मोक्षधर्म पर्व — नित्य कर्म का निर्णय
खण्ड 8 — शान्ति पर्व (2) · अध्याय 93
संस्कृत
1युधिष्ठिर उवाच कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा। सर्वथा कार्यदुर्गेऽस्मिन् भवान् नः परमो गुरुः॥
2भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। चिरकारेस्तु यत् पूर्वं वृत्तमाङ्गिरसे कुले॥
3चिरकारिक भद्रं ते भद्रं ते चिरकारिक। चिरकारी हि मेधावी नापराध्यति कर्मसु॥
4चिरकारी महाप्राज्ञो गौतमस्याभवत् सुतः। चिरेण सर्वकार्याणि विमृश्यार्थान् प्रपद्यते॥
5चिरं स चिन्तयत्यर्थांश्चिरं जाग्रच्चिरं स्वपन्। चिरं कार्याभिपत्तिं च चिरकारी तथोच्यते॥
6अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते। बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना॥
7व्यभिचारे तु कस्मिश्चिद् व्यतिक्रम्यापरान् सुतान्। पित्रोक्तः कुपितेनाथ जहीमां जननीमिति॥
8इत्युक्त्वा स तदा विप्रो गौतमो जपतां वरः। अविमृश्य महाभागो वनमेव जगाम सः॥
9स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः। विमृश्य चिरकारित्वाच्चिन्तयामास वैचिरम्॥
10कथं धर्मच्छलेनास्मिन् निमज्जेयमसाधुवत्।१०॥
11पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम्। अस्वतन्त्रं च पुत्रत्वं किं तु मां नानुपीडयेत॥
12स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत्। पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात्॥
13अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम्। युक्तक्षमावुभावेतौ नातिवर्तेत मां कथम्॥
14पिता ह्यात्मानमाधत्ते जायायां जज्ञिवानिति। शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च॥
15सोऽहं मात्रा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः विज्ञानं मे कथं न स्याद् द्वौ बुद्ध्ये चात्मसम्भवम्॥
16जातकर्मणि यत् प्राह पिता यच्चोपकर्मणि। पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये।१६।।
17गुरुरम्यः परो धर्मः पोषणाध्यापनान्वितः। पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः॥
18प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता। शरीरादीनि देयानि पिता त्वेकः प्रयच्छति॥
19तस्मात् पितुर्वचः कार्यं न विचार्यं कदाचन। पातकान्यपि पूयन्ते पितुः शासनकारिणः॥
20भोग्ये भोज्ये प्रवचने सर्वलोकनिदर्शने। भर्चा चैव समायोगे सीमन्तोन्नयने तथा॥
21पिता धर्म: पिता स्वर्गः पिता हि परमं तपः। पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः॥
22आशिषस्ता भजन्त्येनं परुषं प्राह यत् पिता। निष्कृतिः सर्वपापानां पिता यच्चाभिनन्दति॥
23मुच्यते बन्धनात् पुष्पं फलं वृक्षात् प्रमुच्यते। क्लिश्यन्नपि सुतं स्नेहैः पिता पुत्रं न मुञ्चति॥
24एतद् विचिन्तितं तावत् पुत्रस्य पितृगौरवम्। पिता नाल्पतरं स्थानं चिन्तयिष्यामि मातरम्॥
25यो ह्ययं मयि संघातो मयत्वे पाञ्चभौतिकः। यस्य मे जननी हेतुः पावकस्य यथारणिः॥
26माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः। मातृलोभे सनाथत्वमनाथत्वं विपर्यये॥
27न च शोचति नाप्येनं स्थाविर्यमपकर्षति। श्रिया हीनोऽपि यो गेहमम्बेति प्रतिपद्यते॥
28पुत्रपौत्रोपपन्नोऽपि जननीं यः समाश्रितः। अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत्॥
29समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा। रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः॥
30तदा स वृद्धो भवति तदा भवति दुःखितः। तदा शून्यं जगत् तस्य यदा मात्रा वियुज्यते॥
31नास्ति मातृसमा छाया नास्ति मातृसमा गतिः। नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया॥
32कुक्षिसंधारणाद् धात्री जननाज्जननी स्मृता। अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः॥
33शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम्। चेतनावान् नरो हन्याद् यस्य नासुषिरं शिरः॥
34दम्पत्योः प्राणसंश्लेषे योऽभिसंधिः कृतः किल। तं माता च पिता चेति भूतार्थो मातरि स्थितः॥
35माता जानाति यद्गोत्रं माता जानाति यस्य सः। मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः॥
36पाणिबन्धं स्वयं कृत्वा सह धर्ममुपेत्य च। यदा यास्यन्ति पुरुषाः स्त्रियो नार्हन्ति वाच्यताम्॥
37भरणाद्धि स्त्रियो भर्ता पालनाद्धि पतिस्तथा। गुणस्यास्य निवृत्तौ तु न भर्ता न पुनः पतिः॥
38एवं स्त्री नापरानोति नर एवापराध्यति। व्युच्चरंश्च महादोषं नर एवापराध्यति॥
39स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम्। तस्यात्मना तु सदृशमात्मानं परमं ददौ॥
40नापराधोऽस्ति नारीणां नर एवापराध्यति। सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः॥
41यश्च नोक्तोऽथ निर्देशः स्त्रिया मैथुनतृप्तये। तस्य स्मारयतो व्यक्तमधर्मो नास्ति संशयः॥
42एवं नारी मातरं च गौरवे चाधिके स्थिताम्। अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः॥
43देवतानां समावायमेकस्थं पितरं विदुः। मानां देवातनां च स्नेहादभ्येति मातरम्॥
44एवं विमृशतस्तस्य चिरकारितया बहु। दीर्घ कालो व्यतिक्रान्तस्ततोऽस्याभ्यागमत् पिता॥
45मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः। विमृश्य तेन कालेन पन्याः संस्थाव्यतिक्रमम्॥
46सोऽब्रवीद् भृशंसंतप्तो दुःखेनाश्रूणि वर्तयन्। श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः॥
47आश्रमं मम सम्प्राप्तस्त्रिलोकेशः पुरंदरः। अतिथिव्रतमास्थाय ब्राह्मणं रूपमास्थितः॥
48स मया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः। अर्घ्यं पाद्यं यथान्यायं मया च प्रतिपादितः॥
49परवानस्मि चेत्युक्तः प्रणयिष्यति तेन च। अत्र चाकुशले जाते स्त्रिया नास्ति व्यतिक्रमः॥
50एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः। अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति॥
51ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्व रेतसः। ईर्ष्णया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे॥
52हत्वा साध्वी च नारी च व्यसनित्वाच्च वासिताम्। भर्तव्यत्वेन भार्यां च को न मां तारयिष्यति॥
53अन्तरेण मयाऽऽज्ञप्तश्चिरकारीत्युदारधीः। यद्यद्य चिरकारी स्यात् स मां त्रायेत पातकात्॥
54चिरकारिक भद्रं ते भद्रं ते चिरकारिक। यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः॥
55त्राहि मां मातरं चैव तपो यच्चार्जितं मया। आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः॥
56सहजं चिरकारित्वमतिप्रज्ञतया तव। सफलं तत् तथा तेऽस्तु भवाद्य चिरकारिकः॥
57चिरमाशंसितो मात्रा चिरं गर्भेण धारितः। सफलं चिरकारित्वं कुरु त्वं चिरकारिक॥
58चिरायते च संतापाच्चिरं स्वपिति वारितः। तु :खितः। आवयोश्चिरसंतापादवेक्ष्य चिरकारिकः॥
59एवं स दुःखितो राजन् महर्षिगौतमस्तदा। चिरकारि ददर्शाथ पुत्रं स्थितमथान्तिके॥
60चिरकारी पितरं दृष्ट्वा परमदुः शस्त्रं त्यक्त्वा ततो मूर्धा प्रसादायोपचक्रमे॥
61गौतमस्तं ततो दृष्ट्वा शिरसा पतितं भुवि। पत्नीं चैव निराकारां परामभ्यागमन्मुदम्॥
62न हि सा तेन सम्भेदं पत्नी नीता महात्मना। विजने चाश्रमस्थेन पुत्रश्चापि समाहितः॥
63हन्या इति समादेशः शस्त्रपाणै सुते स्थिते। विनीते प्रसवत्यर्थे विवासे चात्मकर्मसु॥
64बुद्धिशासीत् सुतं दृष्ट्वा पितुरचरणयोर्नतम्। शस्त्रग्रहणचापल्यं संवृणोति भयादिति॥
65ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि। चिरं दो• परिष्वज्य चिरं जीवेत्युदाहृतः॥
66एवं स गौतमः पुत्रं प्रीतिहर्षगुणैर्युतः। अभिनन्द्य महाप्राज्ञ इदं वचनमब्रवीत्॥
67चिरकारिक भद्रं ते चिरकारी चिरं भव। चिराय यदि ते सौम्य चिरमस्मि न दुःखितः॥
68गाथाश्चाप्यब्रवीद् विद्वान् गौतमो मुनिसत्तमः। चिरकारिषु धीरेषु गुणोद्देशसमाश्रयाः॥
69चिरेण मित्रं बघ्नीयाच्चिरेण च कृतं त्यजेत्। चिरेण हि कृतं मित्रं चिरं धारणमर्हति॥
70रागे दर्पे च माने च द्रोहे पापे च कर्मणि। अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते॥
71बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च। अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते॥
72एवं स गौतमस्तत्र प्रीतः पुत्रस्य भारत। कर्मणा तेन कौरव्य चिरकारितया तथा॥
73एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः। चिरेण निश्चयं कृत्वा चिरं न परितप्यते॥
74चिरं धारयते रोष चिरं कर्म नियच्छति। पश्चात्तापकरं कर्म न किंचिदुपपद्यते॥ चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत्। चिरं धर्मं निषेवेत कुर्याच्चान्वेषणं चिरम्॥
75चिरमन्वास्य विदुषश्चिरं शिष्टान् निषेव्य च। चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम्॥
76ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम्। चिरं पृष्टोऽपि च ब्रूयाच्चिरं न परितप्यते॥
77उपास्य बहुलास्तस्मिन्नाश्रमे सुमहातपाः। समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा॥
अंग्रेज़ी
1Yudhishthira said You, O grandfather, are our highest preceptor in the matter of all acts which it is difficult to perform. I ask, how should one judge of an act regarding one's obligation to do it or of abstaining from it? Is it to be judged quickly or with delay?
