Sarga 35
Sundara Kanda · Chapter 35
Sanskrit
1तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात्। उवाच वचनं सान्त्वमिदं मधुरया गिरा।।5.35.1।।
2क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्। वानराणां नराणां च कथमासीत्समागमः।।5.35.2।।
3यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर। तानि भूयस्समाचक्ष्व न मां शोकस्समाविशेत्।।5.35.3।।
4कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम्। कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे।।5.35.4।।
5एवमुक्तस्तु वैदेह्या हनुमान्मारुतात्मजः। ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे।।5.35.5।।
6जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि। भर्तुः कमलपत्त्राक्षि संस्थानं लक्ष्मणस्य च।।5.35.6।।
7यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै। लक्षितानि विशालाक्षि वदतश्शृणु तानि मे।।5.35.7।।
8रामः कमलपत्त्राक्ष स्सर्वसत्त्वमनोहरः। रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे।।5.35.8।।
9तेजसाऽदित्य सङ्काशः क्षमया पृथिवीसमः। बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः।।5.35.9।।
10रक्षिता जीवलोकस्य स्वजनस्याभिरक्षिता। रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः।।5.35.10।।
11रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता। मर्यादानां च लोकस्य कर्ता कारयिता च सः।।5.35.11।।
12अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः। साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्।।5.35.12।।
13राजविद्याविनीतश्च ब्राह्मणानामुपासिता। श्रुतवान्शीलसम्पन्नो विनीतश्च परन्तपः।।5.35.13।।
14यजुर्वेदविनीतश्च वेदविद्भिस्सुपूजितः। धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः।।5.35.14।।
15विपुलांसो महाबाहुः कम्बुग्रीवश्शुभाननः। गूढजत्रुस्सुताम्राक्षो रामो देवि जनै श्श्रुतः।।5.35.15।।
16दुन्दुभिस्वननिर्घोष स्स्निग्धवर्णः प्रतापवान्। सम स्समविभक्ताङ्गो वर्णं श्यामं समाश्रितः।।5.35.16।।
17त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः। त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः।।5.35.17।।
18त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान्। चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतु स्समः।।5.35.18।।
19चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्गतिः। महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान्।।5.35.19।।
20दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान्। षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः।।5.35.20।।
21सत्यधर्मपरश्श्रीमान् सङ्ग्रहानुग्रहे रतः। देशकालविभागज्ञस्सर्वलोकप्रियंवदः।।5.35.21।।
22भ्राता तस्य च द्वैमात्रस्सौमित्रिरपराजितः। अनुरागेण रूपेण गुणैश्चैव तथाविधः।।5.35.22।।
23तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ। विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ।।5.35.23।।
24त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम्। ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम्।।5.35.24।। ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले। भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम्।।5.35.25।।
25त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम्। ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम्।।5.35.24।। ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले। भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम्।।5.35.25।।
26वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम्। परिचर्यामहे राज्यात्पूर्वजेनावरोपितम्।।5.35.26।।
27ततस्तौ चीरवसनौ धनुः प्रवरपाणिनौ। ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ।।5.35.27।।
28स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः। अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः।।5.35.28।।
29ततस्स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः। तयोस्समीपं मामेव प्रेषयामास सत्वरम्।।5.35.29।।
30तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू। रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः।।5.35.30।।
31तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ। पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ।।5.35.31।।
32निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने। तयोरन्योन्यसल्लापाद्भृशं प्रीतिरजायत।।5.35.32।।
33ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ। परस्परकृताश्वासौ कथया पूर्ववृत्तया।।5.35.33।।
34ततस्स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः। स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा।।5.35.34।।
35ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः। लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्।।5.35.35।।
36स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः। तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्।।5.35.36।।
37ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया। यान्याभरणजालानि पातितानि महीतले।।5.35.37।। तानि सर्वाणि रामाय आनीय हरियूथपाः। संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव।।5.35.38।।
38ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया। यान्याभरणजालानि पातितानि महीतले।।5.35.37।। तानि सर्वाणि रामाय आनीय हरियूथपाः। संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव।।5.35.38।।
39तानि रामाय दत्तानि मयैवोपहृतानि च। स्वनवन्त्यवकीर्णानि तस्मिन्विगतचेतसि।।5.35.39।।
40तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव। तेन देवप्रकाशेन देवेन परिदेवितम्।।5.35.40।।
41पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः। प्रादीपयन्दाशरथेस्तानि शोकहुताशनम्।।5.35.41।।
42शयितं च चिरं तेन दुःखार्तेन महात्मना। मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः।।5.35.42।।
43तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः। राघवस्सह सौमित्रिस्सुग्रीवे स न्यवेदयत्।।5.35.43।।
44स तवादर्शनादार्ये राघवः परितप्यते। महता ज्वलता नित्यमग्निनेवाग्निपर्वतः।।5.35.44।।
45त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम्। तापयन्ति महात्मानमग्न्यगारमिवाग्नयः।।5.35.45।।
46तवादर्शनशोकेन राघवः प्रविचाल्यते। महता भूमिकम्पेन महानिव शिलोच्चयः।।5.35.46।।
47काननानि सुरम्याणि नदीः प्रस्रवणानि च। चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे।।5.35.47।।
48स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः। समित्रबान्धवं हत्वा रावणं जनकात्मजे।।5.35.48।।
49सहितौ रामसुग्रीवावुभावकुरुतां तदा। समयं वालिनं हन्तुं तव चान्वेषणं तथा।।5.35.49।।
50ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः। किष्किन्धां समुपागम्य वाली युद्धे निपातितः।।5.35.50।।
51ततो निहत्य तरसा रामो वालिनमाहवे। सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत्पतिम्।।5.35.51।।
52रामसुग्रीवयोरैक्यं देव्येवं समजायत। हनुमन्तं च मां विद्धि तयोर्दूतमिहागतम्।।5.35.52।।
53स्वराज्यं प्राप्य सुग्रीवस्समानीय हरीश्वरान्। त्वदर्थं प्रेषयामास दिशो दश महाबलान्।।5.35.53।।
54आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा। अद्रिराजप्रतीकाशास्सर्वतः प्रस्थितौ महीम्।।5.35.54।।
55ततस्ते मार्गमाणा वै सुग्रीववचनातुराः। चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः।।5.35.55।।
56अङ्गदो नाम लक्ष्मीवान्वालिसूनुर्महाबलः। प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः।।5.35.56।।
57तेषां नो विप्रणष्टानां विन्ध्ये पर्वतसत्तमे। भृशं शोकपरीतानामहोरात्रगणा गताः।।5.35.57।।
58ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च। भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः।।5.35.58।।
59विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च। अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः।।5.35.59।।
60दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुङ्गवान्। भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः।।5.35.60।। तव नाशं च वैदेहि वालिनश्च वधं तथा। प्रायोपवेशमस्माकं मरणं च जटायुषः।।5.35.61।।
61दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुङ्गवान्। भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः।।5.35.60।। तव नाशं च वैदेहि वालिनश्च वधं तथा। प्रायोपवेशमस्माकं मरणं च जटायुषः।।5.35.61।।
62तेषां नस्वामिसन्देशान्निराशानां मुमूर्षताम्। कार्यहेतोरिवायातश्शकुनिर्वीर्यवान्महान्।।5.35.62।।
63गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट्। श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत्।।5.35.63।।
64यवीयान्केन मे भ्राता हतः क्व च निपातितः। एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः।।5.35.64।।
65अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम्। रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम्।।5.35.65।।
66जटायुषो वधं श्रुत्वा दुःखितस्सोऽरुणात्मजः। त्वां शशंस वरारोहे वसन्तीं रावणालये।।5.35.66।।
67तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम्। अङ्गदप्रमुखास्तूर्णं ततस्सम्प्रस्थिता वयम्।।5.35.67।।
68विन्ध्यादुत्थाय सम्प्राप्ता स्सागरस्यान्तमुत्तरम्। त्वद्धर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः।।5.35.68।।
69अङ्गदप्रमुखास्सर्वे वेलोपान्तमुपस्थिताः। चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः।।5.35.69।।
70अथाहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः। व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः।।5.35.70।।
71लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला। रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता।।5.35.71।।
72एतत्ते सर्वमाख्यातं यथावृत्तमनन्दिते। अभिभाषस्व मां देवि दूतो दाशरथेरहम्।।5.35.72।।
73तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम्। सुग्रीवसचिवं देवि बुद्ध्यस्व पवनात्मजम्।।5.35.73।।
74कुशली तव काकुत्स्थस्सर्वशस्त्रभृतां वरः। गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः।।5.35.74।।
75तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः। अहमेकस्तु सम्प्राप्त स्सुग्रीववचनादिह।।5.35.75।।
76मयेयमसहायेन चरता कामरूपिणा। दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा।।5.35.76।।
77दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम्। अपनेष्यामि सन्तापं तवाभिगमशंसनात्।।5.35.77।।
78दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम्। प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः।।5.35.78।।
79राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते। समित्रबान्धवं हत्वा रावणं राक्षसाधिपम्।।5.35.79।।
80माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः। ततो गच्छति गोकर्णं पर्वतं केसरी हरिः।।5.35.80।।
81स च देवर्षिभिर्दिष्टः पिता मम महाकपिः। तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत्।।5.35.81।।
82तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि। हनुमानिति विख्यातो लोके स्वेनैव कर्मणा।।5.35.82।।
83विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः। अचिराद्राघवो देवि त्वामितो नयिताऽनघे।।5.35.83।।
84एवं विश्वासिता सीता हेतुभिश्शोककर्शिता। उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति।।5.35.84।।
85अतुलं च गता हर्षं प्रहर्षेण च जानकी। नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्।।5.35.85।।
86चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम्। अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्।।5.35.86।।
87हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा। अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम्।।5.35.87।।
88एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि। किं करोमि कथं वा ते रोचते प्रतियाम्यहम्।।5.35.88।।
89हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात्। ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः।।5.35.89।।
English
1On hearing about Rama from the bull among vanaras, thus spoke Vaidehi politely in a sweet voice:
2"Where did you come in contact with Rama? How did you assess Lakshmana? How did an alliance of vanaras and humans take place?
