The donning of the armour on Duryodhana by Drona
Volume V — Drona Parva · Chapter 94
Sanskrit
1संजय उवाच ततः प्रविष्टि कौन्तेये सिंधुराजजिधांसया।।। द्रोणनीकं विनिर्भिद्य भोजानीकं च दुस्तरम्॥
2काम्बोजस्य च दायादे हते राजन् सुदक्षिणे। श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना॥
3विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः। प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात्॥
4त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत्। गतः स पुरुषव्याघ्रः प्रमथ्यैतां महाचमूम्॥
5अथबुद्ध्या समीक्षस्व किन्नु कार्यमनन्तरम्। अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये॥
6यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः। तथा विधत्स्व भद्रं ते त्वं हि न: परमा गतिः॥
7असौ धनंजयाग्निर्हि कोपमारुतचोदितः। सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः॥
8अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परंतप। जयद्रथस्य गोप्तारः संशयं परमं गताः॥
9स्थिरा बुद्धिनरेन्द्राणामासीद् ब्रह्मविदां वर। नातिक्रमिष्यति द्रोणं जातु जीवं धनंजयः॥
10योऽसौ पाथे व्यतिक्रान्तो मिषतस्ते महायुते। सर्वे ह्यद्यातुरं मन्ये नेदमस्ति बलं मम॥
11जानामि त्वा महाभाग पाण्डवानां हिते रतम्। तथा मुह्यामि च ब्रह्मन् कार्यवत्तां विचिन्तयन्॥
12यथाशक्ति च ते ब्रह्मन् वर्तये वृत्तिमुत्तमाम्। प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे॥
13अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम। पाण्डवान् सततं प्रीडास्यस्माकं विप्रिये रतान्॥
14अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः। न ह्ययं त्वां विजानामि मधुदिग्धमिव क्षुरं॥
15नादास्यच्चेद् वरं मह्यं भवान् पाण्डवनिग्रहे। नाचारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान्॥
16मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना। आश्वासितः सिन्धुपतिर्मोहाद् दत्तश्च मृत्यवे॥
17यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः। नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः॥
18स तथा कुरुशोणाश्व यथा मुच्येत सैन्धवः। मम चार्तप्रलापानां मा कुधः पाहि सैन्धवम्॥
19द्रोण उवाच नाभ्यसूयामि ते वाक्यमश्वत्थाम्नासि मे समः। सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विषाम्पते॥
20सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः। अल्पं च विवरं कृत्वा तूर्णं याति धनंजयः॥
21किं न पश्यसि बाणौधान् क्रोशमाने किरीटिनः। पश्चाद् रथस्य पतितान् क्षिप्ताशीघ्रं हि गच्छत॥
22न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः। सेनामुर न च पार्थानामेतद् बलमुपस्थितम्॥
23युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम्। एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज॥
24धनंजयेन चोत्सृष्टो वर्तते प्रमुखे नृप। तस्माद् व्यूहमुखं हित्वा नाहं योत्स्यामि फाल्गुनम्।।
25तुल्याभिजनकर्माणं शत्रुनेकं सहायवान्। गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः॥
26राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः। वीर स्वयं प्रयाह्यत्र यत्र पार्थो धनंजयः॥
27दुर्योधन उवाच कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरम्। धनंजयो मया शक्य आचार्य प्रतिबाधितुम्॥
28अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः। नार्जुनः समरे शक्यो जेतुं परपुरंजयः॥
29येन भोजश्य हार्दिक्यो भवांश्च त्रिदशोपमः। अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः॥
30सुदक्षिणश्च निहतः स च राजा श्रुतायुधः। श्रुतायुश्चाच्युतायुश्चम्लेच्छाश्चायुतशो हताः॥
31तं कथं पाण्डवं युद्धे दहन्तमिव पावकम्। प्रतियोत्स्यामि दुर्धर्षे तमहं शस्त्रकोविदम्॥
32क्षमं च मन्यसे युद्धं मम तेनाद्य संयुगे। परवानस्मि भवति प्रेष्यवद् रक्ष मद्यशः॥
33द्रोण उवाच सत्यं वदसि कौरव्य दुराधर्षो धनंजयः। अहं तु तत् करिष्यामि यथैनं प्रसहिष्यसि॥
34अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः। विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः॥
35एष ते कवचं राजंस्तथा बजामि काञ्चनम्। यथा न बाणा नास्त्राणि प्रहरिष्यन्ति ते रणे॥
36यदि त्वां सासुरसुरा: सयक्षोरगराक्षसाः। योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम्॥
37न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद् रणे। शरानर्पयितुं कश्चित् कवचे तव शक्ष्यति॥
38स त्वं कवचमास्थाय क्रुद्धपद्य रणेऽर्जुनम्। त्वरमाणः स्वयं यानि न त्वासौ विसहिष्यति॥
39संजय उवाच एवमुक्त्वा त्वरन् द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम्। आबबन्धाद्भुततमं जपन् मन्त्रं यथाविधि॥
40रणे तस्मिन् सुमहति विजयस्य सुतस्य ते। विसिस्मापयिषुर्लोकान् विद्यया ब्रह्मवित्तमः॥
41द्रोण उवाच करोतु स्वस्ति ते ब्रह्म ब्रह्मा चापि द्विजातयः। सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत॥
42ययाति हुषश्चैव धुन्धुमारो भगीरथः। तुभ्यं राजर्षयः सर्वे स्वस्ति सकुर्वन्तु ते सदा॥
43स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च। स्वस्तयस्त्वपादकेभ्यश्च नित्यं तव महारणे॥
44स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा। लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ॥
45असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः। वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप॥
46धाता विधाता लोकेशो दिशश्च सदिगीश्वराः। स्वस्ति तेऽद्य प्रयच्छन्तु कार्तिकेयश्च षण्मुखः॥
47विवस्वान् भगवान् स्वस्ति करोतु तव सर्वशः। दिग्गजाश्चैव चत्वारः क्षितिश्च गगनं ग्रहाः॥
48अधस्ताद् धरणीं योऽसौ सदा धारयते नृप। शेषश्च पनगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु॥
49गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः। पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः॥
50हातेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः। ब्रह्माणं शरणं जग्मुर्वत्राद् भीता महासुरात्॥
51देवा ऊचुः प्रमर्दितानां वृत्रेण देवानां देवसत्तम। गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात्॥
52अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान्। प्राह तथ्यमिदं वाक्यं विषण्णान् सुरसत्तमान्॥
53रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः। त्वष्टः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः॥
54त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा। वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात्॥
55स तस्यैव प्रसादाद् वो हन्यादेव रिपुर्बली। नागत्वा शंकरस्थानं भगवान् दृश्यते हरः॥
56दृष्ट्वा जेष्यथ वृत्रं तं क्षिप्रं गच्छत मन्दरम्। यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः॥
57पिनाकी सर्वभूतेशो भगनेत्रनिपातनः। ते गत्वा सहिता देवा ब्राह्मणा सह मन्दरम्॥
58अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम्। सोऽब्रवीत् स्वागतं देवा ब्रूत किं करवाण्यहम्॥
59अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः। एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः॥
60तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम्। मूर्तीरीक्षस्व नो देव प्रहारैर्जर्जरीकृताः। शरणं त्वां प्रपन्ना स्म गतिर्भव महेश्वर॥
61शर्व उवाच विदितं वो यथा देवाः कृत्येयं सुमहाबला। त्वष्टस्तेजोभवा घोरा दुर्निवार्याकृतात्मभिः॥
62अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम्। ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम्॥
63बधानानेन मन्त्रेण मानसेन सुरेश्वर। वधायासुरमुख्यस्य वृत्रस्य सुरघातिनः॥
64द्रोण उवाच इत्युक्त्वा वरदः प्रादाद् वर्म तन्मन्त्रमेव च । स तेन वर्मणा गुप्तः प्रायाद् वृत्रचमूं प्रति॥
65नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे। न संधिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु॥
66ततो जघान समरे वृत्रं देवपतिः स्वयम्। तं च मन्त्रमयं बन्धं वर्म चाङ्गिरसे ददौ॥
67अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः। बृहस्पतिरथोवाच अग्निवेश्याय धीमते॥
68आग्निवेश्यो मम प्रादात् तेन बघ्नामि वर्म ते। तवाद्य देहरक्षार्थ मन्त्रेण नृपसत्तम॥
69संजय उवाच एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिम्। पुनरेव वचः प्राह शनैराचार्यपुङ्गवः॥
70ब्रह्मसूत्रेण बध्नामि कवचं तव भारत। हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे॥
71यथा च ब्रह्मणा बद्धं संग्रामे तारकामये। शक्रस्य कवचं दिव्यं तथा बधाम्यहं तव।।७शा
72बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम्। प्रेषयामास राजानं युद्धाय महते द्विजः॥
73स संनद्धो महाबाहुराचार्येण महात्मना। रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम्॥
74तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम्। अश्वानां नियुतेनैव तथान्यैश्च महारथैः॥
75वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति। नानावादित्रघोषेण यथा वैराचनिस्तथा॥
76ततः शब्दो महानासीत् सैन्यानां तव भारत। अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम्॥
English
1Sanjaya said When the son of Kunti, out of a desire for slaying the king of the Sindhus, had penetrated into the Bharata army, after having pierced through the invincible division of Drona and the Bhoja king.
