सर्गः 11
अरण्यकाण्ड · अध्याय 11
संस्कृत
1अग्रतः प्रययौ रामस्सीता मध्ये सुमध्यमा। पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह।।3.11.1।।
2तौ पश्यमानौ विविधान् शैलप्रस्थान्वनानि च। नदीश्च विविधा रम्या जग्मतुस्सीतया सह।।3.11.2।।
3सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः। सरांसि च सपद्मानि युक्तानि जलजैः खगैः।।3.11.3।।
4यूथबद्धांश्च पृषतान्मदोन्मत्तान् विषाणिनः। महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः।।3.11.4।।
5ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे। ददृशुस्सहिता रम्यं तटाकं योजनायतम्।।3.11.5।। पद्मपुष्करसम्बाधं गजयूथैरलङ्कृतम्। सारसैर्हंसकादम्बैस्सङ्कुलं जलचारिभिः।।3.11.6।।
6ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे। ददृशुस्सहिता रम्यं तटाकं योजनायतम्।।3.11.5।। पद्मपुष्करसम्बाधं गजयूथैरलङ्कृतम्। सारसैर्हंसकादम्बैस्सङ्कुलं जलचारिभिः।।3.11.6।।
7प्रसन्नसलिले रम्ये तस्मिन्सरसि शुश्रुवे। गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते।।3.11.7।।
8ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः। मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे।।3.11.8।।
9इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने। कौतूहलं महज्जातं किमिदं साधु कथ्यताम्।।3.11.9।। वक्तव्यं यदि चेदविप्र नातिगुह्यमपि प्रभो।
10तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा।।3.11.10।। प्रभवं सरसः कृत्स्नमाख्यातुमुपचक्रमे।
11इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम्।।3.11.11।। निर्मितं तपसा राम मुनिना माण्डकर्णिना।
12स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः।।3.11.12।। दशवर्षसहस्राणि वायुभक्षो जलाश्रयः।
13ततः प्रव्यथितास्सर्वे देवास्साग्निपुरोगमाः।।3.11.13।। अब्रुवन् वचनं सर्वे परस्परसमागताः।
14अस्माकं कस्यचित् स्थानमेष प्रार्थयते मुनिः।।3.11.14।। इति संविग्नमनसस्सर्वे ते त्रिदिवौकसः।
15तत्र कर्तुं तपोविघ्नं देवैस्सर्वैर्नियोजिताः।।3.11.15।। प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः।
16अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः।।3.11.16।। नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये।
17ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः।।3.11.17।। तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम्।
18तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम्।।3.11.18।। रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्।
19तासां सङ्क्रीडमानानामेष वादित्रनिस्स्वनः।।3.11.19।। श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः।
20आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः।।3.11.20।। राघवः प्रतिजग्राह सह भ्रात्रा महायशाः।
21एवं कथयमानस्य ददर्शाश्रममण्डलम्।।3.11.21।। कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्।
22प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः।।3.11.22।। उवास मुनिभिस्सर्वैः पूज्यमानो महायशाः।
23तदा तस्मिन्सकाकुत्थ्सः श्रीमत्याश्रममण्डले।।3.11.23।। उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः। जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्।।3.11.24।। येषामुषितवान् पूर्वं सकाशे स महास्त्रवित्।
24तदा तस्मिन्सकाकुत्थ्सः श्रीमत्याश्रममण्डले।।3.11.23।। उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः। जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्।।3.11.24।। येषामुषितवान् पूर्वं सकाशे स महास्त्रवित्।
25क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित्।।3.11.25।। क्वचिच्छ चतुरो मासान् पञ्च षट्चापरान्क्वचित्। अपरत्राधिकं मासादप्यर्धमधिकं क्वचित्।।3.11.26।। त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम्।
26क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित्।।3.11.25।। क्वचिच्छ चतुरो मासान् पञ्च षट्चापरान्क्वचित्। अपरत्राधिकं मासादप्यर्धमधिकं क्वचित्।।3.11.26।। त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम्।
27तथा संवसतस्तस्य मुनीनामाश्रमेषु वै।।3.11.27।। रमतश्चानुकूल्येन ययुस्संवत्सरा दश।
28परिवृत्य च धर्मज्ञो राघवस्सह सीतया।।3.11.28।। सुतीक्ष्णस्याश्रमं श्रीमान्पुनरेवाजगाम ह।
29स तमाश्रममासाद्य मुनिभिः प्रतिपूजितः।।3.11.29।। तत्रापि न्यवसद्रामः कञ्चित्कालमरिन्दमः।
30तदाश्रमस्थो विनयात्कदाचित्तं महामुनिम्।।3.11.30।। उपासीनस्सकाकुत्स्थस्सुतीक्ष्णमिदमब्रवीत्।
31अस्मिन्नरण्ये भगवानगस्त्यो मुनिसत्तमः।।3.11.31।। वसतीति मया नित्यं कथाः कथयतां श्रुतम्।
32न तु जानामि तं देशं वनस्यास्य महत्तया।।3.11.32।। कुत्राश्रमपदं रम्यं महर्षेस्तस्य धीमतः।
33प्रसादात्तत्र भवतस्सानुजस्सह सीतया।।3.11.33।। अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम्।
34मनोरथो महानेष हृदि मे परिवर्तते।।3.11.34।। यद्यहं तं मुनिवरं शुश्रूषेयमपि स्वयम्।
35इति रामस्य स मुनिश्श्रुत्वा धर्मात्मनो वचः।।3.11.35।। सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम्।
36अहमप्येतदेव त्वां वक्तुकामस्सलक्ष्मणम्।।3.11.36।। अगस्त्यमभिगच्छेति सीतया सह राघव।
37दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम्।।3.11.37।। अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः।
38योजनान्याश्रमात्तात याहि चत्वारि वै ततः।।3.11.38।। दक्षिणेन महान् श्रीमानगस्त्यभ्रातुराश्रमः।
39स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते।।3.11.39।। बहुपुष्पफले रम्ये नानाशकुनिनादिते।
40पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाश्शिवाः।।3.11.40।। हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः। तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम्।।3.11.41।।
41पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाश्शिवाः।।3.11.40।। हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः। तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम्।।3.11.41।।
42दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः। तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरा।।3.11.42।।
43रमणीये वनोद्धेशे बहुपादपसंवृते। रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया।।3.11.43।। स हि रम्यो वनोद्देशो बहुपादपसङ्कुलः।
44यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम्।।3.11.44।। अद्यैव गमने बुद्धिं रोचयस्व महायशः।
45इति रामो मुनेश्श्रुत्वा सह भ्रात्राभिवाद्य च।।3.11.45।। प्रतस्थेऽमुद्दिश्य सानुजस्सीतया सह।
46पश्यन्वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान्।।3.11.46।। सरांसि सरितश्चैव पथि मार्गवशानुगाः। सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम्।।3.11.47।। इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत्।
47पश्यन्वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान्।।3.11.46।। सरांसि सरितश्चैव पथि मार्गवशानुगाः। सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम्।।3.11.47।। इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत्।
48एतदेवाश्रमपदं नूनं तस्य महात्मनः।।3.11.48।। अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः।
49यथा हि मे वनस्यास्य ज्ञाताः पथि सहस्रशः।।3.11.49।। सन्नताः फलभारेण पुष्पभारेण च द्रुमाः।
50पिप्पलीनां च पक्वानां वनादस्मादुपागतः।।3.11.50।। गन्धोऽयं पवनोक्षिप्तस्सहसा कटुकोदयः।
51तत्र तत्र च दृश्यन्ते सङ्क्षिप्ताः काष्ठसञ्चयाः।।3.11.51।। लूनाश्च पथि दृश्यन्ते दर्भा वैडूर्यवर्चसः।
52एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम्।।3.11.52।। पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते।
53विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः।।3.11.53।। पुष्पोपहारं कुर्वन्ति कुसुमैस्स्वयमर्जितै।
54तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम्।।3.11.54।। अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति।
55निगृह्य तपसा मृत्युं लोकानां हितकाम्यया।।3.11.55।। यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा।
56धारयन् ब्राह्मणं रूपमिल्वलस्संस्कृतं वदन्।।3.11.56।। आमन्त्रयति विप्रान्स्मश्राद्धमुद्दिश्य निर्घृणः।
57भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम्।।3.11.57।। तान् द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा।
58भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम्।।3.11.57।। तान् द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा।
59ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत्।।3.11.59।। वातापे निष्क्रमन्वेति स्वरेण महता वदन्।
