Ghatotkacha-Vadha Parva — The address of Duryodhana
Volume V — Drona Parva · Chapter 159
Sanskrit
1संजय उवाच तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम्। खङ्गमुद्यम्य वेगेन द्रौणिरभ्यपतद् द्रुतम्॥
2ततः परमसंक्रुद्धः सिंहो मत्तमिव द्विपम्। प्रेक्षतः कुरुराजस्य द्रौणिः कर्णं समभ्ययात्॥
3अश्वत्थामोवाच यदर्जुनगुणांस्तथ्यान् कीर्तयानं नराधम। शूरं द्वेषात् सुदुर्बुद्धे त्वं भर्ल्सयसि मातुलम्॥
4विकत्थमानः शौर्येण सर्वलोकधनुर्धरम्। दर्पोत्सेधगृहीतोऽद्य न कश्चिद् गणयन् मृधे॥
5व ते वीय क चास्त्राणि यत्त्वां निर्जित्य संयुगे। गाण्डीवधन्वा हतवान् प्रेक्षतस्ते जयद्रथम्॥
6येन साक्षान्महादेवो योधितः समरे पुरा। तमिच्छसि वृथा जेतुं सूताधम मनोरथैः॥
7यं हि कृष्णेन सहितं सर्वशस्त्रभृतां वरम्। जेतुं न शक्ताः सहिताः सेन्द्रा अपि सुरासुराः॥
8लोकैकवीरमजितमर्जुनं सूत संयुगे। किं पुनस्त्वं सुदुर्बुद्धे सहैभिर्वसुधाधिपः॥
9कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानी नराधमा एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते॥
10संजय उवाच तमुद्यतं तु वेगेन राजा दुर्योधनः स्वयम्। न्यवारयन्महातेजाः कृपश्च द्विपदां वरः॥
11कर्ण उवाच शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः। आसादयतु मद्वीर्यं मुञ्चेम कुरुसत्तम॥
12अश्वत्थामोवाच तवैतत् क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते। दर्पमुस्क्तिमेतत् ते फाल्गुनो नाशयिष्यति॥
13दुर्योधन उवाच अश्वत्थामन् प्रसीदस्व क्षन्तुमर्हसि मानद। कोपः खलु न कर्तव्यः सूतपुत्रं कथंचन॥
14त्वयि कर्णे कृपि द्रोणे मद्रराजेऽथ सौबले। महत् कार्यं समासक्तं प्रसीद द्विजसत्तम॥
15एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः। आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः॥
16संजय उवाच प्रसाद्यमानस्तु तनो राज्ञा द्रौणिर्महामनाः। प्रससाद महाराज क्रोधवेगसमन्वितः॥
17तत: कृपोऽप्युवाचेदमाचार्य:सुमहामनाः। सौम्यस्वभावाद् राजेन्द्र क्षिप्रमागतमार्दवः॥
18कृप उवाच तवैतत् क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते। दर्पमुत्सितमेतत् ते फाल्गुनो नाशयिष्यति॥
19संजय उवाच ततस्ते पाण्डवा राजन् पञ्चालाश्च यशस्विनः। आजग्मुः सहिताः कर्णं तर्जयन्तः समन्ततः॥
20कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान्। कौरवाग्रयैः परिवृतः शक्रो देवगणैरिव॥ पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः। ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः॥
21भीषणं सुमहाराज सिंहनादविराजितम्। ततस्ते पाण्डवा राजन् पञ्चालाश्च यशस्विनः॥
22दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन्। अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे॥
23युध्यस्व सहितोऽस्माभिर्दुरात्मन् पुरुषाधम। अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाऽब्रुवन्॥
24हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः। सर्वैः पार्थिवशार्दूलै नेनार्थोऽस्ति जीवता॥
25अत्यन्तवैरी पार्थानां सततं पापपुरुषः। एष मूलमनर्थानां दुर्योधनमते स्थितः॥
26नतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन्। महता शरवर्षेण च्छादयन्तो महारथाः॥ वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः। तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान् महारथान्॥
27न विव्यथे सूतपुत्रो न च त्रासमगच्छत। दृष्ट्वा संहारकल्पं तमुद्भूतं सैन्यसागरम्॥
28पिप्रीषुस्तव पुत्राणां संग्रामेष्वपराजितः। सायकौघेन बलवान् क्षिप्रकारी महाबलः॥
29वारयामास तत् सैन्यं समन्ताद् भरतर्षभ। ततस्तु शरवर्षेण पार्थिवास्तमवारयन्॥
30धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः। अयोधयन्त राधेयं शक्रं दैत्यगणा इव॥
31शरवर्षं तु तत् कर्णः पार्थिवैः समुदीरितम्। शरवर्षेण महता समन्ताद् व्यकिरत् प्रभो॥
32तद् युद्धमभवत् तेषां कृतप्रतिकृतैषिणाम्। यथा देवासुरे युद्धे शक्रस्य सह दानवैः॥
33तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम्। यदेनं सर्वतो यत्ता नाप्नुवन्ति परे युधि॥
34निवार्य च शरौघांस्तान् पार्थिवानां महारथः। युगेष्वीपासु च्छत्रेषु ध्वजेषु च हयेषु च॥ आत्मनामाङ्कितान् घोरान् राधेयः प्राहिणोच्छरान्।
35ततस्ते व्याकुलीभूताः राजानः कर्णपीडिताः॥ बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव। हयानां वध्यमानानां गजानां रथिनां तथा॥ तत्र तत्राभ्यवेक्षाम संघान् कर्णेन ताडितान्। शिरोभिः पतितै राजन् बाहुभिश्च समन्ततः॥ आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम्। हतैश्च हन्यमानैश्च निष्टनदिश्च सर्वशः॥
36बभूवायोधनं रौद्रं वैवस्वतपुरोपमम्। ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम्॥
37अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह। युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः॥
38पश्यैतां द्रवती सेनां कर्णसायकपीडिताम्। कार्तिकेयेन विध्वस्तामासुरी पृतनामिव॥
39दृष्वैतां निर्जितां सेनां रणे कर्णेन धीमता। अभियात्येष बीभत्सुः सूतपुत्रजिघांसया॥
40तद् यथा प्रेक्षमाणानां सूतपुत्रं महारथम्। न हन्यात् पाण्डव: संख्ये तथा नीतिर्विधीयताम्॥
41ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः। प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया॥
42आयान्तं वीक्ष्य कौन्तेयं शक्रं दैत्यचमूमिव। बीभत्सुरपि राजेन्द्र पञ्चालैरभिसंवृतः॥ प्रत्युद्ययौ तदा कर्णं यथा वृत्रं शतक्रतुः ।
43धृतराष्ट्र उवाच संरब्धं फाल्गुनं दृष्ट्वा कालान्तकयमोपमम्॥ कर्णो वैकर्तनः सूत प्रत्यपद्यत् किमुत्तरम्।
44यो ह्यस्पर्धत पार्थेन नित्यमेव महारथः॥ आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणम्।
45स तु त सहसा प्राप्तं नित्यमत्यन्तवैरिणम्॥ कर्णो वैकर्तनः सूत किमुत्तरमपद्यत।
46संजय उवाच आयान्तं पाण्डवं दृष्ट्वा गजं प्रतिगजो यथा॥ असम्भ्रान्तो रणे कर्णः प्रत्युदीयाद् धनंजयम्।
47तमापतन्तं वेगेन वैकर्तनमजिह्मगैः॥ छादयामास पार्थोऽथ कर्णस्तु विजयं शरैः।
48स कर्ण शरजालेन च्छादयामास पाण्डवः॥ ततः कर्णः सुसंरब्धः शरैसिभिरविध्यत।
49तस्य तल्लाघवं पार्थो नामृष्यत महाबलः॥ तस्मै बाणाशिलाधौतान् प्रसन्नाग्रानजिह्मगान्। प्राहिणोत् सूतपुत्राय त्रिशतं शत्रुतापनः॥ विव्याध चैन संरब्धो बाणेनैकेन वीर्यवान्। सव्ये भुजाग्रे बलवान् नाराचेन हसन्निव॥
50तस्य विद्धस्य बाणेन कराच्चापं पपात ह। पुनरादाय तचापं निमेषार्धान्महाबलः॥ छादयामास बाणौघैः फाल्गुनं कृतहस्तवत्।
51शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत॥ व्यधमच्छरवर्षेण सम्पन्निव धनंजयः।
52तौ परस्परमासाद्य शरवर्षेण पार्थिव॥ छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ।
53तदद्भुतं महद् युद्धं कर्णपाण्डवयोर्मधे॥ क्रुद्धयोर्वासिताहेतोर्वन्ययोर्गजयोरिव।
54ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम्॥ मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः।
55अश्वांश्च चतुरो भल्लैरनयद् यमसादनम्॥ सारथेच शिरः कायादहरच्छत्रुतापनः।
56अथैनं छिन्नधन्वानं हताश्वं हतसारथिम्॥ विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः।
57हताश्वात् तु रथात् तूर्णमवप्लुत्य नरर्षभः॥ आरुरोह रथं तूर्णं कृपस्य शरपीडितः।
58स नुन्नोऽर्जुनबाणौघेराचितः शल्यको यथा॥ जीवितार्थमभिप्रेप्सुः कृपस्य रथमारुहत्।
59राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ।॥ धनंजयशरैर्नुन्नाः प्राद्रवन्त दिशो दश।
60द्रवतस्तान् समालोक्य राजा दुर्योधनो नृप॥ निवर्तयामास तदा वाक्यमेतदुवाच ह।
61अलं दुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः॥ एष पार्थवधायाहं स्वयं गच्छामि संयुगे।
62अहं पार्थान् हनिष्यामि सपञ्चालान् ससोमकान्॥ अद्य मे युध्यमानस्य सह गाण्डीवधन्वना।
63द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये॥ अद्य मदाणजालानि विमुक्तानि सहस्रशः।
64द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः॥ अद्य बाणमयं वर्षं सृजतो मम धन्विनः।
65जीमूतस्येव धर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः॥ जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः।
66तिष्ठध्वं समरे शूरा भयं त्यजत फाल्गुनात्॥ न हि मद्वीर्यमासाद्य फाल्गुनः प्रसहिष्यति।
67यथा वेलां समासाद्य सागरो मकरालयः॥ इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः।
