Shalya Parva — The fight between Yudhishthira and the Kurus. The fight of Shakuni
Volume VI — Karna, Shalya, Sauptika & Stri Parva · Chapter 119
Sanskrit
1संजय उवाच वर्तमाने तदा युद्धे घोररूपे भयानके। अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः॥
2तास्तुं यत्नेन महता संनिवार्य महारथान्। पुत्रस्ते योधयामास पाण्डवानामनीकिनीम्॥
3निवृत्ताः सहसा योधास्तव पुत्रजयैषिणः। सन्निवृत्तेषु तेष्वेवं युद्धमासीत् सुदारुणम्॥ तावकानां परेषां च देवासुररणोपमम्। परेषां तव सैन्ये वा नासीत् कश्चित् पराङ्मुखः॥
4अनुमानेन युध्यन्ते संज्ञाभिश्च परस्परम्। तेषां क्षयो महानासीद् युध्यतामितरेतरम्॥
5ततो युधिष्ठिरो राजा क्रोधेन महता युतः। जिगीषमाणः संग्रामे धार्तराष्ट्रान् सराजकान्॥ त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खः शिलाशितैः। चतुर्भिनिजघानाश्वान् नाराचैः कृतवर्मणः॥
6अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम्। अत शारद्वतोऽष्टाभिः प्रत्यविद्ध्यद् युधिष्ठिरम्॥
7ततो दुर्योधनो राजा रथान् सप्तशतान् रणे। प्रेषयद् यत्र राजासौ धर्मपुत्रो युधिष्ठिरः॥
8ते रथा रथिभिर्युक्ता मनोमारुतरंहसः। अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथं प्रति॥
9ते समन्तान्महाराज परिवार्य युधिष्ठिरम्। अदृश्य सायकैश्चक्रुर्मेघा इव दिवाकरम्॥
10दृष्ट्वा धर्मराजानं कौरवेयैस्तथा कृतम्। नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः॥
11रथैरश्ववरैर्युक्तैः किङ्किणीजालसंवृतः। आजग्मुरथ रक्षन्तः कुन्तीपुत्रं युधिष्ठिरम्॥
12ततः प्रववृते रौद्रः संग्रामः शोणितोदकः। पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः॥ ते दृष्ट्वा
13रथान् सप्तशतान् हत्वा कुरूणामाततायिनाम्। याण्डवाः सह पञ्चालैः पुनरेवाभ्यवारयन्॥
14तत्र युद्धं महचासीत् तव पुत्रस्य पाण्डवैः। न च तत् तादृशं दृष्टं नैव चापि परिश्रुतम्॥
15वर्तमाने तदा युद्धे निर्मर्यादे समन्ततः। वध्यमानेषु योधेषु तावकेष्वितरेषु च॥ विनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः। उत्क्रुष्टैः सिंहनादैश्च गर्जितैश्चैव धन्विनाम्॥
16अतिप्रवृत्ते युद्धे च छिद्यमानेषु मर्मसु। धावमानेषु योधेषु जयगृद्धिषु मारिष॥
17संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे। बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा॥
18निर्मर्यादे महायुद्धे वर्तमाने सुदारुणे। प्रादुरासन् विनाशाय तदोत्पाताः सुदारुणाः॥
19चचाल शब्दं कुर्वाणा सपर्वतवना मही। सदण्डा: सोल्मका राजन् कीर्यमाणाः समन्ततः॥ उल्का पेतुर्दिवो भूमावाहत्य रविमण्डलम्।
20विष्वग्वाताः प्रादुरासन् नीचैः शर्करवर्षिणः॥ अश्रूणि मुमुचुर्नागा वेपथु चास्पृशन् भृशम्।
21एतान् घोराननादृत्य समुत्पातान् सुदारुणान्॥ पुनर्युद्धाय संयत्ताः क्षत्रियास्तस्थुरव्यथाः। रमणीये कुरुक्षेत्रे पुण्ये स्वर्ग यियासवः॥
22ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्। युद्ध्यध्वमग्रतो यावत् पृष्ठतो हन्मि पाण्डवान्॥ ततो नः सम्प्रयातानां मद्रयोधास्तरस्विनः। हृष्टाः किलकिलाशब्दमकुर्वन्ता परे तथा॥
23अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः। शरासनानि धुन्वन्तः शरवर्षैरवाकिरन्॥
24ततो हतं परैस्तत्र मद्रराजबलं तदा। दुर्योधनबलं दृष्ट्वा पुनरासीत् पराङ्मुखम्॥
25गान्धारराजस्तु पुनर्वाक्यमाह ततो बली। निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः॥ अनीकं दशसाहस्रमश्वानां भरतर्षभ। आसीद् गान्धारराजस्य विशालप्रासयोधिनाम्॥
26बलेन तेन विक्रम्य वर्तमाने जनक्षये। पृष्ठतः पाण्डवानीकमभ्यघ्ननिशितैः शरैः॥
27तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः। अभज्यत महाराज पाण्डूनां सुमहद् बलम्॥
28ततो युधिष्ठिर: प्रेक्ष्य भग्नं स्वबलमन्तिकात्। अभ्यनादयदव्यग्रः सहदेवं महाबलम्॥ असौ सुबलपुत्रो नो जघनं पीड्य दंशितः। सैन्यानि सूदयत्येष पश्य पाण्डव दुर्मतिम्॥
29गच्छ त्वं द्रौपदेयैश्च शकुनि सौबलं जहि। रथनीकमहं धक्ष्ये पञ्चालसहितोऽनघ॥
30गच्छन्तु कुञ्जरा: सर्वे वाजिनश्च सह त्वया। पादाताश्च त्रिसाहस्राः शकुनि तैर्वृतो जहि॥ ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः। पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान्॥ पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः। रणे ह्यभ्येद्रवंस्ते तु शकुनि युद्धदुर्मदम्॥
31ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान्। जघान पृष्ठतः सेनां जयगृद्धः प्रतापवान्॥
32अश्वरोहास्तु संरब्धाः पाण्डवानां तरस्विनाम्। प्राविशन् सौबलानीकमभ्यतिक्रम्य तान् रथान्॥
33ते तत्र सादिनाः शूराः सौबलस्य महद् बलम्। रणमध्ये व्यतिष्ठन्त शरवर्षैरवाकिरन्॥
34तदुद्यतगदाप्रासमाकपुरुषसेवितम्। प्रावर्तत महद् युद्धं राजन् दुर्मन्त्रिते तव॥
35उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन्। न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत॥
36शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ। ज्योतिषामिव सम्पातमपश्यन् कुरुपाण्डवाः॥
37ऋष्टिभिर्विमलाभिश्च तत्र तत्र विशाम्पते। सम्पतन्तीभिराकाशमावृतं बह्वशोभत॥
38प्रासानां पततां राजन् रूपमासीत् समन्ततः। शलभानामिवाकाशे तदा भरतसत्तम॥
39रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः। हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः॥
40अन्योयं परिपिष्टाश्च समासाद्य परस्परम्। आविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः॥
41ततोऽभवत्तमो घोरं सैन्येन रजसा वृते। तानपाक्रमतोऽद्राक्षं तस्माद् देशादरिंदम॥
42अश्वान् राजन् मनुष्यांश्च रजसा संवृते सति। भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु॥
43केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः। अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः॥ मल्ला इव समासाद्य निजघ्नुरितरेतरम्।
44अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः॥ रक्तोक्षितैश्छिन्नभूजैरवकृष्टशिरोरुहैः।
45व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः॥ दूरं न शक्यं तत्रासीद् गन्तुमश्वेन केनचित्।
46साश्वारोहैर्हतैरश्वैरावृते वसुधातले॥ रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः। नानाप्रहरणै?रैः परस्परवधैषिभिः॥
47सुसंनिकृष्टैः संग्रामे हतभूयिष्ठसैनिकैः। स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशाम्पते॥ षट्साहस्रर्हयैः शिष्टैरपायाच्छकुनिस्ततः। तथैव पाण्डवानीकं रुधिरेण समुक्षितम्॥ षट्साहौर्हयैः शिष्टैरपायाच्छान्तवाहनम्।
48अश्वारोहाच पाण्डूनामब्रुवन् रुधिरोक्षिताः॥ भूमौ निपतिताश्चान्ये बहवो विजयैषिणः। तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः॥ सुसंनिकृष्टे संग्रामे भूयिष्ठे त्यक्तजीविताः। न हि शक्यं स्थैर्योधं कुत एव महागजैः॥ रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि।
49प्रतियातो हि शकुनिः स्वमनीकमवस्थितः॥ न पुनः सौबलो राजा युद्धमभ्यागमिष्यति।
50ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः॥ प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः।
51सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते॥ एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः।
52ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः॥ पार्श्वतोऽभ्यहनत् क्रुद्धो धृष्टद्युम्नस्य वाहिनीम्।
