Goharana Parva — The colloquy between Uttara and Virata
Volume III — Virata & Udyoga Parva · Chapter 68
Sanskrit
1वैशम्पायन उवाच धनं चापि विजित्याशु विराटो वाहिनीपतिः। विवेश नगरं हृष्टश्चतुर्भिः पाण्डवैः सह॥
2जित्वा त्रिगर्तान् संग्रामे गाश्चैवादाय सर्वशः। अशोभत महाराज सहपार्थः श्रिया वृतः॥
3तमासनगतं वीरं सुहृदां हर्षवर्धनम्। उपासाञ्चक्रिरे सर्वे सह पाथैः परंतपाः॥
4उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह। सभाजित: ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट्॥ विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा। तथा स राजा मत्स्यानां विराटो वाहिनीपतिः॥ उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत्। आचख्युस्तस्य तत्सर्वं स्त्रियः कन्याश्च वेश्मनि॥ अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम्। विजेतुमभिसंरब्ध एक एवातिसाहसात्। बृहन्नलासहायश्च निर्गतः पृथिवीठ्ठायः॥ उपयातानतिरथान् भीष्मं शान्तवनं कृपम्। कर्णं दुर्योधनं द्रोणं द्रोणपुत्रं च षड् रथान्॥
5वैशम्पायन उवाच राजा विराटोऽथ भृशाभितप्तः श्रुत्वा सुतं त्वेकरथेन यातम्। बृहन्नलासारथिमाजिवर्धनं प्रोवाच सर्वानथ मन्त्रिमुख्यान्॥
6सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः। त्रिगर्तान् निःसृताञ्छ्रुत्वा न स्थास्यन्ति कदाचन।।१०।
7तस्माद् गच्छन्तु मे योधा बलेन महता वृताः। उत्तरस्य परीप्सार्थं ये त्रिगतैरविक्षताः॥
8हयांश्च नागांश्च रथांस्च शीघ्रं पदातिसङ्घांश्च ततः प्रवीरान्। प्रस्थापयामास सुतस्य हेतोविचित्रशस्त्राभरणोपपन्नान्॥
9एवं स राजा मत्स्यानां विराटो वाहिनीपतिः। व्यादिदेशाथ तां क्षिप्रं वाहिनी चतुरङ्गिणीम्॥
10कुमारमाशु जानीत यदि जीवति वा न वा। यस्य यन्ता गतः षण्ढो मन्येऽहं स न जीवति॥
11वैशम्पायन उवाच तमब्रवीद् धर्मराजो विहस्य विराटराजं तु भृशाभितप्तम्। बृहन्नला सारथिश्चेन्नरेन्द्र परे न नेष्यन्ति तवाद्य गास्ताः॥
12सर्वान् महीपान् सहितान् कुरुश्च तथैव देवासुरसिद्धयक्षान्। अलं विजेतुं समरे सुतस्ते स्वनुष्ठितः सारथिना हि तेन॥
13वैशम्पायन उवाच अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः। विराटनगरं प्राप्य विजयं समवेदयन्॥
14राज्ञस्तत् सर्वमाचख्यौ मन्त्री विजयमुत्तमम्। पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम्॥ सर्वा विनिर्जिता गावः कुरवश्च पराजिताः। उत्तरः सह सूतेन कुशली च परंतपः॥
15युधिष्ठिर उवाच दिष्ट्या विनिर्जिता गावः कुरवश्च पलायिताः। नाद्भुतं त्वेव मन्येऽहं यत् ते पुत्रोऽजयत् कुरून्।।२०। ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला।
16वैशम्पायन उवाच ततो विराटो नृपतिः सम्प्रहृष्टतनूरुहः॥ श्रुत्वा स विजयं तस्य कुमारस्यामितौजसः।
17आच्छादयित्वा दूतांस्तान्मन्त्रिणं सोऽभ्यचोदयत्।।२२ राजमार्गाः क्रियन्तां मे पताकाभिरलंकृताः।
18पुष्पोपहारैरय॑न्तां देवताश्चापि सर्वशः॥ कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः।
19वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम॥ घण्टावान मानवः शीघ्रं मत्तमारुह्य वारणम्।
20शृङ्गाटकेषु सर्वेषु आख्यातुं विजयं मम॥ उत्तरा च कुमारीभिर्बह्वीभिः परिवारिता। शृङ्गारवेषाभरणा प्रत्युद्यातुं सुतं मम॥
21वैशम्पायन उवाच श्रुत्वा चेदं वचनं पार्थिवस्य सर्वं पुरं स्वस्तिकपाणिभूतम्। भेर्यश्च तूर्याणि च वारिजाश्च वेषैः पराध्यैः प्रमदाः शुभाश्च॥ तथैव सूतैः सह मागधैश्च नान्दीवाधाः पणवास्तूर्यवाद्याः। अक्षानाहर सैरन्ध्रि पुराद् विराटस्य महाबलस्य प्रत्युद्ययुः पुत्रमनन्तवीर्यम्॥
22प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलकृताः। मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत्॥
23कङ्क द्यूतं प्रवर्तताम्। तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत।॥ न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम्। तं त्वामद्य मुदा युक्तं नाहं देवितुमुत्सहे। प्रियं त ते चिकीर्षामि वर्ततां यदि मन्यसे॥
24विराट उवाच स्त्रियो गावो हिरण्यं च यच्चान्यद् वसु किञ्चन। न मे किञ्चित् त्वया रक्ष्यमन्तरेणापि देवितुम्॥
25कङ्क उवाच किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद। देवने बहवो दोषास्तस्मात् तत् परिवर्जयेत्॥
26श्रुतस्ते यदि वा दृष्टः पाण्डवेयो युधिष्ठिरः। स राष्ट्रं सुमहत् स्फीतं भ्रातृ॑श्च त्रिदशोपमान्॥ राज्यं हारितवान् सर्वं तस्माद् द्यूतं न रोचये। अथवा मन्यसे राजन् दीव्याम यदि रोचते॥
27वैशम्पायन उवाच प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत्। पस्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः॥ ततोऽब्रवीन्महात्मा स एनं राजा युधिष्ठिरः। बृहन्नला यस्य यन्ता कथं स न जयेद् युधि॥
28इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत्। समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि॥
29वाच्यावाच्यं न जानीघे नूनं मामवमन्यसे। भीष्मद्रोणमुखान् सर्वान् कस्मान्न स विजेष्यति॥
30वयस्यत्वात् तु ते ब्रह्मन्नपराधमिमं क्षमे। नेदृशं तु पुनर्वाच्यं यदि जीवितुमिच्छसि॥
31युधिष्ठिर उवाच यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः। दुर्योधनश्च राजेन्द्रस्तथान्ये च महारथाः॥ मरुद्गणैः परिवृतः साक्षादपि मरुत्पतिः। कोऽन्यो वृहन्नलायास्तान् प्रतियुध्येत सङ्गतान्॥
