अनुशासनिक पर्व — सुदर्शन और ओघवती की कथा; एक गृहस्थ ने मृत्यु को कैसे जीता
खण्ड 9 — अनुशासन से स्वर्गारोहण पर्व तक · अध्याय 2
संस्कृत
1युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद। श्रुतं मे महदाख्यानमिदं मतिमतां वर॥
2भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप। कथ्यमानं त्वया किञ्चित् तन्मे व्याख्यातुमर्हसि॥
3केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निजितः। इत्येतत् सर्वमाचक्ष्व तत्त्वेनापि च पार्थिव॥
4भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः॥
5मनोः प्रजापते राजनिक्ष्वाकुरभवत् सुतः। तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः॥
6दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत। माहिष्मत्यामभूद् राजा धर्मात्मा सत्यविक्रमः॥
7दशाश्वस्य सुतस्त्वासीद् राजा परमधार्मिकः। सत्ये तपसि दाने च यस्य नित्यं रतं मनः॥
8मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः। धनुर्वेदे च वेदे च निरतो योऽभवत् सदा॥
9मदिराश्वस्य पुत्रस्तु द्युतिमान् नाम पार्थिवः। महाभागो महातेजा महासत्त्वो महाबलः॥
10पुत्रो द्युतिमतस्त्वासीद् राजा परमधार्मिकः। सर्वलोकेषु विख्यातः सुवीरो नाम नामतः॥
11धर्मात्मा कोषवांश्चापि देवराज इवापरः। सुवीरस्य तु पुत्रोऽभूत् सर्वसंग्रामदुर्जयः॥
12स दुर्जय इति ख्यातः सर्वशस्त्रभृतां वरः। दुर्जयस्येन्द्रवपुषः पुत्रोऽश्विसदृशद्युतिः॥
13दुर्योधनो नाम महान् राजा राजर्षिस्तमः। तस्येन्द्रसमवीर्यस्य संग्रामेष्वनिवर्तिनः॥
14विषये वासवस्तस्य सम्यगेव प्रवर्षति। रत्नैर्धनैश्च पशुभिः सस्येश्चापि पृथग्विधैः॥
15नगरं विषयश्चास्य प्रतिपूर्णस्तदाभवत्। न तस्य विषये चाभूत् कृपणो नापि दुर्गतः॥
16व्याधितो वा कृशो वाऽपि तस्मिन् नाभृन्नरः क्वचित्। सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः। धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकस्थनः॥
17यज्वा च दान्तो मेधावी ब्रह्मण्यः सत्यसङ्गरः। न चावमन्ता दाता च वेदवेदाङ्गपारगः॥
18तं नर्मदा देवनदी पुण्या शीतजला शिवा। चकमे पुरुषव्याघ्रं स्वेन भावेन भारत।॥
19तस्यां जज्ञे तदा नद्यां कन्या राजीवलोचना। नाम्ना सुदर्शना राजन् रूपेण च सुदर्शना॥
20तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर। दुर्योधनसुता यादृगभवद् वरवर्णिनी॥
21तामग्निश्चकमे साक्षाद् राजकन्यां सुदर्शनाम्। भूत्वा च ब्राह्मणो राजन् वरयामास तं नृपम्॥
22दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः। न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम्॥
23ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः। ततःसुदुःखितो राजा वाक्यमाह द्विजांस्तदा॥
24दुष्कृतं मम किं नु स्याद् भवतां वा द्विजर्षभाः। येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव॥
25न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्नि शमागतः। भवतां चाथवा मह्यं तत्त्वेनैतद् विमृश्यताम्॥
26तत्र राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ। नियता वाग्यताश्चैव पावकं शरणं ययुः॥
27तान् दर्शयामास तदा भगवान् हव्यवाहनः। स्वं रूपं दीप्तिमत् कृत्वा शरदर्कसमद्युतिः॥
28ततो महात्मा तानाह दहनो ब्राह्मणर्षभान्। वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति॥
29ततस्ते कल्पमुत्थाय तस्मै राज्ञे न्यवेदयन्। ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना॥
30ततः स राजा तच्छुत्वा वचनं ब्रह्मवादिनाम्। अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान्॥
31अयाचत च तं शुल्कं भगवन्तं विभावसुम्। नित्यं सांनिध्यमिह ते चित्रभानो भवेदिति॥ तमाह भगवानग्निरेवमस्त्विति पार्थिवम्। ततः सांनिध्यमद्यापि माहिष्मत्यां विभावसोः॥
32दृष्टं हि सहदेवेन दिशं विजयता तदा। ततस्तां समलंकृत्य कन्यामाहृतवाससम्॥ ददौ दुर्योधनो राजा पावकाय महात्मने। प्रतिजग्राह चाग्निस्तु राजकन्यां सुदर्शनाम्॥ विधिना वेददृष्टेन वसोर्धारामिवाध्वरे। तस्या रूपेण शीलेन कुलेन वपुषा श्रिया॥ अभवत् प्रीतिमानग्निर्गर्भे चास्या मनो दधे। तस्याः समभवत्पुत्रो नाम्नाऽऽग्नेयः सुदर्शनः॥
33सुदर्शनस्तु रूपेण पूर्णेन्दुसदृशोपमः। शिशुरेवाध्यगात् सर्वं परं ब्रह्म सनातनम्॥
34अथौघवान् नाम नृपो नृगस्यासीत् पितामहः। तस्याथौघवती कन्या पुत्रश्चौवरथोऽभवत्॥
35तामोघवान् ददौ तस्मै स्वयमोघवतीं सुताम्। सुदर्शनाय विदुषे भार्यार्थं देवरूपिणीम्॥
36स गृहस्थाश्रमरतस्तया सह सुदर्शनः। कुरुक्षेत्रेऽवसद् राजन्नोघवत्या समन्वितः॥
37गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो। प्रतिज्ञामकरोद् धीमान् दीप्ततेजा विशाम्पते।॥
38तामथौघवतीं राजन् स पावकसुतोऽब्रवीत्। अतिथेः प्रतिकूलं ते न कर्तव्यं कथंचन॥
39येन येन च तुष्येत नित्यमेव त्वयाऽतिथिः। अप्यात्मनः प्रदानेन न ते कार्या विचारणा॥
40एतद् व्रतं मम सदा हृदि सम्परिवर्तते। गृहस्थानां च सुश्रोणि नातिथेर्विद्यते परम्॥
41प्रमाणं यदि वामोरु वचस्ते मम शोभने। इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा॥
42निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघे। नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव॥
43तमब्रवीदोघवती तथा मूर्ध्नि कृताञ्जलिः। न मे त्वद्वचनात् किंचिन्न कर्तव्यं कथंचन॥
44जिगीषमाणस्तु गृहे तदा मृत्युः सुदर्शनम्। पृष्ठतोऽन्वगमद् राजन् रन्ध्रान्वेषी तदा सदा॥
45इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने। अतिथिळह्मणः श्रीमांस्तामाहौघवतीं तदा॥
46आतिथ्यं कृतमिच्छामि त्वयाऽद्य वरवर्णिनि। प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसम्मतः॥
47इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी। विधिना प्रतिजग्राह वेदोक्तेन विशाम्पते॥
48आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये। प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते॥
49तामब्रवीत् ततो विप्रो राजपुत्री सुदर्शनाम्। त्वया ममार्थः कल्याणि निर्विशङ्कतदाचर॥
50यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसम्मतः। प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम्॥
51स तया छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया। नान्यमात्मप्रदानात् स तस्या ववे वरं द्विजः॥
52सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः। तथेति लज्जमाना सा तमुवाच द्विजर्षभम्॥
53ततो विहस्य विप्रर्षिः सा चैवाथ विवेश ह। संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः॥
54अथेध्मानमुपादाय स पावकिरुपागमत्। मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः॥
55ततस्त्वाश्रममागम्य स पावकसुतस्तदा। तां व्याजहारौघवतीं क्वासि यातेति चासकृत्॥
56तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा। कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती॥
57उच्छिष्टाऽस्मीति मन्वाना लज्जिता भर्तुरेव च। तूष्णीं भूताऽभवत् साध्वी चोवाचाथ किंचन॥
58अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः। क्व सा साध्वी क्व सा याता गरीयः किमतो मम।।
59पतिव्रता सत्यशीला नित्यं चैवार्जवे रता। कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा॥
60उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम्। अतिथिं विद्धि सम्प्राप्तं ब्राह्मणं पावके च माम्।।६४। अनया छन्द्यमानोऽहं भार्यया तव सत्तम। तैस्तैरतिथिसत्कारैर्ब्रह्मन्नेषाा वृता मया॥ अनेन विधिना सेयं मामर्छति शुभानना। अनुरूपं यदनान्यत् तद् भवान् कर्तुमर्हति॥
61कूटमुद्ररहस्तस्तु मृत्युस्तं वै समन्वगात्। हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन्॥
62सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा। त्यक्तेति॒स्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम्॥ सुरतं तेऽस्तु विप्राय्य प्रीतिर्हि परमा मम। गृहस्थस्य हि धर्मोऽत्र्यः सम्प्राप्तातिथिपूजनम्॥
63अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति। नान्यस्तस्मात् परो धर्म इति प्राहुर्मनीषिणः॥
64प्राणा हि मम दाराश्च यच्चानद् विद्यते वसु। अतिथिभ्यो मया देयमिति मे व्रतमाहितम्॥
65नि:संदिग्धं यथा वाक्यमेतन्मे समुदाहृतम्। तेनाहं विप्र सत्येन स्वयमात्मानमालभे॥
66पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश॥ नित्यमेव हि पश्यन्ति देहिनां देहसंश्रिताः। सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर॥
67यथैषा नानृता वाणी मयाऽद्य समुदीरिता। तेन सत्येन मां देवाः पालयन्तु दहन्तु वा॥