53तत् पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाभ्यवर्तत॥ तावकानां परेषां च परस्परवधैषिणाम्।
54ते चान्योन्यमवैक्षन्त तस्मिन् वीरसमागमे॥ योधा:पर्यपतन् राजन् शतशोऽथ सहस्रशः।
55असिभिश्छिद्यमानानां शिरसां लोकसंक्षये॥ प्रादुरासीन्महाशब्दस्तालानां पततामिव।
56विमुक्तानां शरीराणां छिन्नानां पततां भुवि॥ सायुधानां च बाहूनामुरूणां च विशाम्पते। आसीत् कटकटाशब्दः सुमहाँल्लोमहर्षणः॥
57निघ्नन्तो निशितैःशस्त्रैर्धातॄन् पुत्रान् सखीनपि। योधाः परिपतन्ति स्म यथामिषकृते खगाः॥
58अन्योन्यं प्रतिसंरब्धा समासाद्य परस्परम्। अहं पूर्वमहं पूर्वमिति न्यघ्नन् सहस्रशः॥
59संघातेनासनभ्रष्टैरश्वारोहैर्गतासुभिः। हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः॥
60स्फुरतां प्रतिविष्टानामश्वानां शीघ्रगामिनाम्। स्तनतां च मनुष्याणां सन्नद्धानां विशाम्पते॥ शक्त्वृष्टिप्रासशब्दश्च तुमुल: समपद्यत। भिन्दतां परमर्माणि राजन् दुर्मत्रिते तव॥
61श्रमाभिभूताः सरंब्धाः श्रान्तवाहाः पिपासवः। विक्षताश्च शितैः शस्त्रैरभ्यवर्तन्त तावकाः॥
62मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः। जघ्नुः परान् स्वसांश्चैव प्राप्तान प्राप्ताननन्तरान्॥
63बहवश्च गतप्राणाः क्षत्रिया जयगृद्धिनः। भूमावभ्यपतन् राजन् शरवृष्टिभिरावृताः॥
64वृकगृध्रशृगालानां तुमुले मोदनेऽहनि। आसीद् बलक्षयो घोरस्तव पुत्रस्य पश्यतः॥
65नराश्वकायैः संछन्ना भूमिरासीद् विशाम्पते। रुधिरोदकचित्रा च भीरूणां भयवर्धिनी॥
66असिभिः पट्टिशैः शूलैस्तक्षमाणाः पुनः पुनः। तावकाः पाण्डवेयाश्च न न्यवर्तन्त भारत॥
67प्रहरन्तो यथाशक्ति यावत् प्राणस्य धारणम्। योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः॥
68शिरो गृहीत्वा केशेषु कबन्धः स्म प्रदृश्यते। उद्यम्य च शितं खड्ग रुधिरेण परिप्लुतम्॥
69तथोत्थितेषु बहुषु कबधेषु नराधिप। तथा रुधिरगन्धेन योधाः कश्मलमाविशन्॥ मन्दीभूते ततः शब्दे पाण्डवानां महद् बलम्। अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः॥
70ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्धिनः। पदातयश्च नागाश्च सादिनश्चोधतायुधाः॥
71कोष्ठकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः। शस्त्रैर्नानाविधैर्जघ्नुर्युद्धपारं तितीर्षवः॥
72त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान्। रथाश्वपत्तिद्विरदाः पाण्डवनभिदुद्रुवुः॥
73केचित् पदातयः पद्भिर्मुष्टिभिश्च परस्परम्। निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन्॥
74रथेभ्यो रथिन: पेतुर्द्विपेभ्यो हस्तिसादिनः। विमानेभ्यो सिद्धाः पुण्यक्षयादिव॥
75एवमन्योन्यमायत्ता योधा जघ्नुर्महाहवे। पितृन भ्रातृन् वयस्यांश्च पुत्रानापि तथा परे॥
76एवमासीदमर्यादं युद्धं भरतसत्तम। प्रासासिबाणकलिलं वर्तमाने सुदारुणे॥ दिवो भ्रष्ट्राः
English
1Sanjaya said During the progress of that terrible and awful battle, the army of your son were routed by the Pandavas.
2Rallying their great car-warriors however, with vigorous exertions, your sons continued to fight with the Pandava army.
3The Kuru warriors, seeking your son's welfare, suddenly came back. Upon their return, the battle once more became fearful, between your warriors and those of the foe, resembling that between the gods and the Asuras in the days of yore. Neither amongst the enemies nor amongst your people was there a single warrior who fled away from the field.
4The warriors fought, knowing one another by the names they uttered. A great onslaught took place there.
5Filled with great anger and desirous of defeating the Dhartarashtras and their king in that battle, king Yudhishthira struck the son of Sharadvata with three gold winged arrows whetted on stone and next killed with four others the four horses of Kritavarman.
6Then Ashvatthaman carried away the celebrated son of Hridika. Sharadvat's son struck Yudhishthira in return with eight arrows.
7Then king Duryodhana sent seven hundred cars to the place where king Yudhishthira was fighting.
8Those cars, driven by excellent warriors and quick-coursing like the wind or thought, rushed in that battle against the car of Kunti's son.
9Encircling Yudhishthira on all sides they made him invisible with their arrows like clouds hiding the sun from the view.
10Then Pandava heroes, led by Shikhandin, beholding king Yudhishthira assailed in that way by the Kauravas, were filled with rage and unable to put up with it.
11Desirous of rescuing Yudhishthira, the son of Kunti, they came there on their cars possessed of great speed and adorned with rows of bells.
12Then took place an awful battle, in which blood flowed as water, between the Pandavas and the Kurus, that increased the denizens of Yama's region.
13Killing those seven hundred hostile carwarriors of the Kuru army, the Pandavas and the Panchalas once more resisted (the whole Kuru ariny).
14There took place a fierce encounter between your son and the Pandavas. We had never before seen or heard of its like.
15During the onset of that battle in which no consideration was shown by any party for another and while the warriors of your army and those of the foe were being killed quickly, the coinbatants were all shouting and blowing their conchs. The bowmen were roaring and uttering loud noises of diverse kinds.
16The very vitals of the combatants were being struck, during that fight and the troops, O sire, desirous of victory, were rushing with speed.
17Everything on carth was under-going ai woeful destruction, during that battle when numberless ladies of birth and beauty were being made widows.
18During the progress of that fierce encounter in which the warriors fought without any consideration for friends and foes, evil omens appeared, presaging the destruction of everything.
19The earth, with her mountains and forests, shook making a loud noise. Meteors, like burning brands equipt with handles, dropped from the sky, O king, on every side of the earth as if from the solar disc.
20There blew a hurricane on all sides, carrying away hard pebbles along its lower course. The elephants shed profuse tears and trembled greatly.
21Disregarding all those fierce and awful omens, the Kshatriyas, consulting with one another, cheerfully stood on the field of Kurukshetra, desirous of going to heaven.
22Then Shakuni, the son of the Gandhara king, said-"Fight you all in front! I, however, will kill the Pandavas from behind!”_-Then the active Madraka warriors, amongst those on our side that were advancing, were filled with joy and uttered various cries. Others also did the same.