32यस्य बाहुबले तुल्यो न भूतो न भविष्यति। अतीव समरं दृष्ट्वा हर्षो यस्योपजायते॥ योऽजयत् सङ्गत्तान् सर्वान् ससुरासुरमानवान्। तादृशेन सहायेन कस्मात् स न विजेष्यते॥
33विराट उवाच बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि। नियन्ता चेन्न विद्येत न कश्चिद् धर्ममाचरेत्॥
34वैशम्पायन उवाच ततः प्रकुपितो राजा तमक्षेणानहद् भृशम्। मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्सयन्॥ बलवत् प्रतिविद्धस्य नस्तः शोणितमावहत्। तद्प्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत॥
35अवैक्षत स धर्मात्मा द्रौपदी पार्श्वत: स्थिताम्। सा ज्ञात्वा तमभिप्रायं भर्तुश्चित्तवशानुगा॥ पात्रं गृहीत्वा सौवर्णं जलपूर्णमनिन्दिता। तच्छोणितं प्रत्यगृह्णाद् यत् प्रसुस्राव नस्ततः॥
36अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा। अवकीर्यमाण: संहृष्टो नगरं स्वैरमागतः॥
37सभाज्यमानः पौरेश्च स्त्रीभिर्जानपदैस्तथा। आसाद्य भवनद्वारं पित्रे सम्प्रत्यवेदयत्॥ ततो द्वाः स्थः प्रविश्यैव विराटमिदमब्रवीत्। बृहन्नलासहायश्च पुत्रो द्वार्युत्तरः स्थितः॥
38ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत्। प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः॥ क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत्। उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नला॥
39एतस्य हि महाबाहो व्रतमेतत् समाहितम्। यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत्। अन्यत्र संग्रामगान स जीवेत् कथञ्चन॥ न मृष्याद् भृशसंक्रुद्धो मां दृष्ट्वा तु सशोणितम्। विराटमिह सामात्यं हन्यात् सबलवाहनम्॥
40वैशम्पायन उवाच ततो राज्ञः सुतो ज्येष्ठः प्राविशत् पृथिवीट्टायः। सोऽभिवाद्य पितुः पादौ ककं चाप्युपतिष्ठत॥ ततो रुधिरसंयुक्तमनेकाग्रमनागसम्। भूमावासीनमेकान्ते सैरभ्या प्रत्युपस्थितम्॥
41तत: पप्रच्छ पितरं त्वरमाण इवोत्तरः। केनायं ताडितो राजन् केन पापमिदं कृतम्॥
42विराट उवाच मयायं ताडितो जिह्मो न चाप्येतावदर्हति। प्रशस्यमाने यच्छूरे त्वयि षण्ढं प्रशंसति॥
43उत्तर उवाच अकार्यं ते कृतं राजन् क्षिप्रमेव प्रसाद्यताम्। मा त्वां ब्रह्मविषं घोरं समूलमिह निर्दहेत्॥
44वैशम्पायन उवाच स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः। क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम्॥
45क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत। चिरं क्षान्तमिदं राजन् न मन्युर्विद्यते मम॥
46यदि ह्येतत् पतेद् भूमौ रुधिरं मम नस्ततः सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः॥
47न दूषयामि ते राजन् यद् वै हन्याददूषकम्। बलवन्तं प्रभुं राजन् क्षिप्रं दारुणमाप्नुयात्॥
48वैशम्पायन उवाच शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला। अभिवाद्य विराटं तु ककं चाप्युपतिष्ठत॥
49क्षामयित्वा तु कौरव्यं रणादुत्तरमागतम्। प्रशशंस ततो मत्स्यः शृण्वत: सव्यसाचिनः॥ त्वया दायादवानस्मि कैकेयीनन्दिवर्धन। त्वया मे सदृशः पुत्रो न भूतो न भविष्यति॥
50पदं पदसहस्रेण यश्चरन् नापरानुयात्। तेन कर्णेन ते तात कथमासीत् समागमः॥ मनुष्यलोके सकले यस्य तुल्यो न विद्यते। तेन भीष्मेण ते तात कथमासीत् समागमः॥
51आचार्यो वृष्णिवीराणां कौरवाणां च यो द्विजः। सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः। तेन द्रोणेन ते तात कथमासीत् समागमः॥
52आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि। अश्वत्थामेति विख्यातस्तेनासीत् संगरः कथम्॥
53रणे यं प्रेक्ष्य सीदन्ति हतस्वा वणिजो यथा। कृपेण तेन ते तात कथमासीत् समागमः॥
54पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः। दुर्योधनेन ते तात कथमासीत् समागमः॥
55अवगाढा द्विषन्तो मे सुखो वातोऽभिवाति माम्। यस्त्वं धनमथाजैषीः कुरुभिम्रस्तमाहवे॥
56तेषां भयाभिपन्नानां सर्वेषां बलशालिनाम्। नूनं प्रकाल्य तान् सर्वांस्त्वया युधि नरर्षभ। आच्छिन्नं गोधनं सर्वं शार्दूलेनामिषं यथा॥
English
1Vaishampayana said Having recovered speedily his wealth, Virata, the master of the army entered delightedly the city with the four Pandavas.
2Having defeated the Trigartas in battle and rescued the kine, the king shone there, in the inidst of the Partha's.
3All the heroes, with the sons of Pritha, worshipped the heroic (Virata) the increaser of friend's joy, who was seated on his throne.
4All his subjects, along with the Brahmanas and the soldiers, came and adored him. Welcoming them, the king of Matsya sent away the Brahmanas and the subjects. Then the king of Matsya's, Virata, the commander of armies, enquired of Uttara and said “Where has he gone?” Then all the females and girls of the inner apartments said “The kine were taken away by the Kurus. Out o excessive bravery, the conqueror of the earth alone, with Brihannala as his help, went out to vanquish them-the six powerful car-warriors Bhishma the son of Shantanu, Kripa, Karna, Duryodhana, Drona and Drona's son, who all have come.”
5Hearing that his brave son had gone out with only one car and Brihannala as his charioteer, the king Virata was filled with sorrow and said to his leading ministers:
6“Hearing of the discomfiture of the Trigartas, all the Kurus and other kings will not surely wait there.
