाच भगवान् प्रीतः स्मितपूर्वमिदं वचः। नास्माकमेष विषयो वर्तते याजनं प्रति॥ त्वया च सुमहत् तप्तं तपो राजन् वरार्थिना। याजयिष्यामि राजांस्त्वां समयेन परंपत॥
34रुद्र उवाच समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः। सततं त्वाज्यधाराभिर्यदि तर्पयसेऽनलम्॥ कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप।
35एवमुक्तश्च रुद्रेण श्वेतकिर्मनुजाधिपः॥ तथा चकार तत् सर्वं यथोक्तं शूलपाणिना। पूर्णे तु द्वादशे वर्षे पुनरायान्महेश्वरः॥
36दृष्ट्वैव च स राजानं शंकरो लोकभावनः। उवाच परमप्रीतः श्वेतकिं नृपसत्तमम्॥
37तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्मणा। याजनं ब्राह्मणानां तु विधिदृष्टं परंतप॥
38अतोऽहं त्वां स्वयं नाद्य याजयामि परंतय। ममांशस्तु क्षितितले महाभागो द्विजोत्तमः॥
39दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति। मन्नियोगान्महातेजाः सम्भाराः सम्भ्रियन्तु ते॥
40एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम्। स्वपुरं पुनरागम्य सम्भारान् पुनरार्जयत्॥
41ततः सम्भृतसम्भारो भूयो रुद्रमुपागमत्। सम्भृता मम सम्भारा: सर्वोपकरणानि च॥ त्वत्प्रसादान्महादेव श्वो मे दीक्षा भवेदिति। एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः॥ दुर्वाससं समाहूय रुद्रो वचनमब्रवीत्। एष राजा महाभागः श्वेतकिर्द्विजसत्तम॥ एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम्। बाढमित्येव वचनं रुद्रं त्वृषिरुवाच ह॥
42ततः सत्रं समभवत् तस्य राज्ञो महात्मनः। यथाविधिः यथाकालं यथोक्तं बहुदक्षिणम्॥
43तस्मिन् परिसमाप्ते तु राज्ञः सत्रे महात्मनः। दुर्वाससाभ्यनुज्ञाता विप्रतस्थुः स्म याजकः॥ ये तत्र दीक्षिताः सर्वे सदस्याश्च महौजसः। सोऽपि राजन् महाभागः स्वपुरं प्राविशत् तदा॥
44पूज्यमानो महाभागैाह्मणैर्वेदपारगैः। वन्दिभिः स्तूयमानश्च नागरैश्चाभिनन्दितः॥
45एवंवृत्तः स राजर्षिः श्वेतकिर्नृपसत्तमः। कालेन महता चापि ययौ स्वर्गमभिष्टुतः॥ ऋत्विग्भिः सहितः सर्वैः सदस्यैश्च समन्वितः। तस्य सत्रे पपौ वह्निर्हविदश वत्सरान्॥
46सततं चाज्यधाराभिरैकात्म्ये तत्र कर्मणि। हविषा च ततो वह्निः परां तृप्तिमगच्छत॥
47न चैच्छत् पुनरादातुं हविरन्यस्य कस्यचित्। पाण्डुवर्णो विवर्णश्च न यथावत् प्रकाशते॥
48ततो भगवतो वह्नर्विकारः समजायत। तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत्॥
49स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः। जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम्॥
50तत्र ब्रह्माणमासीनमिदं वचनमब्रवीत्। भगवन् परमा प्रीतिः कृता मे श्वेतकेतुना॥ अरुचिश्चाभवत् तीव्रा तां न शक्नोभ्यपोहितुम्। तेजसा विप्रहीणोऽस्मि बलेन च जगत्पते॥ इच्छेय त्वत्प्रसादेन स्वात्मनः प्रकृति स्थिराम्।
51एतच्छ्रुत्वा हुतवहाद् भगवान् सर्वलोककृत॥ हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव। त्वया द्वादश वर्षाणि वसोर्धाराहुतं हविः॥ उपयुक्तं महाभाग तेन त्वां ग्लानिराविशत्। तेजसा विप्रहीणत्वात् सहसा हव्यवाहन॥ मा गमस्त्वं यथा वह्ने प्रकृतिस्थो भविष्यसि। अरुचिं नाशयिष्येऽहं समयं प्रतिपद्य ते॥
52पुरा देवनियोगेन यत् त्वया भस्मसात् कृतम्। आलयं देवशत्रूणां सुघोरं खाण्डवं वनम्॥ तत्र सर्वाणि सत्त्वानि निवसन्ति विभावसो। तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि॥
53गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्बिषात्। एतच्छ्रुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम्॥ उत्तमं जवमास्थाय प्रदुद्राव हुताशनः। आगम्य खाण्डवं दावमुत्तमं वीर्यमास्थितः। सहसा प्राज्वलच्चाग्निः क्रुद्धो वायुसमीरितः॥
54प्रदीप्तं खाण्डवं दृष्ट्वा ये स्युस्तत्र निवासिनः। परमं यत्नमातिष्ठन् पावकस्य प्रशान्तये॥
55करैस्तु करिणः शीघ्रं जलमादाय सत्वराः। सिषिचुः पावकं क्रुद्धाः शतशोऽथ सहस्रशः॥
56बहुशीर्षास्ततो नागाः शिरोभिर्जलसंततिम्। मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्च्छिताः॥
57तथैवान्यानि सत्त्वानि नानाप्रहरणोद्यमैः। विलयं पावकं शीघ्रमनयन् भरतर्षभ॥
58अनेन तु प्रकारेण भूयो भूयश्च प्रज्वलन्। सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः॥
अङ्ग्रेजी
1Vaishampayana said : Thereupon that Brahmana thus spoke to Arjuna and Vasudeva of Satvata race," You two, who are now staying so near the Khandava, are two foremost of men.
2I am a voracious Brahmana that eats much. o descendants of Vrishni and Pritha, I ask you to gratify me by giving me sufficient foot.”
3Having been thus addressed, Krishna and the Pandava (Arjuna) thus spoke to him, “ Tell us what food will gratify you. We shall try to give it to you."
4Having been thus addressed, the illustrious Brahmana thus spoke to those two heroes who were enquiries what kind of food he wanted.
5The Brahmana said ; I do not wish to eat ordinary food. Know that I am Agni (fire). Give me that food which suits me.
6This Khandava (forest) is every protected by Indra. I always fail to consume it, because it is ever protected by that illustrious god.
7There lives in this forest) his friend the Naga Takshaka with his relatives and followers. It is for him that the wilder of thunder (Indra) protects it.
