कीचक-वध पर्व — कीचक का वध
खण्ड 3 — विराट एवं उद्योग पर्व · अध्याय 22
संस्कृत
1भीमसेन उवाच तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे। अद्य तं सूदयिष्यामि कीचकं सहबान्धवम्॥
2अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संगतम्। दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते॥
3यैषा नर्तनशालेह मत्स्यराजेन कारिता। दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम्॥
4तत्रास्ति शयनं दिव्यं दृढाङ्गं सुप्रतिष्ठितम्। तत्रास्य दर्शयिष्यामि पूर्वप्रेतान् पितामहान्॥
5यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम्। कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत्॥
6वैशम्पायन उवाच तथा तौ कथयित्वा तु वाष्पमुत्सृज्य दुःखितौ। रात्रिशेषं तमत्युग्रं धारयामासतुर्हदि॥
7तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः। गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत्॥
8सभायां पश्यतो राज्ञः पातयित्वा पदाहनम्। न चैवालभसे त्राणमभिपन्ना बलीयसा॥
9प्रवादेनेह मत्स्यानां राजा नाम्नायमुच्यते। अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः॥
10मां सुखं प्रतिपद्यस्व दासो भीरु भवामि ते। अह्नाय तव सुश्रोणि शतं निष्कान् ददाम्यहम्॥ दासीशतं च ते दद्यां दासानामपि चापरम्। रथं चाश्वतरीयुक्तमस्तु नौ भीरु संगमः॥
11द्रौपद्युवाच एवं मे समयं त्वद्य प्रतिपद्यस्व कीचका न त्वां सखा वा भ्राता वा जानीयात् संगतं मया।।१२। अनुप्रवादाद् भीतास्मि गन्धर्वाणां यशस्विनाम्। एवं मे प्रतिजानीहि ततोऽहं वशगा तव॥
12कीचक उवाच एवमेतत् करिष्यामि यथा सुश्रोणि भाषसे। एको भद्रे गमिष्यामि शून्यमावसथं तव॥ समागमार्थ रम्भोरु त्वया मदनमोहितः। यथा त्वां नैव पस्येयुर्ग-धर्वा: सूर्यवर्चसः॥
13द्रौपद्युवाच यदेतनर्तनागारं मत्स्यराजेन कारितम्। दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम्॥
14तमिस्र तत्र गच्छेथा गन्धर्वास्तन्न जानते। तत्र दोषः परिहतो भविष्यति न संशयः॥
15वैशम्पायन उवाच तमर्थमपि जल्पन्त्याः कृष्णायाः कीचकेन ह। दिवसाधु समभवन्मासेनैव समं नृप॥
16कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः। सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान्॥
17गन्धाभरणमाल्येषु व्यासक्तः सविशेषतः। अलंचक्रे तदाऽऽत्मानं सत्वरः काममोहितः॥
18तस्य तत् कुर्वतः कर्म कालो दीर्घ इवाभवत्। अनुचिन्तयतश्चापि तामेवायतलोचनाम्॥ आसीदभ्यधिका चापि श्रीः श्रियं प्रमुमुक्षतः। निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः॥
19कृतसम्प्रत्ययस्तस्याः कीचकः काममोहितः। नाजानाद् दिवसं यान्तं चिन्तयानः समागमम्॥
20ततस्तु द्रौपदी गत्वा तदा भीमं महानसे। उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकम्॥
21तमुवाच सुकेशान्ता कीचकस्य मया कृतः। संगमो नर्तनागारे यथावोचः परंतप॥ शून्यं स नर्तनागारमागमिष्यति कीचकः। एको निशि महाबाहो कीचकं तं निषूदय॥
22तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम्। गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव।॥
23दोश्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते। तं त्वं प्रहरतां श्रेष्ठ ह्रदानागमिवोद्धर॥
24अश्रु दुःखाभिभूताया मम माजस्व भारत। आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च॥
25भीमसेन उवाच स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम्। न ह्यन्यं कञ्चिदिच्छामि सहायं वरवर्णिनी॥
26या मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे। हत्वा हिडिम्बं सा प्रीतिर्ममासीद् वरवर्णिनी॥ सत्यं भ्रातूंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते। कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा।॥
27तं गहरे प्रकाशे वा पोथयिष्यामि कीचकम्। अथ चेदपि योत्स्यन्ति हिंसे मत्स्यानपि ध्रुवम्॥
28ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुन्धराम्। कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः॥
29द्रौपद्युवाच यथा न संत्यजेथास्त्वं सत्यं वै मत्कृते विभो। निगूढस्त्वं तथा पार्थ कीचकं तं निषूदय॥
30भीमसेन उवाच एवमेतत् करिष्यामि यथा त्वं भीरु भाषसे। अद्य तं सूदयिष्यामि कीचकं सह बान्धवैः॥
31अदृश्यमानस्तस्याथ तमस्विन्यामनिन्दिते। नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः। अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः॥
32वैशम्पायन उवाच भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत्। मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत कीचकम्॥
33कीचकश्चाप्यलंकृत्य यथाकाममुपागमत्। तां वेलां नर्तनागारं पाञ्चालीसंगमाशया॥
34मन्यमानः स संकेतमागारं प्राविशच्च तत्। प्रविश्य च स तद् वेश्म तसमा संवृतं महत्॥ पूर्वागतं ततस्तत्र भीममप्रतिमौजसम्। एकान्तावस्थितं चैनमाससाद स दुर्मतिः॥
35शयानं शयने तत्र सूतपुत्रः परामृशत्। जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह॥
36उपसंगम्य चैवैनं कीचकः काममोहितः। हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत॥
37प्रापितं ते मया वित्तं बहुरूपमनन्तकम्। यत् कृतं धनरत्नाढ्यं दासीशतपरिच्छदम्॥ रूपलावण्ययुक्ताभिर्युवतीभिरलंकृतम्। गृहं चान्तःपुरं सुभ्र क्रीडारतिविराजितम्। तत् सर्वं त्वां समुद्दिश्य सहसाहमुपागतः॥ अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः। सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान्॥
38भीमसेन उवाच दिष्ट्या त्वं दर्शनीयोऽथ दिष्ट्याऽऽत्मानं प्रशंससि। ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित्॥
39स्पर्श वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः। स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह॥
40वैशम्पायन उवाच इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः। सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह॥
41अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि। द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम्॥
42निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति। सुखमेव चरिष्यन्ति सैरन्ध्याः पतयः सदा॥
43ततो जग्राह केशेषु माल्यवत्सु महाबलः। स केशेषु परामृष्टो बलेन बलिनां वरः॥ आक्षिप्य केशान् वेगेन बाह्वोर्जग्राह पाण्डवम्। बाहुयुद्धं तयोरासीत् क्रुद्धयोर्नरसिंहयोः॥
44वसन्ते वासिताहेतोर्बलवद्गजयोरिव। कीचकानां तु मुख्यस्य नराणामुत्तमस्य च॥
45वालिसुग्रीवयोर्धात्रोः पुरेव कपिसिंहयोः। अन्योन्यमपि संरब्धौ परस्परजयैषिणौ॥
46ततः समुद्यम्य भुजौ पञ्चशीर्षाविवोरगौ। नखदंष्ट्राभिरन्योन्यं घतः क्रोधविषोद्धतौ॥
47वेगेनाभिहतो भीमः कीचकेन बलीयसा। स्थिरप्रतिज्ञः स रणे पदान्न चलितः पदम्॥
48तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम्। उभावपि प्रकाशेते प्रवृद्धौ वृषभाविव॥
49तयोासीत् सुतुमुलः सम्प्रहारः सुदारुणः। नखदन्तायुधवतोाघ्योरिव दृप्तयोः॥
50अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः। मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखम्॥
51स चाप्येनं तदा भीमः प्रतिजग्राह वीर्यवान्। तमाक्षिपत् कीचकोऽथ बलेन बलिनां वरः॥
52तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा। शब्दः समभवद् घोरो वेणुस्फोटसमो युधि॥
53अथैनमाक्षिप्य बलाद् गृहमध्ये वृकोदरः। धूनयामास वेगेन वायुश्चण्ड इव दुमम्॥
54भीमेन च परामृष्टो दुर्बलो बलिना रणे। प्रास्पन्दत यथाप्राणं विचकर्ष च पाण्डवम्॥
55ईषदाकलितं चापि क्रोधाद् दुतपदं स्थितम्। कीचको बलवान् भीमं जानुभ्यामाक्षिपद् भुवि॥
56पातितो भुवि भीमस्तु कीचकेन बलीयसा। उत्पपाताथ वेगेन दण्डपाणिरिवान्तकः॥
57स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ। निशीथे पर्यकर्षेतां बलिनौ निर्जने स्थले॥
58ततस्तद् भवनं श्रेष्ठं प्राकम्पत मुहुर्मुहुः। बलवच्चापि संक्रुद्धावन्योन्यं प्रति गर्जतः॥
