Apaddharmanushasana Parva — The distribution of wealth among Brahmanas
Volume VII — Shanti Parva (I) · Chapter 165
Sanskrit
1भीष्म उवाच हृतार्थो यक्ष्यमाणश्व सर्ववेदान्तगश्च यः। आचार्यपितृकार्यार्थं स्वाध्यायार्थमथापि च॥ एते वै दृष्टा ब्राह्मणा धर्मभिक्षवः। निःस्वेभ्यो देयमेतेभ्यो दानं विद्या च भारत॥ साधवो
2अन्यत्र दक्षिणादानं देयं भरतसत्तम। अन्येभ्योऽपि बहिर्वेदि चाकृतान्नं विधीयते॥ सर्वरत्नानि राजा हि यथार्ह प्रतिपादयेत्।
3ब्राह्मणा एव वेदाश्च यज्ञाश्च बहुदक्षिणाः। अन्योन्यं विभवाचारा यजन्ते गुणतः सदा॥
4यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये। अधिकं चापि विद्येत स सोमं पातुमर्हति॥
5यज्ञश्चेत् प्रतिरुद्धः स्यादंशेनैकेन यज्वनः। ब्राह्मणस्य विशेषेण धार्मिके सति राजनि॥ यो वैश्यः स्याद् बहुपशु-नक्रतुरसोमपः। कुटुम्बात् तस्य तद् वित्तं यज्ञार्थं पार्थिवो हरेत्॥
6आहरेदथ नो किञ्चत् कामं शूद्रस्य वेश्मनः। न हि यज्ञेषु शूद्रस्य किञ्चिदस्ति परिग्रहः॥
7योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः। तयोरपि कुटुम्बाभ्यामाहरेदविचारयन्॥
8अदातृभ्यो हरेद् वित्तं विख्याप्य नृपतिः सदा। तथैवाचरतो धर्मो नृपते: स्यादथाखिलः॥
9तथैव शृणु मे भक्तं भक्तानि षडनश्नतः। अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः॥ खलात् क्षेत्रात् तथा रामाद् यतो वाप्युपपद्यते। आख्यातव्यं नृपस्यैतत् पृच्छतेऽपृच्छतेऽपि वा॥
10न तस्मै धारयेद् दण्डं राजा धर्मेण धर्मवित्। क्षत्रियस्य तु बालिश्या ब्राह्मणः क्लिश्यते क्षुधा॥
11श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत्। अथैनं परिरक्षेत पिता पुत्रमिवौरसम्॥
12इष्टिं वैश्वानरों नित्यं निर्वयेदब्दपर्यये। अनुकल्पः परो परो धर्मो धर्मवादैस्तु केवलम्॥
13विश्वैर्देवैश्च साध्यैश्च ब्राह्मणैश्च महर्षिभिः। आपत्सु मरणाद् भीतैर्विधिः प्रतिनिधीकृतः॥
14प्रभुः प्रथमकल्पस्य योऽनुकल्पे न वर्तते। न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम्॥
15न ब्राह्मणो निवेदेत किंचिद् राजनि वेदवित्। स्ववीर्याद् राजवीर्याच्च स्ववीर्यं बलवत्तरम्॥
16तस्माद् राज्ञः सदा तेजो दुःसहं ब्रह्मवादिनाम्। कर्ता शास्ता विधाता च ब्राह्मणो देव उच्यते॥
17तस्मिन्नाकुशलं ब्रूयान्न शुष्कामीरयेद् गिरम्। क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः॥
18धनैवैश्यश्च शूद्रश्च मन्त्रैर्हो मैश्च वै द्विजः। नैव कन्या न युवति मन्त्रज्ञो न बालिशः॥ परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा। नरकं निपतन्त्येते जुह्वानाः स च यस्य तत्। तस्माद् वैतानकुशलो होता स्याद् वेदपारगः॥
19प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम्। अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः॥
20पुण्यानि यानि कुर्वीत श्रद्दधानो जितेन्द्रियः। अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथञ्चन॥
21प्रजाः पशृंश्च स्वर्गे च हन्ति यज्ञो ह्यदक्षिणः। इन्द्रियाणि यशः कीर्तिमायुश्चाप्यवकृन्तति॥
22उदक्यामासते ये च द्विजाः केचिदनग्नयः। होमं चाश्रोत्रियं येषां ते सर्वे पापकर्मिणः॥
23उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः। उषित्वा द्वादश समाः शूद्रकर्मैव गच्छति॥
24अभार्यां शयने बिभ्रच्छूद्रं वृद्ध च वै द्विजः। अब्राह्मणं मन्यमानस्तुणेष्वासीत पृष्ठतः। तथा संशुध्यते राजशृणु चात्र वचो मम॥
25यदेकरात्रेण करोति पापं निकृष्टवर्णं ब्राह्मणः सेवमान:। स्थानासनाभ्यां विहरन् व्रती स त्रिभिर्वर्षेः शमयेदात्मपापम्॥
26न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले। न गुर्वर्थं नात्मनो जीवितार्थे पञ्चानृतान्याहुरपातकानि॥
27श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात्। सुवर्णमपि चामेध्यादाददीताविचारयन्।॥
28स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत्। अदृष्या हि स्त्रियो रत्नमाप इत्येव धर्मतः॥
29गोब्राह्मणहितार्थं च वर्णानां संकरेषु च। वैश्यो गृह्णीत शस्त्राणि परित्राणार्थमात्मनः॥
30सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा। अनिर्देश्यानि मन्यन्ते प्राणान्तमिति धारणा॥
31सुवर्णहरणं स्तैन्यं विप्रस्वं चेति पातकम्। विहरन् मद्यपानाच्च अगम्यागमनादपि॥
32पतितैः सम्प्रयोगाच्च ब्राह्मणीयोनितस्तथा। अचिरेण महाराज पतितो वै भवत्युत॥
33संवत्सरेण पतति पतितेन सहाचरन्। याजनाध्यापनाद् यौनान्न तु यानासनाशनात्॥
34एतानि हित्वातोऽन्यानि निर्देश्यानीति भारत। निर्देश्यानेन विधिना कालेनाव्यसनी भवेत्॥ अन्नं वीर्यं ग्रहीतव्यं प्रेतकर्मण्यपातिते। त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणाम्॥
35अमात्यान् वा गुरून् वापि जह्याद् धर्मेण धार्मिकः। प्रायश्चित्तमकुर्वाणै तैरर्हति संविदम्॥ अधर्मकारी धर्मेण तपसा हन्ति किल्विषम्। ब्रुवन् स्तेन इति स्तेनं तावत् प्राप्नोति किल्बिषम्॥
36अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात्। त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती॥ यस्तु दूषयिता तस्याः शेषं प्राप्नोति पाप्मनः।
37ब्राह्मणानवगर्नेह स्पृष्ट्वा गुरुतरं भवेत्॥ वर्षाणां हि शतं तावत् प्रतिष्ठां नाधिगच्छति।
38सहस्रं चैव वर्षाणां निपत्य नरकं वसेत्॥ तस्मान्नैवावगर्खेत नैव जातु निपातयेत्।
39शोणितं यावत: पांसून् संगृह्णीयाद् द्विजक्षतात्॥ तावती: स समा राजन् नरके प्रतिपद्यते।
40भ्रूणहाऽऽहवमध्ये तु शुद्ध्यते शस्त्रपाततः॥ आत्मानं जुहुयादग्नौ समिद्धे तेन शुद्ध्यते।
41सुरापो वारुणीमुष्णां पीत्वा पापाद् विमुच्यते॥ तया स काये निर्दग्धे मृत्युं वा प्राप्य शुद्ध्यति। लोकांश्च लभते विप्रो नान्यथा लभते हि सः॥
42गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः। स्त्र्याकारां प्रतिमां लिंग्य मृत्युना सोऽभिशुद्ध्यति॥
43अथवा शिश्नवृषणावादायाञ्जलिना स्वयम्॥ नैर्ऋती दिशमास्थाय निपतेत् स त्वजिह्मगः।
44ब्राह्मणार्थेऽपि वा प्राणान् संत्यजेत् तेन शुद्ध्यति॥ अश्वमेधेन वापीष्ट्वा अथवा गोसवेन वा। अग्निष्टोमेन वा सम्यगिह प्रेत्य च पूज्यते॥
45तथैव द्वादशसमाः कपाली ब्रह्महा भवेत्। ब्रह्मचारी भवेन्नित्यं स्वकर्म ख्यापयन् मुनिः॥
46एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत्। एवं तु समभिज्ञातामात्रेयीं वा निपातयेत्॥
47द्विगुणा ब्रह्महत्या वै आत्रेयीनिधने भवेत्। सुरापो नियताहारो ब्रह्मचारी क्षितीशयः॥ ऊर्ध्वं त्रिभ्योऽपि वर्षेभ्यो यजेताग्निष्टुता परम्। ऋषभैकसहस्रं वा गा दत्त्वा शौचमाप्नुयात्॥
48वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशतं च गाः। शूद्रं हत्वाब्दमेवैकमृषभं च शतं च गाः॥ श्ववराहखरान् हत्वा शौद्रमेव व्रतं चरेत्।
49मार्जारचाषमण्डूकान् काकं व्यालं च मूषिकम्॥ उक्तः पशुसमो दोषो राजन् प्राणिनिपातनात्।
50प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः॥ अल्पे वाप्यथ शोचेत पृथक् संवत्सरं चरेत्।
51त्रीणि श्रोत्रियभार्यायां परदारे च द्वे स्मृते॥ काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत्।
52स्थानासनाभ्यां विहरेत् त्रिरह्नाभ्युपयन्नपः। एवमेव निराकर्ता यश्चाग्नीनपविध्यति॥
53त्यजत्यकारणे यश्च पितरं मातरं गुरुम्। पतितः स्यात्स कौरव्य यथा धर्मेषु निश्चयः॥ ग्रासाच्छादनमात्रं तु दद्यादिति निदर्शनम्। (ब्रह्मचारी द्विजेभ्यश्च दत्त्वा पापात् प्रपुच्यते।) भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः। यत् पुंसः परदारेषु तदेनां चारयेद् व्रतम्॥
54श्रेयांसं शयनं हित्वा यान्यं पापं निगच्छति। श्वभिस्तामर्दयेद् राजा संस्थाने बहुविस्तरे॥
55पुमांसमुन्नयेत् प्राज्ञः शयने तप्त आयसे। अप्यादधीत दारूणि तत्र दह्येत पापकृत्॥
56एष दण्डो महाराज स्त्रीणां भर्तृष्वतिक्रमात्। संवत्सरोऽभिशस्तस्य दुष्टस्य द्विगुणो भवेत्॥
57द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनि। कुचरः पञ्चवर्षाणि चरेद् भैक्ष्यं मुनिव्रतः॥
58परिवित्तिः परिवेत्ता या चैव परिविद्यते। पाणिग्रहास्त्वधर्मेण सर्वे ते पतिताः स्मृताः॥
59चरेयुः सर्व एवैते वीरहा यद् व्रतं चरेत्। चान्द्रायणं चरेन्मासं कृच्छ्रे वा पापशुद्धये॥ परिवेत्ता प्रयच्छेत तां स्नुषां परिवित्तये।
60ज्येष्ठेन त्वभ्यनुज्ञातो यवीयानप्यनन्तरम्। एवं च मोक्षमाप्नोति तौ च सा चैव धर्मतः॥
61अमानुषीषु गोवामनावृष्टिर्न दुष्यति। अधिष्ठात्रवमन्तारं पशूनां पुरुषं विदुः॥
62परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम्। चरेत् सप्तगृहान्नित्यं स्वकर्म परिकीर्तयन्।॥ तत्रैव लब्धभोजी स्याद् द्वादशाहात्स शुद्ध्यति। चरेत् संवत्सरं चापि तद् व्रतं येन कृन्तति॥
63भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम्। दानं वा दानशक्तेषु सर्वमेतत् प्रकल्पयेत्॥