8Many other creatures are also protected by him (in this forest) for the sake of Takshaka. Although I am ever desirous of consuming it, I cannot do it for Indra's prowess.
9Whenever he sees me blazing up in this forest), he pours upon me waters from the clouds. I cannot thus succeed to consume it, though very much desirous of doing it.
10I have now come to you, you are both great experts in arms. I shall be able to consume Khandava with your help. This is the food I desire to have from you.
11Expert as you are in excellent weapons, I pray you to prevent the showers of rain from coming down upon me and to prevent also any creatures from escaping when I begin to consume it (the forest).
12Janamejaya said : Why did the high-souled Agni desire to consume the forest of Khandava, abounding in various living creatures and protected by Indra?
13When Agni consumed the Khandava in wrath, there was certainly a grave cause for it. I desire to hear from you all this in detail. O Rishi, tell me why the Khandava (forest) was consumed (by fire) in the days of yore.
14O king, hear I am telling you the whole story of why Khandava forest was consumed by the fire.
15Vaishampayana said : O best of men, I shall narrate to you the story of the destruction of the Khandavas as told by the Rishis in the Puranas.
16O king, it has been heard in the Puranas that there was a king named Shvetaki who was endued with both strength and prowess and who was a rival to Indra himself.
17None has equalled him in sacrifices, charity and intelligence. He performed five great sacrifices and many other smaller ones, in all of which Dakshinas (presents to Brahmanas) were very large.
18O king, the heart of that monarch was always set upon sacrifices, religious rites and gifts of all kind. That greatly intelligent king performed sacrifices for many years, assisted by the Ritvijas till they, becoming weak and their eyes afflicted with smoke, left that king, wishing never more to assist him at his sacrifices. The king, however, again and again asked them to come to him, but on account of their sore eyes, they did not come.
19Thereupon the king with the permission of the Ritvijas completed his sacrifices with the assistance of other Ritvijas.
20Some days after, he desired to perform another sacrifice which would extend for one hundred years. But the illustrious king did not get any Ritvijas.
21They high-souled king with his friends and relatives again and again courted them by bowing down to them, by conciliatory speeches and by the gifts of wealth. But they refused to accomplish the purpose of that greatly effulgent (king).
22Thereupon that royal sage thus spoke to them in anger, sitting in their own hermitage, “O Brahmanas, if I were a fallen person, if I were in wanting in service to you, I should then deserve to be abandoned by you and other Brahmanas.
23O excellent Brahmanas, as I am neither degraded, nor wanting in homage to you, you should not obstruct sacrifice performed by me and abandon me thus without sufficient reason. O Brahmanas, I seek your protection, you should be propitious to me. () excellent Brahmanas, if you abandon me from enmity alone, I shall go to other Brahmanas and I shall ask for their assistance at my sacrifice. Conciliating them with sweet words and speeches, I shall tell them what is my business to be done so that they may accomplish it."
24Having said this, the king became silent. The Brahmanas knew well that they could not assist that chastiser of foes at his sacrifice; therefore they pretended to be angry with that best of kings and they said, "O best of kings, your sacrifices are incessant.
25We have been fatigued by assisting you (at your sacrifices). We are tried in consequence of this labour; therefore, you should give us leave (to go away). O sinless one, from your loss of judgement only you cannot wait. Go to Rudra (Shiva); he will assist you at your sacrifice."
26Having heard these words of censure and wrath, the king Shvetaki became angry. Going to the Kailasa mountain, he begin to worship the God (Shiva), observing rigid vows and performing austere penances. Giving up all food, he passed many years.
27He only ate fruits and roots sometimes at the twelfth and sometimes at the sixteenth hour of the day.
28He stood like the trunk of a tree. For six months with upraised arms and eyes fixed, the king performed the severest penances there (on the Kailasa mountain).
29O descendant of Bharata, Shankara (Shiva) was greatly pleased; and he at last appeared before him.
30He said," O chastiser of foes, O best of men, I have been much pleased with your asceticism.
31O king, now ask the boon you desire," Hearing these words of the immeasurably effulgent Rudra (Shiva). The royal sage bowed to him and thus replied to him,
32"O illustrious one, O chief of the celestial, O god of gods, if you are pleased with me, assist me then in my sacrifices.” Having heard these words of the king, the deity was pleased and smilingly replied,
33"We ourselves do not assist at scarifics. But O king, O chastiser of foes, as you have undergone the severest of penances with the desire of obtaining a boon, I shall assist you at your sacrifice on this condition.
34Rudra said: O king of kings, if for full twelve years you can incessantly pour libations of ghee into the sacrificial fire, you yourself leading all the while the life of a Brahmachari. Then, o king, you can obtain me, for the purpose for which you ask me."
35Having been thus addressed by Rudra, the king Shvetaki did what he was asked to do by the wielder of Shula (Shiva). When twelve years were completed, he again came to Maheshwara (Shiva).
36On seeing the king and being much pleased with him, the creator of the world Shankara (Shiva) spoke thus to that best of monarchs, Shvetaki.
37"O best of kings, I have been pleased with your (great) act. O chastiser of foes, the duty of assisting at scarifies belongs to the Brahmanas.
38O chastiser of foes, therefore, I shall not myself assist you at your sacrifice today. There is one earth a greatly illustrious and best of Brahmanas who is a portion of my own self.
39He is known by the name of Durvasa. He will assist you at your sacrifice. He is endued with ascetic powers, he will assist you. Therefore, let every preparation be made (by you)".
40Having heard these words of Rudra, the king returned to his capital and begin to collect all that were necessary for his sacrifice.
41When every thing had been collected, the king again appeared before Shankara and said, “Every necessary things has been collected. And through your grace all my preparations are ready. O god of gods, let me, therefore be installed in the sacrifices tomorrow.” Having heard these words of the illustrious king. Rudra summoned Durvasa and spoke to him thus, O best of Brahmanas, this is the high-souled king Shvetaki. O chief of Brahmanas assist him at his sacrifice at my command." The Rishi said to Rudra, “Be it so."
42Thereupon the sacrifice for which the illustrious king made preparations who performed according to the ordinance, at the proper season and a with large amount of Dakshinas.
43When the sacrifice of that illustrious king came to an end, all the other priests that assisted at it went away with the permission of Durvasa. All other greatly effulgent Sadasyas also, who had been installed in that sacrifice, went away. O king, then that high-souled (royal sage) entered his own palace.
44The Brahmanas well-versed in the Vedas adorned him and singers praised him. The people of the city welcomed him.
