गदायुद्ध पर्व — वैशम्पायन द्वारा प्रभास की उत्पत्ति का वर्णन
खण्ड 6 — कर्ण, शल्य, सौप्तिक एवं स्त्री पर्व · अध्याय 131
संस्कृत
1जनमेजय उवाच पूर्वमेव यदा रामस्तस्मिन् युद्ध उपस्थिते। आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः॥
2साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव। न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम्॥
3एवमुक्त्वा तदा रामो यातः क्षत्रनिबर्हणः। तस्य चागमनं भूयो ब्रह्मशंसितुमर्हसि॥
4आख्याहि मे विस्तरशः कथं राम उपस्थितः। कथं च दृष्ट्वान् युद्धं कुशलो ह्यसि सत्तम॥
5वैशम्पायन उवाच उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु। प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः॥ शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्।
6स गत्वा हास्तिनपुरं धृतराष्ट्र समेत्य च॥ उक्त्वान् वचनं तथ्यं हितं चैव विशेषतः।
7न च तत् कृतवान् राजा यथा ख्यातं हि तत् पुरा॥ अनवाप्य शमं तज्ञ कृष्णः पुरुषसत्तमः। आगच्छत महाबाहुरुपप्लव्यं जनाधिप॥
8ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः। अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत्॥
9न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः। निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया॥
10ततो विभज्यमानेषु बलेषु बलिनां वरः। प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः॥
11तेषामपि महाबाहो साहाय्यं मधुसूदन। क्रियतामिति तत् कृष्णो नास्य चक्रे वचस्तदा॥
12ततो मन्युपरीतात्मा जगाम यदुनन्दनः। तीर्थयात्रां हलधरः सरस्वत्यां महायशाः॥
13मैत्रनक्षत्रयोगे स्म सहित: सर्वयादवैः। आश्रयामास भोजस्तु दुर्योधनमरिंदमः॥ युयुधानेन सहितो वासुदेवस्तु पाण्डवान्।
14रौहिणेये गते शूरे पुष्येण मधुसूदनः॥ पाण्डवेयान् पुरस्कृत्य ययावभिमुखः कुरून्।
15गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह॥ सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च। आनयध्वं द्वारकायामग्नीन् वै याजकांस्तथा॥
16सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः। कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च॥
17क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्। प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः॥
18ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्। एवं संदिश्य तु प्रेष्यान् बलदेवो महाबलः॥ तीर्थयात्रां ययौ राजन् कुरूणां वैशसे तदा। सरस्वती प्रतिस्रोतः समन्तादभिजग्मिवान्॥ ऋत्विग्भिश्च सुहृद्धिश्च तथान्यैर्द्विजसत्तमैः। स्थैर्गजैस्तताश्चैश्च प्रेष्यैश्च भरतर्षभ॥
19गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः। श्रान्तानां कान्तवपुषां शिशूनां विपुलायुषाम्॥
20देशे देशे तु देयानि दानानि विविधानि च। अर्चायै चार्थिना राजन् क्लृप्तानि बहुशस्तथा।२४॥ तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत। बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः॥
21यो यो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा। तस्य तस्य तु तत्रैवमुपजह्वस्तदा नृप॥ तत्र तत्र स्थिता राजन् रौहिणेयस्य शासनात्। भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः॥
22वासांसि च महार्हाणि पर्यङ्कास्तरणानि च। पूजार्थं तत्र क्लृप्तानि विप्राणं सुखमिच्छताम्॥ यत्र यः स्वपते विप्रो यो वा जागर्ति भारत। तत्र तत्र तु तस्यैव सर्वं क्लृप्तमदृश्यत॥ यथासुखं जन: सर्वो याति तिष्ठति वै तदा। यातुकामस्य यानानि पानानि तृषितस्य च॥ बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ। उपज रास्तत्र वस्त्राण्याभरणानि च।॥
23स पन्थाः प्रवभौ राजन् सर्वस्यैव सुखावहः। स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्।
24नित्यप्रमुदितोपतेः स्वादुभक्ष्यः शुभान्वितः॥ विपण्यापणपण्यानां नानाजनशतैर्वृतः। नानाद्रुमलतोपेतो नानारत्नविभूषितः॥
25ददौ द्विजेभ्यः क्रतुदक्षिणाश्च यदुप्रवीरो हलभृत् प्रतीतः॥ ततो महात्मा नियमे स्थितात्मा पुण्येषु तीर्थेषु वसूनि राजन्।
26दोग्ध्रीश्च धेनूश्च सहस्रशो वै सुवाससः काञ्चनबद्धशृङ्गीः। हयांश्च नानाविधदेशजातान् यानानि दासांश्च शुभान् द्विजेभ्यः॥
27प्यग्र्यं सुवर्ण रजतं सुसुद्धम्। अयस्मयं ताम्रमयं च भाण्डं ददौ द्विजातिप्रवरेषु रामः॥
28एवं स वित्तं प्रददौ महात्मा सरस्वतीतीर्थवरेषु भूरि। स्तत: कुरुक्षेत्रमुदारवृत्तिः॥
29जनमेजय उवाच सारस्वतानां तीर्थानां गुणोत्पात्त वदस्व मे। फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च॥
30यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः। ब्रह्मन् ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे॥
31वैशम्पायन उवाच तीर्थानां च फलं राजन् गुणोत्पत्तिं च सर्वशः। मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः॥
32पूर्वं महाराज यदुप्रवीर ऋत्विकसुहृद् विप्रगणैश्च सार्धम्। पुण्यं प्रभासं समुपाजगाम यत्रोडुराड् यक्ष्मणा विश्यमानः॥ विमुक्तशापः पुनराप्य तेजः सर्वं जगद् भासयते नरेन्द्र। एवं तु तीर्थप्रवरं पृथिव्यां प्रभासनात् तस्य ततः प्रभासः॥
33जनमेजय उवाच कथं तु भगवान् सोमो यक्ष्मणा समगृह्यत। कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमन्जत॥ कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी। एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने॥
34वैशम्पायन उवाच दक्षस्य तनयास्तात प्रादुरासन् विशाम्पते। स सप्तविंशति कन्या दक्षः सोमाय वै ददौ॥
35नक्षत्रयोगनिरताः संख्यानार्थं च ताभवन्। पल्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः॥
36तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि। अत्यात्यत तासां तु रोहिणी रूपसम्पदा॥
37ततस्तस्यां स भगवान् प्रीतें चक्रे निशाकरः। साऽस्य हृद्या बभूवाथ तस्मात् तां बुभुजे सदा॥
38पुरा हि सोमो राजेन्द्र रोहिण्यामवसत् परम्। ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः॥
39ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः। सोमो वसति नास्मासु रोहिणी भजते सदा॥
40ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर। वत्स्यामो नियताहारस्तपश्चरणतत्पराः॥
41श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत्। समं वर्तस्व भार्यासु मा त्वाऽधर्मो महान् स्पृशेत्।। ५२
42तास्तु सर्वाऽब्रवीद् दक्षो गच्छध्वं शशिनोऽन्तिकम्। समं वत्स्यति सर्वासु चन्द्रमा मम शासनात्॥
43विसृष्टास्तास्तथा जग्मुः शीतांशुभवनं तदा। तथापि सोमो भगवान् पुनरेव महीपते॥ रोहिणी निवसत्येव प्रीयमाणो मुहुर्मुहुः।
44ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन्॥ तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके। सोमो वसति नास्मासु नाकरोद् वचनं तव॥
45तासां तद् वचनं श्रुत्वा दक्षः सोममथाब्रवीत्। समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन॥
46अनादृत्य तु तद् वाक्यं दक्षस्य भगवाशशी। रोहिण्या सार्धमवसत् ततस्ताः कुपिताः पुनः॥
47गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा। सोमो वसति नास्मासु तस्मान्नः शरणं भव॥
48रोहिण्यामेव भगवान् सदा वसति चन्द्रमाः। न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति॥ तस्मान्नस्त्राहि सर्वा वै यथानः सोम आविशेत्।
49तच्छ्रुत्वा भगवान् क्रुद्धो यक्ष्माणां पृथिवीपते॥ ससर्ज रोषात् सोमाय त चोडुपतिमाविशत्।
50स यक्ष्मणाभिभूतासमाक्षीयताहरहः शशी॥ यत्नं चाप्यकरोद् राजन् मोक्षार्थं तस्य यक्ष्मणः। इष्टवेभिर्महाराज विविधाभिर्निशाकरः॥ न चामुच्यत शापाद् वै क्षयं चैवाभ्यगच्छत्।
51ततः सोमे ओषध्यो न प्रजज्ञिरे॥ निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः।
52ओषधीनां क्षये जाते प्राणिनामपि संक्षयः॥ कृशाश्चासन् प्रजाः सर्वाः क्षीयमाणे निशाकरे।