64अनास्तिकेषु गोमात्रं दानमेकं प्रचक्षते। ववराहमनुष्याणां कुक्कुटस्य खरस्य च॥
65मांसं मूत्रं पुरीषं च प्राश्य संस्कारमर्हति। ब्राह्मणास्तु सुरापस्य गन्धमादाय सोमपः॥ अपस्त्र्यहं पिबेदुष्णं त्र्यहमुष्णं पयः पिबेत्। त्र्यहमुष्णं पयः पीत्वा वायुभक्षो भवेत् त्र्यहम्॥ एवमेतत् समुद्दिष्टं प्रायश्चित्तं सनातनम्। ब्राह्मणस्य विशेषेण यदज्ञानेन सम्भवेत्॥
English
1Bhishma said Wealth and knowledge, O Bharata, should be given to such pious and impoverished Brahmanas as have been robbed of their wealth (by thieves), as are engaged in the celebration of sacrifices, as are well-read in all the Vedas, and as are desirous of acquiring the merit of righteousness, so that they may satisfy their duties to preceptors and the Pitris, and spend their days in reciting and studying the scriptures.
2Only the Dakshina, O best of the Bharatas, should be given to those Brahmanas who are not poor. Uncooked food should be given beyond the limits of the sacrificial altar, to those Brahmanas that have fallen away in consequence of their sinful deeds) from their own dignity.
3The Brahmanas represent the Vedas themselves and all the sacrifices with profuse presents. Desirous of excelling one another, they always celebrate sacrifices, actuated by their various desires. The king should, therefore, make presents of various sorts of valuable wealth to them.
4That Brahmana who has sufficient stores for feeding his family for three or more years, deserves to drink the Soma.
5If inspite of the presence of a pious king on the throne, the sacrifice undertaken by any one, but especially by a Brahmana, cannot be completed for want of only a fulptrt of the estimated cost, then the king should, for the completion of that sacrifice, take away from his relatives the wealth of a Vaishya who has a farge flock of cattle but who is averse from sacrifices and abstains from drinking Soma.
6The Shudra is not competent to celebrate a sacrifice. The king should, therefore, take away (wealth for such a purpose) from a Shudra's house.
7The king should, also, unscrupulously take away from their kinsmen the wealth of him who does not celebrate sacrifices although he has a hundred kine, and also of him who does not perform sacrifices although he has a thousand kine.
8The king should, always, publicly take away the wealth of a person who does not perform charities. By acting in this wise the King acquires great merit.
9Listen again to me. That Brahmana who has been compelled by want to fast for three days, may take away without permission, according to the rule of a person who cares only for toclay and not for the morrow, only what is necessary for a single mcal, from the husking tub or the field or the garden or any other place of even a degraded man. He should, however, whether asked or unasked, inform the king of his deed.
10If the king knows his own duty he should not punish such a Brahmana. He should remember that a Brahmana becomes stricken with hunger only through the fault of the Kshatriya.
11Having learnt a Brahmana's learning and conduct, the king should provide for his living and protect him as a father protects his own begotten son.
12On the expiry of every year, one should celebrate the Vaishyanara sacrifice. Those who are conversant with religious codes say that the practice of an alternative act, does not destroy virtue.
13Fearing death in seasons of distress, the Vishvedevas, the Saddhyas, the Brahmanas, and great Rishis, do not hesitate to follow the alternative provisions laid down in the scriptures.
14That man, however, who while able to live according to the first provision, as laid down above, follows the alternative, comes to be known as a wicked person and never succeeds in acquiring any happiness in heaven.
15A Brahmana conversant with the Vedas should mention his power and knowledge to the king. Comparing again the power of a Brahmana with that of the king, the former will always be found to be superior to the latter. never
16Therefore the power of the Brahmanas can hardly be borne or resisted by a king. The Brahmana is said to be creator, king, ordainer, and god.
17No abusive word or dry speeches, should be spoken to a Brahmana. The Kshatriya should get over all his difficulties by the help of the power of his arms.
18The Vaishya and the Shudra should get over their difficulties by riches; the Brahmana should do so by Mantras and Homa. None of these, viz., a maiden, a young woman, a person unacquainted with Mantras, an ignorant person, or one who is impure, is competent to pour libations on the sacrificial fire. If any of these do so he or she is sure to go to hell, with him on whose behalf they act. Therefore none but a Brahmana well-read in the Vedas and skilled in all sacrifices should pour sacrificial libations.
19They who are well-acquainted with the scriptures hold that man who, having lighted the sacrificial fire, does not give away the dedicated food as Dakshina, is not the kindler of a sacrificial fire,
20A person should, after having controlled his senses, and with proper devotion, do all the meritorious acts. One should never adore gods in sacrifices in which no Dakshina is given.
21A sacrifice not completed with Dakshina, encompasses the destruction of one's children, animals, and heaven. Such a sacrifice destroys also the senses, the glory the achievements, and the very life, itself.
22Those Brahmanas who know women in their season, or who never celebrate sacrifices, or whose families have no members well-read in the Vedas, are considered as Shudras in act.
23That Brahmana who, having married a Shudra girl, lives for twelve years continually in a village which has only a well to give water, becomes a Shudra in act.
24That Brahmana who brings to his bed a maiden, or allows a Shudra, knowing him as deserving of respect, to sit upon the same carpet with him, should sit on a bed of dry grass behind some Kshatriya or Vaishya and show him respect in that way. It is in this way that he can be purified. Hear, O king, my words on this subject.
25The sin that a Brahmana perpetrates in one night by respectfully serving a member of a lower caste or by playing with him in the same spot or on the same bed, is purified by observing the practice of sitting behind by observing the practice of sitting behind a Kshatriya or a Vaishya on a bed of dry grass for three years continually.
26An untruth spoken for jest is not sinful; nor one spoken at the time of wedding; nor one spoken for doing good to one's preceptor; nor one spoken for saving one's own life. These five sorts of falsehood in speech, it has been said, are not sinful.
27One may gain useful knowledge from even a person of degraded calling, with devotion and reverence. One may take up gold, unhesitatingly from even an unclean spot.
28A woman who is the ornament of her sex may be married from even a vile race. Nectar, if extracted from poison, may be drunk; women, jewels and other valuables, as also water, can never, according to the scriptural injunction, be impure or unclean.
29For the good of Brahmanas and kine, and on occasions when mixture of castes takes place, even a Vaishya may take up weapons for his own safety.
30Drinking wine, killing a Brahmana, and the violation of the preceptor's bed, are sins when committed consciously, can never be expiated. The only expiation laid down for them is death.