68ततो नादः समभवद् दिक्षु सर्वासु भारत। असकृत् सत्यमित्येवं नैतन्मिथ्येति सर्वतः॥
69उटजात् तु ततस्तस्मान्निश्रकाम स वै द्विजः। वपुषा द्यां च भूमिं च व्याप्य वायुरिवोद्यतः॥ स्वरेण विप्रः शैक्षेण त्रीन्लोकाननुनादयन्। उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः॥ ते
70धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ। प्राप्तः सत्यं च ज्ञात्वा प्रीतिर्मे परमा त्वयि॥
71विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति। रन्ध्रान्वेषी तव सदा त्वया धृत्या वशी कृतः॥
72न चास्ति शक्तिस्त्रैलोक्ये कस्यचित् पुरुषोत्तम। पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत॥
73रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा। अधृष्या यदियं ब्रूयात् तथा तन्नान्यथा भवेत्॥
74एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी। पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति॥
75अर्धेनौघवती नाम त्वामधेनानुयास्यति। शरीरेण महाभाग योगो ह्यस्या वशे स्थितः॥
76अनया सह लोकांश्च गन्ताऽसि तपसार्जितान्। यत्र नावृत्तिमभ्येति शाश्वतांस्तान् सनातनान्॥
77अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे। निर्जितश्च त्वया मृत्युरैश्वर्ये च तवोत्तमम्॥
78पञ्चभूतान्यतिक्रान्तः स्ववीर्याञ्च मनोजवः गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ॥
79स्नेहो राश्च तन्द्री च मोहो द्रोहश्च केवलः। तव शुश्रूषया राजन् राजपुत्र्या विनिर्जिताः॥
80भीष्म उवाच शुल्कानां तु सहस्त्रेण वाजिनां रथमुत्तमम्। युक्तं प्रगृह्य भगवान् वासवोऽप्याजगाम तम्॥
81मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च। बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च॥
82तस्माद् गृहाश्रमस्थस्य नान्यद् दैवतमस्ति वै। ऋतेऽतिथिं नरव्याघ्र मनसैतद् विचारय॥ अतिथिः पूजितो यद्धि ध्यायते मनसा शुभम्। न तत् क्रतुशतेनापि तुल्यमाहुर्मनीषिणः॥
83पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत्। स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति॥
84एतत् ते कथितं पुत्र मयाऽऽख्यानमनुत्तमम्। यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत्॥
85धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम्। बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम्॥
86इदं यः कथयेद् विद्वानहन्यहनि भारत। सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात्॥
अंग्रेज़ी
1Yudhishthira said O grandfather, O wisest of men, O you who are learned in all the scriptures, I have heard, this great story, O foremost of intelligent men!
2I am desirous of again listening to the recital of some history full of religious instruction, and you should satisfy me.
3O king, tell me if any householder has ever succeeded in conquering Death by the practice of virtue! Do you recite this to me in full.
4Bhishma said This ancient history is narrated describing the subject of the conquest, by a householder, of Death, by the practice of virtue.
5The Prajapati Manu had a son, O king, named Ikshvaku. That king, illustrious as the Sun, begat a hundred sons.
6His tenth son, O Bharata, was named Dashashva, and this virtuous prince of infallible prowess became the king of Mahismati.
7Dashashva's son, o king, was a pious prince whose mind was continually devoted to the practice of truth and charity and devotion.
8He was known by the name of Madirashva and ruled the Earth as her master. He was continually given to the study of the Vedas as also of the science of arms.
9Madirashva's son was the king named Dyutimat who was ended with great good fortune and power and strength and energy.
10Dyutimat's son was the highly devout and pious king who was celebrated in all the worlds by the name of Suvira. His soul was intent on religion and he possessed riches like another Indra the king of the gods.
11Suvira too had a son who was invincible in battle, and who was the best of all warriors and known by the name of Sudurjaya.
12And Durjaya too, endued with a body like that of Indra, had a son who was radiant with the effulgence of fire. He was the great king named Duryodhana who was one of the foremost of royal sages.
13Indra used to pour rain profusely in the kingdom of this king, who never fled from the battle field and was gifted with valour like unto Indra himself.
14The cities and the kingdom of this king were filled with wealth and gems and cattle and various sorts of grain.
15There was no miser in his kingdom nor any person afflicted with distress or suffering from poverty. Nor was there in his kingdom any person who was weak in body or afflicted with disease.
16This king was very intelligent, mild in speech, without envy, a master of his passions, of a righteous soul, full of mercy, gifted with prowess, and not given to boasting.
17He celebrated sacrifices, and was selfcontrolled and intelligent, devoted to Brahmanas and Truth. He never humiliated others, and was charitable, and wellread in the Vedas and the Vedanta.
18Auspicious and sacred and of cool waters, the celestial stream Narmada, in her own nature, O Bharata, courted him.
19He begot upon that river, a lotus eyed daughter, named Sudarshana, who was, O king, gifted with great beauty.
20No woman, O Yudhishthira, had been born before, who was so very beautiful as that excellent lady the daughter of Duryodhana.
21The god Agni himself courted the beautiful princess Sudarshana, and assuming the shape of a Brahmana, O king, sought her hand from the king.
22The king was reluctant to give his daughter in marriage to the Brahmana who was poor and not of equal rank with himself.
23Thereupon Agni disappeared from his great sacrifice. The king, grieved at heart, then addressed the Brahmanas, saying,
24What sin have, I you excellent Brahmanas, or you, have committed, that Agni should disappear from this sacrifice, as good done to wicked men vanishes from their estimation.
25Indeed, we have committed a great iniquity for which Agni has thus disappeared! Either you have committed the sin, or I. Do you fully enquire into the matter.
26Then hearing the king's words, O foremost prince of Bharata's race, the Brahmanas, controlling speech, sought with concentrated faculties the help of the god of fire.
27The divine carrier of oblations, effugent as the autumnal Sun, appeared before them, covering his self in glorious refulgence.
28The great Agni then addressed those excellent Brahmanas, saying, I seek the daughter of Duryodhana for my own self.
29At this, all those Brahmanas were struck with surprise and rising on the morrow, they told the king what had been said by the firegod.
30Hearing the words of those Brahmavadins, the wise king was delighted at heart, and said, Be it so! The king sought a boon of Do you, O Agni, be pleased to remain always with us here!
31Be it so! said the divine Agni to that king. For this reason Agni has always been present in the kingdom of Mahismati to this day, and was seen by Sahadeva in his conquering expedition to the south.
32Then the king gave his daughter, dressed in new raiments and decked with jewels, to the great god, and Agni too accepted, according to Vedic rites, the princess Sudarshana as his bride, as he accepts libations of clarified butter at sacrifices. Agni was well pleased with her look, her beauty, grace, character, and nobility of birth, and thought of begetting offspring upon her. And she soon gave birth to a son by Agni, of the name of Sudarshana.