2Regarding it is cited the old discourse of what took place regarding Chirakarin born in the race of Angirasa.
3Twice blessed be the man who thinks long before he acts! One man who thinks long before he acts is surely possessed of great intelligence. Such a man never offends in an act.
4There was once a highly wise man by name Chirakarin, who was the son of Gautama. Thinking for a long time upon every aspect of proposed acts, he used to do all he had to do.
5He passed by the name of Chirakarin because he used to think long upon all matters, to remain awake for a long time, to sleep for a long time, and to take a long time in performing such acts.
6But still he passed for an idle man. He was also considered as a foolish person, by every person of a light understanding and shorn of foresight.
7On a certain occasion, seeing an act of great fault in his wife, the father Gautama, passing over his other children commanded in anger this Chirakarin, saying,-kill this women!
8Having said these words without much thought, the learned Gautama, that foremost of persons engaged in the practice of Yoga, that highly blessed ascetic, left for the forest.
9Having after a long while assented to it, saying,-So be it,-Chirakarin, on account of his very nature, and owing to his habit of never performing any act without much thought, began to think for a long while.-पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम्।
10How shall I obey the order of my father, and yet how avoid killing my mother? How shall I avoid sinking, like a wicked man, into sin in this plight in which contradictory duties are dragging me into opposite directions?
11Obedience to the orders of the father forms the highest merit. The protection of the mother again is a clear duty. The condition of a son is fraught with dependence. How shall I avoid being affected by sin?
12Who is there that can be happy after having killed a woman, especially his mother? Who again can acquire prosperity and fame by disobeying his own father.
13Regard for the father's order is obligatory. The protection of my mother is equally a duty. How shall I so act that both obligations may be satisfied?
14The father puts his own self within the mother's womb and takes birth as the son, for continuing his practices, conduct, name and race.
15I have been begotten as a son by both my mother and my father. Knowing as I do my own birth, why should I not have this knowledge?
16The words spoken by the father while performing the initial rite consequent upon birth, and those that were spoken by him on the occasion of the subsidiary rite are sufficient (evidence) for settling the respect due to him and, indeed, confirm the respect actually paid to him.
17On account of his bringing up the son and instructing him, the father is the son's foremost of superiors and the highest religion. The very Vedas sanction it as certain that the son should consider what the father says as his highest duty.
18The son is only a source of joy to his father. The father is all in all to a son. The body and all else that the son has he has got from the father alone.
19Hence, the commands of the father should be obeyed without ever questioning them in the least. The very sins of one who obeys his father are cleansed.
20The father is the giver of all articles of enjoyment, of all articles of food, of instructions in the Vedas, and of all other knowledge of the world. The father is the performer of such rites as Garbhadhana (the ceremony for the attainment of puberty by the wife), and Simantonnayana the ceremony performed by the husband in the fourth, sixth, or eighth, month of gestation.
21The father is religion. The father is heaven. The father is the highest penance. The father being pleased all the gods are pleased.
22Whatever words are spoken by the father, become blessings that attach to the son. The words of joy that the father utters purify the son of all his sins.
23The flower is seen to drop down from the stalk. The fruit is seen to drop down from the tree. But the father, in whatever difficulty he may be, moved by parental affection, never leaves the son.
24These then are my thoughts upon the respect due from the son to the father. The father is not an ordinary object to the son, I shall now think upon the mother.
25Of this the mother is the principal cause of those union of the five elements in me due to my birth as a human being, as the fire-sticks of fire.
26The mother is as the fire-stick about the bodies of all men. She is the medicine for all sorts of calamities. The existence of the mother grants protection to one; the reverse deprives one of all protection.
27The man who, thought shorn of prosperity, enters his house uttering the words-0 mother!-does not suffer from grief. Nor does decrepitude ever attack him.
28A person whose mother exists, even if he has sons and grandsons and even if he is a hundred years old, looks like a child of two.
29Able or disabled, lean or robust, the son is always protected by the mother. None else, according to the Scripture, is the son's protector.
30When the mother leaves him then does the son become old, then does he become stricken with grief, then does the world look empty in his eyes.
31There is no shelter like the mother. There is no refuge like the mother. There is no defence like the mother. There is no one dearer than the mother.
32For having borne him in her womb the mother is the son's Dhatri. For having been the principal cause of his birth, she is his Janani. For having reared his young limbs, she is called Amva. For giving birth to a child possessed of courage, she is called Virasu.
33For nursing and loO king after the son, she is called Shushru. The mother is one's own body. What rational man is there who would kill his mother to whose care only his own head did not lie on the street like a dry gourd?
34When husband and wife unite themselves for procreation, the desire for a son is cherished by both, but about its fruition more depends upon the mother than on the father.
35The mother knows the family in which the son is born and the father who has begotten him. From the time of conception the mother beings to show affection to her child and find joy in him. On the other hand, the Scriptures hold that the issue belong to the father only.
36If men, after taking wives and pledging themselves to acquire religious merit without being dissociated from them, seek union with other people's wives, they then cease to deserve respect.
37The husband, because he maintains the wife, is called Bharta, and he is called Pati, because he protects her. When he fails to discharge these two functions, he ceases to both Bhartri and Pati.
38Then again woman can commit no fault. It is man only who commits commits faults. By committing an act of adultery, the man only becomes sullied with sin.
39It has been said that the husband is the highest object with the wife and the highest god to her. My mother resigned her sacred person to one who came to her in the shape of hcr own husband.
40Women can commit no sin. It is man who becomes sullied with sin. Indeed, on account of the natural weakness of the sex as shown in every act, and their liability to solicitation, women cannot be considered as offenders.
41Then again the sinfulness is evident of Indra himself who made the recollection of the request that had been made to him in days of yore by woman. There is no doubt that my mother is sinless.
42She whom I have been ordered to kill is a woman. That woman is again my own mother. She occupies, therefore, a place of greater respect. The very beasts which are irrational, know that the mother should not be killed.