53ततो देवाः समागम्य सोममूचुर्महीपते॥ किमिदं भवतो रूपमीदृशं न प्रकाशते। कारणं ब्रूहि नः सर्वं येनेदं ते महद् भयम्॥
54श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम्। एवमुक्तः प्रत्युवाच सर्वांस्ताशशलक्षणः॥ शापस्य लक्षणं चैव यक्ष्माणं च तथाऽऽत्मनः। देवास्तथा वचः श्रुत्वा गत्वा दक्षमथाब्रुवन्॥
55प्रसीद भगवन् सोमे शापोऽयं विनिवर्त्यताम्। असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते॥७०
56क्षयाचैवास्य देवेश प्रजाश्चैव गताः क्षयम्। वीरुदोषधयश्चैव बीजानि विविधानि च॥
57तेषां क्षये क्षयोऽस्माकं विनाऽस्मभिर्जगच किम्। इति ज्ञात्वा लोकगुरो प्रसादं कर्तुमर्हसि॥
58एवमुक्तस्ततो देवान् प्राह वाक्यं प्रजापतिः। नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा॥
59हेतुना तु महाभाग निवर्तिष्यति केनचित्। समं वर्ततु सर्वासु शशी भार्यासु नित्यशः॥
60सरस्वत्या वरे तीर्थे उन्मजशशलक्षणः। पुनर्वर्धिष्यते देवास्तद् वै सत्यं वचो मम॥
61मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति। मासार्धं तु सदा वृद्धिं सत्यमेतद् वचो मम॥
62समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम्। आराधयतु देवेशं ततः कान्तिमवाप्स्यति॥
63सरस्वती ततः सोमः स जगामर्षिशासनात्। प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह॥
64अमावास्यां महातेजास्तत्रोन्मजन् महाद्युतिः। लोकान् प्रभासयामास शीतंशुत्वमवाप च॥
65देवास्तु सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम्। सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन्॥
66ततः प्रजापतिः सर्वा विससर्जाथ देवताः। सोमं च भगवान् प्रीतो भूयो वचनमब्रवीत्॥ मावमंस्थाः स्त्रियः पुत्र मा च विप्रान् कदाचन। गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम॥
67स विसृष्टो महाराज जगामाथ स्वमालयम्। प्रजाश्च मुदिता भूत्वा पुनस्तस्थुर्यथा पुरा॥
68एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः। प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत्॥
69अमावास्यां महाराज नित्यशः शशलक्षणः। स्नात्वा ह्याप्यायते श्रीमान् प्रभासे तीर्थ उत्तमे॥
70अतक्षेतत् प्रजानन्ति प्रभासमिति भूमिप। प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः॥
71ततस्तु चमसोद्भेदमच्युतस्त्वगमद् बली। चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत॥
72तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः। उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा॥
73उदपानमथागच्छत्त्वरावान् केशवाग्रजः। आद्यं स्वस्त्ययनं चैव यत्रावाप्य महत् फलम्॥ स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय। जानान्ति सिद्धा राजेन्द्र नष्टामपि सरस्वतीम्॥
अंग्रेज़ी
1Janamejaya said On the eye the great battle (between the Kurus and the Pandus) Rama, with Keshava's permission, had left Dwaraka accompanied by many of the Vrishnis.
2He had said to Keshava-"I will help neither the son of Dhritarashtra nor the sons of Pandu, but will go wherever I like."
3Having said so, Rama that subduer of enemies, had gone away. O Brahmana, tell me everything about his return.
4Tell me in full how Rama came there and how he witnessed the battle. Indeed you are a skillful narrator.
5Vaishampayana said After the great Pandavas had taken up their post at Upaplavya, they sent Krishna to Dhritarashtra for the object of peace, O mighty-armed one and for the behoof of all creatures.
6Having gone to Hastinapura and met Dhritarashtra, Keshava spoke whole-some and sincere words.
7The king, however, as I have told you before did not pay heed to his advice. Unable to secure peace, the mighty-armed Krishna, The foremost of men, returned, O king, to Upaplavya.
8Dismissed by Dhritarashtra's son Krishna came back and upon the failure of his mission, O foremost of kings, said to the Pandavas.
9Urged by fate, the Kauravas have disregarded my words. Come, O sons of Pandu, with me, under the constellation Pushya.
10After this, while the troops of both parties were being collected and arrayed, the great son of Rohini, that foremost of all powerful persons, said to his brother Krishna.
11"O mighty-armed one, O slayer of Madhu, let us help the Kurus.” Krishna, however, did not pay heed to those words of his.
12Enraged at this, that illustrious son of Yadu's race, viz., the wielder of the plough, then started on a pilgrimage of the Sarasvati.
13Accompanied by all the Yadavas, he set out under the conjunction of the asterism called Maitra. The Bhoja chief (Kritavarman), however, took the side O Duryodhana. Accompanied by Yuyudhana, Vasudeva took that of the Pandavas.
14After the heroic son of Rohini had started under the constellation Pushya, the slayer of Madhu, placing the Pandavas in his van, went against the Kurus.
15While proceeding, Rama ordered his servants on the way, saying-"Bring all the necessary articles of use for a pilgrimage. Bring the sacred fire that is at Dwaraka and our priests.
16Bring gold, silver, kine, robes, horses, elephants, cars, mules, camels and other beasts of burden.
17Being all these necessaries for a sojourn to the sacred waters and proceed quickly towards the Sarasvati.
18Bring also some priests for the performance of a special rite and hundreds and hundreds of best Brahmanas.” Having given these orders to the servants, powerful Baladeva started on a pilgrimage at that time of great danger to the Kurus. Setting out towards the Sarasvati, he visited all the sacred shrines along her course, accompanied by priests, friends and many leading Brahmanas, as also with cars and elephants and horses and servants, O best of Bharata's race and with many vehicles drawn by kine and mules and camels.
19Various sorts of necessaries of life were distributed profusely in various countries amongst the weary and worn, children and the old, in response, O king, to their prayers.
20Everywhere, O king, Brahmanas were sumptuously fed with whatever they wanted. At the command of Rohini's son, men, at different stages of the journey, stocked sufficient food and drink.
21Costly garments and bedsteads and coverlets were distributed amongst the Brahmanas desirous of ease and comfort. Whatever a Brahmana or Kshatriya wanted, it was given to him.
22The party thus proceeded with great happiness and lived happily. Balarama's suite gave away vehicles to persons desirous of making journeys, drinks to them that were thirsty and rich food to them that were hungry, as also raiments and ornaments, O best of Bharata's race, to many.
23The road, O king, along which the party proceeded, looked resplendent, was comfortable for all and resembled heaven itself.
24There were rejoicings everywhere and rich food was procurable everywhere. There were shops and stalls and various objects were kept there for sale. The entire way was thronged with human beings. And it was decorated with various kinds of trees and creatures and various kinds of gems.