33Sudarshana, also, was, as beautiful as the full moon, and even in his childhood he acquired a knowledge of the supreme and eternal Brahma.
34There was also a king named Oghavat, who was the grandfather of Nriga. He had a daughter named Oghavati, and a son, too, of the name of Ogharatha born to him.
35King Oghavat gave his daughter Oghavati, beautiful as a goddess, 10 the learned Sudarshana, for wife.
36Sudarshana, o king, leading the domestic mode of life with Oghavati, used to live in Kurukshetra with her.
37This intelligent prince of fiery energy took the vow, O lord, of conquering Death by leading the life of a householder.
38The son of Agni, O king, said to Oghavati Do you never act against the wishes of those who seek our hospitality.
39You should ungrudgingly welcome the guests, even if you have to offer your own body.
40O beautiful one, I always remember this vow, since for householders, there is no higher virtue than hospitality to guests.
41Do you always remember without ever doubting it, if my words be any authority with you.
42O sinless and blessed one, if you have any faith in me, do you never disregard a guest whether I be at your side or at a distance from you.
43Oghavati placing her clasped hands on her forehead, replied, saying, I shall leave nothing indone of what you order me.
44Then, O king, desiring to overreach Sudarshana, Mrityu began to watch him for Ginding out his short comings.
45Once on a time, when the son of Agni went out fetch fuel from the forest, a graceful Brahmana sought the hospitality of Oghavati with these words.
46O beautiful lady, if you have any faith in the virtue of hospitality as laid down for householders, then I would request you to extend the rites of hospitality to me today.
47Thus addressed by that Brahmana, O king, the illustrious princess welcomed him according to the rites laid down in the Vedas.
48Having offered him a seat, and water to wash his feet, she enquired, saying, What is your business? What can I offer you?
49The Brahmana said to her, my business is with your body, O blessed one! Do you act accordingly without any hesitation whatever.
50If the duties prescribed for householders be acceptable to you, do you, O princess, satisfy me by offering up your body to me.
51Though tempted by the princess witi, offers of various other things, the Brahmana, however, did not seek the Brahmana, however, did not seek any thing else than the offer of her own person.
52Finding him determined, that lady, recollecting the directions given to her by her husband, but filled with shame, said to that excellent Brahmana Be it so.
53Recollecting the words of her husband who was desirous of acquiring the virtue of householders, she cheerfully approached the i twiceborn Rishi.
54Meanwhile, the son of Agni, having collected fuel, returned to his home. Mrityu, with his dreadful and inexorable nature, was always by his side, as one attends upon his devoted friend.
55When the son of Pavaka returned to his own asylum, he called out for Oghavati by name, and repeatedly exclaimed Where are you gone?
56But the chaste lady, devoted to her husband, being then in the arms of that Brahmana, gave no reply to her husband.
57Indeed, considering herself sullied, that chaste woman became speechless, overcome with shame.
58Sudarshana, addressing her again, exclaimed Where can my chaste wife be? Where has she gone? Nothing can be so very important to me than this.
59Why does not that simple and truthful lady, devoted to her husband, alas reply as she used to do before with sweet smiles.
60Then that Brahmana, who was within the hut, thus replied to Sudarshana Know, O son of fire, that a Brahmana guest has arrived, and though tempted by your wife with various other offers of welcome, I have, O best of Brahmanas, desired only her body and this fair lady is engaged in welcoming me with due rites! You can do whatever you think proper on this occasion.
61Armed with the iron club, death pursued the Rishi at that moment, desirous of bringing about the destruction of one who would, he thought, deviate from his promise.
62Sudarshana was struck with wonder, but renouncing all, jealousy and anger by look, word, deed, or thought, said Do you enjoy yourself, O Brahmana! It is a great pleasure to me! A householder acquires the highest merit by honouring a guest.
63The learned say that to the householders, there is no higher merit than what comes from a guest leaving his house after having been duly honoured by him.
64My life, my wife and all my earthly belongings, are all dedicated to the use of my guests! This is the vow that I have taken.
65As I have truly made this statement, by that truth, O Brahmana, I shall acquire the knowledge of Self.
66O foremost of the virtuous, the five elements, viz., fire, air, earth, water, and sky, and the mind, the intellect and the Soul, and time and space and the ten organs of sense, are all in the bodies of men and always witness the good and evil deeds of men.
67This truth I have spoken today, and let the gods bless me for it or destroy me if I have spoken an untruth.
68At this, O Bharata, there arose from all sides, in repeated echoes, a voice, crying This is true, this is not false.
69Then that Brahmana came out of the hovel, and like the wind rising and covering both Earth and sky, and making the three worlds echo with Vedic recitations, and calling that virtuous man by name, and congratulating him, said:
70O sinless one, I am Dharma! All glory to you! I came here, O truthloving one, to try you, and I am well pleased with you by knowing you to be virtuous.
71You have controlled and conquered Death who always has pursued you, seeking your shortcomings.
72O best of men, no one in the three worlds has the power to insult, even with looks, this chaste lady devoted to her husband, far less to touch her body.
73She has been saved from contamination by your virtue and by her own chastity. There can be nothing against what this proud lady will say.
74This Brahmavadin, gifted with austere penances, shall, for the salvation of the world, be changed into a powerful river.
75And you will acquire all the worlds in this your body, and because the science of Yoga is within her control, this highly blessed lady will follow you with only half her body, and with the other half will she be celebrated as the river Oghavati.
76And you will acquire with her all the worlds that are acquired by penances.
77You will acquire even in this material body those eternal and everlasting worlds from which none return.
78You have conquered Death, "and acquired the highest happiness and by your own power (of mind), attaining to the speed of thought, you have transcended the five elements.
79By thus following the duties of a householder, you have conquered your passions, desires, and anger and this princess, O best of virtuous men, has by serving you, conquered affliction, desire, illusion, enmity and lassitude of mind.
80Bhishma said Then, riding in a fine chariot drawn by a thousand white steeds, the glorious Vasava approached that Brahmana.
81Therefore, O best of men, do you remember that a to householder there is no greater god than the guest.
82The learned say that the blessings of an honoured guest are more fruitful than the merit of a hundred sacrifices.
83Whenever a deserving guest seeks the hospitality of a householder and is not respected by him, he takes away all the virtues of the latter giving him his sins.
84I have now recited to you, my son, this excellent story as to how Death was conquered in days of yore by a householder.
85The recital of this excellent story gives glory, fame, and longevity. The man who seeks worldly prosperity should consider it as powerful in removing all evil.
86And, O Bharata, the learned man who daily recites this story of the life of Sudarshana acquires blessed regions.
हिन्दी
1युधिष्ठिर ने कहा — हे पितामह, हे मनुष्यों में सर्वाधिक बुद्धिमान्, हे समस्त शास्त्रों में पारंगत, हे बुद्धिमान् पुरुषों में श्रेष्ठ, मैंने यह महान् कथा सुनी!