60ततो भ्रातुर्वचश्श्रुत्वा वातापिर्मेषवन्नदन्।।3.11.60।। भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत्।
61ब्राह्माणानां सहस्राणि तैरेवं कामरूपिभिः।।3.11.61।। विनाशितानि संहत्य नित्यशः पिशिताशनैः।
62अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा।।3.11.62।। अनुभूय किल श्राद्धे भक्षितस्समहासुरः।
63ततस्सम्पन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः।।3.11.63।। भ्रातरं निष्क्रमस्वेति चेल्वलस्सोऽभ्यभाषत।
64स तं तथा भाषमाणं भ्रातरं विप्रघातिनम्।।3.11.64।। अब्रवीत्प्रहसन्धीमानगस्त्यो मुनिसत्तमः।
65कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः।।3.11.65।। भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम्।
66अथ तस्य वचश्श्रुत्वा भ्रातुर्निधनसंश्रयम्।।3.11.66।। प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः।
67सोऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा।।3.11.67।। चक्षुषानलकल्पेन निर्दग्धो निधनं गतः।
68तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः।।3.11.68।। विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम्।
69एवं कथयमानस्य तस्य सौमित्रिणा सह। रामस्यास्तं गतस्सूर्यस्सन्ध्याकालोऽभ्यवर्ततः।।3.11.69।।
70उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि। प्रविवेशाऽश्रमपदं तमृषिं सोऽभ्यवादयत्।।3.11.70।।
71सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवः। न्यवसत्तां निशामेकां प्राश्य मूलफलानि च।।3.11.71।।
72तस्यां रात्य्रां व्यतीतायां विमले सूर्यमण्डले। भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः।।3.11.72।।
73अभिवादये त्वां भगवन् सुखमध्युषितो निशाम्। आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम्।।3.11.73।।
74गम्यतामिति तेनोक्तो जगाम रघुनन्दनः। यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन्।।3.11.74।।
75नीवारान्पनसांस्तालांस्तिमिशान्वञ्चुलान्धवान्। चिरिबिल्वान्मधूकांश्च बिल्वानपि च तिन्दुकान्।।3.11.75।।
76पुष्पितान्पुष्पिताग्राभिर्लताभिरनुवेष्टितान्। ददर्श रामश्शतशस्तत्र कान्तारपादपान्।।3.11.76।। हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान्। मत्तैश्शकुनिसङ्घैश्च शतशश्च प्रणादितान्।।3.11.77।।
77पुष्पितान्पुष्पिताग्राभिर्लताभिरनुवेष्टितान्। ददर्श रामश्शतशस्तत्र कान्तारपादपान्।।3.11.76।। हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान्। मत्तैश्शकुनिसङ्घैश्च शतशश्च प्रणादितान्।।3.11.77।।
78ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः। पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम्।।3.11.78।।
79स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः। आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः।।3.11.79।।
80अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा। आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः।।3.11.80।।
81प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः। प्रशान्तमृगयूथश्च नानाशकुनिनादितः।।3.11.81।।
82तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः। दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते।।3.11.82।।
83यदा प्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा। तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः।।3.11.83।।
84नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा। प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः।।3.11.84।।
85मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः। निदेशं पालयन्यस्य विन्ध्यशैला न वर्धते।।3.11.85।। अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः। अगस्त्यस्याश्रम श्रीमान्विनीतजनसेवितः।।3.11.86।।
86मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः। निदेशं पालयन्यस्य विन्ध्यशैला न वर्धते।।3.11.85।। अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः। अगस्त्यस्याश्रम श्रीमान्विनीतजनसेवितः।।3.11.86।।
87एष लोकार्चितस्साधुर्हिते नित्यरतस्सताम्। अस्मानभिगतानेष श्रेयसा योजयिष्यति।।3.11.87।।
88आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम्। शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो।।3.11.88।।
89अत्र देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः। अगस्त्यं नियताहारं सततं पर्युपासते।।3.11.89।।
90नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः। नृशंसः कामवृत्तो वा मुनिरेष तथाविधः।।3.11.90।।
91अत्र देवाश्च यक्षाश्च नागाश्च पतगैस्सह। वसन्ति नियताहारा धर्ममाराधयिष्णवः।।3.11.91।।
92अत्र सिद्धा महात्मानो विमानैजस्सूर्यसन्निभैः। त्यक्तदेहा नवैर्देहैः स्वर्याताः परमर्षयः।।3.11.92।।
93यक्षत्वममरत्वं च राज्यानि विविधानि च। अत्र देवाः प्रयच्छन्ति भूतैराराधिताश्शुभैः।।3.11.93।।
अंग्रेज़ी
1Rama walked in front, Sita with a beautiful waist, in the middle and Lakshmana holding the bow, behind them৷৷
2Both Rama and Lakshmana walked on, accompanied by Sita, watching several beautiful mountain ranges, forests and rivers.
3(Watching) the swans and ruddy geese on river banks and lakes full of lotuses, and birds on water and in the sky.
4(Watching) herds of deer, intoxicated horned buffaloes, wild boars and elephants who are enemies of trees (elephants uproof trees).
5As the Sun was setting, they had covered a long distance, watching a yojanalong tank adorned with lotuses, and crowded with herds of elephants and flocks of cranes, swans and aquatic animals.
6As the Sun was setting, they had covered a long distance, watching a yojanalong tank adorned with lotuses, and crowded with herds of elephants and flocks of cranes, swans and aquatic animals.
7In that lake of clear waters they heard the sounds of songs and musical instruments, while there were none around.
8Out of curiosity, mighty Rama, and Lakshmana started enquiring about the matter from sage Dharmabrata by name:
9O great sage, this very wonderful sound, has whetted our great curiosity. If there is no top secret about this, do disclose it.
10Thus addressed by Rama, the righteous sage narrated the entire origin of the lake.
11O Rama this lake called Panchapsara filled with water at all times has been created through penance by a sage called Mandakarni.
12Great sage Mandakarni standing in water and living on air performed rigorous penance for ten thousand years.
13Thereafter very much perturbed, all the gods led by Agni gathered together at one place and started deliberating among themselves.
14'The gods of heaven became agitated in their minds thinking the sage might usurp one of their places.
15All the gods then engaged five of the important nymphs, glittering like lightning, to disturb the penance of the sage.
16The sage, a knower of the inner self and the world of plurality, was gripped by passion for the apsaras, who had come to achieve the target of the gods.
17The five apsaras, got the status of wives to the sage who built them an invisible home inside the lake.
18The apsaras lived happily with the sage who remained youthful by virtue of his penance.
19While the apsaras played their musical instruments, their melodious songs mingled with the sounds of ornaments are heard.
20Glorious Rama and his brother heard the wonderful words of the selfrealised sage and exclaimed, 'How strange '
21When the sage Dharmabrata was telling the story, Rama saw a hermitage strewn all over with kusa grass and bark garments, and endowed with pure brahminic grace.
22Illustrious Rama accompanied by Vaidehi and Lakshmana entered the hermitage and, honoured by all the sages, stayed there.
23Rama, the scion of the Kakutstha race, wielder of great weapons, stayed in that beautiful hermitage, accepting the hospitality of the sages extended with due honour, He visited in turn their penancegroves where he repeated his stay.
24Rama, the scion of the Kakutstha race, wielder of great weapons, stayed in that beautiful hermitage, accepting the hospitality of the sages extended with due honour, He visited in turn their penancegroves where he repeated his stay.