31The sarne may be said of stealing gold, and the theft of a Brahmana's property. By drinking winc, by knowing prohibited women, by mingling with a degraded person, by knowing a Brahmana's woman, one becomes for ever fallen.
32By associating with a fallen person for one whole year in sacrifices and teaching and sexual intercourse, one becomes fallen. One, however, does not become so by associating with a fallen person in riding on the same car, sitting on the same seat, and eating in the same line.
33Excluding the five heinous sins that have been mentioned above, all other sins have expiations. Expiating those sins according to the ordinances laid down for them, one should not commit them again.
34Except all those, O Bharata! Many other sins have been described as removable by penance. Thus he gives up the sinful habit. Regarding those who have been guilty of the first three of these five sins, (namely, drinking wine, killing a Brahmana, and violation of the preceptor's bed), their (surviving) kinsmen have no restrictions about taking food and wearing ornaments, even if their funeral rites remain unperformed when they die. The surviving kinsmen need make no scruple about such things at such times.
35A virtuous man should, while observing his duties, discard his very friends and elders. In fact, so long as they do not perform expiation, the virtuous should not even talk with those sinners. A man who has committed sins dissipates them by acting virtuously afterwards and by penances. By calling a thief a thief, one conimits the sin of theft.
36By calling a person thief who, however, is not a thief, one commits a sin just double the sin of theft. The maiden who spoils her virginity incurs three-fourths of the sin of Brahmanicide, while the man who knows her incurs a sin equal to a fourth part of that of Brahmanicide.
37By speaking against Brahmanas or by striking them, one sinks in infamy for a hundred years.
38By slaying a Brahmana one undergoes the torments of hell for a thousand years. No one should, therefore, speak ill of a Brahmana or slay him.
39If a man wounds a Brahmana with a weapon, he will have to live in hell for as many years as the grains of dust that are soaked by the blood flowing from the body of the wounded.
40One guilty of foeticide becomes purified if he dies of wounds received in battle fought for the sake of kine and Brahmanas. He may also be purified by casting his person on a burning fire.
41A drinker of spirituous liquors becomes purified by drinking hot spirit. He is purified by his death, brought on by that hot drink, in the other world. A Brahmana stained by such a sin attains regions of felicity by such a course, and such a course only, and not by any other.
42The wicked and sinful wretch who violates the bed of a preceptor, becomes purified by the death that results from embracing a heated iron statue of a female.
43Or, emasculating himself and cutting off his organ, and bearing them in his hands, he should go straight way towards the south-west and then give up his ghost.
44Or, he may cleanse himself of all his sins, by meeting with death for the sake of benefiting a Brahmana. Or, he may regain esteem both in this world and in the next by performing a Horse-sacrifice or a Cowsacrifice or an Agnishtoma.
45The killer of a Brahmana should practise the vow of Brahmacharya for twelve years, and devoting himself to penances, he should wander, holding in his hands the skull of the killed all the time and the time and proclaiming his sin to all. on
46He should even adopt such a course, devoted to penances and leading the life of an ascetic. Even such is the expiation provided for one who skills a woman quick with child, knowing her condition.
47The man that knowingly kills such a woman incurs double the sin that follows from Brahmanicide. A drinker of spirituous liquor should live spare diet, practising Brahmacharya vows, and sleep on the naked earth, and perform, for more than three years the sacrifice next to the Agnishtoma. He should then present a thousand kine with one bull (to a good Brahmana). He would then regain his purily by doing all this.
48Having killed a Vaishya one Vaishya one should perform such a sacrifice for two years and present a hundred kine with one bull. Having killed a Shudra, one should perform such a sacrifice for one year and present a hundred kine with one bull. Having killed a dog or a bear or a camel, one should perform the same penance that is laid down for killing a Shudra.
49For killing a cat, a chasa, a frog, a crow, a reptile or a rat, it has been said, one incurs the sin of animal slaughter O king.
50I shall now tell you of other kinds of expiations one after the other. For all minor sins one should repent or practise some vow for one year.
51For ravishing the wife of a Brahmana well read in the Vedas, one should, for three years, practise the vow of Brahmacharya, living on spare diet at the fourth part of the day. For ravishing any other woman one should undergo similar penances for two years.
52For enjoying oneself in the company of a woman as by sitting with her on the same spot or on the same seat, one should live only on water for three days. By doing this he may purify himself of his sin. The same is laid down for one who befouls a burning fire (by throwing impure things on it.)
53He who, without sufficient reason leaves his father or mother or preceptor, forsooth, becomes degraded, O ye scion of Kuru's race, as is laid down in the scriptures. Only food and clothes shall be given to a wife guilty of fornication or one confined in a prison. Indeed, the vows that are laid down for a male person guilty of fornication should also be forced on a woman who is as well guilty of the same.
54That woman who abandoning a husband of a superior caste, commits adultery with a vile person (of a lower order), should be made by the king to be devoured by dogs in a public place in the midst of a large number of spectators.
55A wise king should make the male person, committing adultery under such circumstances to be placed upon a heated bed of iron and then, placing woods underneath, burn the sinner thereon.
56The same punishment, O king, holds for the woman who is guilty of adultery. The wicked sinner who does not perform expiatory rite within a year of the perpetration of the sin incurs demerit that is double of what attaches to the original sin.
57One who mixes with such a person for two years must walk over the Earth, devoting himself to penances and living upon alms. One mixing with a sinner for four years should follow such a mode of life for five years.
58If a young brother marries before his elder brother, then the younger brother, the elder brother, and the woman that is married, all three, on account of such wedding, become degraded.
59All of them should observe the vows laid down for a person who has neglected his sacrificial fire, or practise the of Chandrayana for month, or some other painful vow, for purging themselves off their sin.
60The younger brother, marrying should give his wife to his unmarried elder brother. Having acquired the permission of the elder brother, the younger brother may take back his wife. By such means all three may be cleansed of their sin.
61By killing animals except a cow, the killer is not stained. The learned hold that man has supremacy over all the lower animals.
62Holding in his hand a yak-tail and an earthen pot, a sinner should go about, giving a publicity to his sin. He should every day beg of only seven families, and live upon what may thus be got. By doing this for twelve days he may be purified of his sin. He who cannot hold in his hand the yak-tail while practising this vow should become a mendicant (as stated above) for one whole year.
63Amongst men such expiation ranks foremost. The practice of charity has been sanctioned in all such cases for those that are able to practise charity.
64Those who have faith and virtue may purify themselves by giving away only one cow.
65One who eats or drinks the flesh, ordure, or urine of a dog, a boar, a man, a cock or a camel must have the ceremony of putting on the sacred thread performed again. If a Somadrinking Brahmana smells alcohol from the mouth of one who has drunk it, he should drink warm water for three days or warm milk for the same period. Or, drinking warm water for three days he should live for that period upon air alone. These are the eternal injunctions prescribed for the expiation of sin, especially for a Brahmana who has perpetrated these sins through ignorance and want of judgement.