2मैं धार्मिक शिक्षा से भरा कोई इतिहास पुनः सुनने का इच्छुक हूँ, और आपको मुझे सन्तुष्ट करना चाहिए।
3हे राजन्, मुझे बताइए कि क्या किसी गृहस्थ ने कभी धर्म के आचरण से मृत्यु पर विजय पाई है! आप यह मुझे पूर्ण रूप से सुनाइए।
4भीष्म ने कहा — एक गृहस्थ द्वारा धर्म के आचरण से मृत्यु पर विजय का विषय वर्णित करता हुआ यह प्राचीन इतिहास सुनाया जाता है।
5हे राजन्, प्रजापति मनु का एक पुत्र था जिसका नाम इक्ष्वाकु था। सूर्य के समान यशस्वी उस राजा ने सौ पुत्र उत्पन्न किए।
6हे भारत, उनका दसवाँ पुत्र दशाश्व नाम से जाना जाता था, और अमोघ पराक्रम वाला यह धर्मात्मा राजकुमार माहिष्मती का राजा बना।
7हे राजन्, दशाश्व का पुत्र एक धर्मात्मा राजकुमार था जिसका मन निरन्तर सत्य, दान तथा भक्ति के आचरण में लगा रहता था।
8वे मदिराश्व नाम से जाने जाते थे और पृथ्वी पर उसके स्वामी के रूप में शासन करते थे। वे निरन्तर वेदों तथा शस्त्रविद्या के अध्ययन में लगे रहते थे।
9मदिराश्व के पुत्र द्युतिमान् नामक राजा थे, जो महान् सौभाग्य, शक्ति, बल तथा तेज से सम्पन्न थे।
10द्युतिमान् के पुत्र अत्यन्त श्रद्धालु तथा धर्मात्मा राजा थे जो समस्त लोकों में सुवीर नाम से प्रसिद्ध थे। उनकी आत्मा धर्म में लीन थी और उनके पास देवराज इन्द्र के समान धन था।
11सुवीर के भी एक पुत्र था जो युद्ध में अजेय था, और जो समस्त योद्धाओं में श्रेष्ठ तथा सुदुर्जय नाम से जाना जाता था।
12और इन्द्र के समान शरीर वाले दुर्जय के भी एक पुत्र था जो अग्नि के तेज से दीप्तिमान् था। वे दुर्योधन नामक महान् राजा थे जो राजर्षियों में श्रेष्ठ थे।
13इस राजा के राज्य में इन्द्र प्रचुर वर्षा किया करते थे, जो राजा रणभूमि से कभी नहीं भागा और जो स्वयं इन्द्र के समान पराक्रम से सम्पन्न था।
14इस राजा के नगर तथा राज्य धन, रत्न, गौओं तथा विविध प्रकार के अन्न से भरे थे।
15उसके राज्य में कोई कृपण नहीं था, न कोई व्यक्ति संकट से पीड़ित अथवा दरिद्रता से ग्रस्त था। न उसके राज्य में कोई ऐसा व्यक्ति था जो शरीर से दुर्बल अथवा रोग से पीड़ित हो।
16यह राजा अत्यन्त बुद्धिमान्, मृदुभाषी, ईर्ष्यारहित, अपनी वासनाओं का स्वामी, धर्मात्मा आत्मा वाला, दया से पूर्ण, पराक्रम से सम्पन्न, तथा आत्मश्लाघा से रहित था।
17वे यज्ञ करते थे, तथा आत्मसंयमी एवं बुद्धिमान् थे, ब्राह्मणों तथा सत्य के प्रति समर्पित थे। उन्होंने कभी दूसरों का अपमान नहीं किया, तथा वे दानशील एवं वेदों और वेदान्त में पारंगत थे।
18हे भारत, मंगलमयी, पवित्र तथा शीतल जल वाली दिव्य नदी नर्मदा ने स्वयं अपने ही स्वरूप में उनका वरण किया।
19उन्होंने उस नदी से सुदर्शना नामक एक कमलनयनी कन्या उत्पन्न की, जो हे राजन्, महान् सौन्दर्य से सम्पन्न थी।
20हे युधिष्ठिर, इससे पहले कोई ऐसी स्त्री नहीं जन्मी थी जो दुर्योधन की उस उत्तम कन्या के समान सुन्दर हो।
21स्वयं अग्निदेव ने सुन्दरी राजकुमारी सुदर्शना का वरण किया, और हे राजन्, ब्राह्मण का रूप धारण करके उन्होंने राजा से उसका हाथ माँगा।
22राजा उस ब्राह्मण को, जो दरिद्र था और अपने समान पद का नहीं था, अपनी कन्या विवाह में देने को अनिच्छुक थे।
23तत्पश्चात् अग्नि उनके महायज्ञ से अन्तर्धान हो गए। तब हृदय में दुःखी राजा ने ब्राह्मणों को सम्बोधित करते हुए कहा —
24हे उत्तम ब्राह्मणो, मैंने अथवा आपने ऐसा कौन-सा पाप किया है कि अग्नि इस यज्ञ से इस प्रकार अन्तर्धान हो गए, जैसे दुष्ट पुरुषों के प्रति किया गया उपकार उनकी दृष्टि से लुप्त हो जाता है?
25निश्चय ही हमने कोई बड़ा अधर्म किया है जिसके कारण अग्नि इस प्रकार अन्तर्धान हो गए! या तो आपने पाप किया है, या मैंने। आप इस विषय की पूरी छानबीन कीजिए।
26हे भरतवंश के राजकुमारश्रेष्ठ, तब राजा के वचन सुनकर उन ब्राह्मणों ने वाणी का संयम करके एकाग्र चित्त से अग्निदेव की सहायता माँगी।
27शरत्कालीन सूर्य के समान तेजस्वी आहुतियों के दिव्य वाहक उनके सम्मुख प्रकट हुए, अपने को गौरवमय आभा से आवृत किए हुए।
28तब महान् अग्नि ने उन उत्तम ब्राह्मणों को सम्बोधित करते हुए कहा — मैं अपने ही लिए दुर्योधन की कन्या चाहता हूँ।
29इस पर वे समस्त ब्राह्मण विस्मय से भर गए, और अगले दिन उठकर उन्होंने राजा को बता दिया कि अग्निदेव ने क्या कहा था।
30उन ब्रह्मवादियों के वचन सुनकर बुद्धिमान् राजा हृदय में प्रसन्न हुए, और बोले — "ऐसा ही हो!" राजा ने वर माँगा — "हे अग्नि, आप कृपा करके सदा हमारे साथ यहीं रहें!"
31"ऐसा ही हो!" — दिव्य अग्नि ने उस राजा से कहा। इसी कारण अग्नि आज तक माहिष्मती के राज्य में सदा उपस्थित रहे हैं, और दक्षिण दिशा की अपनी दिग्विजय यात्रा में सहदेव ने उन्हें देखा था।
32तब राजा ने अपनी कन्या को, नए वस्त्रों में सजी तथा रत्नों से अलंकृत, उन महान् देव को दे दिया, और अग्नि ने भी वैदिक विधि के अनुसार राजकुमारी सुदर्शना को अपनी वधू के रूप में उसी प्रकार स्वीकार किया जैसे वे यज्ञों में घृत की आहुतियाँ स्वीकार करते हैं। अग्नि उसके रूप, सौन्दर्य, लावण्य, चरित्र तथा जन्म की कुलीनता से भलीभाँति प्रसन्न हुए, और उससे सन्तान उत्पन्न करने का विचार किया। और उसने शीघ्र ही अग्नि से सुदर्शन नामक एक पुत्र को जन्म दिया।
33सुदर्शन भी पूर्ण चन्द्रमा के समान सुन्दर था, और अपने बाल्यकाल में ही उसने परम तथा शाश्वत ब्रह्म का ज्ञान प्राप्त कर लिया।
34ओघवत् नामक एक राजा भी थे, जो नृग के पितामह थे। उनकी ओघवती नामक एक कन्या थी, और ओघरथ नामक एक पुत्र भी उनसे उत्पन्न हुआ।
35राजा ओघवत् ने अपनी देवी के समान सुन्दर कन्या ओघवती विद्वान् सुदर्शन को पत्नी के रूप में दे दी।
36हे राजन्, ओघवती के साथ गृहस्थ जीवन बिताते हुए सुदर्शन कुरुक्षेत्र में उसके साथ रहता था।
37हे प्रभु, अग्नि के तेज वाले इस बुद्धिमान् राजकुमार ने गृहस्थ का जीवन बिताते हुए मृत्यु पर विजय पाने का व्रत लिया।
38हे राजन्, अग्नि के पुत्र ने ओघवती से कहा — तुम कभी उनकी इच्छा के विरुद्ध आचरण न करना जो हमारा आतिथ्य चाहते हैं।
39तुम्हें अतिथियों का बिना किसी हिचक के स्वागत करना चाहिए, चाहे तुम्हें अपना शरीर ही क्यों न अर्पित करना पड़े।
40हे सुन्दरी, मैं सदा इस व्रत का स्मरण रखता हूँ, क्योंकि गृहस्थों के लिए अतिथिसत्कार से बढ़कर कोई धर्म नहीं है।
41यदि मेरे वचन तुम्हारे लिए कोई प्रमाण रखते हैं, तो तुम इसे बिना कभी सन्देह किए सदा स्मरण रखना।
42हे निष्पाप तथा कल्याणी, यदि तुम्हारा मुझमें कोई विश्वास है, तो तुम अतिथि की कभी उपेक्षा न करना, चाहे मैं तुम्हारे पास होऊँ या तुमसे दूर।
43ओघवती ने अपने हाथ जोड़कर मस्तक पर रखते हुए उत्तर दिया — आपने मुझे जो आदेश दिया है उसमें से मैं कुछ भी अधूरा नहीं छोड़ूँगी।
44हे राजन्, तब सुदर्शन को छलने की इच्छा से मृत्यु उसकी त्रुटियाँ खोजने के लिए उस पर दृष्टि रखने लगी।
45एक बार, जब अग्नि का पुत्र वन से ईंधन लाने बाहर गया, तब एक तेजस्वी ब्राह्मण ने इन वचनों में ओघवती से आतिथ्य माँगा।
46हे सुन्दरी, यदि गृहस्थों के लिए निर्दिष्ट आतिथ्यधर्म में तुम्हारा कोई विश्वास है, तो मैं तुमसे आग्रह करूँगा कि तुम आज मुझे आतिथ्य के संस्कार प्रदान करो।
47हे राजन्, उस ब्राह्मण द्वारा इस प्रकार सम्बोधित होकर उस यशस्विनी राजकुमारी ने वेदों में निर्दिष्ट विधियों के अनुसार उसका स्वागत किया।
48उसे आसन तथा चरण धोने का जल देकर उसने पूछा — आपका क्या प्रयोजन है? मैं आपको क्या अर्पित कर सकती हूँ?