25Rama lived happily here for about ten months, there one year, here four or five or six months and there over one or half a month or three or eight months in another.
26Rama lived happily here for about ten months, there one year, here four or five or six months and there over one or half a month or three or eight months in another.
27Thus enjoying their stay in the hermitages, Rama, Sita and Lakshmana spent ten favourable years.
28Rama went round who was full of grace and full of knowledge on dharma went round with Sita and came back to Suthikshna's hermitage.
29On his arrival, Rama, the subduer of enemies, was honoured by the sages at the hermitage where he stayed for a short time.
30Once while sitting beside sage Sutikshna at the hermitage Rama humbly addressed him:
31I have heard others saying that lord Agastya, the great sage, lives in this forest.
32I am unable to locate the sacred hermitage of that sagacious sage due to the vastness of this forest.
33By your grace, I wish to go there with Sita and my brother Lakshmana to offer our respectful salutations.
34There is a great desire in my heart to serve in person the best of sages, Agastya.
35Hearing the words of Rama, the righteous son of Dasaratha, sage Sutikshna was pleased to reply:
36I also wished you, O Raghava, to visit Agastya along with Sita and Lakshmana.
37Luckily you have asked me on your own. I will tell you where the great sage Agastya lives.
38Dear Rama, walk from here a distance of four yojanas. There in the southerly direction stands the great, beautiful hermitage of Agastya's brother.
39This plain land in the beautiful forest tract is adorned with fig trees,filled with flowers, fruits, and delightful sounds of different birds.
40O Rama, there are lotusponds filled with clear, sacred waters, with different kinds of swans, ducks and ruddy geese. Spend one night there and proceed early in the morning.
41O Rama, there are lotusponds filled with clear, sacred waters, with different kinds of swans, ducks and ruddy geese. Spend one night there and proceed early in the morning.
42If you go in the southern direction for a yojana you will find Agasthya's hermitage by the side of a cluster of trees.
43Vaidehi will feel happy in your company in that delightful forest region full of many trees.So too will Lakshmana.
44O glorious one, if you have made up your mind to visit that great sage Agastya, think of starting today itself.
45Rama heard the words of the sage, offered him reverential salutations and set out along with his brother and Sita.
46Enjoying the sight of delightful forests, cloudlike mountains, lakes and rivers on the way, and following the directions given by Sutikshna, Rama was happy. He said to Lakshmana:
47Enjoying the sight of delightful forests, cloudlike mountains, lakes and rivers on the way, and following the directions given by Sutikshna, Rama was happy. He said to Lakshmana:
48Surely this is the hermitage of great Agastya's brother, a man of holy deeds.
49This is the glade we were told about with thousands of trees drooping down with abundant fruits and flowers.
50Feel this sudden astringent smell of ripe figs wafted by the breeze from the forest.
51Heaps of firewood are seen here and there on the path. There are blades of grass (used for sacrificial ceremonies) shining like vaidurya (gems).
52In the middle of the forest can be seen like the tip of the dark clouds columns of smoke coming out of the top of hermitages.
53Priests are coming out of the solitary sacred spots after their bath and making offerings of flowers they had themselves plucked.
54O handsome one, surely this is the hermitage of Agastya's brother about which I heard from Sutikshna.
55It was by whose holy brother, desiring the welfare of all people, that death was subdued through penance and this southern region was rendered worthy of refuge.
56Assuming the form of a brahmin and using Sanskrit language, Ilvala would invite brahmins for offering shraddha to the dead
57Ilvala would keep his brother sanctified, so that he is fit for offering, Then he would feed the brahmins with mutton according to the rituals.
58Ilvala would keep his brother sanctified, so that he is fit for offering, Then he would feed the brahmins with mutton according to the rituals.
59Then when the brahmins finished eating, Ilvala would call aloud, 'O Vatapi come out'.
60Then hearing his brother's voice, Vatapi would bleat like a sheep and jump out, tearing open the bodies of those brahmins.
61In this manner, thousands of brahmins used to be killed daily by those carnivorous demons who assumed any form at their free will.
62Urged by the gods, Agastya came for the shradda . The mighty demon played the same routine trick and Vatapi, for sure, was eaten by the great sage.
63Saying, the ritual is complete Ilvala offered water in the palm of Agastya and called his brother to come out.
64Wise Agastya, the best among the ascetics, laughing aloud, said to Ilvala, the destroyer of brahmins:
65I have digested the demon Vatapi your brother, who assumed the form of a sheep. He has reached the abode of Yama, Lord of death. Where does he have the power to come out?
66On hearing the news of the death of his brother, the demon Ilvala, out of anger, started attacking the sage.
67Ilvala who pounced upon Agastya, the best among the sages whose lustre lay consumed by the fire of his eyes which were in flames.
68This hermitage surrounded by beautiful lakes and forests belongs to his brother (Sudarsana). Out of sympathy for Agastya, he has accomplished this difficult task.
69While Rama was thus narrating to Lakshmana (the story of Agastya), the Sun set and evening closed in.
70Rama with his brother Lakshmana duly offered oblations at twilight, entered the hermitage and greeted the sage (Sudarsana) with folded palms.
71Warmly received by the sage, Rama shared the roots and fruits and slept the night there.
72When the night passed and the Sun became bright, Rama took leave of the brother of Agastya.
73O Lord, the night has been wellspent. Now we humbly seek leave of you to see your respectable elder brother.
74With his permission, Rama, the delight of the Raghu race, proceeded along the path indicated, watching (the beauty of) the forest.
75They passed by wild rice fields, jackfruit trees, palmyra and various other trees like Ashoka, trees with white flowers, old trees that existed for a long time, mahva trees, bilva trees and tindukas.
76Rama saw hundreds of trees crushed by the trunks of elephants and by monkeys. He saw some trees echoing with notes of hundreds of intoxicated birds. He saw tree tops coiled with creepers in full bloom.
77Rama saw hundreds of trees crushed by the trunks of elephants and by monkeys. He saw some trees echoing with notes of hundreds of intoxicated birds. He saw tree tops coiled with creepers in full bloom.
78Then the lotuseyed Rama said to the chivalrous, graceful Lakshmana who stood behind him:
79The leaves of the trees here are glossy, the animals and birds are peaceful. It appears the hermitage of the selfrealized great sage Agastya is not very far from here.
80Here is the hermitage of Agastya, wellknown in the world for his deeds a place of rest for those tired with hard work.
81This forest is enveloped with the smoke rising from the sacrificial altar. There are rows of bark robes hanging. Herds of quiet animals lying and different kind of birds chirping around.
82This is his hermitage. On account of his (Agastya's) impact the demons look south but cannot eat the hermits out of fear (for the sage).
83Since the time Agastya of sacred deeds occupied this direction the demons are quiet, leaving all enmity.
84The southern side favourable to the people was famous by the name Agastya in the three worlds and stood unassailable to the demons.
85This is the hermitage of the longlived Agastya who is renowned for his deeds and is served by humble people. The great mountain Vindhya that was growing incessantly and obstructing the path of the Sun stopped growing any more in obedience to Agastya's words.
86This is the hermitage of the longlived Agastya who is renowned for his deeds and is served by humble people. The great mountain Vindhya that was growing incessantly and obstructing the path of the Sun stopped growing any more in obedience to Agastya's words.
87We are going to join this sage honoured by the people of the world and ever engaged in the welfare of the virtuous. This augurs well for us.
88O noble, handsome Lakshmana, I will spend the rest of the exile in this forest in the worship of the great sage Agastya.
89The gods along with gandharvas, siddhas and great sages always serve Agastya, observing discipine in their food habits.
90This sage is such type that he (his spiritual power) will not allow a liar or a cruel man or a deceitful or lustful or wicked person to thrive here.
91Here gods, yakshas, nagas and birds live, following the righteous path and observing discipline in food habits.
92Here great souls like sages and siddhas gave up the ghost and with renewed bodies left for heaven on aerochariot resembling the Sun (in brightness).
93Worshipped by benevolent beings, the gods here bestow on them the status of demigods or of the immortals or several kinds of kingdoms.