59तलाभ्यां स तु भीमेन वक्ष्स्यभिहतो बली। कीचको रोषसंतप्तः पदान्न चलितः पदम्॥
60मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम्। बलादहीयत तदा सूतो भीमबलादितः॥
61तं हीयमानं विज्ञाय भीमसेनो महाबलः। वक्षस्थानीय वेगेन ममर्दैनं विचेतसम्॥
62क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः। जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम्॥
63गृहीत्वा कीचकं भीमो विरराज महाबलः। शार्दूलः पिशिताकाक्षी गृहीत्वेव महामृगम्॥
64तत एनं परिश्रान्तमुपलभ्य वृकोदरः। योक्त्रयामास बाहुभ्यां पशुं रशनया यथा॥
65नदन्तं च महानादं भिन्नभेरीसमस्वनम्। भ्रामयामास सुचिरं विस्फुरन्तमचेतसम्॥
66प्रगृह्य तरसा दोर्भ्यां कण्ठं तस्य वृकोदरः। अपीडयत कृष्णायास्तदा कोपोपशान्तये॥
67अथ तं भग्नसर्वाङ्गं व्याविद्धनयनाम्बरम्। आक्रम्य च कटीदेशे जानुना कीचकाधमम्। अपीडयत बाहुभ्यां पशुमारममारयत्॥ तं विषीदन्तमाज्ञाय कीचकं पाण्डुनन्दनः। भूतले भ्रामयामास वाक्यं चेदमुवाच ह॥
68अद्याहमनृणो भूत्वा भ्रातुर्भार्यापहारिणम्। शान्तिं लब्धास्मि परमां हत्वा सैरन्ध्रकण्टकम्॥
69स्तं कीचकं क्रोधसरागनेत्रः। मुद्धान्तनेत्रं व्यसुमुत्ससर्ज॥
70निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटं बली। समाक्रम्य च संक्रुद्धो बलेन बलिनां वरः॥ तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः। काये प्रवेशयामास पशोरिव पिनाकधृक्॥
71तं सम्मथितसर्वाङ्गं मांसपिण्डोपमं कृतम्। कृष्णाया दर्शयामास भीमसेनो महाबलः॥
72उवाच च महातेजा द्रौपदी योषितां वराम्। पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः॥
73एवमुक्त्वा महाराज भीमो भीमपराक्रमः। पादेन पीडयामास तस्य कायं दुरात्मनः॥
74ततोऽग्नि तत्र प्रज्वाल्य दर्शयित्वा तु कीचकम्। पाञ्चालीं स तदा वीर इदं वचनमब्रवीत्॥
75प्रार्थयन्ति सुकेशान्ते ये त्वां शीलगुणान्विताम्। एवं ते भीरु वध्यन्ते कीचकः शोभते यथा॥
76तत् कृत्वा दुष्करं कर्म कृष्णायाः प्रियमुत्तमम्। तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम्॥
77आमन्त्र्य द्रौपदी कृष्णां क्षिप्रमायान्महानसम्। कीचकं घातयित्वा तु द्रौपदी योषितां वरा। प्रहृष्टा गतसंतापा सभापालानुवाच ह॥
78कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्ममा परस्त्रीकामसम्मत्तस्तत्रागच्छत पश्यत॥
79तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः। सहसैव समाजग्मुरादायोल्काः सहस्रशः॥
80ततो गत्वाथ तद् वेश्म कीचकं विनिपातितम्। गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम्॥ पाणिपादविहीनं तु दृष्ट्वा च व्यथिताऽभवन्। निरीक्षन्ति ततः सर्वे परं विस्मयमागताः॥
81अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम्। क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा॥
अंग्रेज़ी
1Bhima said O gentle one, I will do that which you say. O timid one, I will kill Kichaka today with all his friends.
2O Yagaseni of beautiful smile, having given up your sorrow and grief do so as will bring him on good terms with you on tomorrow's evening.
3There is the dancing house which the king of the Matsya's has caused to be built; there the girls dance during the day and retire to their respective homes at night.
4In that hall there is a bedstead fixed firm and conveniently placed; there I will make him see the spirits of his deceased manes.
5In course of holding conversation with him, do such as others might not see you. O auspicious one, also manage in such a way as he might come near you.
6Vaishampayana said Having thus held their mutual conversation, and shedding tears in grief, they both awaited the dawn of that night with an anxious heart.
7That night being passed, Kichaka rose up in the morning, and having gone to the royal house, addressed Draupadi in the following terms.
8I hurled you down in the court and kicked you in the very presence of the king. Having fallen under the grasp of my mighty self you could not obtain deliverance.
9Virata is said to be the king of the Matsya's, but that is only in name; lord of the forces, it is I alone who am verily the king of the Matsya's.
10O timid one, accept me happily; I shall become your slave. O you of beautiful hips, I shall give you anon a hundred Nishkas and a hundred male and a hundred female servants. I shall also bestow on you cars yoked with mules; ( beautiful one, let us be united.
11Draupadi said O Kichaka, (I agree to this now, this is my condition, that you should accede to (do so); neither your friends nor your brothers may know that we are united. I am really afraid of the detection by those renowned Gandharvas. If you promise me this, I shall certainly be yours.
12Kichaka said O you of beautiful hips, I will do what you say; overcome by the god of love O gentle one, I shall go alone to your lonely abode for the purpose of being united with you, so that, O you of elegant thighs, the Gandharvas, as brilliant as the sun, might not be able to see you.
13Draupadi said Behold there is the dancing hall erected by the king of the Matsya's. Here the girls dance during the day and retire to their respective homes at night.
14Everywhere there surrounds darkness so, come to see me there. The Gandharvas do not know that place. No doubt, the vice too shall be removed by reason of meeting there,
15Vaishampayana said O king, thinking of the conversation she had with Kichaka, that half day appeared to Krishna as long as a whole month.
16Thereupon she again informed Bhimasena of his conduct; Kichaka too, going to his house, was filled with joy.
17That stupid could not understand that his death was in the shape of Sairandhri and he became especially busy with perfumeries, ornaments and garlands.
18He, then possessed by lust adorned himself speedily. While he was doing this and thinking of the female with large eyes, the time appeared to him to be long; and the beauty which was about to forsake him, appeared to him to be increased,
19Like the wick of a burning lamp at the time of its expiration. Placing perfect confidence in her, Kichaka, possessed by lust,
20Thinking of the meeting could not perceive that the day had passed away. Thereupon going to Bhima in the kitchen Draupadi.
21Of auspiciousness, sat by his husband, the descendant of Kuru; that lady of beautiful hair said to him: “O slayer of foes, as directed by you, I have given Kichaka to understand that our meeting shall take place in the theatre hall. Kichaka shall come to that empty dancing-hall.
22Alone at night, O son of Kunti, slay him, that son of a Suta inflated with pride.
23O Pandava, going to that dancing hall, take his life. From pride only, that son of a Suta slights the Gandharvas.
24O you the best of repressors, lift him up like (Krishna) lifting up the serpent from the lake. O Pandava, wipe my tears who am stricken with grief; may good betide you; save your own honor and that of your family.
25Bhimasena said O fair and timid lady, I shall do what you say, welcome, O fair damsel, you, who have communicated this pleasant news to me.