7Let those of my warriors, who have not been wounded by Trigartas, go out with a highly powerful army to rescue Uttara."
8Saying this, the king Virata soon dispatched for his son, horses, elephants, cars, and a large number of infantry, decked with various dresses and ornaments.
9Virata, the king of Matsya's and commander of armies, ordered out speedily an army consisting of four divisions.
10He said: “Learn without delay, if the prince is still alive or not. Methinks, he, who has got an useless person for his charioteer, is not yet alive.
11Then the king Yudhishthira smilingly said to the king Virata, who was greatly stricken with sorrow. If Brihannala has been his charioteer, the enemies will not be able to take away the kine.
12Well guarded by that charioteer, your son will be able to defeat all the kings allied with the Kurus, as well as all the celestials, Asuras and Yakshas.
13In the meantime, the swiftly coursing emissaries, dispatched by Uttara, reached the city and announced the victory.
14The messenger then described to the king everything-the excellent victory, the defeat of the Kurus, and the expected arrival of Uttara. He said: "All the kine have been rescued, the Kurus have been vanquished, and Uttara, the slayer of enemies, fares well with his charioteer.”
15Yudhishthira said "By good luck it is, that the kine have been rescued and the Kurus have fled away. I do not consider it strange, that your son defeated the Kurus. Victory is secure to him who has got Brihannala as his charioteer.”
16Hearing of the victory of his son of immeasurable energy, the king Virata was greatly delighted, and the hairs of his body stood up.
17Then having covered the messengers with presents, he said to the ministers "Let my highway be decorated with flags."
18"Let all the gods be adored with presents of flowers. Let the princes, leading warriors, harlots adorned with ornaments."
19And all the musicians go out to receive iny son. Let the man who rings the bell, riding an infuriated elephant.
20Announce my victory at the meeting of the four roads. Let Uttara, too, encircled by many princesses, dressed and adorned in a charming style, go out to receive my son.
21Hearing the words of the king, all the citizens, with auspicious things in their hands, with cymbals, trumpets and conchs, and gorgeously attired handsome ladies, reciters of hymns, and many other musicians, went out to welcome the highly powerful son of Virata.
22Having ordered out soldiers, maidens and well-adorned harlots, the wise king delightedly said these words.
23“Bring the dice, O Sairandhri, and let us play, O Kanka.” To him then speaking, We have heard that one, in an ecstasy of joy, should not gamble . I do not wish to play with you today who are filled with joy. I always wish to do you good. If you (still wish), begin.
24Virata said Females, kine, gold and other riches whatever I have, nothing you will be able to keep today even if I do not gamble.
25Kanka said "O king, O giver of honours, what have you to do with gambling which is attended with so many evils. There are many evils in gambling, and so you should avoid it.
26You might have heard, if not seen, that the king Yudhishthira lost his vast and prosperous kingdom, his god-like brothers, and everything at a game of dice. I, therefore, do not like this game. If you, however, like, O king, I shall begin.”
27While the play was going on, the Matsya king said to Yudhishthira "Even so very fearful Kauravas have been defeated in battle by my son." Whereto Yudhishthira replied “Why should he not conquer who has got Brihannala as his charioteer?"
28At this, being enraged, the king of Matsya's said to the son of Pandu: “O wretch of a Brahman, you speak highly of an eunuch as compared with my son.
29Have you not an idea of what is proper and what is not proper? Forsooth, you insult me. Why should he not defcat all the heroes headed by Bhishma and Drona?
30For the sake of friendship, O Brahmana, I forgive you for this offence. You must not speak so again, if you wish to live."
31Yudhishthira said There, where Drona, Bhishma Drona's son, Vikartanas son, Kripa, the king Duryodhana, and other kings and car-warriors are, and where Indra himself is surrounded by Maruts, who else, save Brihannala, can fight with them, all collectively.
32None has been and none will be his equal in strength of arms. It is he only who takes delight on seeing a mighty encounter. Why should he not come off victorious, being aided by him who defeated all the celestials, the Asuras and the human beings, assembled together?
33Virata said “Although prevented by me repeatedly, you do not control your speech. If there is none to govern, who will practise virtues?"
34Vaishampayana said Saying this, the king, worked up with anger, siruck Yudhishthira on the face with a dice, and remonstrated with him in anger. Having been struck with great force, blood began to glow from his nose. But Partha held it in his hands so that it mighty not fall on the ground.
35The pious Yudhishthira then looked at Draupadi who was standing by his side. Understanding his intention, that faultless one, ever obedient to her husband, brought a golden vessel filled with water, and held the blood that flowed from his nose.
36In the meantime, Uttara, covered with various perfumes and garlands, slowly entered the city with delight.
37He was welcomed by the citizens, females and villagers. Arrived at the gate, he sent news to his father. The waiter, approaching the king Virata said: “Your son waits at the gate with Brihannala as his help.”
38The king of Matsya then said with delight to the porter. “Bring them here-I am anxious to see them.” Then Yudhishthira whispered to the porter. “Let Uttara alone come, and not Brihannala.
39That mighty-armed hero has taken this vow that whoever shall wound my body or shed my blood except in battle, shall never live. Greatly angered, he will never see me bleeding but will kill Virata with his counsellors, horses and soldiers."
40Vaishampayana said Then the eldest son of the king, Bhuminjaya, entered there. Having saluted the feet of his father, he approached Kanka. He saw him there, bathed in blood, sitting on the ground, at one end of the court, attended upon by Sairandhri.
41Uttara, then, in a hurry, asked his father “Who has struck him, Oking? Who has committed this iniquity?"
42Virata said : “This wily Brahmana has been struck by me. He deserves even more than this. When I was speaking highly of you, heroic as you are, he praised a eunuch.”
43Uttara said: "You have committed a great sin. Please him soon so that the deadly venom of Brahmana's curse may not consume you to the very roots.
44Hearing the words of his son Virata, enhancer of the state begged pardon with the son of Kunti, radiant like fire within ashes,
45Seeking forgiveness him, the son of Pandu said the king that I have taken the vow of pardon, so I have no anger in my mind.
46Forsooth, If the blood comes out from my nose, and falls on the ground, O king, you with your kingdom would have been destroyed.
47O king! Do not censure anybody and killing of others is a sinful act, but sometimes mighty king as you is bound to take this cruel step.
48Vaishampayana sajd When the bleeding had stopped, Brihannala entered the room and having saluted Virata and Kanka, stood silent.
49Having pacified Yudhishthira, the king began to praise Uttara in the hearing of Arjuna. "O descendant of Kaikeya, in you I have truly got a son. Like you I never had nor shall have a son."