3"O vanara tell me all about the identification marks of Rama and Lakshmana again so that grief does not enter my mind.
4"What does Rama look like? And Laksmana? How are his thighs, arms? Tell me".
5Questioned thus by Vaidehi, Hanuman, son of the Windgod started describing Rama's physique as it is.
6"O Vaidehi with eyes like lotus petals although you know your husband's and Lakshmana's form and distinguishing marks, it is my good fortune that you asked me (to describe them).
7"O largeeyed lady I will describe those distinguishing marks of Rama and Lakshmana Listen.
8"O daughter of Janaka Rama with eyes like lotus petals is a person born with a delightful form, richly endowed with indescribable charm and politeness.
9"He vies with the Sun in effulgence, with earth in forbearance, with Brihaspati in intelligence, and in fame with Indra.
10"Rama is a protector of the entire world of living beings not to speak of his own people. He is a protector of his own race. He guards righteousness. He is a scorcher of enemies.
11"O beautiful lady Rama is a protector of the four classes of society (Brahmana, Kshatriya, Vaisya and Sudra) in the world. He follows codes of conduct and makes others follow them.
12"He is luminous and highly revered. He observes vow of selfcontrol. He is steadfast and recognises services rendered by sages. He is aware of the rites and the ways of administration.
13"He is welltrained in statecraft. He is devoted to brahmins. Endowed with an excellent conduct, he is learned in scriptures and a scorcher of enemies.
14"He is versed in Yajurveda and is respected by Vedic scholars. He has mastered Dhanurveda and other Vedas and auxillary Vedas as well.
15"O godlike lady Rama has broad shoulders, strong arms, conchshaped neck and an auspicious countenance. With his fleshy round arms and copperyred eyes, he is renowned in all the worlds.
16"His tone is resonant like drums, he has a beautiful, dark, shining complexion. He has symmetrical, well proportioned limbs. He is neither too tall nor too short.
17"He has three stiff parts, three long parts, three even parts, three shining parts, elevated in three parts, has three raised parts, his body has lines in three parts and is of coppery reddish colour in three parts. He has a majestic look.
18"He has three folds in the skin of his neck and belly, is depressed in the middle of his soles and the nipples, undersized at four placesthe neck, penis, shanks and back, has three spirals on his head, has four lines under his thumb, has four lines on his forehead, he is a person with four cubits in height and symmetrical arms, cheeks and thighs.
19"He is a person with his pairs of eyebrows, nostrils, eyes, ears, lips, nipples, elbows, wrists, knees, testicles, loins, arms, legs and buttocks in good symmetry he has four sharp teeth. He walks in different gaits like a lion, leopard, elephant and bull as occasion demands he has sharp nose, charming lips and jaws. He has smooth hair, eyes, skin, teeth and feet and his eight parts of his body namely back, trunk, limbs, fingers, toes, eyes and testicles are long.
20"Ten limbs of the body resemble lotuses. He has proportionate limbs. He is known by the virtue of his spledour, fame and glory. Both his teeth and eyes are fair. Six parts of his body are elevated, nine parts of his body are fine and sharp. He pursues spiritual merit, worldly comfort and sensual delight in three periods of the dayforenoon, midday and evening. He always adopts the righteous way of life.
21"He is ever established in truth and righteousness. He is prosperous and desires to accumulate wealth in order to shower favour on others. He knows the right use of time and place in discharging his duties. He has endeared himself to all by his words.
22"His invincible brother Saumitri born of a different mother is a replica of Rama in affection, charm and virtues.
23"While earnestly searching for you all over the earth both tigers among men came in contact with us.
24"While both of them were wandering, searching for you all over the earth they saw Sugriva, the lord of animals who had been thrown out of kingship by his elder brother and was living on the mountain Rshyamuka frightened of him.
25"While both of them were wandering, searching for you all over the earth they saw Sugriva, the lord of animals who had been thrown out of kingship by his elder brother and was living on the mountain Rshyamuka frightened of him.
26"Sugriva, king of vanaras who is committed to defend truth has been deposed from the kingdom by his elder brother. We keep attending on him.
27"Both the princes clad in bark robes and armed with powerful bows reached the beautiful location of Rshyamukha mountain.
28"On seeing the tigers among men armed with bows, Sugriva, the bull among vanaras jumped from the mountain deluded with fear and reached the peak.
29"Thereafter the lord of vanaras staying on the mountain top quickly sent me to meet both of them.
30At Sugriva's bidding I approached with joined palms those two tigers among men, two lords endowed with charming form and auspicious marks.
31"I recognised the true status of both the mighty men who were filled with joy, placed them on my back, and reached the mountaintop.
32"I reported faithfully about both the highsouled men to Sugriva. As they got to know each other through conversation a fast friendship developed between them.
33Then the king of the monkeys and the king of men, full of joy, consoled each other with the account of their past.
34"Then Rama, consoled Sugriva who was dethroned and abandoned on acount of a woman by his brother Vali, endowed with great prowess.
35"Then Lakshmana spoke to the lord of vanaras, Sugriva about your loss and the grief caused to Rama, who is adept in accomplishing difficult deeds with ease.
36"Having heard the words of Lakshmana, the king of vanaras became extremely lustreless like the Sun overshadowed by the planet Rahu.
37The vanara leaders joyfully brought to Rama all the bundles of ornaments that had dropped to the ground from your limbs as the demon bore you away, and showed them, though they did not know your whereabouts.
38The vanara leaders joyfully brought to Rama all the bundles of ornaments that had dropped to the ground from your limbs as the demon bore you away, and showed them, though they did not know your whereabouts.
39"I collected the ornaments and gave them to Rama. He lost his senses on seeing the jingling ornaments scattered.
40"The divine self who is effulgent like god wailed in many ways placing the beautiful ornaments on his lap.
41"Rama looked at them and wept clasping them again and again in grief which inflamed like fire.
42"Rama, the great self, immersed in sorrow lay down on the ground. I also consoled him with great difficulty and helped him to get up.
43"Longarmed Rama along with Lakshmana looked at them again and again and gave them to the care of Sugriva.
44"O divine lady on account of your separation he is ever blazing like a mountain of fire (Samvartaka).
45"Rama is burning like a furnace by (three fires) sleeplessness, grief and intense anxiety just as the three sacred fires keep a firesanctuary intensely heated.
46"On account of sorrow caused by not being able to see you, Rama of Raghu dynasty is shaken up like a lofty mountain is shaken by earthquake.