26O beautiful lady, I do not wish to have any other help from you. My joy on hearing from you of my coming encounter with Kichaka is equal to what I felt when I slew Hidimba. I swear this by truth, morality and my brothers.
27I shall slay Kichaka as did the king of the celestials Vritra; secretly or openly, I shall crush Kichaka.
28If the Matsya's side with him, I shall kill them too; and then slaying Duryodhana, I shall regain the earth; let Kunti's son Yudhishthira continue to pay his homage to the king of the Matsya's.
29Draupadi said O lord, if you do not wish to transgress the pledge you have taken to me, you should, of Partha, slay Kichaka in secret.
30Bhimasena said O timid lady, I shall do what you say; I shall slay today Kichaka with his friends.
31O you of faultless feature, hidden from the view of others in darkness, I shall crush, as an elephant crushes a Bel fruit, the head of the wicked Kichaka, who desires for a thing that cannot be acquired by him.
32Vaishampayana said Thereupon going there hidden at night, Bhima sat expecting Kichaka like a lion for deer.
33Having adorned himself to his liking, Kichaka arrived at the dancing hall at the appointed hour with a view to meet Panchali.
34Considering this as sign, he entered there. Entering the hall enshrouded in darkness, that highly wicked one, came up to Bhima of unequalled prowess, who had gone there before and was waiting in a corner.
35Suta's son approached him who was lying on a bed, burning in anger begotten of the insult (offered to Krishna).
36Approaching him, Kichaka possessed by lust, having his heart filled with delight, smilingly said.
37I have already given to you immense and various wealth and for you a hundred maid servants, with riches and jems and finest robes; O you of air eye-brows, also a palace with inner apartment filled with beautiful, lovely and youthful maid servants and adorned with various sorts of sports and amusements. Having arranged all this, I have all on a sudden come here; the women of my house have begun to praise me, saying: 'There is none like you amongst all the people so well-dressed and beautiful.
38Bhimasena said By my good fortune, you are handsome and you are praising yourself; I think you had not before any such pleasurable touch.
39I consider your touch as burning and you are an expert at gallantry. I do not see any other man like you favourite to women.
40Vaishampayana said Having said this to him, and jumping up all on a sudden, the mighty-armed Bhima, the son of Kunti, endued with dreadful prowess, smilingly said.
41Your sister shall behold you, vile as you are, today drawn by me on earth, like a mighty elephant huge as a mountain dragged by another to the ground.
42You being slain, Sairandhri shall wander unobstructed and we, her husbands, shall live happily.
43The highly powerful Bhima seized him by the hair which were adorned with garlands. Thus caught with force by the hair, that foremost of the powerful, speedily freed his hair and grasped the arms of Bhima. Then there arose a hand to hand fight between those who foremost of men worked up with anger.
44The fight of Kichaka and the foremost of men was like that between two powerful elephants for one she-elephants in the season of spring,
45Or like what took place in the days of yore between the two leading monkeys the brothers Bali and Sugriva. Both equally enraged and desirous of victory,
46They raised up their arms like two snakes having five hoods; and worked up with the poison of anger, they attacked each other with nails and teeth.
47Being struck with great force by the powerful Kichaka, the resolute (Bhima) did not waver a step in the encounter.
48Then embracing and dragging each other, they appeared there like two powerful bulls.
49They having nails and teeth for their weapon, there arose a fierce and great encounter between them like that between two maddened tigers.
50Throwing each other down with their arms and then again seizing in great anger, they fought like two elephants with rent temples.
51Then the powerful Bhima seized Kichaka, and Kichaka too, the foremost of the strong, again threw him down with force.
52Those two powerful (heroes) thus fighting, the crush of their arms engendered a sound resembling the clatter of splitting bamboo's.
53Then throwing Kichaka down with great force in the room, Vrikodara tossed him about with velocity, as a hurricane tosses a tree.
54Being thus assailed by the powerful Bhima in the encounter, he grew weak, trembled and tugged at the Pandava to his very best.
55Making him waver a little, the powerful Kichaka speedily stuck Bhima on the breast with his knees and felled him on the ground.
56Being thrown on the ground by the powerful Kichaka, Bhima rose up again with force, like Yama with mace in his hands.
57Then both Suta and Pandava, maddened with their strength, challenged and grappled with each other at night in that secluded hall.
58While enraged they were thus roaring at each other, that best of houses shook at every moment.
59Slapped on the breast by the powerful Bhima, Kichaka worked up with anger, did not move for a single step.
60Bearing for a moment the force which is incapable of being borm on earth, Suta, belaboured by Bhima, grew enfeebled.
61And seeing that he was growing weak, the highly powerful Bhimasena drawing him forcibly to his breast began to press him who was senseless.
62Breathing hard again and again in anger, Vrikodara the foremost of the victorious held him up always by the hair.
63Seizing Kichaka, the powerful Bhima began to roar like a hunger tiger that has slain a large animal.
64Thereupon on serving him greatly exhausted, Vrikodara bound him fast with his arms like one binding a beast with a rope.
65Then Bhima began to whirl him who was senseless, for a considerable time, and he roared terribly like a discordant bugle.
66Then to console Krishna, Vrikodara got hold of Kichaka's throat with his arms and began to squeeze it.
67Then striking with his knees the waist of that wretch of Kichaka, all whose limbs had been broken into pieces and whose eye-lids were closed, that descendant of Pandu killed him like one killing a beast. Then beholding Kichaka senseless,
68He rolled him on earth and said: “Killing this wretch who has wished to ravish our wife, this thorn of Sairandhri, I am freed from the debt I owed to my brother and am in peace."
69Saying this, that foremost of men, with eyes reddened with ire, left off Kichaka, whose dress and ornaments had been thrown off his body, whose eyes were rolling and who was even then trembling.
70Squeezing his own hand and biting his lips in anger, that foremost of the powerful, attacked him with great force and thrust his arms, legs, neck and head into his body, as did the holder of Pinaka the beast.
71The highly-powerful Bhimasena then showed him to Krishna; all his limbs were crushed and he was reduced into a ball of flesh.
72Gifted with great energy (as he was) he said to Draupadi, that best of women “Behold, O Panchali, what I have done of this hurtful wretch."
73Saying this, O king, Bhima, endued with dreadful prowess, struck with his foot the body of that vicious-souled one.
74Then lighting a lamp there and showing her Kichaka, that hero addressed the following to Panchali.
75"O you of fair hair, O timid damsel, all those who seek you who are gifted with a good character and accomplishments, will be slain by me like this Kichaka."
76Performing that difficult work, highly pleasing to Krishna, and slaying Kichaka, his anger was pacified.
77Bidding farewell to Draupadi, he speedily went to the kitchen. Having brought about the destruction of Kichaka, Draupadi too, the foremost of females.
78Delighted and having her grief removed, said to the guards of the assembly-hall; 'This Kichaka has been slain by my Gandharva husbands.
79He who desired for another's wife; come and see.” Hearing her words the guards of the assembly-hall.
80Came there by thousands, with torches in their hands. And going to that room they saw Kichaka fallen on the ground lifeless, bathing in a pool of blood. Beholding him without arms and legs they were pained.
81When they saw him they were struck with wonder. Seeing that super-human work of his destruction. (They said) : “Where is his neck, where are his feet, arms and where is his head.” They then concluded that he had been slain by the Gandharvas.
