अनुशासनिक पर्व — स्वजनों की मृत्यु पर युधिष्ठिर का विषाद; मृत्यु, गौतमी, काल, व्याध और सर्प की कथा
खण्ड 9 — अनुशासन से स्वर्गारोहण पर्व तक · अध्याय 1
संस्कृत
1नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वती व्यासं ततो जयमुदीरयेत्।।
2युष्ठिर उवाच शमो बहुविधाकारः सूक्ष्म उक्तः पितामह। न च मे हृदये शान्तिरस्ति श्रुत्वेदमीदृशम्॥
3अस्मिन्नर्थे बहुविधा शान्तिरुक्ता पितामह। स्वकृते का नु शान्तिः स्याच्छमाद् बहुविधादपि॥
4शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च। शर्म नोपलभे वीर दुष्कृतान्येव चिन्तयन्॥
5रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम्। त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम्॥
6अतः कष्टतरं किं नु मत्कृते यत् पितामहः। इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे॥
7तथा चान्ये नृपतयः सहपुत्राः सबान्धवाः। मत्कृते निधनं प्राप्ताः किं नु कष्टतरं ततः॥
8वयं हि धार्तराष्ट्राश्च कालमन्युवंशगताः। कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप।॥
9इदं तु धार्तराष्ट्रस्य श्रेयो मन्ये जनाधिप। इमामवस्थां सम्प्राप्तं यदसौ त्वां न पश्यति॥
10सोऽहं तव ह्यन्तकरः सुहृद्वधकरस्तथा। न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ॥
11दुर्योधनो हि समरे सहसैन्यः सहानुजः। निहतः क्षत्रधर्मेऽस्मिन् दुरात्मा कुलपांसनः॥
12न स पश्यति दुष्टात्मा त्वामद्य पतितं क्षितौ। अतः श्रेयो मृतं मन्ये नेह जीवितमात्मनः॥
13अहं हि समरे वीर गमितः शत्रुभिः क्षयम्। अभविष्यं यदि पुरा सह भ्रातृभिरच्युत॥ न त्वामेवं सुदुःखार्तमद्राक्षं सायकार्दितम्। नूनं हि पापकर्माणो धात्रा सृष्टाः स्म हे नृप॥
14अन्यस्मिन्नपि लोके वै यथा मुच्येम किल्बिषात्। तथा प्रशाधि मां राजन् मम चेदिच्छसि प्रियम्॥
15भीष्म उवाच परतन्त्रं कथं हेतुमात्मानमनुपश्यसि। कर्मणां हि महाभाग सूक्ष्मं ह्येतदतान्द्रियम्॥
16अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः॥
17गौतमी नाम कौन्तेय स्थविरा शमसंयुता। सर्पण दष्टं स्वं पुत्रमपश्यद्गतचेतनम्॥
18अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः। लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत्॥
19स चाब्रवीदयं ते स पुत्रहा पन्नगाधमः। ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना॥
20अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा। न ह्ययं बालहा पापश्चिरं जीवितुमर्हति॥
21गौतम्युवाच विसृजैनमबुद्धिस्त्वमवध्योऽर्जुनक त्वया। को ह्यात्मानं गुरुं कुर्यात् प्राप्तव्यमविचिन्तयन्॥
22प्लवन्ते धर्मलघवो लोकऽम्भसि यथा प्लवाः। मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके॥
23हत्वा चैनं नामृत: स्यादयं मे जीवत्यस्मिन् कोऽत्ययः स्यादयं ते। अस्योत्सर्गे प्राणयुक्तस्य जन्तोर्मृत्योर्लोकं को नु गच्छेदनन्तम्॥
24लुब्धक उवाच जानाम्यहं देवि गुणागुणज्ञे सर्वार्तियुक्ता गुरवो भवन्ति। स्वस्थस्यैते तूपदेशा भवन्ति तस्मात् क्षुद्रं सर्पमेनं हनिष्ये।॥
25शमार्थिनः कालगतिं वदन्ति सद्यः शुचं त्वर्थविदस्त्यजन्ति। श्रेयःक्षयं शोचति नित्यमोहात् तस्माच्छुचं मुञ्च हते भुजङ्गे॥
26गौतम्युवाच आतिनैवं विद्यतेऽस्मद्विधानां धर्मात्मानः सर्वदा सज्जना हि। दीशे नाहं पन्नगस्य प्रमाथे॥
27न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातनाम्। मार्दवारक्षम्यतां साधो मुच्यतामेष पन्नगः॥
28लुब्धक उवाच ल्लभ्यो लाभ्यः स्याद् बलिभ्यः प्रशस्तः। कालाल्लाभो यस्तु सत्यो भवेत श्रेयोलाभः कुत्सितेऽस्मिन्न ते स्यात्॥
29गौतम्युवाच का नु प्राप्तिर्गृह्य शत्रु निहत्य का कामाप्तिः प्राप्य शत्रु न मुक्त्वा। कस्मात् सौम्याहं न क्षमे नो भुजङ्गे मोक्षार्थं वा कस्य हेतोर्न कुर्याम्॥
30लुब्धक उवाच अस्मादेकाद् बहवो रक्षितव्या नैको बहुभ्यो गौतमि रक्षितव्यः। कृतागसं धर्मविदस्त्यजन्ति सरीसृपं पापमिमं जहि त्वम्॥
31गौतम्युवाच नास्मिन् हते पन्नगे पुत्रको मे सम्प्राप्स्यते लुब्धक जीवितं वै। गुणं चान्यं नास्य वधे प्रपश्ये तस्मात् सर्प लुब्धक मुञ्च जीवम्॥
32लुब्धक उवाच वृत्रं हत्वा देवराट् श्रेष्ठभाग वै यज्ञं हुत्वा भागमवाप चैव। शूली देवो देववृत्तं चर त्वं क्षिप्रं सर्प जहि मा भूत्ते विशङ्का॥
33भीष्म उवाच असकृत् प्रोच्यमानापि गौतमी भुजगं प्रति। लुब्धकेन महाभागा पापे नैवाकरोन्मतिम्॥ ईषदुच्छ्वसमानस्तु कृच्छ्रात् संस्तभ्य पन्नगः। उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः॥
34सर्प उवाच कोन्वर्जुनक दोषोऽत्र विद्यते मम बालिश। अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत्॥
35तस्यायं वचनाद् दष्टो न कोपेन न काम्यया। तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम्॥
36लुब्धक उवाच यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम्। कारणं वै त्वमप्यत्र तस्मात् किल्बिषी॥
37मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा। कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग॥
38सर्प उवाच किल्विषी चापि मे वध्यः किल्बिषी चासि पन्नग। आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम॥ सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा। तथाऽहमपि तस्मान्मे नैष दोषो मतस्तव॥
39अथवा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः। कार्यकारणसन्देहो भवत्यन्योन्यचोदनात्॥
40एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी। किल्विषं समवाये स्यान्मन्यसे यदि किल्विषम्॥
41लुब्धक उवाच कारणं यदि न स्याद् वै न कर्ता स्यास्त्वमप्युत। विनाशकारणं त्वं च तस्माद् वध्योऽसि मे मतः॥
42असत्यपि कृते कार्यं नेह पन्नग लिप्यते। तस्मान्नात्रैव हेतुः स्याद् वध्यः किं बहु मन्यसे॥
43सर्प उवाच कार्याभावे क्रिया न स्यात् सत्यसत्यपि कारणे। तस्मात् समेऽस्मिन् हेतौ मे वाच्यो हेतुर्विशेषतः॥
44अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने।॥ यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः।
45लुब्धक उवाच वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत्। भाषसे किं बहु पुनर्वध्यः सन् पन्नगाधम॥
46सर्प उवाच यथा हवींषि जुह्वाना मखे वै लुब्धकर्विजः। न फलं प्राप्नुवन्त्यत्र फलयोगे तथा ह्यहम्॥
47भीष्म उवाच तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते। आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम्॥
48मृत्युरुवाच प्रचोदितोऽहं कालेन पन्नग त्वामचूचुदम्। विनाशहेतुर्नास्य तमहं न प्राणिनः शिशोः॥
49यथा वायुर्जलधरान् विकर्षति ततस्ततः। तद्वज्जलदवत् सर्प कालस्याहं वशानुगः॥
50सात्त्विका राजसाश्चैव तामसा ये च केचन। भावाः कालात्मकाः सर्वे प्रवर्तन्ते ह जन्तुषु॥
51जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि। सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत्॥
52प्रवृत्तयश्च लोकेऽस्मिंस्तथैव च निवृत्तयः। तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम्॥
53आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः। अग्नि: स्वं पृथिवी मित्रः पर्जन्यो वसवोऽदितिः।।५५
54सरितः सागराचैव भावाभावौ च पन्नग। सर्व कालेन सृज्यन्ते ह्रियन्ते च पुनः पुनः॥ एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे। अथ चैवंगते दोघे मयि त्वमपि दोषवान्॥
55सर्प उवाच निर्दोषं दोषवन्तं वा न त्वां मृत्यो ब्रवीम्यहम्। त्वयाहं चोदित इति ब्रवीम्येतावदेव तु॥
56यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते। दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम्॥
57निर्मोक्षस्त्वस्य दोषस्य मया कार्या यथा तथा। मृत्योरपि न दोषः स्यादिति मेऽत्र प्रयोजनम्॥
58भीष्म उवाच सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम्। नानागसं मां पाशेन संतापयितुमर्हसि॥
59लुब्धक उवाच मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम। नैव तावददोषत्वं भवति त्वयि पन्नग॥
60मृत्युस्त्वं चैव हेतुर्हि बालस्यास्य विनाशने। उभयं कारणं मन्ये न कारणमकारणम्॥
61धिमृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम्। त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम्॥
62मृत्युरुवाच विवशौ कालवशगावावां निर्दिष्टकारिणौ। नावां दोषेण गन्तव्यौ यदि सम्यक् प्रपश्यसि॥
63लुब्धक उवाच युवामुभौ कालवशौ यदि मे मृत्युपन्नगौ। हर्षक्रोधौ यथा स्यातामेतदिच्छामि वेदितुम्॥
64मृत्युरुवाच या काचिदेव चेष्टा स्यात् सर्वा कालप्रचोदिता। पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः॥ तस्मादुभौ कालवशावावां निर्दिष्टकारिणौ। नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित्॥