25The great Baladeva, observing rigid vows, distributed amongst the Brahmanas profuse wealth and plentiful sacrificial presents, O king, at various sacred spots.
26That chief of Yadu's race also distributed thousands of milch kine covered with excellent cloths and having their horns coated with gold, many horses born in different countries, many vehicles and many beautiful slaves.
27Balarama also distributed to the foremost of the Brahmanas, the gems, garlands, diamonds, pure gold and silver and utensil made of iron copper.
28Thus did the great Rama distribute wealth in various sacred shrines on the Sarasvati. In course of his travels, that noble hero of matchless power at last came to Kurukshetra.
29Janamejaya said Describe to me, O foremost of men, the characteristics, the origin and the merits of the several Tirthas on the Sarasvati and the rites to be performed while going there.
30Tell me these, in their order, O illustrious man. My curiosity is not to be satisfied, O foremost of all persons conversant with the knowledge of Brahman.
31Vaishampayana said The account of the characteristics and origin of all these Tirthas, O king, is very lengthy. I shall, however, describe them to you. Listen to that sacred account, O king.
32Accompanied by his priests and friends, Baladeva first went to the Tirthas called Prabhasa. There, the Lord of the asterism (viz., Soma), who had been suffering from phthisis, was freed from his disease. Regaining energy there, O king, be now lights up the universe. And because that foremost of Tirthas on Earth had formerly invested Soma again with effulgence, it is, therefore, called Prabhasa.
33Janamejaya said "For what was the worshipful Soma afflicted with phthisis? How also did he bathe in that tirtha? How did he, having bathed in that sacred water, regain his lost power? Describe it to me fully, O great Muni.
34Vaishampayana said Daksha had twenty seven daughters, O king. There he gave away (in marriage) unto Soma.
35Connected with the several constellations, those wives, O king, of Soma of glorious deeds, served to help men in calculating time.
36Endued with large eyes, all of them were peerless in beauty in the world. In beauty however, Rohini excelled them all.
37The worshipful Soma took great fancy for her. She was very much liked by him and therefore, he enjoyed the pleasures of her company alone.
38Formerly, O king, Soma lived long with Rohini exclusively. For this, those other wives of his, the constellations, became displeased with that high-souled one.
39Going to their father Daksha, that Lord of creation, they said to him-"Soma does not live with us. He always lives with Rohini only.
40All of us, therefore, O Lord of creatures, shall live in your house practising austere penances."
41Hearing those words of theirs, Daksha saw Soma and said to him, ""Treat all your wives equally. Do not commit a great sin."
42And Daksha then said to those daughters of his-"Go, all of you, to Shashin. At my command, he, surnamed Chandramas, will treat you all equally,"
43Dismissed by him, they then proceeded to the house of him having cool rays. Still the worshipful Soma, O king, behaved as before, for pleased with Rohini alone, he always lived in her company.
44His other wives then once more came to the abode of their father and said to him-"Serving you, we will live under your protection. Soma does not live with us and does not obey your commands."
45Hearing those words of theirs, Daksha once more said to Soma-"Treat all your wives equally. Let me not, O Virochana, curse you."
46Disregarding, however, the behest of Daksha, the worshipful Soma continued to live with Rohini alone. At this, his other wives became once more angry.
47Going to their father, they bowed to him by lowering their heads and said-"Soma does not live with us. Give us shelter.
48The worshipful Chandramas always lives with Rohini exclusively. He does not value your words and does not wish to love us. Therefore, save us so that Soma may accept us all.
49Hearing those words, the worshipful Daksha, O king, became angry and imprecated the curse of phthisis upon Some. Thus did that disease affect the king of stars.
50Afflicted with phthisis, the moon began to waste away day by day. He tried much to get rid of that disease by celebrating various sacrifices, O king. The Moon, however, could not free hiinself from that curse. On the other hand, hi daily grew lean and emaciated.
51On account, of the wasting of Soma the deciduous herbs failed to grow, Their juices dried up they became tasteless and all of them lost their virtues.
52And on account of the absence of the deciduous herbs, living creatures also began to die. Indeed, owing to the wasting of Soma, all creatures grew emaciated.
53Then all the celestials, approaching Soma, O king, asked him, saying-"Why is it that your form is not so beautiful and resplendent as before? Tell us whence has originated this great calamity.
54Hearing your answer, we shall do what is needed for removing your fear.” Thus addressed the god, having the hare for his mark, replied to them and informed them of the cause of the curse and of the phthisis with which he was attacked.
55Having heard those words the celestials repaired to Daksha and said-"Be pleased O worship one, with Soma. Withdrew your this curse.
56The Moon is very emaciated. Only a small portion of his body is seen. On account of his wasting, O Lord of the celestials, all creatures also are wasting. Creepers and herbs of various sorts are also wasting.
57By their waste we ourselves also are suffering emaciation. Without us, what will this some universe be. Knowing this, O lord of the universe, it behoves you to be pleased with Soma."
58Thus addressed, Daksha, that Lord of creatures, said:-"It is impossible to make my words prove otherwise.
59By contrivance, however, O celestials, by words may be withdrawn. Let the moon treat his wives equally.
60Having bathed also in that foremost of tirthas on the Sarasvati, the hare-embalmed god shall regain his strength. These words of mine are true.
61For half the month Soma shall decrease every day and for half the month following he will increase daily. These words of mine are true.
62Proceeding to the western ocean at the spot where the Sarasvati joins the ocean that vast repository of waters, let him worship that God of gods Mahadeva there. He will then regain his from and beauty."
63Thus commanded by the Rishi Daksha, Soma then proceeded to the Sarasvati. He reached the greatest of tirthas called Prabhasa belonging to the Sarasvati.
64Bathing there on the day of the new moon, that god of great energy and great effulgence women regained his cool rays and began again to lleum the universe.
65All the creatures also, O king, having gone to Prabhasa, returned with Soma amongst them to where Daksha was.
66Receiving them properly that Lord of creatures then sent them away. Plcased with Soma, the worshipful Daksha once more addressed him, saying-"Do not, O son, disregard and never disregard Brahmanas. Go and obey my commands."
67Dismissed by him, Soma returned to his own abode. All creatures began to live joyously as before.
68I have thus told you everything about how the Moon had been cursed and how also Prabhasa became the best of all tirthas.
69On everyday of the new moon, O king, the god, having the hare for his mark, bathes in the excellent tirtha of Prabhasa and regains his form and beauty.
70O lord of Earth, that tirtha is known by the name of Prabhasa, because bathing there the moon regained his great (Prabha) effulgence.
71After this, the mighty and illustrious Baladeva proceeded to Chamasodbheda, that is to that tirtha which is called by that name.
72Distributing many precious presents at that place, the hero, having the plough for his weapon, passed one night there and performed his absolutions duly.
73The elder brother of Keshava then speedily repaired to Udapana. Although the Sarasvati is not visible there, yet persons endued with ascetic success, no account of their obtaining great merits and sanctity of that spot and also of the coolness of the herbs and of the land there, know that the river has an invisible current, O king, underneath the earth there.