68फाल्गुनं प्रति दुर्धर्षः क्रोधात् संरक्तलोचनः॥ तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा।
69अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह॥ एष राजा महाबाहुरमर्षी क्रोधमूर्छितः।
70पतङ्गवृत्तिमास्थाय फाल्गुनं योद्भुमिच्छति॥ यावन्नः पश्यमानानां प्राणान् पार्थेन संगतः। । न जह्यात् पुरुषव्याघ्रस्तावद् वारय कौरवम्॥ यावत् फाल्गुनबाणानां गोचरं नाद्य गच्छति।
71कौरवः पार्थिवो वीरस्तावद् वारय संयुगे॥ यावत् पार्थशरै।रैर्निमुक्तोरगसंनिभैः। न भस्मीक्रियते राजा तावद् युद्धान्निवार्यताम्॥ अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद।
72स्वयं युद्धाय यद् राजा पार्थं यात्यसहायवान् दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना। युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः॥ मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः।
73दुर्योधनमिदं वाक्यं त्वरितः समभाषत॥ मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि।
74मामनादृत्य कौरव्य तव नित्यं हितैषिणम्॥ न हि ते सम्भ्रमः कार्यः पार्थस्य विजयं प्रति। अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन॥
75दुर्योधन उवाच आचार्य: पाण्डुपुत्रान् वै पुत्रवत् परिरक्षति। त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम॥
76मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि। धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत्॥
77धिगस्तु मम लुब्धस्य यत्कृते सर्ववान्धवाः। सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः॥
78को हि शस्त्रविदां मुख्यो महेश्वरसमो युधि। शत्रु न क्षपयेच्छक्तो यो न स्याद् गौतमीसुतः॥
79अश्वत्थामन् प्रसीदख नाशयैतान् ममाहितान्। तवारगोचरे शक्ताः स्थातुं देवा न दानवाः॥
80पञ्चालान् सोमकांश्चैव जहि द्रौणे सहानुगान्। वयं शेषान् हनिष्यामस्त्वयैव परिरक्षिताः॥
81एते हि सोमका विप्र पञ्चालाश्च यशस्विनः। मम सैन्येषु संक्रुद्धा विचरन्ति दवाग्निवत्॥
82तान् वारय महाबाहो केकयांश्च नरोत्तम। पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना॥
83अश्वत्थामंस्त्वरायुक्तो याहि शीघ्रमरिंदमा आदौ वा यदि वा पश्चात् तवेदं कर्म मारिष॥
84त्वमुत्पन्नो महाबाहो पञ्चालानां वधं प्रति। करिष्यसि जगत् सर्वमपाञ्चालं किलोद्यतः॥
85एवं सिद्धाऽब्रुवन् वाचो भविष्यति च तत् तथा। तस्मात्त्वं पुरुषव्याघ्र पञ्चालाञ्जहि सानुगान्॥
86न तेऽस्रगोचरे शक्ताः स्थातुं देवाः सवासवाः। किमु पार्थाः सपाञ्चालाः सत्यमेतद् ब्रवीमि ते॥
87न त्वां समर्थाः संग्रामे पाण्डवाः सह सोमकैः। बलाद् योधयितुं वीर सत्यमेतद् ब्रवीमि ते॥
88गच्छ गच्छ महाबाहो न नः कालात्ययो भवेत्। इयं हि द्रवते सेना पार्थसायकपीडिता॥
89शक्तो ह्यसि महाबाहो दिव्येन स्वेन तेजसा। निग्रहे पाण्डुपुत्राणां पञ्चालानां च मानद॥
English
1Sanjaya said Seeing his maternal uncle thus insulted by the charioteer's son, the son of Drona brandishing his scimitar ran furiously towards him.
2Then, excited with a great rage, the son of Drona, like a lion (rushing at) an infuriate elephant, rushed against Karna, even in the Very presence of the Kuru king. are of very very wicked
3Ashvatthama said O basest of men, in spite of his speaking of the qualities that Arjuna is really endowed with, you, that understanding, have insulted my heroic maternal uncle through (sheer) malice.
4Without reckoning any of the words of bowmen in battle, puffed up with pride as you are, you are boasting today of your manliness.
5Where was your prowess and where your weapons, when defeating you in battle, the wielder of Gandiva killed Jayadratha in your very presence?
6O wretch of a charioteer, you are in vain hoping in your mind to conquer him, who formerly fought with the very Mahadeva himself.
7Since the combined celestials and the Asuras headed by Indra are incapable of defeating that foremost of the wielders of weapons, having Krishna for his ally.
8How can you, O Suta, backed up by these earthly kings, indulge in hopes of vanquishing in battle, the unconquerable Arjuna, the foremost of all the heroes in the world?
9Look, O Karna of wicked understanding, O vilest of men stay here now. I will presently cut-off your head from your body.
10Sanjaya said The highly-energetic king Duryodhana himself and that best of men, Kripa, prevented him (i.e., Ashvatthama) who was rushing furiously (at Karna).
11Karna said Let this basest of Brahmanas, who (thinks that he) is a hero, boasts of his prowess in battle and is of wicked understanding, taste of my prowess. Do leave him, O best of the Kurus.
12Ashvatthama said 0 charioteer's of wicked understanding, we forgive you of this (fault). Phalguna will destroy this swelling pride of yours.
13Duryodhana said O Ashvatthama, O bestower of honours, be gratified; do forgive (him). O siniess one, you should not be angry with the charioteer's son.
14To you and Karna and Kripa and Drona and the king of Madra and to the son of Subala, a heavy task is entrusted. O best of the twiceborn ones, be gratified.
15O Brahmana, all the Pandavas, desiring to fight with and shouting to the son of Radha (to give battle) are coming (against him) from all sides.
16Sanjaya said Thus appeased by the king, the highminded son of Drona, O great king, who was filled with a furious rage subdued his anger.
17Then the large-heated preceptor, whose mild disposition soon returned (to him) an account of his being (naturally) of a peaceful
18Kripa said 0 Charioteer's of very wicked understanding, you are pardoned by us of this (fault). But Phalguna will (soon) destroy your swelling pride. son
19Sanjaya said Then, O king, the Pandavas and the renowned Panchalas, united together and sending forth thundering roars, poured in by thousands.
20The puissant and energetic Karna too taking up his bow and surrounding by the foremost of the Kauravas, like Shakra by the celestials, awaited (their charge) relying on the strength of his own arms. The battle, that then took place between Karna (on one side) and the Pandavas (on the other).
21Was hot and furious and ruining with thundering shouts, O great monarch. Then, O king, the Pandavas and and the renowned Panchalas.
22Seeing Karna, possessed of mighty arms, sent forth loud shouts. (And the said)-"This is Karna! where is Karna! O Karna, stay in this great battle.
23O wicked-souled one, O vilest of men, give us battle. Others, with eyes burning in ire on beholding Karna, said.
24This arrogant son of charioteer having but a little sense should be killed by all these foremost of kings. He has no need of life.
25This sinful person is always an inveterate enemy to the sons of Pritha, abides by the advice of Duryodhana and is the root of all these evils.
26"Slay him!” Thus saying, mighty Kshatriya car-warriors, at the command of the son of Pandu, rushed to slay the charioteer's son, enveloping (all the points) with a heavy downpour of arrows. Seeing all those highly powerful sons of Pandu (rush towards him).
27The charioteer's son was neither pained nor struck with terror. Beholding that wonderful army, vast as a sea and looking like Death itself.
28That puissant, light-handed and highly powerful one, devoted to the good of your sons and never vanquished in battle, by means of showers of arrows.
29Began to check (the career of) that army on all sides, O most exalted of the Bharatas. Then the Pandavas also, discharging downpours of shafts checked, (him).
30Shaking hundreds and thousands of bows, they battled with the son of Radha as the Daityas (fought with) Shakra in days of yore.