43The father must be known to be a combination of all the gods together. The mother, however, is a combination of all mortal creatures and all the gods.
44On account of his habit of reflecting long before acting, Gautama's son Chirakarin, by thinking thus, passed a long time. After many days, his father Gautama came back.
45Gifted with great wisdom, Medhatithi of Gautama's race. Practising penances, returned, convinced, after having meditated for that long time, of the impropriety of the punishment he had ordered to be inflicted upon his wife.
46Burning with grief and shedding profuse tears, for repentance had come to hiin on account of the wholesome effects of that calmness of temper which is caused by a knowledge of the scriptures, he said:-
47The lord of the three worlds, viz., Purandara, came to my asylum, in the guise of a Brahmana asking for hospitality.
48He was received by me with becoming words, and welcomed and presented in due form with water to wash his feet and the usual offerings of the Arghya. I also gave him the rest he had asked for.
49I further told him that I had acquired a protector in him, I thought that such conduct on my part would make him treat me as a friend. When, however, not-withstanding all this, he misbehaved himself, my wife Ahalya could not be considered to have committed any sin.
50It seems that neither my wife, nor myself, nor Indra himself who while passing through the firmament had seen my wife, could he held to have committed any sin. The blame really is the result of the carelessness of my Yoga power.
51The sages have said that all calamities originate from envy, which, in its turn, springs from mistaken judgement. By that envy, also, I have been dragged from where I was plunged into an ocean of sin.
52Alas, I have killed a woman,-a woman who is again my wife-one, who, on account of her sharing her husband's misfortunes passed by the name of Vasita, one, who was called Bharya owing to my obligation for maintaining her, Who is there who can save me from this sin ?
53Acting carelessly I ordered the great Chirakarin! If on the present occasion he proves true to his name then may he save me from this sin.
54Twice blessed be you, O Chirakarin! If on this occasion you have delayed accomplishing the work, then are you truly worthy of your name!
55Save me, and your mother, and the penances I have won, as also your own self, from grave sins:-Be you truly a Chirakarika to-day!
56Ordinarily, on account of your great wisdom you take a long time for reflection before performing any act. Let not you conduct be otherwise to-day! Be you a true Chirakarika to-day.
57Your mother had expected you coming for a long time. For a long time did she carry you in her womb. O Chirakarika, let your habit of reflecting long before acting yield beneficial results to-day!
58Perhaps, my son Chirakarika is delaying today, anticipating the sorrow it would cause me! Perhaps, he is sleeping over that order, bearing it in his heart. Perhaps, he is delaying, anticipating the grief it would cause both him and me, and thinking upon the circumstances of the case!-
59Repenting in this way, O king, the great Rishi Guatama then saw his son Chirakarin sitting near him.
60Seeing his father return to their house, the son Chirakarin, laden with grief, cast away the weapon and bowing his head began to pacify Gautama.
61Seeing his son prostrated before him with bent head, and seeing also his wife almost petrified with shame, the Rishi became filled with great joy.
62From the time the great Rishi, living in that solitary hermitage did not live separately from his wife or his careful son.
63Having made the command that his wife should be killed he had gone away from his asylum for accomplishing some object of his own. Since then his son had stood in an humble manner, weapon in hand, for satisfying that command on his mother.
64Seeing that son prostrated at his feet, the father thought that, filled with fear, he was asking for pardon for the offence he had perpetrated in taking up a weapon.
65The father praised his son for a long time, and smelt his head for a long time, and embraced him for a long time, and blessed him, uttering the words-Do you live long.
66Then, filled with joy and contented with what had taken place, Gautama, O you of great Wisdom, said to his son.
67Blessed be you, O Chirakarika! Do you always think long before acting! By your delay in carrying out my command you have to-day made me happy for ever!
68That learned and best of Rishis then saying these verses upon the subject of the merits of such cool men as think for a long time before doing any work,-
69If it be the death of a friend, one should perform it after a long time. If one has to give up a project already begun, he should do it after a long time. A friendship that is contracted after a long examination lasts for a long time.
70In yielding to anger, to arrogance, to pride, to disputes, to sinful deeds, and in performing all disagreeable works, he who delays long, deserves praise!
71When the offence is not distinctly proved against a relative, a friend, a servant, or a wife, he who thinks long before inflicting the punishment, is praised.
72Thus, O Bharata, was Gautama pleased with his son, O you of Kuru's race or that act of delay on the latter's part in satisfying the former's order.
73In all deeds a man should, in this wise, think for a long time and then settle what he should do. By acting thus one is sure to avoid grief for a long time.
74That man who nurses his anger for a long time, who thinks long before doing any work, never does any act which produces repentance. One should wait for a long time upon the aged, and sitting near them show them respect. One should satisfy his duties for a long time and be engaged for a long time in determining them.
75Serving for a long time the learned, and reverentially serving for a long time those who are good in conduct and keeping one's soul for a long while under proper control, one succeeds in enjoying the respect of the world for a long time.
76One instructing others on the subject of religion and duty, should, when asked by another for information on those subjects, take a long time to think before giving an answer. He will not then repent.
77Regarding Gautama of austere penances, that Rishi, having worshipped the gods for a long while in that asylum of his, at last went up to heaven with his son.
हिन्दी
1युधिष्ठिर ने कहा — हे पितामह, जो कर्म करने में कठिन हैं, उन सबके विषय में आप ही हमारे परम गुरु हैं। मैं पूछता हूँ, किसी कर्म को करने अथवा उससे विरत रहने के अपने कर्तव्य का निर्णय मनुष्य कैसे करे? क्या वह शीघ्र किया जाए अथवा विलम्ब से?
2इस विषय में अंगिरा के वंश में उत्पन्न चिरकारी के सम्बन्ध में जो हुआ था, उस प्राचीन प्रवचन का उल्लेख किया जाता है।
3उस मनुष्य का दो बार कल्याण हो जो कर्म करने से पहले दीर्घकाल तक विचार करता है! जो कर्म से पूर्व दीर्घ विचार करता है, वह निश्चय ही महान् बुद्धि से सम्पन्न है। ऐसा पुरुष कर्म में कभी अपराध नहीं करता।
4पूर्वकाल में चिरकारी नामक एक परम बुद्धिमान् पुरुष था, जो गौतम का पुत्र था। प्रस्तावित कर्मों के प्रत्येक पक्ष पर दीर्घकाल तक विचार करके ही वह अपने सब कार्य करता था।
5वह चिरकारी नाम से इसलिए प्रसिद्ध हुआ क्योंकि वह सब विषयों पर दीर्घकाल तक विचार करता, दीर्घकाल तक जागता, दीर्घकाल तक सोता और ऐसे कर्मों को करने में दीर्घ समय लेता था।
6फिर भी वह आलसी माना जाता था। हल्की बुद्धि वाले और दूरदर्शिता से रहित प्रत्येक पुरुष उसे मूर्ख भी समझता था।
7एक अवसर पर अपनी पत्नी का महान् दोषपूर्ण कर्म देखकर पिता गौतम ने अपने अन्य पुत्रों को छोड़कर इसी चिरकारी को क्रोध में आदेश दिया — 'इस स्त्री का वध कर दो!'
8बिना अधिक विचार किए ये वचन कहकर योगाभ्यास में लगे पुरुषों में श्रेष्ठ, परम भाग्यशाली तपस्वी विद्वान् गौतम वन को चले गए।
9दीर्घकाल के पश्चात् 'ऐसा ही हो' कहकर उस आदेश को स्वीकार करने पर चिरकारी अपने स्वभाव के कारण तथा बिना बहुत सोचे कोई कर्म न करने की अपनी आदत के कारण दीर्घकाल तक विचार करने लगा — पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम्।
10'मैं अपने पिता की आज्ञा का पालन कैसे करूँ, और फिर भी माता का वध करने से कैसे बचूँ? इस दशा में, जहाँ परस्पर विरोधी कर्तव्य मुझे विपरीत दिशाओं में खींच रहे हैं, मैं दुष्ट पुरुष के समान पाप में डूबने से कैसे बचूँ?'
11'पिता की आज्ञा का पालन परम पुण्य है। और माता की रक्षा स्पष्ट कर्तव्य है। पुत्र की स्थिति परतन्त्रता से भरी है। मैं पाप से लिप्त होने से कैसे बचूँ?'