हिन्दी
1राम आगे-आगे चल रहे थे, सुन्दर कटि वाली सीता बीच में और धनुष धारण किए लक्ष्मण उनके पीछे।
2राम और लक्ष्मण दोनों सीता सहित अनेक सुन्दर पर्वतश्रेणियाँ, वन और नदियाँ देखते हुए आगे बढ़ते रहे।
3नदी-तटों तथा कमलों से भरे सरोवरों पर हंस और चकवे, और जल तथा आकाश में पक्षी (देखते हुए)।
4मृगों के झुण्ड, मदमत्त सींगों वाले भैंसे, जंगली सूअर तथा वृक्षों के शत्रु हाथी (देखते हुए) (हाथी वृक्षों को उखाड़ देते हैं)।
5सूर्यास्त के समय तक वे दीर्घ मार्ग तय कर चुके थे, मार्ग में कमलों से अलंकृत तथा हाथियों के झुण्डों और सारसों, हंसों एवं जलजीवों के दलों से भरा एक योजन लम्बा सरोवर देखते हुए।
6सूर्यास्त के समय तक वे दीर्घ मार्ग तय कर चुके थे, मार्ग में कमलों से अलंकृत तथा हाथियों के झुण्डों और सारसों, हंसों एवं जलजीवों के दलों से भरा एक योजन लम्बा सरोवर देखते हुए।
7स्वच्छ जल वाले उस सरोवर में उन्होंने गीतों और वाद्यों की ध्वनियाँ सुनीं, जबकि आस-पास कोई नहीं था।
8कौतूहलवश बलशाली राम और लक्ष्मण धर्मव्रत नामक मुनि से इस विषय में पूछने लगे:
9हे महामुने! यह अत्यन्त विस्मयकारी ध्वनि हमारे मन में बड़ा कौतूहल जगा रही है। यदि इसमें कोई परम रहस्य न हो तो कृपया इसे बताइए।
10राम द्वारा इस प्रकार सम्बोधित किए जाने पर उन धर्मात्मा मुनि ने उस सरोवर की सम्पूर्ण उत्पत्ति-कथा सुनाई।
11हे राम! सदा जल से भरा यह पञ्चाप्सर नामक सरोवर मन्दकर्णि नामक मुनि ने अपनी तपस्या से रचा है।
12महामुनि मन्दकर्णि ने जल में खड़े रहकर और वायु पर जीवन बिताकर दस सहस्र वर्ष तक कठोर तप किया।
13तत्पश्चात् अत्यन्त विचलित होकर अग्नि के नेतृत्व में सब देवता एक स्थान पर एकत्र हुए और आपस में विचार-विमर्श करने लगे।
14'स्वर्ग के देवताओं के मन में यह सोचकर उद्वेग हुआ कि कहीं वे मुनि उनमें से किसी का स्थान न छीन लें।
15तब सब देवताओं ने बिजली के समान देदीप्यमान पाँच प्रमुख अप्सराओं को उन मुनि की तपस्या भंग करने के कार्य में लगाया।
16अन्तरात्मा और बहुविध जगत् के ज्ञाता वे मुनि देवताओं का प्रयोजन सिद्ध करने आई उन अप्सराओं के प्रति काम से ग्रस्त हो गए।
17उन पाँचों अप्सराओं को मुनि की पत्नियों का पद प्राप्त हुआ; मुनि ने उनके लिए सरोवर के भीतर एक अदृश्य गृह बनाया।
18अप्सराएँ उन मुनि के साथ सुखपूर्वक रहने लगीं, जो अपने तपोबल से युवा बने रहे।
19जब अप्सराएँ अपने वाद्य बजाती हैं, तब उनके मधुर गीत आभूषणों की ध्वनि में घुले हुए सुनाई देते हैं।
20यशस्वी राम और उनके भ्राता ने उन आत्मज्ञानी मुनि के ये अद्भुत वचन सुने और कहा—'कितना विचित्र!'
21जब मुनि धर्मव्रत यह कथा सुना रहे थे, तब राम ने चारों ओर कुश और वल्कल वस्त्रों से बिछा तथा शुद्ध ब्राह्मणीय तेज से सम्पन्न एक आश्रम देखा।
22यशस्वी राम ने वैदेही और लक्ष्मण सहित उस आश्रम में प्रवेश किया और सब मुनियों द्वारा सम्मानित होकर वहीं ठहरे।
23महान् अस्त्रों के धारक काकुत्स्थ वंशज राम उस सुन्दर आश्रम में ठहरे, मुनियों द्वारा यथोचित सम्मान सहित दिए गए आतिथ्य को स्वीकार करते हुए। उन्होंने बारी-बारी से उनके तपोवनों में जाकर वहाँ पुनः-पुनः निवास किया।
24महान् अस्त्रों के धारक काकुत्स्थ वंशज राम उस सुन्दर आश्रम में ठहरे, मुनियों द्वारा यथोचित सम्मान सहित दिए गए आतिथ्य को स्वीकार करते हुए। उन्होंने बारी-बारी से उनके तपोवनों में जाकर वहाँ पुनः-पुनः निवास किया।
25राम कहीं लगभग दस मास, कहीं एक वर्ष, कहीं चार, पाँच अथवा छह मास और कहीं एक अथवा आधे मास से अधिक, कहीं तीन अथवा आठ मास—इस प्रकार सुखपूर्वक रहे।
26राम कहीं लगभग दस मास, कहीं एक वर्ष, कहीं चार, पाँच अथवा छह मास और कहीं एक अथवा आधे मास से अधिक, कहीं तीन अथवा आठ मास—इस प्रकार सुखपूर्वक रहे।
27इस प्रकार आश्रमों में अपने निवास का आनन्द लेते हुए राम, सीता और लक्ष्मण ने दस मंगलमय वर्ष बिताए।
28तेज से सम्पन्न और धर्म के ज्ञान से पूर्ण राम सीता सहित विचरण करते हुए पुनः सुतीक्ष्ण के आश्रम लौट आए।
29उनके आगमन पर शत्रुदमन राम आश्रम के मुनियों द्वारा सम्मानित हुए और वहाँ थोड़े समय ठहरे।
30एक बार आश्रम में मुनि सुतीक्ष्ण के पार्श्व में बैठे राम ने विनम्रता से उन्हें सम्बोधित किया:
31मैंने दूसरों से सुना है कि महामुनि भगवान् अगस्त्य इस वन में निवास करते हैं।
32इस वन की विशालता के कारण मैं उन प्रज्ञावान् मुनि का पवित्र आश्रम ढूँढ़ नहीं पा रहा हूँ।
33आपकी कृपा से मैं सीता और अपने भ्राता लक्ष्मण सहित वहाँ जाकर श्रद्धापूर्वक प्रणाम करना चाहता हूँ।
34मुनियों में श्रेष्ठ अगस्त्य की स्वयं सेवा करने की मेरे हृदय में महान् अभिलाषा है।
35दशरथ के धर्मात्मा पुत्र राम के वचन सुनकर मुनि सुतीक्ष्ण प्रसन्न होकर बोले:
36हे राघव! मैं भी यही चाहता था कि आप सीता और लक्ष्मण सहित अगस्त्य के दर्शन करें।
37सौभाग्य से आपने स्वयं ही मुझसे पूछ लिया। मैं आपको बताऊँगा कि महामुनि अगस्त्य कहाँ निवास करते हैं।
38हे प्रिय राम! यहाँ से चार योजन की दूरी चलिए। वहाँ दक्षिण दिशा में अगस्त्य के भ्राता का महान्, सुन्दर आश्रम है।
39सुन्दर वनप्रदेश का यह समतल भूभाग गूलर के वृक्षों से अलंकृत है, पुष्पों, फलों तथा नाना पक्षियों की मनोहर ध्वनियों से भरा है।
40हे राम! वहाँ स्वच्छ, पवित्र जल से भरे कमलसरोवर हैं, जिनमें नाना प्रकार के हंस, बत्तखें और चकवे हैं। वहाँ एक रात्रि बिताइए और प्रातःकाल शीघ्र आगे बढ़िए।