45The great king Shvetaki was always righteous. After a long time, adorning by all, he went to the herven accompanied by all members and Ritvijas of the sacrifice. Agni drank ghee for twelve years in his sacrifice.
46In that unique sacrifice Agni drank large quantity of Ghee, which provided him enormous satisfaction.
47Now, he had no desire to take more oblation from others. Thereupon the illustrious Agni became pale, (because he drank a very large quantity of ghee in that sacrifice). He could not shine as before.
48Then the lord Agni brought some mistransformations in his stomach. Being lusterless he felt hatred.
49Seeing himself pale, Agni went to the sacred abode of Brahma ever adorned by all.
50Coming to Brahma seated (on his throne), he spoke to him thus, King Svetaki satisfied me by his sacrifice. O lord of the universe, I am reduced both in splendour and strength. I desire to regain my own permanent nature through your grade."
51Having heard these words of Agni, the illustrious creator of all the worlds. Smilingly thus spoke to Agni, “You have drunk continuously for twelve years a very large quantity of ghee poured into your mouth. O exalted Deity, it is for this you have been affected with illness. O Agni, you have, therefore, suddenly lost both your splendour strength. O Agni, do not grieve for it. You shall soon regain your own nature. I shall dispel you this malady.
52O Agni, the abode of the enemies of the celestial, the fearful forest of Khandava, which at the request of the celestial you reduced to washes in the days of yorc has again been filled with numerous creatures. When you will eat the fat of all those creatures (now living in the Khandava), you will then regain your own nature.
53Go there soon to consume it with all its living creatures. You will then certainly be cured of your malady." Having heard these words that were uttered by the Supreme Deity, Agni proceeded with great speed (towards that great forest). Arriving at the fearful Khandava forest in full vigour, he suddenly blazed up with the help of the wind.
54Seeing the Khandava on fire, the dwellers of that forest made great efforts to extinguish it.
55Hundreds and thousands of elephants speedily brought water in their trunks and they scattered it over the fire in great wrath.
56Many-headed snakes, becoming mad with anger, speedily scattered on the fire water from their many hoods.
57O best of the Bharata race, they and the other creatures that lived in that forest soon extinguished the fire by various means and efforts.
58Thus Agni blazed forth again and again in the Khandava (forest), but the blazing fire was again and again extinguished by the dwellers of that forest.
हिन्दी
1वैशम्पायन ने कहा — तब उन ब्राह्मण ने अर्जुन और सात्वत वंश के वासुदेव से इस प्रकार कहा — "तुम दोनों, जो इस समय खाण्डव के इतने निकट ठहरे हो, नरश्रेष्ठ हो।
2मैं अत्यन्त भोजन करने वाला भुक्खड़ ब्राह्मण हूँ। हे वृष्णिवंशी और पृथा के पुत्र, मैं तुमसे प्रार्थना करता हूँ कि मुझे पर्याप्त भोजन देकर तृप्त करो।"
3इस प्रकार सम्बोधित किए जाने पर कृष्ण और पाण्डव (अर्जुन) ने उनसे कहा — "हमें बताइए कि कौन-सा भोजन आपको तृप्त करेगा। हम उसे देने का प्रयत्न करेंगे।"
4इस प्रकार सम्बोधित किए जाने पर उन यशस्वी ब्राह्मण ने उन दोनों वीरों से, जो पूछ रहे थे कि वे किस प्रकार का भोजन चाहते हैं, इस प्रकार कहा।
5ब्राह्मण ने कहा — मैं साधारण भोजन खाना नहीं चाहता। जान लो कि मैं अग्नि हूँ। मुझे वह भोजन दो जो मेरे योग्य हो।
6यह खाण्डव (वन) सदा इन्द्र द्वारा रक्षित है। मैं इसे भस्म करने में सदा असफल रहता हूँ, क्योंकि उन यशस्वी देव द्वारा यह निरन्तर रक्षित है।
7(इस वन में) उनका मित्र नाग तक्षक अपने सम्बन्धियों और अनुचरों सहित रहता है। उसी के लिए वज्रधारी (इन्द्र) इसकी रक्षा करते हैं।
8तक्षक के निमित्त अन्य अनेक प्राणी भी उनके द्वारा (इस वन में) रक्षित हैं। यद्यपि मैं इसे भस्म करने की सदा इच्छा रखता हूँ, तथापि इन्द्र के पराक्रम के कारण ऐसा नहीं कर पाता।
9जब भी वे मुझे (इस वन में) प्रज्वलित होते देखते हैं, वे मुझ पर मेघों से जल बरसा देते हैं। इस प्रकार अत्यन्त इच्छा रखते हुए भी मैं इसे भस्म करने में सफल नहीं हो पाता।
10अब मैं तुम्हारे पास आया हूँ, तुम दोनों अस्त्रविद्या में महान् निपुण हो। तुम्हारी सहायता से मैं खाण्डव को भस्म कर सकूँगा। यही वह भोजन है जो मैं तुमसे चाहता हूँ।
11उत्तम अस्त्रों में जैसे तुम निपुण हो, वैसे ही मैं तुमसे प्रार्थना करता हूँ कि मुझ पर वर्षा की धाराएँ गिरने से रोको तथा जब मैं इसे (वन को) भस्म करने लगूँ तब किसी प्राणी को भागने भी न दो।
12जनमेजय ने कहा — महात्मा अग्नि ने नाना जीवजन्तुओं से भरे और इन्द्र द्वारा रक्षित खाण्डव वन को भस्म करने की इच्छा क्यों की?