हिन्दी
1जनमेजय ने कहा — (कुरुओं और पाण्डवों के बीच के) उस महायुद्ध की पूर्वसन्ध्या पर राम (बलराम) केशव की अनुमति लेकर अनेक वृष्णियों के साथ द्वारका से निकल गए थे।
2उन्होंने केशव से कहा था — "मैं न धृतराष्ट्र के पुत्र की सहायता करूँगा, न पाण्डु के पुत्रों की, अपितु जहाँ मन करेगा वहाँ चला जाऊँगा।"
3ऐसा कहकर वे शत्रुदमन राम चले गए थे। हे ब्राह्मण, मुझे उनके लौटने के विषय में सब कुछ बताइए।
4मुझे विस्तार से बताइए कि राम वहाँ कैसे आए और उन्होंने वह युद्ध कैसे देखा। वस्तुतः आप कुशल वर्णनकर्ता हैं।
5वैशम्पायन ने कहा — हे महाबाहु, महान् पाण्डवों के उपप्लव्य में अपना पड़ाव डालने के पश्चात् उन्होंने शान्ति के प्रयोजन से तथा समस्त प्राणियों के हित के लिए कृष्ण को धृतराष्ट्र के पास भेजा।
6हस्तिनापुर जाकर और धृतराष्ट्र से मिलकर केशव ने हितकारी और निष्कपट वचन कहे।
7किन्तु जैसा मैं तुम्हें पहले बता चुका हूँ, राजा ने उनकी सलाह पर ध्यान नहीं दिया। सन्धि करा सकने में असमर्थ रहकर पुरुषों में श्रेष्ठ महाबाहु कृष्ण, हे राजन्, उपप्लव्य लौट आए।
8हे राजाओं में श्रेष्ठ, धृतराष्ट्रपुत्र द्वारा विदा किए जाने पर कृष्ण लौट आए और अपने कार्य की विफलता पर उन्होंने पाण्डवों से कहा —
9"नियति से प्रेरित कौरवों ने मेरे वचनों की अवहेलना कर दी है। हे पाण्डुपुत्रो, पुष्य नक्षत्र में मेरे साथ चलो।"
10इसके पश्चात्, जब दोनों पक्षों की सेनाएँ एकत्र और व्यूहबद्ध की जा रही थीं, तब समस्त बलवान् पुरुषों में श्रेष्ठ रोहिणी के महान् पुत्र ने अपने भाई कृष्ण से कहा —
11"हे महाबाहु, हे मधुसूदन, हम कुरुओं की सहायता करें।" किन्तु कृष्ण ने उनके इन वचनों पर ध्यान नहीं दिया।
12इस पर क्रुद्ध होकर यदुवंश के वे यशस्वी पुत्र, वे हलधारी, तब सरस्वती की तीर्थयात्रा पर निकल पड़े।
13समस्त यादवों के साथ वे मैत्र नामक नक्षत्र के योग में निकल पड़े। किन्तु भोजराज (कृतवर्मा) ने दुर्योधन का पक्ष लिया। युयुधान के साथ वासुदेव ने पाण्डवों का पक्ष लिया।
14रोहिणी के वीर पुत्र के पुष्य नक्षत्र में निकल जाने के पश्चात् मधुसूदन पाण्डवों को आगे रखकर कुरुओं के विरुद्ध बढ़े।
15आगे बढ़ते हुए राम ने मार्ग में अपने सेवकों को आज्ञा देते हुए कहा — "तीर्थयात्रा के लिए आवश्यक समस्त सामग्री लाओ। द्वारका में जो पवित्र अग्नि है, उसे तथा हमारे पुरोहितों को लाओ।
16स्वर्ण, चाँदी, गौएँ, वस्त्र, घोड़े, हाथी, रथ, खच्चर, ऊँट तथा भार ढोने वाले अन्य पशु लाओ।
17पवित्र तीर्थों की यात्रा के लिए ये समस्त आवश्यक वस्तुएँ लाओ और शीघ्र सरस्वती की ओर चलो।
18विशेष कर्मकाण्ड के अनुष्ठान के लिए कुछ पुरोहित तथा सैकड़ों-सैकड़ों श्रेष्ठ ब्राह्मण भी लाओ।" सेवकों को ये आज्ञाएँ देकर बलवान् बलदेव कुरुओं के लिए महान् संकट के उस समय तीर्थयात्रा पर निकल पड़े। हे भरतवंश में श्रेष्ठ, सरस्वती की ओर प्रस्थान करके उन्होंने पुरोहितों, मित्रों और अनेक प्रमुख ब्राह्मणों के साथ, तथा रथों, हाथियों, घोड़ों और सेवकों के साथ, एवं गौओं, खच्चरों और ऊँटों से खींचे जाने वाले अनेक वाहनों के साथ उसके तट के समस्त पवित्र तीर्थों के दर्शन किए।
19हे राजन्, नाना प्रकार की जीवनोपयोगी वस्तुएँ विभिन्न देशों में थके-हारे लोगों, बालकों और वृद्धों के बीच उनकी प्रार्थना के उत्तर में प्रचुर मात्रा में बाँटी गईं।
20हे राजन्, सर्वत्र ब्राह्मणों को जो कुछ वे चाहते थे, उससे भरपूर भोजन कराया गया। रोहिणीपुत्र की आज्ञा से मनुष्यों ने यात्रा के विभिन्न पड़ावों पर पर्याप्त अन्न और पेय का भण्डार जुटाया।
21सुख और आराम के इच्छुक ब्राह्मणों में बहुमूल्य वस्त्र, शय्याएँ और ओढ़ने की चादरें बाँटी गईं। जिस ब्राह्मण अथवा क्षत्रिय को जो कुछ चाहिए था, वह उसे दिया गया।
22इस प्रकार वह दल महान् प्रसन्नता के साथ आगे बढ़ा और सुखपूर्वक रहा। हे भरतवंश में श्रेष्ठ, बलराम के अनुचरों ने यात्रा करने के इच्छुकों को वाहन, प्यासों को पेय और भूखों को स्वादिष्ट भोजन दिया, तथा अनेकों को वस्त्र और आभूषण भी दिए।
23हे राजन्, जिस मार्ग से वह दल आगे बढ़ा, वह देदीप्यमान दिखाई देता था, सबके लिए सुखकर था और साक्षात् स्वर्ग के समान प्रतीत होता था।
24सर्वत्र आनन्दोत्सव थे और सर्वत्र स्वादिष्ट भोजन उपलब्ध था। वहाँ दुकानें और मंच थे और उनमें नाना वस्तुएँ बिक्री के लिए रखी थीं। समस्त मार्ग मनुष्यों से भरा हुआ था। और वह नाना प्रकार के वृक्षों, प्राणियों तथा नाना प्रकार के रत्नों से सुसज्जित था।
25हे राजन्, कठोर व्रत का पालन करते हुए महात्मा बलदेव ने विभिन्न पवित्र स्थानों पर ब्राह्मणों के बीच प्रचुर धन और भरपूर दक्षिणा बाँटी।
26यदुवंश के उन प्रमुख ने उत्तम वस्त्रों से ढकी और स्वर्ण से मढ़े सींगों वाली सहस्रों दुधारू गौएँ, विभिन्न देशों में उत्पन्न अनेक घोड़े, अनेक वाहन तथा अनेक सुन्दर दासियाँ भी बाँटीं।
27बलराम ने श्रेष्ठ ब्राह्मणों को रत्न, मालाएँ, हीरे, शुद्ध स्वर्ण और चाँदी तथा लोहे और ताँबे के बने बर्तन भी दिए।
28इस प्रकार महात्मा राम ने सरस्वती के विभिन्न पवित्र तीर्थों में धन बाँटा। अपनी यात्रा के क्रम में अतुलनीय शक्ति वाले वे उदार वीर अन्ततः कुरुक्षेत्र आ पहुँचे।