49उस ब्राह्मण ने उससे कहा — हे कल्याणी, मेरा प्रयोजन तुम्हारे शरीर से है! तुम बिना किसी हिचकिचाहट के तदनुसार आचरण करो।
50यदि गृहस्थों के लिए निर्दिष्ट कर्तव्य तुम्हें स्वीकार्य हैं, तो हे राजकुमारी, तुम अपना शरीर मुझे अर्पित करके मुझे सन्तुष्ट करो।
51यद्यपि राजकुमारी ने उसे अन्य विविध वस्तुओं की भेंट से लुभाया, तथापि उस ब्राह्मण ने अपने शरीर की भेंट के अतिरिक्त और कुछ नहीं माँगा।
52उसे दृढ़ निश्चय वाला पाकर उस देवी ने, अपने पति द्वारा दिए गए निर्देशों का स्मरण करते हुए, किन्तु लज्जा से भरकर, उस उत्तम ब्राह्मण से कहा — ऐसा ही हो।
53गृहस्थों का धर्म अर्जित करने के इच्छुक अपने पति के वचनों का स्मरण करते हुए वह प्रसन्नतापूर्वक उस द्विज ऋषि के निकट गई।
54इसी बीच अग्नि का पुत्र ईंधन एकत्र करके अपने घर लौटा। अपने भयंकर तथा अटल स्वभाव वाली मृत्यु सदा उसके पास ही रहती थी, जैसे कोई अपने समर्पित मित्र की सेवा करता हो।
55जब पावक का पुत्र अपने आश्रम में लौटा, तब उसने ओघवती को नाम लेकर पुकारा, और बार-बार कहा — तुम कहाँ चली गईं?
56किन्तु अपने पति के प्रति समर्पित उस पतिव्रता स्त्री ने, उस समय उस ब्राह्मण की बाँहों में होने के कारण, अपने पति को कोई उत्तर नहीं दिया।
57निश्चय ही अपने को कलंकित मानकर वह पतिव्रता स्त्री लज्जा से अभिभूत होकर मौन हो गई।
58सुदर्शन ने उसे फिर सम्बोधित करते हुए पुकारा — मेरी पतिव्रता पत्नी कहाँ हो सकती है? वह कहाँ चली गई? मेरे लिए इससे बढ़कर कुछ भी महत्त्वपूर्ण नहीं।
59अपने पति के प्रति समर्पित वह सरल तथा सत्यनिष्ठ स्त्री, हाय, मधुर मुस्कान के साथ वैसा उत्तर क्यों नहीं देती जैसा वह पहले दिया करती थी?
60तब कुटी के भीतर जो ब्राह्मण था उसने सुदर्शन को इस प्रकार उत्तर दिया — हे अग्निपुत्र, जान लो कि एक ब्राह्मण अतिथि आया है, और यद्यपि तुम्हारी पत्नी ने मुझे स्वागत की विविध अन्य भेंटों से लुभाया, तथापि हे ब्राह्मणश्रेष्ठ, मैंने केवल उसका शरीर चाहा है और यह सुन्दरी विधिपूर्वक मेरा स्वागत करने में लगी है! इस अवसर पर तुम जो उचित समझो वह कर सकते हो।
61लौहदण्ड धारण किए मृत्यु उस क्षण उस ऋषि के पीछे लगी, इस इच्छा से कि जो, उसके विचार में, अपनी प्रतिज्ञा से डिगेगा उसका विनाश हो जाए।
62सुदर्शन विस्मय से भर गया, किन्तु दृष्टि, वचन, कर्म अथवा विचार से समस्त ईर्ष्या तथा क्रोध का त्याग करके उसने कहा — हे ब्राह्मण, आप आनन्द लीजिए! यह मेरे लिए महान् सुख है! गृहस्थ अतिथि का सम्मान करके सर्वोच्च पुण्य अर्जित करता है।
63विद्वान् कहते हैं कि गृहस्थों के लिए उससे बढ़कर कोई पुण्य नहीं जो अतिथि के, उसके द्वारा विधिपूर्वक सम्मानित होकर, उसका घर छोड़ने से मिलता है।
64मेरा जीवन, मेरी पत्नी तथा मेरी समस्त सांसारिक सम्पत्ति — सब मेरे अतिथियों के उपयोग को समर्पित है! यही वह व्रत है जो मैंने लिया है।
65जैसा मैंने यह कथन सत्य रूप से किया है, उस सत्य के बल पर हे ब्राह्मण, मैं आत्मा का ज्ञान प्राप्त करूँगा।
66हे धर्मात्माओं में श्रेष्ठ, पाँच तत्त्व — अर्थात् अग्नि, वायु, पृथ्वी, जल तथा आकाश — एवं मन, बुद्धि तथा आत्मा, और काल एवं दिशा तथा दस इन्द्रियाँ, ये सब मनुष्यों के शरीरों में हैं और सदा मनुष्यों के शुभ तथा अशुभ कर्मों के साक्षी रहते हैं।
67यह सत्य मैंने आज कहा है, और यदि मैंने असत्य कहा हो तो देवता इसके लिए मुझे आशीर्वाद दें अथवा मेरा विनाश करें।
68हे भारत, इस पर चारों ओर से बार-बार प्रतिध्वनित होती हुई एक वाणी उठी, जो पुकार रही थी — यह सत्य है, यह असत्य नहीं है।
69तब वह ब्राह्मण उस कुटिया से बाहर आया, और वायु के समान उठकर पृथ्वी तथा आकाश दोनों को व्याप्त करते हुए, तीनों लोकों को वैदिक पाठों से गुँजाते हुए, उस धर्मात्मा पुरुष को नाम लेकर पुकारते तथा उसका अभिनन्दन करते हुए कहा —
70हे निष्पाप, मैं धर्म हूँ! तुम्हारी जय हो! हे सत्यप्रिय, मैं तुम्हारी परीक्षा लेने यहाँ आया था, और तुम्हें धर्मात्मा जानकर मैं तुमसे भलीभाँति प्रसन्न हूँ।
71तुमने मृत्यु को वश में करके उस पर विजय पा ली है, जो तुम्हारी त्रुटियाँ खोजते हुए सदा तुम्हारे पीछे लगी रही।
72हे नरश्रेष्ठ, तीनों लोकों में किसी में यह सामर्थ्य नहीं कि अपने पति के प्रति समर्पित इस पतिव्रता स्त्री का दृष्टि से भी अपमान कर सके, उसके शरीर को स्पर्श करना तो दूर की बात है।
73वह तुम्हारे धर्म से तथा अपने ही पातिव्रत्य से कलंक से बचाई गई है। यह स्वाभिमानिनी स्त्री जो कहेगी उसके विरुद्ध कुछ नहीं हो सकता।
74कठोर तपस्या से सम्पन्न यह ब्रह्मवादिनी संसार के उद्धार के लिए एक शक्तिशाली नदी में परिणत होगी।
75और तुम इसी अपने शरीर में समस्त लोक प्राप्त करोगे, और क्योंकि योग का विज्ञान उसके वश में है, इसलिए यह परम भाग्यशालिनी स्त्री अपने आधे शरीर से ही तुम्हारा अनुसरण करेगी, और शेष आधे से वह ओघवती नदी के रूप में प्रसिद्ध होगी।
76और तुम उसके साथ वे समस्त लोक प्राप्त करोगे जो तपस्या से प्राप्त किए जाते हैं।
77तुम इसी भौतिक शरीर में वे शाश्वत तथा अनन्त लोक प्राप्त करोगे जहाँ से कोई नहीं लौटता।