हिन्दी
1भीम ने कहा — हे सौम्ये, तुम जो कहती हो, वही मैं करूँगा। हे भीरु, मैं आज कीचक को उसके समस्त बन्धुओं सहित मार डालूँगा।
2हे मधुर मुस्कान वाली याज्ञसेनी, अपना शोक तथा दुःख त्यागकर ऐसा करो कि कल सायंकाल वह तुमसे मेल कर ले।
3वहाँ वह नृत्यशाला है, जिसे मत्स्यराज ने बनवाया है; वहाँ दिन में कन्याएँ नृत्य करती हैं और रात में अपने-अपने घरों को लौट जाती हैं।
4उस शाला में एक दृढ़ता से जड़ी हुई तथा सुविधाजनक स्थान पर रखी शय्या है; वहीं मैं उसे उसके मृत पितरों के दर्शन करा दूँगा।
5उससे बातचीत करते समय ऐसा करना कि दूसरे तुम्हें न देख सकें। हे कल्याणी, ऐसी व्यवस्था भी करना कि वह तुम्हारे समीप आ जाए।
6वैशम्पायन ने कहा — इस प्रकार परस्पर वार्तालाप करके तथा शोक में अश्रु बहाते हुए वे दोनों व्याकुल हृदय से उस रात्रि के प्रभात की प्रतीक्षा करते रहे।
7वह रात्रि बीत जाने पर कीचक प्रातःकाल उठा और राजभवन में जाकर द्रौपदी से इस प्रकार बोला।
8मैंने तुम्हें सभा में पटका और राजा की उपस्थिति में ही लात मारी। मुझ महाबली की पकड़ में आकर तुम छूट नहीं सकीं।
9विराट मत्स्यों के राजा कहलाते हैं, किन्तु वह केवल नाम भर के हैं; सेनापति होकर मैं ही वस्तुतः मत्स्यों का राजा हूँ।
10हे भीरु, मुझे प्रसन्नतापूर्वक स्वीकार करो; मैं तुम्हारा दास बन जाऊँगा। हे सुन्दर नितम्बों वाली, मैं तुम्हें तत्काल सौ निष्क तथा सौ दास और सौ दासियाँ दूँगा। मैं तुम्हें खच्चरों से जुते रथ भी दूँगा; हे सुन्दरी, हम मिल जाएँ।
11द्रौपदी ने कहा — हे कीचक, (मैं अब इसे स्वीकार करती हूँ), किन्तु मेरी यह शर्त है, जिसे तुम्हें मानना होगा — न तुम्हारे मित्र, न तुम्हारे भाई यह जान पाएँ कि हम मिले हैं। मुझे उन विख्यात गन्धर्वों द्वारा पकड़े जाने का सचमुच भय है। यदि तुम मुझसे इसका वचन दो, तो मैं निश्चय ही तुम्हारी हो जाऊँगी।
12कीचक ने कहा — हे सुन्दर नितम्बों वाली, तुम जो कहती हो, वही मैं करूँगा; हे सौम्ये, कामदेव से अभिभूत होकर मैं तुमसे मिलने के लिए अकेला ही तुम्हारे एकान्त निवास पर आऊँगा, जिससे हे सुन्दर जंघाओं वाली, सूर्य के समान तेजस्वी वे गन्धर्व तुम्हें न देख सकें।
13द्रौपदी ने कहा — देखो, वहाँ मत्स्यराज द्वारा बनवाई गई नृत्यशाला है। वहाँ दिन में कन्याएँ नृत्य करती हैं और रात में अपने-अपने घरों को लौट जाती हैं।
14वहाँ चारों ओर अन्धकार छाया रहता है; अतः वहीं मुझसे मिलने आना। गन्धर्व उस स्थान को नहीं जानते। निःसन्देह वहाँ मिलने से दोष भी दूर हो जाएगा।
15वैशम्पायन ने कहा — हे राजन्, कीचक से हुए उस वार्तालाप का स्मरण करते हुए कृष्णा को वह आधा दिन पूरे मास के समान लम्बा लगा।
16तदनन्तर उन्होंने भीमसेन को पुनः उसके आचरण की सूचना दी; कीचक भी अपने घर जाकर हर्ष से भर गया।
17वह मूढ़ यह नहीं समझ सका कि उसकी मृत्यु सैरन्ध्री के रूप में है, और वह विशेष रूप से सुगन्धित द्रव्यों, आभूषणों तथा मालाओं में व्यस्त हो गया।
18तब काम से अभिभूत होकर उसने शीघ्रता से अपना शृंगार किया। ऐसा करते हुए तथा उन विशाल नेत्रों वाली का ध्यान करते हुए उसे समय लम्बा प्रतीत होने लगा; और जो सौन्दर्य उसे छोड़ने ही वाला था, वह उसे बढ़ा हुआ जान पड़ा —
19जैसे जलते दीपक की बत्ती बुझने से पहले (तेज हो जाती है)। उन पर पूर्ण विश्वास करके काम से अभिभूत कीचक —
20उस मिलन का ध्यान करते हुए यह भी नहीं जान सका कि दिन बीत चुका है। तदनन्तर पाकशाला में भीम के पास जाकर द्रौपदी —
21उन कल्याणी ने अपने पति कुरुवंशी के पास बैठकर, उन सुन्दर केशों वाली देवी ने उनसे कहा — "हे शत्रुसंहारक, आपके निर्देशानुसार मैंने कीचक को यह समझा दिया है कि हमारा मिलन नाट्यशाला में होगा। कीचक उस सूनी नृत्यशाला में आएगा।
22हे कुन्तीपुत्र, रात में अकेले में उस अभिमान से फूले हुए सूतपुत्र का वध कीजिए।
23हे पाण्डव, उस नृत्यशाला में जाकर उसके प्राण ले लीजिए। केवल अभिमान से ही वह सूतपुत्र गन्धर्वों को तुच्छ समझता है।
24हे दमन करने वालों में श्रेष्ठ, उसे वैसे ही उठा लीजिए, जैसे (कृष्ण ने) सरोवर से सर्प को उठाया था। हे पाण्डव, शोक से पीड़ित मेरे अश्रु पोंछिए; आपका कल्याण हो; अपना तथा अपने कुल का सम्मान बचाइए।
25भीमसेन ने कहा — हे सुन्दरी तथा भीरु देवी, तुम जो कहती हो, वही मैं करूँगा; हे सुन्दरी, तुम्हारा स्वागत है, जिसने मुझे यह प्रिय समाचार सुनाया।
26हे सुन्दरी, मैं तुमसे और कोई सहायता नहीं चाहता। कीचक के साथ अपने आगामी संघर्ष का समाचार तुमसे सुनकर मुझे उतना ही हर्ष हुआ है, जितना हिडिम्ब के वध के समय हुआ था। मैं सत्य, धर्म तथा अपने भाइयों की शपथ लेकर यह कहता हूँ।
27मैं कीचक का वैसे ही वध करूँगा, जैसे देवराज ने वृत्र का किया था; गुप्त रूप से हो या खुले में, मैं कीचक को कुचल डालूँगा।
28यदि मत्स्य उसका पक्ष लें, तो मैं उन्हें भी मार डालूँगा; और फिर दुर्योधन का वध करके मैं पृथ्वी पुनः प्राप्त करूँगा; कुन्तीपुत्र युधिष्ठिर भले ही मत्स्यराज की सेवा करते रहें।
29द्रौपदी ने कहा — हे स्वामी, यदि आप मुझसे की हुई अपनी प्रतिज्ञा का उल्लंघन नहीं करना चाहते, तो हे पार्थ, आपको कीचक का वध गुप्त रूप से ही करना चाहिए।
30भीमसेन ने कहा — हे भीरु देवी, तुम जो कहती हो, वही मैं करूँगा; मैं आज ही कीचक का उसके बन्धुओं सहित वध कर दूँगा।