Hindi
1भीष्म ने कहा — हे भरतवंशी, धन और ज्ञान ऐसे धर्मात्मा और निर्धन ब्राह्मणों को देने चाहिए जिनका धन (चोरों द्वारा) लूट लिया गया हो, जो यज्ञों के अनुष्ठान में लगे हों, जो समस्त वेदों में निष्णात हों, और जो धर्म का पुण्य अर्जित करना चाहते हों — जिससे वे अपने गुरुओं और पितरों के प्रति अपने कर्तव्य पूरे कर सकें और अपने दिन शास्त्रों के पाठ और अध्ययन में बिता सकें।
2हे भरतवंशियों में श्रेष्ठ, जो ब्राह्मण निर्धन नहीं हैं, उन्हें केवल दक्षिणा देनी चाहिए। जो ब्राह्मण (अपने पापकर्मों के कारण) अपनी गरिमा से गिर चुके हैं, उन्हें यज्ञवेदी की सीमा के बाहर कच्चा अन्न देना चाहिए।
3ब्राह्मण स्वयं वेद हैं और प्रचुर दक्षिणा वाले समस्त यज्ञ भी। एक-दूसरे से बढ़ जाने की इच्छा से वे अपनी विविध कामनाओं से प्रेरित होकर सदा यज्ञ करते रहते हैं। अतः राजा को उन्हें अनेक प्रकार का बहुमूल्य धन देना चाहिए।
4जिस ब्राह्मण के पास अपने परिवार का तीन अथवा अधिक वर्ष तक भरण-पोषण करने योग्य पर्याप्त संचय है, वह सोमपान का अधिकारी है।
5यदि सिंहासन पर धर्मात्मा राजा के होते हुए भी किसी के द्वारा — विशेषकर किसी ब्राह्मण के द्वारा — आरम्भ किया गया यज्ञ अनुमानित व्यय के केवल एक अंश की कमी से पूरा न हो सके, तो उस यज्ञ की पूर्ति के लिए राजा को उस वैश्य के बन्धुओं से उसका धन ले लेना चाहिए जिसके पास पशुओं का बड़ा झुण्ड है किन्तु जो यज्ञों से विमुख है और सोमपान से विरत रहता है।
6शूद्र यज्ञ करने का अधिकारी नहीं है। अतः राजा को (ऐसे प्रयोजन के लिए धन) शूद्र के घर से लेना चाहिए।
7राजा को उसका धन भी उसके बन्धुओं से निःसंकोच ले लेना चाहिए जो सौ गौएँ रखते हुए भी यज्ञ नहीं करता, तथा उसका भी जो सहस्र गौएँ रखते हुए भी यज्ञ नहीं करता।
8जो दान नहीं करता, राजा को उसका धन सदा सार्वजनिक रूप से ले लेना चाहिए। ऐसा आचरण करके राजा महान् पुण्य अर्जित करता है।
9अब मेरी और बात सुनो। जो ब्राह्मण अभाव के कारण तीन दिन उपवास करने को विवश हुआ हो, वह — जो केवल आज की चिन्ता करता है और कल की नहीं, ऐसे पुरुष के नियम के अनुसार — केवल एक भोजन के लिए आवश्यक सामग्री बिना अनुमति के किसी पतित पुरुष के भी कुटने के ओखल से, खेत से, बगीचे से अथवा किसी अन्य स्थान से ले सकता है। किन्तु उसे, पूछे जाने पर या बिना पूछे भी, अपने इस कर्म की सूचना राजा को दे देनी चाहिए।
10यदि राजा अपना धर्म जानता है, तो उसे ऐसे ब्राह्मण को दण्ड नहीं देना चाहिए। उसे स्मरण रखना चाहिए कि ब्राह्मण क्षत्रिय के दोष से ही भूख से पीड़ित होता है।
11ब्राह्मण की विद्या और आचरण जानकर राजा को उसकी जीविका का प्रबन्ध करना चाहिए और उसकी उसी प्रकार रक्षा करनी चाहिए जैसे पिता अपने औरस पुत्र की रक्षा करता है।
12प्रत्येक वर्ष की समाप्ति पर वैश्वानर यज्ञ करना चाहिए। धर्मशास्त्रों के ज्ञाता कहते हैं कि वैकल्पिक कर्म का आचरण धर्म का नाश नहीं करता।
13विपत्तिकाल में मृत्यु के भय से विश्वेदेवा, साध्य, ब्राह्मण और महर्षि भी शास्त्रों में विहित वैकल्पिक विधानों का अनुसरण करने में हिचकते नहीं।
14किन्तु जो मनुष्य ऊपर कही गई प्रथम विधि के अनुसार जीवन बिता सकता हुआ भी विकल्प का अनुसरण करता है, वह दुष्ट पुरुष कहलाता है और स्वर्ग में कभी सुख प्राप्त नहीं कर पाता।
15वेदज्ञ ब्राह्मण को अपना बल और ज्ञान राजा को बताना चाहिए। और ब्राह्मण के बल की राजा के बल से तुलना करने पर पहला सदा दूसरे से श्रेष्ठ ही पाया जाएगा।
16अतः ब्राह्मणों का बल राजा द्वारा सहा अथवा रोका जाना कठिन ही है। ब्राह्मण को स्रष्टा, राजा, विधाता और देवता कहा गया है।
17ब्राह्मण से कोई अपशब्द अथवा रूखे वचन नहीं कहने चाहिए। क्षत्रिय को अपनी भुजाओं के बल से अपनी समस्त कठिनाइयाँ पार करनी चाहिए।
18वैश्य और शूद्र को अपनी कठिनाइयाँ धन से पार करनी चाहिए; ब्राह्मण को मन्त्रों और होम से। इनमें से कोई भी — अर्थात् कन्या, युवती स्त्री, मन्त्रों से अनभिज्ञ पुरुष, अज्ञानी पुरुष, अथवा अपवित्र पुरुष — यज्ञाग्नि में आहुति देने का अधिकारी नहीं। यदि इनमें से कोई ऐसा करे, तो वह उस पुरुष सहित नरक जाता है जिसकी ओर से वह कर्म करता है। अतः वेदों में निष्णात और समस्त यज्ञों में कुशल ब्राह्मण के अतिरिक्त किसी को यज्ञाहुति नहीं देनी चाहिए।
19शास्त्रों के ज्ञाता मानते हैं कि जो मनुष्य यज्ञाग्नि प्रज्वलित करके अर्पित अन्न दक्षिणा के रूप में नहीं देता, वह यज्ञाग्नि का प्रज्वलक ही नहीं है।
20मनुष्य को अपनी इन्द्रियों को वश में करके और उचित भक्ति के साथ समस्त पुण्यकर्म करने चाहिए। जिन यज्ञों में दक्षिणा नहीं दी जाती, उनमें देवताओं की पूजा कभी नहीं करनी चाहिए।
21दक्षिणा से पूर्ण न किया गया यज्ञ मनुष्य की सन्तान, पशुओं और स्वर्ग का विनाश ले आता है। ऐसा यज्ञ इन्द्रियों, यश, उपलब्धियों और स्वयं जीवन तक का नाश कर देता है।
22जो ब्राह्मण स्त्रियों से उनके ऋतुकाल में समागम करते हैं, अथवा जो कभी यज्ञ नहीं करते, अथवा जिनके कुल में वेदों में निष्णात कोई सदस्य नहीं, वे कर्म से शूद्र माने जाते हैं।
23जो ब्राह्मण शूद्र कन्या से विवाह करके बारह वर्ष तक निरन्तर ऐसे गाँव में रहता है जहाँ जल देने के लिए केवल एक कूप है, वह कर्म से शूद्र हो जाता है।
24जो ब्राह्मण किसी कन्या को अपनी शय्या पर लाता है, अथवा किसी शूद्र को आदर के योग्य जानते हुए अपने ही आसन पर बैठने देता है, उसे किसी क्षत्रिय अथवा वैश्य के पीछे सूखे कुश के आसन पर बैठकर उस प्रकार उसका आदर करना चाहिए। इसी प्रकार वह शुद्ध हो सकता है। हे राजन्, इस विषय में मेरे वचन सुनो।
25ब्राह्मण एक रात में नीच वर्ण के सदस्य की आदरपूर्वक सेवा करके अथवा उसी स्थान पर या उसी शय्या पर उसके साथ क्रीड़ा करके जो पाप करता है, वह तीन वर्ष तक निरन्तर सूखे कुश के आसन पर किसी क्षत्रिय अथवा वैश्य के पीछे बैठने का आचरण करने से किसी क्षत्रिय अथवा वैश्य के पीछे बैठने का आचरण करने से शुद्ध होता है।
26हास्य में बोला गया असत्य पाप नहीं; न विवाह के समय बोला गया; न अपने गुरु का हित करने के लिए बोला गया; न अपने प्राण बचाने के लिए बोला गया। कहा गया है कि वचन के ये पाँच प्रकार के असत्य पापपूर्ण नहीं हैं।
27उपयोगी ज्ञान भक्ति और श्रद्धा के साथ पतित वृत्ति वाले पुरुष से भी ग्रहण किया जा सकता है। स्वर्ण अपवित्र स्थान से भी निःसंकोच उठाया जा सकता है।