29जनमेजय ने कहा — हे पुरुषों में श्रेष्ठ, मुझे सरस्वती के उन अनेक तीर्थों के लक्षण, उत्पत्ति और महिमा तथा वहाँ जाते समय किए जाने वाले कर्मों का वर्णन कीजिए।
30हे यशस्वी महापुरुष, ये सब मुझे क्रमपूर्वक बताइए। हे ब्रह्मज्ञान के ज्ञाताओं में श्रेष्ठ, मेरी जिज्ञासा तृप्त ही नहीं होती।
31वैशम्पायन ने कहा — हे राजन्, इन समस्त तीर्थों के लक्षणों और उत्पत्ति का वृत्तान्त अत्यन्त विस्तृत है। तथापि मैं उन्हें तुम्हें बताऊँगा। हे राजन्, वह पवित्र वृत्तान्त सुनो।
32अपने पुरोहितों और मित्रों के साथ बलदेव सर्वप्रथम प्रभास नामक तीर्थ पर गए। वहीं नक्षत्रों के स्वामी (सोम), जो क्षयरोग से पीड़ित थे, अपने रोग से मुक्त हुए थे। हे राजन्, वहाँ तेज पुनः प्राप्त करके वे अब विश्व को प्रकाशित करते हैं। और क्योंकि पृथ्वी के उस श्रेष्ठ तीर्थ ने पूर्वकाल में सोम को पुनः प्रभा से युक्त किया था, इसीलिए वह प्रभास कहलाता है।
33जनमेजय ने कहा — "पूज्य सोम किस कारण क्षयरोग से पीड़ित हुए? उन्होंने उस तीर्थ में स्नान कैसे किया? उस पवित्र जल में स्नान करके उन्होंने अपनी खोई हुई शक्ति कैसे पुनः प्राप्त की? हे महामुनि, मुझे यह विस्तार से बताइए।"
34वैशम्पायन ने कहा — हे राजन्, दक्ष की सत्ताईस कन्याएँ थीं। ये सब उन्होंने सोम को (विवाह में) दे दीं।
35हे राजन्, विभिन्न नक्षत्रों से सम्बद्ध यशस्वी कर्म वाले सोम की वे पत्नियाँ मनुष्यों को काल की गणना करने में सहायता करती थीं।
36विशाल नेत्रों वाली वे सब संसार में अनुपम सुन्दरी थीं। किन्तु सौन्दर्य में रोहिणी उन सबसे बढ़कर थीं।
37पूज्य सोम को उनसे अत्यधिक अनुराग हो गया। वे उन्हें बहुत प्रिय थीं और इसलिए वे केवल उन्हीं के सान्निध्य का सुख भोगते थे।
38हे राजन्, पूर्वकाल में सोम दीर्घकाल तक केवल रोहिणी के ही साथ रहे। इस कारण उनकी वे अन्य पत्नियाँ, अर्थात् नक्षत्र, उन महात्मा से अप्रसन्न हो गईं।
39अपने पिता प्रजापति दक्ष के पास जाकर उन्होंने उनसे कहा — "सोम हमारे साथ नहीं रहते। वे सदा केवल रोहिणी के साथ ही रहते हैं।
40इसलिए हे प्रजापति, हम सब कठोर तपस्या करती हुई आपके ही घर में रहेंगी।"
41उनके ये वचन सुनकर दक्ष ने सोम से मिलकर उनसे कहा — "अपनी समस्त पत्नियों के साथ समान व्यवहार करो। महान् पाप मत करो।"
42और तब दक्ष ने अपनी उन कन्याओं से कहा — "तुम सब शशी के पास जाओ। मेरी आज्ञा से चन्द्रमा नामधारी वे तुम सबके साथ समान व्यवहार करेंगे।"
43उनके द्वारा विदा किए जाने पर वे तब शीतल किरणों वाले उन (सोम) के घर गईं। हे राजन्, तथापि पूज्य सोम पहले की भाँति ही आचरण करते रहे, क्योंकि केवल रोहिणी से प्रसन्न रहकर वे सदा उन्हीं के साथ रहते थे।
44तब उनकी अन्य पत्नियाँ पुनः अपने पिता के धाम आईं और उनसे बोलीं — "आपकी सेवा करती हुई हम आपके ही संरक्षण में रहेंगी। सोम हमारे साथ नहीं रहते और आपकी आज्ञा का पालन नहीं करते।"
45उनके ये वचन सुनकर दक्ष ने पुनः सोम से कहा — "अपनी समस्त पत्नियों के साथ समान व्यवहार करो। हे विरोचन, मुझसे तुम्हें शाप न दिलवाओ।"
46किन्तु दक्ष की आज्ञा की अवहेलना करके पूज्य सोम केवल रोहिणी के साथ ही रहते रहे। इस पर उनकी अन्य पत्नियाँ पुनः क्रुद्ध हो गईं।
47अपने पिता के पास जाकर उन्होंने सिर झुकाकर उन्हें प्रणाम किया और कहा — "सोम हमारे साथ नहीं रहते। हमें आश्रय दीजिए।
48पूज्य चन्द्रमा सदा केवल रोहिणी के साथ ही रहते हैं। वे आपके वचनों को महत्त्व नहीं देते और हमसे प्रेम करना नहीं चाहते। इसलिए हमारी रक्षा कीजिए, जिससे सोम हम सबको स्वीकार करें।"
49हे राजन्, ये वचन सुनकर पूज्य दक्ष क्रुद्ध हो गए और उन्होंने सोम को क्षयरोग का शाप दे दिया। इस प्रकार वह रोग नक्षत्रों के राजा को लग गया।
50क्षयरोग से पीड़ित चन्द्रमा दिन-प्रतिदिन क्षीण होने लगे। हे राजन्, उन्होंने नाना यज्ञों का अनुष्ठान करके उस रोग से मुक्त होने का बहुत प्रयत्न किया। किन्तु चन्द्रमा उस शाप से स्वयं को मुक्त नहीं कर सके। इसके विपरीत वे प्रतिदिन दुर्बल और कृश होते गए।
51सोम के क्षीण होने के कारण ओषधियाँ उगना बन्द हो गईं। उनका रस सूख गया, वे नीरस हो गईं और उन सबने अपने गुण खो दिए।
52और ओषधियों के अभाव के कारण प्राणी भी मरने लगे। वस्तुतः सोम के क्षीण होने से समस्त प्राणी कृश होते गए।
53हे राजन्, तब समस्त देवताओं ने सोम के निकट जाकर उनसे पूछा — "आपका रूप पहले के समान सुन्दर और देदीप्यमान क्यों नहीं है? हमें बताइए कि यह महान् विपत्ति कहाँ से उत्पन्न हुई।
54आपका उत्तर सुनकर हम आपका भय दूर करने के लिए जो आवश्यक होगा, वह करेंगे।" इस प्रकार सम्बोधित किए जाने पर शशचिह्न वाले उन देव ने उन्हें उत्तर दिया और उन्हें शाप के तथा उस क्षयरोग के कारण की, जिससे वे ग्रस्त थे, सूचना दी।
55वे वचन सुनकर देवता दक्ष के पास गए और बोले — "हे पूज्य, सोम पर प्रसन्न हूजिए। अपना यह शाप वापस ले लीजिए।
56चन्द्रमा अत्यन्त कृश हो चुके हैं। उनके शरीर का केवल थोड़ा-सा भाग दिखाई देता है। हे देवेश्वर, उनके क्षीण होने के कारण समस्त प्राणी भी क्षीण हो रहे हैं। नाना प्रकार की लताएँ और ओषधियाँ भी क्षीण हो रही हैं।