23The invincible and sure-armed Pandavas, once more coming against us, shook their bows and enshrouded us with showers of arrows.
24The army of the Madrakas then were killed by the foc. Beholding this, the troops of Duryodhana once more fled from the battle.
25The might king of the Gandharas, however, once more said these words-"Stop, you sinful wretches, fight with the foe. What use is there of fight.” At that time, O foremost of Bharata's race, the king of the Gandharas had full ten thousand horsemen capable of fighting with bright lances.
26During the onset of that great carnage, Shakuni, aided by the force, displayed his valor and assailed the Pandava army at the rear, killing it with his keen arrows.
27The huge force of the Pandus then, O king, were dispersed even as a mass of clouds of all sides by a powerful wind.
28Then beholding his own army rouled, Yudhishthira coolly urged the mighty Sahadeva, saying-"Yonder the son of Subala, afflicting our rear, stands clad in mail. He kills our forces. Behold that wicked man, O son of Pandu.
29Helped by the sons of Draupadi proceed towards him and kill Shakuni, the son of Subala. Supported by the Panchalas, O sinless one, I will meanwhile kill the car-force of the enemy.
30Let all the elephants and all the horse and three thousand foot go with you. Helped by these, slay Shakuni.” At this seven hundred elephants ridden by bowmen and five thousand horse and the valiant Sahadeva and three thousand foot-soldiers and the son of Draupadi, all proceeded against invincible Shakuni.
31However, O king, overpowering the Pandavas and longing for victory, Subala's son, of great valour, began to slay their forces from the back.
32The horsemen, beside themselves with rage, of the Pandavas penetrated the division of Subala's son, overpowering the latter's carwarriors.
33Those heroic horsemen, staying in the midst of their own elephants, enshrouded the large host of Subala's son with showers of arrows.
34On account of your evil counsels, O king, a dreadful battle took place in which maces and lances were used and in which heroes only took part.
35The twang of bows was no longer heard there, for all the car-warriors stood there as spectators. At that time no difference could be seen between the opposing parties.
36Both the Kurus and the Pandavas, O foremost of Bharatas, saw the darts, shot off heroic arms, pass like meteors through the sky.
37The entire sky, O king, covered with falling and bright sword, appeared highly beautiful.
38The view presented, O best of the Bharatas, by the lances hurled all around, was like that of swarms of locusts in the sky.
39Horses, with limbs covered with blood on account of wounds inflicted by horsemen themselves struck with arrows, dropped down on all sides in hundreds and thousands.
40They all remained huddled together. many of them were wounded and many vomited blood. A thick darkness set in there when the troops were covered with a cloud of dust.
41When that darkness covered everything, O king, we saw those brave heroes, horses and men move away from that spot.
42Others dropped down on the earth vomiting blood profusely. Many warriors, entangled with one another by their locks, could not move.
43Many powerful heroes dragged one another from the backs of their horses and encountering one another thus, killed one another like wrestlers. Many, deprived of life, were carried away by the horses they rode.
44Many men, elated with the pride of courage and inspired with the desire of victory, dropped down on the earth.
45The earth was covered with hundreds and thousands of blessing warriors, deprived of limbs and divested of hairs.
46The surface of the earth being covered with clephant-riders and horsemen and killed horses and warriors with blood-stained armours and those armed with weapons and those who had tried to kill one another with various kinds of terrible weapons, all lying in a mass in that lifedestroying battle, no warrior could proceed far on his horse.
47Having fought for a little while, Shakuni, the son of Subala, O king, went away from that spot with the remnant of his cavalry, six thousand in number. Similarly the Pandava force, covered with blood and its animals worn out, moved away from there with its remnant consisting of six thousand horse.
48Horsemen, covered with blood of the Pandava army then, determined upon fighting and prepared to sacrifice their lives, said-"It is no longer possible to fight here on cars; how much more difficult it is then to fight here on elephants against elephants.
49Having retreated Shakuni is now staying within his own detachment. The royal son of Subala will not again come to fight.”
50Then the sons of Draupadi and those infuriate elephants went where the Panchala prince Dhrishtadyumna, that great car-warrior, was.
51Sahadeva also, when that cloud of dust set in, went alone where king Yudhishthira was.
52After all those had departed Shakuni the son of Subala, worked up with wrath, once more attacked. Dhrishtadyumna's division and began to strike it.
53Again a dreadful encounter took place, in which the combatants did not care for their lives, between your soldiers and those of the foe, all of whom were desirous of killing one another.
54In that encounter of heroes, the combatants first looked at one another steadfastly and then rushed, O king and attacked one another in hundreds and thousands.
55In that onslaught, heads, cut off with swords, dropped down with a noise like that of falling palmyra fruits.
56Loud noise also arose making the very hairs stand erect, of bodies falling down on the ground, divested of armours and wounded with weapons and of falling weapons also, O king and of arms and thighs cut off from the trunk.
57Assailing brothers and sons and even fathers with keen weapons, the combatants fought like birds, for a piece of meat.
58Worked up with rage, thousand of warriors attacked one another in that battle.
59Hundreds and thousands of combatants, pressed down by slain horsemen while falling down from their horses, fell down on the field.
60There arose loud noise of neighing horses of great flectness and of shouting men clad in mail and of the falling darts and swords, O king, of combatants desirous of cutting one another to the very quick on account, O monarch, of your evil policy.
61At that time, your soldiers, exhausted and worked up with rage, their animals fatigued, themselves thirsty, wounded with sharp weapons, began to turn away from the battle.
62Maddened with the smell of blood, many became so insensible that they killed friends and foes alike, in fact, every one they could lay hold on.
63O king, actuated with the desire of victory, large numbers of Kshatriyas were struck down with arrows and lay prostrate on the earth.
64Wolves, vultures and jackals began to yell hideously in joy. In the very presence of your son your son army suffered a great loss.
65The earth, O king, was covered with the bodies of men and horses and over-flown with rivers of blood that struck terror to the timid,
66Struck and wounded repeatedly with swords and battle-axes and lances, your warriors, as also the Pandavas, O Bharata, ceased to approach one another.
67Striking one another according to their might and fighting to the last combatants dropped down, bleeding.
68Headless from were seen, catching the hair of their heads and holding swords stained in blood.
69When many headless forms, O king, had thus rise up, when the smell of blood had made the warriors almost senseless and the loud noise had somewhat subsided, Subala's son again approached the large army of the Pandavas, with the small remnant of his cavalry.
70Thereat actuated with the desire of victory and endued with great activity, Pandavas rushed towards Shakuni, with foot-soldiers and elephants and cavalry all with uplifted weapons.
71Desirous of terminating the hostilities, the Pandavas, forming a wall, encircled Shakuni on all sides and began to strike him with various kinds of weapons.
72Beholding your soldiers assailed from every side, the Kauravas, with horse, foot, elephants and cars, rushed towards the Pandavas.
73Some brave foot-soldiers, destitute of weapons, attacked their foes in that battle, with feet and fists and struck them down.
74Car-warriors dropped down from cars and elephant-men from elephants, like virtuous persons falling down from their celestial vehicles upon the wane of their virtue.
75Thus the warriors fought with one another in that great battle and killed fathers and brothers and friends and sons.
76Thus took place that battle, ( best of Bharatas, in which no consideration was shown by any body for any one and in which lances, swords and arrows dropped down fast on every side and presented a terrific spectacle. Thus took place that battle, ( best of Bharatas, in which no consideration was shown by any body for any one and in which lances, swords and arrows dropped down fast on every side and presented a terrific spectacle.