47"Oh princess unable to see you, Rama has found no joy in roaming delightful forests, rivers and streams.
48"Oh daughter of Janaka after killing Ravana, along with his friends and relatives Rama, the tiger among men, will meet you.
49"(Having become friends) Rama and Sugriva together reached an agreement to kill Vali and search for you.
50"Thereafter both the princes together arrived at Kishkinda and killed Vali, king of vanaras in a combat.
51"Then Rama quickly killed Vali in a combat and made Sugriva the lord of all troops of vanaras and bears.
52"Oh Illustrious lady In that manner alliance was established between Rama and Sugriva. Know me to be Hanuman, arrived here as their messenger.
53"Having obtained his kingdom Sugriva despatched the vanara leaders to all ten directions (to search for you).
54"Following Sugriva's orders, the powerful monkey leaders huge as the Himalayas, king of mountains went all over the earth (searching).
55"Following Sugriva's orders, we, the monkeys, since then are moving about searching the entire earth eager to find you or to carry out Sugriva's orders.
56The prosperous and mighty son of Vali, a tiger among monkeys named Angada, set out together with a third of the army.
57"We wasted many nights and days immersed in disappointment (for not being able to find you) and we missed our path in the great Vindhya mountain.
58"We decided to give up our lives due to disappointment, transgression of the time limit fixed for us and fear of the monkey lord (fear of facing the king without finding you).
59"We decided to give up our lives since we were unable to see the feet of the queen (Sita) even after searching the forest fortresses and the (banks of) mountain streams.
60Seeing all the vanara leaders resolved to die, Angada, plunged in a sea of sorrow, grieved aloud over your disappearance, the slaying of Vali, the death of Jatayu, and our own resolve to fast unto death.
61Seeing all the vanara leaders resolved to die, Angada, plunged in a sea of sorrow, grieved aloud over your disappearance, the slaying of Vali, the death of Jatayu, and our own resolve to fast unto death.
62"When we were disappointed (in tracing you) and were at the point of death having been commanded by the king (that whosoever overstays would be killed) a gigantic powerful bird appeared to fulfil our task.
63"That king of vultures, Sampati was the brother of king of birds Jatayu. Hearing about the death of his younger brother Sampati felt distresed and spoke in anger:
64'O best of vanaras by whom was my younger brother killed? Where was he dropped down? I wish you to tell me all about that.
65Angada faithfully told him of the great slaughter wrought in Janasthana on your account by the demon of dreadful form.
66"Having heard about the death of Jatayu, O charming lady that Sampati Aruna's son felt sad and told us that you are at Ravana's palace.
67"Having heard Sampati's encouraging words all of us led by Angada departed immediately.
68"The happy monkeys were satisfied. Enthusiastic about seeing you, they rose from the Vindhya mountain and reached the limit of the sea shore in the north.
69Angada and all the other leaders, eager to see you, reached the seashore but, frightened, again sank into worry.
70"When the vanara army was feeling despondent at the sight of the ocean, I leaped across the sea, a hundred yojanas, pushing aside all my fear.
71"I entered at night the city of Lanka teeming with demons and saw Ravana and saw you immersed in sorrow.
72"O sinless lady I have given you a faithful account. I am a messenger of Dasaratha's son. And you may speak now, O divine lady
73"O divine lady Know that I have come here for your cause carrying out the mission of Rama. I am Sugriva'a minister and son of the Windgod.
74"Your lord Rama of Kakutstha race, supreme among wielders of weapons is doing well. So is venerable Lakshmana endowed with auspicious signs engaged in serving him.
75"O queen seeking the welfare of your Valiant husband I came here at the behest of Sugriva all alone.
76"I can assume any form at my will. I searched for you without any help moving in the southern direction and reached this place .
77"Fortunately for me I can finally dispel the fear of the vanara chiefs who are regretting your loss, by letting them know that you have been found.
78"Oh queen luckily for me, crossing the ocean has not gone in vain. I am fortunate because I will attain fame of finding you.
79"Mighty Raghava will take you after killing Ravana, the king of demons along with his kith and kin.
80"Oh Vaidehi there is a famous mountain called Malyavan. From there a monkey called Kesari went to mount Gokarna.
81"He (Kesari) is said to be my father by the divine sages. He retrieved a piece of land in a holy spot of that sea shore and killed Sambasadana, a demon who was oppressing righteous people.
82"O Mythili I was born in that land retrieved by the Windgod. I am known as Hanuman by virtue of my own action.
83"In order to inspire confidence in you about me I have narrated the virtues of your husband. O sinless queen Rama will take you from here very soon".
84The griefstricken Sita trusted him by his logical presentation of reasons as well as identifications. She believed that he was a messenger (of Rama).
85Janaki experienced immeasurable happiness and shed tears of joy through her curved eyes.
86Her face with large eyes with a tinge of red corners shone like the Moon released from Rahu.
87She realised that the monkey was none other than Hanuman. Then he looked at her who was pleasing to see and spoke again:
88"Mythili, everything I intended to say has been narrated to you. Calm yourself down. What shall I do? Or else, tell me what pleases you. I shall go back.
89"(My father) a mighty monkey killed Sambasadana in a battle on the command of a great seer. I am a vanara (born to a monkey) by the impact of the Windgod. I am equal to the Windgod in power." इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे पञ्चत्रिंशस्सर्गः।। Thus ends the thirtyfifth sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.
Hindi