65भीष्म उवाच अथोपगम्य कालस्तु तस्मिन् धर्मार्थसंशये। अब्रवीत् पन्नगं मृत्यु लुब्धं चार्जुनकं तथा॥
66काल उवाच न ह्यहं नाप्ययं मृत्यु यं लुब्धक पन्नगः। किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः॥
67अकरोद् यदयं कर्म तन्नोऽर्जुनक चोदकम्। विनाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा॥
68यदनेन कृतं कर्म तेनायं निधनं गतः। विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्॥
69कर्मदायादवाँल्लोकः कर्मसम्बन्धलक्षणः। कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम्॥
70यथा मृत्पिण्डतः कर्ता कुरुते यद् यदिच्छति। एवमात्मकृतं कर्म मानवः प्रतिपद्यते॥
71यथाच्छायातयौ नित्यं सुसम्बद्धौ निरन्तरम्। तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः॥
72एवं नाहं न वै मृत्यु सर्पो न तथा भवान्। न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम्॥
73तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप। स्वकर्मप्रत्ययाँल्लोकान् मत्वाऽर्जुनकमब्रवीत्॥
74गौतमी उवाच नैव कालो न भुजगो न मृत्युरिह कारणम्। स्वकर्मभिरयं बालः कालेन निधनं गतः॥
75मया च तत् कृतं कर्म येनायं मे मृतः सुतः। यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम्॥
76भीष्म उवाच ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः। अभूद् विशोकोऽर्जुनको विशोका चैव गौतमी॥
77एतच्छुत्वा शमं गच्छ मा भूः शोकपरो नृप। स्वकर्मप्रत्ययाँल्लोकान् सर्वे गच्छन्ति वै नृप॥
78नैव त्वया कृतं कर्म नापि दुर्योधनेन वै। कालेनैतत् कृतं विद्धि निहता येन पार्थिवाः॥
79वैशम्पायन उवाच इत्येतद् वचनं श्रुत्वा बभूव विगतज्वरः। युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित्॥
अंग्रेज़ी
1Having saluted Narayana and Nara the best of male beings as also Sarasvati, the goddess of learning let us cry success.
2Yudhishthira said O grandfather, peace of mind has been described to be subtile and of various forms. I have heard all your discourses, but have not still been able to acquire tranquillity of mind.
3Various means of quieting the mind have been described by you, O sire, but how can peace of mind be acquired from only a knowledge of the different sorts of tranquillity, when I myself have been the means of bringing all this about?
4Seeing your body covered with arrows and bad sores, I cannot get, O hero, any peace of mind. thinking of the evils I have done.
5Seeing your body, O bravest of the brave, covered with blood, like a hill covered with water from its springs, I am perishing with grief as the lotus in the rainy season.
6What can be more painful than this, that, for me, you, O grandfather have been reduced to this condition by my people fighting against their enemies on the battlefield.
7Other princes also, with their sons and kinsmen, have been killed on my account. Alas, what can be more painful than this?
8Tell us, O prince, what will befall us and the sons of Dhritarashtra, who, impelled by fate and anger, have done this hateful act.
9O king, I think the son of Dhritarashtra is fortunate, because he does not see you in this condition.
10But I, who am the cause of your death as well as of that of our friends, am denied all peace of mind by seeing you on the naked earth in this miserable plight.
11The wicked Duryodhana, the most infamous of his family has, with all his soldiers and his brothers, died in battle, performing Kshatriya duties.
12That wicked man does not see you lying on the ground! Verily, for this reason, I would prefer death to life.
13O hero, who never forsook virtue, had I with my brothers met with death before this at the hands of our enemies on the battlefield, I would not have seen you in this pitiful condition, so pierced with arrows! Surely, O prince, the Maker had created us to commit evil deeds.
14O king, if you wish to do me good, do you then instruct me in such a way that I may be purged of this sin in even another world.
15Bhishma said Why, O fortunate one, do you regard your soul, which is dependent, to be the cause of your deeds? Its inaction is subtle and imperceptible to the senses.
16Regarding it is cited the old story of the conversation between Mrityu and Gautami with Kala and the Fowler and the serpent.
17There was, O son of Kunti, an old lady named Gautami, who was endued with great patience and peace of mind. One day she found her son dead on account of having been bitten by a serpent.
18An angry fowler, named Arjunaka, bound the serpent with a string and brought it before Gautami.
19He then said to her. This wretched serpent has been the cause of your son's death. O blessed lady! Tell me quickly how this wretch is to be killed!
20Shall I throw it into the fire or shall I cut it into pieces? This infamous killer of a child should not live longer!
21Gautami replied Do you, O Arjunaka of little understanding, set free this serpent! It should not be killed by you. Who is so foolish as not to care for the inevitable destiny that awaits him and make himself heavy for sinking into sin?
22Those who have made themselves light by performing virtuous deeds, manage to cross the sea of the world as a ship crosses the ocean. But those who have loaded themselves with sin sink into the bottom, as an arrow thrown into the water.
23By killing this serpent, this my boy will not revive, and by letting it live, no harm will be caused to you. Who would go to the endless regions of Death by killing this living creature?
24The fowler said I know, O lady, who know the difference between, right and wrong that great persons are pained at the miseries of all creatures. But these words which you have uttered carry instruction for only a selfcontained person. Therefore, I must kill this serpent.
25Those who value peace of mind, attribute everything to the course of Time as the cause, but practical men soon pacify their grief. People, through perpetual error, fear loss of beatitude. Therefore, O lady, remove your grief by having this serpent killed (by me).
26Gautami replied People like us are never pained. Good men have their souls always bent on virtue. The death of the boy was predestined: therefore, I cannot approve of the destruction of this serpent.
27Brahmanas do not cherish resentment, because resentment leads to pain. Do you, O Goodman, forgive and set free this serpent out of mercy.
28The fowler replied Let us acquire great and inexhaustible merit in the next worlds by destroying (this creature), as a man gains great merit, and confers it on his victim as well, by sacrifice upon the altar! Merit is won by killing an enemy: by killing this despicable creature, you will acquire great and true merit in the next world.
29Gautami replied What good is there in torturing and destroying an enemy, and what good is acquired by not setting free an enemy in our power? Therefore. O you of kind face, why should we not forgive this serpent and try to acquire merit by setting it free.
30The fowler replied A great number (of creatures)should be safeguarded against this one, instead of this single creature being protected. Virtuous men quit the vicious: do you, therefore, destroy the wicked creature.
31Gautami replied By killing this serpent, my son, O fowler, will not regain his life, nor do I see that any other end will be attained by its death: therefore, do you, O fowler, set this living serpent free.