41हे राम! वहाँ स्वच्छ, पवित्र जल से भरे कमलसरोवर हैं, जिनमें नाना प्रकार के हंस, बत्तखें और चकवे हैं। वहाँ एक रात्रि बिताइए और प्रातःकाल शीघ्र आगे बढ़िए।
42यदि आप दक्षिण दिशा में एक योजन जाएँ तो वृक्षों के एक समूह के पार्श्व में आपको अगस्त्य का आश्रम मिलेगा।
43अनेक वृक्षों से भरे उस मनोहर वनप्रदेश में वैदेही आपके संग में प्रसन्न होंगी। लक्ष्मण भी वैसे ही होंगे।
44हे यशस्वी! यदि आपने उन महामुनि अगस्त्य के दर्शन का निश्चय कर लिया है, तो आज ही प्रस्थान का विचार कीजिए।
45राम ने मुनि के वचन सुने, उन्हें श्रद्धापूर्वक प्रणाम किया और अपने भ्राता तथा सीता सहित प्रस्थान किया।
46मार्ग में मनोहर वनों, मेघ-समान पर्वतों, सरोवरों और नदियों का दृश्य देखते हुए तथा सुतीक्ष्ण द्वारा बताए गए मार्ग का अनुसरण करते हुए राम प्रसन्न थे। उन्होंने लक्ष्मण से कहा:
47मार्ग में मनोहर वनों, मेघ-समान पर्वतों, सरोवरों और नदियों का दृश्य देखते हुए तथा सुतीक्ष्ण द्वारा बताए गए मार्ग का अनुसरण करते हुए राम प्रसन्न थे। उन्होंने लक्ष्मण से कहा:
48निश्चय ही यह पवित्र कर्मों वाले महात्मा अगस्त्य के भ्राता का आश्रम है।
49यही वह वनप्रदेश है जिसके विषय में हमें बताया गया था, जहाँ सहस्रों वृक्ष प्रचुर फलों और पुष्पों से झुके हुए हैं।
50वन से आती वायु द्वारा लाई गई पके गूलरों की इस सहसा उठती कषाय गन्ध का अनुभव करो।
51मार्ग में यहाँ-वहाँ समिधाओं के ढेर दिखाई दे रहे हैं। वैदूर्य (मणियों) के समान चमकते कुश (यज्ञकर्मों में प्रयुक्त) के तिनके हैं।
52वन के मध्य में आश्रमों के शिखरों से उठते धूम्रस्तम्भ श्याम मेघों के अग्रभाग के समान दिखाई दे रहे हैं।
53पुरोहित एकान्त पवित्र स्थलों से स्नान के पश्चात् निकल रहे हैं और स्वयं तोड़े हुए पुष्पों की आहुतियाँ अर्पित कर रहे हैं।
54हे सुन्दर! निश्चय ही यह अगस्त्य के भ्राता का आश्रम है जिसके विषय में मैंने सुतीक्ष्ण से सुना था।
55यह उन्हीं के पवित्र भ्राता थे जिन्होंने समस्त प्रजा का कल्याण चाहते हुए तपस्या से मृत्यु को वश में किया और इस दक्षिण दिशा को शरण के योग्य बनाया।
56ब्राह्मण का रूप धारण कर और संस्कृत भाषा का प्रयोग करते हुए इल्वल मृतकों के श्राद्ध के लिए ब्राह्मणों को आमन्त्रित करता था।
57इल्वल अपने भ्राता को संस्कारित रखता था, ताकि वह भोज्य के योग्य हो। तत्पश्चात् वह विधि के अनुसार ब्राह्मणों को मेषमांस खिलाता था।
58इल्वल अपने भ्राता को संस्कारित रखता था, ताकि वह भोज्य के योग्य हो। तत्पश्चात् वह विधि के अनुसार ब्राह्मणों को मेषमांस खिलाता था।
59तत्पश्चात् जब ब्राह्मण भोजन समाप्त कर लेते, तब इल्वल जोर से पुकारता—'हे वातापि! बाहर आओ।'
60तब अपने भ्राता की वाणी सुनकर वातापि मेष के समान मिमियाता और उन ब्राह्मणों के शरीर फाड़कर बाहर कूद पड़ता।
61इस प्रकार अपनी इच्छा से कोई भी रूप धारण करने वाले उन मांसभक्षी राक्षसों द्वारा प्रतिदिन सहस्रों ब्राह्मण मारे जाते थे।
62देवताओं द्वारा प्रेरित होकर अगस्त्य उस श्राद्ध में आए। उस बलशाली राक्षस ने वही परिचित छल किया और वातापि निश्चय ही उन महामुनि द्वारा खा लिया गया।
63'कर्म पूर्ण हुआ' कहकर इल्वल ने अगस्त्य की अंजलि में जल दिया और अपने भ्राता को बाहर आने के लिए पुकारा।
64तपस्वियों में श्रेष्ठ बुद्धिमान् अगस्त्य ने जोर से हँसते हुए ब्राह्मणों के संहारक इल्वल से कहा:
65मेषरूप धारण करने वाले तुम्हारे भ्राता राक्षस वातापि को मैंने पचा लिया है। वह मृत्यु के स्वामी यमराज के धाम पहुँच चुका है। उसमें बाहर आने की शक्ति कहाँ?
66अपने भ्राता की मृत्यु का समाचार सुनकर राक्षस इल्वल क्रोध में आकर मुनि पर आक्रमण करने लगा।
67मुनियों में श्रेष्ठ अगस्त्य पर झपटा इल्वल उनके ज्वालामय नेत्रों की अग्नि से भस्म हो गया और उसका तेज नष्ट हो गया।
68सुन्दर सरोवरों और वनों से घिरा यह आश्रम उनके भ्राता (सुदर्शन) का है। अगस्त्य के प्रति सहानुभूति से उन्होंने यह कठिन कार्य सिद्ध किया है।
69जब राम इस प्रकार लक्ष्मण को (अगस्त्य की कथा) सुना रहे थे, तब सूर्य अस्त हो गया और सन्ध्या घिर आई।
70राम ने अपने भ्राता लक्ष्मण सहित सन्ध्याकाल में विधिवत् आहुतियाँ अर्पित कीं, आश्रम में प्रवेश किया और हाथ जोड़कर मुनि (सुदर्शन) का अभिवादन किया।
71मुनि द्वारा सादर स्वागत किए जाने पर राम ने कन्दमूल और फल ग्रहण किए और वहीं रात्रि व्यतीत की।
72रात्रि बीतने और सूर्य के देदीप्यमान हो जाने पर राम ने अगस्त्य के भ्राता से विदा ली।
73हे भगवन्! रात्रि सुखपूर्वक बीती। अब हम आपके पूज्य ज्येष्ठ भ्राता के दर्शन के लिए विनम्रतापूर्वक आपसे विदा माँगते हैं।
74उनकी अनुमति से रघुकुल के आनन्ददायक राम बताए गए मार्ग पर वन की (शोभा) देखते हुए आगे बढ़े।
75वे जंगली धान के खेतों, कटहल के वृक्षों, ताड़ तथा अशोक जैसे नाना वृक्षों, श्वेत पुष्पों वाले वृक्षों, दीर्घ काल से विद्यमान पुराने वृक्षों, महुए के वृक्षों, बिल्व वृक्षों और तेन्दू वृक्षों के पास से होकर गए।
76राम ने सैकड़ों वृक्ष देखे जो हाथियों की सूँड़ों और वानरों द्वारा कुचले गए थे। उन्होंने कुछ वृक्ष देखे जो सैकड़ों मदमत्त पक्षियों के स्वरों से गूँज रहे थे। उन्होंने वृक्षों के शिखर देखे जो पूर्ण खिली लताओं से लिपटे हुए थे।