57उनके क्षय से हम स्वयं भी कृशता भोग रहे हैं। हमारे बिना यह समस्त विश्व क्या रह जाएगा? हे विश्वेश्वर, यह जानकर आपको सोम पर प्रसन्न होना चाहिए।"
58इस प्रकार सम्बोधित किए जाने पर प्रजापति दक्ष ने कहा — "मेरे वचन को अन्यथा करना असम्भव है।
59तथापि हे देवताओ, उपाय से मेरे वचन वापस लिए जा सकते हैं। चन्द्रमा अपनी पत्नियों के साथ समान व्यवहार करें।
60सरस्वती के उस श्रेष्ठ तीर्थ में स्नान करके भी शशाङ्कित वे देव अपना बल पुनः प्राप्त करेंगे। मेरे ये वचन सत्य हैं।
61आधे मास तक सोम प्रतिदिन क्षीण होंगे और उसके पश्चात् आधे मास तक प्रतिदिन बढ़ेंगे। मेरे ये वचन सत्य हैं।
62पश्चिमी समुद्र में उस स्थान पर जाकर, जहाँ सरस्वती जलों के उस विशाल भण्डार — समुद्र — से मिलती है, वे वहाँ देवाधिदेव महादेव की आराधना करें। तब वे अपना रूप और सौन्दर्य पुनः प्राप्त कर लेंगे।"
63ऋषि दक्ष द्वारा इस प्रकार आज्ञा दिए जाने पर सोम तब सरस्वती की ओर चल पड़े। वे सरस्वती के प्रभास नामक उस महानतम तीर्थ पर पहुँचे।
64अमावस्या के दिन वहाँ स्नान करके महातेजस्वी और महाप्रभावशाली उन देव ने अपनी शीतल किरणें पुनः प्राप्त कीं और पुनः विश्व को प्रकाशित करने लगे।
65हे राजन्, समस्त प्राणी भी प्रभास जाकर अपने बीच सोम को लिए वहाँ लौटे जहाँ दक्ष थे।
66उनका विधिपूर्वक स्वागत करके उन प्रजापति ने तब उन्हें विदा किया। सोम से प्रसन्न होकर पूज्य दक्ष ने उनसे पुनः कहा — "हे पुत्र, ब्राह्मणों की अवहेलना मत करो और कभी अवहेलना न करना। जाओ और मेरी आज्ञा का पालन करो।"
67उनके द्वारा विदा किए जाने पर सोम अपने धाम लौट गए। समस्त प्राणी पहले की भाँति आनन्दपूर्वक रहने लगे।
68इस प्रकार मैंने तुम्हें सब कुछ बता दिया कि चन्द्रमा को शाप कैसे मिला और प्रभास समस्त तीर्थों में श्रेष्ठ कैसे बना।
69हे राजन्, अमावस्या के प्रत्येक दिन शशचिह्न वाले वे देव प्रभास के उस उत्तम तीर्थ में स्नान करते हैं और अपना रूप तथा सौन्दर्य पुनः प्राप्त करते हैं।
70हे पृथ्वीपते, वह तीर्थ प्रभास नाम से जाना जाता है, क्योंकि वहाँ स्नान करके चन्द्रमा ने अपनी महती प्रभा पुनः प्राप्त की थी।
71इसके पश्चात् बलवान् और यशस्वी बलदेव चमसोद्भेद नामक उस तीर्थ की ओर गए, जो इसी नाम से पुकारा जाता है।
72उस स्थान पर अनेक बहुमूल्य उपहार बाँटकर हलधारी उन वीर ने वहाँ एक रात्रि व्यतीत की और विधिपूर्वक अपने स्नानादि कर्म किए।
73तत्पश्चात् केशव के ज्येष्ठ भ्राता शीघ्र उदपान गए। यद्यपि वहाँ सरस्वती दृष्टिगोचर नहीं होतीं, तथापि हे राजन्, तपःसिद्ध पुरुष उस स्थान की महती पुण्यता और पवित्रता के कारण तथा वहाँ की ओषधियों और भूमि की शीतलता के कारण यह जानते हैं कि वहाँ पृथ्वी के नीचे उस नदी की अदृश्य धारा बहती है।
नेपाली
1जनमेजयले भने — (कुरु र पाण्डवहरूबीचको) त्यस महायुद्धको पूर्वसन्ध्यामा राम (बलराम) केशवको अनुमति लिएर अनेक वृष्णिहरूसहित द्वारकाबाट निस्किएका थिए।
2उनले केशवलाई भनेका थिए — "म न धृतराष्ट्रका पुत्रको सहायता गर्नेछु, न पाण्डुका पुत्रहरूको, अपितु जता मन लाग्छ उतै जानेछु।"
3यसो भनेर ती शत्रुदमन राम गएका थिए। हे ब्राह्मण, मलाई उनको फर्काइका विषयमा सबै कुरा बताउनुहोस्।
4मलाई विस्तारपूर्वक बताउनुहोस् कि राम त्यहाँ कसरी आए र उनले त्यो युद्ध कसरी हेरे। वास्तवमा तपाईं कुशल वर्णनकर्ता हुनुहुन्छ।
5वैशम्पायनले भने — हे महाबाहु, महान् पाण्डवहरूले उपप्लव्यमा आफ्नो पडाव राखेपछि तिनीहरूले शान्तिको प्रयोजनले तथा सम्पूर्ण प्राणीको हितका लागि कृष्णलाई धृतराष्ट्रकहाँ पठाए।
6हस्तिनापुर गएर र धृतराष्ट्रसँग भेटेर केशवले हितकारी र निष्कपट वचन भने।
7तर जस्तो मैले तिमीलाई पहिल्यै भनिसकेको छु, राजाले उनको सल्लाहमा ध्यान दिएनन्। सन्धि गराउन असमर्थ भई पुरुषहरूमा श्रेष्ठ महाबाहु कृष्ण, हे राजन्, उपप्लव्य फर्के।
8हे राजाहरूमा श्रेष्ठ, धृतराष्ट्रपुत्रद्वारा विदा गरिएपछि कृष्ण फर्के र आफ्नो कामको विफलतामा उनले पाण्डवहरूलाई भने —
9"नियतिले प्रेरित कौरवहरूले मेरा वचनको अवहेलना गरेका छन्। हे पाण्डुपुत्रहरू, पुष्य नक्षत्रमा मसँगै हिँड।"
10यसपछि, जब दुवै पक्षका सेना जम्मा र व्यूहबद्ध गरिँदै थिए, तब सम्पूर्ण बलवान् पुरुषहरूमा श्रेष्ठ रोहिणीका महान् पुत्रले आफ्ना भाइ कृष्णलाई भने —
11"हे महाबाहु, हे मधुसूदन, हामी कुरुहरूको सहायता गरौँ।" तर कृष्णले उनका यी वचनमा ध्यान दिएनन्।
12यसमा क्रुद्ध भई यदुवंशका ती यशस्वी पुत्र, ती हलधारी, तब सरस्वतीको तीर्थयात्रामा निस्के।
13सम्पूर्ण यादवहरूसहित उनी मैत्र नामक नक्षत्रको योगमा निस्के। तर भोजराज (कृतवर्मा)ले दुर्योधनको पक्ष लिए। युयुधानसहित वासुदेवले पाण्डवहरूको पक्ष लिए।
14रोहिणीका वीर पुत्र पुष्य नक्षत्रमा निस्केपछि मधुसूदन पाण्डवहरूलाई अगाडि राखेर कुरुहरूविरुद्ध बढे।
15अगाडि बढ्दै रामले बाटोमा आफ्ना सेवकहरूलाई आज्ञा दिँदै भने — "तीर्थयात्राका लागि आवश्यक सम्पूर्ण सामग्री ल्याऊ। द्वारकामा जुन पवित्र अग्नि छ, त्यो तथा हाम्रा पुरोहितहरूलाई ल्याऊ।