1वानरश्रेष्ठ से राम के विषय में सुनकर वैदेही ने विनम्रता से मधुर स्वर में यह कहा —
2'तुम राम के सम्पर्क में कहाँ आए? तुमने लक्ष्मण को कैसे पहचाना? वानरों और मनुष्यों में मैत्री कैसे हुई?
3'हे वानर! मुझे राम और लक्ष्मण के पहचान-चिह्न फिर से बताओ, जिससे मेरे मन में शोक प्रवेश न करे।
4'राम कैसे दिखते हैं? और लक्ष्मण? उनकी जङ्घाएँ और भुजाएँ कैसी हैं? मुझे बताओ।'
5वैदेही के इस प्रकार पूछने पर वायुपुत्र हनुमान् राम के शरीर का यथावत् वर्णन करने लगे —
6'हे कमलदल के समान नेत्रों वाली वैदेही! यद्यपि आप अपने पति के और लक्ष्मण के रूप तथा विशेष लक्षण जानती हैं, तथापि यह मेरा सौभाग्य है कि आपने मुझसे (उनका वर्णन करने को) पूछा।
7'हे विशालनयनी! मैं राम और लक्ष्मण के वे विशेष लक्षण बताता हूँ, सुनिए।
8'हे जनकपुत्री! कमलदल के समान नेत्रों वाले राम मनोहर रूप लेकर जन्मे व्यक्ति हैं, जो अवर्णनीय लावण्य और विनय से समृद्ध हैं।
9'वे तेज में सूर्य से, क्षमा में पृथ्वी से, बुद्धि में बृहस्पति से और कीर्ति में इन्द्र से स्पर्धा करते हैं।
10'राम समस्त प्राणिजगत् के रक्षक हैं, फिर अपने जनों की तो बात ही क्या। वे अपने कुल के रक्षक हैं। वे धर्म की रक्षा करते हैं। वे शत्रुओं के लिए दाहक हैं।
11'हे सुन्दरी! राम संसार के चारों वर्णों (ब्राह्मण, क्षत्रिय, वैश्य और शूद्र) के रक्षक हैं। वे आचारसंहिता का पालन करते हैं और दूसरों से भी पालन कराते हैं।
12'वे तेजस्वी और परम पूजनीय हैं। वे आत्मसंयम के व्रत का पालन करते हैं। वे दृढ़ हैं और ऋषियों की सेवाओं को पहचानते हैं। वे कर्मकाण्ड और शासन की पद्धतियाँ जानते हैं।
13'वे राजनीति में भलीभाँति प्रशिक्षित हैं। वे ब्राह्मणों के प्रति समर्पित हैं। उत्तम आचरण से सम्पन्न वे शास्त्रों के ज्ञाता और शत्रुओं के लिए दाहक हैं।
14'वे यजुर्वेद में निपुण हैं और वैदिक विद्वानों द्वारा सम्मानित हैं। उन्होंने धनुर्वेद तथा अन्य वेद और वेदाङ्गों में भी प्रवीणता प्राप्त की है।
15'हे देवीस्वरूपे! राम के कन्धे चौड़े हैं, भुजाएँ बलिष्ठ हैं, ग्रीवा शङ्ख के समान है और मुख मङ्गलमय है। अपनी मांसल गोल भुजाओं और ताम्रवर्ण नेत्रों सहित वे समस्त लोकों में विख्यात हैं।
16'उनका स्वर दुन्दुभि के समान गम्भीर है, उनका वर्ण सुन्दर, श्याम और चमकीला है। उनके अङ्ग सुडौल और सुसंगत हैं। वे न बहुत ऊँचे हैं, न बहुत नाटे।
17'उनके तीन अङ्ग दृढ़ हैं, तीन दीर्घ हैं, तीन सम हैं, तीन उज्ज्वल हैं, तीन उन्नत हैं, तीन उभरे हुए हैं, उनके शरीर के तीन स्थानों पर रेखाएँ हैं और तीन स्थान ताम्रवर्ण हैं। उनका दर्शन गरिमामय है।
18'उनकी ग्रीवा और उदर की त्वचा में तीन वलियाँ हैं, तलवों के मध्य और चूचुक अवनत हैं; ग्रीवा, शिश्न, पिण्डलियाँ और पीठ — इन चार स्थानों पर वे सूक्ष्म हैं; उनके मस्तक पर तीन भँवरें हैं, अङ्गूठे के नीचे चार रेखाएँ हैं, ललाट पर चार रेखाएँ हैं; वे चार हाथ ऊँचे हैं और उनकी भुजाएँ, कपोल तथा जङ्घाएँ सुसंगत हैं।
19'उनकी भौंहें, नासापुट, नेत्र, कान, अधर, चूचुक, कोहनियाँ, कलाइयाँ, घुटने, वृषण, कटिप्रदेश, भुजाएँ, चरण और नितम्ब — ये सब युगल सुसंगत हैं; उनके चार दाढ़ें तीक्ष्ण हैं। वे अवसर के अनुसार सिंह, चीते, हाथी और वृषभ की भिन्न-भिन्न चालों से चलते हैं। उनकी नासिका तीक्ष्ण है और अधर तथा जबड़े मनोहर हैं। उनके केश, नेत्र, त्वचा, दाँत और चरण चिकने हैं तथा उनके शरीर के आठ अङ्ग — पीठ, धड़, अङ्ग, हस्ताङ्गुलियाँ, पादाङ्गुलियाँ, नेत्र और वृषण — दीर्घ हैं।
20'उनके दस अङ्ग कमल के समान हैं। उनके अङ्ग सुसंगत हैं। वे अपने तेज, कीर्ति और यश के कारण विख्यात हैं। उनके दाँत और नेत्र दोनों उज्ज्वल हैं। उनके शरीर के छह अङ्ग उन्नत हैं, नौ अङ्ग सूक्ष्म और तीक्ष्ण हैं। वे दिन के तीन कालों — पूर्वाह्ण, मध्याह्न और सायं — में धर्म, अर्थ और काम का सेवन करते हैं। वे सदा धर्ममय जीवनपद्धति अपनाते हैं।
21'वे सदा सत्य और धर्म में स्थित हैं। वे समृद्ध हैं और दूसरों पर अनुग्रह करने के लिए ही धन संचित करना चाहते हैं। वे अपने कर्तव्य निभाने में काल और स्थान का उचित उपयोग जानते हैं। उन्होंने अपने वचनों से सबको अपना बना लिया है।
22'दूसरी माता से उत्पन्न उनके अजेय भाई सौमित्रि स्नेह, लावण्य और गुणों में राम की ही प्रतिकृति हैं।
23'समस्त पृथ्वी पर आपको गम्भीरता से खोजते हुए वे दोनों पुरुषश्रेष्ठ हमारे सम्पर्क में आए।
24'जब वे दोनों समस्त पृथ्वी पर आपको खोजते विचर रहे थे, तब उन्होंने सुग्रीव को देखा, जो वानरों के स्वामी थे, अपने ज्येष्ठ भ्राता द्वारा राज्य से निकाल दिए गए थे और उसके भय से ऋष्यमूक पर्वत पर रह रहे थे।
25'जब वे दोनों समस्त पृथ्वी पर आपको खोजते विचर रहे थे, तब उन्होंने सुग्रीव को देखा, जो वानरों के स्वामी थे, अपने ज्येष्ठ भ्राता द्वारा राज्य से निकाल दिए गए थे और उसके भय से ऋष्यमूक पर्वत पर रह रहे थे।
26'सत्य की रक्षा के लिए प्रतिबद्ध वानरराज सुग्रीव अपने ज्येष्ठ भ्राता द्वारा राज्य से च्युत कर दिए गए थे। हम उनकी सेवा करते आए हैं।
27'वल्कल वस्त्र पहने और बलशाली धनुष धारण किए वे दोनों राजकुमार ऋष्यमूक पर्वत के उस सुन्दर स्थान पर पहुँचे।
28'धनुष धारण किए उन पुरुषश्रेष्ठों को देखकर वानरश्रेष्ठ सुग्रीव भय से विमूढ़ होकर पर्वत से उछले और शिखर पर जा पहुँचे।
29'तत्पश्चात् पर्वतशिखर पर स्थित उन वानरराज ने शीघ्र ही मुझे उन दोनों से मिलने भेजा।
30'सुग्रीव की आज्ञा से मैं हाथ जोड़े उन दोनों पुरुषश्रेष्ठों के पास गया, जो मनोहर रूप और मङ्गलमय लक्षणों से सम्पन्न दो स्वामी थे।
31'मैंने उन दोनों बलशाली पुरुषों का वास्तविक स्वरूप पहचान लिया, जो आनन्द से भरे थे; मैंने उन्हें अपनी पीठ पर बिठाया और पर्वतशिखर पर पहुँचा।
32'मैंने उन दोनों महात्माओं के विषय में सुग्रीव को यथावत् बताया। संवाद से जब वे एक-दूसरे को जान गए, तब उनमें दृढ़ मैत्री हो गई।
33'तब वानरराज और मनुष्यों के राजा दोनों आनन्द से भरकर अपने-अपने अतीत के वृत्तान्त से एक-दूसरे को सान्त्वना देने लगे।
34'तब राम ने सुग्रीव को सान्त्वना दी, जो एक स्त्री के कारण अपने महापराक्रमी भाई वाली द्वारा राज्य से च्युत और त्याग दिए गए थे।
35'तब लक्ष्मण ने वानरराज सुग्रीव से आपके खो जाने और उससे राम को हुए शोक की बात कही, जो कठिन कार्यों को सहज ही सिद्ध करने में निपुण हैं।
36'लक्ष्मण के वचन सुनकर वानरराज राहु ग्रह से आच्छादित सूर्य के समान अत्यन्त कान्तिहीन हो गए।
37'जब वह राक्षस आपको ले जा रहा था, तब आपके अङ्गों से भूमि पर गिरे आभूषणों की सब गठरियाँ वानरनायक हर्षपूर्वक राम के पास लाए और दिखाईं, यद्यपि उन्हें आपका ठिकाना ज्ञात न था।
38'जब वह राक्षस आपको ले जा रहा था, तब आपके अङ्गों से भूमि पर गिरे आभूषणों की सब गठरियाँ वानरनायक हर्षपूर्वक राम के पास लाए और दिखाईं, यद्यपि उन्हें आपका ठिकाना ज्ञात न था।
39'मैंने वे आभूषण एकत्र कर राम को दिए। बिखरे हुए उन रुनझुन करते आभूषणों को देखकर वे अपनी सुध खो बैठे।
40'देवता के समान तेजस्वी वे दिव्य पुरुष उन सुन्दर आभूषणों को अपनी गोद में रखकर अनेक प्रकार से विलाप करने लगे।
41'राम ने उन्हें देखा और अग्नि के समान धधकते शोक में बार-बार उन्हें छाती से लगाकर रोए।