12'स्त्री का, और वह भी अपनी माता का वध करके कौन सुखी रह सकता है? और अपने ही पिता की अवज्ञा करके कौन समृद्धि और यश पा सकता है?'
13'पिता की आज्ञा का मान रखना अनिवार्य है। मेरी माता की रक्षा भी उतना ही कर्तव्य है। मैं ऐसा क्या करूँ कि दोनों कर्तव्य पूरे हों?'
14'पिता अपने ही स्वरूप को माता के गर्भ में स्थापित करता है और अपने आचार, चरित्र, नाम और वंश को चलाने के लिए पुत्र-रूप में जन्म लेता है।'
15'मैं अपनी माता और अपने पिता — दोनों से पुत्र-रूप में उत्पन्न हुआ हूँ। जब मैं अपने ही जन्म को जानता हूँ, तब यह ज्ञान मुझे क्यों न हो?'
16'जन्म के पश्चात् होने वाले प्रारम्भिक संस्कार के समय पिता ने जो वचन कहे, तथा गौण संस्कार के अवसर पर उसने जो कहा — वे ही उसके प्रति देय आदर को निश्चित करने के लिए पर्याप्त प्रमाण हैं और सचमुच उसे दिए गए आदर की पुष्टि करते हैं।'
17'पुत्र का पालन-पोषण और शिक्षा देने के कारण पिता ही पुत्र का सर्वश्रेष्ठ गुरु और परम धर्म है। स्वयं वेद भी इसे निश्चित मानकर अनुमोदन करते हैं कि पुत्र पिता के वचन को अपना परम कर्तव्य माने।'
18'पुत्र तो पिता के लिए केवल आनन्द का स्रोत है। किन्तु पिता पुत्र के लिए सर्वस्व है। शरीर और जो कुछ पुत्र के पास है, वह सब उसने पिता से ही पाया है।'
19'अतः पिता की आज्ञाओं का पालन तनिक भी प्रश्न किए बिना करना चाहिए। जो पिता की आज्ञा मानता है, उसके पाप तक धुल जाते हैं।'
20'पिता ही समस्त भोग्य वस्तुओं का, समस्त अन्न का, वेदों की शिक्षा का और संसार के अन्य समस्त ज्ञान का दाता है। पिता ही गर्भाधान (पत्नी की यौवन-प्राप्ति के लिए किया जाने वाला संस्कार) और सीमन्तोन्नयन (गर्भ के चौथे, छठे अथवा आठवें मास में पति द्वारा किया जाने वाला संस्कार) जैसे संस्कारों का कर्ता है।'
21'पिता ही धर्म है। पिता ही स्वर्ग है। पिता ही परम तप है। पिता के प्रसन्न होने पर समस्त देवता प्रसन्न होते हैं।'
22'पिता जो-जो वचन कहता है, वे पुत्र से जुड़े आशीर्वाद बन जाते हैं। पिता जो हर्ष के वचन कहता है, वे पुत्र को उसके समस्त पापों से शुद्ध कर देते हैं।'
23'फूल डंठल से गिरता हुआ देखा जाता है। फल वृक्ष से गिरता हुआ देखा जाता है। किन्तु पिता चाहे कितनी ही कठिनाई में हो, वात्सल्य से प्रेरित होकर पुत्र को कभी नहीं त्यागता।'
24'पुत्र के द्वारा पिता को दिए जाने वाले आदर के विषय में मेरे ये विचार हैं। पिता पुत्र के लिए कोई साधारण वस्तु नहीं है। अब मैं माता के विषय में विचार करूँगा।'
25'मनुष्य-रूप में मेरे जन्म के कारण मुझमें जो पाँच भूतों का संयोग हुआ है, उसका प्रधान कारण माता ही है — जैसे अग्नि की अरणियाँ अग्नि का कारण होती हैं।'
26'माता समस्त मनुष्यों के शरीरों के लिए अरणि के समान है। वह सब प्रकार की विपत्तियों की ओषधि है। माता का होना मनुष्य को रक्षा देता है; उसका न होना मनुष्य को समस्त रक्षा से वंचित कर देता है।'
27'जो पुरुष समृद्धि से रहित होकर भी "हे माँ!" कहता हुआ अपने घर में प्रवेश करता है, वह शोक नहीं भोगता। न जरा ही उस पर आक्रमण करती है।'
28'जिसकी माता जीवित है, वह पुत्र और पौत्रों वाला होने पर भी और सौ वर्ष का हो जाने पर भी दो वर्ष के बालक के समान दिखता है।'
29'समर्थ हो या असमर्थ, दुबला हो या हृष्ट-पुष्ट — पुत्र की रक्षा सदा माता ही करती है। शास्त्र के अनुसार पुत्र का और कोई रक्षक नहीं है।'
30'जब माता उसे छोड़ जाती है, तभी पुत्र बूढ़ा होता है, तभी वह शोक से ग्रस्त होता है, तभी उसकी दृष्टि में संसार सूना हो जाता है।'
31'माता के समान कोई आश्रय नहीं। माता के समान कोई शरण नहीं। माता के समान कोई रक्षा नहीं। माता से बढ़कर कोई प्रिय नहीं।'
32'गर्भ में धारण करने के कारण माता पुत्र की "धात्री" है। उसके जन्म का प्रधान कारण होने से वह "जननी" है। उसके कोमल अंगों का पालन करने के कारण वह "अम्बा" कहलाती है। पराक्रमी सन्तान को जन्म देने के कारण वह "वीरसू" कहलाती है।'
33'पुत्र की सेवा और देखभाल करने के कारण वह "शुश्रू" कहलाती है। माता मनुष्य का अपना ही शरीर है। ऐसा कौन विवेकी पुरुष होगा जो उस माता का वध करे, जिसकी देखभाल से ही उसका अपना सिर सूखी लौकी के समान सड़क पर नहीं पड़ा रहा?'