31That downpour, of shafts discharged by the kings on all sides, was destroyed by the puissant Karna with a heavy shower of arrows.
32Then a marvellous battle, in which each party was desirous of warding off the blows of the other and which resembled the fight between Shakra and the Danavas in the war between the gods and the Asuras, took place between them. arrows
33There we beheld of wonderful lighthandness of the charioteer's son : for, all the hostile forces, exerting their utmost, could not subdue him in that battle.
34That mighty car-warrior, the son of Radha, checking those downpours of discharged by the (hostile) kings, shot at their yokes, umbrellas, cars and steeds, dreadful arrows, marked with his own name. Then, afflicted by Karna and not knowing what to do, those (hostile) kings.
35Wandered about there on the field of battle) like cows pained with cold. Innumerable horses, elephants and car-warriors afflicted by Karna were seen to drop dead there. The entire field was strewn on all sides with the fallen heads and arms of the unretreating warriors, O king, with the dead and the dying and the waiting (combatants) lying on all sides.
36The field of battle looked like the region of the son of Vivasvata, O king. Then, 0 monarch, beholding the feats of Karna, Duryodhana.
37Approached Ashvatthama and then said these words-"Yonder Karna, with his armour on, is seen (fighting) with all the (hostile) kings.
38Behold, the (enemy's) army, oppressed with the arrows of Karna, is, like the Asura force afflicted by Kartikeya, running away in all the directions).
39Witnessing the defeat of his army by the intelligent Karna, Vibhatsu, in order to slay the charioteer's son, is advancing (against him).
40Adopt such measures that the son of Pandu may not kill that mighty car-warrior, i.e., the charioteer's son in battle in our very sight."
41(Hearing these words of the king), the son of Drona and Kripa and Shalya and that mighty car-warrior, the son of Hridika, advanced against Partha in order to protect the charioteer's son.
42Seeing that the son of Kunti was coming against them like Shakra against the Daitya force. Then, O king of kings Vibhatsu also surrounded by the Panchalas marched against Karna like Purandara (marching against) Vritra.
43Dhritarashtra said Seeing the wrathful Phalguna looking like Yama, the destroyer of time, what measures, O charioteer, did Karna, the son of Vikartana, adopt?
44That mighty car-warrior (i.e. Karna) always challenged Partha and hoped that he has powerful enough to vanquish Vibhatsu.
45Thus meeting all on a sudden his inveterate enemy, what measures, O charioteer, did Karna, the son of Vikartana adopt?
46Sanjaya said Seeing the son of Pandu (advance against) his rival elephant, Karna dauntlessly fell upon Dhananjaya.
47Partha then enveloped Karna who was thus furiously advancing against him, with straightcoursing arrows furnished with golden wings.
48(And) the son of Pandu covered Karna with a dense shower of arrows. Then Karna greatly excited with rage pierced him with three darts,
49The mighty car-warrior (Partha) witnessing this nimbleness on his part could not endure it. That scorcher of foes, then, shot thirty arrows sharpened on stone, having flaming points and coursing straight, at the charioteer's son. That puissant and mighty one, then, as if with a smile, pierced him angrily with another long arrow in the end of his left arms. From that hand of his which was (thus) pierced with (great) force, his bow fell down.
50Taking up that bow within half the time of the twinking of an eye, that highly powerful one, with great nibleness of hand, covered Phalguna with downpours of arrows.
51The arrowy shower, sent forth by the charioteer's son, was baffled by Dhananjaya with discharges of arrows, as if with a smile, O Bharata.
52Those two mighty wielders of bow desiring to baffle each other and coming up to catch each other enveloped each other with a (perfect) deluge of arrows.
53Then a marvellous encounter took place between Karna and the of Pandu resembling that between two wild elephants for the sake of a she-elephant in the time of her passion.
54Then that mighty bowman Partha, witnessing the prowess of Karna, speedily cutoff that part of his bow at which it is grasped.
55(And) that scorcher of (his) foes (i.e. Dhananjaya) sent his horses to the abode of Yama with broad headed shafts and severed the head of his charioteer from the body. son
56Then Partha, the son of Pandu pierced that one (i.e., Karna) deprived on his steeds and driver and whose bow was cut-off with four arrows.
57Afflicted with arrows of Kripa that foremost of men jumped down from the car of which the steeds were slain, quickly got up to another car.
58Afflicted with (Arjuna's) darts, that most exalted of men hastily jumped down from his steedless car and got up to the car of Kripa.
590 best of the Bharatas, witnessing the defeat of the son of Radha, your Partisans, (already) mangled by the shafts of Dhananjaya ran away in ten directions.
60Beholding that they were running away King Duryodhana himself rallied them and spoke these words.
61Heroes, do not take to flight! O best of the Kshatriyas, stay! I am myself going against Partha in order to slay him in battle.
62I will myself destroy Partha together with the Panchalas assembled (under his banners). In the battle that I will today fight with the wielder of Gandiva.
63The son of Pritha will behold my prowess resembling that of the destroyer at the end of a Yuga. Today the arrowy showers that I will discharge by thousands.
64in battle, will be seen by the sons of Pritha to resemble (thick) flights of locusts. Today, when wielding my bow, I will continue to rain down arrows.
65My soldiers will behold me like a cloud discharging torrents of rain at the end of the summer. Today I will, by means of straight arrows, conquer the sons of Pritha.
66Brave warriors, stay in battle. Shake off your fear of Phalguni. Encountering my prowess, Phalguni will not be able to stand it.
67As the ocean, the abode of the Makaras reaching the point between the high and the low tide-marks, is unable to get beyond it. Saying this, the king, surrounded by a mighty army, marched.
68Furiously with his eyes reddened in wrath, against Phalguni. Seeing that mighty-armed one advance (against Arjuna), the son of Saradvatta (i.e. Kripa).
69Approaching Ashvatthama said these words-"This mighty-armed king, under the influence of rage and insensible with ire.
70Resorting to the practices of the insects, (which heedless of danger rush into fire) is desiring to fight with Arjuna (heedless of his life). Prevent the Kaurava king (from doing this) before he sacrifices his life in our very sight by encountering Partha in battle. So long as he does not present himself within the range। of Kirit's shafts.
71The heroic Kaurava king can only remain alive in battle. Prevent the king (from taking this rash step) before he is burnt to ashes by the dreadful arrows of Partha looking like snakes that have just cast off their sloughs. It looks very improper, O giver of hunours, that when we are here.
72The king will go in person to fight in battle like one having no support. I think it will be (as) greatly difficult for Kaurava king to escape with life while fighting with Kiriti in battle, as it is in the case of an elephant (fighting with) a tiger. Thus addressed by his maternal uncle, the son of Drona, who was the foremost of those that could wield weapons.
73Quickly approaching Duryodhana, said these words-"O son of Gandhari so long as I am alive, it is not proper for you to fight.
74Disregarding me who am always devoted to your welfare. O Kaurava king, you need at all be anxious for vanquishing Partha. I will myself check Partha. Stay (here), 0 Suyodhona.
75Duryodhana said The protector protects the sons of Pandu as if they were his own children. You also never manage in right earnest with my enemies.
76It is either owing to my ill luck or owing to your desire to do good to the Dharmaraj ihat your prowess diminishes in battle, though I do not know what is the true cause.
77Fie on my avaricious self on whose account all the friends, solicitous of my welfare, are, being vanquished (in battle), now experiencing great misery.
78What person is there, O son of Goutama's daughter, who though capable yet would not destroy my enemies, besides you that are the foremost of those that wield weapons and are equal to Maheshvara himself in battle.
79O Ashvatthama, be gratified. Destroy my enemies. Neither the celestials nor thc Danavas are capable of staying within the range of your weapons.
80O Drona's son, destroy the Panchalas as well as the Somakas together with all their followers. Protected by you we shall slay the rest.
81Look, O Brahmana, the Somakas and the renowned Panchalas are ranging furiously amidst my troops like a forest fire.
82O mighty-armed and most excellent of men, check the career of these and also of the Kaikayas, before, they, backed up as they are by Kiriti, destroy (all our forces).
83Ashvatthama, O chastiser of foes march (against them) speedily. Earlier or latter this take should be accomplished by you, O Brahmana.
84As, O mighty-armed one, you have sprung into existence in order to slay the Panchalas, you will surely, exerting your utmost, make the earth devoid of the Panchalas.
85It will surely come to pass as the worshipful sages who have attained (ascetic) success have said this. Therefore O most valiant of men, destroy the Panchalas together with their followers.
86Not to speak of the sons of Pritha together with the Panchalas, even the very celestials together with their allies cannot stand within the range of your weapon. I speak this truly.
87I will tell you truth, O hero, that the Pandavas together with the Somakas, are incapable of fighting with you, even though they put forth their (utmost energy).
88O mighty-armed one, go, go. Do not waste time. Your forces, afflicted with Parthas' shafts, are taking to flight.
890 mighty-armed one, O bestower of honours, you are (No doubt) capable, by virtue of your own celestial energy, of chastising the sons of Pandavas as well as the Panchalas.