28जो स्त्री अपने वर्ग का आभूषण हो, उससे नीच कुल से भी विवाह किया जा सकता है। यदि अमृत विष से निकाला गया हो तो भी वह पिया जा सकता है; शास्त्र के विधान के अनुसार स्त्रियाँ, रत्न और अन्य बहुमूल्य वस्तुएँ, तथा जल भी कभी अपवित्र अथवा अशुद्ध नहीं हो सकते।
29ब्राह्मणों और गौओं के हित के लिए, तथा जब वर्णसंकर हो रहा हो, तब वैश्य भी अपनी रक्षा के लिए शस्त्र उठा सकता है।
30मद्यपान, ब्रह्महत्या और गुरु की शय्या का उल्लंघन — जब ये जानबूझकर किए जाएँ, तब ये ऐसे पाप हैं जिनका प्रायश्चित्त कभी नहीं हो सकता। इनके लिए एकमात्र विहित प्रायश्चित्त मृत्यु है।
31यही बात स्वर्ण की चोरी और ब्राह्मण की सम्पत्ति की चोरी के विषय में भी कही जा सकती है। मद्यपान से, निषिद्ध स्त्रियों से समागम से, पतित पुरुष के साथ मेल से, और ब्राह्मण की स्त्री से समागम से मनुष्य सदा के लिए पतित हो जाता है।
32यज्ञों में, अध्यापन में और मैथुन में पतित पुरुष के साथ पूरे एक वर्ष तक मेल रखने से मनुष्य पतित हो जाता है। किन्तु एक ही रथ पर सवारी करने, एक ही आसन पर बैठने और एक ही पंक्ति में भोजन करने में पतित पुरुष के साथ रहने से वह पतित नहीं होता।
33ऊपर कहे गए पाँच महापातकों को छोड़कर शेष समस्त पापों के प्रायश्चित्त हैं। उनके लिए विहित विधानों के अनुसार उन पापों का प्रायश्चित्त करके मनुष्य को उन्हें फिर नहीं करना चाहिए।
34हे भरतवंशी, इन सबको छोड़कर! अन्य अनेक पाप ऐसे बताए गए हैं जो तपस्या से दूर हो सकते हैं। इस प्रकार वह अपनी पापपूर्ण आदत छोड़ देता है। जो इन पाँच पापों में से पहले तीन (अर्थात् मद्यपान, ब्रह्महत्या और गुरु की शय्या का उल्लंघन) के दोषी रहे हों, उनके (जीवित) बन्धुओं पर भोजन करने और आभूषण पहनने के विषय में कोई बन्धन नहीं, चाहे उनके मरने पर उनके अन्त्येष्टि कर्म अनुष्ठित न भी हों। ऐसे अवसरों पर जीवित बन्धुओं को ऐसी बातों में कोई संकोच नहीं करना चाहिए।
35धर्मात्मा पुरुष को अपने कर्तव्यों का पालन करते हुए अपने मित्रों और गुरुजनों तक का त्याग कर देना चाहिए। वस्तुतः जब तक वे प्रायश्चित्त न कर लें, तब तक धर्मात्मा पुरुषों को उन पापियों से बात तक नहीं करनी चाहिए। जिस मनुष्य ने पाप किए हों, वह आगे धर्मपूर्वक आचरण करके और तपस्या से उन्हें दूर कर देता है। चोर को चोर कहने से मनुष्य चोरी का पाप करता है।
36और जो चोर नहीं है उसे चोर कहने से मनुष्य चोरी के पाप से दुगुना पाप करता है। जो कन्या अपना कौमार्य नष्ट करती है, वह ब्रह्महत्या के पाप का तीन-चौथाई भाग ओढ़ती है, जबकि उससे समागम करने वाला पुरुष ब्रह्महत्या के चौथे भाग के समान पाप ओढ़ता है।
37ब्राह्मणों के विरुद्ध बोलने से अथवा उन पर प्रहार करने से मनुष्य सौ वर्ष तक अपयश में डूबा रहता है।
38ब्राह्मण का वध करके मनुष्य सहस्र वर्ष तक नरक की यातनाएँ भोगता है। अतः किसी को ब्राह्मण की निन्दा नहीं करनी चाहिए, न उसका वध करना चाहिए।
39यदि कोई मनुष्य ब्राह्मण को किसी शस्त्र से घायल करे, तो उसे उतने वर्ष नरक में रहना पड़ेगा जितने धूलिकण उस घायल के शरीर से बहने वाले रक्त से भीगें।
40भ्रूणहत्या का दोषी यदि गौओं और ब्राह्मणों के लिए लड़े गए युद्ध में मिले घावों से मरे, तो वह शुद्ध हो जाता है। वह अपने शरीर को धधकती अग्नि में डालकर भी शुद्ध हो सकता है।
41मद्यपायी तप्त मद्य पीकर शुद्ध होता है। उस तप्त पेय से आई मृत्यु से वह परलोक में शुद्ध हो जाता है। ऐसे पाप से कलंकित ब्राह्मण इसी मार्ग से, और केवल इसी मार्ग से, सुखलोकों को प्राप्त करता है, किसी अन्य से नहीं।
42जो दुष्ट और पापी अधम गुरु की शय्या का उल्लंघन करता है, वह तपाई हुई लोहे की स्त्री-प्रतिमा का आलिंगन करके आई मृत्यु से शुद्ध होता है।
43अथवा अपना पुंस्त्व नष्ट करके और अपना अंग काटकर उन्हें हाथों में लिए हुए उसे सीधे दक्षिण-पश्चिम की ओर जाना चाहिए और फिर प्राण त्याग देने चाहिए।
44अथवा वह किसी ब्राह्मण के हित के लिए मृत्यु का वरण करके अपने समस्त पापों से शुद्ध हो सकता है। अथवा वह अश्वमेध, गोसव अथवा अग्निष्टोम यज्ञ करके इस लोक और परलोक — दोनों में पुनः सम्मान प्राप्त कर सकता है।
45ब्रह्महत्यारे को बारह वर्ष तक ब्रह्मचर्य व्रत का पालन करना चाहिए, और तपस्या में लगकर उसे सारा समय मारे गए व्यक्ति की खोपड़ी हाथ में लिए हुए तथा सबको अपना पाप घोषित करते हुए भटकना चाहिए।
46तपस्या में निरत होकर और तपस्वी का जीवन बिताते हुए उसे ऐसा ही मार्ग अपनाना चाहिए। जो गर्भवती स्त्री को उसकी अवस्था जानते हुए भी मार डालता है, उसके लिए भी यही प्रायश्चित्त विहित है।
47जो मनुष्य जानबूझकर ऐसी स्त्री का वध करता है, वह ब्रह्महत्या से उत्पन्न पाप का दुगुना पाप ओढ़ता है। मद्यपायी को अल्पाहार पर रहना चाहिए, ब्रह्मचर्य व्रत का पालन करना चाहिए, खुली भूमि पर सोना चाहिए, और तीन वर्ष से अधिक अवधि तक अग्निष्टोम के बाद का यज्ञ करना चाहिए। तत्पश्चात् उसे एक वृषभ सहित एक सहस्र गौएँ (किसी उत्तम ब्राह्मण को) देनी चाहिए। यह सब करके वह पुनः अपनी शुद्धि प्राप्त कर लेगा।
48वैश्य का वध करके मनुष्य को दो वर्ष तक ऐसा यज्ञ करना चाहिए और एक वृषभ सहित सौ गौएँ देनी चाहिए। शूद्र का वध करके उसे एक वर्ष तक ऐसा यज्ञ करना चाहिए और एक वृषभ सहित सौ गौएँ देनी चाहिए। कुत्ते, भालू अथवा ऊँट का वध करके मनुष्य को वही प्रायश्चित्त करना चाहिए जो शूद्र के वध के लिए विहित है।
49हे राजन्, कहा गया है कि बिल्ली, चाष, मेंढक, कौआ, सरीसृप अथवा चूहे का वध करने से मनुष्य पशुवध का पाप ओढ़ता है।
50अब मैं तुम्हें अन्य प्रकार के प्रायश्चित्त एक-एक करके बताऊँगा। समस्त छोटे पापों के लिए मनुष्य को पश्चात्ताप करना चाहिए अथवा एक वर्ष तक कोई व्रत करना चाहिए।
51वेदों में निष्णात ब्राह्मण की पत्नी का बलात्कार करने पर मनुष्य को तीन वर्ष तक ब्रह्मचर्य व्रत का पालन करना चाहिए और दिन के चौथे भाग में अल्पाहार पर रहना चाहिए। किसी अन्य स्त्री का बलात्कार करने पर उसे दो वर्ष तक वैसा ही प्रायश्चित्त करना चाहिए।
52किसी स्त्री के साथ एक ही स्थान पर अथवा एक ही आसन पर बैठकर उसकी संगति में आनन्द लेने पर मनुष्य को तीन दिन केवल जल पर रहना चाहिए। ऐसा करके वह अपने पाप से शुद्ध हो सकता है। जो जलती अग्नि को (उस पर अपवित्र वस्तुएँ डालकर) दूषित करता है, उसके लिए भी यही विहित है।