77राम ने सैकड़ों वृक्ष देखे जो हाथियों की सूँड़ों और वानरों द्वारा कुचले गए थे। उन्होंने कुछ वृक्ष देखे जो सैकड़ों मदमत्त पक्षियों के स्वरों से गूँज रहे थे। उन्होंने वृक्षों के शिखर देखे जो पूर्ण खिली लताओं से लिपटे हुए थे।
78तब कमलनयन राम ने अपने पीछे खड़े वीर, तेजस्वी लक्ष्मण से कहा:
79यहाँ वृक्षों के पत्ते चिकने हैं, पशु और पक्षी शान्त हैं। ऐसा प्रतीत होता है कि आत्मज्ञानी महामुनि अगस्त्य का आश्रम यहाँ से अधिक दूर नहीं है।
80यही अगस्त्य का आश्रम है, जो अपने कर्मों के लिए संसार में विख्यात हैं; यह कठोर श्रम से थके हुओं के लिए विश्रामस्थल है।
81यह वन यज्ञवेदी से उठते धूम्र से आवृत है। वल्कल वस्त्रों की पंक्तियाँ टँगी हैं। शान्त पशुओं के झुण्ड लेटे हैं और नाना प्रकार के पक्षी चारों ओर कलरव कर रहे हैं।
82यही उनका आश्रम है। उनके (अगस्त्य के) प्रभाव के कारण राक्षस दक्षिण की ओर देखते तो हैं, किन्तु (मुनि के) भय से तपस्वियों को खा नहीं सकते।
83जब से पवित्र कर्मों वाले अगस्त्य ने इस दिशा को अधिकृत किया, तब से राक्षस समस्त वैर छोड़कर शान्त हैं।
84प्रजा के लिए अनुकूल यह दक्षिण दिशा तीनों लोकों में अगस्त्य के नाम से विख्यात हुई और राक्षसों के लिए अजेय बनी रही।
85यह दीर्घायु अगस्त्य का आश्रम है, जो अपने कर्मों के लिए विख्यात हैं और जिनकी सेवा विनयशील लोग करते हैं। जो विन्ध्य महापर्वत निरन्तर बढ़ता जा रहा था और सूर्य के मार्ग को अवरुद्ध कर रहा था, वह अगस्त्य के वचन का पालन करते हुए आगे बढ़ना बन्द कर बैठा।
86यह दीर्घायु अगस्त्य का आश्रम है, जो अपने कर्मों के लिए विख्यात हैं और जिनकी सेवा विनयशील लोग करते हैं। जो विन्ध्य महापर्वत निरन्तर बढ़ता जा रहा था और सूर्य के मार्ग को अवरुद्ध कर रहा था, वह अगस्त्य के वचन का पालन करते हुए आगे बढ़ना बन्द कर बैठा।
87हम संसार के लोगों द्वारा सम्मानित और सदा सज्जनों के कल्याण में लगे इन मुनि से मिलने जा रहे हैं। यह हमारे लिए शुभ संकेत है।
88हे आर्य, सुन्दर लक्ष्मण! मैं वनवास का शेष काल इसी वन में महामुनि अगस्त्य की सेवा में बिताऊँगा।
89गन्धर्वों, सिद्धों और महर्षियों सहित देवता सदा आहार में संयम रखते हुए अगस्त्य की सेवा करते हैं।
90ये मुनि ऐसे हैं कि वे (उनका आध्यात्मिक बल) किसी मिथ्यावादी अथवा क्रूर अथवा कपटी अथवा कामी अथवा दुष्ट पुरुष को यहाँ फूलने-फलने नहीं देंगे।
91यहाँ देवता, यक्ष, नाग और पक्षी धर्म के मार्ग का अनुसरण करते हुए तथा आहार में संयम रखते हुए निवास करते हैं।
92यहाँ मुनियों और सिद्धों जैसे महात्माओं ने अपना शरीर त्यागा और नवीन शरीर धारण कर (तेज में) सूर्य के समान विमानों पर स्वर्ग को प्रस्थान किया।
93परोपकारी प्राणियों द्वारा पूजित यहाँ के देवता उन्हें उपदेवता अथवा अमरों का पद, अथवा नाना प्रकार के राज्य प्रदान करते हैं।
नेपाली
1राम अगिअगि हिँडिरहेका थिए, सुन्दर कम्मर भएकी सीता बीचमा र धनुष धारण गरेका लक्ष्मण तिनको पछाडि।
2राम र लक्ष्मण दुवै सीतासहित अनेक सुन्दर पर्वतशृङ्खला, वन र नदी हेर्दै अगाडि बढिरहे।
3नदी-किनार तथा कमलले भरिएका सरोवरमा हाँस र चखेवा, र पानी तथा आकाशमा पक्षी (हेर्दै)।
4मृगका बथान, मदमत्त सिङ भएका भैंसी, जङ्गली बँदेल तथा रूखका शत्रु हात्ती (हेर्दै) (हात्तीले रूख उखेल्छन्)।
5सूर्यास्तको समयसम्म तिनीहरूले दीर्घ मार्ग पार गरिसकेका थिए, बाटोमा कमलले अलङ्कृत तथा हात्तीका बथान र सारस, हाँस एवं जलजीवका हुलले भरिएको एक योजन लामो सरोवर हेर्दै।
6सूर्यास्तको समयसम्म तिनीहरूले दीर्घ मार्ग पार गरिसकेका थिए, बाटोमा कमलले अलङ्कृत तथा हात्तीका बथान र सारस, हाँस एवं जलजीवका हुलले भरिएको एक योजन लामो सरोवर हेर्दै।
7सफा पानी भएको त्यस सरोवरमा तिनीहरूले गीत र वाद्यका आवाज सुने, जबकि वरिपरि कोही थिएन।
8कौतूहलवश बलशाली राम र लक्ष्मण धर्मव्रत नाम गरेका मुनिसँग यस विषयमा सोध्न थाले:
9हे महामुने! यो अत्यन्तै विस्मयकारी ध्वनिले हाम्रो मनमा ठूलो कौतूहल जगाएको छ। यदि यसमा कुनै परम रहस्य छैन भने कृपया यो बताउनुहोस्।
10रामले यसरी सम्बोधन गरेपछि ती धर्मात्मा मुनिले त्यस सरोवरको सम्पूर्ण उत्पत्ति-कथा सुनाए।
11हे राम! सदा पानीले भरिएको यो पञ्चाप्सर नाम गरेको सरोवर मन्दकर्णि नाम गरेका मुनिले आफ्नो तपस्याले रचेका हुन्।
12महामुनि मन्दकर्णिले पानीमा उभिएर र वायुमा जीवन बिताएर दस हजार वर्षसम्म कठोर तप गरे।
13त्यसपछि अत्यन्तै विचलित भई अग्निको नेतृत्वमा सबै देवता एक ठाउँमा एकत्र भए र आपसमा विचार-विमर्श गर्न थाले।
14'स्वर्गका देवताहरूको मनमा यो सोचेर उद्वेग भयो कि कतै ती मुनिले तिनीहरूमध्ये कसैको स्थान नखोसून्।
15तब सबै देवताले बिजुलीसमान देदीप्यमान पाँच प्रमुख अप्सरालाई ती मुनिको तपस्या भङ्ग गर्ने कार्यमा लगाए।
16अन्तरात्मा र बहुविध जगत्का ज्ञाता ती मुनि देवताहरूको प्रयोजन सिद्ध गर्न आएका ती अप्सराप्रति कामले ग्रस्त भए।
17ती पाँचै अप्सराले मुनिकी पत्नीको पद प्राप्त गरे; मुनिले तिनका लागि सरोवरभित्र एउटा अदृश्य घर बनाए।
18अप्सराहरू ती मुनिसँग सुखपूर्वक बस्न थाले, जो आफ्नो तपोबलले युवा नै रहे।
19जब अप्सराहरूले आफ्ना वाद्य बजाउँछन्, तब तिनका मीठा गीत गहनाका आवाजसँग मिसिएर सुनिन्छन्।
20यशस्वी राम र उनका भाइले ती आत्मज्ञानी मुनिका यी अद्भुत वचन सुने र भने—'कस्तो विचित्र!'