Hindi
1सञ्जय ने कहा — उस भयंकर और भयानक युद्ध के चलते रहने पर आपके पुत्र की सेना पाण्डवों द्वारा खदेड़ दी गई।
2तथापि अपने महारथियों को प्रबल प्रयत्न से पुनः संगठित करके आपके पुत्र पाण्डव-सेना से लड़ते रहे।
3आपके पुत्र का कल्याण चाहने वाले कुरु-योद्धा सहसा लौट आए। उनके लौटने पर आपके योद्धाओं और शत्रु के योद्धाओं के बीच वह युद्ध पुनः भयावह हो उठा, जैसा प्राचीन काल में देवताओं और असुरों के बीच हुआ था। न शत्रुओं में, न आपके लोगों में ही एक भी ऐसा योद्धा था जो रणभूमि से भाग खड़ा हुआ हो।
4योद्धा एक-दूसरे को उनके उच्चारित नामों से पहचानते हुए लड़े। वहाँ महान् संहार हुआ।
5महान् क्रोध से भरे और उस युद्ध में धार्तराष्ट्रों तथा उनके राजा को पराजित करने के इच्छुक राजा युधिष्ठिर ने शरद्वान् के पुत्र (कृपाचार्य) को पत्थर पर तेज किए हुए तीन स्वर्णपंख बाणों से बींधा और फिर चार अन्य बाणों से कृतवर्मा के चारों घोड़ों को मार डाला।
6तब अश्वत्थामा हृदिक के उन प्रसिद्ध पुत्र (कृतवर्मा) को युद्धभूमि से दूर ले गए। शरद्वान् के पुत्र ने बदले में युधिष्ठिर को आठ बाणों से बींधा।
7तब राजा दुर्योधन ने सात सौ रथ उस स्थान पर भेजे जहाँ राजा युधिष्ठिर युद्ध कर रहे थे।
8उत्तम योद्धाओं द्वारा संचालित और वायु अथवा मन के समान शीघ्रगामी वे रथ उस युद्ध में कुन्तीपुत्र के रथ पर टूट पड़े।
9चारों ओर से युधिष्ठिर को घेरकर उन्होंने उन्हें अपने बाणों से उसी प्रकार अदृश्य कर दिया, जैसे मेघ सूर्य को दृष्टि से छिपा देते हैं।
10तब शिखण्डी के नेतृत्व में पाण्डव वीरों ने राजा युधिष्ठिर को कौरवों द्वारा इस प्रकार आक्रान्त देखकर क्रोध से भर गए और इसे सह न सके।
11कुन्तीपुत्र युधिष्ठिर को बचाने की इच्छा से वे महान् वेग वाले तथा घण्टियों की पंक्तियों से सुशोभित अपने रथों पर वहाँ आ पहुँचे।
12तब पाण्डवों और कुरुओं के बीच एक भयानक युद्ध हुआ, जिसमें रक्त जल के समान बहा और जिसने यमलोक के निवासियों की संख्या बढ़ा दी।
13कुरु-सेना के उन सात सौ शत्रु महारथियों का वध करके पाण्डवों और पांचालों ने पुनः (समस्त कुरु-सेना का) प्रतिरोध किया।
14आपके पुत्र और पाण्डवों के बीच एक उग्र संग्राम हुआ। उस जैसा हमने पहले न कभी देखा था, न सुना था।
15जिस युद्ध में किसी पक्ष ने दूसरे के प्रति तनिक भी रियायत नहीं दिखाई, उसके आरम्भ में जब आपकी सेना के तथा शत्रु के योद्धा तेजी से मारे जा रहे थे, तब समस्त योद्धा चिल्ला रहे थे और अपने शंख बजा रहे थे। धनुर्धर गरज रहे थे और नाना प्रकार के ऊँचे नाद कर रहे थे।
16हे तात, उस युद्ध के दौरान योद्धाओं के मर्मस्थलों पर ही प्रहार हो रहे थे और विजय के इच्छुक सैनिक वेग से आगे बढ़ रहे थे।
17उस युद्ध में, जब कुलीन और सुन्दरी असंख्य स्त्रियाँ विधवा बनाई जा रही थीं, तब पृथ्वी पर सब कुछ शोकपूर्ण विनाश से गुजर रहा था।
18जिस उग्र संग्राम में योद्धा मित्र और शत्रु का कोई विचार किए बिना लड़ रहे थे, उसके चलते रहने पर सर्वनाश की सूचना देने वाले अपशकुन प्रकट हुए।
19पर्वतों और वनों सहित पृथ्वी ऊँचा शब्द करती हुई काँप उठी। हे राजन्, मूठ लगी हुई जलती मशालों के समान उल्काएँ पृथ्वी के प्रत्येक ओर आकाश से इस प्रकार गिरीं मानो सूर्यमण्डल से गिर रही हों।
20चारों ओर आँधी चली, जो अपने निचले प्रवाह में कठोर कंकड़ उड़ाती जा रही थी। हाथी प्रचुर आँसू बहाने लगे और अत्यन्त काँपने लगे।
21उन समस्त उग्र और भयानक अपशकुनों की उपेक्षा करके क्षत्रिय एक-दूसरे से परामर्श करते हुए स्वर्ग जाने की इच्छा से प्रसन्नतापूर्वक कुरुक्षेत्र की रणभूमि में डटे रहे।
22तब गान्धारराज के पुत्र शकुनि ने कहा — "तुम सब सामने से लड़ो! मैं पीछे से पाण्डवों का वध करूँगा!" — तब हमारी ओर से आगे बढ़ने वालों में जो फुर्तीले मद्रक योद्धा थे, वे हर्ष से भर गए और नाना प्रकार के नाद करने लगे। दूसरों ने भी वैसा ही किया।
23अजेय और अचूक बाहुबल वाले पाण्डव पुनः हम पर आक्रमण करते हुए अपने धनुष हिलाकर हमें बाणों की वर्षा से ढक देते थे।
24तब मद्रकों की सेना शत्रु द्वारा मारी गई। यह देखकर दुर्योधन के सैनिक पुनः युद्ध से भाग खड़े हुए।
25किन्तु गान्धारों के पराक्रमी राजा ने पुनः ये वचन कहे — "रुको, अरे पापी नीचो, शत्रु से लड़ो। भागने से क्या लाभ?" हे भरतवंश में श्रेष्ठ, उस समय गान्धारराज के पास पूरे दस सहस्र घुड़सवार थे, जो चमकीले भालों से लड़ने में समर्थ थे।
26उस महासंहार के आरम्भ में उस सेना की सहायता से शकुनि ने अपना पराक्रम दिखाया और पीछे से पाण्डव-सेना पर आक्रमण करते हुए उसे अपने तीक्ष्ण बाणों से मारने लगे।
27हे राजन्, तब पाण्डवों की विशाल सेना उसी प्रकार तितर-बितर हो गई, जैसे प्रचण्ड वायु द्वारा चारों ओर से मेघों का समूह छिन्न-भिन्न कर दिया जाता है।
28तब अपनी सेना को खदेड़ा हुआ देखकर युधिष्ठिर ने शान्त भाव से महाबली सहदेव को प्रेरित करते हुए कहा — "वह देखो, सुबल का पुत्र कवच धारण किए हमारे पिछले भाग को पीड़ित कर रहा है। वह हमारी सेना का वध कर रहा है। हे पाण्डुपुत्र, उस दुष्ट पुरुष को देखो।
29द्रौपदी के पुत्रों की सहायता से उसकी ओर बढ़ो और सुबल के पुत्र शकुनि का वध करो। हे निष्पाप, पांचालों के सहयोग से मैं इस बीच शत्रु की रथसेना का वध करूँगा।