31हे निर्दोष अंगों वाली, अन्धकार में दूसरों की दृष्टि से छिपकर मैं उस दुष्ट कीचक का सिर वैसे ही कुचल दूँगा, जैसे हाथी बेल के फल को कुचलता है — उस कीचक का, जो ऐसी वस्तु की कामना करता है, जो उसे कभी प्राप्त नहीं हो सकती।
32वैशम्पायन ने कहा — तदनन्तर रात में वहाँ छिपकर जाकर भीम कीचक की प्रतीक्षा में वैसे ही बैठ गए, जैसे सिंह मृग की प्रतीक्षा में।
33अपनी रुचि के अनुसार शृंगार करके कीचक पांचाली से मिलने के उद्देश्य से निश्चित समय पर नृत्यशाला में आ पहुँचा।
34इसे संकेत मानकर वह भीतर घुसा। अन्धकार से ढँकी उस शाला में प्रवेश करके वह परम दुष्ट अनुपम पराक्रम वाले भीम के पास जा पहुँचा, जो पहले ही वहाँ जाकर एक कोने में प्रतीक्षा कर रहे थे।
35वह सूतपुत्र उनके पास पहुँचा, जो शय्या पर लेटे हुए थे और (कृष्णा को दिए गए) उस अपमान से उत्पन्न क्रोध में जल रहे थे।
36उनके पास पहुँचकर काम से अभिभूत तथा हर्ष से भरे हृदय वाले कीचक ने मुस्कराते हुए कहा।
37मैं तुम्हें पहले ही अपार तथा नाना प्रकार का धन दे चुका हूँ और तुम्हारे लिए सौ दासियाँ, धन-रत्न तथा उत्तम वस्त्र भी; हे सुन्दर भौंहों वाली, साथ ही एक ऐसा प्रासाद भी, जिसके भीतरी कक्ष सुन्दर, मनोहर तथा तरुण दासियों से भरे हैं और जो नाना प्रकार के खेल-कूद तथा मनोरंजन से सज्जित है। यह सब व्यवस्था करके मैं सहसा यहाँ चला आया हूँ; मेरे घर की स्त्रियाँ मेरी प्रशंसा करने लगीं और बोलीं — "समस्त लोगों में तुम-जैसा सुवेश तथा सुन्दर और कोई नहीं।"
38भीमसेन ने कहा — मेरे सौभाग्य से तुम सुन्दर हो और अपनी प्रशंसा स्वयं कर रहे हो; मैं समझता हूँ कि इससे पहले तुम्हें ऐसा सुखद स्पर्श कभी नहीं मिला।
39मैं तुम्हारे स्पर्श को दाहक मानता हूँ और तुम विलास में निपुण हो। मुझे स्त्रियों का ऐसा प्रिय और कोई पुरुष दिखाई नहीं देता।
40वैशम्पायन ने कहा — उससे यह कहकर तथा सहसा उछलकर भयंकर पराक्रम से युक्त कुन्तीपुत्र महाबाहु भीम ने मुस्कराते हुए कहा।
41हे अधम, आज तुम्हारी बहन तुम्हें मेरे द्वारा पृथ्वी पर वैसे ही घसीटा जाता देखेगी, जैसे पर्वत के समान विशाल कोई महागज दूसरे गज द्वारा भूमि पर घसीटा जाता है।
42तुम्हारे मारे जाने पर सैरन्ध्री निर्बाध विचरण करेगी और हम उसके पति सुखपूर्वक रहेंगे।
43महाबली भीम ने उसे मालाओं से सजे उसके केशों से पकड़ लिया। इस प्रकार बलपूर्वक केशों से पकड़े जाने पर उस बलवानों में श्रेष्ठ ने शीघ्र अपने केश छुड़ाए और भीम की भुजाएँ पकड़ लीं। तब क्रोध से भरे उन नरश्रेष्ठों के बीच बाहुयुद्ध छिड़ गया।
44कीचक तथा उन नरश्रेष्ठ का वह युद्ध वैसा ही था, जैसा वसन्त ऋतु में एक हथिनी के लिए दो बलशाली हाथियों के बीच होता है,
45अथवा जैसा प्राचीन काल में दो प्रमुख वानरों — भाई बालि तथा सुग्रीव — के बीच हुआ था। दोनों समान रूप से क्रुद्ध तथा विजय के इच्छुक थे;
46उन्होंने पाँच फणों वाले दो सर्पों के समान अपनी भुजाएँ उठाईं; और क्रोध के विष से भरकर वे नखों तथा दाँतों से एक-दूसरे पर टूट पड़े।
47बलशाली कीचक द्वारा बड़े बल से प्रहार किए जाने पर भी वे दृढ़ (भीम) उस संघर्ष में एक पग भी नहीं डिगे।
48फिर एक-दूसरे को जकड़ते तथा घसीटते हुए वे वहाँ दो बलशाली वृषभों के समान दिखाई देने लगे।
49नख तथा दाँत ही उनके शस्त्र थे, और उनके बीच वैसा ही प्रचण्ड तथा महान् संघर्ष छिड़ा, जैसा दो मत्त बाघों के बीच होता है।
50अपनी भुजाओं से एक-दूसरे को गिराते और फिर महान् क्रोध में पुनः पकड़ते हुए वे मदस्रावी दो हाथियों के समान लड़े।
51तब बलशाली भीम ने कीचक को पकड़ा, और कीचक ने भी, जो बलवानों में श्रेष्ठ था, उन्हें पुनः बलपूर्वक गिरा दिया।
52इस प्रकार लड़ते हुए उन दोनों बलशालियों की भुजाओं की टक्कर से बाँस के फटने के समान शब्द उत्पन्न हुआ।
53तब कीचक को बड़े बल से उस कक्ष में पटककर वृकोदर ने उसे वैसे ही वेग से इधर-उधर झकझोरा, जैसे प्रचण्ड आँधी किसी वृक्ष को झकझोरती है।
54इस प्रकार बलशाली भीम द्वारा उस संघर्ष में आक्रान्त होकर वह दुर्बल पड़ गया, काँपने लगा और अपनी पूरी शक्ति से पाण्डव को खींचने लगा।
55उन्हें थोड़ा डगमगाते देखकर बलशाली कीचक ने शीघ्र अपने घुटनों से भीम की छाती पर प्रहार किया और उन्हें भूमि पर गिरा दिया।
56बलशाली कीचक द्वारा भूमि पर गिराए जाने पर भीम पुनः वेग से उठ खड़े हुए — हाथ में गदा लिए यमराज के समान।
57तब सूत तथा पाण्डव — दोनों अपने बल के मद में — रात के समय उस एकान्त शाला में एक-दूसरे को ललकारते हुए भिड़ गए।
58जब वे क्रुद्ध होकर इस प्रकार एक-दूसरे पर गरज रहे थे, तब वह श्रेष्ठ भवन क्षण-क्षण काँपता रहा।
59बलशाली भीम द्वारा छाती पर थप्पड़ खाकर भी क्रोध से भरा कीचक एक पग भी नहीं हटा।
60पृथ्वी पर जिसे सहा नहीं जा सकता, उस वेग को क्षण भर सहकर भीम द्वारा पीटा गया वह सूत निर्बल पड़ गया।
61और उसे निर्बल होते देखकर महाबली भीमसेन ने उसे बलपूर्वक अपनी छाती से खींचकर उस संज्ञाशून्य को दबाना आरम्भ किया।
62क्रोध में बार-बार जोर से साँस लेते हुए विजयियों में श्रेष्ठ वृकोदर ने उसे सदा केशों से पकड़े रखा।
63कीचक को पकड़कर बलशाली भीम उस भूखे बाघ के समान गरजने लगे, जिसने किसी विशाल पशु का वध किया हो।
64तदनन्तर उसे अत्यन्त थका हुआ देखकर वृकोदर ने उसे अपनी भुजाओं से वैसे ही कसकर बाँध लिया, जैसे कोई रस्सी से पशु को बाँधता है।