16सुन, चाँदी, गाई, वस्त्र, घोडा, हात्ती, रथ, खच्चड, ऊँट तथा भारी बोक्ने अन्य पशु ल्याऊ।
17पवित्र तीर्थहरूको यात्राका लागि यी सम्पूर्ण आवश्यक वस्तु ल्याऊ र चाँडै सरस्वतीतिर हिँड।
18विशेष कर्मकाण्डको अनुष्ठानका लागि केही पुरोहित तथा सयौं-सयौं श्रेष्ठ ब्राह्मण पनि ल्याऊ।" सेवकहरूलाई यी आज्ञा दिएर बलवान् बलदेव कुरुहरूका लागि महान् सङ्कटको त्यस समय तीर्थयात्रामा निस्के। हे भरतवंशमा श्रेष्ठ, सरस्वतीतिर प्रस्थान गरेर उनले पुरोहित, मित्र र अनेक प्रमुख ब्राह्मणहरूसहित, तथा रथ, हात्ती, घोडा र सेवकहरूसहित, एवं गाई, खच्चड र ऊँटले तान्ने अनेक सवारीसहित त्यसको तटका सम्पूर्ण पवित्र तीर्थको दर्शन गरे।
19हे राजन्, नाना प्रकारका जीवनोपयोगी वस्तुहरू विभिन्न देशमा थाकेका-हारेका मानिस, बालक र वृद्धहरूबीच तिनको प्रार्थनाको उत्तरमा प्रशस्त मात्रामा बाँडिए।
20हे राजन्, सर्वत्र ब्राह्मणहरूलाई जे-जति तिनीहरू चाहन्थे, त्यसैले भरपूर भोजन गराइयो। रोहिणीपुत्रको आज्ञाले मानिसहरूले यात्राका विभिन्न पडावमा पर्याप्त अन्न र पेयको भण्डार जुटाए।
21सुख र आरामका इच्छुक ब्राह्मणहरूमा बहुमूल्य वस्त्र, ओछ्यान र ओढ्ने चादर बाँडिए। जुन ब्राह्मण वा क्षत्रियलाई जे चाहिन्थ्यो, त्यो उसलाई दिइयो।
22यसरी त्यो दल महान् प्रसन्नताका साथ अगाडि बढ्यो र सुखपूर्वक रह्यो। हे भरतवंशमा श्रेष्ठ, बलरामका अनुचरहरूले यात्रा गर्न इच्छुकहरूलाई सवारी, तिर्खाएकालाई पेय र भोकाहरूलाई स्वादिष्ट भोजन दिए, तथा अनेकलाई वस्त्र र गहना पनि दिए।
23हे राजन्, जुन बाटोबाट त्यो दल अगाडि बढ्यो, त्यो देदीप्यमान देखिन्थ्यो, सबैका लागि सुखकर थियो र साक्षात् स्वर्गजस्तै देखिन्थ्यो।
24सर्वत्र आनन्दोत्सव थिए र सर्वत्र स्वादिष्ट भोजन उपलब्ध थियो। त्यहाँ पसल र मञ्च थिए र तिनमा नाना वस्तु बिक्रीका लागि राखिएका थिए। सम्पूर्ण बाटो मानिसहरूले भरिएको थियो। अनि त्यो नाना प्रकारका रूख, प्राणी तथा नाना प्रकारका रत्नले सुसज्जित थियो।
25हे राजन्, कठोर व्रत पालन गर्दै महात्मा बलदेवले विभिन्न पवित्र स्थानमा ब्राह्मणहरूबीच प्रशस्त धन र भरपूर दक्षिणा बाँडे।
26यदुवंशका ती प्रमुखले उत्तम वस्त्रले छोपिएका र सुनले मोहोरिएका सिङ भएका हजारौं दुधालु गाई, विभिन्न देशमा जन्मेका अनेक घोडा, अनेक सवारी तथा अनेक सुन्दर दासी पनि बाँडे।
27बलरामले श्रेष्ठ ब्राह्मणहरूलाई रत्न, माला, हीरा, शुद्ध सुन र चाँदी तथा फलाम र तामाका बनेका भाँडा पनि दिए।
28यसरी महात्मा रामले सरस्वतीका विभिन्न पवित्र तीर्थमा धन बाँडे। आफ्नो यात्राको क्रममा अतुलनीय शक्ति भएका ती उदार वीर अन्ततः कुरुक्षेत्र आइपुगे।
29जनमेजयले भने — हे पुरुषहरूमा श्रेष्ठ, मलाई सरस्वतीका ती अनेक तीर्थका लक्षण, उत्पत्ति र महिमा तथा त्यहाँ जाँदा गरिने कर्महरूको वर्णन गर्नुहोस्।
30हे यशस्वी महापुरुष, यी सबै मलाई क्रमपूर्वक बताउनुहोस्। हे ब्रह्मज्ञानका ज्ञाताहरूमा श्रेष्ठ, मेरो जिज्ञासा तृप्त नै हुँदैन।
31वैशम्पायनले भने — हे राजन्, यी सम्पूर्ण तीर्थका लक्षण र उत्पत्तिको वृत्तान्त अत्यन्त विस्तृत छ। तथापि म तिनलाई तिमीलाई बताउनेछु। हे राजन्, त्यो पवित्र वृत्तान्त सुन।
32आफ्ना पुरोहित र मित्रहरूसहित बलदेव सर्वप्रथम प्रभास नामक तीर्थमा गए। त्यहीँ नक्षत्रहरूका स्वामी (सोम), जो क्षयरोगले पीडित थिए, आफ्नो रोगबाट मुक्त भएका थिए। हे राजन्, त्यहाँ तेज पुनः प्राप्त गरेर उनी अब विश्वलाई प्रकाशित गर्दछन्। अनि किनभने पृथ्वीको त्यस श्रेष्ठ तीर्थले पूर्वकालमा सोमलाई पुनः प्रभायुक्त बनाएको थियो, त्यसैले त्यो प्रभास कहलिन्छ।
33जनमेजयले भने — "पूज्य सोम कुन कारणले क्षयरोगले पीडित भए? उनले त्यस तीर्थमा स्नान कसरी गरे? त्यस पवित्र जलमा स्नान गरेर उनले आफ्नो गुमेको शक्ति कसरी पुनः प्राप्त गरे? हे महामुनि, मलाई यो विस्तारपूर्वक बताउनुहोस्।"
34वैशम्पायनले भने — हे राजन्, दक्षका सत्ताइस कन्या थिए। यी सबै उनले सोमलाई (विवाहमा) दिए।
35हे राजन्, विभिन्न नक्षत्रसँग सम्बद्ध यशस्वी कर्म भएका सोमकी ती पत्नीहरूले मानिसहरूलाई कालको गणना गर्न सहायता गर्थे।
36विशाल नेत्र भएका ती सबै संसारमा अनुपम सुन्दरी थिए। तर सौन्दर्यमा रोहिणी ती सबैभन्दा बढी थिइन्।
37पूज्य सोमलाई उनीसँग अत्यधिक अनुराग भयो। उनी उनलाई धेरै प्रिय थिइन् र त्यसैले उनी केवल उनकै सान्निध्यको सुख भोग्थे।
38हे राजन्, पूर्वकालमा सोम दीर्घकालसम्म केवल रोहिणीकै साथमा रहे। यसैकारण उनका ती अन्य पत्नीहरू, अर्थात् नक्षत्रहरू, ती महात्मासँग अप्रसन्न भए।
39आफ्ना पिता प्रजापति दक्षकहाँ गएर तिनीहरूले उनलाई भने — "सोम हामीसँग बस्दैनन्। उनी सधैँ केवल रोहिणीसँगै बस्दछन्।
40त्यसैले हे प्रजापति, हामी सबै कठोर तपस्या गर्दै तपाईंकै घरमा बस्नेछौँ।"
41तिनका यी वचन सुनेर दक्षले सोमसँग भेटेर उनलाई भने — "आफ्ना सम्पूर्ण पत्नीसँग समान व्यवहार गर। महान् पाप नगर।"
42अनि तब दक्षले आफ्ना ती कन्याहरूलाई भने — "तिमीहरू सबै शशीकहाँ जाऊ। मेरो आज्ञाले चन्द्रमा नामधारी उनले तिमीहरू सबैसँग समान व्यवहार गर्नेछन्।"
43उनले विदा गरेपछि तिनीहरू तब शीतल किरण भएका ती (सोम)को घर गए। हे राजन्, तथापि पूज्य सोम पहिलेझैँ नै आचरण गरिरहे, किनभने केवल रोहिणीसँग प्रसन्न रहेर उनी सधैँ उनकै साथ बस्थे।