2When also, O king, the heir of the king of Kambojas, namely prince Sudakshina, also the powerful Shrutayudha, had been slain by Savyasachin.
3When the divisions of your army had been broken and routed in all directions, your son seeing his troops shattered speedily proceeded towards Drona.
4Hastily riding on a single car, he repaired to Drona ‘and addressing him said "That foremost of men Arjuna has already passed through this mighty army, having crushed it completely.
5Now decide with the help of your understanding, what should be done next, for bringing about the slaughter of Arjuna, taking into consideration this fearful carnage.
6Do you so arrange that, that foremost of inen may not slay Jayadratha. May good betide you. You are our sole protector.
7Like a raging fire consuming a heap of dry grass and fuel, this Dhananjaya-fire urged on by the wind of his anger, is consuming the grass and fuel formed by my troops.
8O afflicter of your foes, being informed that the son of Kunti had passed through the division having pierced through it, the warriors entrusted with the protection of Jayadratha, are being preyed upon by anxiety.
9O you foremost of those conversant with the kings that Dhananjaya would never be able to escape Drona alive.
10O you of burning splendour, when Pritha's son has succeeded in penetrating through you division before your very eyes. I consider all my troops to be involved in a great catastrophy Indeed, I think I have no troops.
11I know you, O illustrious one, to be attached to the interests of the Pandavas, therefore, O Brahmana. I am losing my sense in the thought what should be done by me next.
12To the best of my prowess, O Brahmana, I try to behave well with you. I also, exert to the best of my capabilities for satisfying you; still you do not seem to attach any value to all these.
13you of prowess infinite, although we are ever devoted to you, you do not wish us well; but you are ever satisfied with the Pandavas who are intent on injuring ourselves.
14Though you live upon our bread, yet you are instrumental in injuring us. I knew not before that, you are but a razor soaked in honey.
15If you had not given me assurances of vanquishing the Pandavas, I would never have prevented the ruler of the Sindhus from returning to his own dominions.
16Fool that I am, hoping to obtain protection from you, I gave assurances of safety to the kirig of the Sindhus; now I see that I have virtually offered him as a victim to Death.
17It possible for a man to escape even when he goes inside the jaws of Death, but there is not the slightest chance of escape for Jayadratha, when he once comes within the reach of Partha in battle.
18O you owning crimson steeds, do you so manage that the ruler of the Sindhus may yet be saved. Be not angry with me for all these raving of mine afflicted as I am with grief. Oh! save, save the ruler of the Sindhus!
19Drona said I do not take your words in ill-part; you are to me like Ashvatthaman himself, I tell you this for sooth. O ruler of men, do you now act up to my advices.
20Krishna is the best of all drivers of chariots and his horses are the fleetest and the best of the species. Creating a small breath only, Dhananjaya can pass very quickly through it.
21Can you not see the innumerable arrows shot by the diadem-decked Arjuna with his Gandiva bow, are falling full two miles behind his car as he is advancing?
22Grown up in years, I cannot indeed proceed so has ily. Moreover, there! do you see the whole army of the Parthas assailing our van.
23Yudhishthira also should be captured by myself, before they eyes of all bowmen. Even this, O mighty armed one, has been the vow undertaken by me amidst all Kshatriya warriors.
24Abandoned by Dhananjaya, O king, he now stands at the head of his divisions. For these reasons I shall not fight with Phalguna, leaving the van of our array uncared for.
25Duly supported, do you go yourself and fight with your unsupported foe who is equal to you in nobility of birth and in the achievement of feasts. Be not afraid! You are the lord of this world.
26You are a sovereign, a hero, possessed of fame and skilful in defeating (your opponents). O valorous subjugator of hostile fortresses, hie yourself, therefore to that part of the field where Dhananjaya is.
27Duryodhana said O preceptor, how is it possible for me to hold in check that Dhananjaya who has passed even yourself, the foremost of all wielders of weapons?
28It may be possible for me to conquer in battle Purandara armed with his thunder-bolt, but it is not possible for me to conquer Arjuna that subjugator of hostile towns,
29He by whom the son of Hridika, the ruler of the Bhojas and yourself equal to a god, have all been vanquished with the showers of his weapons, he by whom Shrutayusha has been slain.
30as He by whom Sudakshina and king Shrutayusha have been slain, also Shrutayusha and Achytayusha and myriads of Mlechchas also have been slain.
31How can I encounter that invincible son of Pandu, accomplished in the use of all kinds of weapons and resembling the all-destroying fire itself.
32How it is that you today think me competent to fight with him? I am entirely dependent on you and am your slave; Oh! save my honour!
33Drona said o foremost descendant of the Kuru race, you speak all that is true. Really Dhananjaya is incapable of suffering defeat. But I myself will so act by which you will be able to bear him.
34Let all wielders of bow inhabiting this world, behold today the marvellous fact, of the son of Kunti being held in check by you, even before Vasudeva himself.
35This golden coat of mail of yours, O king, I shall so tie on you that all weapons discharged by human hands will not be able to pierce you in battle.
36Even if the three worlds, with the Asuras, the celestials, the Yakshas, the Reptiles and the Rakshasas, together with all human beings, fight with today, still you need entertain no fear.
37Neither Krishna, nor the son of Kunti, nor any other wielder of weapons, will be able to pierce your armour in baitle with his arrows.
38So, cased in this golden armour, do you hastily advance upon the wrathful Arjuna, yourself; he shall not be able to beat you in battle today.
39Sanjaya said Having thus spoken, Drona quickly rinced his mouth with water and then bound that lustrous armour on Duryodhana, having duly reiterated most marvellous incantations.
40In that dreadful battle, that foremost of persons conversant with the knowledge of the Vedas, was desirous of bestowing victory on your son and of exciting the wonder of the worlds with his excellent learning.
41Drona said May all the Vedas, the Brahmanas and Brahman himself and the Reptiles and other beings of superior order bless you, O Bharata!
42May Yayati, Nahusha, Dhundhumara and Bhagiratha and other royal sage bless you in all acts!
43May you obtain blessing from creatures having one leg only and creatures having many also! May you also get blessings from those who have no legs at all!