30समस्त हाथी, समस्त घुड़सवार और तीन सहस्र पैदल तुम्हारे साथ जाएँ। इनकी सहायता से शकुनि का वध करो।" इस पर धनुर्धरों द्वारा सवार सात सौ हाथी, पाँच सहस्र घुड़सवार, पराक्रमी सहदेव, तीन सहस्र पैदल सैनिक और द्रौपदी के पुत्र — ये सब अजेय शकुनि के विरुद्ध आगे बढ़े।
31किन्तु हे राजन्, महापराक्रमी सुबलपुत्र पाण्डवों को अभिभूत करते हुए और विजय की कामना करते हुए पीछे से उनकी सेना का वध करने लगे।
32क्रोध से आपे से बाहर हुए पाण्डवों के घुड़सवारों ने सुबलपुत्र के रथियों को अभिभूत करते हुए उनकी सेना में घुसपैठ कर दी।
33अपने ही हाथियों के बीच स्थित रहकर उन वीर घुड़सवारों ने सुबलपुत्र की विशाल सेना को बाणों की वर्षा से ढक दिया।
34हे राजन्, आपकी कुमन्त्रणा के कारण वहाँ एक भयानक युद्ध हुआ, जिसमें गदाओं और भालों का प्रयोग हुआ और जिसमें केवल वीर ही सम्मिलित हुए।
35वहाँ धनुष की टंकार अब सुनाई नहीं देती थी, क्योंकि समस्त रथी वहाँ दर्शक बनकर खड़े थे। उस समय दोनों विरोधी पक्षों में कोई भेद दिखाई नहीं देता था।
36हे भरतवंश में श्रेष्ठ, कुरुओं और पाण्डवों दोनों ने वीर भुजाओं से छोड़े गए भालों को उल्काओं के समान आकाश में जाते देखा।
37हे राजन्, गिरती हुई चमकीली तलवारों से आच्छादित समस्त आकाश अत्यन्त सुन्दर प्रतीत हो रहा था।
38हे भरतवंश में श्रेष्ठ, चारों ओर फेंके गए भालों ने जो दृश्य प्रस्तुत किया, वह आकाश में टिड्डियों के झुण्ड जैसा था।
39बाणों से आहत घुड़सवारों द्वारा ही किए गए घावों के कारण रक्त से लथपथ अंगों वाले घोड़े सैकड़ों और सहस्रों की संख्या में चारों ओर गिरने लगे।
40वे सब एक-दूसरे से सटकर पड़े रहे। उनमें से अनेक घायल थे और अनेक रक्त वमन कर रहे थे। जब सेना धूल के बादल से ढक गई, तब वहाँ घना अन्धकार छा गया।
41हे राजन्, जब उस अन्धकार ने सब कुछ ढक लिया, तब हमने उन वीर योद्धाओं, घोड़ों और मनुष्यों को उस स्थान से दूर हटते देखा।
42अन्य लोग प्रचुर रक्त वमन करते हुए पृथ्वी पर गिर पड़े। अनेक योद्धा एक-दूसरे के केशों में उलझकर हिल तक नहीं सके।
43अनेक बलवान् वीरों ने एक-दूसरे को घोड़ों की पीठ से घसीट लिया और इस प्रकार भिड़कर मल्लों के समान एक-दूसरे का वध किया। अनेक प्राणहीन योद्धा उन्हीं घोड़ों द्वारा दूर ले जाए गए जिन पर वे सवार थे।
44साहस के अभिमान से उन्मत्त और विजय की कामना से प्रेरित अनेक पुरुष पृथ्वी पर गिर पड़े।
45पृथ्वी अंगहीन और केशहीन होकर रक्त बहाते हुए सैकड़ों-सहस्रों योद्धाओं से ढक गई।
46जब पृथ्वी का धरातल हाथीसवारों, घुड़सवारों, मरे हुए घोड़ों, रक्तरंजित कवच वाले योद्धाओं, शस्त्रधारियों तथा उन लोगों से — जिन्होंने नाना प्रकार के भयंकर शस्त्रों से एक-दूसरे का वध करने का प्रयत्न किया था — ढक गया और वे सब उस प्राणनाशक युद्ध में एक ढेर के रूप में पड़े रहे, तब कोई भी योद्धा अपने घोड़े पर दूर तक नहीं जा सका।
47हे राजन्, कुछ काल तक लड़कर सुबल के पुत्र शकुनि अपनी शेष बची छह सहस्र अश्वसेना के साथ उस स्थान से चले गए। इसी प्रकार रक्त से लथपथ और थके हुए पशुओं वाली पाण्डव-सेना भी अपने शेष बचे छह सहस्र घुड़सवारों के साथ वहाँ से हट गई।
48तब रक्त से सने पाण्डव-सेना के घुड़सवारों ने, जो लड़ने का निश्चय कर चुके थे और अपने प्राण उत्सर्ग करने को तत्पर थे, कहा — "अब यहाँ रथों पर लड़ना सम्भव नहीं; फिर यहाँ हाथियों पर चढ़कर हाथियों से लड़ना कितना अधिक कठिन होगा।
49शकुनि पीछे हटकर अब अपनी ही टुकड़ी के भीतर ठहरा हुआ है। सुबल का वह राजपुत्र फिर लड़ने नहीं आएगा।"
50तब द्रौपदी के पुत्र और वे उन्मत्त हाथी वहाँ गए जहाँ महारथी पांचालराजकुमार धृष्टद्युम्न थे।
51सहदेव भी, जब धूल का वह बादल छा गया, तब अकेले ही वहाँ गए जहाँ राजा युधिष्ठिर थे।
52उन सबके चले जाने पर क्रोध से भरे सुबलपुत्र शकुनि ने पुनः धृष्टद्युम्न की सेना पर आक्रमण किया और उस पर प्रहार करने लगे।
53तब आपके सैनिकों और शत्रु के सैनिकों के बीच फिर एक भयानक संग्राम हुआ, जिसमें योद्धाओं ने अपने प्राणों की परवाह नहीं की और जिसमें सब एक-दूसरे का वध करने के इच्छुक थे।
54हे राजन्, वीरों के उस संग्राम में योद्धाओं ने पहले एक-दूसरे को स्थिर दृष्टि से देखा और फिर सैकड़ों-सहस्रों की संख्या में टूट पड़कर एक-दूसरे पर आक्रमण किया।
55उस संहार में तलवारों से काटे गए सिर ताड़ के फल गिरने जैसे शब्द के साथ गिरने लगे।
56हे राजन्, कवचहीन और शस्त्रों से घायल शरीरों के भूमि पर गिरने का, गिरते हुए शस्त्रों का तथा धड़ से कटी हुई भुजाओं और जाँघों का ऐसा प्रचण्ड शब्द उठा जिससे रोंगटे खड़े हो जाते थे।
57भाइयों, पुत्रों और पिताओं तक पर तीक्ष्ण शस्त्रों से प्रहार करते हुए योद्धा मांस के एक टुकड़े के लिए लड़ने वाले पक्षियों के समान लड़े।
58क्रोध से भरे सहस्रों योद्धाओं ने उस युद्ध में एक-दूसरे पर आक्रमण किया।
59घोड़ों से गिरते समय मारे गए घुड़सवारों के नीचे दबकर सैकड़ों-सहस्रों योद्धा रणभूमि पर गिर पड़े।
60हे राजन्, हे सम्राट्, आपकी कुनीति के कारण अत्यन्त वेगवान् घोड़ों के हिनहिनाने का, कवचधारी मनुष्यों के चिल्लाने का तथा एक-दूसरे को मर्म तक काट डालने के इच्छुक योद्धाओं के गिरते हुए भालों और तलवारों का प्रचण्ड शब्द उठा।