13जब अग्नि ने क्रोधपूर्वक खाण्डव को भस्म किया, तब निश्चय ही इसका कोई गम्भीर कारण रहा होगा। मैं यह सब विस्तार से आपसे सुनना चाहता हूँ। हे ऋषे, मुझे बताइए कि प्राचीन काल में खाण्डव (वन) क्यों (अग्नि द्वारा) भस्म किया गया।
14हे राजन्, सुनिए, मैं आपको यह सम्पूर्ण कथा सुनाता हूँ कि खाण्डव वन अग्नि द्वारा क्यों भस्म किया गया।
15वैशम्पायन ने कहा — हे नरश्रेष्ठ, मैं आपको खाण्डव के विनाश की वह कथा सुनाऊँगा जैसी ऋषियों ने पुराणों में कही है।
16हे राजन्, पुराणों में सुना गया है कि श्वेतकि नामक एक राजा थे जो बल और पराक्रम दोनों से सम्पन्न थे और जो स्वयं इन्द्र के प्रतिद्वन्द्वी थे।
17यज्ञ, दान और बुद्धि में उनकी समता किसी ने नहीं की। उन्होंने पाँच महायज्ञ और अन्य अनेक छोटे यज्ञ किए, जिनमें से सबमें दक्षिणा (ब्राह्मणों को भेंट) अत्यन्त विपुल थी।
18हे राजन्, उन नरेश का हृदय सदा यज्ञों, धार्मिक अनुष्ठानों और सब प्रकार के दानों में लगा रहता था। उन महाबुद्धिमान् राजा ने ऋत्विजों की सहायता से अनेक वर्षों तक यज्ञ किए, यहाँ तक कि वे दुर्बल हो गए और उनके नेत्र धुएँ से पीड़ित हो गए; तब वे उस राजा को छोड़कर चले गए और उनके यज्ञों में फिर कभी सहायता न करने की इच्छा कर ली। किन्तु राजा ने उन्हें बार-बार आने के लिए कहा, तथापि नेत्रों की पीड़ा के कारण वे नहीं आए।
19तब राजा ने ऋत्विजों की अनुमति से अन्य ऋत्विजों की सहायता से अपने यज्ञ पूर्ण किए।
20कुछ दिनों पश्चात् उन्होंने एक और यज्ञ करने की इच्छा की जो सौ वर्ष तक चलता। किन्तु उन यशस्वी राजा को कोई ऋत्विज न मिले।
21उन महात्मा राजा ने अपने मित्रों और सम्बन्धियों सहित बार-बार उन्हें प्रणाम करके, मधुर वचनों से और धन के दान से मनाने का प्रयत्न किया। किन्तु उन्होंने उन परम तेजस्वी (राजा) का प्रयोजन सिद्ध करने से इनकार कर दिया।
22तब उन राजर्षि ने उनके ही आश्रम में बैठे-बैठे क्रोध से उनसे इस प्रकार कहा — "हे ब्राह्मणो, यदि मैं पतित होता, यदि मैं आपकी सेवा में न्यून होता, तो मैं आपके और अन्य ब्राह्मणों के द्वारा त्यागे जाने योग्य होता।
23हे श्रेष्ठ ब्राह्मणो, जब मैं न तो पतित हूँ, न आपके प्रति आदर में न्यून, तब आपको मेरे द्वारा किए जाने वाले यज्ञ में बाधा नहीं डालनी चाहिए और बिना पर्याप्त कारण के मुझे इस प्रकार त्यागना नहीं चाहिए। हे ब्राह्मणो, मैं आपकी शरण चाहता हूँ, आपको मुझ पर प्रसन्न होना चाहिए। हे श्रेष्ठ ब्राह्मणो, यदि आप केवल शत्रुता से मेरा त्याग करते हैं, तो मैं अन्य ब्राह्मणों के पास जाऊँगा और अपने यज्ञ में उनकी सहायता माँगूँगा। मधुर वचनों और भाषणों से उन्हें प्रसन्न करके मैं उन्हें बताऊँगा कि मेरा क्या कार्य सिद्ध होना है, जिससे वे उसे सम्पन्न करें।"
24यह कहकर राजा मौन हो गए। ब्राह्मण भलीभाँति जानते थे कि वे उन शत्रुदमन के यज्ञ में सहायता नहीं कर सकते; इसलिए उन्होंने उन नृपश्रेष्ठ पर क्रुद्ध होने का बहाना किया और कहा — "हे राजाओं में श्रेष्ठ, आपके यज्ञ अविरत हैं।
25आपकी (यज्ञों में) सहायता करते-करते हम थक गए हैं। इस श्रम के कारण हम क्लान्त हैं; इसलिए आपको हमें (जाने की) अनुमति देनी चाहिए। हे निष्पाप, केवल अपनी विवेकहीनता के कारण आप प्रतीक्षा नहीं कर सकते। रुद्र (शिव) के पास जाइए; वे आपके यज्ञ में सहायता करेंगे।"
26निन्दा और क्रोध के ये वचन सुनकर राजा श्वेतकि क्रुद्ध हो गए। कैलास पर्वत पर जाकर वे कठोर व्रतों का पालन करते और उग्र तपस्या करते हुए देव (शिव) की उपासना करने लगे। समस्त भोजन त्यागकर उन्होंने अनेक वर्ष बिताए।
27वे केवल फल और कन्द खाते थे, कभी दिन के बारहवें और कभी सोलहवें प्रहर-भाग में।
28वे वृक्ष के तने के समान खड़े रहते थे। छह मास तक भुजाएँ ऊपर उठाए और नेत्र स्थिर किए हुए राजा ने वहाँ (कैलास पर्वत पर) अत्यन्त कठोर तपस्या की।
29हे भरतवंशी, शंकर (शिव) अत्यन्त प्रसन्न हुए; और अन्ततः वे उनके सम्मुख प्रकट हुए।
30उन्होंने कहा — "हे शत्रुदमन, हे नरश्रेष्ठ, मैं तुम्हारी तपस्या से अत्यन्त प्रसन्न हुआ हूँ।
31हे राजन्, अब तुम जो वर चाहते हो माँगो।" अपरिमित तेजस्वी रुद्र (शिव) के ये वचन सुनकर उन राजर्षि ने उन्हें प्रणाम करके इस प्रकार उत्तर दिया —