42'शोक में डूबे महात्मा राम भूमि पर गिर पड़े। मैंने भी बड़ी कठिनाई से उन्हें सान्त्वना दी और उठने में सहायता की।
43'महाबाहु राम ने लक्ष्मण सहित उन्हें बार-बार देखा और सुग्रीव को सौंप दिया।
44'हे दिव्य देवी! आपके विरह के कारण वे सदा संवर्तक अग्नि के पर्वत के समान जलते रहते हैं।
45'राम अनिद्रा, शोक और तीव्र चिन्ता — इन तीन अग्नियों से भट्ठी के समान जल रहे हैं, जैसे तीन पवित्र अग्नियाँ अग्निशाला को तीव्र रूप से तपाए रखती हैं।
46'आपको न देख पाने के शोक से रघुकुल के राम वैसे ही हिल उठे हैं जैसे भूकम्प से कोई ऊँचा पर्वत।
47'हे राजकुमारी! आपको न देख पाने के कारण राम को मनोहर वनों, नदियों और झरनों में विचरने में कोई आनन्द नहीं आता।
48'हे जनकपुत्री! अपने मित्रों और स्वजनों सहित पुरुषश्रेष्ठ राम रावण का वध कर आपसे मिलेंगे।
49'(मित्र बनकर) राम और सुग्रीव ने मिलकर यह निश्चय किया कि वाली का वध किया जाए और आपकी खोज की जाए।
50'तत्पश्चात् दोनों राजकुमार साथ मिलकर किष्किन्धा पहुँचे और द्वन्द्वयुद्ध में वानरराज वाली का वध किया।
51'तब राम ने शीघ्र ही युद्ध में वाली का वध किया और सुग्रीव को समस्त वानर तथा ऋक्ष सेनाओं का स्वामी बना दिया।
52'हे यशस्विनी देवी! इस प्रकार राम और सुग्रीव में मैत्री स्थापित हुई। मुझे उन्हीं का दूत बनकर यहाँ आया हुआ हनुमान् जानिए।
53'अपना राज्य प्राप्त कर सुग्रीव ने वानरनायकों को दसों दिशाओं में (आपकी खोज के लिए) भेजा।
54'सुग्रीव की आज्ञा का पालन करते हुए पर्वतराज हिमालय के समान विशाल वे बलशाली वानरनायक समस्त पृथ्वी पर (खोजते हुए) निकल पड़े।
55'सुग्रीव की आज्ञा का पालन करते हुए हम वानर तब से समस्त पृथ्वी छानते विचर रहे हैं — आपको पाने के लिए अथवा सुग्रीव की आज्ञा पूरी करने के लिए उत्सुक।
56'वाली के समृद्ध और बलशाली पुत्र, वानरों में व्याघ्र अङ्गद नामक वीर सेना के तीसरे भाग के साथ निकले।
57'हमने निराशा में डूबकर अनेक रात-दिन व्यर्थ गँवाए (क्योंकि आपको न पा सके) और विशाल विन्ध्य पर्वत में हमने अपना मार्ग खो दिया।
58'निराशा, अपने लिए निश्चित अवधि के उल्लङ्घन और वानरराज के भय (आपको पाए बिना राजा का सामना करने के भय) के कारण हमने अपने प्राण त्यागने का निश्चय किया।
59'वन के दुर्गम भागों और पर्वतीय झरनों (के तटों) तक खोजने पर भी रानी (सीता) के चरण न देख पाने से हमने प्राण त्यागने का निश्चय किया।
60'सब वानरनायकों को मरने का निश्चय किए देखकर शोक के समुद्र में डूबे अङ्गद ने आपके लुप्त हो जाने, वाली के वध, जटायु की मृत्यु और आमरण अनशन के हमारे अपने निश्चय पर ऊँचे स्वर में विलाप किया।
61'सब वानरनायकों को मरने का निश्चय किए देखकर शोक के समुद्र में डूबे अङ्गद ने आपके लुप्त हो जाने, वाली के वध, जटायु की मृत्यु और आमरण अनशन के हमारे अपने निश्चय पर ऊँचे स्वर में विलाप किया।
62'जब हम (आपका पता न पाने से) निराश थे और राजा की आज्ञा (कि जो अवधि लाँघेगा, वह मारा जाएगा) के कारण मृत्यु के कगार पर थे, तब हमारा कार्य पूर्ण करने एक विशालकाय बलशाली पक्षी प्रकट हुआ।
63'वे गृध्रराज सम्पाति पक्षिराज जटायु के भाई थे। अपने छोटे भाई की मृत्यु का समाचार सुनकर सम्पाति व्यथित हुए और क्रोध में बोले —
64'हे वानरश्रेष्ठो! मेरे छोटे भाई का वध किसने किया? उन्हें कहाँ गिराया गया? मैं चाहता हूँ कि तुम मुझे सब कुछ बताओ।'
65'अङ्गद ने उन्हें यथावत् बताया कि आपके कारण भयङ्कर रूप वाले उस राक्षस द्वारा जनस्थान में कैसा महासंहार हुआ।
66'हे मनोहरी! जटायु की मृत्यु सुनकर अरुण के पुत्र उन सम्पाति ने दुःखी होकर हमें बताया कि आप रावण के भवन में हैं।
67'सम्पाति के उत्साहवर्धक वचन सुनकर हम सब अङ्गद के नेतृत्व में तत्काल चल पड़े।
68'प्रसन्न वानर सन्तुष्ट हुए। आपको देखने के लिए उत्साहित होकर वे विन्ध्य पर्वत से उठे और उत्तर में समुद्रतट की सीमा तक पहुँचे।
69'आपको देखने के लिए उत्सुक अङ्गद और अन्य सब नायक समुद्रतट पर पहुँचे, किन्तु भयभीत होकर पुनः चिन्ता में डूब गए।
70'जब वानरसेना समुद्र को देखकर हताश हो रही थी, तब मैंने अपना सब भय दूर हटाकर सौ योजन का समुद्र लाँघ लिया।
71'मैंने रात्रि में राक्षसों से भरी लङ्का नगरी में प्रवेश किया, रावण को देखा और शोक में डूबी आपको देखा।
72'हे निष्पाप देवी! मैंने आपको यथावत् वृत्तान्त सुना दिया। मैं दशरथनन्दन का दूत हूँ। हे दिव्य देवी! अब आप बोलिए।
73'हे दिव्य देवी! जान लीजिए कि मैं राम का कार्य पूरा करते हुए आपके ही निमित्त यहाँ आया हूँ। मैं सुग्रीव का मन्त्री और वायुदेव का पुत्र हूँ।
74'शस्त्रधारियों में श्रेष्ठ ककुत्स्थकुल के आपके स्वामी राम कुशल हैं। वैसे ही मङ्गलमय लक्षणों से सम्पन्न पूज्य लक्ष्मण भी कुशल हैं, जो उनकी सेवा में लगे हैं।
75'हे रानी! आपके पराक्रमी पति के कल्याण की कामना करते हुए मैं सुग्रीव की आज्ञा से यहाँ अकेला आया हूँ।
76'मैं इच्छानुसार रूप धारण कर सकता हूँ। मैंने बिना किसी सहायता के दक्षिण दिशा में विचरते हुए आपको खोजा और इस स्थान पर पहुँचा।
77'मेरे सौभाग्य से अब मैं उन वानरनायकों का भय दूर कर सकूँगा जो आपके खो जाने पर खेद कर रहे हैं — उन्हें यह बताकर कि आप मिल गई हैं।
78'हे रानी! मेरे सौभाग्य से समुद्र लाँघना व्यर्थ नहीं गया। मैं भाग्यशाली हूँ, क्योंकि आपको पाने का यश मुझे प्राप्त होगा।
79'बलशाली राघव अपने स्वजनों और बन्धुओं सहित राक्षसराज रावण का वध कर आपको ले जाएँगे।
80'हे वैदेही! माल्यवान् नामक एक विख्यात पर्वत है। वहाँ से केसरी नामक एक वानर गोकर्ण पर्वत पर गए।
81'दिव्य ऋषियों ने उन्हें (केसरी को) मेरा पिता कहा है। उन्होंने उस समुद्रतट के एक पवित्र स्थान की भूमि पुनः प्राप्त की और धर्मपरायण लोगों को सता रहे शम्बसादन नामक राक्षस का वध किया।
82'हे मैथिली! वायुदेव द्वारा पुनः प्राप्त उसी भूमि पर मेरा जन्म हुआ। अपने ही कर्म के कारण मैं हनुमान् नाम से जाना जाता हूँ।
83'आपके मन में मेरे प्रति विश्वास उत्पन्न करने के लिए मैंने आपके पति के गुणों का वर्णन किया है। हे निष्पाप रानी! राम शीघ्र ही आपको यहाँ से ले जाएँगे।'
84शोक से पीड़ित सीता ने उनके तार्किक कारणों और पहचान-चिह्नों के आधार पर उन पर विश्वास किया। उन्होंने मान लिया कि ये (राम के) दूत ही हैं।
85जानकी को अपरिमेय आनन्द हुआ और अपने वक्र नेत्रों से उन्होंने हर्ष के आँसू बहाए।
86कोनों में लालिमा लिए विशाल नेत्रों वाला उनका मुख राहु से मुक्त हुए चन्द्रमा के समान चमक उठा।
87उन्होंने जान लिया कि वह वानर हनुमान् के अतिरिक्त और कोई नहीं। तब उन्होंने दर्शनीय उन देवी को देखकर पुनः कहा —
88'हे मैथिली! जो कुछ मैं कहना चाहता था, वह सब आपको सुना दिया। अपने मन को शान्त कीजिए। मैं क्या करूँ? अथवा जो आपको प्रिय हो, वह बताइए। मैं लौट जाऊँगा।
89'(मेरे पिता) उन बलशाली वानर ने किसी महर्षि की आज्ञा से युद्ध में शम्बसादन का वध किया। मैं वायुदेव के प्रभाव से (वानरी से) उत्पन्न वानर हूँ। मैं शक्ति में वायुदेव के समान हूँ।' इस प्रकार महर्षि वाल्मीकि रचित आदिकाव्य श्रीमद्रामायण के सुन्दरकाण्ड का पञ्चत्रिंश सर्ग समाप्त हुआ।
Nepali
1वानरश्रेष्ठबाट रामका विषयमा सुनेर वैदेहीले विनम्रतापूर्वक मधुर स्वरमा यसो भनिन् —
2'तिमी रामको सम्पर्कमा कहाँ आयौ? तिमीले लक्ष्मणलाई कसरी चिन्यौ? वानर र मानिसबीच मैत्री कसरी भयो?