44तब उनका अन्य पत्नीहरू पुनः आफ्ना पिताको धाममा आए र उनलाई भने — "तपाईंको सेवा गर्दै हामी तपाईंकै संरक्षणमा बस्नेछौँ। सोम हामीसँग बस्दैनन् र तपाईंको आज्ञा पालन गर्दैनन्।"
45तिनका यी वचन सुनेर दक्षले पुनः सोमलाई भने — "आफ्ना सम्पूर्ण पत्नीसँग समान व्यवहार गर। हे विरोचन, मबाट तिमीलाई श्राप नदिलाऊ।"
46तर दक्षको आज्ञाको अवहेलना गरेर पूज्य सोम केवल रोहिणीसँगै बसिरहे। यसमा उनका अन्य पत्नीहरू पुनः क्रुद्ध भए।
47आफ्ना पिताकहाँ गएर तिनीहरूले शिर निहुराएर उनलाई प्रणाम गरे र भने — "सोम हामीसँग बस्दैनन्। हामीलाई आश्रय दिनुहोस्।
48पूज्य चन्द्रमा सधैँ केवल रोहिणीसँगै बस्दछन्। उनी तपाईंका वचनलाई महत्त्व दिँदैनन् र हामीलाई प्रेम गर्न चाहँदैनन्। त्यसैले हाम्रो रक्षा गर्नुहोस्, जसले गर्दा सोमले हामी सबैलाई स्वीकार गरून्।"
49हे राजन्, यी वचन सुनेर पूज्य दक्ष क्रुद्ध भए र उनले सोमलाई क्षयरोगको श्राप दिए। यसरी त्यो रोग नक्षत्रहरूका राजालाई लाग्यो।
50क्षयरोगले पीडित चन्द्रमा दिनप्रतिदिन क्षीण हुन थाले। हे राजन्, उनले नाना यज्ञको अनुष्ठान गरेर त्यस रोगबाट मुक्त हुने धेरै प्रयत्न गरे। तर चन्द्रमाले आफूलाई त्यस श्रापबाट मुक्त गर्न सकेनन्। यसको विपरीत उनी प्रतिदिन दुर्बल र कृश हुँदै गए।
51सोम क्षीण भएकाले औषधिहरू उम्रन छाडे। तिनको रस सुक्यो, तिनी नीरस भए र तिनीहरू सबैले आफ्ना गुण गुमाए।
52अनि औषधिको अभावका कारण प्राणीहरू पनि मर्न थाले। वास्तवमा सोम क्षीण हुँदा सम्पूर्ण प्राणी कृश हुँदै गए।
53हे राजन्, तब सम्पूर्ण देवताहरूले सोमको नजिक गएर उनलाई सोधे — "तपाईंको रूप पहिलेजस्तै सुन्दर र देदीप्यमान किन छैन? हामीलाई बताउनुहोस् कि यो महान् विपत्ति कहाँबाट उत्पन्न भयो।
54तपाईंको उत्तर सुनेर हामी तपाईंको भय हटाउन जे आवश्यक हुन्छ, त्यो गर्नेछौँ।" यसरी सम्बोधन गरिएपछि शशचिह्न भएका ती देवले तिनीहरूलाई उत्तर दिए र तिनीहरूलाई श्रापको तथा त्यस क्षयरोगको कारणको, जसबाट उनी ग्रस्त थिए, जानकारी दिए।
55ती वचन सुनेर देवताहरू दक्षकहाँ गए र भने — "हे पूज्य, सोममाथि प्रसन्न हुनुहोस्। आफ्नो यो श्राप फिर्ता लिनुहोस्।
56चन्द्रमा अत्यन्त कृश भइसकेका छन्। उनको शरीरको केवल थोरै भाग मात्र देखिन्छ। हे देवेश्वर, उनी क्षीण भएका कारण सम्पूर्ण प्राणी पनि क्षीण हुँदै छन्। नाना प्रकारका लहरा र औषधि पनि क्षीण हुँदै छन्।
57तिनको क्षयले हामी आफैँ पनि कृशता भोग्दै छौँ। हामीविना यो सम्पूर्ण विश्व के रहनेछ? हे विश्वेश्वर, यो जानेर तपाईं सोममाथि प्रसन्न हुनुपर्दछ।"
58यसरी सम्बोधन गरिएपछि प्रजापति दक्षले भने — "मेरो वचनलाई अन्यथा गर्न असम्भव छ।
59तथापि हे देवताहरू, उपायले मेरा वचन फिर्ता लिन सकिन्छन्। चन्द्रमाले आफ्ना पत्नीहरूसँग समान व्यवहार गरून्।
60सरस्वतीको त्यस श्रेष्ठ तीर्थमा स्नान गरेर पनि शशाङ्कित ती देवले आफ्नो बल पुनः प्राप्त गर्नेछन्। मेरा यी वचन सत्य छन्।
61आधा महिनासम्म सोम प्रतिदिन क्षीण हुनेछन् र त्यसपछि आधा महिनासम्म प्रतिदिन बढ्नेछन्। मेरा यी वचन सत्य छन्।
62पश्चिमी समुद्रमा त्यस ठाउँमा गएर, जहाँ सरस्वती जलको त्यस विशाल भण्डार — समुद्र — सँग मिल्दछिन्, उनले त्यहाँ देवाधिदेव महादेवको आराधना गरून्। तब उनले आफ्नो रूप र सौन्दर्य पुनः प्राप्त गर्नेछन्।"
63ऋषि दक्षले यसरी आज्ञा दिएपछि सोम तब सरस्वतीतिर हिँडे। उनी सरस्वतीको प्रभास नामक त्यस महानतम तीर्थमा पुगे।
64औंसीको दिन त्यहाँ स्नान गरेर महातेजस्वी र महाप्रभावशाली ती देवले आफ्ना शीतल किरण पुनः प्राप्त गरे र पुनः विश्वलाई प्रकाशित गर्न थाले।
65हे राजन्, सम्पूर्ण प्राणी पनि प्रभास गएर आफ्नो बीचमा सोमलाई लिएर त्यहाँ फर्के जहाँ दक्ष थिए।
66तिनको विधिपूर्वक स्वागत गरेर ती प्रजापतिले तब तिनीहरूलाई विदा गरे। सोमसँग प्रसन्न भई पूज्य दक्षले उनलाई पुनः भने — "हे पुत्र, ब्राह्मणहरूको अवहेलना नगर र कहिल्यै अवहेलना नगर्नू। जाऊ र मेरो आज्ञा पालन गर।"
67उनले विदा गरेपछि सोम आफ्नो धाम फर्के। सम्पूर्ण प्राणी पहिलेझैँ आनन्दपूर्वक बस्न थाले।
68यसरी मैले तिमीलाई सबै कुरा बताएँ कि चन्द्रमालाई श्राप कसरी मिल्यो र प्रभास सम्पूर्ण तीर्थमा श्रेष्ठ कसरी बन्यो।
69हे राजन्, औंसीको प्रत्येक दिन शशचिह्न भएका ती देवले प्रभासको त्यस उत्तम तीर्थमा स्नान गर्दछन् र आफ्नो रूप तथा सौन्दर्य पुनः प्राप्त गर्दछन्।
70हे पृथ्वीपते, त्यो तीर्थ प्रभास नामले चिनिन्छ, किनभने त्यहाँ स्नान गरेर चन्द्रमाले आफ्नो महान् प्रभा पुनः प्राप्त गरेका थिए।
71यसपछि बलवान् र यशस्वी बलदेव चमसोद्भेद नामक त्यस तीर्थतिर गए, जो यसै नामले पुकारिन्छ।
72त्यस ठाउँमा अनेक बहुमूल्य उपहार बाँडेर हलधारी ती वीरले त्यहाँ एक रात बिताए र विधिपूर्वक आफ्ना स्नानादि कर्म गरे।
73त्यसपछि केशवका जेठा दाजु चाँडै उदपान गए। यद्यपि त्यहाँ सरस्वती दृष्टिगोचर हुँदिनन्, तथापि हे राजन्, तपःसिद्ध पुरुषहरूले त्यस ठाउँको महान् पुण्यता र पवित्रताका कारण तथा त्यहाँका औषधि र भूमिको शीतलताका कारण यो जान्दछन् कि त्यहाँ पृथ्वीमुनि त्यस नदीको अदृश्य धारा बग्दछ।