Dyuta Parva — The dragging of Draupadi
Volume I — Adi & Sabha Parva · Chapter 302
Sanskrit
1भीम उवाच भवन्ति गेहे बन्धक्यः कितवानां युधिष्ठिर। न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि॥
2काश्यो यद् धनमाहार्षीद् द्रव्यं यच्चान्यदुत्तमम्। तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन्॥ वाहनानि धनं चैव कवचान्यायुधानि च। राज्यमात्मा वयं चैव कैतवेन हृतं परैः॥
3न च मे तत्र कोपोऽभूत् सर्वस्येशो हि नो भवान्। इमं त्वतिक्रमं मन्ये द्रौपदी यत्र पण्यते॥
4एषा ह्यनहती बाला पाण्डवान् प्राप्य कौरवैः। त्वत्कृते क्लिश्यते क्षुदैर्नृशंसैरकृतात्मभिः॥
5अस्याः कृते मन्युरयं त्वयि राजन् निपात्यते। बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानय॥
6अर्जुन उवाच न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः। परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम्॥
7न सकामाः परे कार्या धर्ममेवाचरोत्तमम्। भ्रातरं धार्मिकं ज्येष्ठं कोऽतिवर्तितुमर्हति॥
8आहूतो हि परै राजा क्षात्रं व्रतमनुस्मरन्। दीव्यते परकामेन तन्नः कीर्तिकरं महत्॥
9भीमसेन उवाच एवमस्मिन् कृतं विद्यां यदि नाहं धनंजय। दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव॥
10वैशम्पायन उवाच तथा तान् दुःखितान् दृष्ट्वा पाण्डवान् धृतराष्ट्रजः। कृष्यमाणां च पाञ्चालीं विकर्ण इदमब्रवीत्॥
11विकरण उवाच याज्ञसेन्या यदुक्तं तद् वाक्यं विबूत पार्थिवाः। अविवेकेन वाक्यस्य नरकः सद्य एव नः॥
12भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ। समेत्य नाहतुः किंचिद् विदुरश्च महामतिः॥
13भारद्वाजश्च सर्वेषामाचार्यः कृप एव च। कुत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ॥
14ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः। कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति॥
15यदिदं द्रौपदीवाक्यमुक्तवत्यसकृच्छुभा। विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम्॥
16वैशम्पायन उवाच एवं स बहुशः सर्वानुक्तवांस्तान् सभासदः। न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा॥
17उक्त्वा सकृत् तथा सर्वान् विकर्णः पृथिवीपतीन्। पाणौ पाणिं विनिष्पिष्य निःश्वसन्निदमब्रवीत्॥
18विकरण उवाच विद्वत पृथिवीपाला वाक्यं मा वा कथंचन। मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः॥
19चत्वार्याहुनश्रेष्ठा व्यसनानि महीक्षिताम्। मृगयां पानमक्षांश्च ग्राम्ये चैवातिरक्तताम्॥
20एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते। यथायुक्तेन च कृतां क्रियां लोको न मन्यते॥
21तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम्। समाहूतेन कितवैरास्थितौ द्रौपदीपणः॥
22साधारणी च सर्वेषां पाण्डवानामनिन्दिता। जितेन पूर्वं चानेन पाण्डवेन कृतः पणः॥
23इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना। एतत् सर्वं विचार्याहं मन्ये न विजितामिमाम्॥
24एतच्छ्रुत्वा महान् नादः सभ्यानामुदतिष्ठत। विकर्णं शंसमानानां सौबलं चापि निन्दताम्॥
25तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्च्छितः। प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत्॥
26कर्ण उवाच दृश्यन्ते वै विकर्णेह वैकृतानि बहून्यपि। तज्जातस्तद्विनाशाय यथाग्निररणिप्रजः॥
27एते न किंचिदप्याहुश्चोदिता ह्यपि कृष्णया। धर्मेण विजितामेतां मन्यन्ते दुपदात्मजाम्॥
28त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे। यद् ब्रवीषि सभामध्ये बालः स्थविरभाषितम्॥
29न च धर्मं यथावत् त्वं वेत्सि दुर्योधनावर। यद् ब्रवीषि जितां कृष्णां न जितेति सुमन्दधीः॥
30कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज। यदा सभायां सर्वस्वं न्यस्तवान् पाण्डवाग्रजः॥
31अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ। एवं धर्मजितां कृष्णां मन्यसे न जितां कथम्॥
32कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः। भवत्यविजिता केन हेतुनैषा मता तव॥
33मन्यसे वा सभामेतामानीतामेकवाससम्। अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तमम्॥
34एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन। इयं त्वनेकवशगा बन्धकीति विनिश्चिता॥
35अस्याः सभामानयनं च चित्रमिति मे मतिः। एकाम्बरध रत्वं वाप्यथ वापि विवस्त्रता॥
36यच्चैषां द्रविणं किंचिद् या चैषा ये पाण्डवाः। सौबलेनेह तत् सर्वं धर्मेण विजितं वसु॥
37दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः। पाण्डवानां च वासांसि द्रौपद्याश्चाप्युहर॥
38तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत। अवकीर्योत्तरीयाणि सभायां समुपाविशन्॥
39ततो दुःशासनो राजन् द्रौपद्या वसनं बलात्। सभामध्ये समाक्षिप्य व्यपाक्रष्टुं प्रचक्रमे॥
40वैशम्पायन उवाच आकृष्यमाणे वसने द्रौपद्याश्चिन्तितो हरिः। गोविन्द द्वारकावासिन् कृष्ण गोपीजनप्रियः॥
41कौरवैः परिभूतां मां किं न जानासि केशव हे नाथ हे रमानाथ व्रजनाथार्तिनाशन। कौरवार्णवमग्नां मामुद्धरस्व जनार्दन॥
42कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन। प्रपन्नां पाहि गोविन्द कुरुमध्येऽवसीदतीम्॥
43इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम्। प्रारुदद् दुःखिता राजन् मुखमाच्छाद्य भामिनी॥
44याज्ञसेन्या वचः श्रुत्वा कृष्णो गह्वरितोऽभवत्। त्यक्त्वा शय्याऽऽसनं पद्भ्यां कृपालुः कृपयाभ्यगात्॥४५
45कृष्णं च विष्णु च हरिं नरं च त्राणाय विक्रोशति याज्ञसेनी। ततस्तु धर्मोऽन्तरितो महात्मा समावृणोद् वै विविधैः सुवस्त्रैः॥
46आकृष्यमाणे वसने द्रौपद्यास्तु विशाम्पते। तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः॥
47नानारागविरागाणि वसनान्यथ वै प्रभो। प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात्॥
48ततो हलहलाशब्दस्तत्रासीद् घोरदर्शनः। तदद्भुततमं लोको वीक्ष्य सर्वे महीभृतः। शशंसुद्रौपदीं तत्र कुत्सन्तो धृतराष्ट्रजम्॥
49शशाप तत्र भीमस्तु राजमध्ये बृहत्स्वनः। क्रोधाद् विस्फुरमाणौष्ठो विनिष्पिष्य करे करम्॥
50भीम उवाच इदं मे वाक्यमादध्वं क्षत्रिया लोकवासिनः। नोक्तपूर्वं नरैरन्यैर्न चान्यो यद् वदिष्यति॥
51यद्येतदेवमुक्त्वाहं न कुर्यां पृथिवीश्वराः। पितामहानां पूर्वेषां नाहं गतिमवाप्नुयाम्॥ अस्य पापस्य दुर्बुद्धेर्भारतापसदस्य च। न पिबेयं बलाद् वक्षो भित्त्वा चेद् रुधिरं युधि॥
52वैशम्पायन उवाच तस्य ते तद् वचः श्रुत्वा रौद्रं लोमप्रहर्षणम्। प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम्॥
53यदा तु वाससां राशिः सभामध्ये समाचितः। ततो दुःशासनः श्रान्तो वीडितः समुपाविशत्॥
54धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः। सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तथा॥
55न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह। स जनः क्रोशति स्मात्र धृतराष्ट्र विगर्हयन्॥
56ततो बाहू समुच्छ्रित्य निवार्य च सभासदः। विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत्॥
57विदुर उवाच द्रौपदी प्रश्नमुक्त्वैवं रोरवति हयनाथवत्। न च विब्रूत तं प्रश्न सभ्या धर्मोऽत्र पीड्यते॥
58सभां प्रपद्यते ह्यातः प्रज्वलन्निव हव्यवाट्। तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत॥
59धर्मप्रश्नमतो ब्रूयादार्य: सत्येन मानवः। विब्रूयस्तत्र तं प्रश्न कामक्रोधबलातिगाः॥
60विकर्णेन यथाप्रज्ञःमुक्तः प्रश्नो नराधिपाः। भवन्तोऽपि हि तं प्रश्न विब्रुवन्तु यथामति॥