44May Svaha and Svadha and Sachi all oless you always! O sinless one, may Lakshmi and Arundhati also pronounce benedictions on you!
45May Asita, Devala, Vishvamitra, Angiras, Vasistha and Kashyapa, O monarch, bless you!
46May Dhatri and Vidhatri, the quarters of heaven and their regents and the six-headed Kartikeya do all that is beneficial you!
47May the illustrious Vivasvat bless you today! May the four elephants guarding the cardinal points, the earth, the firmament, the planets.
48And he who is underneath this earth and o king who ever upholds her, viz., Shesha, that foremost of snakes-may all these do what is beneficial to you!
49O Son of Gandhari, in days gone by, the Asura named Vritra, exerting his might in battle, had defeated the foremost of celestials in battle.
50All those dwellers of heaven then with Indra at their head, destitute of their head, destitute of their energy and prowess, sought refuge with Brahman being highly afraid of the mighty Asura Vritra.
51The celestials said O foremost of the celestials, O best of the gods, be you the protector of the gods now, crushed as they are by the Asura Vritra. Save us from this our great fear.
52Drona continued Thereupon Brahman addressing Vishnu standing by his side, as also the other foremost of celestials headed by Indra, spoke to them that were are depressed, these words, all perfectly true.
53The celestials with Indra at their head, as also the regenerate order are ever deserving of my protection. But the energy of Tvashtri from which Vritra has been created is indeed irrepressible.
54In days gone by, observing ascetic austerities for millions of years, Tvashtri created, O Gods, Vritra, having obtained permission thereto from Mahadeva.
55Hence that mighty energy of ours has succeeded in vanquishing you through the grace of that god. Without repairing to the place where Sankara stays, you cannot except to obtain a sight of him.
56After you have seen that god, you will be able to conquer Vritra. Therefore, his yourselves to the Mandara mountain; there dwells that origin of ascetic austerities, that destroyer of Daksha's sacrifice.
57That wielder of the Pinaka, that lord of all creatures, that slayer of the Asura that Bhaganetra. Thereupon all those celestials accompanied by Brahma, proceeded to the Mandara mountain.
58And there, beheld that heap of energy, who resembled in radiance a million of suns. (Seeing the gods come) Mahadeva said, "All hail O god! speak what am I to do for you!
59A sight of my self cannot be barren. So let the fruition of your desires proceed from this!” Thus spoken to, all those denizens of heaven
60All our energy has been robbed by Vritra. Be you the protector of us the dwellers of heaven. O God, look upon our bodies mangled and mutilated with the wounds inflicted by the Asura. We seek protection from you; O God of gods, be you our refuge.
61Sharva said O Gods, it is well-known to all of you, how this Asura, surcharged with strength, dreadful and incapable of being held in check by persons devoid of ascetic merit, came into being, created by the energy of Tvashtri.
62Surely it is my duty to protect the denizens of heaven. O Shakra, take this radiant coat of mail off my body; and O lord of the gods, don it, reiterating these Mantras.
63O sovereign gods! Tie this to your body by reciting hymn through mental japa as told by men. Then you will able enough to kill Vritra, the monster king and enemy to the gods.
64Drona continued Having thus spoken, that giver of boons, gave that armour and the necessary Mantras to Indra. Clad in that coat of mail Indra then assaulted the army of Vritra.
65Although then in that dreadful battle myriads of weapons of diverse description were hurled at him, yet they could not slacken or pierce through the joints, of that armour.
66Then the lord of the celestials slew Vritra in battle and gave afterwards that armour of which the joints were composed of Mantras, unto Angiras.
67Angiras again gave those Mantras to Brihaspati his son conversant with all Mantras. Brihaspati next imparted them to the intelligent Agniveshya.
68Agniveshya gave them to me; and now with the help of those mantras I have bound up this armour on you, O foremost of the kings, in order to guard your body from all weaponwounds.
69Sanjaya said Having thus spoken, Drona that foremost of all preceptors, once more addressed your son
70“O ruler of men, I don this armour on your body joining its parts by means of Brahmathreads. Even thus did Brahman springing from the golden lotus, put it on Vishnu.
71I do it on you, even in the same manner in which Brahman himself had put this armour of celestial make on Indra, during the battle caused by the abduction of Taraka."
72Thus having tied that Duryodhana with due mantras, the regenerate Drona dispatched the king to the mighty encounter.
73Then the mighty-armed king, accoutered by the illustrious preceptor, supported by a thousand car-warriors of the Trigartta country, all accomplished in smiting down.
74As also by a thousand infuriate elephants endued with great mighty and a hundred thousand horses and numerous other mightycar-warriors. armour on
75Advanced against the chariot of Arjuna. He then proceeded accompanied by the sounds of various kinds of musical instruments, even like the son of Virochana (in the days of yore).
76Thereupon O Bharata, a loud uproar was created by your troops as they beheld the illustrious Kuru king advance like the fathomless deep itself.
Hindi
1सञ्जय ने कहा — जब कुन्तीपुत्र सिन्धुराज के वध की इच्छा से द्रोण तथा भोजराज की अजेय सेना को भेदकर भरतों की सेना में घुस गए —
2और हे राजन्, जब काम्बोजराज के उत्तराधिकारी राजकुमार सुदक्षिण तथा बलवान् श्रुतायुध भी सव्यसाची द्वारा मारे जा चुके —
3जब आपकी सेना की टुकड़ियाँ टूटकर सब दिशाओं में तितर-बितर हो गईं, तब अपनी सेना को छिन्न-भिन्न देखकर आपका पुत्र शीघ्रता से द्रोण के पास गया।
4एक ही रथ पर शीघ्रता से सवार होकर वे द्रोण के पास पहुँचे और उन्हें सम्बोधित करके कहा — "पुरुषों में श्रेष्ठ वे अर्जुन इस विशाल सेना को पूर्णतया कुचलकर पहले ही इसे पार कर चुके हैं।
5अब इस भयङ्कर संहार को ध्यान में रखते हुए अपनी बुद्धि से निश्चय कीजिए कि अर्जुन के वध के लिए अब आगे क्या किया जाना चाहिए।
6आप ऐसा प्रबन्ध कीजिए जिससे वे पुरुषश्रेष्ठ जयद्रथ का वध न कर सकें। आपका कल्याण हो। आप ही हमारे एकमात्र रक्षक हैं।
7जैसे प्रचण्ड अग्नि सूखी घास और ईंधन के ढेर को भस्म कर देती है, वैसे ही अपने क्रोध की वायु से प्रेरित यह धनञ्जयरूपी अग्नि मेरी सेनाओं से बनी घास और ईंधन को भस्म कर रही है।
8हे शत्रुतापन, यह समाचार पाकर कि कुन्तीपुत्र सेना को भेदकर पार निकल गए हैं, जयद्रथ की रक्षा में नियुक्त योद्धा चिन्ता से ग्रस्त हो रहे हैं।
9हे राजाओं के ज्ञाताओं में श्रेष्ठ, (आपने कहा था कि) वे धनञ्जय द्रोण को पार करके कभी जीवित नहीं निकल सकेंगे।
10हे प्रज्वलित तेजवाले, जब पृथापुत्र आपकी आँखों के सामने ही आपकी सेना को भेदने में सफल हो गए, तब मैं अपनी समस्त सेनाओं को महान् विपत्ति में फँसा हुआ मानता हूँ। सचमुच मैं समझता हूँ कि मेरे पास अब कोई सेना ही नहीं है।
11हे यशस्वी, मैं जानता हूँ कि आप पाण्डवों के हित में लगे हुए हैं; इसलिए हे ब्राह्मण, यह सोचते-सोचते मेरी बुद्धि काम नहीं कर रही कि अब मुझे क्या करना चाहिए।
12हे ब्राह्मण, मैं अपने सामर्थ्य भर आपके साथ अच्छा व्यवहार करने का प्रयत्न करता हूँ। आपको सन्तुष्ट करने के लिए भी मैं अपनी पूरी शक्ति से चेष्टा करता हूँ; फिर भी आप इन सब बातों का कोई मूल्य नहीं मानते जान पड़ते।
13हे अनन्त पराक्रमवाले, यद्यपि हम सदा आपके प्रति समर्पित हैं, तथापि आप हमारा भला नहीं चाहते; किन्तु आप सदा उन पाण्डवों से सन्तुष्ट रहते हैं जो हमें हानि पहुँचाने में लगे हुए हैं।
14यद्यपि आप हमारा अन्न खाते हैं, तथापि आप हमारी हानि के निमित्त बने हुए हैं। मैं पहले नहीं जानता था कि आप मधु में डुबोया हुआ छुरा मात्र हैं।
15यदि आपने मुझे पाण्डवों को परास्त करने का आश्वासन न दिया होता, तो मैं सिन्धुराज को अपने राज्य लौट जाने से कभी न रोकता।
16मूर्ख हूँ मैं, जो आपसे रक्षा पाने की आशा में सिन्धुराज को अभयदान दे बैठा; अब मैं देखता हूँ कि मैंने वस्तुतः उसे मृत्यु के सम्मुख बलि के रूप में अर्पित कर दिया है।
17मनुष्य के लिए मृत्यु के जबड़ों में जाकर भी बच निकलना सम्भव हो सकता है, किन्तु जयद्रथ के लिए बचने का रत्ती भर भी अवसर नहीं है, जब वह एक बार युद्ध में पार्थ की पहुँच के भीतर आ जाए।
18हे लाल अश्वोंवाले, आप ऐसा प्रबन्ध कीजिए जिससे सिन्धुराज अब भी बचाए जा सकें। शोक से पीड़ित होकर किए गए मेरे इस समस्त प्रलाप के लिए मुझ पर क्रोध न कीजिए। हाय! रक्षा कीजिए, सिन्धुराज की रक्षा कीजिए!