61उस समय आपके सैनिक थके हुए और क्रोध से भरे हुए, उनके पशु शिथिल, वे स्वयं प्यासे और तीखे शस्त्रों से घायल — युद्ध से मुँह मोड़ने लगे।
62रक्त की गन्ध से उन्मत्त होकर अनेक इतने अचेत हो गए कि उन्होंने मित्र और शत्रु में भेद किए बिना, वस्तुतः जिस किसी को पकड़ सके, उसी का वध कर डाला।
63हे राजन्, विजय की कामना से प्रेरित बड़ी संख्या में क्षत्रिय बाणों से मारे जाकर पृथ्वी पर पड़े रहे।
64भेड़िये, गीध और गीदड़ हर्ष से भयंकर रूप में चिल्लाने लगे। आपके पुत्र के सम्मुख ही आपके पुत्र की सेना को महान् क्षति उठानी पड़ी।
65हे राजन्, पृथ्वी मनुष्यों और घोड़ों के शवों से ढक गई और रक्त की उन नदियों से भर गई जो भीरु लोगों में आतंक उत्पन्न करती थीं।
66हे भरतवंशी, तलवारों, फरसों और भालों से बारम्बार आहत और घायल होकर आपके योद्धा तथा पाण्डव भी एक-दूसरे के निकट जाना बन्द कर बैठे।
67अपने-अपने बल के अनुसार एक-दूसरे पर प्रहार करते हुए और अन्तिम क्षण तक लड़ते हुए योद्धा रक्त बहाते हुए गिरते गए।
68बिना सिर के धड़ अपने सिरों के केश पकड़े और रक्तरंजित तलवारें थामे हुए दिखाई दिए।
69हे राजन्, जब इस प्रकार अनेक शिररहित धड़ उठ खड़े हुए, जब रक्त की गन्ध ने योद्धाओं को लगभग संज्ञाशून्य कर दिया और वह प्रचण्ड कोलाहल कुछ शान्त हुआ, तब सुबलपुत्र अपनी शेष बची थोड़ी-सी अश्वसेना के साथ पुनः पाण्डवों की विशाल सेना के निकट आए।
70तब विजय की कामना से प्रेरित और महान् फुर्ती से सम्पन्न पाण्डव पैदल सैनिकों, हाथियों और घुड़सवारों के साथ, सब शस्त्र उठाए हुए, शकुनि की ओर टूट पड़े।
71शत्रुता समाप्त करने के इच्छुक पाण्डवों ने दीवार-सी बनाकर चारों ओर से शकुनि को घेर लिया और नाना प्रकार के शस्त्रों से उन पर प्रहार करने लगे।
72अपने सैनिकों को चारों ओर से आक्रान्त देखकर कौरव घोड़ों, पैदलों, हाथियों और रथों सहित पाण्डवों की ओर टूट पड़े।
73शस्त्रहीन कुछ वीर पैदल सैनिकों ने उस युद्ध में पैरों और मुक्कों से ही अपने शत्रुओं पर आक्रमण किया और उन्हें मार गिराया।
74रथी अपने रथों से और हाथीसवार अपने हाथियों से इस प्रकार गिर पड़े, जैसे पुण्य क्षीण होने पर पुण्यात्मा जन अपने दिव्य विमानों से गिर पड़ते हैं।
75इस प्रकार उस महायुद्ध में योद्धा एक-दूसरे से लड़े और अपने पिताओं, भाइयों, मित्रों तथा पुत्रों का वध किया।
76हे भरतवंश में श्रेष्ठ, इस प्रकार वह युद्ध हुआ, जिसमें किसी ने किसी के प्रति कोई रियायत नहीं दिखाई और जिसमें भाले, तलवारें और बाण चारों ओर तेजी से गिरते रहे तथा एक भयंकर दृश्य उपस्थित करते रहे। हे भरतवंश में श्रेष्ठ, इस प्रकार वह युद्ध हुआ, जिसमें किसी ने किसी के प्रति कोई रियायत नहीं दिखाई और जिसमें भाले, तलवारें और बाण चारों ओर तेजी से गिरते रहे तथा एक भयंकर दृश्य उपस्थित करते रहे।
Nepali
1सञ्जयले भने — त्यस भयङ्कर र भयानक युद्ध चलिरहँदा तपाईंका पुत्रको सेना पाण्डवहरूद्वारा खेदियो।
2तथापि आफ्ना महारथीहरूलाई प्रबल प्रयत्नले पुनः सङ्गठित गरेर तपाईंका पुत्रहरू पाण्डव-सेनासँग लडिरहे।
3तपाईंका पुत्रको कल्याण चाहने कुरु-योद्धाहरू एकाएक फर्केर आए। तिनीहरू फर्केपछि तपाईंका योद्धा र शत्रुका योद्धाहरूबीच त्यो युद्ध पुनः भयावह भयो, जस्तो प्राचीन कालमा देवता र असुरहरूबीच भएको थियो। न शत्रुहरूमा, न तपाईंका मानिसहरूमै एक जना पनि यस्तो योद्धा थियो जो रणभूमिबाट भागेको होस्।
4योद्धाहरू एकअर्कालाई तिनीहरूले उच्चारण गरेका नामबाट चिन्दै लडे। त्यहाँ महान् सङ्हार भयो।
5महान् क्रोधले भरिएका र त्यस युद्धमा धार्तराष्ट्रहरू तथा तिनका राजालाई पराजित गर्न इच्छुक राजा युधिष्ठिरले शरद्वान्का पुत्र (कृपाचार्य)लाई ढुङ्गामा उध्याइएका तीन स्वर्णपङ्ख बाणले बिझाए र त्यसपछि चार अन्य बाणले कृतवर्माका चारै घोडा मारे।
6तब अश्वत्थामाले हृदिकका ती प्रसिद्ध पुत्र (कृतवर्मा)लाई युद्धभूमिबाट टाढा लगे। शरद्वान्का पुत्रले बदलामा युधिष्ठिरलाई आठ बाणले बिझाए।
7तब राजा दुर्योधनले सात सय रथ त्यस ठाउँमा पठाए जहाँ राजा युधिष्ठिर युद्ध गरिरहेका थिए।
8उत्तम योद्धाहरूद्वारा सञ्चालित र हावा वा मनजस्तै शीघ्रगामी ती रथहरू त्यस युद्धमा कुन्तीपुत्रको रथमाथि जाइलागे।
9चारैतिरबाट युधिष्ठिरलाई घेरेर तिनीहरूले उनलाई आफ्ना बाणले त्यसै गरी अदृश्य पारिदिए, जसरी मेघहरूले सूर्यलाई दृष्टिबाट लुकाइदिन्छन्।
10तब शिखण्डीको नेतृत्वमा पाण्डव वीरहरू राजा युधिष्ठिरलाई कौरवहरूद्वारा यसरी आक्रान्त देखेर क्रोधले भरिए र यो सहन सकेनन्।
11कुन्तीपुत्र युधिष्ठिरलाई बचाउने इच्छाले तिनीहरू महान् वेग भएका तथा घण्टीका हारले सुसज्जित आफ्ना रथहरूमा त्यहाँ आइपुगे।
12तब पाण्डव र कुरुहरूबीच एउटा भयानक युद्ध भयो, जसमा रगत पानीझैँ बग्यो र जसले यमलोकका निवासीहरूको सङ्ख्या बढायो।
13कुरु-सेनाका ती सात सय शत्रु महारथीको वध गरेर पाण्डव र पाञ्चालहरूले पुनः (सम्पूर्ण कुरु-सेनाको) प्रतिरोध गरे।
14तपाईंका पुत्र र पाण्डवहरूबीच एउटा उग्र सङ्ग्राम भयो। त्यस्तो हामीले पहिले न कहिल्यै देखेका थियौँ, न सुनेका थियौँ।