32The fowler said By destroying Vritra, Indra got the best portion (of sacrificial offerings), and by destroying a sacrifice Mahadeva secured his share of sacrificial offerings: do you, therefore, kill this serpent forthwith without any misgivings whatsoever.
33Bhishma said Although repeatedly urged on by the fowler for the destruction of the serpent, the great Gautami did nor bend her mind to that sinful deed. Painfully fettered with the cord, sighing a little and keeping up its composure with great difficulty, the serpent then uttered these words slowly, in a human voice.
34The serpent said O foolish Arjunaka, what is my fanlt? I have no will of my own, and am not independent! Death sent me on this work.
35By his order have I bitten this child, and not out of any anger or option an my part. Therefore, if there be any sin in this, O fowler, the sin is his.
36The fowler said If you have committed this evil, urged thereto by another, the sin is your also as you are an instrument in the act.
37As in the making of an earthen pot the potter's wheel and rod and other things are all considered as causes, so are you, O serpent.
38The serpent said He who is guilty should be killed by me, You, O serpent, are guilty! Indeed you confess it. As all these, vis., the porter's wheel, rod, and other things, are not independent causes, so I am not an independent cause! Therefore, this is no fault of mine, you should admit it.
39If you hold otherwise, then these are to be considered as causes working with one another. For thus working with one other, a doubt springs up about their relation as cause and effect.
40Such being the case, it is no fault of mine, nor should I be killed on this account, nor am I guilty of any sin! Or, if you think that there is sin, the sin lies in the aggregate of causes.
41The fowler said If you are neither the principal cause nor the agent in this matter: you are still the cause of the death. Therefore, I think you should be killed.
42If, O serpent, you think that when an evil deed is done the doer is not implicated therein, then there can be no cause in this matter: but having done this, you should surely be killed. What more do you think?
43The serpent said Whether any prime cause exists or not, no effect is done without an (intermediate) act. Therefore, causation being of no importance in either case, my act as the cause should be considered in full.
44If, O fowler, you consider me truly, to be the cause then the sin of this act of killing a living being rests on the shoulders of another who led me to do this.
45The fowler said You don't deserve life, O foolish one, why do you then exchange so many words, O wretched serpent? You should be killed by me. You have done a heinous crime by killing this infant.
46The serpent said O fowler, as the priests officiating at a sacrifice do not gain the merit of the act by offering oblations of clarified butter to the fire, so should I be considered in this matter.
47Bhishma continued The serpent directed by Death having said this, Death himself appeared there and addressing the serpent said:
48Mrityu said Guided by Kala, I, O serpent, sent you on this mission, and neither are you nor am I the cause of this child's death.
49As the clouds are driven hither and thither by the wind I, am, O serpent, moved by Kala.
50All influences of Sattwa, or Rajas, or Tamas, originate from Kala as they work in all creatures.
51All creatures, mobile and immobile, in heaven, or earth, are pervaded by the influence of Kala. The whole universe, O serpent, is permeated by this same influence of Kala.
52All acts in this world and all abstentions, as also all their changes, are owing to be influenced by Kala.
53The Sun, Soma, Vishnu, Water, Wind, the god of a hundred sacrifices, Fire, Sky, Earth, Mitra and Parjanaya, Aditi, and the Vasus, Rivers and Oceans, all existent and nonexistent objects, are created and destroyed by Kala.
54Knowing this, why do you, O serpent, consider me blameable? If I am to be blamed for this, you are also blameable.
55The serpent said I do not, O Mrityu, blame you, nor do I set you free from all blame. I only say that I am directed and influenced by you.
56If Kala is to be blamed, or, it is not for me to find the fault. We have nor right to do so.
57As it is my duty to absolve myself from this blame, so it is my duty to see that Mrityu is not blamed.
58Bhishma continued Then the serpent, addressing Arjunaka said, 'You have heard what Mrityu has said. Therefore, it is not proper for you to torment me, who am innocent, by fettering me with this rope
59The fowler said I have heard, you, O serpent, as well as the words of Mrityu, but these, O serpent, do not set you free from all blame.
60Mrityu and you are the causes of this child's death. I regard both of you to be the cause and I do not call that to be the cause which is not truly so.
61Accursed be the wicked and vengeful Death that causes misery to the good! I shall also kill you who are sinful and engaged in sinful deeds.
62Mrityu said We both are not free, but are dependent on Kala, and are ordained to do our appointed work. You will not blame us if you do consider this matter thoroughly.
63The fowler said If you both, O serpent and Mrityu, depend on Kala. I am curious to know how pleasure and anger are caused.
64Mrityu said Everything is done under the influence of Kala. I have said it before, O fowler, that Kala is the cause of all and therefore we both, acting under the influence of Kala, do our appointed work and, therefore, O fowler, we two should not be blamed by you.
65Bhishma said Then Kala arrived there where ethics were being discussed, and spoke thus to the serpent and Mrityu and the fowler Arjunaka assembled together.
66Kala said Neither Mrityu, nor this serpent, nor I, O fowler, am guilty of the death of any creature. We are merely the immediate causes of the event. O Arjunaka, the Karma of this child was the exciting cause of our action in this matter.
67There was no other cause by which this child met its death. It was killed by the result of its own Karma.
68It has met 'with death as the result of its pristine Karma. Its Karma has been the root of its destruction. We all are subject to our respective Karma.
69Karma is a help to salvation as sons are and Karma also expresses virtue and vice in man. We impell one another even acts urge one another.
70As men make from a lump of clay whatever they wish to make, so do men come by various results out of Karma.
71As light and shadow are connected with each other, so are men related to Karma through their own deeds.
72Therefore, neither are you, nor am I, nor Mrityu, nor the serpent, nor this old Brahmana lady, is the cause of this child's death.
73He himself is the cause here. Upon Kala, O king, explaining the matter thus, Gautami, convinced in her mind that men suffer according to their actions, spoke thus to Arjunaka.
74Gautami said Neither Kala, nor Mrityu, nor the serpent, is the cause here. This child has met with death as the result of its own Karma,
75I too have so acted that my son has died. Let now Kala and Mrityu retire from there, and do you too, O Arjunaka, set this serpent free.
76Bhishma continued Then Kala and Mrityu and the serpent returned to their respective places, and Gautami became consoled in mind as also the fowler.
77Having heard all this, O king, do you forego all grief, and acquire peace of mind! Men attain to heaven or hell as the result of their own Karma.
78This evil has neither been of your own creation, nor of Duryodhana's! That these king's of Earth have all been killed, is the work of Kala.
79Vaishampayana said Having heard all this, the powerful and pious Yudhishthira became consoled in mind, and again enquired as follows.
हिन्दी
1पुरुषश्रेष्ठ नारायण तथा नर को, एवं विद्या की देवी सरस्वती को प्रणाम करके हम जय की घोषणा करें।
2युधिष्ठिर ने कहा — हे पितामह, मन की शान्ति सूक्ष्म तथा विविध रूपों वाली बताई गई है। मैंने आपके समस्त प्रवचन सुने हैं, किन्तु अब तक मन की शान्ति प्राप्त नहीं कर सका हूँ।
3हे तात, आपने मन को शान्त करने के विविध उपाय बताए हैं, किन्तु जब यह सब कराने का निमित्त स्वयं मैं ही रहा हूँ, तब केवल विविध प्रकार की शान्ति के ज्ञान से मन की शान्ति कैसे प्राप्त हो सकती है?
4हे वीर, आपके शरीर को बाणों तथा भीषण घावों से ढका देखकर, अपने किए हुए अनिष्टों का विचार करते हुए मुझे कोई शान्ति नहीं मिलती।
5हे वीरों में वीरतम, आपके शरीर को रक्त से ढका देखकर, जैसे कोई पर्वत अपने झरनों के जल से ढका हो, मैं शोक से वैसे ही नष्ट हो रहा हूँ जैसे वर्षाऋतु में कमल।
6हे पितामह, इससे अधिक पीड़ादायक क्या हो सकता है कि मेरे कारण आपको मेरे ही लोगों ने, जो रणभूमि में अपने शत्रुओं से लड़ रहे थे, इस अवस्था में पहुँचा दिया?
7अन्य राजकुमार भी, अपने पुत्रों तथा कुटुम्बियों सहित, मेरे कारण मारे गए हैं। हाय, इससे अधिक पीड़ादायक क्या हो सकता है?