21जब मुनि धर्मव्रत यो कथा सुनाइरहेका थिए, तब रामले चारैतिर कुश र वल्कल वस्त्रले छरिएको तथा शुद्ध ब्राह्मणीय तेजले सम्पन्न एउटा आश्रम देखे।
22यशस्वी रामले वैदेही र लक्ष्मणसहित त्यस आश्रममा प्रवेश गरे र सबै मुनिद्वारा सम्मानित भई त्यहीँ बसे।
23महान् अस्त्रका धारक काकुत्स्थ वंशज राम त्यस सुन्दर आश्रममा बसे, मुनिहरूले यथोचित सम्मानसहित दिएको आतिथ्य स्वीकार गर्दै। उनले पालैपालो तिनका तपोवनमा गई त्यहाँ पुनः-पुनः बसाइ गरे।
24महान् अस्त्रका धारक काकुत्स्थ वंशज राम त्यस सुन्दर आश्रममा बसे, मुनिहरूले यथोचित सम्मानसहित दिएको आतिथ्य स्वीकार गर्दै। उनले पालैपालो तिनका तपोवनमा गई त्यहाँ पुनः-पुनः बसाइ गरे।
25राम कतै लगभग दस महिना, कतै एक वर्ष, कतै चार, पाँच वा छ महिना र कतै एक वा आधा महिनाभन्दा बढी, कतै तीन वा आठ महिना—यसरी सुखपूर्वक बसे।
26राम कतै लगभग दस महिना, कतै एक वर्ष, कतै चार, पाँच वा छ महिना र कतै एक वा आधा महिनाभन्दा बढी, कतै तीन वा आठ महिना—यसरी सुखपूर्वक बसे।
27यसरी आश्रमहरूमा आफ्नो बसाइको आनन्द लिँदै राम, सीता र लक्ष्मणले दस मंगलमय वर्ष बिताए।
28तेजले सम्पन्न र धर्मको ज्ञानले पूर्ण राम सीतासहित विचरण गर्दै पुनः सुतीक्ष्णको आश्रममा फर्किए।
29उनको आगमनमा शत्रुदमन राम आश्रमका मुनिहरूद्वारा सम्मानित भए र त्यहाँ थोरै समय बसे।
30एक पटक आश्रममा मुनि सुतीक्ष्णको छेउमा बसेका रामले विनम्रतापूर्वक उनलाई सम्बोधन गरे:
31मैले अरूबाट सुनेको छु कि महामुनि भगवान् अगस्त्य यस वनमा बस्नुहुन्छ।
32यस वनको विशालताका कारण म ती प्रज्ञावान् मुनिको पवित्र आश्रम खोज्न सकिरहेको छैनँ।
33तपाईंको कृपाले म सीता र आफ्ना भाइ लक्ष्मणसहित त्यहाँ गई श्रद्धापूर्वक प्रणाम गर्न चाहन्छु।
34मुनिहरूमा श्रेष्ठ अगस्त्यको आफैँ सेवा गर्ने महान् अभिलाषा मेरो हृदयमा छ।
35दशरथका धर्मात्मा पुत्र रामका वचन सुनेर मुनि सुतीक्ष्ण प्रसन्न भई बोले:
36हे राघव! म पनि यही चाहन्थेँ कि तपाईं सीता र लक्ष्मणसहित अगस्त्यको दर्शन गर्नुहोस्।
37सौभाग्यले तपाईंले आफैँ मलाई सोध्नुभयो। म तपाईंलाई बताउनेछु कि महामुनि अगस्त्य कहाँ बस्नुहुन्छ।
38हे प्रिय राम! यहाँबाट चार योजनको दूरी हिँड्नुहोस्। त्यहाँ दक्षिण दिशामा अगस्त्यका भाइको महान्, सुन्दर आश्रम छ।
39सुन्दर वनप्रदेशको यो समतल भूभाग डुम्रीका रूखले अलङ्कृत छ, फूल, फल तथा नाना पक्षीका मनोहर आवाजले भरिएको छ।
40हे राम! त्यहाँ सफा, पवित्र पानीले भरिएका कमलपोखरी छन्, जसमा नाना प्रकारका हाँस, बतख र चखेवा छन्। त्यहाँ एक रात बिताउनुहोस् र बिहान सबेरै अगाडि बढ्नुहोस्।
41हे राम! त्यहाँ सफा, पवित्र पानीले भरिएका कमलपोखरी छन्, जसमा नाना प्रकारका हाँस, बतख र चखेवा छन्। त्यहाँ एक रात बिताउनुहोस् र बिहान सबेरै अगाडि बढ्नुहोस्।
42यदि तपाईं दक्षिण दिशामा एक योजन जानुभयो भने रूखहरूको एउटा समूहको छेउमा तपाईंले अगस्त्यको आश्रम भेट्नुहुनेछ।
43अनेक रूखले भरिएको त्यस मनोहर वनप्रदेशमा वैदेही तपाईंको सङ्गमा प्रसन्न हुनेछिन्। लक्ष्मण पनि त्यसै गरी हुनेछन्।
44हे यशस्वी! यदि तपाईंले ती महामुनि अगस्त्यको दर्शनको निश्चय गरिसक्नुभयो भने आजै प्रस्थानको विचार गर्नुहोस्।
45रामले मुनिका वचन सुने, उनलाई श्रद्धापूर्वक प्रणाम गरे र आफ्ना भाइ तथा सीतासहित प्रस्थान गरे।
46बाटोमा मनोहर वन, बादलसमान पर्वत, सरोवर र नदीका दृश्य हेर्दै तथा सुतीक्ष्णले बताएको मार्गको अनुसरण गर्दै राम प्रसन्न थिए। उनले लक्ष्मणलाई भने:
47बाटोमा मनोहर वन, बादलसमान पर्वत, सरोवर र नदीका दृश्य हेर्दै तथा सुतीक्ष्णले बताएको मार्गको अनुसरण गर्दै राम प्रसन्न थिए। उनले लक्ष्मणलाई भने:
48निश्चय नै यो पवित्र कर्म भएका महात्मा अगस्त्यका भाइको आश्रम हो।
49यही त्यो वनप्रदेश हो जसको विषयमा हामीलाई बताइएको थियो, जहाँ हजारौँ रूख प्रचुर फल र फूलले निहुरिएका छन्।
50वनबाट आउने वायुले ल्याएको पाकेका डुम्रीको यो एक्कासि उठ्ने कषाय गन्धको अनुभव गर।
51बाटोमा यताउता समिधाका थुप्रा देखिँदै छन्। वैदूर्य (मणि) समान चम्कने कुश (यज्ञकर्ममा प्रयोग हुने) का सिन्का छन्।
52वनको बीचमा आश्रमका शिखरबाट उठ्ने धूमस्तम्भ काला बादलका टुप्पासमान देखिँदै छन्।
53पुरोहितहरू एकान्त पवित्र स्थलबाट स्नानपछि निस्कँदै छन् र आफैँले टिपेका फूलका आहुति अर्पण गर्दै छन्।
54हे सुन्दर! निश्चय नै यो अगस्त्यका भाइको आश्रम हो जसको विषयमा मैले सुतीक्ष्णबाट सुनेको थिएँ।
55यी उनकै पवित्र भाइ थिए जसले समस्त प्रजाको कल्याण चाहँदै तपस्याले मृत्युलाई वशमा पारे र यस दक्षिण दिशालाई शरणयोग्य बनाए।
56ब्राह्मणको रूप धारण गरी र संस्कृत भाषाको प्रयोग गर्दै इल्वलले मृतकहरूको श्राद्धका लागि ब्राह्मणहरूलाई निम्त्याउँथ्यो।
57इल्वलले आफ्नो भाइलाई संस्कारित राख्थ्यो, ताकि ऊ भोज्ययोग्य होस्। त्यसपछि उसले विधिअनुसार ब्राह्मणहरूलाई भेडाको मासु खुवाउँथ्यो।
58इल्वलले आफ्नो भाइलाई संस्कारित राख्थ्यो, ताकि ऊ भोज्ययोग्य होस्। त्यसपछि उसले विधिअनुसार ब्राह्मणहरूलाई भेडाको मासु खुवाउँथ्यो।
59त्यसपछि जब ब्राह्मणहरूले भोजन सिध्याउँथे, तब इल्वल चर्को स्वरले बोलाउँथ्यो—'हे वातापि! बाहिर आऊ।'
60तब आफ्नो भाइको आवाज सुनेर वातापि भेडासमान म्याँ-म्याँ गर्दै ती ब्राह्मणका शरीर च्यातेर बाहिर उफ्रन्थ्यो।
61यसरी आफ्नो इच्छाले जुनसुकै रूप धारण गर्ने ती मांसभक्षी राक्षसहरूद्वारा दैनिक हजारौँ ब्राह्मण मारिन्थे।
62देवताहरूद्वारा प्रेरित भई अगस्त्य त्यस श्राद्धमा आए। त्यस बलशाली राक्षसले त्यही चिरपरिचित छल गर्यो र वातापि निश्चय नै ती महामुनिद्वारा खाइयो।
63'कर्म पूरा भयो' भन्दै इल्वलले अगस्त्यको अञ्जुलिमा पानी दियो र आफ्नो भाइलाई बाहिर आउन बोलायो।
64तपस्वीहरूमा श्रेष्ठ बुद्धिमान् अगस्त्यले ठूलो स्वरले हाँस्दै ब्राह्मणहरूको संहारक इल्वललाई भने:
65भेडाको रूप धारण गर्ने तिम्रो भाइ राक्षस वातापिलाई मैले पचाइसकेँ। ऊ मृत्युका स्वामी यमराजको धाममा पुगिसक्यो। उसमा बाहिर आउने शक्ति कहाँ?