78तुमने मृत्यु पर विजय पाई है और परम सुख प्राप्त किया है, तथा अपनी ही (मन की) शक्ति से मन की गति प्राप्त करके तुमने पाँचों तत्त्वों को पार कर लिया है।
79इस प्रकार गृहस्थ के कर्तव्यों का पालन करके तुमने अपनी वासनाओं, कामनाओं तथा क्रोध पर विजय पाई है, और हे धर्मात्मा पुरुषों में श्रेष्ठ, इस राजकुमारी ने तुम्हारी सेवा करके शोक, कामना, मोह, शत्रुता तथा मन की जड़ता पर विजय पाई है।
80भीष्म ने कहा — तब सहस्र श्वेत अश्वों से जुते एक सुन्दर रथ पर सवार होकर यशस्वी वासव उस ब्राह्मण के निकट आए।
81इसलिए हे नरश्रेष्ठ, तुम स्मरण रखो कि गृहस्थ के लिए अतिथि से बढ़कर कोई देवता नहीं है।
82विद्वान् कहते हैं कि सम्मानित अतिथि के आशीर्वाद सौ यज्ञों के पुण्य से भी अधिक फलदायी होते हैं।
83जब भी कोई योग्य अतिथि किसी गृहस्थ का आतिथ्य चाहता है और उसके द्वारा सम्मानित नहीं होता, तब वह उस गृहस्थ के समस्त पुण्य ले जाता है और उसे अपने पाप दे जाता है।
84हे पुत्र, मैंने अब तुम्हें यह उत्तम कथा सुनाई कि पूर्वकाल में एक गृहस्थ ने किस प्रकार मृत्यु पर विजय पाई।
85इस उत्तम कथा का पाठ महिमा, यश तथा दीर्घायु देता है। जो मनुष्य सांसारिक समृद्धि चाहता है उसे इसे समस्त अनिष्ट दूर करने में समर्थ मानना चाहिए।
86और हे भारत, जो विद्वान् मनुष्य प्रतिदिन सुदर्शन के जीवन की यह कथा पढ़ता है वह कल्याणमय लोक प्राप्त करता है।
नेपाली
1युधिष्ठिरले भने — हे पितामह, हे मानिसहरूमा सर्वाधिक बुद्धिमान्, हे सम्पूर्ण शास्त्रमा पारङ्गत, हे बुद्धिमान् पुरुषहरूमा श्रेष्ठ, मैले यो महान् कथा सुनेँ!
2म धार्मिक शिक्षाले भरिएको कुनै इतिहास पुनः सुन्न इच्छुक छु, र तपाईंले मलाई सन्तुष्ट पार्नुपर्छ।
3हे राजन्, मलाई भन्नुहोस् कि के कुनै गृहस्थले कहिल्यै धर्मको आचरणले मृत्युमाथि विजय पाएको छ! तपाईंले यो मलाई पूर्ण रूपमा सुनाउनुहोस्।
4भीष्मले भने — एउटा गृहस्थद्वारा धर्मको आचरणले मृत्युमाथि विजयको विषय वर्णन गर्दै यो प्राचीन इतिहास सुनाइन्छ।
5हे राजन्, प्रजापति मनुका एक पुत्र थिए जसको नाम इक्ष्वाकु थियो। सूर्यजस्तै यशस्वी ती राजाले सय पुत्र उत्पन्न गरे।
6हे भारत, उनका दसौँ पुत्र दशाश्व नामले चिनिन्थे, र अमोघ पराक्रम भएका यी धर्मात्मा राजकुमार माहिष्मतीका राजा बने।
7हे राजन्, दशाश्वका पुत्र एक धर्मात्मा राजकुमार थिए जसको मन निरन्तर सत्य, दान तथा भक्तिको आचरणमा लागिरहन्थ्यो।
8उनी मदिराश्व नामले चिनिन्थे र पृथ्वीमा त्यसका स्वामीको रूपमा शासन गर्दथे। उनी निरन्तर वेद तथा शस्त्रविद्याको अध्ययनमा लागिरहन्थे।
9मदिराश्वका पुत्र द्युतिमान् नामक राजा थिए, जो महान् सौभाग्य, शक्ति, बल तथा तेजले सम्पन्न थिए।
10द्युतिमान्का पुत्र अत्यन्त श्रद्धालु तथा धर्मात्मा राजा थिए जो सम्पूर्ण लोकमा सुवीर नामले प्रसिद्ध थिए। उनको आत्मा धर्ममा लीन थियो र उनीसँग देवराज इन्द्रजस्तै धन थियो।
11सुवीरका पनि एक पुत्र थिए जो युद्धमा अजेय थिए, र जो सम्पूर्ण योद्धामा श्रेष्ठ तथा सुदुर्जय नामले चिनिन्थे।
12र इन्द्रजस्तै शरीर भएका दुर्जयका पनि एक पुत्र थिए जो अग्निको तेजले दीप्तिमान् थिए। उनी दुर्योधन नामक महान् राजा थिए जो राजर्षिहरूमा श्रेष्ठ थिए।
13यस राजाको राज्यमा इन्द्रले प्रशस्त वर्षा गर्दथे, जो राजा रणभूमिबाट कहिल्यै भागेनन् र जो स्वयं इन्द्रजस्तै पराक्रमले सम्पन्न थिए।
14यस राजाका नगर तथा राज्य धन, रत्न, गाई तथा विविध प्रकारका अन्नले भरिएका थिए।
15उसको राज्यमा कोही कञ्जुस थिएन, न कुनै व्यक्ति सङ्कटले पीडित अथवा दरिद्रताले ग्रस्त थियो। न उसको राज्यमा कोही त्यस्तो व्यक्ति थियो जो शरीरले दुर्बल अथवा रोगले पीडित होस्।
16यो राजा अत्यन्त बुद्धिमान्, मृदुभाषी, ईर्ष्यारहित, आफ्ना वासनाका स्वामी, धर्मात्मा आत्मा भएका, दयाले पूर्ण, पराक्रमले सम्पन्न, तथा आत्मश्लाघाबाट रहित थिए।
17उनले यज्ञ गर्दथे, तथा आत्मसंयमी एवं बुद्धिमान् थिए, ब्राह्मण तथा सत्यप्रति समर्पित थिए। उनले कहिल्यै अरूको अपमान गरेनन्, तथा उनी दानशील एवं वेद र वेदान्तमा पारङ्गत थिए।
18हे भारत, मङ्गलमयी, पवित्र तथा चिसो जल भएकी दिव्य नदी नर्मदाले स्वयं आफ्नै स्वरूपमा उनको वरण गरिन्।
19उनले त्यस नदीबाट सुदर्शना नामक एउटी कमलनयनी कन्या उत्पन्न गरे, जो हे राजन्, महान् सौन्दर्यले सम्पन्न थिइन्।
20हे युधिष्ठिर, यसभन्दा पहिले कुनै त्यस्ती स्त्री जन्मेकी थिइनन् जो दुर्योधनकी त्यस उत्तम कन्याजस्तै सुन्दरी होस्।
21स्वयं अग्निदेवले सुन्दरी राजकुमारी सुदर्शनाको वरण गरे, र हे राजन्, ब्राह्मणको रूप धारण गरेर उनले राजासँग उनको हात मागे।
22राजा त्यस ब्राह्मणलाई, जो दरिद्र थियो र आफूजस्तै पदको थिएन, आफ्नी कन्या विवाहमा दिन अनिच्छुक थिए।
23त्यसपछि अग्नि उनको महायज्ञबाट अन्तर्धान भए। तब हृदयमा दुःखी राजाले ब्राह्मणहरूलाई सम्बोधन गर्दै भने —
24हे उत्तम ब्राह्मणहरू, मैले अथवा तपाईंहरूले त्यस्तो कुन पाप गरेका छौँ कि अग्नि यस यज्ञबाट यसरी अन्तर्धान भए, जसरी दुष्ट पुरुषहरूप्रति गरिएको उपकार तिनीहरूको दृष्टिबाट लोप हुन्छ?