8हे राजन्, हमें बताइए कि हमारा तथा धृतराष्ट्र के पुत्रों का क्या होगा, जिन्होंने भाग्य तथा क्रोध से प्रेरित होकर यह घृणित कर्म किया।
9हे राजन्, मेरा मत है कि धृतराष्ट्र का पुत्र भाग्यशाली है, क्योंकि वह आपको इस अवस्था में नहीं देखता।
10किन्तु मैं, जो आपकी तथा हमारे मित्रों की मृत्यु का कारण हूँ, आपको इस दयनीय दशा में नंगी भूमि पर देखकर समस्त मानसिक शान्ति से वंचित हूँ।
11दुष्ट दुर्योधन, अपने कुल में सबसे निन्दित, अपने समस्त सैनिकों तथा भाइयों सहित क्षत्रियधर्म का पालन करते हुए युद्ध में मर चुका है।
12वह दुष्ट आपको भूमि पर लेटा नहीं देखता! निश्चय ही इसी कारण मैं जीवन से मृत्यु को श्रेष्ठ मानूँगा।
13हे धर्म को कभी न त्यागने वाले वीर, यदि मैं अपने भाइयों सहित इससे पहले रणभूमि में अपने शत्रुओं के हाथों मृत्यु को प्राप्त हो जाता, तो मैं आपको बाणों से बिंधी इस दयनीय अवस्था में न देखता! निश्चय ही, हे राजन्, विधाता ने हमें दुष्कर्म करने के लिए ही रचा था।
14हे राजन्, यदि आप मेरा हित करना चाहते हैं, तो मुझे ऐसी शिक्षा दीजिए जिससे मैं इस पाप से परलोक में भी शुद्ध हो सकूँ।
15भीष्म ने कहा — हे भाग्यशाली, तुम अपनी आत्मा को, जो परतन्त्र है, अपने कर्मों का कारण क्यों मानते हो? उसकी निष्क्रियता सूक्ष्म तथा इन्द्रियों से अगोचर है।
16इसी सम्बन्ध में मृत्यु तथा गौतमी का, काल, व्याध एवं सर्प के साथ हुए संवाद की प्राचीन कथा उद्धृत की जाती है।
17हे कुन्तीपुत्र, गौतमी नामक एक वृद्धा थी, जो महान् धैर्य तथा मानसिक शान्ति से सम्पन्न थी। एक दिन उसने अपने पुत्र को सर्पदंश के कारण मरा हुआ पाया।
18अर्जुनक नामक एक क्रुद्ध व्याध ने उस सर्प को डोरी से बाँधकर गौतमी के सम्मुख लाया।
19तब उसने उससे कहा — "हे कल्याणी, इस दुष्ट सर्प ने ही तुम्हारे पुत्र की मृत्यु का कारण बना है! मुझे शीघ्र बताओ कि इस दुष्ट को किस प्रकार मारा जाए!"
20"क्या मैं इसे अग्नि में फेंक दूँ अथवा इसके टुकड़े-टुकड़े कर दूँ? यह बालक का निन्दित हत्यारा अब और न जिए!"
21गौतमी ने उत्तर दिया — हे अल्पबुद्धि अर्जुनक, तुम इस सर्प को मुक्त कर दो! इसे तुम्हें नहीं मारना चाहिए। ऐसा मूर्ख कौन है जो अपनी प्रतीक्षा करते अटल भाग्य की चिन्ता न करे और अपने को पाप में डूबने के लिए भारी बना ले?
22जिन्होंने पुण्यकर्म करके अपने को हल्का बना लिया है, वे संसार के सागर को उसी प्रकार पार कर लेते हैं जैसे नौका समुद्र को पार करती है। किन्तु जिन्होंने अपने को पाप से लाद लिया है वे तली में उसी प्रकार डूब जाते हैं जैसे जल में फेंका गया बाण।
23इस सर्प को मारने से मेरा यह बालक जीवित नहीं होगा, और इसे जीने देने से तुम्हारी कोई हानि नहीं होगी। इस जीवित प्राणी को मारकर मृत्यु के अनन्त लोकों में कौन जाना चाहेगा?
24व्याध ने कहा — हे देवि, उचित तथा अनुचित का भेद जानने वाली, मैं जानता हूँ कि महापुरुष समस्त प्राणियों के दुःखों से व्यथित होते हैं। किन्तु तुमने जो ये वचन कहे हैं वे केवल आत्मसंयत पुरुष के लिए ही शिक्षा रखते हैं। इसलिए मुझे इस सर्प को मारना ही होगा।
25जो मानसिक शान्ति को मूल्यवान् मानते हैं वे प्रत्येक बात का कारण काल की गति को बताते हैं, किन्तु व्यावहारिक लोग अपना शोक शीघ्र शान्त कर लेते हैं। लोग निरन्तर भ्रम के कारण परम कल्याण की हानि से डरते हैं। इसलिए हे देवि, इस सर्प को (मुझसे) मरवाकर अपना शोक दूर करो।
26गौतमी ने उत्तर दिया — हम जैसे लोग कभी व्यथित नहीं होते। सज्जनों की आत्मा सदा धर्म की ओर झुकी रहती है। इस बालक की मृत्यु पूर्वनिर्धारित थी; इसलिए मैं इस सर्प के विनाश का अनुमोदन नहीं कर सकती।
27ब्राह्मण द्वेष नहीं पालते, क्योंकि द्वेष पीड़ा की ओर ले जाता है। हे सज्जन, तुम दया करके इस सर्प को क्षमा कर दो और मुक्त कर दो।
28व्याध ने उत्तर दिया — (इस प्राणी का) विनाश करके हम परलोक में महान् तथा अक्षय पुण्य अर्जित करें, जैसे मनुष्य वेदी पर यज्ञ करके महान् पुण्य पाता है और अपने बलि पर भी वह पुण्य प्रदान करता है! शत्रु को मारने से पुण्य मिलता है; इस घृणित प्राणी को मारकर तुम परलोक में महान् तथा सच्चा पुण्य अर्जित करोगी।
29गौतमी ने उत्तर दिया — शत्रु को यन्त्रणा देने तथा नष्ट करने में क्या भलाई है, और अपने वश में आए शत्रु को मुक्त न करने से क्या भलाई मिलती है? इसलिए हे सौम्यमुख, हम इस सर्प को क्षमा करके तथा उसे मुक्त करके पुण्य अर्जित करने का प्रयत्न क्यों न करें?
30व्याध ने उत्तर दिया — इस एक ही प्राणी की रक्षा करने के बदले इसके विरुद्ध (प्राणियों की) बड़ी संख्या की रक्षा होनी चाहिए। सद्पुरुष दुष्टों का त्याग करते हैं; इसलिए तुम इस दुष्ट प्राणी का विनाश करो।
31गौतमी ने उत्तर दिया — हे व्याध, इस सर्प को मारने से मेरा पुत्र अपना जीवन पुनः नहीं पाएगा, न मुझे कोई और प्रयोजन उसकी मृत्यु से सिद्ध होता दिखता है; इसलिए हे व्याध, तुम इस जीवित सर्प को मुक्त कर दो।
32व्याध ने कहा — वृत्र का विनाश करके इन्द्र ने (यज्ञभाग का) श्रेष्ठ अंश पाया, और एक यज्ञ का विनाश करके महादेव ने यज्ञभाग में अपना हिस्सा सुरक्षित किया; इसलिए तुम बिना किसी सन्देह के इस सर्प को तत्काल मार डालो।
33भीष्म ने कहा — व्याध द्वारा सर्प के विनाश के लिए बार-बार प्रेरित किए जाने पर भी महती गौतमी ने अपना मन उस पापपूर्ण कर्म की ओर नहीं झुकाया। रस्सी से पीड़ादायक रूप से बँधा वह सर्प, हल्की-सी साँस लेता हुआ तथा बड़ी कठिनाई से अपना संयम बनाए रखता हुआ, तब मनुष्य की वाणी में धीरे-धीरे ये वचन बोला।
34सर्प ने कहा — हे मूर्ख अर्जुनक, मेरा क्या दोष है? मेरी अपनी कोई इच्छा नहीं है, और मैं स्वतन्त्र नहीं हूँ! मृत्यु ने मुझे इस कार्य पर भेजा।
35उसी की आज्ञा से मैंने इस बालक को डँसा, न कि अपने किसी क्रोध अथवा चुनाव से। इसलिए हे व्याध, यदि इसमें कोई पाप है, तो वह पाप उसी का है।
36व्याध ने कहा — यदि तुमने यह अनिष्ट दूसरे से प्रेरित होकर किया है, तो पाप तुम्हारा भी है, क्योंकि तुम उस कर्म में एक साधन हो।
37जैसे मिट्टी का घड़ा बनाने में कुम्हार का चाक तथा दण्ड और अन्य वस्तुएँ सब कारण मानी जाती हैं, वैसे ही हे सर्प, तुम हो।
38सर्प ने कहा — "जो दोषी है वह मेरे द्वारा मारा जाना चाहिए। हे सर्प, तुम दोषी हो! निश्चय ही तुम इसे स्वीकार करते हो।" जैसे ये सब — अर्थात् कुम्हार का चाक, दण्ड तथा अन्य वस्तुएँ — स्वतन्त्र कारण नहीं हैं, वैसे ही मैं भी स्वतन्त्र कारण नहीं हूँ! इसलिए यह मेरा दोष नहीं है, तुम्हें यह स्वीकार करना चाहिए।
39यदि तुम अन्यथा मानते हो, तो इन्हें एक-दूसरे के साथ मिलकर कार्य करने वाले कारण माना जाना चाहिए। क्योंकि इस प्रकार एक-दूसरे के साथ कार्य करने पर कारण तथा कार्य के रूप में उनके सम्बन्ध के विषय में सन्देह उठ खड़ा होता है।
40ऐसी स्थिति में यह मेरा दोष नहीं है, न मुझे इस कारण मारा जाना चाहिए, न मैं किसी पाप का दोषी हूँ! अथवा यदि तुम मानते हो कि पाप है, तो पाप कारणों के समुच्चय में निहित है।
41व्याध ने कहा — यदि तुम इस विषय में न प्रधान कारण हो न कर्ता, तब भी तुम मृत्यु के कारण हो। इसलिए मेरा मत है कि तुम्हें मारा जाना चाहिए।
42हे सर्प, यदि तुम मानते हो कि जब कोई दुष्कर्म होता है तब कर्ता उसमें लिप्त नहीं होता, तो इस विषय में कोई कारण हो ही नहीं सकता; किन्तु यह करके तुम्हें निश्चय ही मारा जाना चाहिए। तुम इससे अधिक और क्या सोचते हो?