53हे कुरुवंश के वंशज, जो पर्याप्त कारण के बिना अपने पिता, माता अथवा गुरु का त्याग करता है, वह निश्चय ही पतित हो जाता है — ऐसा शास्त्रों में विहित है। व्यभिचार की दोषी पत्नी को, अथवा जो कारागार में बन्दी हो, उसे केवल अन्न और वस्त्र ही देने चाहिए। निस्सन्देह, व्यभिचार के दोषी पुरुष के लिए जो व्रत विहित हैं, वही व्रत उसी दोष की दोषी स्त्री पर भी लागू किए जाने चाहिए।
54जो स्त्री उच्च वर्ण के अपने पति का त्याग करके किसी नीच (निम्न वर्ण के) पुरुष के साथ व्यभिचार करती है, उसे राजा बहुसंख्यक दर्शकों के मध्य किसी सार्वजनिक स्थान पर कुत्तों से भक्षण कराए।
55बुद्धिमान राजा को चाहिए कि ऐसी परिस्थिति में व्यभिचार करने वाले पुरुष को तपे हुए लोहे की शय्या पर लिटाकर, नीचे काष्ठ रखकर, उस पापी को वहीं जला दे।
56हे राजन्, व्यभिचार की दोषी स्त्री के लिए भी यही दण्ड है। जो दुष्ट पापी पाप करने के एक वर्ष के भीतर प्रायश्चित्त नहीं करता, उसे मूल पाप से दुगुना अधर्म लगता है।
57जो दो वर्ष तक ऐसे पुरुष का संसर्ग करता है, उसे तपस्या में लगकर और भिक्षा पर जीवन बिताते हुए पृथ्वी पर विचरण करना चाहिए। जो चार वर्ष तक किसी पापी का संसर्ग करता है, उसे पाँच वर्ष तक ऐसा ही जीवन व्यतीत करना चाहिए।
58यदि छोटा भाई अपने बड़े भाई से पहले विवाह कर ले, तो ऐसे विवाह के कारण छोटा भाई, बड़ा भाई तथा विवाहिता स्त्री — ये तीनों ही पतित हो जाते हैं।
59उन सबको अपने पाप से शुद्ध होने के लिए उन व्रतों का पालन करना चाहिए जो अपनी यज्ञाग्नि की उपेक्षा करने वाले पुरुष के लिए विहित हैं, अथवा एक मास तक चान्द्रायण व्रत करना चाहिए, अथवा कोई अन्य कठोर व्रत करना चाहिए।
60विवाह कर चुका छोटा भाई अपनी पत्नी अपने अविवाहित बड़े भाई को सौंप दे। बड़े भाई की अनुमति प्राप्त करके छोटा भाई अपनी पत्नी को पुनः ग्रहण कर सकता है। ऐसा करने से वे तीनों अपने पाप से शुद्ध हो जाते हैं।
61गौ को छोड़कर अन्य पशुओं के वध से मारने वाला कलंकित नहीं होता। विद्वानों का मत है कि मनुष्य समस्त निम्नतर प्राणियों पर प्रभुत्व रखता है।
62हाथ में चँवर (यक-पुच्छ) और मिट्टी का पात्र लेकर पापी को घूमना चाहिए और अपने पाप को प्रकट करते जाना चाहिए। उसे प्रतिदिन केवल सात कुलों से भिक्षा माँगनी चाहिए और जो इस प्रकार प्राप्त हो उसी पर जीवन बिताना चाहिए। बारह दिन तक ऐसा करने से वह अपने पाप से शुद्ध हो जाता है। जो इस व्रत का पालन करते हुए हाथ में चँवर धारण न कर सके, उसे पूरे एक वर्ष तक (उपर्युक्त प्रकार से) भिक्षुक बनकर रहना चाहिए।
63मनुष्यों में ऐसा प्रायश्चित्त सर्वश्रेष्ठ माना गया है। जो दान करने में समर्थ हैं, उनके लिए ऐसे समस्त प्रसंगों में दान का विधान किया गया है।
64जिनमें श्रद्धा और सद्गुण हैं, वे केवल एक गौ का दान करके ही स्वयं को शुद्ध कर सकते हैं।
65जो कुत्ते, शूकर, मनुष्य, कुक्कुट अथवा ऊँट का मांस, मल अथवा मूत्र खाता या पीता है, उसका उपनयन संस्कार पुनः कराया जाना चाहिए। यदि सोमपान करने वाला ब्राह्मण मदिरा पीने वाले के मुख से मदिरा की गन्ध सूँघ ले, तो उसे तीन दिन तक उष्ण जल पीना चाहिए अथवा उतने ही समय तक उष्ण दुग्ध। अथवा तीन दिन तक उष्ण जल पीकर उसे उस अवधि में केवल वायु पर ही रहना चाहिए। ये पाप के प्रायश्चित्त के लिए विहित सनातन विधान हैं, विशेषतः उस ब्राह्मण के लिए जिसने अज्ञान और विवेक के अभाव से ये पाप किए हों।
Nepali
1भीष्मले भने — हे भरतवंशी, धन र ज्ञान त्यस्ता धर्मात्मा र निर्धन ब्राह्मणहरूलाई दिनुपर्छ जसको धन (चोरहरूद्वारा) लुटिएको होस्, जो यज्ञका अनुष्ठानमा लागेका होऊन्, जो सम्पूर्ण वेदमा निष्णात होऊन्, र जो धर्मको पुण्य आर्जन गर्न चाहन्छन् — जसबाट तिनीहरूले आफ्ना गुरु र पितृप्रतिका आफ्ना कर्तव्य पूरा गर्न सकून् र आफ्ना दिन शास्त्रको पाठ र अध्ययनमा बिताउन सकून्।
2हे भरतवंशीहरूमा श्रेष्ठ, जुन ब्राह्मणहरू निर्धन छैनन्, तिनलाई केवल दक्षिणा दिनुपर्छ। जुन ब्राह्मणहरू (आफ्ना पापकर्मका कारण) आफ्नो गरिमाबाट खसिसकेका छन्, तिनलाई यज्ञवेदीको सीमाबाहिर काँचो अन्न दिनुपर्छ।
3ब्राह्मणहरू स्वयं वेद हुन् र प्रचुर दक्षिणा भएका सम्पूर्ण यज्ञ पनि। एकअर्कालाई उछिन्ने इच्छाले तिनीहरू आफ्ना विविध कामनाले प्रेरित भई सधैँ यज्ञ गरिरहन्छन्। त्यसैले राजाले तिनलाई अनेक प्रकारको बहुमूल्य धन दिनुपर्छ।
4जुन ब्राह्मणसँग आफ्नो परिवारको तीन वा बढी वर्षसम्म भरणपोषण गर्न सक्ने पर्याप्त सञ्चय छ, ऊ सोमपानको अधिकारी हो।
5यदि सिंहासनमा धर्मात्मा राजा हुँदाहुँदै पनि कसैद्वारा — विशेषगरी कुनै ब्राह्मणद्वारा — आरम्भ गरिएको यज्ञ अनुमानित खर्चको केवल एक अंशको कमीले पूरा हुन सकेन भने, त्यस यज्ञको पूर्तिका लागि राजाले त्यस वैश्यका बन्धुहरूबाट उसको धन लिनुपर्छ जससँग पशुहरूको ठूलो हुल छ तर जो यज्ञबाट विमुख छ र सोमपानबाट विरत रहन्छ।
6शूद्र यज्ञ गर्ने अधिकारी होइन। त्यसैले राजाले (यस्तो प्रयोजनका लागि धन) शूद्रको घरबाट लिनुपर्छ।
7राजाले त्यसको धन पनि त्यसका बन्धुहरूबाट निःसङ्कोच लिनुपर्छ जसले सय गाई राखेर पनि यज्ञ गर्दैन, तथा त्यसको पनि जसले हजार गाई राखेर पनि यज्ञ गर्दैन।
8जसले दान गर्दैन, राजाले उसको धन सधैँ सार्वजनिक रूपमा लिनुपर्छ। यस्तो आचरण गरेर राजाले महान् पुण्य आर्जन गर्छ।
9अब मेरो अर्को कुरा सुन। जुन ब्राह्मण अभावका कारण तीन दिन उपवास बस्न विवश भएको होस्, उसले — जसले केवल आजको चिन्ता गर्छ र भोलिको गर्दैन, त्यस्तो पुरुषको नियमअनुसार — केवल एक छाकका लागि आवश्यक सामग्री अनुमतिविना कुनै पतित पुरुषको पनि कुट्ने ओखलबाट, खेतबाट, बगैँचाबाट वा कुनै अन्य ठाउँबाट लिन सक्छ। तर उसले, सोधिँदा वा नसोधिकनै पनि, आफ्नो यस कर्मको सूचना राजालाई दिनुपर्छ।
10यदि राजाले आफ्नो धर्म जान्दछ भने, उसले त्यस्ता ब्राह्मणलाई दण्ड दिनुहुँदैन। उसले सम्झनुपर्छ कि ब्राह्मण क्षत्रियको दोषले नै भोकले पीडित हुन्छ।
11ब्राह्मणको विद्या र आचरण थाहा पाएर राजाले उसको जीविकाको प्रबन्ध गर्नुपर्छ र उसको त्यसै गरी रक्षा गर्नुपर्छ जसरी पिताले आफ्नो औरस पुत्रको रक्षा गर्छ।
12प्रत्येक वर्षको समाप्तिमा वैश्वानर यज्ञ गर्नुपर्छ। धर्मशास्त्रका ज्ञाताहरू भन्छन् कि वैकल्पिक कर्मको आचरणले धर्मको नाश गर्दैन।