3'हे वानर! मलाई राम र लक्ष्मणका पहिचान-चिह्न फेरि बताऊ, जसले गर्दा मेरो मनमा शोक प्रवेश नगरोस्।
4'राम कस्तो देखिनुहुन्छ? र लक्ष्मण? उहाँका तिघ्रा र पाखुरा कस्ता छन्? मलाई बताऊ।'
5वैदेहीले यसरी सोधेपछि वायुपुत्र हनुमान् रामको शरीरको यथावत् वर्णन गर्न थाले —
6'हे कमलदलझैँ आँखा भएकी वैदेही! यद्यपि तपाईं आफ्ना पतिको र लक्ष्मणको रूप तथा विशेष लक्षण जान्नुहुन्छ, तथापि यो मेरो सौभाग्य हो कि तपाईंले मसँग (तिनको वर्णन गर्न) सोध्नुभयो।
7'हे विशालनयनी! म राम र लक्ष्मणका ती विशेष लक्षण बताउँछु, सुन्नुहोस्।
8'हे जनकपुत्री! कमलदलझैँ आँखा भएका राम मनोहर रूप लिएर जन्मनुभएका व्यक्ति हुनुहुन्छ, जो अवर्णनीय लावण्य र विनयले समृद्ध हुनुहुन्छ।
9'उहाँ तेजमा सूर्यसँग, क्षमामा पृथ्वीसँग, बुद्धिमा बृहस्पतिसँग र कीर्तिमा इन्द्रसँग स्पर्धा गर्नुहुन्छ।
10'राम सम्पूर्ण प्राणिजगत्का रक्षक हुनुहुन्छ, फेरि आफ्ना जनको त कुरै के। उहाँ आफ्नो कुलका रक्षक हुनुहुन्छ। उहाँ धर्मको रक्षा गर्नुहुन्छ। उहाँ शत्रुहरूका लागि दाहक हुनुहुन्छ।
11'हे सुन्दरी! राम संसारका चारै वर्ण (ब्राह्मण, क्षत्रिय, वैश्य र शूद्र) का रक्षक हुनुहुन्छ। उहाँ आचारसंहिताको पालन गर्नुहुन्छ र अरूलाई पनि पालन गराउनुहुन्छ।
12'उहाँ तेजस्वी र परम पूजनीय हुनुहुन्छ। उहाँ आत्मसंयमको व्रत पालन गर्नुहुन्छ। उहाँ दृढ हुनुहुन्छ र ऋषिहरूका सेवालाई चिन्नुहुन्छ। उहाँ कर्मकाण्ड र शासनका पद्धति जान्नुहुन्छ।
13'उहाँ राजनीतिमा राम्ररी प्रशिक्षित हुनुहुन्छ। उहाँ ब्राह्मणहरूप्रति समर्पित हुनुहुन्छ। उत्तम आचरणले सम्पन्न उहाँ शास्त्रका ज्ञाता र शत्रुहरूका लागि दाहक हुनुहुन्छ।
14'उहाँ यजुर्वेदमा निपुण हुनुहुन्छ र वैदिक विद्वान्हरूद्वारा सम्मानित हुनुहुन्छ। उहाँले धनुर्वेद तथा अन्य वेद र वेदाङ्गमा पनि प्रवीणता प्राप्त गर्नुभएको छ।
15'हे देवीस्वरूपे! रामका काँध चौडा छन्, पाखुरा बलिष्ठ छन्, घाँटी शङ्खझैँ छ र मुख मङ्गलमय छ। आफ्ना मांसल गोला पाखुरा र ताम्रवर्ण आँखासहित उहाँ सम्पूर्ण लोकमा विख्यात हुनुहुन्छ।
16'उहाँको स्वर दुन्दुभिझैँ गम्भीर छ, उहाँको वर्ण सुन्दर, श्याम र चम्किलो छ। उहाँका अङ्ग सुडौल र सुसङ्गत छन्। उहाँ न धेरै अग्लो हुनुहुन्छ, न धेरै होचो।
17'उहाँका तीन अङ्ग दृढ छन्, तीन दीर्घ छन्, तीन सम छन्, तीन उज्ज्वल छन्, तीन उन्नत छन्, तीन उठेका छन्, उहाँको शरीरका तीन स्थानमा रेखा छन् र तीन स्थान ताम्रवर्ण छन्। उहाँको दर्शन गरिमामय छ।
18'उहाँको घाँटी र पेटको छालामा तीन धर्सा छन्, पैतालाको बीच र चुचुरा अवनत छन्; घाँटी, शिश्न, पिँडौला र ढाड — यी चार स्थानमा उहाँ सूक्ष्म हुनुहुन्छ; उहाँको शिरमा तीन भुमरी छन्, बुढीऔँलामुनि चार रेखा छन्, निधारमा चार रेखा छन्; उहाँ चार हात अग्लो हुनुहुन्छ र उहाँका पाखुरा, गाला तथा तिघ्रा सुसङ्गत छन्।
19'उहाँका आँखीभौँ, नाकका प्वाल, आँखा, कान, ओठ, चुचुरा, कुहिना, नाडी, घुँडा, अण्डकोष, कटिप्रदेश, पाखुरा, खुट्टा र नितम्ब — यी सबै युगल सुसङ्गत छन्; उहाँका चार दाह्रा तीखा छन्। उहाँ अवसरअनुसार सिंह, चितुवा, हात्ती र साँढेका भिन्नभिन्न चालले हिँड्नुहुन्छ। उहाँको नाक तीखो छ र ओठ तथा बङ्गारा मनोहर छन्। उहाँका कपाल, आँखा, छाला, दाँत र चरण चिल्ला छन् तथा उहाँको शरीरका आठ अङ्ग — ढाड, धड, अङ्ग, हातका औँला, खुट्टाका औँला, आँखा र अण्डकोष — दीर्घ छन्।
20'उहाँका दस अङ्ग कमलझैँ छन्। उहाँका अङ्ग सुसङ्गत छन्। उहाँ आफ्नो तेज, कीर्ति र यशका कारण विख्यात हुनुहुन्छ। उहाँका दाँत र आँखा दुवै उज्ज्वल छन्। उहाँको शरीरका छ अङ्ग उन्नत छन्, नौ अङ्ग सूक्ष्म र तीखा छन्। उहाँ दिनका तीन काल — पूर्वाह्न, मध्याह्न र साँझ — मा धर्म, अर्थ र कामको सेवन गर्नुहुन्छ। उहाँ सधैँ धर्ममय जीवनपद्धति अपनाउनुहुन्छ।
21'उहाँ सधैँ सत्य र धर्ममा स्थित हुनुहुन्छ। उहाँ समृद्ध हुनुहुन्छ र अरूमाथि अनुग्रह गर्नकै लागि धन सञ्चित गर्न चाहनुहुन्छ। उहाँ आफ्ना कर्तव्य निभाउनमा काल र स्थानको उचित उपयोग जान्नुहुन्छ। उहाँले आफ्ना वचनले सबैलाई आफ्नो बनाउनुभएको छ।
22'अर्की आमाबाट जन्मेका उहाँका अजेय भाइ सौमित्रि स्नेह, लावण्य र गुणमा रामकै प्रतिकृति हुन्।
23'सम्पूर्ण पृथ्वीमा तपाईंलाई गम्भीरतापूर्वक खोज्दै ती दुवै पुरुषश्रेष्ठ हाम्रो सम्पर्कमा आउनुभयो।
24'जब उहाँहरू दुवै सम्पूर्ण पृथ्वीमा तपाईंलाई खोज्दै विचरण गरिरहनुभएको थियो, तब उहाँहरूले सुग्रीवलाई देख्नुभयो, जो वानरहरूका स्वामी थिए, आफ्ना ज्येष्ठ दाजुद्वारा राज्यबाट निकालिएका थिए र उसको भयले ऋष्यमूक पर्वतमा बसिरहेका थिए।
25'जब उहाँहरू दुवै सम्पूर्ण पृथ्वीमा तपाईंलाई खोज्दै विचरण गरिरहनुभएको थियो, तब उहाँहरूले सुग्रीवलाई देख्नुभयो, जो वानरहरूका स्वामी थिए, आफ्ना ज्येष्ठ दाजुद्वारा राज्यबाट निकालिएका थिए र उसको भयले ऋष्यमूक पर्वतमा बसिरहेका थिए।