61यो हि प्रश्न न विब्रूयाद धर्मदर्शी सभां गतः। अनृते या फलावाप्तिस्तस्याः सोऽधू समश्नुते॥
62यः पुनर्वितथं ब्रूयाद् धर्मदर्शी सभां गतः। अनृतस्य फलं कृत्स्नं सम्प्राप्नोतीति निश्चयः॥
63अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च॥
64प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः। कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत्॥
65अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा। तयोर्देवनमत्रासीत् प्राणयोरिति नः श्रुतम्॥
66तयोः प्रश्नविवादोऽभूत् प्रह्लादं तावपृच्छताम्। ज्यायान् क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा॥
67स वै विवदनाद् भीत: सुधन्वानं विलोकयन्। तं सुधन्वाब्रवीत् क्रुद्धो ब्रह्मदण्ड इव ज्वलन्॥
68यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि। शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति॥
69सुधन्वना तथोक्तः सन् व्यथितोऽश्वत्थपर्णवत्। जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम्॥
70प्रह्लाद उवाच त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च। ब्राह्मणस्य महाभाग धर्मकृच्छ्रमिदं शृणु॥
71यो वै प्रश्नं न विब्रूयाद् वितथं चैव निर्दिशेत्। के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः॥
72कश्यप उवाच जाननविब्रुवन् प्रश्नान् कामात् क्रोधाद् भयात् तथा। सहस्रं वारुणान् पाशानात्मनि प्रतिमुञ्चति॥
73साक्षी वा विब्रुवन् साक्ष्यं गोकर्णशिथिलश्चरन्। सहस्रं वारुणान् पाशानात्मनि प्रतिमुश्चति॥
74तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते। तस्मात् सत्यं तु वक्तव्यं जानता सत्यमञ्जसा॥
75विद्धो धर्मो हाधर्मेण सभां यत्रोपपद्यते। न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः॥
76अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु। पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम्॥
77अनेना भवति श्रेष्ठों मुच्यन्ते च सभासदः। एनो गच्छति कर्तारं निन्दा) यत्र निन्द्यते॥
78वितथं तु वदेयुर्ये धर्म प्रह्लाद पृच्छते। इष्टापूर्तं च ते नन्ति सप्त सप्त परावरान्॥
79हृतस्वस्य हि यद् दुःखं हतपुत्रस्य चैव यत्। ऋणिनः प्रति यच्चैव स्वार्थाद् भ्रष्टस्य चैव यत्॥ स्त्रियाः पत्या विहीनाया राज्ञा ग्रस्तस्य चैव यत्। अपुत्रायाश्च यद् दुःखं व्याघ्राघातस्य चैव यत्॥ अध्यूढायाश्च यद् दुःखं साक्षिभिर्विहतस्य च। एतानि वै समान्याहुर्दुःखानि त्रिदिवेश्वराः॥
80तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन्। समक्षदर्शनात् साक्षी श्रवणाच्चेति धारणात्॥
81तस्मात् सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते। कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत्॥
82विदुर उवाच श्रेयान् सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः। माता सुधन्वनश्चापि मातृतः श्रेयसी तव। विरोचन सुधन्वायं प्राणानामीश्वरस्तव॥
83सुधन्वोवाच पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे व्यवस्थितः। अनुजानामि ते पुत्रं जीवत्वेष शतं समाः॥
84विदुर उवाच एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः। यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम्॥
85वैशंपायन उवाच विदुरस्य वचः श्रुत्वा नोचुः किंचन पार्थिवाः। कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान् नय॥
86तां वेपमानां सवीडां प्रलपन्तीं स्म पाण्डवान्। दुःशासनः सभामध्ये विचकर्ष तपस्विनीम्॥
English
1Bhima said O Yudhisthira, the gamblers have in their house many loose women. They do not play staking even those women. They have kindness even towards them.