13विपत्तिकालमा मृत्युको डरले विश्वेदेवा, साध्य, ब्राह्मण र महर्षिहरू पनि शास्त्रमा विहित वैकल्पिक विधानको अनुसरण गर्न हिचकिचाउँदैनन्।
14तर जुन मानिस माथि भनिएको प्रथम विधिअनुसार जीवन बिताउन सक्दासक्दै पनि विकल्पको अनुसरण गर्छ, ऊ दुष्ट पुरुष कहलाउँछ र स्वर्गमा कहिल्यै सुख प्राप्त गर्न सक्दैन।
15वेदज्ञ ब्राह्मणले आफ्नो बल र ज्ञान राजालाई बताउनुपर्छ। र ब्राह्मणको बलको राजाको बलसँग तुलना गर्दा पहिलो सधैँ दोस्रोभन्दा श्रेष्ठ नै पाइनेछ।
16त्यसैले ब्राह्मणहरूको बल राजाद्वारा सहिनु वा रोकिनु कठिन नै छ। ब्राह्मणलाई स्रष्टा, राजा, विधाता र देवता भनिएको छ।
17ब्राह्मणलाई कुनै अपशब्द वा रुखा वचन भन्नुहुँदैन। क्षत्रियले आफ्ना पाखुराको बलले आफ्ना सम्पूर्ण कठिनाइ पार गर्नुपर्छ।
18वैश्य र शूद्रले आफ्ना कठिनाइ धनले पार गर्नुपर्छ; ब्राह्मणले मन्त्र र होमले। यीमध्ये कोही पनि — अर्थात् कन्या, युवती स्त्री, मन्त्रबाट अनभिज्ञ पुरुष, अज्ञानी पुरुष, वा अपवित्र पुरुष — यज्ञाग्निमा आहुति दिने अधिकारी होइनन्। यदि यीमध्ये कसैले त्यसो गर्यो भने, ऊ त्यस पुरुषसहित नरक जान्छ जसको तर्फबाट उसले त्यो कर्म गर्छ। त्यसैले वेदमा निष्णात र सम्पूर्ण यज्ञमा कुशल ब्राह्मणबाहेक कसैले यज्ञाहुति दिनुहुँदैन।
19शास्त्रका ज्ञाताहरू मान्दछन् कि जुन मानिसले यज्ञाग्नि प्रज्वलित गरेर अर्पित अन्न दक्षिणाका रूपमा दिँदैन, ऊ यज्ञाग्निको प्रज्वलक नै होइन।
20मानिसले आफ्ना इन्द्रियलाई वशमा पारेर र उचित भक्तिसहित सम्पूर्ण पुण्यकर्म गर्नुपर्छ। जुन यज्ञमा दक्षिणा दिइँदैन, तिनमा देवताहरूको पूजा कहिल्यै गर्नुहुँदैन।
21दक्षिणाले पूर्ण नगरिएको यज्ञले मानिसको सन्तान, पशु र स्वर्गको विनाश ल्याउँछ। त्यस्तो यज्ञले इन्द्रिय, यश, उपलब्धि र स्वयं जीवनसमेतको नाश गरिदिन्छ।
22जुन ब्राह्मणहरूले स्त्रीहरूसँग तिनको ऋतुकालमा समागम गर्छन्, वा जसले कहिल्यै यज्ञ गर्दैनन्, वा जसको कुलमा वेदमा निष्णात कुनै सदस्य छैन, तिनीहरू कर्मले शूद्र मानिन्छन्।
23जुन ब्राह्मणले शूद्र कन्यासँग विवाह गरेर बाह्र वर्षसम्म निरन्तर त्यस्तो गाउँमा बस्छ जहाँ पानी दिन केवल एउटा इनार छ, ऊ कर्मले शूद्र हुन्छ।
24जुन ब्राह्मणले कुनै कन्यालाई आफ्नो शय्यामा ल्याउँछ, वा कुनै शूद्रलाई आदरयोग्य जान्दाजान्दै आफ्नै आसनमा बस्न दिन्छ, उसले कुनै क्षत्रिय वा वैश्यको पछाडि सुकेको कुशको आसनमा बसेर त्यसरी उसको आदर गर्नुपर्छ। यसै गरी ऊ शुद्ध हुन सक्छ। हे राजन्, यस विषयमा मेरा वचन सुन।
25ब्राह्मणले एक रातमा नीच वर्णका सदस्यको आदरपूर्वक सेवा गरेर वा त्यसै ठाउँमा वा त्यसै शय्यामा उसँग क्रीडा गरेर जुन पाप गर्छ, त्यो तीन वर्षसम्म निरन्तर सुकेको कुशको आसनमा कुनै क्षत्रिय वा वैश्यको पछाडि बस्ने आचरण गरेर कुनै क्षत्रिय वा वैश्यको पछाडि बस्ने आचरण गरेर शुद्ध हुन्छ।
26हाँसोमा बोलिएको असत्य पाप होइन; न विवाहका बेला बोलिएको; न आफ्ना गुरुको हित गर्न बोलिएको; न आफ्नो प्राण बचाउन बोलिएको। भनिएको छ कि वचनका यी पाँच प्रकारका असत्य पापपूर्ण होइनन्।
27उपयोगी ज्ञान भक्ति र श्रद्धासहित पतित वृत्ति भएको पुरुषबाट पनि ग्रहण गर्न सकिन्छ। सुन अपवित्र ठाउँबाट पनि निःसङ्कोच उठाउन सकिन्छ।
28जुन स्त्री आफ्नो वर्गको आभूषण होऊन्, उनीसँग नीच कुलबाट पनि विवाह गर्न सकिन्छ। यदि अमृत विषबाट निकालिएको भए पनि त्यो पिउन सकिन्छ; शास्त्रको विधानअनुसार स्त्रीहरू, रत्न र अन्य बहुमूल्य वस्तु, तथा पानी पनि कहिल्यै अपवित्र वा अशुद्ध हुन सक्दैनन्।
29ब्राह्मण र गाईहरूको हितका लागि, तथा जब वर्णसङ्कर भइरहेको होस्, तब वैश्यले पनि आफ्नो रक्षाका लागि शस्त्र उठाउन सक्छ।
30मद्यपान, ब्रह्महत्या र गुरुको शय्याको उल्लङ्घन — जब यी जानीजानी गरिन्छन्, तब यी त्यस्ता पाप हुन् जसको प्रायश्चित्त कहिल्यै हुन सक्दैन। यिनका लागि एकमात्र विहित प्रायश्चित्त मृत्यु हो।
31यही कुरा सुनको चोरी र ब्राह्मणको सम्पत्तिको चोरीका विषयमा पनि भन्न सकिन्छ। मद्यपानले, निषिद्ध स्त्रीहरूसँगको समागमले, पतित पुरुषसँगको मेलले, र ब्राह्मणकी स्त्रीसँगको समागमले मानिस सधैँका लागि पतित हुन्छ।
32यज्ञमा, अध्यापनमा र मैथुनमा पतित पुरुषसँग पूरै एक वर्षसम्म मेल राख्दा मानिस पतित हुन्छ। तर एउटै रथमा सवारी गर्नु, एउटै आसनमा बस्नु र एउटै पङ्क्तिमा भोजन गर्नुमा पतित पुरुषसँग रहँदा ऊ पतित हुँदैन।
33माथि भनिएका पाँच महापातकबाहेक बाँकी सम्पूर्ण पापका प्रायश्चित्त छन्। तिनका लागि विहित विधानअनुसार ती पापको प्रायश्चित्त गरेर मानिसले ती फेरि गर्नुहुँदैन।
34हे भरतवंशी, यी सबैलाई छोडेर! अन्य अनेक पाप त्यस्ता बताइएका छन् जो तपस्याले हट्न सक्छन्। यसरी उसले आफ्नो पापपूर्ण बानी छोडिदिन्छ। जो यी पाँच पापमध्ये पहिलो तीन (अर्थात् मद्यपान, ब्रह्महत्या र गुरुको शय्याको उल्लङ्घन)का दोषी रहेका छन्, तिनका (जीवित) बन्धुहरूमाथि भोजन गर्ने र आभूषण लगाउने विषयमा कुनै बन्धन छैन, चाहे तिनी मरेपछि तिनका अन्त्येष्टि कर्म अनुष्ठित नभए पनि। यस्ता अवसरमा जीवित बन्धुहरूले यस्ता कुरामा कुनै सङ्कोच गर्नुहुँदैन।
35धर्मात्मा पुरुषले आफ्ना कर्तव्यको पालन गर्दा आफ्ना मित्र र गुरुजनसमेतको त्याग गरिदिनुपर्छ। वास्तवमा जबसम्म तिनीहरूले प्रायश्चित्त गर्दैनन्, तबसम्म धर्मात्मा पुरुषहरूले ती पापीहरूसँग कुरासम्म गर्नुहुँदैन। जुन मानिसले पाप गरेको छ, उसले अगाडि धर्मपूर्वक आचरण गरेर र तपस्याले ती हटाइदिन्छ। चोरलाई चोर भन्दा मानिसले चोरीको पाप गर्छ।
36र जो चोर होइन उसलाई चोर भन्दा मानिसले चोरीको पापभन्दा दोब्बर पाप गर्छ। जुन कन्याले आफ्नो कौमार्य नष्ट गर्छिन्, उनले ब्रह्महत्याको पापको तीन-चौथाइ भाग ओढ्छिन्, जबकि उनीसँग समागम गर्ने पुरुषले ब्रह्महत्याको चौथो भागसमान पाप ओढ्छ।
37ब्राह्मणहरूविरुद्ध बोल्दा वा तिनीमाथि प्रहार गर्दा मानिस सय वर्षसम्म अपयशमा डुबिरहन्छ।
38ब्राह्मणको वध गरेर मानिस हजार वर्षसम्म नरकका यातना भोग्छ। त्यसैले कसैले ब्राह्मणको निन्दा गर्नुहुँदैन, न उसको वध गर्नुहुन्छ।
39यदि कुनै मानिसले ब्राह्मणलाई कुनै शस्त्रले घाइते पार्छ भने, उसले उति वर्ष नरकमा बस्नुपर्नेछ जति धूलिकण त्यस घाइतेको शरीरबाट बग्ने रगतले भिजून्।