43सर्प ने कहा — प्रधान कारण विद्यमान हो या न हो, कोई कार्य (मध्यवर्ती) क्रिया के बिना नहीं होता। इसलिए दोनों ही स्थितियों में कारणता का कोई महत्त्व न होने से, कारण के रूप में मेरे कर्म पर ही पूर्ण विचार होना चाहिए।
44हे व्याध, यदि तुम मुझे ही वस्तुतः कारण मानते हो, तो जीवित प्राणी की हत्या के इस कर्म का पाप उस दूसरे के कन्धों पर है जिसने मुझे यह करने को प्रेरित किया।
45व्याध ने कहा — हे मूर्ख, तुम जीवन के योग्य नहीं हो, तब हे दुष्ट सर्प, तुम इतने वचनों का आदान-प्रदान क्यों करते हो? तुम्हें मेरे द्वारा मारा जाना चाहिए। इस शिशु को मारकर तुमने घोर अपराध किया है।
46सर्प ने कहा — हे व्याध, जैसे यज्ञ में कार्य करने वाले पुरोहित अग्नि में घृत की आहुतियाँ देकर उस कर्म का पुण्य नहीं पाते, वैसे ही मुझे इस विषय में समझना चाहिए।
47भीष्म ने आगे कहा — मृत्यु द्वारा निर्देशित उस सर्प के यह कहने पर, स्वयं मृत्यु वहाँ प्रकट हुए और सर्प को सम्बोधित करते हुए बोले —
48मृत्यु ने कहा — हे सर्प, काल से निर्देशित होकर मैंने तुम्हें इस कार्य पर भेजा, और न तुम इस बालक की मृत्यु के कारण हो, न मैं।
49जैसे बादल वायु द्वारा इधर-उधर हाँके जाते हैं, वैसे ही हे सर्प, मैं काल द्वारा चलाया जाता हूँ।
50सत्त्व, रजस् अथवा तमस् के समस्त प्रभाव काल से ही उत्पन्न होते हैं, जैसे वे समस्त प्राणियों में कार्य करते हैं।
51स्वर्ग अथवा पृथ्वी के समस्त चर तथा अचर प्राणी काल के प्रभाव से व्याप्त हैं। हे सर्प, सम्पूर्ण ब्रह्माण्ड काल के इसी प्रभाव से व्याप्त है।
52इस संसार के समस्त कर्म तथा समस्त निवृत्तियाँ, एवं उनके समस्त परिवर्तन, काल से प्रभावित होने के कारण ही हैं।
53सूर्य, सोम, विष्णु, जल, वायु, शतक्रतु, अग्नि, आकाश, पृथ्वी, मित्र तथा पर्जन्य, अदिति तथा वसु, नदियाँ तथा समुद्र, समस्त विद्यमान तथा अविद्यमान वस्तुएँ — सब काल द्वारा सृजी तथा नष्ट की जाती हैं।
54यह जानकर हे सर्प, तुम मुझे दोषी क्यों मानते हो? यदि इसके लिए मुझे दोष दिया जाए, तो तुम भी दोषी हो।
55सर्प ने कहा — हे मृत्यु, मैं न तुम्हें दोष देता हूँ, न तुम्हें समस्त दोष से मुक्त करता हूँ। मैं केवल यह कहता हूँ कि मैं तुम्हारे द्वारा निर्देशित तथा प्रभावित हूँ।
56यदि काल को दोष दिया जाना है, तो दोष ढूँढ़ना मेरा काम नहीं। हमें ऐसा करने का अधिकार नहीं है।
57जैसे इस दोष से अपने को मुक्त करना मेरा कर्तव्य है, वैसे ही यह देखना भी मेरा कर्तव्य है कि मृत्यु को दोष न दिया जाए।
58भीष्म ने आगे कहा — तब उस सर्प ने अर्जुनक को सम्बोधित करके कहा — "तुमने सुन लिया कि मृत्यु ने क्या कहा। इसलिए मुझे, जो निर्दोष हूँ, इस रस्सी से बाँधकर यन्त्रणा देना तुम्हारे लिए उचित नहीं।"
59व्याध ने कहा — हे सर्प, मैंने तुम्हें तथा मृत्यु के वचन दोनों सुने हैं, किन्तु हे सर्प, ये तुम्हें समस्त दोष से मुक्त नहीं करते।
60मृत्यु तथा तुम इस बालक की मृत्यु के कारण हो। मैं तुम दोनों को कारण मानता हूँ और मैं उसे कारण नहीं कहता जो वस्तुतः कारण नहीं है।
61धिक्कार है उस दुष्ट तथा प्रतिशोधी मृत्यु को जो सज्जनों को दुःख देती है! मैं तुम्हें भी मारूँगा, जो पापी हो और पापकर्मों में लगे हो।
62मृत्यु ने कहा — हम दोनों स्वतन्त्र नहीं हैं, अपितु काल पर निर्भर हैं, और अपना नियत कार्य करने को विहित हैं। यदि तुम इस विषय पर भलीभाँति विचार करो तो हमें दोष नहीं दोगे।
63व्याध ने कहा — हे सर्प तथा मृत्यु, यदि तुम दोनों काल पर निर्भर हो, तो मुझे यह जानने की उत्सुकता है कि सुख तथा क्रोध कैसे उत्पन्न होते हैं।
64मृत्यु ने कहा — सब कुछ काल के प्रभाव में होता है। हे व्याध, मैं पहले ही कह चुका हूँ कि काल ही सबका कारण है और इसलिए हम दोनों, काल के प्रभाव में कार्य करते हुए, अपना नियत कार्य करते हैं; और इसलिए हे व्याध, हम दोनों को तुम्हें दोष नहीं देना चाहिए।
65भीष्म ने कहा — तब काल वहाँ आ पहुँचा जहाँ धर्म की चर्चा हो रही थी, और वहाँ एकत्र सर्प, मृत्यु तथा व्याध अर्जुनक से इस प्रकार बोला।
66काल ने कहा — हे व्याध, न मृत्यु, न यह सर्प, न मैं किसी प्राणी की मृत्यु का दोषी है। हम केवल घटना के तात्कालिक कारण हैं। हे अर्जुनक, इस बालक का कर्म ही इस विषय में हमारी क्रिया का उद्दीपक कारण था।
67कोई अन्य कारण नहीं था जिससे इस बालक की मृत्यु हुई। यह अपने ही कर्म के फल से मारा गया।
68यह अपने पूर्वकर्म के फलस्वरूप मृत्यु को प्राप्त हुआ। इसका कर्म ही इसके विनाश का मूल रहा है। हम सब अपने-अपने कर्म के अधीन हैं।
69कर्म मोक्ष में उसी प्रकार सहायक है जैसे पुत्र होते हैं, और कर्म ही मनुष्य में पुण्य तथा पाप को व्यक्त करता है। हम एक-दूसरे को प्रेरित करते हैं, और कर्म भी एक-दूसरे को प्रेरित करते हैं।
70जैसे मनुष्य मिट्टी के एक ढेले से जो चाहें बना लेते हैं, वैसे ही मनुष्य कर्म से विविध फल प्राप्त करते हैं।
71जैसे प्रकाश तथा छाया एक-दूसरे से जुड़े हैं, वैसे ही मनुष्य अपने ही कर्मों के द्वारा कर्म से जुड़े हैं।
72इसलिए न तुम, न मैं, न मृत्यु, न सर्प, न यह वृद्धा ब्राह्मणी — कोई भी इस बालक की मृत्यु का कारण नहीं है।