50O son! How did you fight with that Karna who on his one target releases arrows for thousand targets unfailingly. And how did you meet in battle with who is unequal to any person in this world.
51O son! How did you fight with that twiceborn Drona, who is preceptor of the Vishni heroes and sons of Kurus, preceptor of all the Kshatriyas and the foremost among the armed soldiers.
52How is the battle was that of Ashvatthama with you, the son of your preceptor who was the best among the warriors and armed heroes.
53As a Vaishya becomes much distressed on destruction of his wealth, the warriors seeing Kripa become f}accid. How did you fight with them.
54O son, how was that your encounter with prince Duryodhana, who had broken the hills by his great arrows.
55O son! The Kuru sons had been kidnapped the kine wealth, you regain it. I feel great pleasure, wind also delighted me.
56Forsooth, o foremost of men, having routed the enemy of having great streinght but afraid, you have snatched away from them by precious kine like a tiger his prey.
Hindi
1वैशम्पायन ने कहा — अपना धन शीघ्र ही पुनः प्राप्त करके सेनापति विराट चारों पाण्डवों सहित प्रसन्नतापूर्वक नगर में प्रविष्ट हुए।
2युद्ध में त्रिगर्तों को परास्त करके और गौओं को छुड़ाकर वह राजा वहाँ पृथापुत्रों के मध्य शोभायमान हुए।
3सिंहासन पर बैठे हुए उन वीर, मित्रों के हर्ष को बढ़ाने वाले (विराट) की पृथापुत्रों सहित समस्त वीरों ने पूजा की।
4ब्राह्मणों तथा सैनिकों सहित उनकी समस्त प्रजा ने आकर उनका अभिनन्दन किया। उनका स्वागत करके मत्स्यराज ने ब्राह्मणों और प्रजा को विदा किया। तब सेनापति मत्स्यराज विराट ने उत्तर के विषय में पूछा — "वह कहाँ गया है?" तब अन्तःपुर की समस्त स्त्रियों और कन्याओं ने कहा — "कुरु गौओं को हर ले गए। अत्यधिक वीरता के कारण वह पृथ्वीविजेता अकेला ही, बृहन्नला को सहायक बनाकर, उन्हें परास्त करने निकल गया — उन छह महारथियों को, जो सब आ पहुँचे हैं : शान्तनुपुत्र भीष्म, कृप, कर्ण, दुर्योधन, द्रोण तथा द्रोणपुत्र।"
5अपने वीर पुत्र को केवल एक रथ पर और बृहन्नला को सारथि बनाकर निकला सुनकर राजा विराट शोक से भर गए और अपने प्रमुख मन्त्रियों से कहा —
6"त्रिगर्तों की पराजय सुनकर समस्त कुरु तथा अन्य राजा निश्चय ही वहाँ नहीं ठहरेंगे।
7मेरे जो योद्धा त्रिगर्तों से घायल नहीं हुए हैं, वे अत्यन्त शक्तिशाली सेना लेकर उत्तर की रक्षा के लिए निकलें।"
8यह कहकर राजा विराट ने अपने पुत्र के लिए शीघ्र ही घोड़े, हाथी, रथ तथा विविध वेश और आभूषणों से सजे बहुसंख्यक पैदल सैनिक भेजे।
9सेनापति मत्स्यराज विराट ने शीघ्र ही चतुरंगिणी सेना निकालने का आदेश दिया।
10उन्होंने कहा — "बिना विलम्ब पता लगाओ कि राजकुमार अब भी जीवित है या नहीं। मुझे तो लगता है कि जिसका सारथि एक निकम्मा व्यक्ति हो, वह अब जीवित नहीं है।"
11तब शोक से अत्यन्त पीड़ित राजा विराट से राजा युधिष्ठिर ने मुसकराते हुए कहा — "यदि बृहन्नला उसका सारथि है, तो शत्रु गौओं को नहीं ले जा सकेंगे।
12उस सारथि से भलीभाँति रक्षित आपका पुत्र कुरुओं से मिले हुए समस्त राजाओं को, तथा समस्त देवताओं, असुरों और यक्षों को भी परास्त कर सकेगा।"
13इसी बीच उत्तर के भेजे हुए द्रुतगामी दूत नगर में पहुँचे और उन्होंने विजय की घोषणा की।
14तब दूत ने राजा से सब कुछ कह सुनाया — उत्तम विजय, कुरुओं की पराजय तथा उत्तर के शीघ्र आगमन का समाचार। उसने कहा — "समस्त गौएँ छुड़ा ली गईं, कुरु परास्त हो गए, और शत्रुहन्ता उत्तर अपने सारथि सहित सकुशल हैं।"
15युधिष्ठिर ने कहा — "यह सौभाग्य की बात है कि गौएँ छुड़ा ली गईं और कुरु भाग गए। आपका पुत्र कुरुओं को परास्त कर आया — इसे मैं आश्चर्य नहीं मानता। जिसका सारथि बृहन्नला हो, उसकी विजय निश्चित है।"
16अपरिमेय तेजस्वी अपने पुत्र की विजय सुनकर राजा विराट अत्यन्त हर्षित हुए और उनके रोंगटे खड़े हो गए।
17तब दूतों को उपहारों से भरकर उन्होंने मन्त्रियों से कहा — "मेरे राजमार्ग ध्वजाओं से सजाए जाएँ।
18समस्त देवताओं की पुष्पोपहारों से पूजा की जाए। राजकुमार, प्रमुख योद्धा, आभूषणों से सजी गणिकाएँ —
19तथा समस्त वादक मेरे पुत्र की अगवानी के लिए निकलें। घण्टा बजाने वाला मनुष्य मदमत्त हाथी पर चढ़कर
20चौराहे पर मेरी विजय की घोषणा करे। उत्तरा भी अनेक राजकुमारियों से घिरी, मनोहर वेशभूषा और आभूषणों से सजी, मेरे पुत्र की अगवानी के लिए निकले।
21राजा के वचन सुनकर समस्त नागरिक हाथों में मंगलद्रव्य लिए, झाँझ, तुरही और शंख लिए, तथा भव्य वेश धारण किए सुन्दरी स्त्रियाँ, स्तुतिपाठक और अन्य अनेक वादक महाबली विराटपुत्र का स्वागत करने निकल पड़े।
22सैनिकों, कन्याओं तथा भलीभाँति सजी गणिकाओं को इस प्रकार भेजकर उस बुद्धिमान् राजा ने प्रसन्नतापूर्वक ये वचन कहे —
23"हे सैरन्ध्री, पासे लाओ; और हे कंक, हम खेलें।" तब उनसे (कंक ने) कहा — "हमने सुना है कि हर्ष के आवेश में मनुष्य को जूआ नहीं खेलना चाहिए। आज हर्ष से भरे आपके साथ मैं खेलना नहीं चाहता। मैं सदा आपका हित ही चाहता हूँ। तथापि यदि आप (अब भी चाहते हैं), तो आरम्भ कीजिए।"
24विराट ने कहा — स्त्रियाँ, गौएँ, स्वर्ण तथा जो भी अन्य धन मेरे पास है — मैं जूआ न भी खेलूँ, तो भी आज तुम उनमें से कुछ भी नहीं रख सकोगे।
25कंक ने कहा — "हे राजन्, हे मानदाता, इतने दोषों से भरे जूए से आपको क्या प्रयोजन? जूए में अनेक दोष हैं, अतः आपको उससे बचना चाहिए।
26आपने सुना तो होगा, यदि देखा न हो, कि राजा युधिष्ठिर ने द्यूत में अपना विशाल और समृद्ध राज्य, अपने देवतुल्य भाई तथा सब कुछ खो दिया। इसीलिए मुझे यह खेल अच्छा नहीं लगता। तथापि, हे राजन्, यदि आपकी इच्छा हो, तो मैं आरम्भ करता हूँ।"
27खेल चलते समय मत्स्यराज ने युधिष्ठिर से कहा — "देखो, इतने भयंकर कौरव भी मेरे पुत्र द्वारा युद्ध में परास्त कर दिए गए।" इस पर युधिष्ठिर ने उत्तर दिया — "जिसका सारथि बृहन्नला हो, वह क्यों न जीते?"