19द्रोण ने कहा — मैं तुम्हारे वचनों का बुरा नहीं मानता; तुम मेरे लिए स्वयं अश्वत्थामा के समान हो, यह मैं तुमसे सत्य कहता हूँ। हे नरेश्वर, अब तुम मेरी सलाह के अनुसार आचरण करो।
20कृष्ण समस्त सारथियों में श्रेष्ठ हैं और उनके घोड़े अपनी जाति में सबसे वेगवान् और सर्वोत्तम हैं। थोड़ा-सा भी अवकाश बनाकर धनञ्जय उसमें से अत्यन्त शीघ्रता से निकल जा सकते हैं।
21क्या तुम नहीं देखते कि किरीटधारी अर्जुन द्वारा अपने गाण्डीव धनुष से छोड़े गए असंख्य बाण, उनके आगे बढ़ते समय, उनके रथ से पूरे दो कोस पीछे तक गिर रहे हैं?
22अवस्था में बूढ़ा हो जाने के कारण मैं सचमुच इतनी शीघ्रता से आगे नहीं बढ़ सकता। इसके अतिरिक्त, वह देखो! क्या तुम्हें दिखाई नहीं देता कि पार्थों की समस्त सेना हमारे अग्रभाग पर आक्रमण कर रही है?
23युधिष्ठिर को भी समस्त धनुर्धरों के देखते-देखते मुझे ही बन्दी बनाना है। हे महाबाहु, समस्त क्षत्रिय योद्धाओं के बीच मैंने यही प्रतिज्ञा की है।
24हे राजन्, धनञ्जय द्वारा छोड़े जाने पर वे अब अपनी सेनाओं के अग्रभाग पर खड़े हैं। इन कारणों से मैं अपने व्यूह के अग्रभाग की उपेक्षा करके फाल्गुन से युद्ध करने नहीं जाऊँगा।
25तुम भली-भाँति सहायता पाकर स्वयं जाओ और अपने उस असहाय शत्रु से युद्ध करो, जो कुल की श्रेष्ठता में तथा पराक्रम के कार्यों में तुम्हारे समान है। भय मत करो! तुम इस संसार के स्वामी हो।
26तुम सम्राट् हो, वीर हो, यश से सम्पन्न हो और (अपने प्रतिद्वन्द्वियों को) परास्त करने में निपुण हो। हे शत्रुदुर्गों के पराक्रमी विजेता, इसलिए तुम रणभूमि के उस भाग की ओर शीघ्र जाओ जहाँ धनञ्जय हैं।
27दुर्योधन ने कहा — हे आचार्य, जो धनञ्जय शस्त्रधारियों में श्रेष्ठ स्वयं आपको भी लाँघकर निकल गए, उन्हें रोक पाना मेरे लिए कैसे सम्भव है?
28वज्रधारी पुरन्दर को युद्ध में जीतना मेरे लिए सम्भव हो सकता है, किन्तु शत्रुनगरियों के विजेता उन अर्जुन को जीतना मेरे लिए सम्भव नहीं —
29जिन्होंने हृदिकपुत्र भोजराज को तथा देवता के समान स्वयं आपको भी अपनी अस्त्रवर्षा से परास्त कर दिया, जिन्होंने श्रुतायु का वध किया —
30जिन्होंने सुदक्षिण तथा राजा श्रुतायुध का वध किया, और श्रुतायु तथा अच्युतायु और असंख्य म्लेच्छों का भी वध किया।
31समस्त प्रकार के अस्त्रों के प्रयोग में निपुण तथा साक्षात् सर्वसंहारक अग्नि के समान उन अजेय पाण्डुपुत्र से मैं कैसे भिड़ सकता हूँ?
32यह कैसे है कि आज आप मुझे उनसे युद्ध करने योग्य समझ रहे हैं? मैं पूर्णतया आप पर आश्रित हूँ और आपका दास हूँ; हाय! मेरे मान की रक्षा कीजिए!
33द्रोण ने कहा — हे कुरुवंश के श्रेष्ठ वंशज, तुम जो कुछ कहते हो वह सब सत्य है। सचमुच धनञ्जय पराजित होने योग्य नहीं हैं। किन्तु मैं स्वयं ऐसा उपाय करूँगा जिससे तुम उनका सामना कर सकोगे।
34इस संसार में बसनेवाले समस्त धनुर्धर आज यह अद्भुत दृश्य देख लें कि स्वयं वासुदेव के सम्मुख ही कुन्तीपुत्र तुम्हारे द्वारा रोक लिए गए।
35हे राजन्, तुम्हारा यह स्वर्णकवच मैं तुम पर इस प्रकार बाँधूँगा कि मनुष्यों के हाथों से छोड़े गए कोई भी अस्त्र युद्ध में तुम्हें बींध न सकेंगे।
36यदि असुरों, देवताओं, यक्षों, सर्पों और राक्षसों सहित तीनों लोक तथा समस्त मनुष्य भी आज तुमसे युद्ध करें, तो भी तुम्हें कोई भय करने की आवश्यकता नहीं।
37न कृष्ण, न कुन्तीपुत्र, न कोई अन्य शस्त्रधारी ही युद्ध में अपने बाणों से तुम्हारे इस कवच को बींध सकेगा।
38अतः इस स्वर्णकवच से आवृत होकर तुम स्वयं शीघ्रता से क्रुद्ध अर्जुन पर धावा करो; वे आज युद्ध में तुम्हें परास्त नहीं कर सकेंगे।
39सञ्जय ने कहा — इस प्रकार कहकर द्रोण ने शीघ्र ही जल से आचमन किया और फिर परम अद्भुत मन्त्रों का विधिपूर्वक उच्चारण करते हुए वह देदीप्यमान कवच दुर्योधन पर बाँध दिया।
40उस भयङ्कर युद्ध में वेदों के ज्ञाताओं में श्रेष्ठ वे आचार्य आपके पुत्र को विजय प्रदान करने तथा अपनी उत्तम विद्या से समस्त लोकों को विस्मित करने के इच्छुक थे।
41द्रोण ने कहा — हे भारत, समस्त वेद, ब्राह्मण, स्वयं ब्रह्मा तथा सर्प और अन्य उच्च कोटि के प्राणी तुम्हें आशीर्वाद दें!