25निश्चय नै हामीले कुनै ठूलो अधर्म गरेका छौँ जसका कारण अग्नि यसरी अन्तर्धान भए! या त तपाईंहरूले पाप गर्नुभएको छ, या मैले। तपाईंहरूले यस विषयको पूरा छानबिन गर्नुहोस्।
26हे भरतवंशका राजकुमारश्रेष्ठ, तब राजाका वचन सुनेर ती ब्राह्मणहरूले वाणीको संयम गरेर एकाग्र चित्तले अग्निदेवको सहायता मागे।
27शरत्कालीन सूर्यजस्तै तेजस्वी आहुतिका दिव्य वाहक उनीहरूको सामु प्रकट भए, आफूलाई गौरवमय आभाले आवृत गरेर।
28तब महान् अग्निले ती उत्तम ब्राह्मणहरूलाई सम्बोधन गर्दै भने — म आफ्नै लागि दुर्योधनकी कन्या चाहन्छु।
29यसमा ती सम्पूर्ण ब्राह्मण विस्मयले भरिए, र भोलिपल्ट उठेर उनीहरूले राजालाई बताइदिए कि अग्निदेवले के भनेका थिए।
30ती ब्रह्मवादीका वचन सुनेर बुद्धिमान् राजा हृदयमा प्रसन्न भए, र भने — "यस्तै होस्!" राजाले वर मागे — "हे अग्नि, तपाईं कृपा गरेर सधैँ हामीसँग यहीँ रहनुहोस्!"
31"यस्तै होस्!" — दिव्य अग्निले त्यस राजालाई भने। यसै कारण अग्नि आजसम्म माहिष्मतीको राज्यमा सधैँ उपस्थित रहेका छन्, र दक्षिण दिशाको आफ्नो दिग्विजय यात्रामा सहदेवले उनलाई देखेका थिए।
32तब राजाले आफ्नी कन्यालाई, नयाँ वस्त्रमा सजिएकी तथा रत्नले अलङ्कृत, ती महान् देवलाई दिए, र अग्निले पनि वैदिक विधिअनुसार राजकुमारी सुदर्शनालाई आफ्नी वधूको रूपमा त्यसै गरी स्वीकार गरे जसरी उनले यज्ञमा घिउका आहुति स्वीकार गर्दछन्। अग्नि उनको रूप, सौन्दर्य, लावण्य, चरित्र तथा जन्मको कुलीनताले राम्ररी प्रसन्न भए, र उनीबाट सन्तान उत्पन्न गर्ने विचार गरे। र उनले चाँडै अग्निबाट सुदर्शन नामक एक पुत्रलाई जन्म दिइन्।
33सुदर्शन पनि पूर्ण चन्द्रमाजस्तै सुन्दर थियो, र आफ्नो बाल्यकालमै उसले परम तथा शाश्वत ब्रह्मको ज्ञान प्राप्त गर्यो।
34ओघवत् नामक एक राजा पनि थिए, जो नृगका पितामह थिए। उनकी ओघवती नामक एउटी कन्या थिइन्, र ओघरथ नामक एक पुत्र पनि उनीबाट उत्पन्न भए।
35राजा ओघवत्ले आफ्नी देवीजस्तै सुन्दरी कन्या ओघवती विद्वान् सुदर्शनलाई पत्नीको रूपमा दिए।
36हे राजन्, ओघवतीसँग गृहस्थ जीवन बिताउँदै सुदर्शन कुरुक्षेत्रमा उनीसँग बस्दथ्यो।
37हे प्रभु, अग्निको तेज भएका यी बुद्धिमान् राजकुमारले गृहस्थको जीवन बिताउँदै मृत्युमाथि विजय पाउने व्रत लिए।
38हे राजन्, अग्निका पुत्रले ओघवतीलाई भने — तिमीले कहिल्यै तिनीहरूको इच्छाविरुद्ध आचरण नगर्नू जसले हाम्रो आतिथ्य चाहन्छन्।
39तिमीले अतिथिहरूको कुनै हिचकिचाहटविना स्वागत गर्नुपर्छ, चाहे तिमीले आफ्नो शरीर नै किन अर्पण गर्नुपरोस्।
40हे सुन्दरी, म सधैँ यस व्रतको स्मरण राख्दछु, किनभने गृहस्थहरूका लागि अतिथिसत्कारभन्दा बढी कुनै धर्म छैन।
41यदि मेरा वचन तिम्रा लागि कुनै प्रमाण राख्दछन् भने, तिमी यो कहिल्यै शङ्का नगरी सधैँ सम्झिराख्नू।
42हे निष्पाप तथा कल्याणी, यदि तिम्रो ममा कुनै विश्वास छ भने, तिमीले अतिथिको कहिल्यै उपेक्षा नगर्नू, चाहे म तिम्रो छेउमा होऊँ वा तिमीबाट टाढा।
43ओघवतीले आफ्ना हात जोडेर शिरमा राख्दै उत्तर दिइन् — तपाईंले मलाई जुन आदेश दिनुभएको छ त्यसमध्ये म केही पनि अधुरो छोड्नेछैनँ।
44हे राजन्, तब सुदर्शनलाई छल्ने इच्छाले मृत्युले उसका त्रुटि खोज्न उसमाथि दृष्टि राख्न थाल्यो।
45एक पटक, जब अग्निको पुत्र वनबाट दाउरा ल्याउन बाहिर गयो, तब एक तेजस्वी ब्राह्मणले यी वचनमा ओघवतीसँग आतिथ्य माग्यो।
46हे सुन्दरी, यदि गृहस्थहरूका लागि निर्दिष्ट आतिथ्यधर्ममा तिम्रो कुनै विश्वास छ भने, म तिमीसँग आग्रह गर्नेछु कि तिमीले आज मलाई आतिथ्यका संस्कार प्रदान गर।
47हे राजन्, त्यस ब्राह्मणद्वारा यसरी सम्बोधित भएर ती यशस्विनी राजकुमारीले वेदमा निर्दिष्ट विधिअनुसार उसको स्वागत गरिन्।
48उसलाई आसन तथा चरण धुने जल दिएर उनले सोधिन् — तपाईंको के प्रयोजन छ? म तपाईंलाई के अर्पण गर्न सक्छु?
49त्यस ब्राह्मणले उनलाई भन्यो — हे कल्याणी, मेरो प्रयोजन तिम्रो शरीरसँग छ! तिमी कुनै हिचकिचाहटविना त्यसैअनुसार आचरण गर।
50यदि गृहस्थहरूका लागि निर्दिष्ट कर्तव्य तिमीलाई स्वीकार्य छन् भने, हे राजकुमारी, तिमी आफ्नो शरीर मलाई अर्पण गरेर मलाई सन्तुष्ट पार।
51यद्यपि राजकुमारीले उसलाई अन्य विविध वस्तुको भेटीले लोभ्याइन्, तथापि त्यस ब्राह्मणले उनको शरीरको भेटीबाहेक अरू केही मागेन।
52उसलाई दृढ निश्चय भएको पाएर ती देवीले, आफ्ना पतिद्वारा दिइएका निर्देशको स्मरण गर्दै, तर लज्जाले भरिएर, त्यस उत्तम ब्राह्मणलाई भनिन् — यस्तै होस्।
53गृहस्थहरूको धर्म आर्जन गर्न इच्छुक आफ्ना पतिका वचनको स्मरण गर्दै उनी प्रसन्नतापूर्वक त्यस द्विज ऋषिको नजिक गइन्।
54यसैबीच अग्निको पुत्र दाउरा जम्मा गरेर आफ्नो घर फर्क्यो। आफ्नो भयङ्कर तथा अटल स्वभाव भएकी मृत्यु सधैँ उसकै छेउमा रहन्थी, जसरी कोही आफ्नो समर्पित मित्रको सेवा गर्दछ।
55जब पावकको पुत्र आफ्नो आश्रममा फर्क्यो, तब उसले ओघवतीलाई नाम लिएर बोलायो, र बारम्बार भन्यो — तिमी कहाँ गयौ?