Hindi
1सञ्जय ने कहा — अपने मामा का सूतपुत्र द्वारा इस प्रकार अपमान होते देखकर द्रोणपुत्र अपना खड्ग घुमाते हुए क्रोध में उसकी ओर दौड़ पड़े।
2तब महान् क्रोध से उत्तेजित द्रोणपुत्र, मत्त हाथी पर (झपटते हुए) सिंह के समान, साक्षात् कुरुराज के सम्मुख ही कर्ण पर टूट पड़े।
3अश्वत्थामा ने कहा — हे नराधम, यद्यपि उन्होंने अर्जुन में जो गुण वस्तुतः विद्यमान हैं उन्हीं का वर्णन किया, तथापि तूने, जो अत्यन्त दुर्बुद्धि है, (केवल) द्वेषवश मेरे वीर मामा का अपमान किया है।
4युद्ध में धनुर्धरों के वचनों की तनिक भी परवाह किए बिना, अभिमान से फूला हुआ तू आज अपने पौरुष की डींग हाँक रहा है।
5तेरा पराक्रम कहाँ था और तेरे अस्त्र कहाँ थे, जब गाण्डीवधारी ने युद्ध में तुझे परास्त करके तेरे सामने ही जयद्रथ का वध किया?
6हे अधम सूत, जिन्होंने पूर्वकाल में साक्षात् महादेव से युद्ध किया था, उन्हें जीतने की आशा तू मन में व्यर्थ ही कर रहा है।
7क्योंकि इन्द्र को आगे किए हुए समस्त देवता और असुर मिलकर भी उस अस्त्रधारियों में श्रेष्ठ वीर को नहीं जीत सकते, जिसका सहायक कृष्ण है।
8हे सूत, इन पार्थिव राजाओं के बल पर तू संसार के समस्त वीरों में श्रेष्ठ, अजेय अर्जुन को युद्ध में जीतने की आशा कैसे कर सकता है?
9देख, हे दुर्बुद्धि कर्ण, हे नराधम, अब यहीं ठहर। मैं अभी तेरा सिर तेरे धड़ से काट डालूँगा।
10सञ्जय ने कहा — (कर्ण पर) क्रोध में झपटते हुए उन (अश्वत्थामा) को महातेजस्वी राजा दुर्योधन ने स्वयं तथा पुरुषश्रेष्ठ कृप ने रोक लिया।
11कर्ण ने कहा — यह ब्राह्मणाधम, जो अपने को वीर मानता है, युद्ध में अपने पराक्रम की डींग हाँकता है और दुर्बुद्धि है, मेरे पराक्रम का स्वाद चख ले। हे कुरुश्रेष्ठ, इसे छोड़ दीजिए।
12अश्वत्थामा ने कहा — हे दुर्बुद्धि सूतपुत्र, हम तेरा यह (अपराध) क्षमा करते हैं। तेरे इस बढ़ते हुए अभिमान को फाल्गुन ही नष्ट करेगा।
13दुर्योधन ने कहा — हे अश्वत्थामा, हे मानदाता, प्रसन्न होइए; इसे क्षमा कर दीजिए। हे निष्पाप, आपको सूतपुत्र पर क्रोध नहीं करना चाहिए।
14आप पर, कर्ण पर, कृप पर, द्रोण पर, मद्रराज पर और सुबलपुत्र पर एक भारी कार्य का भार सौंपा गया है। हे द्विजश्रेष्ठ, प्रसन्न हो जाइए।
15हे ब्राह्मण, समस्त पाण्डव राधापुत्र से युद्ध करने की इच्छा से उसे ललकारते हुए चारों ओर से (उस पर) चढ़े आ रहे हैं।
16सञ्जय ने कहा — हे महाराज, राजा द्वारा इस प्रकार शान्त किए जाने पर प्रचण्ड क्रोध से भरे हुए महामना द्रोणपुत्र ने अपना क्रोध दबा लिया।
17तब उन उदारहृदय आचार्य का, जो स्वभाव से ही शान्त प्रकृति के थे, मृदु भाव शीघ्र ही लौट आया।
18कृप ने कहा — हे अत्यन्त दुर्बुद्धि सूतपुत्र, हमने तेरा यह (अपराध) क्षमा कर दिया। किन्तु तेरे इस बढ़ते हुए अभिमान को फाल्गुन (शीघ्र ही) नष्ट करेगा।
19सञ्जय ने कहा — तब हे राजन्, पाण्डव और विख्यात पाञ्चाल एक होकर मेघ-गर्जना-सी गर्जनाएँ करते हुए सहस्रों की संख्या में उमड़ पड़े।
20पराक्रमी और तेजस्वी कर्ण ने भी अपना धनुष उठाकर, जैसे देवताओं से शक्र घिरे रहते हैं वैसे ही कौरवश्रेष्ठों से घिरा हुआ, अपनी भुजाओं के बल के भरोसे (उनके आक्रमण की) प्रतीक्षा की। तब कर्ण और पाण्डवों के बीच जो युद्ध हुआ,
21हे महाराज, वह अत्यन्त प्रचण्ड और भयंकर था तथा गर्जनाओं से गूँज रहा था। तब हे राजन्, पाण्डव और विख्यात पाञ्चाल —
22महाबाहु कर्ण को देखकर उच्च स्वर में चिल्ला उठे। (और बोले) — "यही कर्ण है! कर्ण कहाँ है! हे कर्ण, इस महायुद्ध में ठहर।
23हे दुरात्मा, हे नराधम, हमसे युद्ध कर।" दूसरे लोग कर्ण को देखकर क्रोध से जलती हुई आँखों से बोले —
24"अल्पबुद्धि इस अभिमानी सूतपुत्र का वध इन समस्त राजश्रेष्ठों को मिलकर करना चाहिए। इसे जीवित रहने की आवश्यकता नहीं।
25यह पापी सदा से पृथापुत्रों का कट्टर शत्रु है, दुर्योधन की सलाह पर चलता है और इन समस्त अनर्थों की जड़ है।
26इसे मार डालो!" यह कहकर बलवान् क्षत्रिय महारथी पाण्डुपुत्र की आज्ञा से सूतपुत्र का वध करने के लिए बाणों की घोर वर्षा से (समस्त दिशाओं को) आच्छादित करते हुए दौड़ पड़े। उन समस्त अत्यन्त बलवान् पाण्डुपुत्रों को (अपनी ओर झपटते) देखकर
27सूतपुत्र न तो व्यथित हुआ और न भयभीत ही। समुद्र के समान विशाल और साक्षात् मृत्यु-सी दिखाई देने वाली उस अद्भुत सेना को देखकर
28वह पराक्रमी, हस्तलाघव-सम्पन्न और अत्यन्त बलवान् वीर, जो आपके पुत्रों के हित में लगा हुआ था और युद्ध में कभी पराजित नहीं हुआ था, बाणों की वर्षा से
29हे भरतश्रेष्ठ, उस सेना को चारों ओर से रोकने लगा। तब पाण्डवों ने भी बाणों की झड़ी लगाकर उसे रोका।
30सैकड़ों-हजारों धनुष हिलाते हुए वे राधापुत्र से वैसे ही लड़े जैसे पूर्वकाल में दैत्य शक्र से लड़े थे।
31चारों ओर से राजाओं द्वारा छोड़ी गई बाणों की उस झड़ी को पराक्रमी कर्ण ने अपनी घोर बाण-वर्षा से नष्ट कर दिया।
32तब उनके बीच एक अद्भुत युद्ध हुआ, जिसमें प्रत्येक पक्ष दूसरे के प्रहारों को रोकने का इच्छुक था और जो देवासुर-संग्राम में शक्र और दानवों के युद्ध के समान था।
33वहाँ हमने सूतपुत्र का अद्भुत हस्तलाघव देखा; क्योंकि समस्त शत्रु-सेनाएँ अपना पूरा बल लगाकर भी उस युद्ध में उसे वश में न कर सकीं।
34उस महारथी राधापुत्र ने (शत्रु) राजाओं द्वारा छोड़ी गई बाणों की उन झड़ियों को रोककर उनके जुओं, छत्रों, रथों और घोड़ों पर अपने नाम से अंकित भयंकर बाण चलाए। तब कर्ण से पीड़ित होकर और क्या करें यह न सूझने पर वे (शत्रु) राजा
35रणभूमि में शीत से पीड़ित गौओं के समान इधर-उधर भटकने लगे। कर्ण से पीड़ित असंख्य घोड़े, हाथी और रथी वहाँ मरकर गिरते देखे गए। हे राजन्, समस्त रणभूमि युद्ध से पीठ न दिखाने वाले योद्धाओं के कटे हुए सिरों और भुजाओं से चारों ओर पटी पड़ी थी, तथा चारों ओर मरे हुए, मरणासन्न और विलाप करते हुए (योद्धा) पड़े थे।
36हे राजन्, वह रणभूमि विवस्वान् के पुत्र (यम) के लोक-सी दिखाई देती थी। तब हे नरेश, कर्ण के पराक्रम को देखकर दुर्योधन
37अश्वत्थामा के पास गया और ये वचन कहे — "वह देखिए, कवच धारण किए कर्ण समस्त (शत्रु) राजाओं से (लड़ता) दिखाई दे रहा है।
38देखिए, कर्ण के बाणों से पीड़ित (शत्रु) सेना कार्तिकेय से पीड़ित असुर-सेना के समान समस्त दिशाओं में भाग रही है।
39बुद्धिमान् कर्ण द्वारा अपनी सेना की पराजय देखकर विभत्सु सूतपुत्र का वध करने के लिए (उसकी ओर) बढ़ रहा है।
40ऐसा उपाय कीजिए जिससे पाण्डुपुत्र हमारे देखते-देखते युद्ध में उस महारथी सूतपुत्र का वध न कर सके।"
41(राजा के ये वचन सुनकर) द्रोणपुत्र, कृप, शल्य और महारथी हृदिकपुत्र सूतपुत्र की रक्षा के लिए पार्थ की ओर बढ़े,
42यह देखकर कि कुन्तीपुत्र उन पर वैसे ही चढ़ा आ रहा है जैसे शक्र दैत्य-सेना पर। तब हे राजाधिराज, पाञ्चालों से घिरा विभत्सु भी कर्ण की ओर वैसे ही बढ़ा जैसे पुरन्दर वृत्र की ओर।
43धृतराष्ट्र ने कहा — हे सञ्जय, कालान्तक यम के समान दिखाई देने वाले क्रुद्ध फाल्गुन को देखकर विकर्तन के पुत्र कर्ण ने क्या उपाय किया?