73यह स्वयं ही इसका कारण है। हे राजन्, काल द्वारा इस प्रकार विषय समझाए जाने पर गौतमी ने, अपने मन में यह विश्वास करके कि मनुष्य अपने कर्मों के अनुसार भोगते हैं, अर्जुनक से इस प्रकार कहा।
74गौतमी ने कहा — न काल, न मृत्यु, न सर्प यहाँ कारण है। यह बालक अपने ही कर्म के फलस्वरूप मृत्यु को प्राप्त हुआ है।
75मैंने भी ऐसे कर्म किए हैं जिनसे मेरा पुत्र मरा है। अब काल तथा मृत्यु यहाँ से लौट जाएँ, और हे अर्जुनक, तुम भी इस सर्प को मुक्त कर दो।
76भीष्म ने आगे कहा — तब काल, मृत्यु तथा सर्प अपने-अपने स्थानों को लौट गए, और गौतमी को तथा व्याध को भी मन में सान्त्वना मिली।
77हे राजन्, यह सब सुनकर तुम समस्त शोक त्यागो और मन की शान्ति प्राप्त करो! मनुष्य अपने ही कर्मों के फलस्वरूप स्वर्ग अथवा नरक प्राप्त करते हैं।
78यह अनिष्ट न तुम्हारी रचना है, न दुर्योधन की! पृथ्वी के ये समस्त राजा जो मारे गए हैं, वह काल का कार्य है।
79वैशम्पायन ने कहा — यह सब सुनकर शक्तिशाली तथा धर्मात्मा युधिष्ठिर को मन में सान्त्वना मिली, और उन्होंने फिर इस प्रकार पूछा।
नेपाली
1पुरुषश्रेष्ठ नारायण तथा नरलाई, एवं विद्याकी देवी सरस्वतीलाई प्रणाम गरेर हामी जयको घोषणा गरौँ।
2युधिष्ठिरले भने — हे पितामह, मनको शान्ति सूक्ष्म तथा विविध रूप भएको बताइएको छ। मैले तपाईंका सम्पूर्ण प्रवचन सुनेको छु, तर अहिलेसम्म मनको शान्ति प्राप्त गर्न सकेको छैनँ।
3हे तात, तपाईंले मनलाई शान्त पार्ने विविध उपाय बताउनुभएको छ, तर जब यो सबै गराउने निमित्त स्वयं म नै रहेको छु, तब केवल विविध प्रकारको शान्तिको ज्ञानले मनको शान्ति कसरी प्राप्त हुन सक्छ?
4हे वीर, तपाईंको शरीर बाण तथा भीषण घाउले ढाकिएको देखेर, आफूले गरेका अनिष्टको विचार गर्दै मलाई कुनै शान्ति मिल्दैन।
5हे वीरहरूमा वीरतम, तपाईंको शरीर रगतले ढाकिएको देखेर, जसरी कुनै पर्वत आफ्ना झरनाको जलले ढाकिएको होस्, म शोकले त्यसै गरी नष्ट भइरहेको छु जसरी वर्षाऋतुमा कमल।
6हे पितामह, यसभन्दा बढी पीडादायक के हुन सक्छ कि मेरो कारण तपाईंलाई मेरै मानिसहरूले, जो रणभूमिमा आफ्ना शत्रुसँग लडिरहेका थिए, यस अवस्थामा पुर्याइदिए?
7अन्य राजकुमार पनि, आफ्ना पुत्र तथा कुटुम्बीसहित, मेरो कारण मारिएका छन्। हाय, यसभन्दा बढी पीडादायक के हुन सक्छ?
8हे राजन्, हामीलाई भन्नुहोस् कि हाम्रो तथा धृतराष्ट्रका पुत्रहरूको के हुनेछ, जसले भाग्य तथा क्रोधले प्रेरित भएर यो घृणित कर्म गरे।
9हे राजन्, मेरो मत छ कि धृतराष्ट्रको पुत्र भाग्यशाली छ, किनभने उसले तपाईंलाई यस अवस्थामा देख्दैन।
10तर म, जो तपाईंको तथा हाम्रा मित्रहरूको मृत्युको कारण हुँ, तपाईंलाई यस दयनीय दशामा नाङ्गो भूमिमा देखेर सम्पूर्ण मानसिक शान्तिबाट वञ्चित छु।
11दुष्ट दुर्योधन, आफ्नो कुलमा सबभन्दा निन्दित, आफ्ना सम्पूर्ण सैनिक तथा भाइहरूसहित क्षत्रियधर्मको पालन गर्दै युद्धमा मरिसकेको छ।
12त्यो दुष्टले तपाईंलाई भूमिमा पल्टिएको देख्दैन! निश्चय नै यसै कारण म जीवनभन्दा मृत्युलाई श्रेष्ठ मान्नेछु।
13हे धर्मलाई कहिल्यै नत्याग्ने वीर, यदि म आफ्ना भाइहरूसहित यसभन्दा पहिले रणभूमिमा आफ्ना शत्रुका हातबाट मृत्यु प्राप्त गरेको भए, म तपाईंलाई बाणले बिँधिएको यस दयनीय अवस्थामा देख्ने थिइनँ! निश्चय नै, हे राजन्, विधाताले हामीलाई दुष्कर्म गर्नकै लागि रचेका थिए।
14हे राजन्, यदि तपाईं मेरो हित गर्न चाहनुहुन्छ भने, मलाई त्यस्तो शिक्षा दिनुहोस् जसबाट म यस पापबाट परलोकमा पनि शुद्ध हुन सकूँ।
15भीष्मले भने — हे भाग्यशाली, तिमी आफ्नो आत्मालाई, जो परतन्त्र छ, आफ्ना कर्मको कारण किन मान्दछौ? त्यसको निष्क्रियता सूक्ष्म तथा इन्द्रियबाट अगोचर छ।
16यसै सम्बन्धमा मृत्यु तथा गौतमीको, काल, व्याध एवं सर्पसँग भएको संवादको प्राचीन कथा उद्धृत गरिन्छ।
17हे कुन्तीपुत्र, गौतमी नामक एउटी वृद्धा थिइन्, जो महान् धैर्य तथा मानसिक शान्तिले सम्पन्न थिइन्। एक दिन उनले आफ्नो पुत्रलाई सर्पदंशका कारण मरेको पाइन्।
18अर्जुनक नामक एक क्रुद्ध व्याधले त्यस सर्पलाई डोरीले बाँधेर गौतमीको सामु ल्यायो।
19तब उसले उनलाई भन्यो — "हे कल्याणी, यस दुष्ट सर्पले नै तिम्रो पुत्रको मृत्युको कारण बनेको छ! मलाई चाँडै भन कि यस दुष्टलाई कसरी मारियोस्!"
20"के म यसलाई अग्निमा फालूँ अथवा यसका टुक्रा-टुक्रा पारूँ? यो बालकको निन्दित हत्यारा अब अझ नबाँचोस्!"
21गौतमीले उत्तर दिइन् — हे अल्पबुद्धि अर्जुनक, तिमी यस सर्पलाई मुक्त गर! यसलाई तिमीले मार्नुहुँदैन। त्यस्तो मूर्ख को छ जसले आफ्नो प्रतीक्षा गरिरहेको अटल भाग्यको चिन्ता नगरोस् र आफूलाई पापमा डुब्नका लागि भारी बनाओस्?
22जसले पुण्यकर्म गरेर आफूलाई हलुका बनाएका छन्, तिनीहरूले संसारको सागर त्यसै गरी तर्दछन् जसरी डुङ्गाले समुद्र तर्दछ। तर जसले आफूलाई पापले लादेका छन् तिनीहरू पिँधमा त्यसै गरी डुब्दछन् जसरी जलमा फालिएको बाण।
23यस सर्पलाई मारेर मेरो यो बालक जीवित हुनेछैन, र यसलाई बाँच्न दिएर तिम्रो कुनै हानि हुनेछैन। यस जीवित प्राणीलाई मारेर मृत्युका अनन्त लोकमा को जान चाहनेछ?