28इस पर क्रुद्ध होकर मत्स्यराज ने पाण्डुपुत्र से कहा — "अरे नीच ब्राह्मण, तू मेरे पुत्र की तुलना में एक नपुंसक की प्रशंसा करता है!
29क्या तुझे उचित-अनुचित का कोई विवेक नहीं? निस्सन्देह तू मेरा अपमान करता है। वह भीष्म और द्रोण के नेतृत्व वाले समस्त वीरों को क्यों न परास्त करे?
30हे ब्राह्मण, मैत्री के कारण मैं तेरा यह अपराध क्षमा करता हूँ। यदि जीवित रहना चाहता है, तो फिर ऐसा मत कहना।"
31युधिष्ठिर ने कहा — जहाँ द्रोण, भीष्म, द्रोणपुत्र, विकर्तनपुत्र, कृप, राजा दुर्योधन तथा अन्य राजा और महारथी हों, और जहाँ स्वयं इन्द्र मरुद्गणों से घिरे हों — वहाँ बृहन्नला के अतिरिक्त और कौन उन सबसे एक साथ युद्ध कर सकता है?
32भुजबल में न उसके समान कोई हुआ है, न होगा। महान् युद्ध देखकर आनन्दित होने वाला वही है। जिसने एकत्र समस्त देवताओं, असुरों और मनुष्यों को परास्त किया, उसकी सहायता पाकर वह क्यों न विजयी हो?
33विराट ने कहा — "बार-बार रोके जाने पर भी तू अपनी वाणी पर संयम नहीं रखता। यदि शासन करने वाला कोई न हो, तो धर्म का पालन कौन करेगा?"
34वैशम्पायन ने कहा — यह कहकर क्रोध से भरे राजा ने युधिष्ठिर के मुख पर पासे से प्रहार किया और क्रोध में उन्हें फटकारा। बड़े वेग से आघात लगने के कारण उनकी नाक से रक्त बहने लगा। किन्तु पार्थ ने उसे अपने हाथों में थाम लिया, जिससे वह भूमि पर न गिरे।
35तब धर्मात्मा युधिष्ठिर ने अपने पास खड़ी द्रौपदी की ओर देखा। उनका अभिप्राय समझकर पति की सदा आज्ञाकारिणी उस निर्दोष स्त्री ने जल से भरा स्वर्णपात्र लाकर उनकी नाक से बहते रक्त को उसमें ले लिया।
36इसी बीच विविध सुगन्धों और मालाओं से युक्त उत्तर प्रसन्नतापूर्वक धीरे-धीरे नगर में प्रविष्ट हुआ।
37नागरिकों, स्त्रियों तथा ग्रामवासियों ने उसका स्वागत किया। द्वार पर पहुँचकर उसने अपने पिता को समाचार भेजा। द्वारपाल ने राजा विराट के पास जाकर कहा — "आपका पुत्र बृहन्नला को सहायक बनाए द्वार पर प्रतीक्षा कर रहा है।"
38तब मत्स्यराज ने प्रसन्नतापूर्वक द्वारपाल से कहा — "उन्हें यहाँ ले आओ; मैं उन्हें देखने को उत्सुक हूँ।" तब युधिष्ठिर ने द्वारपाल के कान में कहा — "केवल उत्तर आए, बृहन्नला नहीं।
39उस महाबाहु वीर ने यह व्रत लिया है कि युद्ध के अतिरिक्त जो कोई मेरे शरीर को घायल करेगा अथवा मेरा रक्त बहाएगा, वह जीवित नहीं रहेगा। अत्यन्त क्रुद्ध होकर वह मुझे रक्त बहाते नहीं देख सकेगा और विराट को उनके मन्त्रियों, घोड़ों तथा सैनिकों सहित मार डालेगा।"
40वैशम्पायन ने कहा — तब राजा का ज्येष्ठ पुत्र भूमिञ्जय वहाँ प्रविष्ट हुआ। अपने पिता के चरणों में प्रणाम करके वह कंक के पास गया। उसने उन्हें वहाँ रक्त से सना, सभा के एक कोने में भूमि पर बैठा और सैरन्ध्री द्वारा सेवा किया जाता देखा।
41तब उत्तर ने व्याकुल होकर अपने पिता से पूछा — "हे राजन्, इन्हें किसने मारा? यह अन्याय किसने किया?"