44वह महारथी (कर्ण) सदा पार्थ को ललकारता रहा और यह आशा करता रहा कि वह विभत्सु को जीतने में समर्थ है।
45इस प्रकार सहसा अपने कट्टर शत्रु से भेंट हो जाने पर हे सञ्जय, विकर्तनपुत्र कर्ण ने क्या उपाय किया?
46सञ्जय ने कहा — प्रतिद्वन्द्वी गजराज के समान पाण्डुपुत्र को (अपनी ओर बढ़ते) देखकर कर्ण निर्भय होकर धनञ्जय पर टूट पड़ा।
47तब पार्थ ने इस प्रकार क्रोध में अपनी ओर बढ़ते हुए कर्ण को सुवर्ण-पंख वाले, सीधे जाने वाले बाणों से ढँक दिया।
48और पाण्डुपुत्र ने कर्ण को बाणों की सघन वर्षा से आच्छादित कर दिया। तब अत्यन्त क्रोध से उत्तेजित कर्ण ने उन्हें तीन बाणों से बींध दिया।
49महारथी (पार्थ) उसका यह हस्तलाघव देखकर उसे सह न सके। तब उस शत्रुतापन ने सूतपुत्र पर पत्थर पर तेज किए हुए, धधकती नोक वाले और सीधे जाने वाले तीस बाण चलाए। फिर उस पराक्रमी महाबली ने मानो मुसकराते हुए क्रोध में एक और लम्बे बाण से उसकी बाईं भुजा के अग्रभाग को बींध दिया। (इस प्रकार) बड़े वेग से बिंधे हुए उस हाथ से उसका धनुष गिर पड़ा।
50आँख झपकने से भी आधे समय में उस धनुष को पुनः उठाकर उस अत्यन्त बलवान् वीर ने महान् हस्तलाघव से फाल्गुन को बाणों की झड़ी से ढँक दिया।
51हे भरतश्रेष्ठ, सूतपुत्र द्वारा छोड़ी गई उस बाण-वर्षा को धनञ्जय ने मानो मुसकराते हुए अपने बाणों से विफल कर दिया।
52वे दोनों महान् धनुर्धर एक-दूसरे के प्रयत्नों को विफल करने की इच्छा से और एक-दूसरे को पकड़ने के लिए निकट आते हुए, बाणों की (पूर्ण) बाढ़ से एक-दूसरे को ढँकने लगे।
53तब कर्ण और पाण्डुपुत्र के बीच एक अद्भुत युद्ध हुआ, जो ऋतुकाल में हथिनी के लिए लड़ते हुए दो जंगली हाथियों के युद्ध के समान था।
54तब महाधनुर्धर पार्थ ने कर्ण का पराक्रम देखकर शीघ्र ही उसके धनुष का वह भाग काट डाला जहाँ से वह पकड़ा जाता है (अर्थात् मुट्ठी)।
55और उस शत्रुतापन (धनञ्जय) ने भल्ल बाणों से उसके घोड़ों को यमलोक भेज दिया तथा उसके सारथि का सिर धड़ से अलग कर दिया।
56तब पाण्डुपुत्र पार्थ ने घोड़ों और सारथि से रहित तथा जिसका धनुष कट चुका था, उस (कर्ण) को चार बाणों से बींध दिया।
57बाणों से पीड़ित होकर वह पुरुषश्रेष्ठ, जिसके घोड़े मारे जा चुके थे, उस रथ से कूद पड़ा और शीघ्र ही दूसरे रथ पर चढ़ गया।
58(अर्जुन के) बाणों से पीड़ित होकर वह पुरुषश्रेष्ठ अपने अश्वहीन रथ से तुरन्त कूद पड़ा और कृप के रथ पर चढ़ गया।
59हे भरतश्रेष्ठ, राधापुत्र की पराजय देखकर आपके पक्ष के लोग, जो पहले ही धनञ्जय के बाणों से क्षत-विक्षत हो चुके थे, दसों दिशाओं में भाग गए।
60उन्हें भागते देखकर राजा दुर्योधन ने स्वयं उन्हें रोका और ये वचन कहे —
61"वीरो, भागो मत! हे क्षत्रियश्रेष्ठो, ठहरो! मैं स्वयं युद्ध में पार्थ का वध करने के लिए उसकी ओर जा रहा हूँ।
62मैं स्वयं (अपनी ध्वजा के नीचे) एकत्र पाञ्चालों सहित पार्थ का संहार करूँगा। आज गाण्डीवधारी से मैं जो युद्ध करूँगा, उसमें
63पृथापुत्र युगान्त के संहारकर्ता के समान मेरा पराक्रम देखेगा। आज मैं सहस्रों की संख्या में जो बाण-वर्षा
64युद्ध में करूँगा, वह पृथापुत्रों को टिड्डियों के (घने) दलों के समान दिखाई देगी। आज जब मैं धनुष धारण करके बाणों की वर्षा करता रहूँगा,
65तब मेरे सैनिक मुझे ग्रीष्म के अन्त में मूसलाधार वर्षा करते हुए मेघ के समान देखेंगे। आज मैं सीधे जाने वाले बाणों से पृथापुत्रों को जीत लूँगा।
66हे शूरवीरो, युद्ध में डटे रहो। फाल्गुनि का भय त्याग दो। मेरे पराक्रम का सामना करके फाल्गुनि टिक न सकेगा,
67जैसे मकरों का निवास समुद्र ज्वार-भाटे की सीमा तक पहुँचकर उससे आगे नहीं जा सकता।" यह कहकर वह राजा विशाल सेना से घिरा हुआ
68क्रोध से आँखें लाल किए हुए फाल्गुनि की ओर वेग से बढ़ा। उस महाबाहु को (अर्जुन की ओर) बढ़ते देखकर शरद्वान् के पुत्र (कृप) ने
69अश्वत्थामा के पास जाकर ये वचन कहे — "यह महाबाहु राजा क्रोध के वश में है और रोष से अपनी सुध खो बैठा है।
70पतंगों की वृत्ति का आश्रय लेकर, (जो संकट की चिन्ता किए बिना अग्नि में कूद पड़ते हैं,) ये (अपने प्राणों की चिन्ता छोड़कर) अर्जुन से युद्ध करना चाहते हैं। इससे पहले कि ये हमारे देखते-देखते युद्ध में पार्थ से भिड़कर अपने प्राण गँवा दें, कौरवराज को (ऐसा करने से) रोकिए। जब तक ये किरीटी के बाणों की पहुँच के भीतर नहीं आते,
71तभी तक यह वीर कौरवराज युद्ध में जीवित रह सकता है। इससे पहले कि केंचुल छोड़े हुए सर्पों-जैसे दिखाई देने वाले पार्थ के भयंकर बाणों से ये भस्म हो जाएँ, राजा को (इस दुःसाहस से) रोकिए। हे मानदाता, यह अत्यन्त अनुचित प्रतीत होता है कि हमारे यहाँ रहते हुए
72राजा किसी सहायकहीन पुरुष के समान स्वयं युद्ध करने जाएँ। मेरा विचार है कि युद्ध में किरीटी से लड़ते हुए कौरवराज का जीवित बच निकलना उतना ही कठिन होगा जितना बाघ से लड़ते हुए हाथी का।" अपने मामा द्वारा इस प्रकार कहे जाने पर अस्त्रधारियों में श्रेष्ठ द्रोणपुत्र —
73शीघ्र ही दुर्योधन के पास जाकर ये वचन कहे — "हे गान्धारीपुत्र, जब तक मैं जीवित हूँ, तब तक तुम्हारा युद्ध करना उचित नहीं।
74मैं सदा तुम्हारे हित में लगा रहता हूँ; मेरी अवहेलना करके (ऐसा मत करो)। हे कौरवराज, पार्थ को जीतने की चिन्ता तुम्हें तनिक भी नहीं करनी चाहिए। मैं स्वयं पार्थ को रोकूँगा। हे सुयोधन, तुम (यहीं) ठहरो।
75दुर्योधन ने कहा — आचार्य पाण्डुपुत्रों की ऐसे रक्षा करते हैं मानो वे उनके अपने ही पुत्र हों। आप भी मेरे शत्रुओं से कभी सच्चे मन से नहीं जूझते।
76यह या तो मेरे दुर्भाग्य के कारण है अथवा धर्मराज का हित करने की आपकी इच्छा के कारण कि युद्ध में आपका पराक्रम घट जाता है — यद्यपि सच्चा कारण मैं नहीं जानता।
77मुझ लोभी को धिक्कार है, जिसके कारण मेरे हित की कामना करने वाले समस्त मित्र (युद्ध में) पराजित होकर अब महान् दुःख भोग रहे हैं।
78हे गौतमी के पुत्र, आपके अतिरिक्त — जो अस्त्रधारियों में श्रेष्ठ और युद्ध में साक्षात् महेश्वर के समान हैं — ऐसा कौन है जो समर्थ होते हुए भी मेरे शत्रुओं का संहार न करे?