65फिर भीम उस संज्ञाशून्य को काफी देर तक घुमाने लगे, और वह बेसुरे बिगुल के समान भयंकर रूप से चीखने लगा।
66तब कृष्णा को सान्त्वना देने के लिए वृकोदर ने अपनी भुजाओं से कीचक का गला पकड़ा और उसे दबाना आरम्भ किया।
67फिर उस अधम कीचक की — जिसके सब अंग टूटकर चूर हो चुके थे और जिसकी पलकें बन्द हो गई थीं — कमर पर अपने घुटनों से प्रहार करके उन पाण्डुवंशी ने उसे वैसे ही मार डाला, जैसे कोई पशु का वध करता हो। तब कीचक को संज्ञाशून्य देखकर —
68उन्होंने उसे भूमि पर लुढ़का दिया और कहा — "हमारी पत्नी का सतीत्व भंग करना चाहने वाले इस अधम को, सैरन्ध्री के इस काँटे को मारकर मैं अपने भाई के ऋण से मुक्त हुआ और शान्ति में हूँ।"
69यह कहकर क्रोध से लाल नेत्रों वाले उन नरश्रेष्ठ ने कीचक को छोड़ दिया, जिसके वस्त्र तथा आभूषण उसके शरीर से गिर चुके थे, जिसकी आँखें उलट रही थीं और जो तब भी काँप रहा था।
70क्रोध में अपना हाथ मलते तथा ओठ चबाते हुए उन बलवानों में श्रेष्ठ ने महान् वेग से उस पर आक्रमण किया और उसकी भुजाओं, टाँगों, ग्रीवा तथा सिर को उसी के शरीर में ठूँस दिया — जैसे पिनाकधारी ने उस पशु के साथ किया था।
71तब महाबली भीमसेन ने उसे कृष्णा को दिखाया; उसके सब अंग कुचल दिए गए थे और वह मांस के एक पिण्ड में बदल चुका था।
72महान् तेज से सम्पन्न उन्होंने नारीश्रेष्ठा द्रौपदी से कहा — "हे पांचाली, देखो, मैंने इस अनिष्टकारी अधम की क्या दशा कर दी।"
73हे राजन्, यह कहकर भयंकर पराक्रम वाले भीम ने उस दुष्टात्मा के शरीर पर अपने पैर से प्रहार किया।
74फिर वहाँ दीपक जलाकर तथा उन्हें कीचक दिखाकर उन वीर ने पांचाली से ये वचन कहे।
75"हे सुन्दर केशों वाली, हे भीरु कन्ये, जो भी तुम्हें चाहेंगे — तुम्हें, जो उत्तम चरित्र तथा गुणों से सम्पन्न हो — वे सब मेरे द्वारा इसी कीचक की भाँति मारे जाएँगे।"
76कृष्णा को अत्यन्त प्रिय वह दुष्कर कार्य सम्पन्न करके तथा कीचक का वध करके उनका क्रोध शान्त हुआ।
77द्रौपदी से विदा लेकर वे शीघ्र पाकशाला को चले गए। कीचक का विनाश करा चुकने पर द्रौपदी ने भी, जो नारियों में श्रेष्ठ थीं —
78प्रसन्न होकर तथा अपना शोक दूर होने पर सभाभवन के रक्षकों से कहा — "मेरे गन्धर्व पतियों ने इस कीचक का वध कर दिया है,
79जिसने पराई स्त्री की कामना की थी; आओ और देखो।" उनके ये वचन सुनकर सभाभवन के रक्षक —
80सहस्रों की संख्या में हाथों में मशालें लिए वहाँ आए। और उस कक्ष में जाकर उन्होंने कीचक को भूमि पर निष्प्राण पड़ा तथा रक्त के कुण्ड में डूबा देखा। उसे भुजाओं तथा टाँगों से रहित देखकर वे व्यथित हो उठे।
81उसे देखकर वे विस्मय से चकित रह गए। उसके विनाश का वह अलौकिक कार्य देखकर (वे बोले) — "इसकी ग्रीवा कहाँ है, इसके पैर, भुजाएँ कहाँ हैं और इसका सिर कहाँ है?" तब उन्होंने यह निष्कर्ष निकाला कि इसका वध गन्धर्वों ने किया है।
नेपाली
1भीमले भने — हे सौम्ये, तिमीले जे भन्छ्यौ, त्यही म गर्नेछु। हे भीरु, म आज कीचकलाई उसका सम्पूर्ण बन्धुसहित मारिदिनेछु।
2हे मधुर मुस्कान भएकी याज्ञसेनी, आफ्नो शोक तथा दुःख त्यागेर यस्तो गर कि भोलि साँझ उसले तिमीसँग मेल गरोस्।
3त्यहाँ त्यो नृत्यशाला छ, जुन मत्स्यराजले बनाउन लगाएका छन्; त्यहाँ दिनमा कन्याहरू नृत्य गर्छन् र रातमा आ-आफ्ना घर फर्किन्छन्।
4त्यस शालामा एउटा दृढतासाथ जडिएको तथा सुविधाजनक ठाउँमा राखिएको शय्या छ; त्यहीँ म उसलाई उसका मृत पितृहरूको दर्शन गराइदिनेछु।
5उसँग कुरा गर्दा यस्तो गर्नू कि अरूले तिमीलाई नदेखून्। हे कल्याणी, यस्तो व्यवस्था पनि गर्नू कि ऊ तिम्रो छेउमा आओस्।
6वैशम्पायनले भने — यसरी परस्पर वार्तालाप गरेर तथा शोकमा आँसु बगाउँदै ती दुवैले व्याकुल हृदयले त्यस रातको बिहानीको प्रतीक्षा गरे।
7त्यो रात बितेपछि कीचक बिहान उठ्यो र राजभवनमा गएर द्रौपदीलाई यसरी भन्यो।
8मैले तिमीलाई सभामा पछारेँ र राजाकै उपस्थितिमा लात हानेँ। म महाबलीको पकडमा परेर तिमी उम्कन सकिनौ।
9विराट मत्स्यहरूका राजा भनिन्छन्, तर त्यो नाम मात्रको हो; सेनापति भएर म नै वास्तवमा मत्स्यहरूको राजा हुँ।
10हे भीरु, मलाई प्रसन्नतापूर्वक स्वीकार गर; म तिम्रो दास बन्नेछु। हे सुन्दर नितम्ब भएकी, म तिमीलाई तुरुन्तै सय निष्क तथा सय दास र सय दासी दिनेछु। म तिमीलाई खच्चर जोतिएका रथ पनि दिनेछु; हे सुन्दरी, हामी मिलौँ।
11द्रौपदीले भनिन् — हे कीचक, (म अब यो स्वीकार गर्छु), तर मेरो यो सर्त छ, जुन तिमीले मान्नुपर्नेछ — न तिम्रा मित्र, न तिम्रा भाइले यो थाहा पाऊन् कि हामी मिलेका छौँ। मलाई ती विख्यात गन्धर्वहरूद्वारा समातिने साँच्चै भय छ। यदि तिमीले मलाई यसको वचन दियौ भने, म निश्चय नै तिम्री हुनेछु।
12कीचकले भन्यो — हे सुन्दर नितम्ब भएकी, तिमीले जे भन्छ्यौ, त्यही म गर्नेछु; हे सौम्ये, कामदेवले अभिभूत भई म तिमीसँग भेट्न एक्लै तिम्रो एकान्त निवासमा आउनेछु, जसले गर्दा हे सुन्दर तिघ्रा भएकी, सूर्यजस्तै तेजस्वी ती गन्धर्वहरूले तिमीलाई नदेखून्।
13द्रौपदीले भनिन् — हेर, त्यहाँ मत्स्यराजले बनाउन लगाएको नृत्यशाला छ। त्यहाँ दिनमा कन्याहरू नृत्य गर्छन् र रातमा आ-आफ्ना घर फर्किन्छन्।
14त्यहाँ चारैतिर अन्धकार छाइरहन्छ; त्यसैले त्यहीँ मसँग भेट्न आउनू। गन्धर्वहरूले त्यो स्थान जान्दैनन्। नि:सन्देह त्यहाँ भेटेर दोष पनि हट्नेछ।
15वैशम्पायनले भने — हे राजन्, कीचकसँग भएको त्यस वार्तालापको सम्झना गर्दै कृष्णालाई त्यो आधा दिन पूरै महिनाजस्तै लामो लाग्यो।