42विराट ने कहा — "इस कपटी ब्राह्मण को मैंने मारा है। यह इससे भी अधिक का पात्र है। जब मैं तुम्हारी — तुम जैसे वीर की — प्रशंसा कर रहा था, तब इसने एक नपुंसक की प्रशंसा की।"
43उत्तर ने कहा — "आपने महान् पाप किया है। इन्हें शीघ्र प्रसन्न कीजिए, जिससे ब्राह्मण के शाप का घोर विष आपको जड़ से भस्म न कर दे।"
44अपने पुत्र के वचन सुनकर राज्य को समृद्ध करने वाले विराट ने भस्म के भीतर छिपी अग्नि के समान तेजस्वी कुन्तीपुत्र से क्षमा माँगी।
45उनसे क्षमा माँगने पर पाण्डुपुत्र ने राजा से कहा कि मैंने क्षमा का व्रत लिया है, अतः मेरे मन में कोई क्रोध नहीं है।
46हे राजन्, निस्सन्देह यदि मेरी नाक से निकला रक्त भूमि पर गिर जाता, तो आप अपने राज्य सहित नष्ट हो जाते।
47हे राजन्, किसी की निन्दा न कीजिए; और दूसरों का वध पापकर्म है, यद्यपि आप जैसे महान् राजा को कभी-कभी यह कठोर पग उठाना ही पड़ता है।
48वैशम्पायन ने कहा — जब रक्त बहना रुक गया, तब बृहन्नला ने कक्ष में प्रवेश किया और विराट तथा कंक को प्रणाम करके मौन खड़ी रही।
49युधिष्ठिर को शान्त करके राजा अर्जुन के सुनते हुए ही उत्तर की प्रशंसा करने लगे — "हे कैकेयवंशी, तुम्हारे रूप में मुझे सचमुच पुत्र प्राप्त हुआ है। तुम्हारे समान पुत्र न मेरा कभी हुआ, न होगा।
50हे पुत्र, उस कर्ण से तुमने कैसे युद्ध किया, जो एक साथ सहस्र लक्ष्यों पर अचूक बाण छोड़ता है? और युद्ध में तुम उससे कैसे भिड़े, जिसकी बराबरी इस संसार में कोई नहीं कर सकता?
51हे पुत्र, उन द्विजश्रेष्ठ द्रोण से तुमने कैसे युद्ध किया, जो वृष्णिवीरों तथा कुरुपुत्रों के आचार्य हैं, समस्त क्षत्रियों के गुरु हैं और शस्त्रधारियों में अग्रगण्य हैं?
52तुम्हारे आचार्य के पुत्र अश्वत्थामा से, जो योद्धाओं और शस्त्रधारी वीरों में श्रेष्ठ है, तुम्हारा युद्ध कैसा रहा?
53जैसे धन के नाश से वैश्य अत्यन्त व्यथित हो जाता है, वैसे ही कृप को देखकर योद्धा शिथिल पड़ जाते हैं। उनसे तुमने कैसे युद्ध किया?
54हे पुत्र, राजकुमार दुर्योधन से, जिसने अपने महान् बाणों से पर्वतों को तोड़ डाला है, तुम्हारा वह द्वन्द्व कैसा रहा?
55हे पुत्र, कुरुपुत्रों ने गौरूपी धन हर लिया था, उसे तुमने पुनः प्राप्त किया। इससे मुझे महान् हर्ष हुआ है; वायु भी मुझे आनन्दित कर रही है।
56निस्सन्देह, हे नरश्रेष्ठ, महान् बलशाली किन्तु भयभीत उन शत्रुओं को खदेड़कर तुमने उनसे वे बहुमूल्य गौएँ वैसे ही छीन लीं जैसे व्याघ्र अपना शिकार।
Nepali
1वैशम्पायनले भने — आफ्नो धन चाँडै पुनः प्राप्त गरेर सेनापति विराट चारै पाण्डवसहित प्रसन्नतापूर्वक नगरमा प्रवेश गरे।
2युद्धमा त्रिगर्तहरूलाई परास्त गरेर र गाईहरू छुटाएर ती राजा त्यहाँ पृथापुत्रहरूको बीचमा शोभायमान भए।
3सिंहासनमा बसेका ती वीर, मित्रहरूको हर्ष बढाउने (विराट)को पृथापुत्रहरूसहित सम्पूर्ण वीरहरूले पूजा गरे।
4ब्राह्मण तथा सैनिकसहित उनको सम्पूर्ण प्रजाले आएर उनको अभिनन्दन गर्यो। तिनीहरूको स्वागत गरेर मत्स्यराजले ब्राह्मण र प्रजालाई बिदा गरे। तब सेनापति मत्स्यराज विराटले उत्तरका विषयमा सोधे — "ऊ कहाँ गयो?" तब अन्तःपुरका सम्पूर्ण स्त्री र कन्याहरूले भने — "कुरुहरूले गाईहरू हरण गरेर लगे। अत्यधिक वीरताका कारण ती पृथ्वीविजेता एक्लै, बृहन्नलालाई सहायक बनाएर, तिनीहरूलाई परास्त गर्न निस्किए — ती छ महारथीलाई, जो सबै आइपुगेका छन् : शान्तनुपुत्र भीष्म, कृप, कर्ण, दुर्योधन, द्रोण तथा द्रोणपुत्र।"
5आफ्नो वीर पुत्र केवल एउटा रथमा र बृहन्नलालाई सारथि बनाएर निस्केको सुनेर राजा विराट शोकले भरिए र आफ्ना प्रमुख मन्त्रीहरूलाई भने —
6"त्रिगर्तहरूको पराजय सुनेर सम्पूर्ण कुरु तथा अन्य राजाहरू निश्चय नै त्यहाँ अडिनेछैनन्।
7मेरा जुन योद्धा त्रिगर्तहरूबाट घाइते भएका छैनन्, तिनीहरू अत्यन्त शक्तिशाली सेना लिएर उत्तरको रक्षाका लागि निस्कून्।"
8यसो भनेर राजा विराटले आफ्ना पुत्रका लागि चाँडै घोडा, हात्ती, रथ तथा विविध वेश र आभूषणले सजिएका धेरै पैदल सैनिक पठाए।
9सेनापति मत्स्यराज विराटले चाँडै चतुरङ्गिणी सेना निकाल्ने आदेश दिए।
10उनले भने — "ढिलो नगरी पत्ता लगाऊ कि राजकुमार अझै जीवित छन् कि छैनन्। मलाई त लाग्दछ कि जसको सारथि एउटा निकम्मा व्यक्ति होस्, ऊ अब जीवित छैन।"