26'सत्यको रक्षाका लागि प्रतिबद्ध वानरराज सुग्रीव आफ्ना ज्येष्ठ दाजुद्वारा राज्यबाट च्युत गरिएका थिए। हामी उनकै सेवा गर्दै आएका छौँ।
27'वल्कल वस्त्र लगाएका र बलशाली धनुष धारण गरेका ती दुवै राजकुमार ऋष्यमूक पर्वतको त्यस सुन्दर स्थानमा पुग्नुभयो।
28'धनुष धारण गरेका ती पुरुषश्रेष्ठहरूलाई देखेर वानरश्रेष्ठ सुग्रीव भयले विमूढ भई पर्वतबाट उफ्रे र शिखरमा पुगे।
29'त्यसपछि पर्वतशिखरमा रहेका ती वानरराजले चाँडै मलाई उहाँहरू दुवैसँग भेट्न पठाए।
30'सुग्रीवको आज्ञाले म हात जोडेर ती दुवै पुरुषश्रेष्ठकहाँ गएँ, जो मनोहर रूप र मङ्गलमय लक्षणले सम्पन्न दुई स्वामी हुनुहुन्थ्यो।
31'मैले ती दुवै बलशाली पुरुषको वास्तविक स्वरूप चिनेँ, जो आनन्दले भरिनुभएको थियो; मैले उहाँहरूलाई आफ्नो पीठमा राखेँ र पर्वतशिखरमा पुगेँ।
32'मैले ती दुवै महात्माका विषयमा सुग्रीवलाई यथावत् बताएँ। संवादबाट जब उहाँहरूले एकअर्कालाई चिन्नुभयो, तब उहाँहरूबीच दृढ मैत्री भयो।
33'तब वानरराज र मानिसका राजा दुवैले आनन्दले भरिएर आ-आफ्ना अतीतका वृत्तान्तले एकअर्कालाई सान्त्वना दिन थाल्नुभयो।
34'तब रामले सुग्रीवलाई सान्त्वना दिनुभयो, जो एउटी स्त्रीका कारण आफ्ना महापराक्रमी दाजु वालीद्वारा राज्यबाट च्युत र त्यागिएका थिए।
35'तब लक्ष्मणले वानरराज सुग्रीवसँग तपाईं हराउनुभएको र त्यसबाट रामलाई भएको शोकको कुरा गर्नुभयो, जो कठिन कार्य सहजै सिद्ध गर्नमा निपुण हुनुहुन्छ।
36'लक्ष्मणका वचन सुनेर वानरराज राहु ग्रहले ढाकिएको सूर्यझैँ अत्यन्त कान्तिविहीन भए।
37'जब त्यस राक्षसले तपाईंलाई लगिरहेको थियो, तब तपाईंका अङ्गबाट भुइँमा खसेका आभूषणका सबै पोका वानरनायकहरूले हर्षपूर्वक रामकहाँ ल्याए र देखाए, यद्यपि उनीहरूलाई तपाईंको ठेगाना थाहा थिएन।
38'जब त्यस राक्षसले तपाईंलाई लगिरहेको थियो, तब तपाईंका अङ्गबाट भुइँमा खसेका आभूषणका सबै पोका वानरनायकहरूले हर्षपूर्वक रामकहाँ ल्याए र देखाए, यद्यपि उनीहरूलाई तपाईंको ठेगाना थाहा थिएन।
39'मैले ती आभूषण बटुलेर रामलाई दिएँ। छरिएका ती रुनझुन गर्ने आभूषण देखेर उहाँले आफ्नो होस गुमाउनुभयो।
40'देवताझैँ तेजस्वी ती दिव्य पुरुषले ती सुन्दर आभूषण आफ्नो काखमा राखेर अनेक प्रकारले विलाप गर्नुभयो।
41'रामले ती हेर्नुभयो र आगोझैँ दन्किएको शोकमा बारम्बार तिनलाई छातीमा टाँसेर रुनुभयो।
42'शोकमा डुबेका महात्मा राम भुइँमा खस्नुभयो। मैले पनि ठूलो कठिनाइले उहाँलाई सान्त्वना दिएँ र उठ्न सहायता गरेँ।
43'महाबाहु रामले लक्ष्मणसहित ती बारम्बार हेर्नुभयो र सुग्रीवलाई सुम्पनुभयो।
44'हे दिव्य देवी! तपाईंको विरहका कारण उहाँ सधैँ संवर्तक आगोको पर्वतझैँ बलिरहनुहुन्छ।
45'राम अनिद्रा, शोक र तीव्र चिन्ता — यी तीन आगोले भट्टीझैँ बलिरहनुभएको छ, जसरी तीन पवित्र अग्निले अग्निशालालाई तीव्र रूपमा तताइराख्दछन्।
46'तपाईंलाई देख्न नपाएको शोकले रघुकुलका राम त्यसै गरी हल्लिनुभएको छ जसरी भूकम्पले कुनै अग्लो पर्वत।
47'हे राजकुमारी! तपाईंलाई देख्न नपाएकाले रामलाई मनोहर वन, नदी र झरनामा विचरण गर्दा कुनै आनन्द आउँदैन।
48'हे जनकपुत्री! आफ्ना मित्र र स्वजनसहित पुरुषश्रेष्ठ रामले रावणको वध गरी तपाईंसँग भेट्नुहुनेछ।
49'(मित्र भएर) राम र सुग्रीवले मिलेर यो निश्चय गर्नुभयो कि वालीको वध गरियोस् र तपाईंको खोजी गरियोस्।
50'त्यसपछि दुवै राजकुमार सँगै किष्किन्धा पुग्नुभयो र द्वन्द्वयुद्धमा वानरराज वालीको वध गर्नुभयो।
51'तब रामले चाँडै युद्धमा वालीको वध गर्नुभयो र सुग्रीवलाई सम्पूर्ण वानर तथा ऋक्ष सेनाका स्वामी बनाइदिनुभयो।
52'हे यशस्विनी देवी! यसरी राम र सुग्रीवबीच मैत्री स्थापित भयो। मलाई उनीहरूकै दूत भई यहाँ आएको हनुमान् जान्नुहोस्।
53'आफ्नो राज्य प्राप्त गरेपछि सुग्रीवले वानरनायकहरूलाई दसै दिशामा (तपाईंको खोजीका लागि) पठाए।
54'सुग्रीवको आज्ञाको पालन गर्दै पर्वतराज हिमालयझैँ विशाल ती बलशाली वानरनायक सम्पूर्ण पृथ्वीमा (खोज्दै) निस्के।
55'सुग्रीवको आज्ञाको पालन गर्दै हामी वानर तबदेखि सम्पूर्ण पृथ्वी खोतल्दै विचरण गरिरहेका छौँ — तपाईंलाई भेट्टाउन अथवा सुग्रीवको आज्ञा पूरा गर्न उत्सुक भई।
56'वालीका समृद्ध र बलशाली छोरा, वानरहरूमा बाघ अङ्गद नामक वीर सेनाको तेस्रो भागसहित निस्के।
57'हामीले निराशामा डुबेर अनेक रातदिन व्यर्थ गुमायौँ (किनकि तपाईंलाई भेट्टाउन सकेनौँ) र विशाल विन्ध्य पर्वतमा हामीले आफ्नो बाटो हरायौँ।
58'निराशा, आफ्ना लागि तोकिएको अवधिको उल्लङ्घन र वानरराजको भय (तपाईंलाई नभेट्टाईकन राजाको सामना गर्ने भय) का कारण हामीले आफ्ना प्राण त्याग्ने निश्चय गर्यौँ।