42ययाति, नहुष, धुन्धुमार, भगीरथ तथा अन्य राजर्षि तुम्हारे समस्त कार्यों में तुम्हें आशीर्वाद दें!
43तुम्हें केवल एक पैरवाले तथा अनेक पैरोंवाले प्राणियों से आशीर्वाद प्राप्त हो! तुम्हें उनसे भी आशीर्वाद प्राप्त हो जिनके पैर बिलकुल नहीं होते!
44स्वाहा, स्वधा और शची तुम्हें सदा आशीर्वाद दें! हे निष्पाप, लक्ष्मी और अरुन्धती भी तुम्हारे लिए मङ्गलकामना करें!
45हे राजन्, असित, देवल, विश्वामित्र, अङ्गिरा, वसिष्ठ और कश्यप तुम्हें आशीर्वाद दें!
46धाता और विधाता, स्वर्ग की दिशाएँ और उनके दिक्पाल तथा षडानन कार्तिकेय — ये सब तुम्हारे लिए जो कुछ हितकारी है वही करें!
47यशस्वी विवस्वान् आज तुम्हें आशीर्वाद दें! दिशाओं की रक्षा करनेवाले चारों दिग्गज, पृथ्वी, आकाश, ग्रह —
48और हे राजन्, वे जो इस पृथ्वी के नीचे हैं और जो सदा इसे धारण किए रहते हैं, अर्थात् सर्पों में श्रेष्ठ शेष — ये सब तुम्हारे लिए जो हितकारी हो वही करें!
49हे गान्धारीपुत्र, बीते हुए दिनों में वृत्र नामक असुर ने युद्ध में अपना बल दिखाकर देवताओं में श्रेष्ठ को युद्ध में परास्त कर दिया था।
50तब इन्द्र को आगे किए हुए स्वर्ग के वे समस्त निवासी, अपने तेज और पराक्रम से रहित होकर, महाबली असुर वृत्र से अत्यन्त भयभीत हो ब्रह्मा की शरण में गए।
51देवताओं ने कहा — हे देवताओं में श्रेष्ठ, हे देवश्रेष्ठ, असुर वृत्र द्वारा कुचले गए इन देवताओं के अब आप ही रक्षक बनिए। हमें इस महान् भय से बचाइए।
52द्रोण ने आगे कहा — तब ब्रह्मा ने अपने पास खड़े विष्णु को तथा इन्द्र को आगे किए हुए अन्य श्रेष्ठ देवताओं को सम्बोधित करके उन खिन्न देवताओं से ये वचन कहे, जो सर्वथा सत्य थे।
53इन्द्र को आगे किए हुए देवता तथा ब्राह्मणवर्ग सदा मेरी रक्षा के पात्र हैं। किन्तु त्वष्टा का वह तेज, जिससे वृत्र की उत्पत्ति हुई है, सचमुच अदम्य है।
54हे देवताओ, बीते हुए दिनों में लाखों वर्षों तक तपस्या करके त्वष्टा ने महादेव से इसकी अनुमति प्राप्त करके वृत्र की सृष्टि की थी।
55इसलिए हमारे उस महान् तेज ने उन्हीं देव की कृपा से तुम्हें परास्त करने में सफलता पाई है। जहाँ शङ्कर निवास करते हैं, वहाँ गए बिना तुम उनके दर्शन की आशा नहीं कर सकते।
56उन देव के दर्शन कर लेने पर तुम वृत्र को जीत सकोगे। इसलिए मन्दराचल पर्वत पर जाओ; वहीं तपस्या के वे उद्गम, दक्ष के यज्ञ के विध्वंसक निवास करते हैं —
57वे पिनाकधारी, समस्त प्राणियों के स्वामी, असुरों के संहारक, वे भगनेत्रहर। तब ब्रह्मा सहित वे समस्त देवता मन्दराचल पर्वत की ओर चल पड़े।
58और वहाँ उन्होंने तेज के उस पुञ्ज के दर्शन किए, जो कान्ति में दस लाख सूर्यों के समान थे। (देवताओं को आया देखकर) महादेव ने कहा — "हे देवताओ, तुम्हारा कल्याण हो! कहो, मैं तुम्हारे लिए क्या करूँ!
59मेरा दर्शन निष्फल नहीं हो सकता। अतः इसी से तुम्हारी कामनाओं की सिद्धि हो!" इस प्रकार कहे जाने पर स्वर्ग के उन समस्त निवासियों ने (कहा) —
60हमारा समस्त तेज वृत्र ने हर लिया है। हम स्वर्गवासियों के आप ही रक्षक बनिए। हे देव, असुर द्वारा किए गए घावों से क्षत-विक्षत और विकृत हमारे शरीरों को देखिए। हम आपसे रक्षा की याचना करते हैं; हे देवाधिदेव, आप ही हमारे आश्रय बनिए।
61शर्व ने कहा — हे देवताओ, तुम सबको भली-भाँति ज्ञात है कि बल से भरा हुआ, भयङ्कर तथा तपोबल से रहित पुरुषों द्वारा रोके जाने में असम्भव यह असुर त्वष्टा के तेज से उत्पन्न होकर कैसे अस्तित्व में आया।
62निश्चय ही स्वर्गवासियों की रक्षा करना मेरा कर्तव्य है। हे शक्र, मेरे शरीर से यह देदीप्यमान कवच उतार लो; और हे देवराज, इन मन्त्रों का उच्चारण करते हुए इसे धारण करो।
63हे देवेश्वर! जैसा पुरुषों ने बताया है वैसे ही मानसिक जप द्वारा स्तोत्र का पाठ करते हुए इसे अपने शरीर पर बाँधो। तब तुम देवताओं के शत्रु उस दानवराज वृत्र का वध करने में समर्थ हो जाओगे।
64द्रोण ने आगे कहा — इस प्रकार कहकर उन वरदाता ने वह कवच तथा आवश्यक मन्त्र इन्द्र को दिए। उस कवच से आवृत होकर इन्द्र ने तब वृत्र की सेना पर आक्रमण किया।
65यद्यपि उस भयङ्कर युद्ध में उन पर नाना प्रकार के असंख्य अस्त्र फेंके गए, तथापि वे उस कवच की सन्धियों को न तो ढीला कर सके और न भेद ही सके।
66तब देवराज ने युद्ध में वृत्र का वध किया और उसके पश्चात् वह कवच, जिसकी सन्धियाँ मन्त्रों से बनी थीं, अङ्गिरा को दे दिया।
67अङ्गिरा ने फिर वे मन्त्र समस्त मन्त्रों के ज्ञाता अपने पुत्र बृहस्पति को दिए। बृहस्पति ने आगे उन्हें बुद्धिमान् अग्निवेश्य को प्रदान किया।
68अग्निवेश्य ने वे मुझे दिए; और अब हे राजाओं में श्रेष्ठ, उन्हीं मन्त्रों की सहायता से मैंने यह कवच तुम पर बाँध दिया है, जिससे तुम्हारे शरीर की समस्त शस्त्र-आघातों से रक्षा हो।
69सञ्जय ने कहा — इस प्रकार कहकर आचार्यों में श्रेष्ठ द्रोण ने पुनः आपके पुत्र को सम्बोधित किया —