66आफ्नो भाइको मृत्युको समाचार सुनेर राक्षस इल्वल क्रोधले मुनिमाथि आक्रमण गर्न थाल्यो।
67मुनिहरूमा श्रेष्ठ अगस्त्यमाथि झम्टिएको इल्वल उनका ज्वालामय आँखाको अग्निले भस्म भयो र उसको तेज नष्ट भयो।
68सुन्दर सरोवर र वनले घेरिएको यो आश्रम उनका भाइ (सुदर्शन) को हो। अगस्त्यप्रतिको सहानुभूतिले उनले यो कठिन कार्य सिद्ध गरेका छन्।
69जब राम यसरी लक्ष्मणलाई (अगस्त्यको कथा) सुनाइरहेका थिए, तब सूर्य अस्तायो र साँझ घेरियो।
70रामले आफ्ना भाइ लक्ष्मणसहित सन्ध्याकालमा विधिवत् आहुति अर्पण गरे, आश्रममा प्रवेश गरे र हात जोडेर मुनि (सुदर्शन) को अभिवादन गरे।
71मुनिद्वारा सादर स्वागत गरिएपछि रामले कन्दमूल र फल ग्रहण गरे र त्यहीँ रात बिताए।
72रात बितेपछि र सूर्य देदीप्यमान भएपछि रामले अगस्त्यका भाइसँग बिदा लिए।
73हे भगवन्! रात सुखपूर्वक बित्यो। अब हामी तपाईंका पूज्य जेठा दाजुको दर्शनका लागि विनम्रतापूर्वक तपाईंसँग बिदा माग्छौँ।
74उनको अनुमतिले रघुकुलका आनन्ददायक राम बताइएको मार्गमा वनको (शोभा) हेर्दै अगाडि बढे।
75तिनीहरू जङ्गली धानका खेत, रुखकटहरका रूख, ताड तथा अशोकजस्ता नाना रूख, सेता फूल भएका रूख, दीर्घ कालदेखि विद्यमान पुराना रूख, महुवाका रूख, बेलका रूख र तेँदूका रूखको छेउबाट भएर गए।
76रामले सयौँ रूख देखे जो हात्तीका सुँड र वाँदरहरूले कुल्चिएका थिए। उनले केही रूख देखे जो सयौँ मदमत्त पक्षीका स्वरले गुञ्जिरहेका थिए। उनले रूखका टुप्पा देखे जो पूरै फुलेका लहराले बेरिएका थिए।
77रामले सयौँ रूख देखे जो हात्तीका सुँड र वाँदरहरूले कुल्चिएका थिए। उनले केही रूख देखे जो सयौँ मदमत्त पक्षीका स्वरले गुञ्जिरहेका थिए। उनले रूखका टुप्पा देखे जो पूरै फुलेका लहराले बेरिएका थिए।
78तब कमलनयन रामले आफ्नो पछाडि उभिएका वीर, तेजस्वी लक्ष्मणलाई भने:
79यहाँ रूखका पात चिल्ला छन्, पशु र पक्षी शान्त छन्। यस्तो प्रतीत हुन्छ कि आत्मज्ञानी महामुनि अगस्त्यको आश्रम यहाँबाट धेरै टाढा छैन।
80यही अगस्त्यको आश्रम हो, जो आफ्ना कर्मका लागि संसारमा विख्यात हुनुहुन्छ; यो कठोर श्रमले थाकेकाहरूका लागि विश्रामस्थल हो।
81यो वन यज्ञवेदीबाट उठ्ने धुवाँले आवृत छ। वल्कल वस्त्रका पङ्क्ति झुन्डिएका छन्। शान्त पशुहरूका बथान पल्टिएका छन् र नाना प्रकारका पक्षी वरिपरि कलरव गरिरहेका छन्।
82यही उनको आश्रम हो। उनको (अगस्त्यको) प्रभावका कारण राक्षसहरू दक्षिणतर्फ हेर्छन् त, तर (मुनिको) भयले तपस्वीहरूलाई खान सक्दैनन्।
83जबदेखि पवित्र कर्म भएका अगस्त्यले यो दिशा अधिकृत गरे, तबदेखि राक्षसहरू समस्त वैर छोडेर शान्त छन्।
84प्रजाका लागि अनुकूल यो दक्षिण दिशा तीनै लोकमा अगस्त्यको नामले विख्यात भयो र राक्षसहरूका लागि अजेय रह्यो।
85यो दीर्घायु अगस्त्यको आश्रम हो, जो आफ्ना कर्मका लागि विख्यात हुनुहुन्छ र जसको सेवा विनयशील मानिसहरूले गर्छन्। जुन विन्ध्य महापर्वत निरन्तर बढ्दै थियो र सूर्यको मार्ग अवरुद्ध गर्दै थियो, त्यो अगस्त्यको वचनको पालना गर्दै अझ बढ्न छोडेर बस्यो।
86यो दीर्घायु अगस्त्यको आश्रम हो, जो आफ्ना कर्मका लागि विख्यात हुनुहुन्छ र जसको सेवा विनयशील मानिसहरूले गर्छन्। जुन विन्ध्य महापर्वत निरन्तर बढ्दै थियो र सूर्यको मार्ग अवरुद्ध गर्दै थियो, त्यो अगस्त्यको वचनको पालना गर्दै अझ बढ्न छोडेर बस्यो।
87हामी संसारका मानिसहरूद्वारा सम्मानित र सदा सज्जनहरूको कल्याणमा लागेका यी मुनिलाई भेट्न जाँदै छौँ। यो हाम्रा लागि शुभ सङ्केत हो।
88हे आर्य, सुन्दर लक्ष्मण! म वनवासको शेष काल यसै वनमा महामुनि अगस्त्यको सेवामा बिताउनेछु।
89गन्धर्व, सिद्ध र महर्षिसहित देवताहरू सदा आहारमा संयम राख्दै अगस्त्यको सेवा गर्छन्।
90यी मुनि यस्ता छन् कि उनले (उनको आध्यात्मिक बलले) कुनै मिथ्यावादी वा क्रूर वा कपटी वा कामी वा दुष्ट पुरुषलाई यहाँ फल्न-फुल्न दिने छैनन्।
91यहाँ देवता, यक्ष, नाग र पक्षी धर्मको मार्गको अनुसरण गर्दै तथा आहारमा संयम राख्दै बस्छन्।
92यहाँ मुनि र सिद्धजस्ता महात्माहरूले आफ्नो शरीर त्यागे र नयाँ शरीर धारण गरी (तेजमा) सूर्यसमान विमानमा स्वर्गतर्फ प्रस्थान गरे।
93परोपकारी प्राणीहरूद्वारा पूजित यहाँका देवताहरूले तिनलाई उपदेवता वा अमरहरूको पद, वा नाना प्रकारका राज्य प्रदान गर्छन्।