15जुन युद्धमा कुनै पक्षले अर्काप्रति तनिक पनि छुट देखाएन, त्यसको आरम्भमा जब तपाईंको सेनाका तथा शत्रुका योद्धाहरू छिटो मारिँदै थिए, तब सम्पूर्ण योद्धा चिच्याइरहेका थिए र आफ्ना शङ्ख फुकिरहेका थिए। धनुर्धरहरू गर्जिरहेका थिए र नाना प्रकारका उच्च नाद गरिरहेका थिए।
16हे तात, त्यस युद्धका क्रममा योद्धाहरूका मर्मस्थलमै प्रहार भइरहेका थिए र विजयका इच्छुक सैनिकहरू वेगले अगाडि बढिरहेका थिए।
17त्यस युद्धमा, जब कुलीन र सुन्दरी असङ्ख्य स्त्रीहरू विधवा बनाइँदै थिए, तब पृथ्वीमा सबै कुरा शोकपूर्ण विनाशबाट गुज्रिरहेको थियो।
18जुन उग्र सङ्ग्राममा योद्धाहरू मित्र र शत्रुको कुनै विचार नगरी लडिरहेका थिए, त्यो चलिरहँदा सर्वनाशको सूचना दिने अपशकुनहरू प्रकट भए।
19पर्वत र वनसहित पृथ्वी उच्च शब्द गर्दै काँपी। हे राजन्, बींड भएका बल्दै गरेका मशालजस्ता उल्काहरू पृथ्वीको प्रत्येक तिर आकाशबाट यसरी खसे मानौँ सूर्यमण्डलबाट खस्दै छन्।
20चारैतिर आँधी चल्यो, जसले आफ्नो तल्लो प्रवाहमा कठोर ढुङ्गा उडाउँदै लग्यो। हात्तीहरू प्रशस्त आँसु बगाउन थाले र अत्यन्त काँप्न थाले।
21ती सम्पूर्ण उग्र र भयानक अपशकुनको उपेक्षा गरेर क्षत्रियहरू एकअर्कासँग परामर्श गर्दै स्वर्ग जाने इच्छाले प्रसन्नतापूर्वक कुरुक्षेत्रको रणभूमिमा डटिरहे।
22तब गान्धारराजका पुत्र शकुनिले भने — "तिमीहरू सबै अगाडिबाट लड! म भने पछाडिबाट पाण्डवहरूको वध गर्नेछु!" — तब हाम्रो तर्फबाट अगाडि बढ्नेहरूमध्ये जो फुर्तिला मद्रक योद्धा थिए, तिनीहरू हर्षले भरिए र नाना प्रकारका नाद गर्न थाले। अरूहरूले पनि त्यसै गरे।
23अजेय र अचूक बाहुबल भएका पाण्डवहरू पुनः हामीमाथि आक्रमण गर्दै आफ्ना धनुष हल्लाएर हामीलाई बाणको वर्षाले छोपिदिन्थे।
24तब मद्रकहरूको सेना शत्रुद्वारा मारियो। यो देखेर दुर्योधनका सैनिकहरू पुनः युद्धबाट भागे।
25तर गान्धारहरूका पराक्रमी राजाले पुनः यी वचन भने — "रोक, ए पापी नीचहरू, शत्रुसँग लड। भागेर के लाभ?" हे भरतवंशमा श्रेष्ठ, त्यस बेला गान्धारराजसँग पूरा दस हजार घोडचढी थिए, जो चम्किला भालाले लड्न समर्थ थिए।
26त्यस महासंहारको आरम्भमा त्यस सेनाको सहायताले शकुनिले आफ्नो पराक्रम देखाए र पछाडिबाट पाण्डव-सेनामाथि आक्रमण गर्दै त्यसलाई आफ्ना तीक्ष्ण बाणले मार्न थाले।
27हे राजन्, तब पाण्डवहरूको विशाल सेना त्यसै गरी छरपष्ट भयो, जसरी प्रचण्ड हावाले चारैतिरबाट मेघको समूह छिन्नभिन्न पारिदिन्छ।
28तब आफ्नो सेना खेदिएको देखेर युधिष्ठिरले शान्त भावमा महाबली सहदेवलाई प्रेरित गर्दै भने — "त्यो हेर, सुबलका पुत्र कवच धारण गरेर हाम्रो पछिल्लो भागलाई पीडित पारिरहेका छन्। उनले हाम्रो सेनाको वध गरिरहेका छन्। हे पाण्डुपुत्र, त्यस दुष्ट पुरुषलाई हेर।
29द्रौपदीका पुत्रहरूको सहायताले उसतिर बढ र सुबलका पुत्र शकुनिको वध गर। हे निष्पाप, पाञ्चालहरूको सहयोगले म यसै बीचमा शत्रुको रथसेनाको वध गर्नेछु।
30सम्पूर्ण हात्ती, सम्पूर्ण घोडचढी र तीन हजार पैदल तिमीसँग जाऊन्। यिनको सहायताले शकुनिको वध गर।" यसमा धनुर्धरहरू चढेका सात सय हात्ती, पाँच हजार घोडचढी, पराक्रमी सहदेव, तीन हजार पैदल सैनिक र द्रौपदीका पुत्रहरू — यी सबै अजेय शकुनिविरुद्ध अगाडि बढे।
31तर हे राजन्, महापराक्रमी सुबलपुत्रले पाण्डवहरूलाई अभिभूत पार्दै र विजयको कामना गर्दै पछाडिबाट तिनीहरूको सेनाको वध गर्न थाले।
32क्रोधले आपेभन्दा बाहिर भएका पाण्डवहरूका घोडचढीहरूले सुबलपुत्रका रथीहरूलाई अभिभूत पार्दै तिनको सेनामा घुसपैठ गरे।
33आफ्नै हात्तीहरूको बीचमा रहेर ती वीर घोडचढीहरूले सुबलपुत्रको विशाल सेनालाई बाणको वर्षाले छोपिदिए।
34हे राजन्, तपाईंको कुमन्त्रणाका कारण त्यहाँ एउटा भयानक युद्ध भयो, जसमा गदा र भालाको प्रयोग भयो र जसमा वीरहरू मात्र सम्मिलित भए।
35त्यहाँ धनुषको टङ्कार अब सुनिँदैनथ्यो, किनभने सम्पूर्ण रथीहरू त्यहाँ दर्शक बनेर उभिएका थिए। त्यस बेला दुवै विरोधी पक्षमा कुनै भेद देखिँदैनथ्यो।
36हे भरतवंशमा श्रेष्ठ, कुरु र पाण्डव दुवैले वीर पाखुराबाट छाडिएका भालाहरूलाई उल्काजस्तै आकाशमा जाँदै गरेको देखे।
37हे राजन्, खस्दै गरेका चम्किला तरवारले छोपिएको सम्पूर्ण आकाश अत्यन्त सुन्दर देखिन्थ्यो।
38हे भरतवंशमा श्रेष्ठ, चारैतिर फालिएका भालाहरूले जुन दृश्य प्रस्तुत गरे, त्यो आकाशमा सलहका बथानजस्तै थियो।
39बाणले आहत घोडचढीहरूले नै गरेका घाउका कारण रगतले लतपत अङ्ग भएका घोडाहरू सयौं र हजारौंको सङ्ख्यामा चारैतिर लड्न थाले।
40तिनीहरू सबै एकअर्कासँग टाँसिएर पल्टिरहे। तिनमध्ये अनेक घाइते थिए र अनेकले रगत वमन गरिरहेका थिए। जब सेना धूलोको बादलले छोपियो, तब त्यहाँ बाक्लो अन्धकार छायो।
41हे राजन्, जब त्यस अन्धकारले सबै कुरा छोप्यो, तब हामीले ती वीर योद्धा, घोडा र मानिसहरूलाई त्यस ठाउँबाट टाढा हट्दै गरेको देख्यौँ।
42अरूहरू प्रशस्त रगत वमन गर्दै पृथ्वीमा लडे। अनेक योद्धा एकअर्काका केशमा अल्झिएर हल्लिन पनि सकेनन्।
43अनेक बलवान् वीरहरूले एकअर्कालाई घोडाको पीठबाट घिसारे र यसरी भिडेर मल्लहरूजस्तै एकअर्काको वध गरे। अनेक प्राणहीन योद्धा तिनै घोडाले टाढा लगिए जसमा तिनीहरू चढेका थिए।
44साहसको अभिमानले उन्मत्त र विजयको कामनाले प्रेरित अनेक पुरुष पृथ्वीमा लडे।
45पृथ्वी अङ्गहीन र केशहीन भई रगत बगाइरहेका सयौं-हजारौं योद्धाले छोपियो।