16त्यसपछि उनले भीमसेनलाई पुनः उसको आचरणको सूचना दिइन्; कीचक पनि आफ्नो घर गएर हर्षले भरियो।
17त्यो मूर्खले यो बुझ्न सकेन कि उसको मृत्यु सैरन्ध्रीको रूपमा छ, र ऊ विशेष गरी सुगन्धित द्रव्य, आभूषण तथा मालामा व्यस्त भयो।
18तब कामले अभिभूत भई उसले हतारिँदै आफ्नो शृङ्गार गर्यो। यसो गर्दै र ती विशाल नेत्र भएकीको ध्यान गर्दै उसलाई समय लामो प्रतीत हुन थाल्यो; र जुन सौन्दर्य उसलाई छोड्नै लागेको थियो, त्यो उसलाई बढेको जस्तो लाग्यो —
19जसरी बल्दै गरेको दियोको बत्ती निभ्नुअघि (तेज हुन्छ)। उनीमाथि पूर्ण विश्वास गरेर कामले अभिभूत कीचक —
20त्यस मिलनको ध्यान गर्दै यो पनि थाहा पाउन सकेन कि दिन बितिसक्यो। त्यसपछि पाकशालामा भीमको छेउमा गएर द्रौपदी —
21ती कल्याणीले आफ्ना पति कुरुवंशीको छेउमा बसेर, ती सुन्दर केश भएकी देवीले उनलाई भनिन् — "हे शत्रुसंहारक, तपाईंको निर्देशनअनुसार मैले कीचकलाई यो बुझाइदिएकी छु कि हाम्रो मिलन नाट्यशालामा हुनेछ। कीचक त्यस सुनसान नृत्यशालामा आउनेछ।
22हे कुन्तीपुत्र, रातमा एक्लै त्यस अभिमानले फुलेको सूतपुत्रको वध गर्नुहोस्।
23हे पाण्डव, त्यस नृत्यशालामा गएर उसको प्राण लिनुहोस्। केवल अभिमानले नै त्यो सूतपुत्रले गन्धर्वहरूलाई तुच्छ ठान्छ।
24हे दमन गर्नेहरूमा श्रेष्ठ, उसलाई त्यसै गरी उठाउनुहोस्, जसरी (कृष्णले) सरोवरबाट सर्पलाई उठाएका थिए। हे पाण्डव, शोकले पीडित मेरा आँसु पुछ्नुहोस्; तपाईंको कल्याण होस्; आफ्नो तथा आफ्नो कुलको सम्मान बचाउनुहोस्।
25भीमसेनले भने — हे सुन्दरी तथा भीरु देवी, तिमीले जे भन्छ्यौ, त्यही म गर्नेछु; हे सुन्दरी, तिम्रो स्वागत छ, जसले मलाई यो प्रिय समाचार सुनायौ।
26हे सुन्दरी, म तिमीबाट अरू कुनै सहायता चाहन्नँ। कीचकसँगको आफ्नो आगामी सङ्घर्षको समाचार तिमीबाट सुनेर मलाई त्यति नै हर्ष भएको छ, जति हिडिम्बको वधका बेला भएको थियो। म सत्य, धर्म तथा आफ्ना भाइहरूको शपथ लिएर यो भन्छु।
27म कीचकको त्यसै गरी वध गर्नेछु, जसरी देवराजले वृत्रको गरेका थिए; गुप्त रूपमा होस् वा खुला रूपमा, म कीचकलाई कुल्चिदिनेछु।
28यदि मत्स्यहरूले उसको पक्ष लिए भने, म तिनलाई पनि मारिदिनेछु; र अनि दुर्योधनको वध गरेर म पृथ्वी पुनः प्राप्त गर्नेछु; कुन्तीपुत्र युधिष्ठिरले मत्स्यराजको सेवा गरिरहे पनि हुन्छ।
29द्रौपदीले भनिन् — हे स्वामी, यदि तपाईं मसँग गरेको आफ्नो प्रतिज्ञाको उल्लङ्घन गर्न चाहनुहुन्न भने, हे पार्थ, तपाईंले कीचकको वध गुप्त रूपमै गर्नुपर्छ।
30भीमसेनले भने — हे भीरु देवी, तिमीले जे भन्छ्यौ, त्यही म गर्नेछु; म आजै कीचकको उसका बन्धुसहित वध गरिदिनेछु।
31हे निर्दोष अङ्ग भएकी, अन्धकारमा अरूको दृष्टिबाट लुकेर म त्यस दुष्ट कीचकको टाउको त्यसै गरी कुल्चिदिनेछु, जसरी हात्तीले बेलको फल कुल्चन्छ — त्यस कीचकको, जसले यस्तो वस्तुको कामना गर्छ, जो उसलाई कहिल्यै प्राप्त हुन सक्दैन।
32वैशम्पायनले भने — त्यसपछि रातमा त्यहाँ लुकेर गई भीम कीचकको प्रतीक्षामा त्यसै गरी बसे, जसरी सिंह मृगको प्रतीक्षामा।
33आफ्नो रुचिअनुसार शृङ्गार गरेर कीचक पाञ्चालीसँग भेट्ने उद्देश्यले निश्चित समयमा नृत्यशालामा आइपुग्यो।
34यसलाई सङ्केत ठानेर ऊ भित्र पस्यो। अन्धकारले ढाकिएको त्यस शालामा प्रवेश गरेर त्यो परम दुष्ट अनुपम पराक्रम भएका भीमको छेउमा पुग्यो, जो पहिले नै त्यहाँ गएर एउटा कुनामा प्रतीक्षा गरिरहेका थिए।
35त्यो सूतपुत्र उनको छेउमा पुग्यो, जो शय्यामा पल्टिरहेका थिए र (कृष्णालाई दिइएको) त्यस अपमानबाट उत्पन्न क्रोधमा जलिरहेका थिए।
36उनको छेउमा पुगेर कामले अभिभूत तथा हर्षले भरिएको हृदय भएको कीचकले मुस्कुराउँदै भन्यो।
37मैले तिमीलाई पहिले नै अपार तथा नाना प्रकारको धन दिइसकेको छु र तिम्रा लागि सय दासी, धनरत्न तथा उत्तम वस्त्र पनि; हे सुन्दर आँखीभौँ भएकी, साथै एउटा यस्तो प्रासाद पनि, जसका भित्री कक्ष सुन्दर, मनोहर तथा तरुण दासीहरूले भरिएका छन् र जो नाना प्रकारका खेलकुद तथा मनोरञ्जनले सज्जित छ। यो सबै व्यवस्था गरेर म अचानक यहाँ आएको छु; मेरो घरका स्त्रीहरूले मेरो प्रशंसा गर्न थाले र भने — "सम्पूर्ण मानिसमा तिमीजस्तो सुवेश तथा सुन्दर अरू कोही छैन।"
38भीमसेनले भने — मेरो सौभाग्यले तिमी सुन्दर छौ र आफ्नो प्रशंसा आफैँ गरिरहेका छौ; म ठान्छु कि यसभन्दा पहिले तिमीले यस्तो सुखद स्पर्श कहिल्यै पाएका छैनौ।
39म तिम्रो स्पर्शलाई दाहक ठान्छु र तिमी विलासमा निपुण छौ। मलाई स्त्रीहरूको यस्तो प्रिय अरू कुनै पुरुष देखिँदैन।
40वैशम्पायनले भने — उसलाई यसो भनेर तथा अचानक उफ्रेर भयङ्कर पराक्रमले युक्त कुन्तीपुत्र महाबाहु भीमले मुस्कुराउँदै भने।
41हे अधम, आज तिम्री बहिनीले तिमीलाई मबाट पृथ्वीमा त्यसै गरी घिसारिएको देख्नेछिन्, जसरी पर्वतजस्तै विशाल कुनै महागज अर्को गजद्वारा भूमिमा घिसारिन्छ।
42तिमी मारिएपछि सैरन्ध्री निर्बाध विचरण गर्नेछिन् र हामी उनका पति सुखपूर्वक रहनेछौँ।
43महाबली भीमले उसलाई मालाले सजिएका उसका केशबाट समाते। यसरी बलपूर्वक केशबाट समातिएपछि त्यस बलवान्हरूमा श्रेष्ठले चाँडै आफ्ना केश छुटायो र भीमका पाखुरा समात्यो। तब क्रोधले भरिएका ती नरश्रेष्ठहरूबीच बाहुयुद्ध सुरु भयो।
44कीचक तथा ती नरश्रेष्ठको त्यो युद्ध त्यस्तै थियो, जस्तो वसन्त ऋतुमा एउटी हात्तिनीका लागि दुई बलशाली हात्तीबीच हुन्छ,