34'जब पति और पत्नी सन्तान उत्पन्न करने के लिए मिलते हैं, तब पुत्र की कामना दोनों करते हैं; किन्तु उसकी सिद्धि पिता से अधिक माता पर निर्भर करती है।'
35'माता जानती है कि पुत्र किस कुल में जन्मा है और उसे किस पिता ने उत्पन्न किया। गर्भधारण के समय से ही माता अपने बालक पर स्नेह करने लगती है और उसमें आनन्द पाती है। दूसरी ओर, शास्त्र मानते हैं कि सन्तान केवल पिता की होती है।'
36'यदि पुरुष विवाह करके और अपनी पत्नियों से विलग न होकर धर्म-संचय की प्रतिज्ञा करके भी दूसरों की स्त्रियों से संग करें, तो वे आदर के योग्य नहीं रह जाते।'
37'पति पत्नी का भरण-पोषण करता है, इसीलिए वह "भर्ता" कहलाता है; और उसकी रक्षा करता है, इसीलिए "पति" कहलाता है। जब वह इन दोनों कर्तव्यों का पालन नहीं करता, तब वह न भर्ता रह जाता है, न पति।'
38'फिर, स्त्री कोई दोष कर ही नहीं सकती। दोष तो केवल पुरुष करता है। व्यभिचार का कर्म करके पुरुष ही पाप से लिप्त होता है।'
39'कहा गया है कि पति ही पत्नी के लिए परम आश्रय और परम देवता है। मेरी माता ने अपना पवित्र शरीर उसे सौंपा जो उसके अपने पति के रूप में उसके पास आया था।'
40'स्त्रियाँ कोई पाप नहीं कर सकतीं। पाप से लिप्त पुरुष ही होता है। सचमुच, प्रत्येक कर्म में दिखाई देने वाली उस लिंग की स्वाभाविक दुर्बलता के कारण और उनके प्रलोभन में आ जाने की सम्भावना के कारण स्त्रियों को अपराधी नहीं माना जा सकता।'
41'फिर, स्वयं इन्द्र का पाप स्पष्ट है, जिसने प्राचीन काल में किसी स्त्री द्वारा उससे की गई याचना का स्मरण किया। इसमें सन्देह नहीं कि मेरी माता निष्पाप है।'
42'जिसका वध करने का मुझे आदेश हुआ है वह एक स्त्री है। और वह स्त्री मेरी अपनी माता है। अतः वह और भी अधिक आदर के स्थान पर है। जो पशु विवेकहीन हैं, वे तक जानते हैं कि माता का वध नहीं करना चाहिए।'
43'पिता को समस्त देवताओं का समुच्चय जानना चाहिए। किन्तु माता समस्त मर्त्य प्राणियों और समस्त देवताओं — दोनों का समुच्चय है।'
44कर्म से पहले दीर्घकाल तक विचार करने की अपनी आदत के कारण गौतम-पुत्र चिरकारी ने इस प्रकार सोचते हुए बहुत समय बिता दिया। अनेक दिनों के पश्चात् उसके पिता गौतम लौट आए।
45महान् बुद्धि से सम्पन्न, गौतम-वंश के मेधातिथि तप करते हुए इतने लम्बे समय तक विचार करने के पश्चात् इस निश्चय पर पहुँचकर लौटे कि उन्होंने अपनी पत्नी को जो दण्ड देने का आदेश दिया था वह अनुचित था।
46शोक से जलते हुए और प्रचुर आँसू बहाते हुए — क्योंकि शास्त्र-ज्ञान से उत्पन्न होने वाली उस चित्त-शान्ति के शुभ प्रभाव से उन्हें पश्चात्ताप हो आया था — उन्होंने कहा —
47'तीनों लोकों के स्वामी पुरन्दर ब्राह्मण का वेश धारण करके आतिथ्य माँगते हुए मेरे आश्रम में आए।'
48'मैंने उनका यथोचित वचनों से स्वागत किया, विधिपूर्वक पाद्य-जल और अर्घ्य की सामान्य भेंटें अर्पित कीं। उन्होंने जो विश्राम माँगा, वह भी मैंने दिया।'
49'मैंने उनसे यह भी कहा कि मुझे उनमें एक रक्षक मिल गया है। मैंने सोचा था कि मेरे इस आचरण से वे मुझे मित्र मानेंगे। किन्तु जब इतना सब होने पर भी उन्होंने दुराचार किया, तब मेरी पत्नी अहल्या को कोई पाप करने वाली नहीं माना जा सकता।'
50'मुझे लगता है कि न मेरी पत्नी, न मैं, और न स्वयं इन्द्र — जिसने आकाश-मार्ग से जाते हुए मेरी पत्नी को देखा था — कोई भी पाप करने वाला नहीं माना जा सकता। दोष वस्तुतः मेरी योग-शक्ति के प्रमाद का परिणाम है।'
51'मुनियों ने कहा है कि समस्त विपत्तियाँ ईर्ष्या से उत्पन्न होती हैं, और ईर्ष्या स्वयं भ्रान्त विचार से जन्म लेती है। उसी ईर्ष्या ने मुझे भी वहाँ से खींचकर पाप के समुद्र में डुबो दिया।'
52'हाय, मैंने एक स्त्री का वध कर दिया — और वह स्त्री मेरी ही पत्नी थी! वही, जो पति की विपत्तियों में भागी होने के कारण "वसिता" नाम से जानी जाती थी; वही, जो मेरे द्वारा भरण-पोषण किए जाने के कारण "भार्या" कहलाती थी। कौन है जो मुझे इस पाप से बचा सके?'
53'प्रमाद में पड़कर मैंने महान् चिरकारी को आदेश दे दिया! यदि इस अवसर पर वह अपने नाम को सार्थक कर दे, तो वही मुझे इस पाप से बचा सकता है।'
54'हे चिरकारी, तुम्हारा दो बार कल्याण हो! यदि इस अवसर पर तुमने उस कार्य को पूरा करने में विलम्ब किया है, तो तुम सचमुच अपने नाम के योग्य हो!'
55'मुझे, अपनी माता को, मेरे अर्जित तप को और स्वयं अपने को भी घोर पापों से बचा लो — आज तुम सचमुच "चिरकारिक" बनो!'
56'सामान्यतः अपनी महान् बुद्धि के कारण तुम कोई कर्म करने से पहले विचार में दीर्घ समय लेते हो। आज तुम्हारा आचरण उससे भिन्न न हो! आज तुम सच्चे चिरकारिक बनो।'
57'तुम्हारी माता ने दीर्घकाल तक तुम्हारे आने की प्रतीक्षा की थी। दीर्घकाल तक उसने तुम्हें अपने गर्भ में धारण किया। हे चिरकारिक, आज तुम्हारी कर्म से पहले दीर्घ विचार करने की आदत कल्याणकारी फल दे!'
58'सम्भव है मेरा पुत्र चिरकारिक आज इसलिए विलम्ब कर रहा हो कि उसे उस दुःख का अनुमान हो जो मुझे होगा! सम्भव है वह उस आदेश को हृदय में धारण किए हुए उस पर सो रहा हो। सम्भव है वह इसलिए विलम्ब कर रहा हो कि उसे उस शोक का अनुमान हो जो उसे और मुझे — दोनों को होगा, और वह प्रसंग की समस्त परिस्थितियों पर विचार कर रहा हो!' —
59हे राजन्, इस प्रकार पश्चात्ताप करते हुए महर्षि गौतम ने तब अपने पुत्र चिरकारी को अपने पास बैठा हुआ देखा।
60अपने पिता को घर लौटा देखकर शोक से भरे पुत्र चिरकारी ने शस्त्र फेंक दिया और सिर झुकाकर गौतम को प्रसन्न करने लगा।
61अपने पुत्र को सिर झुकाए हुए अपने सामने प्रणत देखकर और अपनी पत्नी को भी लज्जा से लगभग पत्थर बनी हुई देखकर ऋषि महान् हर्ष से भर गए।
62उस समय से वे महर्षि उस एकान्त आश्रम में रहते हुए न अपनी पत्नी से अलग रहे, न अपने विचारशील पुत्र से।
63अपनी पत्नी के वध की आज्ञा देकर वे अपना कोई प्रयोजन सिद्ध करने के लिए आश्रम से चले गए थे। तब से उनका पुत्र हाथ में शस्त्र लिए हुए विनम्र भाव से खड़ा था, ताकि अपनी माता के विषय में उस आज्ञा को पूरा कर सके।
64अपने पुत्र को चरणों में प्रणत देखकर पिता ने समझा कि वह भय से भरकर शस्त्र उठाने के अपराध के लिए क्षमा माँग रहा है।
65पिता ने दीर्घकाल तक अपने पुत्र की प्रशंसा की, दीर्घकाल तक उसका सिर सूँघा, दीर्घकाल तक उसे गले लगाया और 'तुम दीर्घायु हो' — ये वचन कहकर उसे आशीर्वाद दिया।
66तब हे महाबुद्धिमान्, जो हुआ था उससे हर्ष और सन्तोष से भरकर गौतम ने अपने पुत्र से कहा।
67'हे चिरकारिक, तुम्हारा कल्याण हो! तुम कर्म से पहले सदा दीर्घकाल तक विचार किया करो! मेरी आज्ञा पूरी करने में विलम्ब करके तुमने आज मुझे सदा के लिए सुखी कर दिया!'
68तब उन विद्वान् ऋषिश्रेष्ठ ने ऐसे शान्त-चित्त पुरुषों के गुणों के विषय में, जो कोई कार्य करने से पहले दीर्घकाल तक विचार करते हैं, ये श्लोक कहे —
69'यदि किसी मित्र का वध करना हो, तो वह दीर्घकाल के विचार के पश्चात् करना चाहिए। यदि आरम्भ किए हुए किसी कार्य को त्यागना हो, तो वह भी दीर्घकाल के पश्चात् करना चाहिए। दीर्घ परीक्षा के पश्चात् की गई मैत्री दीर्घकाल तक टिकती है।'
70'क्रोध में, अहंकार में, अभिमान में, विवाद में, पापकर्मों में और समस्त अप्रिय कार्यों को करने में जो दीर्घ विलम्ब करता है, वही प्रशंसा के योग्य है!'