32"हे यशस्वी, हे देवताओं के अधिपति, हे देवाधिदेव, यदि आप मुझ पर प्रसन्न हैं, तो मेरे यज्ञों में मेरी सहायता कीजिए।" राजा के ये वचन सुनकर देव प्रसन्न हुए और मुस्कराते हुए उत्तर दिया —
33"हम स्वयं यज्ञों में सहायता नहीं करते। किन्तु हे राजन्, हे शत्रुदमन, जब तुमने वर पाने की इच्छा से अत्यन्त कठोर तपस्या की है, तब मैं इस शर्त पर तुम्हारे यज्ञ में सहायता करूँगा।
34रुद्र ने कहा — हे राजाधिराज, यदि पूरे बारह वर्ष तक तुम निरन्तर यज्ञाग्नि में घृत की आहुतियाँ डाल सको और इस बीच स्वयं ब्रह्मचर्य का जीवन बिता सको, तो हे राजन्, तुम जिस प्रयोजन के लिए मुझसे माँग रहे हो, उसके लिए मुझे प्राप्त कर सकोगे।
35रुद्र द्वारा इस प्रकार कहे जाने पर राजा श्वेतकि ने वही किया जो शूलधारी (शिव) ने करने को कहा था। जब बारह वर्ष पूरे हुए, तब वे फिर महेश्वर (शिव) के पास आए।
36राजा को देखकर और उनसे अत्यन्त प्रसन्न होकर जगत्स्रष्टा शंकर (शिव) ने नृपश्रेष्ठ श्वेतकि से इस प्रकार कहा।
37"हे राजाओं में श्रेष्ठ, मैं तुम्हारे (महान्) कर्म से प्रसन्न हुआ हूँ। हे शत्रुदमन, यज्ञ में सहायता करने का कर्तव्य ब्राह्मणों का है।
38हे शत्रुदमन, इसलिए मैं आज स्वयं तुम्हारे यज्ञ में सहायता नहीं करूँगा। पृथ्वी पर एक परम यशस्वी और श्रेष्ठ ब्राह्मण हैं जो मेरे ही अंश हैं।
39वे दुर्वासा नाम से जाने जाते हैं। वे तुम्हारे यज्ञ में सहायता करेंगे। वे तपोबल से सम्पन्न हैं, वे तुम्हारी सहायता करेंगे। इसलिए (तुम) समस्त तैयारी करो।"
40रुद्र के ये वचन सुनकर राजा अपनी राजधानी लौट आए और अपने यज्ञ के लिए आवश्यक समस्त सामग्री एकत्र करने लगे।
41जब सब कुछ एकत्र हो गया, तब राजा फिर शंकर के सम्मुख उपस्थित हुए और बोले — "प्रत्येक आवश्यक वस्तु एकत्र कर ली गई है। और आपकी कृपा से मेरी समस्त तैयारियाँ पूर्ण हैं। हे देवाधिदेव, इसलिए कल मेरी यज्ञदीक्षा हो।" यशस्वी राजा के ये वचन सुनकर रुद्र ने दुर्वासा को बुलाया और उनसे इस प्रकार कहा — "हे ब्राह्मणश्रेष्ठ, ये महात्मा राजा श्वेतकि हैं। हे ब्राह्मणों के प्रधान, मेरी आज्ञा से इनके यज्ञ में इनकी सहायता करो।" ऋषि ने रुद्र से कहा — "ऐसा ही हो।"
42तब जिस यज्ञ के लिए यशस्वी राजा ने तैयारी की थी, वह उचित ऋतु में, विधानपूर्वक और विपुल दक्षिणा के साथ सम्पन्न हुआ।
43जब उन यशस्वी राजा का यज्ञ समाप्त हुआ, तब उसमें सहायता करने वाले अन्य समस्त पुरोहित दुर्वासा की अनुमति लेकर चले गए। उस यज्ञ में दीक्षित अन्य समस्त परम तेजस्वी सदस्य भी चले गए। हे राजन्, तब वे महात्मा (राजर्षि) अपने प्रासाद में प्रविष्ट हुए।
44वेदों में पारंगत ब्राह्मणों ने उनका अलंकरण किया और गायकों ने उनकी स्तुति की। नगर की प्रजा ने उनका स्वागत किया।
45महाराज श्वेतकि सदा धर्मात्मा रहे। दीर्घकाल पश्चात्, सबसे पूजित होकर, वे यज्ञ के समस्त सदस्यों और ऋत्विजों सहित स्वर्ग गए। उनके यज्ञ में अग्नि ने बारह वर्ष तक घृत पिया।
46उस अद्वितीय यज्ञ में अग्नि ने घृत की विपुल मात्रा पी, जिससे उन्हें अपार तृप्ति हुई।
47अब उन्हें दूसरों से और आहुति लेने की इच्छा न रही। तब वे यशस्वी अग्नि पीले पड़ गए (क्योंकि उन्होंने उस यज्ञ में घृत की अत्यन्त विपुल मात्रा पी थी)। वे पहले के समान देदीप्यमान न रह सके।
48तब स्वामी अग्नि ने अपने उदर में कुछ विकार अनुभव किए। कान्तिहीन होकर उन्हें विरक्ति हुई।
49अपने को पीला पड़ा देखकर अग्नि सबसे सदा पूजित ब्रह्मा के पवित्र धाम में गए।
50(अपने आसन पर) विराजमान ब्रह्मा के पास आकर उन्होंने उनसे इस प्रकार कहा — "राजा श्वेतकि ने अपने यज्ञ से मुझे तृप्त किया। हे जगदीश्वर, मैं तेज और बल दोनों में क्षीण हो गया हूँ। मैं आपकी कृपा से अपना स्थायी स्वरूप पुनः प्राप्त करना चाहता हूँ।"
51अग्नि के ये वचन सुनकर समस्त लोकों के यशस्वी स्रष्टा ने मुस्कराते हुए अग्नि से इस प्रकार कहा — "तुमने बारह वर्ष तक निरन्तर अपने मुख में डाली गई घृत की अत्यन्त विपुल मात्रा पी है। हे परमदेव, इसी से तुम रोग से ग्रस्त हुए हो। हे अग्ने, इसीलिए तुमने सहसा अपना तेज और बल दोनों खो दिए हैं। हे अग्ने, इसके लिए शोक मत करो। तुम शीघ्र ही अपना स्वरूप पुनः प्राप्त कर लोगे। मैं तुम्हारा यह रोग दूर कर दूँगा।