2Whatever wealth and other excellent articles which the king of Kashi gave, and the gems and jewels, animals, wealth, armours, and weapons which the other kings, presented, nay even our kingdom, yourself and ourselves, have all been won by our enemies at play.
3Even at all this, my anger was not excited, for you are our lord. But I consider it a highly improper act, this your staking Draupadi.
4Having obtained the Pandavas as her husband, this innocent girl does not deserve this (treatment). It is only for you that she is persecuted by these low, despicable, cruel and mean-minded Kurus.
5O king, it is for her sake that my anger falls on you. I shall burn your hands. Sahadeva, bring some fire?
6Arjuna said O Bhimasena, you have never before uttered such swords as these. Your high morality has certainly been destroyed by these cruel foes.
7You should not fulfill the wishes of the enemy. Practise the highest morality. Should any body transgress his virtuous elders brother?
8Having been summoned by the Kurus and having remembered the Kshatriyas Dharma (usage), the king played at dice against his will. This is certainly conductive to one's great fame.
9Bhima said O Dhananjaya, if I had not know what the king did, he did according to the Kshatriyas usage, I would have long ago snatched his arms by force and brunt them in a blazing fire.
10Vaishampayana said Seeing the Pandavas thus distressed and the Panchala princess thus afflicted, the son of Dhritarashtra, Vikarna, thus spoke.
11Vikarna said O kings, answer the question that has been asked by Yajnaseni (Draupadi). If we do not decide a matter referred to us, we shall certainly have to go to hell without delay.
12Bhisma and Dhritarashtra, the two eldest of the Kurus, and the high-souled Vidura, uniting together, do not say any thing.
13The son of Bharadvaja (Drona), the preceptor of all of us and also Kripa, why these best of Brahmanas do not answer her question?
14Let the kings that have assembled here from all directions, leaving aside all motives of anger and desire, speak our according to their judgement.
15O kings, answer the question asked by Draupadi and say after due reflection on which side each of you is.
16Vaishampayana said Thus did he (Vikarna) repeatedly appeal to those that were present in the assembly to answer Draupadi's question. But the kings present did not say a word good or ill.
17Repeatedly appealing to the kings, rubbing his palms and sighing like a snake, Vikarna thus (again) spoke.
18Vikarna said O kings, O Kurus, whether you answer this question or not, I shall say what I consider just and proper.
19O best of men, it has been said that hunting, drinking, gambling, and enjoying women are the four vices of the kings.
20The man who is addicted to those vices lives by forsaking virtue. People do not consider the acts done by a person who is thus improperly engaged as of any authority.
21This son of Pandu (Yudhisthira), white madly engaged in one of these vicious acts (namely gambling) and urged thereto by dec sitful gamblers, staked Draupadi.
22The faultness Draupadi is the common wife of all the sons of Pandu. Having first lost himself, the Pandava (Yudhisthira) offered her as a stake.
23The son of Subala (Shakuni), himself being desirous of a stake, prevailed upon the king to stake Krishna (Draupadi). Considering all these circumstances, I consider Draupadi as not won.
24Vaishampayana said Hearing these words, a loud uproar rose from those present in the assembly. They all applauded Vikarna and censured the son of Subala (Shakuni).
25The son of Radha (Karna) became out of sense from anger. Waving his well sapped arms he spoke thus.