11तब शोकले अत्यन्त पीडित राजा विराटलाई राजा युधिष्ठिरले मुस्कुराउँदै भने — "यदि बृहन्नला उनको सारथि छन् भने, शत्रुहरूले गाईहरू लैजान सक्नेछैनन्।
12त्यस सारथिद्वारा राम्ररी रक्षित तपाईंका पुत्रले कुरुहरूसँग मिलेका सम्पूर्ण राजालाई, तथा सम्पूर्ण देवता, असुर र यक्षलाई पनि परास्त गर्न सक्नेछन्।"
13यसैबीच उत्तरले पठाएका द्रुतगामी दूतहरू नगरमा पुगे र तिनीहरूले विजयको घोषणा गरे।
14तब दूतले राजालाई सबै कुरा सुनाए — उत्तम विजय, कुरुहरूको पराजय तथा उत्तरको चाँडै आगमनको समाचार। उनले भने — "सम्पूर्ण गाईहरू छुटाइए, कुरुहरू परास्त भए, र शत्रुहन्ता उत्तर आफ्नो सारथिसहित सकुशल छन्।"
15युधिष्ठिरले भने — "यो सौभाग्यको कुरा हो कि गाईहरू छुटाइए र कुरुहरू भागे। तपाईंका पुत्रले कुरुहरूलाई परास्त गरे — यसलाई म आश्चर्य मान्दिनँ। जसको सारथि बृहन्नला होऊन्, उनको विजय निश्चित छ।"
16अपरिमेय तेजस्वी आफ्ना पुत्रको विजय सुनेर राजा विराट अत्यन्त हर्षित भए र उनको रौँ ठाडो भयो।
17तब दूतहरूलाई उपहारले भरेर उनले मन्त्रीहरूलाई भने — "मेरा राजमार्ग ध्वजाले सजाइयून्।
18सम्पूर्ण देवताको पुष्पोपहारले पूजा गरियोस्। राजकुमार, प्रमुख योद्धा, आभूषणले सजिएका गणिकाहरू —
19तथा सम्पूर्ण वादक मेरा पुत्रको स्वागतका लागि निस्कून्। घण्ट बजाउने मानिस मातेको हात्तीमा चढेर
20चौबाटोमा मेरो विजयको घोषणा गरोस्। उत्तरा पनि अनेक राजकुमारीले घेरिएर, मनोहर वेशभूषा र आभूषणले सजिएर, मेरा पुत्रको स्वागतका लागि निस्कून्।
21राजाका वचन सुनेर सम्पूर्ण नागरिक हातमा मङ्गलद्रव्य लिएर, झ्याली, तुरही र शङ्ख लिएर, तथा भव्य वेश धारण गरेका सुन्दरी स्त्रीहरू, स्तुतिपाठक र अन्य अनेक वादक महाबली विराटपुत्रको स्वागत गर्न निस्किए।
22सैनिक, कन्या तथा राम्ररी सजिएका गणिकाहरूलाई यसरी पठाएर ती बुद्धिमान् राजाले प्रसन्नतापूर्वक यी वचन भने —
23"हे सैरन्ध्री, पासा ल्याऊ; अनि हे कङ्क, हामी खेलौँ।" तब उनलाई (कङ्कले) भने — "हामीले सुनेका छौँ कि हर्षको आवेगमा मानिसले जुवा खेल्नुहुँदैन। आज हर्षले भरिनुभएका तपाईंसँग म खेल्न चाहन्नँ। म सधैँ तपाईंकै हित चाहन्छु। तथापि यदि तपाईं (अझै चाहनुहुन्छ) भने, सुरु गर्नुहोस्।"
24विराटले भने — स्त्री, गाई, सुन तथा जुनसुकै अन्य धन मसँग छ — म जुवा नखेले पनि आज तिमीले तीमध्ये केही पनि राख्न सक्नेछैनौ।
25कङ्कले भने — "हे राजन्, हे मानदाता, यति धेरै दोषले भरिएको जुवासँग तपाईंलाई के काम? जुवामा अनेक दोष छन्, त्यसैले तपाईंले त्यसबाट जोगिनुपर्दछ।
26तपाईंले सुन्नुभएकै होला, देख्नुभएको नहोस् पनि, कि राजा युधिष्ठिरले द्यूतमा आफ्नो विशाल र समृद्ध राज्य, आफ्ना देवतुल्य भाइहरू तथा सबै कुरा गुमाए। त्यसैले मलाई यो खेल राम्रो लाग्दैन। तथापि, हे राजन्, यदि तपाईंको इच्छा छ भने, म सुरु गर्दछु।"
27खेल चलिरहेका बेला मत्स्यराजले युधिष्ठिरलाई भने — "हेर, यति भयङ्कर कौरवहरू पनि मेरा पुत्रद्वारा युद्धमा परास्त भए।" यसमा युधिष्ठिरले जवाफ दिए — "जसको सारथि बृहन्नला होऊन्, उनी किन नजितून्?"
28यसमा क्रुद्ध भई मत्स्यराजले पाण्डुपुत्रलाई भने — "अरे नीच ब्राह्मण, तँ मेरो पुत्रको तुलनामा एउटा नपुंसकको प्रशंसा गर्दछस्!
29के तँलाई उचित-अनुचितको कुनै विवेक छैन? निस्सन्देह तैँले मेरो अपमान गर्दछस्। उनले भीष्म र द्रोणको नेतृत्वका सम्पूर्ण वीरलाई किन परास्त नगरून्?
30हे ब्राह्मण, मैत्रीका कारण म तिम्रो यो अपराध क्षमा गर्दछु। यदि जीवित रहन चाहन्छस् भने, फेरि यस्तो नभन्नू।"
31युधिष्ठिरले भने — जहाँ द्रोण, भीष्म, द्रोणपुत्र, विकर्तनपुत्र, कृप, राजा दुर्योधन तथा अन्य राजा र महारथीहरू होऊन्, र जहाँ स्वयं इन्द्र मरुद्गणले घेरिएका होऊन् — त्यहाँ बृहन्नलाबाहेक अरू कसले ती सबैसँग एकैचोटि युद्ध गर्न सक्दछ?
32भुजबलमा न उनीसमान कोही भएको छ, न हुनेछ। महान् युद्ध देखेर आनन्दित हुने उनी नै हुन्। जसले जम्मा भएका सम्पूर्ण देवता, असुर र मानिसलाई परास्त गरे, उनको सहायता पाएर उनी किन विजयी नहोऊन्?
33विराटले भने — "बारम्बार रोकिँदा पनि तैँले आफ्नो वाणीमा संयम राख्दैनस्। यदि शासन गर्ने कोही नहोस् भने, धर्मको पालन कसले गर्ला?"