52हे अग्ने, देवताओं के शत्रुओं का निवास, भयानक खाण्डव वन, जिसे प्राचीन काल में देवताओं की प्रार्थना पर तुमने भस्म कर दिया था, वह फिर अनेक प्राणियों से भर गया है। जब तुम उन समस्त प्राणियों की (जो अब खाण्डव में रहते हैं) मेदा खाओगे, तब तुम अपना स्वरूप पुनः प्राप्त कर लोगे।
53शीघ्र वहाँ जाओ और उसे उसके समस्त जीवजन्तुओं सहित भस्म कर दो। तब तुम निश्चय ही अपने रोग से मुक्त हो जाओगे।" परमदेव द्वारा कहे गए ये वचन सुनकर अग्नि महान् वेग से (उस विशाल वन की ओर) चल पड़े। पूर्ण वेग से भयानक खाण्डव वन में पहुँचकर वे सहसा वायु की सहायता से प्रज्वलित हो उठे।
54खाण्डव को जलता देख उस वन के निवासियों ने उसे बुझाने के महान् प्रयत्न किए।
55सैकड़ों-सहस्रों हाथी शीघ्रता से अपनी सूँडों में जल भर लाए और अत्यन्त क्रोध से उसे अग्नि पर छिड़कने लगे।
56अनेक फणों वाले सर्प क्रोध से उन्मत्त होकर शीघ्र ही अपने अनेक फणों से अग्नि पर जल छिड़कने लगे।
57हे भरतवंश में श्रेष्ठ, उन्होंने और उस वन में रहने वाले अन्य प्राणियों ने नाना उपायों और प्रयत्नों से शीघ्र ही अग्नि को बुझा दिया।
58इस प्रकार अग्नि खाण्डव (वन) में बार-बार प्रज्वलित हुए, किन्तु प्रज्वलित अग्नि को उस वन के निवासियों ने बार-बार बुझा दिया।
नेपाली
1वैशम्पायनले भने — तब ती ब्राह्मणले अर्जुन र सात्वत वंशका वासुदेवलाई यसरी भने — "तिमी दुवै, जो यस समय खाण्डवको यति नजिक बसेका छौ, नरश्रेष्ठ हौ।
2म अत्यन्त भोजन गर्ने भोकाहा ब्राह्मण हुँ। हे वृष्णिवंशी र पृथाका पुत्र, म तिमीहरूसँग प्रार्थना गर्छु कि मलाई पर्याप्त भोजन दिएर तृप्त पार।"
3यसरी सम्बोधन गरिएपछि कृष्ण र पाण्डव (अर्जुन)ले उनलाई भने — "हामीलाई भन्नुहोस् कि कुन भोजनले तपाईंलाई तृप्त पार्नेछ। हामी त्यो दिने प्रयत्न गर्नेछौँ।"
4यसरी सम्बोधन गरिएपछि ती यशस्वी ब्राह्मणले ती दुवै वीरलाई, जो सोधिरहेका थिए कि उनी कस्तो प्रकारको भोजन चाहन्छन्, यसरी भने।
5ब्राह्मणले भने — म साधारण भोजन खान चाहन्नँ। जान कि म अग्नि हुँ। मलाई त्यो भोजन देऊ जो मेरो योग्य होस्।
6यो खाण्डव (वन) सधैँ इन्द्रद्वारा रक्षित छ। म यसलाई भस्म गर्नमा सधैँ असफल हुन्छु, किनभने ती यशस्वी देवद्वारा यो निरन्तर रक्षित छ।
7(यस वनमा) उनका मित्र नाग तक्षक आफ्ना सम्बन्धी र अनुचरहरूसहित बस्दछ। उसैका लागि वज्रधारी (इन्द्र)ले यसको रक्षा गर्दछन्।
8तक्षकको निम्ति अन्य अनेक प्राणी पनि उनीद्वारा (यस वनमा) रक्षित छन्। यद्यपि म यसलाई भस्म गर्ने सधैँ इच्छा राख्दछु, तथापि इन्द्रको पराक्रमका कारण त्यसो गर्न सक्दिनँ।
9जहिले पनि उनले मलाई (यस वनमा) प्रज्वलित भएको देख्छन्, उनले मलाई मेघबाट जल बर्साइदिन्छन्। यसरी अत्यन्त इच्छा राखे पनि म यसलाई भस्म गर्नमा सफल हुन सक्दिनँ।
10अब म तिमीहरूकहाँ आएको छु, तिमी दुवै अस्त्रविद्यामा महान् निपुण छौ। तिमीहरूको सहायताले म खाण्डवलाई भस्म गर्न सक्नेछु। यही त्यो भोजन हो जो म तिमीहरूबाट चाहन्छु।
11उत्तम अस्त्रमा जसरी तिमीहरू निपुण छौ, त्यसै गरी म तिमीहरूसँग प्रार्थना गर्छु कि मलाई वर्षाका धारा खस्नबाट रोक तथा जब म यसलाई (वनलाई) भस्म गर्न थालूँ तब कुनै प्राणीलाई भाग्न पनि नदेऊ।
12जनमेजयले भने — महात्मा अग्निले नाना जीवजन्तुले भरिएको र इन्द्रद्वारा रक्षित खाण्डव वनलाई भस्म गर्ने इच्छा किन गरे?
13जब अग्निले क्रोधपूर्वक खाण्डवलाई भस्म गरे, तब निश्चय नै यसको कुनै गम्भीर कारण रहेको हुनुपर्छ। म यो सबै विस्तारपूर्वक तपाईंबाट सुन्न चाहन्छु। हे ऋषे, मलाई भन्नुहोस् कि प्राचीन कालमा खाण्डव (वन) किन (अग्निद्वारा) भस्म गरियो।
14हे राजन्, सुन्नुहोस्, म तपाईंलाई यो सम्पूर्ण कथा सुनाउँछु कि खाण्डव वन अग्निद्वारा किन भस्म गरियो।
15वैशम्पायनले भने — हे नरश्रेष्ठ, म तपाईंलाई खाण्डवको विनाशको त्यो कथा सुनाउनेछु जस्तो ऋषिहरूले पुराणमा भनेका छन्।
16हे राजन्, पुराणहरूमा सुनिएको छ कि श्वेतकि नामका एक राजा थिए जो बल र पराक्रम दुवैले सम्पन्न थिए र जो स्वयं इन्द्रका प्रतिद्वन्द्वी थिए।
17यज्ञ, दान र बुद्धिमा उनको बराबरी कसैले गरेन। उनले पाँच महायज्ञ र अन्य अनेक साना यज्ञ गरे, जसमध्ये सबैमा दक्षिणा (ब्राह्मणलाई भेटी) अत्यन्त विपुल थियो।