26Karna said O Vikarna, I observed many opposite and inconsistent conditions in this assembly. As the fire, produced from a faggot, itself, so you will be consumed by you this anger.
27These (great) personages (present) here, through (repeatedly) urged by Krishna (Draupadi), have not uttered a single word. They all consider that the daughter of Drupada has been righteously won.
28O son of Dhritarashtra, you alone for your boyish age are bursting into rage. Though you are but a boy, you speak as if you are an old man.
29O younger brother of Duryodhana, you know not what really the rules of morality are. You say like a fool that this Krishna (Draupadi), who has been won, as not won (at all).
30o son of Dhritarashtra, how do you consider that Krishna (Draupadi) is not won, when the eldest of the Pandavas have staked all his possessions in this assembly?
31O best of the Bharata race, Draupadi is (surely) included in his possessions. Why do you consider that Krishna (Draupadi) who has been righteously won as not won?
32Draupadi was mentioned (by Shakuni) in conversation, and she was approved of as a stake by the Pandava, why is it (then) your opinion that she is not won?
33If you consider it wrong to bring her in the Sabha attired in only one piece of cloth, listen to the excellent words I say.
34O descendant of Kuru, it has been ordained by the gods that a woman should have only one husband; she (Draupadi) has (however) many husbands; therefore it is certain that she is an unchaste woman.
35In my opinion there is nothing surprising if she is brought before the assembly in one cloth or if she be made naked.
36Whatever wealth the Pandavas had, including her and also the Pandavas themselves, have been righteously won by the son of Subala (Shakuni).
37O Dushasana, this Vikarna, speaking words of wisdom, is but a boy. Take off the robes of the Pandavas and also that of Draupadi.
38Vaishampayana said O descendant of Bharata, having heard this, the Pandavas took off their upper garments, and throwing them down, they sat (silently) in the Sabha.
39O king, thereupon Dushasana, in the sight of all (present) in the assembly, began to drag forcibly the cloth of Draupadi.
40When the cloth of Draupadi was being thus dragged, she thought of Hari. Draupadi said O Govinda, O dweller of Dwarika, O Krishna, O favourite of the milk maids,
41O Keshava, do you not see that I am persecuted by the Kurus. O lord, O husband of Lakshmi O lord of Vraja, O destroyer of all affliction, O Janardana, save me who am sinking in the Kuru ocean!
42O Krishna, O great Yogi, O soul of the universe, O creator of the world, O Govinda, save me who am distressed, who am losing her senses in the midst of the Kurus!
43Vaishampayana said O king, thus being afflicted, the lady, covering her face, cried aloud thinking of Krishna (Hari), the lord of the three worlds.
44Hearing the words of Yajnaseni (Draupadi), Krishna was deeply moved. Leaving his seat, the kind Deity froni compassion came there on foot.
45When Yajnaseni (Draupadi) was crying for protection to Krishna, Vishnu and Hari and also Nara, the illustrious (Deity) Dharma, remaining unseen, covered her with many excellent cloths.
46O king, as the cloth of Draupadi was being dragged, after one was taken off, another of the same kind appeared and covered her.
47O lord, in consequence of the protection (extended towards Draupadi) by Dharma, hundreds and hundreds of cloths of many colour appeared.
48Thereupon there rose a great uproar. All the kings (present there), seeing this most extraordinary sight in the world, applauded Draupadi and endured the son of Dhritarashtra.
49Thereupon Bhima, squeezing his palms, and his lips quivering in anger, took a terrible oath in a loud voice in the midst of the kings.
50Bhima said O Kshatriyas, O men of the world, listen to my these words, words never before uttered by any man or will be (ever) uttered by any man in future.
51O lords of earth, if having spoken these words, I do not accomplish them hereafter, and if I do not forcibly tearing open the breast of this sinful wretch, this wicked minded scoundrel of the Bharata race, drink his life blood in the field of battle, let me not obtain the path of my ancestors.
52Vaishampayana said Hearing his these terrible and hair stirring words, every one present there applauded him and censured the son of Dhritarashtra.