79हे अश्वत्थामा, प्रसन्न होइए। मेरे शत्रुओं का संहार कीजिए। न देवता और न दानव ही आपके अस्त्रों की पहुँच के भीतर ठहरने में समर्थ हैं।
80हे द्रोणपुत्र, अपने समस्त अनुयायियों सहित पाञ्चालों तथा सोमकों का संहार कीजिए। आपके संरक्षण में रहकर हम शेष का वध कर लेंगे।
81देखिए, हे ब्राह्मण, सोमक और विख्यात पाञ्चाल मेरी सेना के बीच दावानल के समान क्रोध में विचर रहे हैं।
82हे महाबाहु पुरुषश्रेष्ठ, इससे पहले कि किरीटी के बल पर ये और केकय भी (हमारी समस्त सेना का) संहार कर डालें, इनकी गति रोकिए।
83हे शत्रुदमन अश्वत्थामा, शीघ्र (उनकी ओर) प्रस्थान कीजिए। हे ब्राह्मण, आज नहीं तो कल, यह कार्य आपको ही करना है।
84हे महाबाहु, आपका जन्म ही पाञ्चालों के वध के लिए हुआ है, अतः आप अपना पूरा बल लगाकर निश्चय ही इस पृथ्वी को पाञ्चालों से रहित कर देंगे।
85ऐसा अवश्य होगा, क्योंकि (तपःसिद्धि प्राप्त) पूजनीय ऋषियों ने यही कहा है। अतः हे पुरुषों में परम पराक्रमी, अनुयायियों सहित पाञ्चालों का संहार कीजिए।
86पाञ्चालों सहित पृथापुत्रों की तो बात ही क्या, साक्षात् देवता भी अपने सहायकों सहित आपके अस्त्र की पहुँच के भीतर नहीं ठहर सकते। मैं यह सत्य कहता हूँ।
87हे वीर, मैं आपसे सत्य कहता हूँ कि सोमकों सहित पाण्डव अपना (पूरा बल) लगाकर भी आपसे युद्ध करने में असमर्थ हैं।
88हे महाबाहु, जाइए, जाइए। समय नष्ट मत कीजिए। आपकी सेनाएँ पार्थ के बाणों से पीड़ित होकर भाग रही हैं।
89हे महाबाहु, हे मानदाता, आप अपने दिव्य तेज के बल पर पाण्डुपुत्रों तथा पाञ्चालों को दण्ड देने में (निस्सन्देह) समर्थ हैं।
Nepali
1सञ्जयले भने — आफ्ना मामाको सूतपुत्रद्वारा यसरी अपमान भएको देखेर द्रोणपुत्र आफ्नो खड्ग घुमाउँदै क्रोधमा उसतिर दौडे।
2तब महान् क्रोधले उत्तेजित द्रोणपुत्र, मात्त हात्तीमाथि (झम्टिने) सिंहझैँ, साक्षात् कुरुराजकै सामु कर्णमाथि जाइलागे।
3अश्वत्थामाले भने — हे नराधम, यद्यपि उहाँले अर्जुनमा जुन गुण वास्तवमै विद्यमान छन् तिनकै वर्णन गर्नुभयो, तथापि तैँले, जो अत्यन्त दुर्बुद्धि छस्, (केवल) द्वेषवश मेरा वीर मामाको अपमान गरिस्।
4युद्धमा धनुर्धरहरूका वचनको तनिक पनि वास्ता नगरी, अभिमानले फुलेको तँ आज आफ्नो पौरुषको गफ हाँकिरहेको छस्।
5तेरो पराक्रम कहाँ थियो र तेरा अस्त्र कहाँ थिए, जब गाण्डीवधारीले युद्धमा तँलाई परास्त गरेर तेरै सामु जयद्रथको वध गरे?
6हे अधम सूत, जसले पूर्वकालमा साक्षात् महादेवसँग युद्ध गरेका थिए, उनलाई जित्ने आशा तँ मनमा व्यर्थै गरिरहेको छस्।
7किनभने इन्द्रलाई अगाडि राखेका सम्पूर्ण देवता र असुर मिलेर पनि ती अस्त्रधारीहरूमा श्रेष्ठ वीरलाई जित्न सक्दैनन्, जसका सहायक कृष्ण छन्।
8हे सूत, यी पार्थिव राजाहरूको बलमा तँ संसारका सम्पूर्ण वीरहरूमा श्रेष्ठ, अजेय अर्जुनलाई युद्धमा जित्ने आशा कसरी गर्न सक्छस्?
9हेर्, हे दुर्बुद्धि कर्ण, हे नराधम, अब यहीँ ठहर्। म अहिल्यै तेरो शिर तेरो धडबाट काटिदिनेछु।
10सञ्जयले भने — (कर्णमाथि) क्रोधमा झम्टिँदै गरेका उनी (अश्वत्थामा)लाई महातेजस्वी राजा दुर्योधनले स्वयं तथा पुरुषश्रेष्ठ कृपले रोके।
11कर्णले भने — यो ब्राह्मणाधम, जो आफूलाई वीर ठान्दछ, युद्धमा आफ्नो पराक्रमको गफ हाँक्दछ र दुर्बुद्धि छ, मेरो पराक्रमको स्वाद चाखोस्। हे कुरुश्रेष्ठ, यसलाई छाडिदिनुहोस्।
12अश्वत्थामाले भने — हे दुर्बुद्धि सूतपुत्र, हामी तेरो यो (अपराध) क्षमा गर्दछौँ। तेरो यो बढ्दो अभिमानलाई फाल्गुनले नै नष्ट गर्नेछन्।
13दुर्योधनले भन्यो — हे अश्वत्थामा, हे मानदाता, प्रसन्न हुनुहोस्; यसलाई क्षमा गरिदिनुहोस्। हे निष्पाप, तपाईंले सूतपुत्रमाथि क्रोध गर्नुहुँदैन।
14तपाईंमाथि, कर्णमाथि, कृपमाथि, द्रोणमाथि, मद्रराजमाथि र सुबलपुत्रमाथि एउटा भारी कार्यको भार सुम्पिएको छ। हे द्विजश्रेष्ठ, प्रसन्न हुनुहोस्।
15हे ब्राह्मण, सम्पूर्ण पाण्डवहरू राधापुत्रसँग युद्ध गर्ने इच्छाले उसलाई ललकार्दै चारै तिरबाट (उसमाथि) आइरहेका छन्।
16सञ्जयले भने — हे महाराज, राजाद्वारा यसरी शान्त पारिएपछि प्रचण्ड क्रोधले भरिएका महामना द्रोणपुत्रले आफ्नो क्रोध दबाए।
17तब ती उदारहृदय आचार्यको, जो स्वभावैले शान्त प्रकृतिका थिए, मृदु भाव चाँडै नै फर्केर आयो।
18कृपले भने — हे अत्यन्त दुर्बुद्धि सूतपुत्र, हामीले तेरो यो (अपराध) क्षमा गर्यौँ। तर तेरो यो बढ्दो अभिमानलाई फाल्गुनले (चाँडै नै) नष्ट गर्नेछन्।
19सञ्जयले भने — तब हे राजन्, पाण्डव र विख्यात पाञ्चालहरू एक भई मेघगर्जनजस्तै गर्जन गर्दै हजारौँको सङ्ख्यामा उर्लिए।
20पराक्रमी र तेजस्वी कर्णले पनि आफ्नो धनुष उठाएर, जसरी देवताहरूले शक्रलाई घेर्दछन् त्यसरी नै कौरवश्रेष्ठहरूले घेरिएको अवस्थामा, आफ्ना पाखुराको बलको भरमा (तिनीहरूको आक्रमणको) प्रतीक्षा गर्यो। तब कर्ण र पाण्डवहरूबीच जुन युद्ध भयो,
21हे महाराज, त्यो अत्यन्त प्रचण्ड र भयङ्कर थियो तथा गर्जनले गुन्जिरहेको थियो। तब हे राजन्, पाण्डव र विख्यात पाञ्चालहरू —
22महाबाहु कर्णलाई देखेर उच्च स्वरमा कराए। (र भने) — "यही कर्ण हो! कर्ण कहाँ छ! हे कर्ण, यस महायुद्धमा ठहर्।
23हे दुरात्मा, हे नराधम, हामीसँग युद्ध गर्।" अरूहरू कर्णलाई देखेर क्रोधले जलेका आँखाले बोले —
24"अल्पबुद्धि यस अभिमानी सूतपुत्रको वध यी सम्पूर्ण राजश्रेष्ठले मिलेर गर्नुपर्छ। यसलाई जीवित रहनु आवश्यक छैन।