59'वनका दुर्गम भाग र पर्वतीय झरना (का किनार) सम्म खोज्दा पनि रानी (सीता) का चरण देख्न नसकेकाले हामीले प्राण त्याग्ने निश्चय गर्यौँ।
60'सबै वानरनायकलाई मर्ने निश्चय गरेको देखेर शोकको समुद्रमा डुबेका अङ्गदले तपाईं हराउनुभएको, वालीको वध, जटायुको मृत्यु र आमरण अनशनको हाम्रो आफ्नै निश्चयमाथि ठूलो स्वरमा विलाप गरे।
61'सबै वानरनायकलाई मर्ने निश्चय गरेको देखेर शोकको समुद्रमा डुबेका अङ्गदले तपाईं हराउनुभएको, वालीको वध, जटायुको मृत्यु र आमरण अनशनको हाम्रो आफ्नै निश्चयमाथि ठूलो स्वरमा विलाप गरे।
62'जब हामी (तपाईंको पत्ता नपाएकाले) निराश थियौँ र राजाको आज्ञा (कि जसले अवधि नाघ्छ, ऊ मारिनेछ) का कारण मृत्युको छेउमा थियौँ, तब हाम्रो कार्य पूरा गर्न एउटा विशालकाय बलशाली पक्षी प्रकट भयो।
63'ती गृध्रराज सम्पाति पक्षिराज जटायुका दाजु थिए। आफ्ना सानो भाइको मृत्युको समाचार सुनेर सम्पाति व्यथित भए र क्रोधमा भने —
64'हे वानरश्रेष्ठहरू! मेरा सानो भाइको वध कसले गर्यो? उनलाई कहाँ खसालियो? म चाहन्छु कि तिमीहरूले मलाई सबै कुरा बताऊ।'
65'अङ्गदले उनलाई यथावत् बताए कि तपाईंका कारण भयङ्कर रूप भएको त्यस राक्षसद्वारा जनस्थानमा कस्तो महासंहार भयो।
66'हे मनोहरी! जटायुको मृत्यु सुनेर अरुणका छोरा ती सम्पातिले दुःखी भई हामीलाई बताए कि तपाईं रावणको भवनमा हुनुहुन्छ।
67'सम्पातिका उत्साहवर्धक वचन सुनेर हामी सबै अङ्गदको नेतृत्वमा तत्कालै हिँड्यौँ।
68'प्रसन्न वानरहरू सन्तुष्ट भए। तपाईंलाई देख्न उत्साहित भई तिनी विन्ध्य पर्वतबाट उठे र उत्तरमा समुद्रतटको सीमासम्म पुगे।
69'तपाईंलाई देख्न उत्सुक अङ्गद र अन्य सबै नायक समुद्रतटमा पुगे, तर भयभीत भई फेरि चिन्तामा डुबे।
70'जब वानरसेना समुद्र देखेर हताश भइरहेको थियो, तब मैले आफ्नो सबै भय हटाएर सय योजनको समुद्र नाघेँ।
71'मैले रातमा राक्षसहरूले भरिएको लङ्का नगरीमा प्रवेश गरेँ, रावणलाई देखेँ र शोकमा डुबेकी तपाईंलाई देखेँ।
72'हे निष्पाप देवी! मैले तपाईंलाई यथावत् वृत्तान्त सुनाएँ। म दशरथनन्दनको दूत हुँ। हे दिव्य देवी! अब तपाईं बोल्नुहोस्।
73'हे दिव्य देवी! जान्नुहोस् कि म रामको कार्य पूरा गर्दै तपाईंकै निम्ति यहाँ आएको हुँ। म सुग्रीवको मन्त्री र वायुदेवको छोरा हुँ।
74'शस्त्रधारीहरूमा श्रेष्ठ ककुत्स्थकुलका तपाईंका स्वामी राम कुशल हुनुहुन्छ। त्यसै गरी मङ्गलमय लक्षणले सम्पन्न पूज्य लक्ष्मण पनि कुशल हुनुहुन्छ, जो उहाँको सेवामा लाग्नुभएको छ।
75'हे रानी! तपाईंका पराक्रमी पतिको कल्याणको कामना गर्दै म सुग्रीवको आज्ञाले यहाँ एक्लै आएको हुँ।
76'म इच्छाअनुसार रूप धारण गर्न सक्छु। मैले कुनै सहायताविना दक्षिण दिशामा विचरण गर्दै तपाईंलाई खोजेँ र यस स्थानमा पुगेँ।
77'मेरो सौभाग्यले अब म ती वानरनायकहरूको भय हटाउन सक्नेछु जो तपाईं हराउनुभएकोमा खेद गरिरहेका छन् — उनीहरूलाई यो बताएर कि तपाईं भेटिनुभयो।
78'हे रानी! मेरो सौभाग्यले समुद्र नाघ्नु व्यर्थ गएन। म भाग्यमानी छु, किनकि तपाईंलाई भेट्टाएको यश मलाई प्राप्त हुनेछ।
79'बलशाली राघवले आफ्ना स्वजन र बन्धुसहित राक्षसराज रावणको वध गरी तपाईंलाई लैजानुहुनेछ।
80'हे वैदेही! माल्यवान् नामक एउटा विख्यात पर्वत छ। त्यहाँबाट केसरी नामक एक वानर गोकर्ण पर्वतमा गए।
81'दिव्य ऋषिहरूले उनलाई (केसरीलाई) मेरो पिता भनेका छन्। उनले त्यस समुद्रतटको एउटा पवित्र स्थानको भूमि पुनः प्राप्त गरे र धर्मपरायण मानिसलाई सताइरहेको शम्बसादन नामक राक्षसको वध गरे।
82'हे मैथिली! वायुदेवद्वारा पुनः प्राप्त त्यसै भूमिमा मेरो जन्म भयो। आफ्नै कर्मका कारण म हनुमान् नामले चिनिन्छु।
83'तपाईंको मनमा मप्रति विश्वास उत्पन्न गर्न मैले तपाईंका पतिका गुणको वर्णन गरेको हुँ। हे निष्पाप रानी! रामले चाँडै तपाईंलाई यहाँबाट लैजानुहुनेछ।'
84शोकले पीडित सीताले उनका तार्किक कारण र पहिचान-चिह्नका आधारमा उनीमाथि विश्वास गरिन्। उनले मानिन् कि यिनी (रामका) दूत नै हुन्।
85जानकीलाई अपरिमेय आनन्द भयो र आफ्ना बाङ्गा आँखाबाट उनले हर्षका आँसु बगाइन्।
86कुनामा रातोपन भएका विशाल आँखा भएको उनको मुख राहुबाट मुक्त भएको चन्द्रमाझैँ चम्कियो।
87उनले थाहा पाइन् कि त्यो वानर हनुमान्बाहेक अरू कोही होइन। तब उनले दर्शनीय ती देवीलाई हेरेर फेरि भने —
88'हे मैथिली! जे मैले भन्न चाहेको थिएँ, त्यो सबै तपाईंलाई सुनाइदिएँ। आफ्नो मन शान्त पार्नुहोस्। म के गरूँ? अथवा जे तपाईंलाई प्रिय होस्, त्यो बताउनुहोस्। म फर्कनेछु।
89'(मेरा पिता) ती बलशाली वानरले कुनै महर्षिको आज्ञाले युद्धमा शम्बसादनको वध गरे। म वायुदेवको प्रभावले (वानरीबाट) जन्मेको वानर हुँ। म शक्तिमा वायुदेवसमान छु।' यसरी महर्षि वाल्मीकिद्वारा रचित आदिकाव्य श्रीमद्रामायणको सुन्दरकाण्डको पैँतीसौँ सर्ग समाप्त भयो।