40भ्रूणहत्याको दोषी यदि गाई र ब्राह्मणहरूका लागि लडिएको युद्धमा पाएका घाउले मर्यो भने, ऊ शुद्ध हुन्छ। ऊ आफ्नो शरीर दन्किरहेको आगोमा हालेर पनि शुद्ध हुन सक्छ।
41मद्यपायी तातो मद्य पिएर शुद्ध हुन्छ। त्यस तातो पेयबाट आएको मृत्युले ऊ परलोकमा शुद्ध हुन्छ। यस्तो पापले कलङ्कित ब्राह्मणले यसै मार्गबाट, र केवल यसै मार्गबाट, सुखलोक प्राप्त गर्छ, अन्य कुनैबाट होइन।
42जुन दुष्ट र पापी अधमले गुरुको शय्याको उल्लङ्घन गर्छ, ऊ तताइएको फलामको स्त्री-प्रतिमाको अङ्गालो हालेर आएको मृत्युले शुद्ध हुन्छ।
43अथवा आफ्नो पुंस्त्व नष्ट पारेर र आफ्नो अङ्ग काटेर ती हातमा लिएर उसले सिधै दक्षिण-पश्चिमतिर जानुपर्छ र त्यसपछि प्राण त्याग गर्नुपर्छ।
44अथवा उसले कुनै ब्राह्मणको हितका लागि मृत्युको वरण गरेर आफ्ना सम्पूर्ण पापबाट शुद्ध हुन सक्छ। अथवा उसले अश्वमेध, गोसव वा अग्निष्टोम यज्ञ गरेर यस लोक र परलोक — दुवैमा पुनः सम्मान प्राप्त गर्न सक्छ।
45ब्रह्महत्यारेले बाह्र वर्षसम्म ब्रह्मचर्य व्रतको पालन गर्नुपर्छ, र तपस्यामा लागेर उसले सारा समय मारिएको व्यक्तिको खप्पर हातमा लिएर तथा सबैलाई आफ्नो पाप घोषणा गर्दै भौँतारिनुपर्छ।
46तपस्यामा निरत भई र तपस्वीको जीवन बिताउँदै उसले यस्तै मार्ग अपनाउनुपर्छ। जसले गर्भवती स्त्रीलाई उनको अवस्था जान्दाजान्दै मारिदिन्छ, उसका लागि पनि यही प्रायश्चित्त विहित छ।
47जुन मानिसले जानीजानी त्यस्ती स्त्रीको वध गर्छ, उसले ब्रह्महत्याबाट उत्पन्न पापको दोब्बर पाप ओढ्छ। मद्यपायीले अल्पाहारमा बस्नुपर्छ, ब्रह्मचर्य व्रतको पालन गर्नुपर्छ, खुला भुइँमा सुत्नुपर्छ, र तीन वर्षभन्दा बढी अवधिसम्म अग्निष्टोमपछिको यज्ञ गर्नुपर्छ। त्यसपछि उसले एउटा साँढेसहित एक हजार गाई (कुनै उत्तम ब्राह्मणलाई) दिनुपर्छ। यो सबै गरेर उसले पुनः आफ्नो शुद्धि प्राप्त गर्नेछ।
48वैश्यको वध गरेर मानिसले दुई वर्षसम्म त्यस्तो यज्ञ गर्नुपर्छ र एउटा साँढेसहित सय गाई दिनुपर्छ। शूद्रको वध गरेर उसले एक वर्षसम्म त्यस्तो यज्ञ गर्नुपर्छ र एउटा साँढेसहित सय गाई दिनुपर्छ। कुकुर, भालु वा ऊँटको वध गरेर मानिसले त्यही प्रायश्चित्त गर्नुपर्छ जुन शूद्रको वधका लागि विहित छ।
49हे राजन्, भनिएको छ कि बिरालो, चाष, भ्यागुतो, काग, सरीसृप वा मुसाको वध गर्दा मानिसले पशुवधको पाप ओढ्छ।
50अब म तिमीलाई अन्य प्रकारका प्रायश्चित्त एक-एक गरी बताउनेछु। सम्पूर्ण साना पापका लागि मानिसले पश्चात्ताप गर्नुपर्छ वा एक वर्षसम्म कुनै व्रत गर्नुपर्छ।
51वेदमा निष्णात ब्राह्मणकी पत्नीको बलात्कार गर्दा मानिसले तीन वर्षसम्म ब्रह्मचर्य व्रतको पालन गर्नुपर्छ र दिनको चौथो भागमा अल्पाहारमा बस्नुपर्छ। कुनै अन्य स्त्रीको बलात्कार गर्दा उसले दुई वर्षसम्म त्यस्तै प्रायश्चित्त गर्नुपर्छ।
52कुनै स्त्रीसँग एउटै ठाउँमा वा एउटै आसनमा बसेर उनको सङ्गतमा आनन्द लिँदा मानिसले तीन दिन केवल पानीमा बस्नुपर्छ। यसो गरेर ऊ आफ्नो पापबाट शुद्ध हुन सक्छ। जसले बलिरहेको आगोलाई (त्यसमाथि अपवित्र वस्तु हालेर) दूषित पार्छ, उसका लागि पनि यही विहित छ।
53हे कुरुवंशका वंशज, जसले पर्याप्त कारणविना आफ्ना पिता, माता अथवा गुरुको त्याग गर्छ, ऊ निश्चय नै पतित हुन्छ — शास्त्रमा यस्तै विहित छ। व्यभिचारकी दोषी पत्नीलाई, अथवा जो कारागारमा बन्दी छिन्, तिनलाई केवल अन्न र वस्त्र मात्र दिनुपर्छ। निस्सन्देह, व्यभिचारका दोषी पुरुषका लागि जुन व्रत विहित छन्, तिनै व्रत त्यही दोषकी दोषी स्त्रीमाथि पनि लागू गरिनुपर्छ।
54जुन स्त्रीले उच्च वर्णका आफ्ना पतिको त्याग गरेर कुनै नीच (तल्लो वर्णका) पुरुषसँग व्यभिचार गर्छिन्, तिनलाई राजाले धेरै दर्शकहरूको माझ कुनै सार्वजनिक स्थानमा कुकुरहरूद्वारा भक्षण गराऊन्।
55बुद्धिमान् राजाले त्यस्तो परिस्थितिमा व्यभिचार गर्ने पुरुषलाई तातेको फलामको शय्यामा सुताएर, तल काठ राखेर, त्यस पापीलाई त्यहीँ जलाइदिनुपर्छ।
56हे राजन्, व्यभिचारकी दोषी स्त्रीका लागि पनि यही दण्ड हो। जुन दुष्ट पापीले पाप गरेको एक वर्षभित्र प्रायश्चित्त गर्दैन, उसलाई मूल पापभन्दा दोब्बर अधर्म लाग्छ।
57जसले दुई वर्षसम्म त्यस्ता पुरुषको संसर्ग गर्छ, उसले तपस्यामा लागेर र भिक्षामा जीवन बिताउँदै पृथ्वीमा विचरण गर्नुपर्छ। जसले चार वर्षसम्म कुनै पापीको संसर्ग गर्छ, उसले पाँच वर्षसम्म त्यस्तै जीवन बिताउनुपर्छ।
58यदि सानो भाइले आफ्नो दाजुभन्दा अगाडि विवाह गर्छ भने, त्यस्तो विवाहका कारण सानो भाइ, दाजु तथा विवाहित स्त्री — यी तीनै जना पतित हुन्छन्।
59ती सबैले आफ्नो पापबाट शुद्ध हुन ती व्रतको पालन गर्नुपर्छ जुन आफ्नो यज्ञाग्निको उपेक्षा गर्ने पुरुषका लागि विहित छन्, अथवा एक महिनासम्म चान्द्रायण व्रत गर्नुपर्छ, अथवा अरू कुनै कठोर व्रत गर्नुपर्छ।
60विवाह गरिसकेको सानो भाइले आफ्नी पत्नी आफ्ना अविवाहित दाजुलाई सुम्पिदिनुपर्छ। दाजुको अनुमति प्राप्त गरेपछि सानो भाइले आफ्नी पत्नीलाई पुनः ग्रहण गर्न सक्छ। यसो गरेबाट ती तीनै जना आफ्नो पापबाट शुद्ध हुन्छन्।
61गाईबाहेक अन्य पशुको वधबाट मार्ने कलङ्कित हुँदैन। विद्वान्हरूको मत छ कि मनुष्यले सम्पूर्ण तल्ला प्राणीमाथि प्रभुत्व राख्छ।
62हातमा चौँरी-पुच्छर र माटोको भाँडा लिएर पापीले घुम्नुपर्छ र आफ्नो पाप प्रकट गर्दै जानुपर्छ। उसले प्रतिदिन केवल सात कुलबाट भिक्षा माग्नुपर्छ र यसरी प्राप्त भएकैमा जीवन बिताउनुपर्छ। बाह्र दिनसम्म यसो गरेबाट ऊ आफ्नो पापबाट शुद्ध हुन्छ। जसले यो व्रत पालन गर्दा हातमा चौँरी-पुच्छर धारण गर्न सक्दैन, उसले पूरै एक वर्षसम्म (माथि भनिएझैँ) भिक्षुक बनेर बस्नुपर्छ।
63मनुष्यहरूमा त्यस्तो प्रायश्चित्त सर्वश्रेष्ठ मानिएको छ। जो दान गर्न समर्थ छन्, तिनका लागि यस्ता सम्पूर्ण प्रसङ्गमा दानको विधान गरिएको छ।
64जसमा श्रद्धा र सद्गुण छन्, तिनले केवल एउटा गाईको दान गरेरै आफूलाई शुद्ध पार्न सक्छन्।
65जसले कुकुर, बँदेल, मनुष्य, कुखुरा अथवा ऊँटको मासु, मल अथवा मूत्र खान्छ वा पिउँछ, उसको उपनयन संस्कार पुनः गराइनुपर्छ। यदि सोमपान गर्ने ब्राह्मणले मदिरा पिउनेको मुखबाट मदिराको गन्ध सुँघ्यो भने, उसले तीन दिनसम्म तातो पानी पिउनुपर्छ अथवा त्यति नै समयसम्म तातो दूध। अथवा तीन दिनसम्म तातो पानी पिएर उसले त्यस अवधिमा केवल वायुमै रहनुपर्छ। यी पापको प्रायश्चित्तका लागि विहित सनातन विधान हुन्, विशेषतः त्यस ब्राह्मणका लागि जसले अज्ञान र विवेकको अभावले यी पाप गरेको होस्।