70"हे नरेश्वर, मैं ब्रह्मसूत्रों से इसके भागों को जोड़ते हुए यह कवच तुम्हारे शरीर पर धारण कराता हूँ। इसी प्रकार स्वर्णकमल से उत्पन्न ब्रह्मा ने इसे विष्णु पर धारण कराया था।
71मैं इसे तुम पर ठीक उसी रीति से धारण कराता हूँ जिस रीति से स्वयं ब्रह्मा ने तारका के हरण से उत्पन्न उस युद्ध के समय दिव्य निर्माण का यह कवच इन्द्र पर धारण कराया था।"
72इस प्रकार विधिपूर्वक मन्त्रों से उस कवच को दुर्योधन पर बाँधकर द्विजश्रेष्ठ द्रोण ने राजा को उस महासंग्राम की ओर भेज दिया।
73तब यशस्वी आचार्य द्वारा सुसज्जित किए गए वे महाबाहु राजा त्रिगर्त देश के एक सहस्र रथियों द्वारा समर्थित होकर, जो सब प्रहार करने में निपुण थे, (आगे बढ़े)।
74तथा महान् बल से सम्पन्न एक सहस्र मदमत्त हाथियों, एक लाख घोड़ों और असंख्य अन्य महारथियों द्वारा भी समर्थित होकर —
75वे अर्जुन के रथ की ओर बढ़े। तब वे नाना प्रकार के वाद्ययन्त्रों की ध्वनि के साथ आगे बढ़े, ठीक वैसे ही जैसे (प्राचीन काल में) विरोचन के पुत्र (बलि) बढ़े थे।
76तब हे भारत, कुरुराज को अथाह समुद्र के समान आगे बढ़ते देखकर आपकी सेनाओं ने महान् कोलाहल किया।
Nepali
1सञ्जयले भने — जब कुन्तीपुत्र सिन्धुराजको वधको इच्छाले द्रोण तथा भोजराजको अजेय सेनालाई भेदेर भरतहरूको सेनामा पसे —
2अनि हे राजन्, जब काम्बोजराजका उत्तराधिकारी राजकुमार सुदक्षिण तथा बलवान् श्रुतायुध पनि सव्यसाचीद्वारा मारिइसके —
3जब तपाईंको सेनाका टुकडीहरू भाँचिएर सबै दिशामा छरपस्ट भए, तब आफ्नो सेनालाई छिन्नभिन्न देखेर तपाईंका पुत्र हतारिँदै द्रोणकहाँ गए।
4एउटै रथमा हतारिँदै सवार भई उनी द्रोणकहाँ पुगे र उनलाई सम्बोधन गरेर भने — "पुरुषहरूमा श्रेष्ठ ती अर्जुनले यो विशाल सेनालाई पूर्ण रूपमा कुल्चेर पहिले नै यसलाई पार गरिसकेका छन्।
5अब यस भयङ्कर संहारलाई ध्यानमा राख्दै आफ्नो बुद्धिले निश्चय गर्नुहोस् कि अर्जुनको वधका लागि अब उप्रान्त के गरिनुपर्छ।
6तपाईं यस्तो प्रबन्ध गर्नुहोस् जसबाट ती पुरुषश्रेष्ठले जयद्रथको वध गर्न नसकून्। तपाईंको कल्याण होस्। तपाईं नै हाम्रो एकमात्र रक्षक हुनुहुन्छ।
7जसरी प्रचण्ड आगोले सुक्खा घाँस र दाउराको थुप्रो भस्म पार्दछ, त्यसरी नै आफ्नो क्रोधको वायुले प्रेरित यो धनञ्जयरूपी आगोले मेरा सेनाबाट बनेको घाँस र दाउरा भस्म पारिरहेको छ।
8हे शत्रुतापन, यो समाचार पाएर कि कुन्तीपुत्र सेनालाई भेदेर पार निस्केका छन्, जयद्रथको रक्षामा नियुक्त योद्धाहरू चिन्ताले ग्रस्त भइरहेका छन्।
9हे राजाहरूका ज्ञाताहरूमा श्रेष्ठ, (तपाईंले भन्नुभएको थियो कि) ती धनञ्जय द्रोणलाई नाघेर कहिल्यै जीवित निस्कन सक्नेछैनन्।
10हे प्रज्वलित तेज भएका, जब पृथापुत्र तपाईंकै आँखाअगाडि तपाईंको सेना भेद्न सफल भए, तब म आफ्ना सम्पूर्ण सेनालाई महान् विपत्तिमा फसेको ठान्दछु। साँच्चै म ठान्दछु कि ममाथि अब कुनै सेना नै छैन।
11हे यशस्वी, म जान्दछु कि तपाईं पाण्डवहरूको हितमा लाग्नुभएको छ; त्यसैले हे ब्राह्मण, यो सोच्दासोच्दै मेरो बुद्धिले काम गरिरहेको छैन कि अब मैले के गर्नुपर्छ।
12हे ब्राह्मण, म आफ्नो सामर्थ्यअनुसार तपाईंसँग राम्रो व्यवहार गर्ने प्रयत्न गर्दछु। तपाईंलाई सन्तुष्ट पार्नका लागि पनि म आफ्नो पूरा शक्तिले चेष्टा गर्दछु; तैपनि तपाईंले यी सबै कुराको कुनै मूल्य नमानेजस्तो देखिन्छ।
13हे अनन्त पराक्रम भएका, यद्यपि हामी सधैँ तपाईंप्रति समर्पित छौँ, तथापि तपाईं हाम्रो भलो चाहनुहुन्न; तर तपाईं सधैँ ती पाण्डवहरूसँग सन्तुष्ट रहनुहुन्छ जो हामीलाई हानि पुर्याउनमा लागिरहेका छन्।
14यद्यपि तपाईं हाम्रो अन्न खानुहुन्छ, तथापि तपाईं हाम्रो हानिको निमित्त बन्नुभएको छ। म पहिले जान्दिनथेँ कि तपाईं महमा चोपिएको छुराबाहेक अरू केही होइन।
15यदि तपाईंले मलाई पाण्डवहरूलाई परास्त गर्ने आश्वासन नदिनुभएको भए, म सिन्धुराजलाई आफ्नो राज्य फर्कनबाट कहिल्यै रोक्दिनथेँ।
16मूर्ख छु म, जसले तपाईंबाट रक्षा पाउने आशामा सिन्धुराजलाई अभयदान दिएँ; अब म देख्दछु कि मैले वास्तवमा उसलाई मृत्युको सामु बलिका रूपमा अर्पण गरिदिएको छु।
17मानिसका लागि मृत्युको बङ्गारामा गएर पनि बाँच्न सम्भव होला, तर जयद्रथका लागि बाँच्ने रत्तिभर पनि अवसर छैन, जब ऊ एक पटक युद्धमा पार्थको पहुँचभित्र आइपुग्छ।
18हे रातो अश्व भएका, तपाईं यस्तो प्रबन्ध गर्नुहोस् जसबाट सिन्धुराज अझै बचाउन सकियोस्। शोकले पीडित भई गरिएको मेरो यो सम्पूर्ण प्रलापका लागि मप्रति क्रोध नगर्नुहोस्। हाय! रक्षा गर्नुहोस्, सिन्धुराजको रक्षा गर्नुहोस्!
19द्रोणले भने — म तिम्रा वचनको नराम्रो मान्दिनँ; तिमी मेरा लागि स्वयं अश्वत्थामासमान हौ, यो म तिमीलाई साँचो भन्दछु। हे नरेश्वर, अब तिमी मेरो सल्लाहअनुसार आचरण गर।
20कृष्ण सम्पूर्ण सारथिहरूमा श्रेष्ठ छन् र उनका घोडा आफ्नो जातिमा सबैभन्दा वेगवान् र सर्वोत्तम छन्। थोरै मात्र अवकाश बनाएर धनञ्जय त्यसैबाट अत्यन्त चाँडो निस्कन सक्दछन्।
21के तिमी देख्दैनौ कि किरीटधारी अर्जुनले आफ्नो गाण्डीव धनुबाट छाडेका असङ्ख्य बाण, उनी अगाडि बढ्दा, उनको रथभन्दा पूरा दुई कोस पछाडिसम्म खसिरहेका छन्?