18हे राजन्, ती नरेशको हृदय सधैँ यज्ञ, धार्मिक अनुष्ठान र सबै प्रकारका दानमा लागिरहन्थ्यो। ती महाबुद्धिमान् राजाले ऋत्विजहरूको सहायताले अनेक वर्षसम्म यज्ञ गरे, यहाँसम्म कि तिनीहरू दुर्बल भए र तिनीहरूका नेत्र धुवाँले पीडित भए; तब तिनीहरू त्यस राजालाई छोडेर गए र उनका यज्ञमा फेरि कहिल्यै सहायता नगर्ने इच्छा गरे। तर राजाले तिनीहरूलाई बारम्बार आउन भने, तथापि नेत्रको पीडाका कारण तिनीहरू आएनन्।
19तब राजाले ऋत्विजहरूको अनुमतिले अन्य ऋत्विजहरूको सहायताले आफ्ना यज्ञ पूरा गरे।
20केही दिनपछि उनले अर्को एउटा यज्ञ गर्ने इच्छा गरे जुन सय वर्षसम्म चल्थ्यो। तर ती यशस्वी राजाले कुनै ऋत्विज पाएनन्।
21ती महात्मा राजाले आफ्ना मित्र र सम्बन्धीहरूसहित बारम्बार तिनीहरूलाई प्रणाम गरेर, मधुर वचनले र धनको दानले मनाउने प्रयत्न गरे। तर तिनीहरूले ती परम तेजस्वी (राजा)को प्रयोजन सिद्ध गर्न अस्वीकार गरे।
22तब ती राजर्षिले तिनीहरूकै आश्रममा बसीबसी क्रोधले तिनीहरूलाई यसरी भने — "हे ब्राह्मणहरू, यदि म पतित हुँदो हुँ, यदि म तपाईंहरूको सेवामा न्यून हुँदो हुँ, भने म तपाईंहरू र अन्य ब्राह्मणहरूद्वारा त्यागिनयोग्य हुन्थेँ।
23हे श्रेष्ठ ब्राह्मणहरू, जब म न त पतित छु, न तपाईंहरूप्रति आदरमा न्यून, तब तपाईंहरूले मैले गर्ने यज्ञमा बाधा हाल्नुहुँदैन र पर्याप्त कारणविना मलाई यसरी त्याग्नुहुँदैन। हे ब्राह्मणहरू, म तपाईंहरूको शरण चाहन्छु, तपाईंहरू ममाथि प्रसन्न हुनुपर्छ। हे श्रेष्ठ ब्राह्मणहरू, यदि तपाईंहरू केवल शत्रुताले मेरो त्याग गर्नुहुन्छ भने, म अन्य ब्राह्मणहरूकहाँ जानेछु र आफ्नो यज्ञमा तिनीहरूको सहायता माग्नेछु। मधुर वचन र भाषणले तिनीहरूलाई प्रसन्न पारेर म तिनीहरूलाई भन्नेछु कि मेरो के कार्य सिद्ध हुनुपर्ने छ, जसबाट तिनीहरूले त्यो सम्पन्न गरून्।"
24यसो भनेर राजा मौन भए। ब्राह्मणहरू राम्ररी जान्दथे कि उनीहरूले ती शत्रुदमनको यज्ञमा सहायता गर्न सक्दैनन्; त्यसैले उनीहरूले ती नृपश्रेष्ठमाथि क्रुद्ध भएको बहाना गरे र भने — "हे राजाहरूमा श्रेष्ठ, तपाईंका यज्ञ अविरत छन्।
25तपाईंलाई (यज्ञमा) सहायता गर्दागर्दै हामी थाकिसक्यौँ। यस श्रमका कारण हामी क्लान्त छौँ; त्यसैले तपाईंले हामीलाई (जाने) अनुमति दिनुपर्छ। हे निष्पाप, केवल आफ्नो विवेकहीनताका कारण तपाईं पर्खन सक्नुहुन्न। रुद्र (शिव)कहाँ जानुहोस्; उनले तपाईंको यज्ञमा सहायता गर्नेछन्।"
26निन्दा र क्रोधका यी वचन सुनेर राजा श्वेतकि क्रुद्ध भए। कैलास पर्वतमा गएर उनी कठोर व्रतको पालन गर्दै र उग्र तपस्या गर्दै देव (शिव)को उपासना गर्न थाले। सम्पूर्ण भोजन त्यागेर उनले अनेक वर्ष बिताए।
27उनी केवल फल र कन्द खान्थे, कहिले दिनको बाह्रौँ र कहिले सोह्रौँ प्रहर-भागमा।
28उनी रूखको फेदजस्तै उभिइरहन्थे। छ महिनासम्म पाखुरा माथि उठाएर र नेत्र स्थिर गरेर राजाले त्यहाँ (कैलास पर्वतमा) अत्यन्त कठोर तपस्या गरे।
29हे भरतवंशी, शङ्कर (शिव) अत्यन्त प्रसन्न भए; र अन्ततः उनी उनको सामु प्रकट भए।
30उनले भने — "हे शत्रुदमन, हे नरश्रेष्ठ, म तिम्रो तपस्याले अत्यन्त प्रसन्न भएको छु।
31हे राजन्, अब तिमी जुन वर चाहन्छौ माग।" अपरिमित तेजस्वी रुद्र (शिव)का यी वचन सुनेर ती राजर्षिले उनलाई प्रणाम गरेर यसरी उत्तर दिए —
32"हे यशस्वी, हे देवताहरूका अधिपति, हे देवाधिदेव, यदि तपाईं ममाथि प्रसन्न हुनुहुन्छ भने, मेरा यज्ञमा मेरो सहायता गर्नुहोस्।" राजाका यी वचन सुनेर देव प्रसन्न भए र मुस्कुराउँदै उत्तर दिए —
33"हामी स्वयं यज्ञमा सहायता गर्दैनौँ। तर हे राजन्, हे शत्रुदमन, जब तिमीले वर पाउने इच्छाले अत्यन्त कठोर तपस्या गरेका छौ, तब म यही सर्तमा तिम्रो यज्ञमा सहायता गर्नेछु।
34रुद्रले भने — हे राजाधिराज, यदि पूरा बाह्र वर्षसम्म तिमीले निरन्तर यज्ञाग्निमा घिउका आहुति हाल्न सक्यौ र यसै बीच स्वयं ब्रह्मचर्यको जीवन बिताउन सक्यौ भने, हे राजन्, तिमीले जुन प्रयोजनका लागि मसँग मागिरहेका छौ, त्यसका लागि मलाई प्राप्त गर्न सक्नेछौ।
35रुद्रद्वारा यसरी भनिएपछि राजा श्वेतकिले त्यही गरे जो शूलधारी (शिव)ले गर्न भनेका थिए। जब बाह्र वर्ष पूरा भयो, तब उनी फेरि महेश्वर (शिव)कहाँ आए।
36राजालाई देखेर र उनीसँग अत्यन्त प्रसन्न भई जगत्स्रष्टा शङ्कर (शिव)ले नृपश्रेष्ठ श्वेतकिलाई यसरी भने।
37"हे राजाहरूमा श्रेष्ठ, म तिम्रो (महान्) कर्मले प्रसन्न भएको छु। हे शत्रुदमन, यज्ञमा सहायता गर्ने कर्तव्य ब्राह्मणहरूको हो।