25यो पापी सधैँदेखि पृथापुत्रहरूको कट्टर शत्रु हो, दुर्योधनको सल्लाहमा हिँड्छ र यी सम्पूर्ण अनर्थको जरो हो।
26यसलाई मारिदेऊ!" यसो भनेर बलवान् क्षत्रिय महारथीहरू पाण्डुपुत्रको आज्ञाले सूतपुत्रको वध गर्न बाणको घोर वर्षाले (सम्पूर्ण दिशा) ढाक्दै दौडे। ती सम्पूर्ण अत्यन्त बलवान् पाण्डुपुत्रलाई (आफूतिर झम्टिँदै गरेको) देखेर
27सूतपुत्र न त व्यथित भयो, न भयभीत नै। समुद्रजस्तै विशाल र साक्षात् मृत्युजस्तै देखिने त्यो अद्भुत सेना देखेर
28त्यो पराक्रमी, हस्तलाघवयुक्त र अत्यन्त बलवान् वीर, जो तपाईंका पुत्रहरूको हितमा लागेको थियो र युद्धमा कहिल्यै पराजित भएको थिएन, बाणको वर्षाले
29हे भरतश्रेष्ठ, त्यस सेनालाई चारै तिरबाट रोक्न थाल्यो। तब पाण्डवहरूले पनि बाणको झरी लगाएर उसलाई रोके।
30सयौँ-हजारौँ धनुष हल्लाउँदै तिनीहरू राधापुत्रसँग त्यसरी नै लडे जसरी पूर्वकालमा दैत्यहरू शक्रसँग लडेका थिए।
31चारै तिरबाट राजाहरूले छोडेको बाणको त्यो झरीलाई पराक्रमी कर्णले आफ्नो घोर बाणवर्षाले नष्ट पारिदियो।
32तब तिनीहरूबीच एउटा अद्भुत युद्ध भयो, जसमा प्रत्येक पक्ष अर्काका प्रहार रोक्न इच्छुक थियो र जो देवासुर-सङ्ग्राममा शक्र र दानवहरूको युद्धजस्तै थियो।
33त्यहाँ हामीले सूतपुत्रको अद्भुत हस्तलाघव देख्यौँ; किनभने सम्पूर्ण शत्रुसेनाले आफ्नो पूरा बल लगाएर पनि त्यस युद्धमा उसलाई वशमा पार्न सकेनन्।
34ती महारथी राधापुत्रले (शत्रु) राजाहरूले छोडेका बाणका ती झरी रोकेर तिनीहरूका जुवा, छत्र, रथ र घोडामाथि आफ्नै नामले अङ्कित भयङ्कर बाण चलाए। तब कर्णबाट पीडित भई र के गर्ने भन्ने नसुझेपछि ती (शत्रु) राजाहरू
35रणभूमिमा जाडोले पीडित गाईझैँ यताउता भौँतारिन थाले। कर्णबाट पीडित असङ्ख्य घोडा, हात्ती र रथी त्यहाँ मरेर ढलेको देखियो। हे राजन्, सम्पूर्ण रणभूमि युद्धबाट पीठ नफर्काउने योद्धाहरूका कटेका शिर र पाखुराले चारै तिर भरिएको थियो, तथा चारै तिर मरेका, मरणासन्न र विलाप गर्दै गरेका (योद्धा) पल्टिएका थिए।
36हे राजन्, त्यो रणभूमि विवस्वान्का पुत्र (यम)को लोकजस्तै देखिन्थ्यो। तब हे नरेश, कर्णको पराक्रम देखेर दुर्योधन
37अश्वत्थामाकहाँ गयो र यी वचन भन्यो — "त्यो हेर्नुहोस्, कवच धारण गरेको कर्ण सम्पूर्ण (शत्रु) राजाहरूसँग (लडिरहेको) देखिँदै छ।
38हेर्नुहोस्, कर्णका बाणले पीडित (शत्रु) सेना कार्तिकेयबाट पीडित असुरसेनाझैँ सम्पूर्ण दिशामा भागिरहेको छ।
39बुद्धिमान् कर्णद्वारा आफ्नो सेनाको पराजय देखेर विभत्सु सूतपुत्रको वध गर्न (उसतिर) बढिरहेका छन्।
40यस्तो उपाय गर्नुहोस् जसबाट पाण्डुपुत्रले हामी हेरिरहँदै युद्धमा ती महारथी सूतपुत्रको वध गर्न नसकून्।"
41(राजाका यी वचन सुनेर) द्रोणपुत्र, कृप, शल्य र महारथी हृदिकपुत्र सूतपुत्रको रक्षाका लागि पार्थतिर बढे,
42यो देखेर कि कुन्तीपुत्र तिनीहरूमाथि त्यसरी नै आइरहेका छन् जसरी शक्र दैत्यसेनामाथि। तब हे राजाधिराज, पाञ्चालहरूले घेरिएका विभत्सु पनि कर्णतिर त्यसरी नै बढे जसरी पुरन्दर वृत्रतिर।
43धृतराष्ट्रले भने — हे सञ्जय, कालान्तक यमजस्तै देखिने क्रुद्ध फाल्गुनलाई देखेर विकर्तनका पुत्र कर्णले के उपाय गरे?
44त्यो महारथी (कर्ण) सधैँ पार्थलाई ललकार्थ्यो र यो आशा गर्थ्यो कि ऊ विभत्सुलाई जित्न समर्थ छ।
45यसरी अचानक आफ्नो कट्टर शत्रुसँग भेट भएपछि हे सञ्जय, विकर्तनपुत्र कर्णले के उपाय गरे?
46सञ्जयले भने — प्रतिद्वन्द्वी गजराजझैँ पाण्डुपुत्रलाई (आफूतिर बढ्दै गरेको) देखेर कर्ण निर्भय भई धनञ्जयमाथि जाइलाग्यो।
47तब पार्थले यसरी क्रोधमा आफूतिर बढ्दै गरेको कर्णलाई सुनौला पखेटा भएका, सीधा जाने बाणले ढाकिदिए।
48र पाण्डुपुत्रले कर्णलाई बाणको सघन वर्षाले ढाकिदिए। तब अत्यन्त क्रोधले उत्तेजित कर्णले उनलाई तीन बाणले घोचिदियो।
49महारथी (पार्थ)ले उसको यो हस्तलाघव देखेर सहन सकेनन्। तब ती शत्रुतापनले सूतपुत्रमाथि ढुङ्गामा उधिनिएका, दन्किने टुप्पा भएका र सीधा जाने तीस बाण चलाए। अनि ती पराक्रमी महाबलीले मानौँ मुसुक्क हाँस्दै क्रोधमा अर्को लामो बाणले उसको देब्रे पाखुराको अग्रभाग घोचिदिए। (यसरी) ठूलो वेगले घोचिएको त्यस हातबाट उसको धनुष खस्यो।
50आँखा झिम्क्याउने आधा समयमै त्यो धनुष पुनः उठाएर त्यस अत्यन्त बलवान् वीरले महान् हस्तलाघवले फाल्गुनलाई बाणको झरीले ढाकिदियो।
51हे भरतश्रेष्ठ, सूतपुत्रले छोडेको त्यो बाणवर्षालाई धनञ्जयले मानौँ मुसुक्क हाँस्दै आफ्ना बाणले विफल पारिदिए।
52ती दुवै महान् धनुर्धर एकअर्काका प्रयत्न विफल पार्ने इच्छाले र एकअर्कालाई समात्न नजिक आउँदै, बाणको (पूर्ण) बाढीले एकअर्कालाई ढाक्न थाले।
53तब कर्ण र पाण्डुपुत्रबीच एउटा अद्भुत युद्ध भयो, जो ऋतुकालमा हात्तिनीका लागि लड्ने दुई जङ्गली हात्तीको युद्धजस्तै थियो।
54तब महाधनुर्धर पार्थले कर्णको पराक्रम देखेर चाँडै नै उसको धनुषको त्यो भाग काटिदिए जहाँबाट त्यो समातिन्छ (अर्थात् मुठ्ठी)।
55र ती शत्रुतापन (धनञ्जय)ले भल्ल बाणले उसका घोडालाई यमलोक पठाइदिए तथा उसका सारथिको शिर धडबाट अलग गरिदिए।
56तब पाण्डुपुत्र पार्थले घोडा र सारथिविहीन तथा जसको धनुष काटिइसकेको थियो, त्यस (कर्ण)लाई चार बाणले घोचिदिए।
57बाणले पीडित भई त्यो पुरुषश्रेष्ठ, जसका घोडा मारिइसकेका थिए, त्यस रथबाट हामफाल्यो र चाँडै नै अर्को रथमा चढ्यो।