24व्याधले भन्यो — हे देवि, उचित तथा अनुचितको भेद जान्ने, म जान्दछु कि महापुरुषहरू सम्पूर्ण प्राणीका दुःखले व्यथित हुन्छन्। तर तिमीले जुन यी वचन भनेकी छ्यौ ती केवल आत्मसंयत पुरुषका लागि मात्र शिक्षा राख्दछन्। त्यसैले मैले यस सर्पलाई मार्नै पर्नेछ।
25जसले मानसिक शान्तिलाई मूल्यवान् मान्दछन् तिनीहरूले प्रत्येक कुराको कारण कालको गतिलाई बताउँछन्, तर व्यावहारिक मानिसहरूले आफ्नो शोक चाँडै शान्त पार्दछन्। मानिसहरू निरन्तर भ्रमका कारण परम कल्याणको हानिसँग डराउँछन्। त्यसैले हे देवि, यस सर्पलाई (मबाट) मराएर आफ्नो शोक हटाऊ।
26गौतमीले उत्तर दिइन् — हामीजस्ता मानिस कहिल्यै व्यथित हुँदैनन्। सज्जनहरूको आत्मा सधैँ धर्मतिर झुकेको हुन्छ। यस बालकको मृत्यु पूर्वनिर्धारित थियो; त्यसैले म यस सर्पको विनाशको अनुमोदन गर्न सक्दिनँ।
27ब्राह्मणहरूले द्वेष पाल्दैनन्, किनभने द्वेषले पीडातिर पुर्याउँछ। हे सज्जन, तिमी दया गरेर यस सर्पलाई क्षमा गर र मुक्त गर।
28व्याधले उत्तर दियो — (यस प्राणीको) विनाश गरेर हामीले परलोकमा महान् तथा अक्षय पुण्य आर्जन गरौँ, जसरी मानिसले वेदीमा यज्ञ गरेर महान् पुण्य पाउँछ र आफ्नो बलिलाई पनि त्यो पुण्य प्रदान गर्दछ! शत्रुलाई मारेर पुण्य मिल्छ; यस घृणित प्राणीलाई मारेर तिमीले परलोकमा महान् तथा साँचो पुण्य आर्जन गर्नेछ्यौ।
29गौतमीले उत्तर दिइन् — शत्रुलाई यातना दिने तथा नष्ट पार्नमा के भलाइ छ, र आफ्नो वशमा आएको शत्रुलाई मुक्त नगरेर के भलाइ मिल्छ? त्यसैले हे सौम्यमुख, हामी यस सर्पलाई क्षमा गरेर तथा त्यसलाई मुक्त गरेर पुण्य आर्जन गर्ने प्रयत्न किन नगरौँ?
30व्याधले उत्तर दियो — यस एउटै प्राणीको रक्षा गर्नुको सट्टा यसविरुद्ध (प्राणीहरूको) ठूलो सङ्ख्याको रक्षा हुनुपर्छ। सत्पुरुषहरूले दुष्टहरूको त्याग गर्दछन्; त्यसैले तिमी यस दुष्ट प्राणीको विनाश गर।
31गौतमीले उत्तर दिइन् — हे व्याध, यस सर्पलाई मारेर मेरो पुत्रले आफ्नो जीवन पुनः पाउनेछैन, न मलाई अरू कुनै प्रयोजन त्यसको मृत्युले सिद्ध हुने देखिन्छ; त्यसैले हे व्याध, तिमी यस जीवित सर्पलाई मुक्त गर।
32व्याधले भन्यो — वृत्रको विनाश गरेर इन्द्रले (यज्ञभागको) श्रेष्ठ अंश पाए, र एउटा यज्ञको विनाश गरेर महादेवले यज्ञभागमा आफ्नो हिस्सा सुरक्षित गरे; त्यसैले तिमी कुनै शङ्काविना यस सर्पलाई तत्काल मारिदेऊ।
33भीष्मले भने — व्याधद्वारा सर्पको विनाशका लागि बारम्बार प्रेरित गरिँदा पनि महती गौतमीले आफ्नो मन त्यस पापपूर्ण कर्मतिर झुकाइनन्। डोरीले पीडादायक रूपमा बाँधिएको त्यो सर्प, हल्का सास फेर्दै तथा ठूलो कठिनाइले आफ्नो संयम कायम राख्दै, तब मानिसको वाणीमा बिस्तारै यी वचन बोल्यो।
34सर्पले भन्यो — हे मूर्ख अर्जुनक, मेरो के दोष छ? मेरो आफ्नो कुनै इच्छा छैन, र म स्वतन्त्र छैनँ! मृत्युले मलाई यस कार्यमा पठायो।
35उसैको आज्ञाले मैले यस बालकलाई डस्नेँ, नकि आफ्नो कुनै क्रोध अथवा छनोटले। त्यसैले हे व्याध, यदि यसमा कुनै पाप छ भने, त्यो पाप उसैको हो।
36व्याधले भन्यो — यदि तिमीले यो अनिष्ट अर्कोबाट प्रेरित भएर गरेका छौ भने, पाप तिम्रो पनि हो, किनभने तिमी त्यस कर्ममा एउटा साधन हौ।
37जसरी माटोको घडा बनाउनमा कुम्हालेको चक्का तथा दण्ड र अन्य वस्तु सबै कारण मानिन्छन्, त्यसै गरी हे सर्प, तिमी हौ।
38सर्पले भन्यो — "जो दोषी छ त्यो मबाट मारिनुपर्छ। हे सर्प, तिमी दोषी छौ! निश्चय नै तिमी यो स्वीकार गर्दछौ।" जसरी यी सबै — अर्थात् कुम्हालेको चक्का, दण्ड तथा अन्य वस्तु — स्वतन्त्र कारण होइनन्, त्यसै गरी म पनि स्वतन्त्र कारण होइनँ! त्यसैले यो मेरो दोष होइन, तिमीले यो स्वीकार गर्नुपर्छ।
39यदि तिमी अन्यथा मान्दछौ भने, यिनलाई एक-अर्कासँग मिलेर कार्य गर्ने कारण मानिनुपर्छ। किनभने यसरी एक-अर्कासँग कार्य गर्दा कारण तथा कार्यको रूपमा तिनको सम्बन्धका विषयमा शङ्का उठ्दछ।
40यस्तो अवस्थामा यो मेरो दोष होइन, न मलाई यसै कारण मारिनुपर्छ, न म कुनै पापको दोषी हुँ! अथवा यदि तिमी मान्दछौ कि पाप छ भने, पाप कारणहरूको समुच्चयमा निहित छ।
41व्याधले भन्यो — यदि तिमी यस विषयमा न प्रधान कारण हौ न कर्ता, तैपनि तिमी मृत्युका कारण हौ। त्यसैले मेरो मत छ कि तिमीलाई मारिनुपर्छ।
42हे सर्प, यदि तिमी मान्दछौ कि जब कुनै दुष्कर्म हुन्छ तब कर्ता त्यसमा लिप्त हुँदैन, भने यस विषयमा कुनै कारण हुनै सक्दैन; तर यो गरेर तिमीलाई निश्चय नै मारिनुपर्छ। तिमी यसभन्दा बढी अरू के सोच्दछौ?