56तर आफ्ना पतिप्रति समर्पित ती पतिव्रता स्त्रीले, त्यस बेला त्यस ब्राह्मणको पाखुरामा भएका कारण, आफ्ना पतिलाई कुनै उत्तर दिइनन्।
57निश्चय नै आफूलाई कलङ्कित मानेर ती पतिव्रता स्त्री लज्जाले अभिभूत भएर मौन भइन्।
58सुदर्शनले उनलाई फेरि सम्बोधन गर्दै बोलायो — मेरी पतिव्रता पत्नी कहाँ हुन सक्छिन्? उनी कहाँ गइन्? मेरा लागि यसभन्दा बढी केही पनि महत्त्वपूर्ण छैन।
59आफ्ना पतिप्रति समर्पित ती सरल तथा सत्यनिष्ठ स्त्रीले, हाय, मधुर मुस्कानसहित त्यस्तो उत्तर किन दिँदिनन् जस्तो उनले पहिले दिने गर्थिन्?
60तब कुटीभित्र जुन ब्राह्मण थियो उसले सुदर्शनलाई यसरी उत्तर दियो — हे अग्निपुत्र, जान कि एउटा ब्राह्मण अतिथि आएको छ, र यद्यपि तिम्री पत्नीले मलाई स्वागतका विविध अन्य भेटीले लोभ्याइन्, तथापि हे ब्राह्मणश्रेष्ठ, मैले केवल उनको शरीर चाहेको छु र यी सुन्दरी विधिपूर्वक मेरो स्वागत गर्नमा लागेकी छिन्! यस अवसरमा तिमीले जे उचित सम्झन्छौ त्यो गर्न सक्छौ।
61लौहदण्ड धारण गरेकी मृत्यु त्यस क्षण त्यस ऋषिको पछि लागी, यस इच्छाले कि जो, उसको विचारमा, आफ्नो प्रतिज्ञाबाट डग्नेछ त्यसको विनाश होस्।
62सुदर्शन विस्मयले भरियो, तर दृष्टि, वचन, कर्म अथवा विचारले सम्पूर्ण ईर्ष्या तथा क्रोधको त्याग गरेर उसले भन्यो — हे ब्राह्मण, तपाईं आनन्द लिनुहोस्! यो मेरा लागि महान् सुख हो! गृहस्थले अतिथिको सम्मान गरेर सर्वोच्च पुण्य आर्जन गर्दछ।
63विद्वान्हरू भन्दछन् कि गृहस्थहरूका लागि त्योभन्दा बढी कुनै पुण्य छैन जो अतिथिले, उसद्वारा विधिपूर्वक सम्मानित भएर, उसको घर छोड्दा मिल्छ।
64मेरो जीवन, मेरी पत्नी तथा मेरो सम्पूर्ण सांसारिक सम्पत्ति — सबै मेरा अतिथिहरूको उपयोगमा समर्पित छ! यही त्यो व्रत हो जुन मैले लिएको छु।
65जस्तो मैले यो कथन सत्य रूपमा गरेको छु, त्यस सत्यको बलमा हे ब्राह्मण, म आत्माको ज्ञान प्राप्त गर्नेछु।
66हे धर्मात्माहरूमा श्रेष्ठ, पाँच तत्त्व — अर्थात् अग्नि, वायु, पृथ्वी, जल तथा आकाश — एवं मन, बुद्धि तथा आत्मा, र काल एवं दिशा तथा दस इन्द्रिय, यी सबै मानिसका शरीरमा छन् र सधैँ मानिसका शुभ तथा अशुभ कर्मका साक्षी रहन्छन्।
67यो सत्य मैले आज भनेको छु, र यदि मैले असत्य भनेको छु भने देवताहरूले यसका लागि मलाई आशीर्वाद दिऊन् अथवा मेरो विनाश गरून्।
68हे भारत, यसमा चारैतिरबाट बारम्बार प्रतिध्वनित हुँदै एउटा वाणी उठ्यो, जसले पुकारिरहेको थियो — यो सत्य हो, यो असत्य होइन।
69तब त्यो ब्राह्मण त्यस कुटीबाट बाहिर आयो, र वायुझैँ उठेर पृथ्वी तथा आकाश दुवैलाई व्याप्त गर्दै, तीनै लोकलाई वैदिक पाठले गुन्जाउँदै, त्यस धर्मात्मा पुरुषलाई नाम लिएर पुकार्दै तथा उसको अभिनन्दन गर्दै भन्यो —
70हे निष्पाप, म धर्म हुँ! तिम्रो जय होस्! हे सत्यप्रिय, म तिम्रो परीक्षा लिन यहाँ आएको थिएँ, र तिमीलाई धर्मात्मा जानेर म तिमीसँग राम्ररी प्रसन्न छु।
71तिमीले मृत्युलाई वशमा पारेर त्यसमाथि विजय पाइसकेका छौ, जो तिम्रा त्रुटि खोज्दै सधैँ तिम्रो पछि लागिरहेकी थिई।
72हे नरश्रेष्ठ, तीनै लोकमा कसैमा यो सामर्थ्य छैन कि आफ्ना पतिप्रति समर्पित यी पतिव्रता स्त्रीको दृष्टिले पनि अपमान गर्न सकोस्, उनको शरीर स्पर्श गर्नु त परैको कुरा हो।
73उनी तिम्रो धर्मले तथा आफ्नै पातिव्रत्यले कलङ्कबाट बचाइएकी छिन्। यी स्वाभिमानिनी स्त्रीले जे भन्नेछिन् त्यसविरुद्ध केही हुन सक्दैन।
74कठोर तपस्याले सम्पन्न यी ब्रह्मवादिनी संसारको उद्धारका लागि एउटी शक्तिशाली नदीमा परिणत हुनेछिन्।
75र तिमी यसै आफ्नो शरीरमा सम्पूर्ण लोक प्राप्त गर्नेछौ, र किनभने योगको विज्ञान उनको वशमा छ, त्यसैले यी परम भाग्यशालिनी स्त्रीले आफ्नो आधा शरीरले मात्र तिम्रो अनुसरण गर्नेछिन्, र बाँकी आधाले उनी ओघवती नदीको रूपमा प्रसिद्ध हुनेछिन्।
76र तिमीले उनीसँग ती सम्पूर्ण लोक प्राप्त गर्नेछौ जो तपस्याले प्राप्त गरिन्छन्।
77तिमीले यसै भौतिक शरीरमा ती शाश्वत तथा अनन्त लोक प्राप्त गर्नेछौ जहाँबाट कोही फर्कँदैन।
78तिमीले मृत्युमाथि विजय पाएका छौ र परम सुख प्राप्त गरेका छौ, तथा आफ्नै (मनको) शक्तिले मनको गति प्राप्त गरेर तिमीले पाँचै तत्त्व नाघिसकेका छौ।
79यसरी गृहस्थका कर्तव्यको पालन गरेर तिमीले आफ्ना वासना, कामना तथा क्रोधमाथि विजय पाएका छौ, र हे धर्मात्मा पुरुषहरूमा श्रेष्ठ, यी राजकुमारीले तिम्रो सेवा गरेर शोक, कामना, मोह, शत्रुता तथा मनको जडतामाथि विजय पाएकी छिन्।
80भीष्मले भने — तब हजार सेता अश्व जोतिएको एउटा सुन्दर रथमा सवार भएर यशस्वी वासव त्यस ब्राह्मणको नजिक आए।
81त्यसैले हे नरश्रेष्ठ, तिमी सम्झिराख कि गृहस्थका लागि अतिथिभन्दा बढी कुनै देवता छैन।
82विद्वान्हरू भन्दछन् कि सम्मानित अतिथिका आशीर्वाद सय यज्ञका पुण्यभन्दा पनि बढी फलदायी हुन्छन्।
83जब पनि कुनै योग्य अतिथिले कुनै गृहस्थको आतिथ्य चाहन्छ र उसद्वारा सम्मानित हुँदैन, तब उसले त्यस गृहस्थका सम्पूर्ण पुण्य लैजान्छ र उसलाई आफ्ना पाप दिएर जान्छ।
84हे पुत्र, मैले अब तिमीलाई यो उत्तम कथा सुनाएँ कि पूर्वकालमा एउटा गृहस्थले कसरी मृत्युमाथि विजय पायो।
85यस उत्तम कथाको पाठले महिमा, यश तथा दीर्घायु दिन्छ। जुन मानिसले सांसारिक समृद्धि चाहन्छ उसले यसलाई सम्पूर्ण अनिष्ट हटाउन समर्थ मान्नुपर्छ।
86र हे भारत, जुन विद्वान् मानिसले प्रतिदिन सुदर्शनको जीवनको यो कथा पढ्दछ उसले कल्याणमय लोक प्राप्त गर्दछ।