38हे शत्रुदमन, त्यसैले म आज स्वयं तिम्रो यज्ञमा सहायता गर्नेछैनँ। पृथ्वीमा एक परम यशस्वी र श्रेष्ठ ब्राह्मण छन् जो मेरै अंश हुन्।
39उनी दुर्वासाका नामले चिनिन्छन्। उनले तिम्रो यज्ञमा सहायता गर्नेछन्। उनी तपोबलले सम्पन्न छन्, उनले तिम्रो सहायता गर्नेछन्। त्यसैले (तिमी) सम्पूर्ण तयारी गर।"
40रुद्रका यी वचन सुनेर राजा आफ्नो राजधानी फर्किए र आफ्नो यज्ञका लागि आवश्यक सम्पूर्ण सामग्री जम्मा गर्न थाले।
41जब सबै कुरा जम्मा भयो, तब राजा फेरि शङ्करको सामु उपस्थित भए र भने — "प्रत्येक आवश्यक वस्तु जम्मा गरिसकिएको छ। र तपाईंको कृपाले मेरा सम्पूर्ण तयारी पूर्ण छन्। हे देवाधिदेव, त्यसैले भोलि मेरो यज्ञदीक्षा होस्।" यशस्वी राजाका यी वचन सुनेर रुद्रले दुर्वासालाई बोलाए र उनलाई यसरी भने — "हे ब्राह्मणश्रेष्ठ, यी महात्मा राजा श्वेतकि हुन्। हे ब्राह्मणहरूका प्रधान, मेरो आज्ञाले यिनको यज्ञमा यिनको सहायता गर।" ऋषिले रुद्रलाई भने — "यस्तै होस्।"
42तब जुन यज्ञका लागि यशस्वी राजाले तयारी गरेका थिए, त्यो उचित ऋतुमा, विधानपूर्वक र विपुल दक्षिणासहित सम्पन्न भयो।
43जब ती यशस्वी राजाको यज्ञ समाप्त भयो, तब त्यसमा सहायता गर्ने अन्य सम्पूर्ण पुरोहितहरू दुर्वासाको अनुमति लिएर गए। त्यस यज्ञमा दीक्षित अन्य सम्पूर्ण परम तेजस्वी सदस्य पनि गए। हे राजन्, तब ती महात्मा (राजर्षि) आफ्नो प्रासादमा प्रवेश गरे।
44वेदमा पारङ्गत ब्राह्मणहरूले उनको अलङ्करण गरे र गायकहरूले उनको स्तुति गरे। नगरको प्रजाले उनको स्वागत गर्यो।
45महाराज श्वेतकि सधैँ धर्मात्मा रहे। दीर्घकालपछि, सबैबाट पूजित भई, उनी यज्ञका सम्पूर्ण सदस्य र ऋत्विजहरूसहित स्वर्ग गए। उनको यज्ञमा अग्निले बाह्र वर्षसम्म घिउ पिए।
46त्यस अद्वितीय यज्ञमा अग्निले घिउको विपुल मात्रा पिए, जसबाट उनलाई अपार तृप्ति भयो।
47अब उनलाई अरूबाट थप आहुति लिने इच्छा रहेन। तब ती यशस्वी अग्नि पहेँलिए (किनभने उनले त्यस यज्ञमा घिउको अत्यन्त विपुल मात्रा पिएका थिए)। उनी पहिलेजस्तै देदीप्यमान रहन सकेनन्।
48तब स्वामी अग्निले आफ्नो उदरमा केही विकार अनुभव गरे। कान्तिहीन भई उनलाई विरक्ति भयो।
49आफूलाई पहेँलिएको देखेर अग्नि सबैबाट सधैँ पूजित ब्रह्माको पवित्र धाममा गए।
50(आफ्नो आसनमा) विराजमान ब्रह्माकहाँ आएर उनले उनलाई यसरी भने — "राजा श्वेतकिले आफ्नो यज्ञले मलाई तृप्त पारे। हे जगदीश्वर, म तेज र बल दुवैमा क्षीण भएको छु। म तपाईंको कृपाले आफ्नो स्थायी स्वरूप पुनः प्राप्त गर्न चाहन्छु।"
51अग्निका यी वचन सुनेर सम्पूर्ण लोकका यशस्वी स्रष्टाले मुस्कुराउँदै अग्निलाई यसरी भने — "तिमीले बाह्र वर्षसम्म निरन्तर आफ्नो मुखमा हालिएको घिउको अत्यन्त विपुल मात्रा पिएका छौ। हे परमदेव, यसैले तिमी रोगले ग्रस्त भएका छौ। हे अग्ने, त्यसैले तिमीले अकस्मात् आफ्नो तेज र बल दुवै गुमाएका छौ। हे अग्ने, यसका लागि शोक नगर। तिमी चाँडै आफ्नो स्वरूप पुनः प्राप्त गर्नेछौ। म तिम्रो यो रोग हटाइदिनेछु।
52हे अग्ने, देवताहरूका शत्रुहरूको निवास, भयानक खाण्डव वन, जसलाई प्राचीन कालमा देवताहरूको प्रार्थनामा तिमीले भस्म गरेका थियौ, त्यो फेरि अनेक प्राणीले भरिएको छ। जब तिमी ती सम्पूर्ण प्राणीको (जो अहिले खाण्डवमा बस्छन्) बोसो खानेछौ, तब तिमीले आफ्नो स्वरूप पुनः प्राप्त गर्नेछौ।
53चाँडै त्यहाँ जाऊ र त्यसलाई त्यसका सम्पूर्ण जीवजन्तुसहित भस्म पारिदेऊ। तब तिमी निश्चय नै आफ्नो रोगबाट मुक्त हुनेछौ।" परमदेवद्वारा भनिएका यी वचन सुनेर अग्नि महान् वेगले (त्यस विशाल वनतर्फ) हिँडे। पूर्ण वेगले भयानक खाण्डव वनमा पुगेर उनी सहसा वायुको सहायताले प्रज्वलित भए।
54खाण्डवलाई बलिरहेको देखेर त्यस वनका निवासीहरूले त्यो निभाउने महान् प्रयत्न गरे।
55सयौँ-हजारौँ हात्तीहरू हतारिँदै आफ्ना सुँडमा जल भरेर ल्याए र अत्यन्त क्रोधले त्यो अग्निमाथि छर्कन थाले।
56अनेक फणा भएका सर्पहरू क्रोधले उन्मत्त भई तुरुन्तै आफ्ना अनेक फणाबाट अग्निमाथि जल छर्कन थाले।
57हे भरतवंशमा श्रेष्ठ, तिनीहरूले र त्यस वनमा बस्ने अन्य प्राणीहरूले नाना उपाय र प्रयत्नले चाँडै नै अग्निलाई निभाइदिए।
58यसरी अग्नि खाण्डव (वन)मा बारम्बार प्रज्वलित भए, तर प्रज्वलित अग्निलाई त्यस वनका निवासीहरूले बारम्बार निभाइदिए।