43सर्पले भन्यो — प्रधान कारण विद्यमान होस् वा नहोस्, कुनै कार्य (मध्यवर्ती) क्रियाविना हुँदैन। त्यसैले दुवै अवस्थामा कारणताको कुनै महत्त्व नभएकाले, कारणको रूपमा मेरो कर्ममाथि नै पूर्ण विचार हुनुपर्छ।
44हे व्याध, यदि तिमी मलाई नै वास्तवमा कारण मान्दछौ भने, जीवित प्राणीको हत्याको यस कर्मको पाप त्यस अर्कोका काँधमा छ जसले मलाई यो गर्न प्रेरित गर्यो।
45व्याधले भन्यो — हे मूर्ख, तिमी जीवनका योग्य छैनौ, तब हे दुष्ट सर्प, तिमी यति धेरै वचनको आदानप्रदान किन गर्दछौ? तिमी मबाट मारिनुपर्छ। यस शिशुलाई मारेर तिमीले घोर अपराध गरेका छौ।
46सर्पले भन्यो — हे व्याध, जसरी यज्ञमा कार्य गर्ने पुरोहितहरूले अग्निमा घिउका आहुति दिएर त्यस कर्मको पुण्य पाउँदैनन्, त्यसै गरी मलाई यस विषयमा बुझ्नुपर्छ।
47भीष्मले अझ भने — मृत्युद्वारा निर्देशित त्यस सर्पले यो भनेपछि, स्वयं मृत्यु त्यहाँ प्रकट भए र सर्पलाई सम्बोधन गर्दै बोले —
48मृत्युले भने — हे सर्प, कालबाट निर्देशित भएर मैले तिमीलाई यस कार्यमा पठाएँ, र न तिमी यस बालकको मृत्युका कारण हौ, न म।
49जसरी बादलहरू वायुद्वारा यताउता हाँकिन्छन्, त्यसै गरी हे सर्प, म कालद्वारा चलाइन्छु।
50सत्त्व, रजस् अथवा तमस्का सम्पूर्ण प्रभाव कालबाटै उत्पन्न हुन्छन्, जसरी ती सम्पूर्ण प्राणीमा कार्य गर्दछन्।
51स्वर्ग अथवा पृथ्वीका सम्पूर्ण चर तथा अचर प्राणी कालको प्रभावले व्याप्त छन्। हे सर्प, सम्पूर्ण ब्रह्माण्ड कालको यसै प्रभावले व्याप्त छ।
52यस संसारका सम्पूर्ण कर्म तथा सम्पूर्ण निवृत्ति, एवं तिनका सम्पूर्ण परिवर्तन, कालबाट प्रभावित भएकैले हुन्।
53सूर्य, सोम, विष्णु, जल, वायु, शतक्रतु, अग्नि, आकाश, पृथ्वी, मित्र तथा पर्जन्य, अदिति तथा वसुहरू, नदी तथा समुद्र, सम्पूर्ण विद्यमान तथा अविद्यमान वस्तु — सबै कालद्वारा सिर्जना तथा नष्ट गरिन्छन्।
54यो जानेर हे सर्प, तिमी मलाई दोषी किन मान्दछौ? यदि यसका लागि मलाई दोष दिइयो भने, तिमी पनि दोषी हौ।
55सर्पले भन्यो — हे मृत्यु, म न तिमीलाई दोष दिन्छु, न तिमीलाई सम्पूर्ण दोषबाट मुक्त गर्दछु। म केवल यो भन्दछु कि म तिमीद्वारा निर्देशित तथा प्रभावित छु।
56यदि काललाई दोष दिइनुपर्ने हो भने, दोष खोज्नु मेरो काम होइन। हामीलाई त्यसो गर्ने अधिकार छैन।
57जसरी यस दोषबाट आफूलाई मुक्त गर्नु मेरो कर्तव्य हो, त्यसै गरी यो हेर्नु पनि मेरो कर्तव्य हो कि मृत्युलाई दोष नदिइयोस्।
58भीष्मले अझ भने — तब त्यस सर्पले अर्जुनकलाई सम्बोधन गरेर भन्यो — "तिमीले सुनिसक्यौ कि मृत्युले के भने। त्यसैले मलाई, जो निर्दोष छु, यस डोरीले बाँधेर यातना दिनु तिम्रा लागि उचित होइन।"
59व्याधले भन्यो — हे सर्प, मैले तिमीलाई तथा मृत्युका वचन दुवै सुनेको छु, तर हे सर्प, यिनले तिमीलाई सम्पूर्ण दोषबाट मुक्त गर्दैनन्।
60मृत्यु तथा तिमी यस बालकको मृत्युका कारण हौ। म तिमी दुवैलाई कारण मान्दछु र म त्यसलाई कारण भन्दिनँ जो वास्तवमा कारण होइन।
61धिक्कार छ त्यस दुष्ट तथा प्रतिशोधी मृत्युलाई जसले सज्जनहरूलाई दुःख दिन्छ! म तिमीलाई पनि मार्नेछु, जो पापी छौ र पापकर्ममा लागेका छौ।
62मृत्युले भने — हामी दुवै स्वतन्त्र छैनौँ, बरु कालमा निर्भर छौँ, र आफ्नो नियत कार्य गर्न विहित छौँ। यदि तिमीले यस विषयमा राम्ररी विचार गर्यौ भने हामीलाई दोष दिनेछैनौ।
63व्याधले भन्यो — हे सर्प तथा मृत्यु, यदि तिमी दुवै कालमा निर्भर छौ भने, मलाई यो जान्ने उत्सुकता छ कि सुख तथा क्रोध कसरी उत्पन्न हुन्छन्।
64मृत्युले भने — सबै कुरा कालको प्रभावमा हुन्छ। हे व्याध, म पहिले नै भनिसकेको छु कि काल नै सबैको कारण हो र त्यसैले हामी दुवै, कालको प्रभावमा कार्य गर्दै, आफ्नो नियत कार्य गर्दछौँ; र त्यसैले हे व्याध, हामी दुवैलाई तिमीले दोष दिनुहुँदैन।
65भीष्मले भने — तब काल त्यहाँ आइपुग्यो जहाँ धर्मको चर्चा भइरहेको थियो, र त्यहाँ जम्मा भएका सर्प, मृत्यु तथा व्याध अर्जुनकलाई यसरी बोल्यो।
66कालले भन्यो — हे व्याध, न मृत्यु, न यो सर्प, न म कुनै प्राणीको मृत्युको दोषी छु। हामी केवल घटनाका तात्कालिक कारण हौँ। हे अर्जुनक, यस बालकको कर्म नै यस विषयमा हाम्रो क्रियाको उद्दीपक कारण थियो।
67कुनै अन्य कारण थिएन जसबाट यस बालकको मृत्यु भयो। यो आफ्नै कर्मको फलले मारियो।
68यो आफ्नो पूर्वकर्मको फलस्वरूप मृत्यु प्राप्त गर्यो। यसको कर्म नै यसको विनाशको मूल रहेको छ। हामी सबै आ-आफ्नो कर्मको अधीन छौँ।
69कर्म मोक्षमा त्यसै गरी सहायक छ जसरी पुत्रहरू हुन्छन्, र कर्मले नै मानिसमा पुण्य तथा पाप व्यक्त गर्दछ। हामी एक-अर्कालाई प्रेरित गर्दछौँ, र कर्मले पनि एक-अर्कालाई प्रेरित गर्दछन्।
70जसरी मानिसहरूले माटोको एउटा डल्लोबाट जे चाहन्छन् बनाउँछन्, त्यसै गरी मानिसहरूले कर्मबाट विविध फल प्राप्त गर्दछन्।
71जसरी प्रकाश तथा छाया एक-अर्कासँग जोडिएका छन्, त्यसै गरी मानिसहरू आफ्नै कर्मद्वारा कर्मसँग जोडिएका छन्।
72त्यसैले न तिमी, न म, न मृत्यु, न सर्प, न यी वृद्धा ब्राह्मणी — कोही पनि यस बालकको मृत्युको कारण होइन।
73यो स्वयं नै यसको कारण हो। हे राजन्, कालद्वारा यसरी विषय बुझाइएपछि गौतमीले, आफ्नो मनमा यो विश्वास गरेर कि मानिसहरूले आफ्ना कर्मअनुसार भोग्दछन्, अर्जुनकलाई यसरी भनिन्।
74गौतमीले भनिन् — न काल, न मृत्यु, न सर्प यहाँ कारण हो। यो बालक आफ्नै कर्मको फलस्वरूप मृत्यु प्राप्त गरेको हो।
75मैले पनि त्यस्ता कर्म गरेकी छु जसबाट मेरो पुत्र मरेको हो। अब काल तथा मृत्यु यहाँबाट फर्कून्, र हे अर्जुनक, तिमी पनि यस सर्पलाई मुक्त गर।
76भीष्मले अझ भने — तब काल, मृत्यु तथा सर्प आ-आफ्ना स्थानतिर फर्के, र गौतमीलाई तथा व्याधलाई पनि मनमा सान्त्वना मिल्यो।
77हे राजन्, यो सबै सुनेर तिमी सम्पूर्ण शोक त्याग र मनको शान्ति प्राप्त गर! मानिसहरूले आफ्नै कर्मको फलस्वरूप स्वर्ग अथवा नरक प्राप्त गर्दछन्।
78यो अनिष्ट न तिम्रो रचना हो, न दुर्योधनको! पृथ्वीका यी सम्पूर्ण राजा जो मारिएका छन्, त्यो कालको कार्य हो।
79वैशम्पायनले भने — यो सबै सुनेर शक्तिशाली तथा धर्मात्मा युधिष्ठिरलाई मनमा सान्त्वना मिल्यो, र उनले फेरि यसरी सोधे।