71'जब किसी सम्बन्धी, मित्र, सेवक अथवा पत्नी का अपराध स्पष्ट रूप से सिद्ध न हो, तब जो दण्ड देने से पहले दीर्घकाल तक विचार करता है, वही प्रशंसित होता है।'
72हे भरतश्रेष्ठ, हे कुरुवंशी, इस प्रकार गौतम अपने पुत्र पर, अपनी आज्ञा पूरी करने में उसके उस विलम्ब के कारण, प्रसन्न हुए।
73समस्त कर्मों में मनुष्य को इसी प्रकार दीर्घकाल तक विचार करके तब निश्चय करना चाहिए कि उसे क्या करना है। ऐसा करने से मनुष्य निश्चय ही दीर्घकाल तक शोक से बचा रहता है।
74जो पुरुष अपने क्रोध को दीर्घकाल तक भीतर ही रखता है, जो कोई कार्य करने से पहले दीर्घकाल तक विचार करता है, वह कभी ऐसा कर्म नहीं करता जिससे पश्चात्ताप हो। मनुष्य को वृद्धों की दीर्घकाल तक सेवा करनी चाहिए और उनके निकट बैठकर उनका आदर करना चाहिए। मनुष्य को दीर्घकाल तक अपने कर्तव्यों का पालन करना चाहिए और उन्हें निश्चित करने में दीर्घकाल तक लगे रहना चाहिए।
75विद्वानों की दीर्घकाल तक सेवा करके, सदाचारी पुरुषों की दीर्घकाल तक श्रद्धापूर्वक सेवा करके और अपने चित्त को दीर्घकाल तक भलीभाँति संयम में रखकर मनुष्य दीर्घकाल तक संसार का आदर पाने में सफल होता है।
76जो दूसरों को धर्म और कर्तव्य का उपदेश देता है, उसे जब कोई इन विषयों पर जानकारी पूछे, तब उत्तर देने से पहले दीर्घकाल तक विचार करना चाहिए। तब उसे पश्चात्ताप नहीं होगा।
77उग्र तपस्या वाले गौतम की बात है — उन ऋषि ने अपने उस आश्रम में दीर्घकाल तक देवताओं की उपासना करके अन्ततः अपने पुत्र सहित स्वर्ग को प्रयाण किया।
नेपाली
1युधिष्ठिरले भने — हे पितामह, जुन कर्म गर्न कठिन छन्, ती सबैका विषयमा तपाईं नै हाम्रा परम गुरु हुनुहुन्छ। म सोध्छु, कुनै कर्म गर्ने वा त्यसबाट विरत रहने आफ्नो कर्तव्यको निर्णय मानिसले कसरी गरोस्? के त्यो चाँडै गरियोस् कि ढिलो?
2यस विषयमा अङ्गिराको वंशमा जन्मेका चिरकारीसम्बन्धी जे भएको थियो, त्यस प्राचीन प्रवचनको उल्लेख गरिन्छ।
3त्यस मानिसको दुई पटक कल्याण होस् जसले कर्म गर्नुअघि लामो समय विचार गर्छ! जसले कर्मअघि लामो विचार गर्छ, ऊ निश्चय नै महान् बुद्धिले सम्पन्न छ। त्यस्तो पुरुषले कर्ममा कहिल्यै अपराध गर्दैन।
4पूर्वकालमा चिरकारी नाम गरेका एक परम बुद्धिमान् पुरुष थिए, जो गौतमका छोरा थिए। प्रस्तावित कर्मका प्रत्येक पक्षमा लामो समय विचार गरेर मात्रै तिनी आफ्ना सबै काम गर्थे।
5तिनी चिरकारी नामले प्रसिद्ध भए किनभने तिनी सबै विषयमा लामो समय विचार गर्थे, लामो समय जाग्थे, लामो समय सुत्थे र त्यस्ता कर्म गर्नमा लामो समय लिन्थे।
6तैपनि तिनी अल्छी ठानिन्थे। हल्का बुद्धि भएका र दूरदर्शिताविहीन प्रत्येक पुरुषले तिनलाई मूर्ख पनि ठान्थे।
7एक अवसरमा आफ्नी पत्नीको महान् दोषपूर्ण कर्म देखेर पिता गौतमले आफ्ना अरू छोरालाई छोडेर यिनै चिरकारीलाई क्रोधमा आदेश दिए — 'यस स्त्रीको वध गरिदेऊ!'
8धेरै विचार नगरी यी वचन भनेर योगाभ्यासमा लागेका पुरुषहरूमा श्रेष्ठ, परम भाग्यशाली तपस्वी विद्वान् गौतम वनतर्फ लागे।
9लामो समयपछि 'त्यसै होस्' भनी त्यो आदेश स्वीकार गरेपछि चिरकारी आफ्नो स्वभावका कारण तथा धेरै नसोची कुनै कर्म नगर्ने आफ्नो बानीका कारण लामो समय विचार गर्न थाले — पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम्।
10'म आफ्ना पिताको आज्ञाको पालन कसरी गरूँ, र तैपनि आमाको वध गर्नबाट कसरी बचूँ? यस दशामा, जहाँ परस्पर विरोधी कर्तव्यले मलाई विपरीत दिशामा तानिरहेका छन्, म दुष्ट पुरुषझैँ पापमा डुब्नबाट कसरी बचूँ?'
11'पिताको आज्ञाको पालन परम पुण्य हो। अनि आमाको रक्षा स्पष्ट कर्तव्य हो। छोराको स्थिति परतन्त्रताले भरिएको छ। म पापले लिप्त हुनबाट कसरी बचूँ?'
12'स्त्रीको, र त्यो पनि आफ्नी आमाको वध गरेर को सुखी रहन सक्छ? अनि आफ्नै पिताको अवज्ञा गरेर को समृद्धि र यश पाउन सक्छ?'
13'पिताको आज्ञाको मान राख्नु अनिवार्य छ। मेरी आमाको रक्षा पनि त्यत्तिकै कर्तव्य हो। म के गरूँ कि दुवै कर्तव्य पूरा होऊन्?'
14'पिताले आफ्नै स्वरूपलाई आमाको गर्भमा स्थापना गर्छ र आफ्नो आचार, चरित्र, नाम र वंश चलाउनका लागि छोराका रूपमा जन्म लिन्छ।'
15'म आफ्नी आमा र आफ्ना पिता — दुवैबाट छोराका रूपमा जन्मेको हुँ। जब म आफ्नै जन्मलाई जान्दछु, तब यो ज्ञान मलाई किन नहोस्?'