22उमेरले बूढो भइसकेकाले म साँच्चै त्यति चाँडो अगाडि बढ्न सक्दिनँ। यसबाहेक, त्यो हेर! के तिमीलाई देखिँदैन कि पार्थहरूको सम्पूर्ण सेनाले हाम्रो अग्रभागमाथि आक्रमण गरिरहेको छ?
23युधिष्ठिरलाई पनि सम्पूर्ण धनुर्धरहरूले हेर्दाहेर्दै मैले नै बन्दी बनाउनुछ। हे महाबाहु, सम्पूर्ण क्षत्रिय योद्धाहरूका बीचमा मैले यही प्रतिज्ञा गरेको छु।
24हे राजन्, धनञ्जयद्वारा छाडिएपछि उनी अब आफ्ना सेनाहरूको अग्रभागमा उभिएका छन्। यी कारणले म आफ्नो व्यूहको अग्रभागको उपेक्षा गरेर फाल्गुनसँग युद्ध गर्न जानेछैनँ।
25तिमी राम्ररी सहायता पाएर आफैँ जाऊ र आफ्नो त्यस असहाय शत्रुसँग युद्ध गर, जो कुलको श्रेष्ठतामा तथा पराक्रमका कार्यमा तिम्रो समान छ। डर नमान! तिमी यस संसारका स्वामी हौ।
26तिमी सम्राट् हौ, वीर हौ, यशले सम्पन्न छौ र (आफ्ना प्रतिद्वन्द्वीहरूलाई) परास्त गर्नमा निपुण छौ। हे शत्रुदुर्गका पराक्रमी विजेता, त्यसैले तिमी रणभूमिको त्यस भागतिर चाँडै जाऊ जहाँ धनञ्जय छन्।
27दुर्योधनले भने — हे आचार्य, जुन धनञ्जय शस्त्रधारीहरूमा श्रेष्ठ स्वयं तपाईंलाई पनि नाघेर निस्किए, उनलाई रोक्न मेरा लागि कसरी सम्भव छ?
28वज्रधारी पुरन्दरलाई युद्धमा जित्न मेरा लागि सम्भव होला, तर शत्रुनगरीहरूका विजेता ती अर्जुनलाई जित्न मेरा लागि सम्भव छैन —
29जसले हृदिकपुत्र भोजराजलाई तथा देवतासमान स्वयं तपाईंलाई पनि आफ्नो अस्त्रवर्षाले परास्त गरिदिए, जसले श्रुतायुको वध गरे —
30जसले सुदक्षिण तथा राजा श्रुतायुधको वध गरे, र श्रुतायु तथा अच्युतायु र असङ्ख्य म्लेच्छहरूको पनि वध गरे।
31सम्पूर्ण प्रकारका अस्त्रको प्रयोगमा निपुण तथा साक्षात् सर्वसंहारक आगोझैँ ती अजेय पाण्डुपुत्रसँग म कसरी भिड्न सक्छु?
32यो कसरी हो कि आज तपाईं मलाई उनीसँग युद्ध गर्न योग्य ठान्नुहुन्छ? म पूर्ण रूपमा तपाईंमाथि आश्रित छु र तपाईंको दास हुँ; हाय! मेरो मानको रक्षा गर्नुहोस्!
33द्रोणले भने — हे कुरुवंशका श्रेष्ठ वंशज, तिमी जे भन्दछौ त्यो सबै सत्य हो। साँच्चै धनञ्जय पराजित हुन योग्य छैनन्। तर म स्वयं यस्तो उपाय गर्नेछु जसबाट तिमीले उनको सामना गर्न सक्नेछौ।
34यस संसारमा बस्ने सम्पूर्ण धनुर्धरहरूले आज यो अद्भुत दृश्य देखून् कि स्वयं वासुदेवकै सामु कुन्तीपुत्र तिमीद्वारा रोकिए।
35हे राजन्, तिम्रो यो सुनको कवच म तिमीमाथि यसरी बाँध्नेछु कि मानिसका हातबाट छाडिएका कुनै पनि अस्त्रले युद्धमा तिमीलाई बिँध्न सक्नेछैनन्।
36यदि असुर, देवता, यक्ष, सर्प र राक्षससहित तीनै लोक तथा सम्पूर्ण मानिसले पनि आज तिमीसँग युद्ध गरून्, तैपनि तिमीले कुनै डर मान्नु आवश्यक छैन।
37न कृष्ण, न कुन्तीपुत्र, न कुनै अरू शस्त्रधारीले नै युद्धमा आफ्ना बाणले तिम्रो यो कवच बिँध्न सक्नेछ।
38त्यसैले यस सुनको कवचले ढाकिएर तिमी आफैँ हतारिँदै क्रुद्ध अर्जुनमाथि आक्रमण गर; उनले आज युद्धमा तिमीलाई परास्त गर्न सक्नेछैनन्।
39सञ्जयले भने — यसरी भनेर द्रोणले चाँडै नै जलले आचमन गरे र फेरि परम अद्भुत मन्त्रहरूको विधिपूर्वक उच्चारण गर्दै त्यो देदीप्यमान कवच दुर्योधनमाथि बाँधिदिए।
40त्यस भयङ्कर युद्धमा वेदका ज्ञाताहरूमा श्रेष्ठ ती आचार्य तपाईंका पुत्रलाई विजय प्रदान गर्न तथा आफ्नो उत्तम विद्याले सम्पूर्ण लोकलाई विस्मित पार्न इच्छुक थिए।
41द्रोणले भने — हे भारत, सम्पूर्ण वेद, ब्राह्मण, स्वयं ब्रह्मा तथा सर्प र अरू उच्च कोटिका प्राणीहरूले तिमीलाई आशीर्वाद देऊन्!
42ययाति, नहुष, धुन्धुमार, भगीरथ तथा अरू राजर्षिहरूले तिम्रा सम्पूर्ण कार्यमा तिमीलाई आशीर्वाद देऊन्!
43तिमीले केवल एक खुट्टा भएका तथा अनेक खुट्टा भएका प्राणीहरूबाट आशीर्वाद पाऊ! तिमीले तिनीहरूबाट पनि आशीर्वाद पाऊ जसका खुट्टा नै हुँदैनन्!
44स्वाहा, स्वधा र शचीले तिमीलाई सधैँ आशीर्वाद देऊन्! हे निष्पाप, लक्ष्मी र अरुन्धतीले पनि तिम्रा लागि मङ्गलकामना गरून्!
45हे राजन्, असित, देवल, विश्वामित्र, अङ्गिरा, वसिष्ठ र कश्यपले तिमीलाई आशीर्वाद देऊन्!
46धाता र विधाता, स्वर्गका दिशाहरू र तिनका दिक्पाल तथा षडानन कार्तिकेय — यी सबैले तिम्रा लागि जे-जे हितकारी छ त्यही गरून्!
47यशस्वी विवस्वान्ले आज तिमीलाई आशीर्वाद देऊन्! दिशाहरूको रक्षा गर्ने चारै दिग्गज, पृथ्वी, आकाश, ग्रहहरू —
48अनि हे राजन्, ती जो यस पृथ्वीको तल छन् र जसले सधैँ यसलाई धारण गरिरहेका छन्, अर्थात् सर्पहरूमा श्रेष्ठ शेष — यी सबैले तिम्रा लागि जे हितकारी छ त्यही गरून्!