45अथवा जस्तो प्राचीन कालमा दुई प्रमुख वानर — दाजुभाइ बालि तथा सुग्रीव — बीच भएको थियो। दुवै समान रूपमा क्रुद्ध तथा विजयका इच्छुक थिए;
46तिनीहरूले पाँच फणा भएका दुई सर्पजस्तै आफ्ना पाखुरा उठाए; र क्रोधको विषले भरिएर तिनीहरू नङ तथा दाँतले एकअर्कामाथि खनिए।
47बलशाली कीचकद्वारा ठूलो बलले प्रहार गरिँदा पनि ती दृढ (भीम) त्यस सङ्घर्षमा एक पाइला पनि डगमगाएनन्।
48अनि एकअर्कालाई जकड्दै तथा घिसार्दै तिनीहरू त्यहाँ दुई बलशाली साँढेजस्तै देखिन थाले।
49नङ तथा दाँत नै तिनका शस्त्र थिए, र तिनीहरूबीच त्यस्तै प्रचण्ड तथा महान् सङ्घर्ष सुरु भयो, जस्तो दुई मातेका बाघबीच हुन्छ।
50आफ्ना पाखुराले एकअर्कालाई ढाल्दै र अनि महान् क्रोधमा पुनः समात्दै तिनीहरू मदस्रावी दुई हात्तीजस्तै लडे।
51तब बलशाली भीमले कीचकलाई समाते, र कीचकले पनि, जो बलवान्हरूमा श्रेष्ठ थियो, उनलाई पुनः बलपूर्वक ढाल्यो।
52यसरी लड्दै गरेका ती दुवै बलशालीका पाखुराको ठक्करले बाँस फुटेजस्तो शब्द उत्पन्न भयो।
53तब कीचकलाई ठूलो बलले त्यस कक्षमा पछारेर वृकोदरले उसलाई त्यसै गरी वेगले यताउता हल्लाए, जसरी प्रचण्ड आँधीले कुनै रूखलाई हल्लाउँछ।
54यसरी बलशाली भीमद्वारा त्यस सङ्घर्षमा आक्रान्त भई ऊ दुर्बल भयो, काँप्न थाल्यो र आफ्नो पूरा शक्तिले पाण्डवलाई तान्न थाल्यो।
55उनलाई अलिकति डगमगाएको देखेर बलशाली कीचकले चाँडै आफ्ना घुँडाले भीमको छातीमा प्रहार गर्यो र उनलाई भूमिमा ढाल्यो।
56बलशाली कीचकद्वारा भूमिमा ढालिएपछि भीम पुनः वेगले उठे — हातमा गदा लिएका यमराजजस्तै।
57तब सूत तथा पाण्डव — दुवै आफ्नो बलको मदमा — रातको समयमा त्यस एकान्त शालामा एकअर्कालाई ललकार्दै भिडे।
58जब तिनीहरू क्रुद्ध भई यसरी एकअर्कामाथि गर्जिरहेका थिए, तब त्यो श्रेष्ठ भवन क्षणक्षण काँपिरह्यो।
59बलशाली भीमद्वारा छातीमा थप्पड खाएर पनि क्रोधले भरिएको कीचक एक पाइला पनि हटेन।
60पृथ्वीमा जुन सहन सकिँदैन, त्यो वेग क्षणभर सहेर भीमद्वारा पिटिएको त्यो सूत निर्बल भयो।
61र उसलाई निर्बल भइरहेको देखेर महाबली भीमसेनले उसलाई बलपूर्वक आफ्नो छातीमा तानेर त्यस संज्ञाशून्यलाई थिच्न थाले।
62क्रोधमा बारम्बार जोडले सास फेर्दै विजयीहरूमा श्रेष्ठ वृकोदरले उसलाई सधैँ केशबाट समातिरहे।
63कीचकलाई समातेर बलशाली भीम त्यस भोकाएको बाघझैँ गर्जन थाले, जसले कुनै विशाल पशुको वध गरेको होस्।
64त्यसपछि उसलाई अत्यन्त थकित देखेर वृकोदरले उसलाई आफ्ना पाखुराले त्यसै गरी कसेर बाँधे, जसरी कसैले डोरीले पशुलाई बाँध्छ।
65अनि भीमले त्यस संज्ञाशून्यलाई निकै बेरसम्म घुमाउन थाले, र ऊ बेसुरो बिगुलझैँ भयङ्कर रूपमा कराउन थाल्यो।
66तब कृष्णालाई सान्त्वना दिन वृकोदरले आफ्ना पाखुराले कीचकको घाँटी समाते र त्यसलाई थिच्न थाले।
67अनि त्यस अधम कीचकको — जसका सबै अङ्ग भाँचिएर चूर भइसकेका थिए र जसका परेला बन्द भइसकेका थिए — कम्मरमा आफ्ना घुँडाले प्रहार गरेर ती पाण्डुवंशीले उसलाई त्यसै गरी मारे, जसरी कसैले पशुको वध गर्छ। तब कीचकलाई संज्ञाशून्य देखेर —
68उनले उसलाई भूमिमा गुडाइदिए र भने — "हाम्री पत्नीको सतीत्व भङ्ग गर्न चाहने यस अधमलाई, सैरन्ध्रीको यस काँडालाई मारेर म आफ्ना दाजुको ऋणबाट मुक्त भएँ र शान्तिमा छु।"
69यसो भनेर क्रोधले राता नेत्र भएका ती नरश्रेष्ठले कीचकलाई छोडे, जसका वस्त्र तथा आभूषण उसको शरीरबाट खसिसकेका थिए, जसका आँखा उल्टिरहेका थिए र जो तब पनि काँपिरहेको थियो।
70क्रोधमा आफ्नो हात मल्दै तथा ओठ चपाउँदै ती बलवान्हरूमा श्रेष्ठले महान् वेगले उसमाथि आक्रमण गरे र उसका पाखुरा, खुट्टा, घाँटी तथा टाउको उसकै शरीरमा घुसाइदिए — जसरी पिनाकधारीले त्यस पशुसँग गरेका थिए।
71तब महाबली भीमसेनले उसलाई कृष्णालाई देखाए; उसका सबै अङ्ग कुल्चिइसकेका थिए र ऊ मासुको एउटा डल्लोमा परिणत भइसकेको थियो।
72महान् तेजले सम्पन्न उनले नारीश्रेष्ठा द्रौपदीलाई भने — "हे पाञ्चाली, हेर, मैले यस अनिष्टकारी अधमको के दशा गरिदिएँ।"
73हे राजन्, यसो भनेर भयङ्कर पराक्रम भएका भीमले त्यस दुष्टात्माको शरीरमा आफ्नो खुट्टाले प्रहार गरे।
74अनि त्यहाँ दियो बालेर तथा उनलाई कीचक देखाएर ती वीरले पाञ्चालीलाई यी वचन भने।
75"हे सुन्दर केश भएकी, हे भीरु कन्या, जसले पनि तिमीलाई चाहनेछन् — तिमीलाई, जो उत्तम चरित्र तथा गुणले सम्पन्न छ्यौ — ती सबै मबाट यसै कीचकझैँ मारिनेछन्।"
76कृष्णालाई अत्यन्त प्रिय त्यो दुष्कर कार्य सम्पन्न गरेर तथा कीचकको वध गरेर उनको क्रोध शान्त भयो।
77द्रौपदीसँग बिदा लिएर उनी चाँडै पाकशालातिर गए। कीचकको विनाश गराइसकेपछि द्रौपदीले पनि, जो नारीहरूमा श्रेष्ठ थिइन् —
78प्रसन्न भई तथा आफ्नो शोक हटेपछि सभाभवनका रक्षकहरूलाई भनिन् — "मेरा गन्धर्व पतिहरूले यस कीचकको वध गरिदिएका छन्,
79जसले पराई स्त्रीको कामना गरेको थियो; आऊ र हेर।" उनका यी वचन सुनेर सभाभवनका रक्षकहरू —
80हजारौँको सङ्ख्यामा हातमा राँको लिएर त्यहाँ आए। र त्यस कक्षमा गएर तिनीहरूले कीचकलाई भूमिमा निष्प्राण परेको तथा रगतको पोखरीमा डुबेको देखे। उसलाई पाखुरा तथा खुट्टारहित देखेर तिनीहरू व्यथित भए।
81उसलाई देखेर तिनीहरू विस्मयले चकित भए। उसको विनाशको त्यो अलौकिक कार्य देखेर (तिनीहरूले भने) — "यसको घाँटी कहाँ छ, यसका खुट्टा, पाखुरा कहाँ छन् र यसको टाउको कहाँ छ?" तब तिनीहरूले यो निष्कर्ष निकाले कि यसको वध गन्धर्वहरूले गरेका हुन्।