16'जन्मपछि हुने प्रारम्भिक संस्कारका बेला पिताले जुन वचन भने, तथा गौण संस्कारका अवसरमा उनले जे भने — तिनै उनीप्रति दिइनुपर्ने आदर निश्चित गर्न पर्याप्त प्रमाण हुन् र साँच्चै उनलाई दिइएको आदरको पुष्टि गर्छन्।'
17'छोराको पालनपोषण र शिक्षा दिएका कारण पिता नै छोराका सर्वश्रेष्ठ गुरु र परम धर्म हुन्। स्वयं वेदले पनि यसलाई निश्चित मानी अनुमोदन गर्छन् कि छोराले पिताको वचनलाई आफ्नो परम कर्तव्य ठानोस्।'
18'छोरा त पिताका लागि केवल आनन्दको स्रोत हो। तर पिता छोराका लागि सर्वस्व हुन्। शरीर र जे-जति छोरासँग छ, ती सबै उसले पिताबाटै पाएको हो।'
19'त्यसैले पिताका आज्ञाको पालन अलिकति पनि प्रश्न नगरी गर्नुपर्छ। जसले पिताको आज्ञा मान्छ, उसका पापसमेत पखालिन्छन्।'
20'पिता नै सम्पूर्ण भोग्य वस्तुका, सम्पूर्ण अन्नका, वेदको शिक्षाका र संसारका अन्य सम्पूर्ण ज्ञानका दाता हुन्। पिता नै गर्भाधान (पत्नीको यौवनप्राप्तिका लागि गरिने संस्कार) र सीमन्तोन्नयन (गर्भको चौथो, छैटौँ वा आठौँ महिनामा पतिले गर्ने संस्कार) जस्ता संस्कारका कर्ता हुन्।'
21'पिता नै धर्म हुन्। पिता नै स्वर्ग हुन्। पिता नै परम तप हुन्। पिता प्रसन्न भएपछि सम्पूर्ण देवता प्रसन्न हुन्छन्।'
22'पिताले जे-जे वचन भन्छन्, ती छोरासँग जोडिएका आशीर्वाद बन्छन्। पिताले भन्ने हर्षका वचनले छोरालाई उसका सम्पूर्ण पापबाट शुद्ध पार्छन्।'
23'फूल हाँगाबाट झरेको देखिन्छ। फल रूखबाट झरेको देखिन्छ। तर पिता जतिसुकै कठिनाइमा भए पनि वात्सल्यले प्रेरित भई छोरालाई कहिल्यै त्याग्दैनन्।'
24'छोराद्वारा पितालाई दिइने आदरका विषयमा मेरा यी विचार छन्। पिता छोराका लागि कुनै साधारण वस्तु होइनन्। अब म आमाका विषयमा विचार गर्नेछु।'
25'मानिसका रूपमा मेरो जन्मका कारण ममा जुन पाँच भूतको संयोग भएको छ, त्यसको प्रधान कारण आमा नै हुन् — जसरी अग्निका अरणी अग्निका कारण हुन्छन्।'
26'आमा सम्पूर्ण मानिसका शरीरका लागि अरणीसमान हुन्। उनी सबै प्रकारका विपत्तिको औषधि हुन्। आमाको हुनुले मानिसलाई रक्षा दिन्छ; उनको नहुनुले मानिसलाई सम्पूर्ण रक्षाबाट वञ्चित गर्छ।'
27'जुन पुरुष समृद्धिविहीन भएर पनि "हे आमा!" भन्दै आफ्नो घरमा पस्छ, ऊ शोक भोग्दैन। न जराले नै उसमाथि आक्रमण गर्छ।'
28'जसकी आमा जीवित छिन्, ऊ छोरा र नाति भएको तथा सय वर्षको भइसकेको भए पनि दुई वर्षको बालकजस्तै देखिन्छ।'
29'समर्थ होस् या असमर्थ, दुब्लो होस् या हृष्टपुष्ट — छोराको रक्षा सधैँ आमाले नै गर्छिन्। शास्त्रअनुसार छोराको अरू कोही रक्षक छैन।'
30'जब आमाले उसलाई छोडेर जान्छिन्, तब मात्र छोरा बूढो हुन्छ, तब मात्र ऊ शोकले ग्रस्त हुन्छ, तब मात्र उसको दृष्टिमा संसार सुनसान हुन्छ।'
31'आमाजस्तो कुनै आश्रय छैन। आमाजस्तो कुनै शरण छैन। आमाजस्तो कुनै रक्षा छैन। आमाभन्दा प्रिय कोही छैन।'
32'गर्भमा धारण गरेकाले आमा छोराकी "धात्री" हुन्। उसको जन्मको प्रधान कारण भएकाले उनी "जननी" हुन्। उसका कोमल अङ्गको पालन गरेकाले उनी "अम्बा" कहलिन्छिन्। पराक्रमी सन्तान जन्माएकाले उनी "वीरसू" कहलिन्छिन्।'
33'छोराको सेवा र हेरचाह गरेकाले उनी "शुश्रू" कहलिन्छिन्। आमा मानिसको आफ्नै शरीर हुन्। त्यस्तो कुन विवेकी पुरुष होला जसले त्यस आमाको वध गरोस्, जसको हेरचाहले नै उसको आफ्नै टाउको सुकेको लौकाझैँ बाटोमा लडेन?'
34'जब पति र पत्नी सन्तान उत्पन्न गर्न मिल्छन्, तब छोराको कामना दुवैले गर्छन्; तर त्यसको सिद्धि पिताभन्दा बढी आमामा निर्भर हुन्छ।'
35'आमालाई थाहा हुन्छ कि छोरा कुन कुलमा जन्मेको हो र उसलाई कुन पिताले जन्माएका हुन्। गर्भधारणकै बेलादेखि आमाले आफ्नो बालकप्रति स्नेह गर्न थाल्छिन् र त्यसैमा आनन्द पाउँछिन्। अर्कोतर्फ, शास्त्रले मान्छ कि सन्तान केवल पिताको हुन्छ।'
36'यदि पुरुषले विवाह गरेर र आफ्ना पत्नीबाट अलग नभई धर्मसञ्चयको प्रतिज्ञा गरेर पनि अरूका स्त्रीसँग सङ्ग गर्छन् भने तिनीहरू आदरयोग्य रहँदैनन्।'
37'पतिले पत्नीको भरणपोषण गर्छ, त्यसैले ऊ "भर्ता" कहलिन्छ; र उनको रक्षा गर्छ, त्यसैले "पति" कहलिन्छ। जब ऊ यी दुवै कर्तव्यको पालन गर्दैन, तब ऊ न भर्ता रहन्छ, न पति।'
38'फेरि, स्त्रीले कुनै दोष गर्नै सक्दिनन्। दोष त केवल पुरुषले गर्छ। व्यभिचारको कर्म गरेर पुरुष नै पापले लिप्त हुन्छ।'
39'भनिएको छ कि पति नै पत्नीका लागि परम आश्रय र परम देवता हुन्। मेरी आमाले आफ्नो पवित्र शरीर त्यसैलाई सुम्पिन् जो उनका आफ्नै पतिको रूपमा उनीकहाँ आएको थियो।'
40'स्त्रीहरूले कुनै पाप गर्न सक्दैनन्। पापले लिप्त पुरुष नै हुन्छ। साँच्चै, प्रत्येक कर्ममा देखिने त्यस लिङ्गको स्वाभाविक दुर्बलताका कारण र तिनीहरू प्रलोभनमा पर्न सक्ने सम्भावनाका कारण स्त्रीलाई अपराधी मान्न सकिँदैन।'
41'फेरि, स्वयं इन्द्रको पाप स्पष्ट छ, जसले प्राचीन कालमा कुनै स्त्रीले उनीसँग गरेको याचनाको स्मरण गरे। यसमा सन्देह छैन कि मेरी आमा निष्पाप छिन्।'
42'जसको वध गर्ने मलाई आदेश भएको छ, ती एक स्त्री हुन्। र ती स्त्री मेरी आफ्नै आमा हुन्। त्यसैले उनी अझ बढी आदरको स्थानमा छिन्। जुन पशु विवेकहीन छन्, तिनले समेत जान्दछन् कि आमाको वध गर्नु हुँदैन।'
43'पितालाई सम्पूर्ण देवताको समुच्चय जान्नुपर्छ। तर आमा सम्पूर्ण मर्त्य प्राणी र सम्पूर्ण देवता — दुवैको समुच्चय हुन्।'
44कर्मअघि लामो समय विचार गर्ने आफ्नो बानीका कारण गौतमपुत्र चिरकारीले यसरी सोच्दै धेरै समय बिताए। धेरै दिनपछि तिनका पिता गौतम फर्केर आए।
45महान् बुद्धिले सम्पन्न, गौतमवंशका मेधातिथि तप गर्दै यति लामो समय विचार गरेपछि यो निश्चयमा पुगेर फर्के कि उनले आफ्नी पत्नीलाई जुन दण्ड दिने आदेश दिएका थिए त्यो अनुचित थियो।
46शोकले जल्दै र प्रशस्त आँसु बगाउँदै — किनभने शास्त्रज्ञानबाट उत्पन्न हुने त्यस चित्तशान्तिको शुभ प्रभावले तिनलाई पश्चात्ताप भइसकेको थियो — तिनले भने —
47'तीनै लोकका स्वामी पुरन्दर ब्राह्मणको वेश धारण गरी आतिथ्य माग्दै मेरो आश्रममा आए।'
48'मैले उनको यथोचित वचनले स्वागत गरेँ, विधिपूर्वक पाद्य-जल र अर्घ्यका सामान्य भेटी अर्पण गरेँ। उनले जुन विश्राम मागे, त्यो पनि मैले दिएँ।'
49'मैले उनलाई यो पनि भनेँ कि मैले उनमा एक रक्षक पाएँ। मैले सोचेको थिएँ कि मेरो यस आचरणले उनले मलाई मित्र ठान्नेछन्। तर यति सबै हुँदा पनि उनले दुराचार गरे, त्यसैले मेरी पत्नी अहल्यालाई कुनै पाप गर्ने मान्न सकिँदैन।'
50'मलाई लाग्छ कि न मेरी पत्नी, न म, न स्वयं इन्द्र — जसले आकाशमार्गबाट जाँदा मेरी पत्नीलाई देखेका थिए — कोही पनि पाप गर्ने मान्न सकिँदैन। दोष वस्तुतः मेरो योगशक्तिको प्रमादको परिणाम हो।'
51'मुनिहरूले भनेका छन् कि सम्पूर्ण विपत्ति ईर्ष्याबाट उत्पन्न हुन्छन्, र ईर्ष्या आफैँ भ्रान्त विचारबाट जन्मन्छ। त्यही ईर्ष्याले मलाई पनि त्यहाँबाट तानेर पापको समुद्रमा डुबायो।'
52'हाय, मैले एक स्त्रीको वध गरेँ — र ती स्त्री मेरै पत्नी थिइन्! तिनै, जो पतिका विपत्तिमा भागी हुने भएकाले "वसिता" नामले चिनिन्थिन्; तिनै, जो मैले भरणपोषण गरेकाले "भार्या" कहलिन्थिन्। को छ जसले मलाई यस पापबाट बचाओस्?'