58(अर्जुनका) बाणले पीडित भई त्यो पुरुषश्रेष्ठ आफ्नो अश्वहीन रथबाट तुरुन्तै हामफाल्यो र कृपको रथमा चढ्यो।
59हे भरतश्रेष्ठ, राधापुत्रको पराजय देखेर तपाईंका पक्षका मानिसहरू, जो पहिल्यै धनञ्जयका बाणले क्षतविक्षत भइसकेका थिए, दशै दिशामा भागे।
60तिनीहरूलाई भागेको देखेर राजा दुर्योधनले स्वयं तिनीहरूलाई रोक्यो र यी वचन भन्यो —
61"वीरहरू हो, नभाग! हे क्षत्रियश्रेष्ठहरू, ठहर! म स्वयं युद्धमा पार्थको वध गर्न उसतिर गइरहेको छु।
62म स्वयं (आफ्नो ध्वजामुनि) जम्मा भएका पाञ्चालसहित पार्थको संहार गर्नेछु। आज गाण्डीवधारीसँग म जुन युद्ध गर्नेछु, त्यसमा
63पृथापुत्रले युगान्तका संहारकर्ताजस्तै मेरो पराक्रम देख्नेछन्। आज म हजारौँको सङ्ख्यामा जुन बाणवर्षा
64युद्धमा गर्नेछु, त्यो पृथापुत्रहरूलाई सलहका (बाक्ला) हुलझैँ देखिनेछ। आज जब म धनुष धारण गरेर बाणको वर्षा गरिरहनेछु,
65तब मेरा सैनिकहरूले मलाई ग्रीष्मको अन्त्यमा मुसलधारे वर्षा गर्ने मेघजस्तै देख्नेछन्। आज म सीधा जाने बाणले पृथापुत्रहरूलाई जित्नेछु।
66हे शूरवीरहरू, युद्धमा डटिरहू। फाल्गुनिको भय त्याग। मेरो पराक्रमको सामना गरेर फाल्गुनि टिक्न सक्नेछैनन्,
67जसरी मकरहरूको निवास समुद्रले ज्वारभाटाको सीमासम्म पुगेर त्योभन्दा पर जान सक्दैन।" यसो भनेर त्यो राजा विशाल सेनाले घेरिएर
68क्रोधले आँखा राता पारेर फाल्गुनितिर वेगले बढ्यो। त्यस महाबाहुलाई (अर्जुनतिर) बढेको देखेर शरद्वान्का पुत्र (कृप)ले
69अश्वत्थामाकहाँ गएर यी वचन भने — "यी महाबाहु राजा क्रोधको वशमा छन् र रोषले आफ्नो सुध गुमाइसकेका छन्।
70पुतलीको वृत्तिको आश्रय लिएर, (जो सङ्कटको चिन्ता नगरी आगोमा हामफाल्छन्,) यिनी (आफ्नो प्राणको चिन्ता छाडेर) अर्जुनसँग युद्ध गर्न चाहन्छन्। यिनले हामी हेरिरहँदै युद्धमा पार्थसँग भिडेर आफ्नो प्राण गुमाउनुभन्दा पहिले नै कौरवराजलाई (यसो गर्नबाट) रोक्नुहोस्। जबसम्म यिनी किरीटीका बाणको पहुँचभित्र आउँदैनन्,
71तबसम्म मात्र यी वीर कौरवराज युद्धमा जीवित रहन सक्छन्। काँचुली फालेका सर्पजस्तै देखिने पार्थका भयङ्कर बाणले यिनी भस्म हुनुभन्दा पहिले नै राजालाई (यो दुःसाहसबाट) रोक्नुहोस्। हे मानदाता, यो अत्यन्त अनुचित लाग्दछ कि हामी यहाँ हुँदाहुँदै
72राजा कुनै सहायकविहीन पुरुषझैँ स्वयं युद्ध गर्न जाऊन्। मेरो विचार छ कि युद्धमा किरीटीसँग लड्दै गरेका कौरवराजको जीवितै उम्कनु त्यत्तिकै कठिन हुनेछ जति बाघसँग लड्दै गरेको हात्तीको।" आफ्ना मामाद्वारा यसरी भनिएपछि अस्त्रधारीहरूमा श्रेष्ठ द्रोणपुत्र —
73चाँडै नै दुर्योधनकहाँ गएर यी वचन भने — "हे गान्धारीपुत्र, जबसम्म म जीवित छु, तबसम्म तिम्रो युद्ध गर्नु उचित होइन।
74म सधैँ तिम्रो हितमा लागिरहन्छु; मेरो अवहेलना गरेर (यसो नगर)। हे कौरवराज, पार्थलाई जित्ने चिन्ता तिमीले तनिक पनि गर्नुपर्दैन। म स्वयं पार्थलाई रोक्नेछु। हे सुयोधन, तिमी (यहीँ) बस।
75दुर्योधनले भन्यो — आचार्यले पाण्डुपुत्रहरूको त्यसरी रक्षा गर्नुहुन्छ मानौँ तिनीहरू उहाँकै आफ्नै पुत्र हुन्। तपाईं पनि मेरा शत्रुहरूसँग कहिल्यै साँचो मनले जुध्नुहुन्न।
76यो या त मेरो दुर्भाग्यका कारण हो अथवा धर्मराजको हित गर्ने तपाईंको इच्छाका कारण कि युद्धमा तपाईंको पराक्रम घट्दछ — यद्यपि साँचो कारण म जान्दिनँ।
77म लोभीलाई धिक्कार छ, जसका कारण मेरो हित चाहने सम्पूर्ण मित्रहरू (युद्धमा) पराजित भई अब महान् दुःख भोगिरहेका छन्।
78हे गौतमीका पुत्र, तपाईंबाहेक — जो अस्त्रधारीहरूमा श्रेष्ठ र युद्धमा साक्षात् महेश्वरसमान हुनुहुन्छ — यस्तो को छ जो समर्थ हुँदाहुँदै पनि मेरा शत्रुहरूको संहार नगरोस्?
79हे अश्वत्थामा, प्रसन्न हुनुहोस्। मेरा शत्रुहरूको संहार गर्नुहोस्। न देवता, न दानवहरू नै तपाईंका अस्त्रको पहुँचभित्र ठहरन समर्थ छन्।
80हे द्रोणपुत्र, आफ्ना सम्पूर्ण अनुयायीसहित पाञ्चाल तथा सोमकहरूको संहार गर्नुहोस्। तपाईंको संरक्षणमा रहेर हामी बाँकीको वध गर्नेछौँ।
81हेर्नुहोस्, हे ब्राह्मण, सोमक र विख्यात पाञ्चालहरू मेरो सेनाबीच डँढेलोझैँ क्रोधमा विचरण गरिरहेका छन्।
82हे महाबाहु पुरुषश्रेष्ठ, किरीटीको बलमा यिनीहरू र केकयहरूले पनि (हाम्रो सम्पूर्ण सेनाको) संहार गर्नुभन्दा पहिले नै यिनीहरूको गति रोक्नुहोस्।
83हे शत्रुदमन अश्वत्थामा, चाँडै (तिनीहरूतिर) प्रस्थान गर्नुहोस्। हे ब्राह्मण, आज होइन भने भोलि, यो कार्य तपाईंले नै गर्नुपर्नेछ।
84हे महाबाहु, तपाईंको जन्म नै पाञ्चालहरूको वधका लागि भएको हो, त्यसैले तपाईंले आफ्नो पूरा बल लगाएर निश्चय नै यो पृथ्वीलाई पाञ्चालविहीन पारिदिनुहुनेछ।
85यस्तै अवश्य हुनेछ, किनभने (तपःसिद्धि प्राप्त गरेका) पूजनीय ऋषिहरूले यही भनेका छन्। त्यसैले हे पुरुषहरूमा परम पराक्रमी, अनुयायीसहित पाञ्चालहरूको संहार गर्नुहोस्।
86पाञ्चालसहित पृथापुत्रहरूको त कुरै के, साक्षात् देवताहरू पनि आफ्ना सहायकसहित तपाईंको अस्त्रको पहुँचभित्र ठहरन सक्दैनन्। म यो सत्य भन्दछु।
87हे वीर, म तपाईंलाई सत्य भन्दछु कि सोमकसहित पाण्डवहरू आफ्नो (पूरा बल) लगाएर पनि तपाईंसँग युद्ध गर्न असमर्थ छन्।
88हे महाबाहु, जानुहोस्, जानुहोस्। समय नष्ट नगर्नुहोस्। तपाईंका सेना पार्थका बाणले पीडित भई भागिरहेका छन्।
89हे महाबाहु, हे मानदाता, तपाईं आफ्नो दिव्य तेजको बलले पाण्डुपुत्रहरू तथा पाञ्चालहरूलाई दण्ड दिन (निस्सन्देह) समर्थ हुनुहुन्छ।