49हे गान्धारीपुत्र, बितेका दिनहरूमा वृत्र नाउँका असुरले युद्धमा आफ्नो बल देखाएर देवताहरूमा श्रेष्ठलाई युद्धमा परास्त गरेका थिए।
50तब इन्द्रलाई अगाडि राखेका स्वर्गका ती सम्पूर्ण निवासी, आफ्नो तेज र पराक्रमविहीन भई, महाबली असुर वृत्रसँग अत्यन्त भयभीत भई ब्रह्माको शरणमा गए।
51देवताहरूले भने — हे देवताहरूमा श्रेष्ठ, हे देवश्रेष्ठ, असुर वृत्रद्वारा कुल्चिइएका यी देवताहरूका अब तपाईं नै रक्षक बन्नुहोस्। हामीलाई यस महान् भयबाट बचाउनुहोस्।
52द्रोणले अगाडि भने — तब ब्रह्माले आफ्नो छेउमा उभिएका विष्णुलाई तथा इन्द्रलाई अगाडि राखेका अरू श्रेष्ठ देवताहरूलाई सम्बोधन गरेर ती खिन्न देवताहरूसँग यी वचन भने, जो सर्वथा सत्य थिए।
53इन्द्रलाई अगाडि राखेका देवता तथा ब्राह्मणवर्ग सधैँ मेरो रक्षाका पात्र हुन्। तर त्वष्टाको त्यो तेज, जसबाट वृत्रको उत्पत्ति भएको हो, साँच्चै अदम्य छ।
54हे देवताहरू, बितेका दिनहरूमा लाखौँ वर्षसम्म तपस्या गरेर त्वष्टाले महादेवबाट यसको अनुमति प्राप्त गरेर वृत्रको सृष्टि गरेका थिए।
55त्यसैले हाम्रो त्यस महान् तेजले उनै देवको कृपाले तिमीहरूलाई परास्त गर्नमा सफलता पाएको छ। जहाँ शङ्कर बस्दछन्, त्यहाँ नगई तिमीहरूले उनको दर्शनको आशा गर्न सक्दैनौ।
56ती देवको दर्शन गरेपछि तिमीहरूले वृत्रलाई जित्न सक्नेछौ। त्यसैले मन्दराचल पर्वतमा जाऊ; त्यहीँ तपस्याका ती उद्गम, दक्षको यज्ञका विध्वंसक बस्दछन् —
57ती पिनाकधारी, सम्पूर्ण प्राणीका स्वामी, असुरहरूका संहारक, ती भगनेत्रहर। तब ब्रह्मासहित ती सम्पूर्ण देवता मन्दराचल पर्वततिर हिँडे।
58अनि त्यहाँ उनीहरूले तेजको त्यस पुञ्जको दर्शन गरे, जो कान्तिमा दस लाख सूर्यसमान थिए। (देवताहरूलाई आएको देखेर) महादेवले भने — "हे देवताहरू, तिमीहरूको कल्याण होस्! भन, म तिमीहरूका लागि के गरूँ!
59मेरो दर्शन निष्फल हुन सक्दैन। त्यसैले यसैबाट तिमीहरूका कामनाको सिद्धि होस्!" यसरी भनिएपछि स्वर्गका ती सम्पूर्ण निवासीले (भने) —
60हाम्रो सम्पूर्ण तेज वृत्रले हरण गरेको छ। हामी स्वर्गवासीहरूका तपाईं नै रक्षक बन्नुहोस्। हे देव, असुरद्वारा गरिएका घाउले क्षतविक्षत र विकृत हाम्रा शरीर हेर्नुहोस्। हामी तपाईंसँग रक्षाको याचना गर्दछौँ; हे देवाधिदेव, तपाईं नै हाम्रो आश्रय बन्नुहोस्।
61शर्वले भने — हे देवताहरू, तिमी सबैलाई राम्ररी ज्ञात छ कि बलले भरिएको, भयङ्कर तथा तपोबलविहीन पुरुषहरूद्वारा रोक्न असम्भव यो असुर त्वष्टाको तेजबाट उत्पन्न भई कसरी अस्तित्वमा आयो।
62निश्चय नै स्वर्गवासीहरूको रक्षा गर्नु मेरो कर्तव्य हो। हे शक्र, मेरो शरीरबाट यो देदीप्यमान कवच उतार; अनि हे देवराज, यी मन्त्रको उच्चारण गर्दै यसलाई धारण गर।
63हे देवेश्वर! जस्तो पुरुषहरूले बताएका छन् त्यसै गरी मानसिक जपद्वारा स्तोत्रको पाठ गर्दै यसलाई आफ्नो शरीरमा बाँध। तब तिमी देवताहरूका शत्रु त्यस दानवराज वृत्रको वध गर्न समर्थ हुनेछौ।
64द्रोणले अगाडि भने — यसरी भनेर ती वरदाताले त्यो कवच तथा आवश्यक मन्त्र इन्द्रलाई दिए। त्यस कवचले ढाकिएर इन्द्रले तब वृत्रको सेनामाथि आक्रमण गरे।
65यद्यपि त्यस भयङ्कर युद्धमा उनीमाथि नाना प्रकारका असङ्ख्य अस्त्र फ्याँकिए, तथापि तिनले त्यस कवचका सन्धिलाई न त खुकुलो पार्न सके, न भेद्न नै सके।
66तब देवराजले युद्धमा वृत्रको वध गरे र त्यसपछि त्यो कवच, जसका सन्धि मन्त्रले बनेका थिए, अङ्गिरालाई दिए।
67अङ्गिराले फेरि ती मन्त्र सम्पूर्ण मन्त्रका ज्ञाता आफ्ना पुत्र बृहस्पतिलाई दिए। बृहस्पतिले उप्रान्त तिनलाई बुद्धिमान् अग्निवेश्यलाई प्रदान गरे।
68अग्निवेश्यले ती मलाई दिए; अनि अब हे राजाहरूमा श्रेष्ठ, तिनै मन्त्रको सहायताले मैले यो कवच तिमीमाथि बाँधिदिएको छु, जसबाट तिम्रो शरीरको सम्पूर्ण शस्त्र-आघातबाट रक्षा होस्।
69सञ्जयले भने — यसरी भनेर आचार्यहरूमा श्रेष्ठ द्रोणले पुनः तपाईंका पुत्रलाई सम्बोधन गरे —
70"हे नरेश्वर, म ब्रह्मसूत्रले यसका भागहरू जोड्दै यो कवच तिम्रो शरीरमा धारण गराउँदछु। यसै गरी सुनको कमलबाट उत्पन्न ब्रह्माले यसलाई विष्णुमाथि धारण गराएका थिए।
71म यसलाई तिमीमाथि ठीक त्यसै रीतिले धारण गराउँदछु जुन रीतिले स्वयं ब्रह्माले तारकाको हरणबाट उत्पन्न त्यस युद्धका बेला दिव्य निर्माणको यो कवच इन्द्रमाथि धारण गराएका थिए।"
72यसरी विधिपूर्वक मन्त्रले त्यो कवच दुर्योधनमाथि बाँधेर द्विजश्रेष्ठ द्रोणले राजालाई त्यस महासङ्ग्रामतिर पठाइदिए।
73तब यशस्वी आचार्यद्वारा सुसज्जित पारिएका ती महाबाहु राजा त्रिगर्त देशका एक हजार रथीहरूद्वारा समर्थित भई, जो सबै प्रहार गर्नमा निपुण थिए, (अगाडि बढे)।
74तथा महान् बलले सम्पन्न एक हजार मदमत्त हात्ती, एक लाख घोडा र असङ्ख्य अरू महारथीहरूद्वारा पनि समर्थित भई —
75उनी अर्जुनको रथतिर बढे। तब उनी नाना प्रकारका वाद्ययन्त्रको ध्वनिसहित अगाडि बढे, ठीक त्यसै गरी जसरी (प्राचीन कालमा) विरोचनका पुत्र (बलि) बढेका थिए।
76तब हे भारत, कुरुराजलाई अथाह समुद्रझैँ अगाडि बढिरहेको देखेर तपाईंका सेनाहरूले ठूलो कोलाहल गरे।