53'प्रमादमा परी मैले महान् चिरकारीलाई आदेश दिएँ! यदि यस अवसरमा उसले आफ्नो नाम सार्थक पारोस् भने उसैले मलाई यस पापबाट बचाउन सक्छ।'
54'हे चिरकारी, तिम्रो दुई पटक कल्याण होस्! यदि यस अवसरमा तिमीले त्यो काम पूरा गर्न ढिलो गरेका छौ भने तिमी साँच्चै आफ्नो नामको योग्य छौ!'
55'मलाई, आफ्नी आमालाई, मैले आर्जन गरेको तपलाई र स्वयं आफूलाई पनि घोर पापबाट बचाऊ — आज तिमी साँच्चै "चिरकारिक" बन!'
56'सामान्यतया आफ्नो महान् बुद्धिका कारण तिमी कुनै कर्म गर्नुअघि विचारमा लामो समय लिन्छौ। आज तिम्रो आचरण त्योभन्दा भिन्न नहोस्! आज तिमी साँचो चिरकारिक बन।'
57'तिम्री आमाले लामो समय तिम्रो आगमनको प्रतीक्षा गरेकी थिइन्। लामो समय उनले तिमीलाई आफ्नो गर्भमा धारण गरिन्। हे चिरकारिक, आज तिम्रो कर्मअघि लामो विचार गर्ने बानीले कल्याणकारी फल देओस्!'
58'सम्भव छ मेरो छोरा चिरकारिकले आज यसकारण ढिलो गरिरहेको होस् कि उसलाई मलाई हुने त्यस दुःखको अनुमान भएको होस्! सम्भव छ उसले त्यो आदेश हृदयमा राखेर त्यसमाथि सुतिरहेको होस्। सम्भव छ ऊ यसकारण ढिलो गरिरहेको होस् कि उसलाई उसलाई र मलाई — दुवैलाई हुने त्यस शोकको अनुमान भएको होस्, र ऊ प्रसङ्गका सम्पूर्ण परिस्थितिमा विचार गरिरहेको होस्!' —
59हे राजन्, यसरी पश्चात्ताप गर्दै महर्षि गौतमले तब आफ्नो छोरा चिरकारीलाई आफ्नो छेउमा बसिरहेको देखे।
60आफ्ना पितालाई घर फर्केको देखेर शोकले भरिएका छोरा चिरकारीले हतियार फ्याँकिदिए र शिर निहुराई गौतमलाई प्रसन्न पार्न थाले।
61आफ्नो छोरालाई शिर निहुराएर आफूअगाडि प्रणत देखेर र आफ्नी पत्नीलाई पनि लाजले प्रायः ढुङ्गा बनेकी देखेर ऋषि महान् हर्षले भरिए।
62त्यस समयदेखि ती महर्षि त्यस एकान्त आश्रममा बस्दै न आफ्नी पत्नीबाट अलग रहे, न आफ्नो विचारशील छोराबाट।
63आफ्नी पत्नीको वधको आज्ञा दिएर तिनी आफ्नो कुनै प्रयोजन सिद्ध गर्न आश्रमबाट गएका थिए। त्यसबेलादेखि तिनका छोरा हातमा हतियार लिएर विनम्र भावले उभिइरहेका थिए, ताकि आफ्नी आमाका विषयमा त्यो आज्ञा पूरा गर्न सकून्।
64आफ्नो छोरालाई चरणमा प्रणत देखेर पिताले ठाने कि ऊ भयले भरिएर हतियार उठाएको अपराधका लागि क्षमा मागिरहेको छ।
65पिताले लामो समय आफ्नो छोराको प्रशंसा गरे, लामो समय उसको शिर सुँघे, लामो समय उसलाई अङ्गालो हाले र 'तिमी दीर्घायु होऊ' — यी वचन भनी उसलाई आशीर्वाद दिए।
66तब हे महाबुद्धिमान्, जे भएको थियो त्यसबाट हर्ष र सन्तोषले भरिएर गौतमले आफ्नो छोरालाई भने।
67'हे चिरकारिक, तिम्रो कल्याण होस्! तिमी कर्मअघि सधैँ लामो समय विचार गर! मेरो आज्ञा पूरा गर्न ढिलो गरेर तिमीले आज मलाई सदाका लागि सुखी बनायौ!'
68तब ती विद्वान् ऋषिश्रेष्ठले त्यस्ता शान्तचित्त पुरुषका गुणका विषयमा, जसले कुनै काम गर्नुअघि लामो समय विचार गर्छन्, यी श्लोक भने —
69'यदि कुनै मित्रको वध गर्नुपर्छ भने त्यो लामो विचारपछि गर्नुपर्छ। यदि सुरु गरिएको कुनै काम त्याग्नुपर्छ भने त्यो पनि लामो समयपछि गर्नुपर्छ। लामो परीक्षापछि गरिएको मैत्री लामो समय टिक्छ।'
70'क्रोधमा, अहङ्कारमा, अभिमानमा, विवादमा, पापकर्ममा र सम्पूर्ण अप्रिय काम गर्नमा जसले लामो ढिलाइ गर्छ, त्यही प्रशंसायोग्य छ!'
71'जब कुनै आफन्त, मित्र, सेवक वा पत्नीको अपराध स्पष्ट रूपमा सिद्ध हुँदैन, तब जसले दण्ड दिनुअघि लामो समय विचार गर्छ, त्यही प्रशंसित हुन्छ।'
72हे भरतश्रेष्ठ, हे कुरुवंशी, यसरी गौतम आफ्नो छोरामाथि, आफ्नो आज्ञा पूरा गर्नमा उसले गरेको त्यस ढिलाइका कारण, प्रसन्न भए।
73सम्पूर्ण कर्ममा मानिसले यसै गरी लामो समय विचार गरेर मात्र निश्चय गर्नुपर्छ कि उसले के गर्ने हो। यसो गर्नाले मानिस निश्चय नै लामो समय शोकबाट बच्छ।
74जुन पुरुषले आफ्नो क्रोधलाई लामो समय भित्रै राख्छ, जसले कुनै काम गर्नुअघि लामो समय विचार गर्छ, उसले कहिल्यै त्यस्तो कर्म गर्दैन जसबाट पश्चात्ताप होस्। मानिसले वृद्धहरूको लामो समय सेवा गर्नुपर्छ र तिनको छेउमा बसेर आदर गर्नुपर्छ। मानिसले लामो समय आफ्ना कर्तव्यको पालन गर्नुपर्छ र तिनलाई निश्चित गर्नमा लामो समय लागिरहनुपर्छ।
75विद्वान्हरूको लामो समय सेवा गरेर, सदाचारी पुरुषको लामो समय श्रद्धापूर्वक सेवा गरेर र आफ्नो चित्तलाई लामो समय राम्ररी संयममा राखेर मानिस लामो समय संसारको आदर पाउन सफल हुन्छ।
76जसले अरूलाई धर्म र कर्तव्यको उपदेश दिन्छ, उसलाई जब कसैले यी विषयमा जानकारी सोध्छ, तब उत्तर दिनुअघि लामो समय विचार गर्नुपर्छ। तब उसलाई पश्चात्ताप हुनेछैन।
77उग्र तपस्या गर्ने गौतमको कुरा हो — ती ऋषिले आफ्नो त्यस आश्रममा लामो समय देवताको उपासना गरेर अन्ततः आफ्नो छोरासहित स्वर्ग प्रयाण गरे।