34वैशम्पायनले भने — यसो भनेर क्रोधले भरिएका राजाले युधिष्ठिरको मुखमा पासाले प्रहार गरे र क्रोधमा उनलाई हप्काए। ठूलो वेगले आघात लागेकाले उनको नाकबाट रगत बग्न थाल्यो। तर पार्थले त्यसलाई आफ्ना हातमा थामे, जसले गर्दा त्यो भूमिमा नखसोस्।
35तब धर्मात्मा युधिष्ठिरले आफ्नो छेउमा उभिएकी द्रौपदीतिर हेरे। उनको अभिप्राय बुझेर पतिकी सधैँ आज्ञाकारिणी ती निर्दोष स्त्रीले जलले भरिएको सुनको पात्र ल्याएर उनको नाकबाट बग्ने रगत त्यसमा लिइन्।
36यसैबीच विविध सुगन्ध र मालाले युक्त उत्तर प्रसन्नतापूर्वक बिस्तारै नगरमा प्रवेश गरे।
37नागरिक, स्त्री तथा गाउँलेहरूले उनको स्वागत गरे। ढोकामा पुगेर उनले आफ्ना पितालाई समाचार पठाए। द्वारपालले राजा विराटकहाँ गएर भने — "तपाईंका पुत्र बृहन्नलालाई सहायक बनाएर ढोकामा प्रतीक्षा गरिरहेका छन्।"
38तब मत्स्यराजले प्रसन्नतापूर्वक द्वारपाललाई भने — "तिनीहरूलाई यहाँ ल्याऊ; म तिनीहरूलाई हेर्न उत्सुक छु।" तब युधिष्ठिरले द्वारपालको कानमा भने — "उत्तर मात्र आऊन्, बृहन्नला होइन।
39ती महाबाहु वीरले यो व्रत लिएका छन् कि युद्धबाहेक जसले मेरो शरीरलाई घाइते बनाउँछ अथवा मेरो रगत बगाउँछ, ऊ जीवित रहनेछैन। अत्यन्त क्रुद्ध भई उनले मलाई रगत बगाइरहेको देख्न सक्नेछैनन् र विराटलाई उनका मन्त्री, घोडा तथा सैनिकसहित मारिदिनेछन्।"
40वैशम्पायनले भने — तब राजाका जेठा पुत्र भूमिञ्जय त्यहाँ प्रवेश गरे। आफ्ना पिताका चरणमा प्रणाम गरेर उनी कङ्ककहाँ गए। उनले उनलाई त्यहाँ रगतले भिजेको, सभाको एक कुनामा भूमिमा बसेको र सैरन्ध्रीले सेवा गरिरहेको देखे।
41तब उत्तरले व्याकुल भई आफ्ना पितालाई सोधे — "हे राजन्, यिनलाई कसले हान्यो? यो अन्याय कसले गर्यो?"
42विराटले भने — "यस कपटी ब्राह्मणलाई मैले हानेको हुँ। यो यसभन्दा पनि बढीको पात्र छ। जब म तिम्रो — तिमीजस्ता वीरको — प्रशंसा गर्दै थिएँ, तब यसले एउटा नपुंसकको प्रशंसा गर्यो।"
43उत्तरले भने — "तपाईंले महान् पाप गर्नुभएको छ। यिनलाई चाँडै प्रसन्न पार्नुहोस्, जसले गर्दा ब्राह्मणको शापको घोर विषले तपाईंलाई जरैदेखि भस्म नपारोस्।"
44आफ्ना पुत्रका वचन सुनेर राज्यलाई समृद्ध पार्ने विराटले खरानीभित्र लुकेको आगोझैँ तेजस्वी कुन्तीपुत्रसँग क्षमा मागे।
45उनीसँग क्षमा मागेपछि पाण्डुपुत्रले राजालाई भने कि मैले क्षमाको व्रत लिएको छु, त्यसैले मेरो मनमा कुनै क्रोध छैन।
46हे राजन्, निस्सन्देह यदि मेरो नाकबाट निस्केको रगत भूमिमा खस्थ्यो भने, तपाईं आफ्नो राज्यसहित नष्ट हुनुहुन्थ्यो।
47हे राजन्, कसैको निन्दा नगर्नुहोस्; अनि अरूको वध पापकर्म हो, यद्यपि तपाईंजस्ता महान् राजाले कहिलेकाहीँ यो कठोर पाइला चाल्नै पर्दछ।
48वैशम्पायनले भने — जब रगत बग्न रोकियो, तब बृहन्नलाले कक्षमा प्रवेश गरिन् र विराट तथा कङ्कलाई प्रणाम गरेर मौन उभिइन्।
49युधिष्ठिरलाई शान्त पारेर राजाले अर्जुनले सुन्ने गरी उत्तरको प्रशंसा गर्न थाले — "हे कैकेयवंशी, तिम्रो रूपमा मैले साँच्चै पुत्र पाएको छु। तिमीजस्तो पुत्र न मेरो कहिल्यै भयो, न हुनेछ।
50हे पुत्र, ती कर्णसँग तिमीले कसरी युद्ध गर्यौ, जसले एकैचोटि हजार लक्ष्यमा अचूक बाण छोड्दछन्? अनि युद्धमा तिमी उनीसँग कसरी भिड्यौ, जसको बराबरी यस संसारमा कसैले गर्न सक्दैन?
51हे पुत्र, ती द्विजश्रेष्ठ द्रोणसँग तिमीले कसरी युद्ध गर्यौ, जो वृष्णिवीर तथा कुरुपुत्रहरूका आचार्य हुन्, सम्पूर्ण क्षत्रियका गुरु हुन् र शस्त्रधारीहरूमा अग्रगण्य छन्?
52तिम्रा आचार्यका पुत्र अश्वत्थामासँग, जो योद्धा र शस्त्रधारी वीरहरूमा श्रेष्ठ छन्, तिम्रो युद्ध कस्तो रह्यो?
53जसरी धनको नाशले वैश्य अत्यन्त व्यथित हुन्छ, त्यसरी नै कृपलाई देखेर योद्धाहरू शिथिल हुन्छन्। उनीसँग तिमीले कसरी युद्ध गर्यौ?
54हे पुत्र, राजकुमार दुर्योधनसँग, जसले आफ्ना महान् बाणले पर्वतहरू भाँचेका छन्, तिम्रो त्यो द्वन्द्व कस्तो रह्यो?
55हे पुत्र, कुरुपुत्रहरूले गाईरूपी धन हरण गरेका थिए, त्यो तिमीले पुनः प्राप्त गर्यौ। यसले मलाई महान् हर्ष भएको छ; वायुले पनि मलाई आनन्दित पारिरहेको छ।
56निस्सन्देह, हे नरश्रेष्ठ, महान् बलशाली तर भयभीत ती शत्रुहरूलाई खेदाएर तिमीले तिनीहरूबाट ती बहुमूल्य गाईहरू त्यसरी नै खोस्यौ जसरी बाघले आफ्नो शिकार।