46जब पृथ्वीको धरातल हात्तीसवार, घोडचढी, मरेका घोडा, रगतले रङ्गिएका कवच भएका योद्धा, शस्त्रधारी तथा ती मानिसहरूले — जसले नाना प्रकारका भयङ्कर शस्त्रले एकअर्काको वध गर्ने प्रयत्न गरेका थिए — छोपियो र तिनीहरू सबै त्यस प्राणनाशक युद्धमा एउटै थुप्रोका रूपमा पल्टिरहे, तब कुनै पनि योद्धा आफ्नो घोडामा टाढासम्म जान सकेन।
47हे राजन्, केही समयसम्म लडेर सुबलका पुत्र शकुनि आफ्नो बाँकी रहेको छ हजार अश्वसेनासहित त्यस ठाउँबाट गए। त्यसै गरी रगतले लतपत र थाकेका पशु भएको पाण्डव-सेना पनि आफ्ना बाँकी रहेका छ हजार घोडचढीसहित त्यहाँबाट हट्यो।
48तब रगतले सनिएका पाण्डव-सेनाका घोडचढीहरूले, जसले लड्ने निश्चय गरिसकेका थिए र आफ्ना प्राण उत्सर्ग गर्न तत्पर थिए, भने — "अब यहाँ रथमा लड्न सम्भव छैन; फेरि यहाँ हात्तीमा चढेर हात्तीसँग लड्न कति बढी कठिन होला।
49शकुनि पछि हटेर अब आफ्नै टुकडीभित्र बसेका छन्। सुबलका ती राजपुत्र फेरि लड्न आउने छैनन्।"
50तब द्रौपदीका पुत्रहरू र ती उन्मत्त हात्तीहरू त्यहाँ गए जहाँ महारथी पाञ्चालराजकुमार धृष्टद्युम्न थिए।
51सहदेव पनि, जब धूलोको त्यो बादल छायो, तब एक्लै त्यहाँ गए जहाँ राजा युधिष्ठिर थिए।
52तिनीहरू सबै गएपछि क्रोधले भरिएका सुबलपुत्र शकुनिले पुनः धृष्टद्युम्नको सेनामाथि आक्रमण गरे र त्यसमाथि प्रहार गर्न थाले।
53तब तपाईंका सैनिक र शत्रुका सैनिकहरूबीच फेरि एउटा भयानक सङ्ग्राम भयो, जसमा योद्धाहरूले आफ्ना प्राणको वास्ता गरेनन् र जसमा सबै एकअर्काको वध गर्न इच्छुक थिए।
54हे राजन्, वीरहरूको त्यस सङ्ग्राममा योद्धाहरूले पहिले एकअर्कालाई स्थिर दृष्टिले हेरे र त्यसपछि सयौं-हजारौंको सङ्ख्यामा जाइलागेर एकअर्कामाथि आक्रमण गरे।
55त्यस सङ्हारमा तरवारले काटिएका टाउकाहरू ताडको फल खसेजस्तो शब्दसहित खस्न थाले।
56हे राजन्, कवचहीन र शस्त्रले घाइते भएका शरीरहरू भुइँमा खसेको, खस्दै गरेका शस्त्रहरूको तथा धडबाट काटिएका पाखुरा र तिघ्राको यस्तो प्रचण्ड शब्द उठ्यो जसले रौं ठाडा हुन्थे।
57दाजुभाइ, पुत्र र पिताहरूमाथि समेत तीक्ष्ण शस्त्रले प्रहार गर्दै योद्धाहरू मासुको एउटा टुक्राका लागि लड्ने पक्षीहरूजस्तै लडे।
58क्रोधले भरिएका हजारौं योद्धाले त्यस युद्धमा एकअर्कामाथि आक्रमण गरे।
59घोडाबाट खस्दा मारिएका घोडचढीहरूको मुनि थिचिएर सयौं-हजारौं योद्धा रणभूमिमा लडे।
60हे राजन्, हे सम्राट्, तपाईंको कुनीतिका कारण अत्यन्त वेगवान् घोडाहरू हिनहिनाएको, कवचधारी मानिसहरू चिच्याएको तथा एकअर्कालाई मर्मसम्मै काट्न इच्छुक योद्धाहरूका खस्दै गरेका भाला र तरवारको प्रचण्ड शब्द उठ्यो।
61त्यस बेला तपाईंका सैनिक थाकेका र क्रोधले भरिएका, तिनका पशु शिथिल, तिनीहरू आफैँ तिर्खाएका र तीखा शस्त्रले घाइते — युद्धबाट मुख फर्काउन थाले।
62रगतको गन्धले उन्मत्त भई अनेक यति अचेत भए कि तिनीहरूले मित्र र शत्रुमा भेद नगरी, वास्तवमा जसलाई समात्न सके, उसैको वध गरे।
63हे राजन्, विजयको कामनाले प्रेरित ठूलो सङ्ख्यामा क्षत्रियहरू बाणले मारिएर पृथ्वीमा पल्टिरहे।
64ब्वाँसो, गिद्ध र स्यालहरू हर्षले भयङ्कर रूपमा कराउन थाले। तपाईंका पुत्रकै सामु तपाईंका पुत्रको सेनाले महान् क्षति बेहोर्नुपर्यो।
65हे राजन्, पृथ्वी मानिस र घोडाका शवले छोपियो र रगतका ती नदीले भरियो जसले डरपोकहरूमा आतङ्क उत्पन्न गर्थे।
66हे भरतवंशी, तरवार, बन्चरो र भालाले बारम्बार आहत र घाइते भई तपाईंका योद्धा तथा पाण्डवहरू पनि एकअर्काको नजिक जान छाडे।
67आ-आफ्नो बलअनुसार एकअर्कामाथि प्रहार गर्दै र अन्तिम क्षणसम्म लड्दै योद्धाहरू रगत बगाउँदै लड्दै गए।
68टाउकोविनाका धडहरू आफ्ना टाउकाका केश समातेर र रगतले रङ्गिएका तरवार बोकेर देखिए।
69हे राजन्, जब यसरी अनेक शिरविहीन धड उठे, जब रगतको गन्धले योद्धाहरूलाई लगभग संज्ञाशून्य पार्यो र त्यो प्रचण्ड कोलाहल केही शान्त भयो, तब सुबलपुत्र आफ्नो बाँकी रहेको थोरै अश्वसेनासहित पुनः पाण्डवहरूको विशाल सेनाको नजिक आए।
70तब विजयको कामनाले प्रेरित र महान् फुर्तीले सम्पन्न पाण्डवहरू पैदल सैनिक, हात्ती र घोडचढीसहित, सबै शस्त्र उठाएर, शकुनितिर जाइलागे।
71शत्रुता अन्त्य गर्न इच्छुक पाण्डवहरूले पर्खालजस्तै बनाएर चारैतिरबाट शकुनिलाई घेरे र नाना प्रकारका शस्त्रले उनीमाथि प्रहार गर्न थाले।
72आफ्ना सैनिकहरूलाई चारैतिरबाट आक्रान्त देखेर कौरवहरू घोडा, पैदल, हात्ती र रथसहित पाण्डवहरूतिर जाइलागे।
73शस्त्रविहीन केही वीर पैदल सैनिकहरूले त्यस युद्धमा खुट्टा र मुड्कीले नै आफ्ना शत्रुहरूमाथि आक्रमण गरे र तिनीहरूलाई ढालिदिए।
74रथीहरू आफ्ना रथबाट र हात्तीसवारहरू आफ्ना हात्तीबाट यसरी खसे, जसरी पुण्य क्षीण भएपछि पुण्यात्मा जनहरू आफ्ना दिव्य विमानबाट खस्दछन्।
75यसरी त्यस महायुद्धमा योद्धाहरू एकअर्कासँग लडे र आफ्ना पिता, दाजुभाइ, मित्र तथा पुत्रहरूको वध गरे।
76हे भरतवंशमा श्रेष्ठ, यसरी त्यो युद्ध भयो, जसमा कसैले कसैप्रति कुनै छुट देखाएन र जसमा भाला, तरवार र बाणहरू चारैतिर छिटो खस्दै रहे तथा एउटा भयङ्कर दृश्य उपस्थित गर्दै रहे। हे भरतवंशमा श्रेष्ठ, यसरी त्यो युद्ध भयो, जसमा कसैले कसैप्रति कुनै छुट देखाएन र जसमा भाला, तरवार र बाणहरू चारैतिर छिटो खस्दै रहे तथा एउटा भयङ्कर दृश्य उपस्थित गर्दै रहे।