53When a mass of cloths were heaped in the assembly, Dushasana, becoming fatigued and ashamed, sat down.
54Seeing the sons of Kunti in that state, all those gods among men who were present there cried hair stirring words of "Fie!” “Fie!” (on the son of Dhritarashtra).
55All the good men who were present there exclaimed, “Alas, the Kurus do not answer the question asked to them." They all censured Dhritarashtra.
56Thereupon Vidura, learned in all the precepts of religion, waving his hands and silencing every one in the assembly, spoke these words.
57Vidura said O men present in the assembly Draupadi, having put her question, is piteously weeping. You do not answer her question. Dharma is here persecuted.
58A person in distress comes to an assembly of good men like a man in a blazing fire. Those that are in the assembly extinguish that fire and cool him by means of truth and morality.
59The person in distress asks the assembly about his rights as sanctioned by morality. Those that are in the assembly should answer his question without being unmoved by anger of desire.
60O kings, Vikarna has answered the question according to his knowledge and judgement. You should also answer it as you think proper.
61The man who knows the rules of morality and sits in an assembly, incurs half the demerit that attaches to a lie, if he does not answer a question put to him.
62The man who knows the rules of morality and sits in an assembly, certainly incurs the sin of lie, if he answers falsely a question put to him.
63The learned men quote as an example in connection with this matter the old history of Prahlada and the son of Angirasa.
64There was a chief of the Daityas named Prahlada, whose son was Virochana. He (Virochana) quarrelled with Sudhanva, the son of Angirasa, for the sake of a bride.
65We have heard that they wagered even their own lives saying “I am superior,” “I am superior,” for the sake of obtaining a bride,
66When they thus quarrelled with each other, they hoth asked Prahlada, saying "Who amongst us is superior? Answer this question, don't speak falsely,"
67He (Prahlada), being alarmed at their quarrel, looked at Sudhanva. (Thereupon) Sudhanva thus spoke to him burning in rage as the Brahmadanda (club of Brahma).
68O Prahlada, if you answer falsely, or do not answer at all, your head will then be spilt into a hundred pieces by the wielder of thunder (Indra) with his thunder.
69When Sudhanva thus spoke, the Daitya (Prahlada) trembling like a leaf of the fig tree went to the greatly effulgent Kashyapa, to consult with him.
70Prahlada said O exalted one, you are learned in the precepts of morality which should guide the celestial, the Asuras and the Brahmanas. Here is a great dilemma in respect of a duty. Hear it.
71Tell me, I ask you, what regions are obtained by men who, being asked a question, does not give answer to it or answer it falsely.
72Kashyapa said He, who knows but answers not a question from temptation, anger or fear, brings upon himself one thousand Pashas a sort of weapons) of Varuna upon his person.
73A man, who is cited as a witness with respect to any matter of ocular or auricular knowledge, speaks falsely, brings upon him one thousand Pashas of Varuna,
74On the completion of one full year, one such Pasha is loosened (from his body). Therefore, he, who knows, should speak the truth without concealment.
75If virtue, pierced with sin, goes to an assembly, it is the duty of every man in that assembly to take off the dart. If they fail to do it, they themselves are pierced with it.
76In an assembly where a truly censurable act is not rebuked, half the demerit of that act attaches to the head of that assembly, fourth to the person who acts censurably, and fourth to all men present there.
77On the other hand, in an assembly in which he that deserves censure is rebuked, the head of that assembly becomes freed from all sins, and others that are present there incurs none. It is only the perpetrator of the (sinful) act, who becomes responsible for it.
78O Prahlada, those who, being asked about morality, answer falsely, destroy the meritorious acts of their ancestors seven generations upwards and downwards.
79The grief of one who has lost all his wealth, of one who has lost a son, of one who is in debt, of one who is separated from his companions, of a woman who has lost her husband, of one who has lost all in consequence of the king's demand, of a woman who is sterile, of one who is being devoured by a tiger, of one who is a co-wife, and of one who has been deprived of his property by false witnesses, is said by the celestial to be uniform in degree.
80He who speaks false gets all these sorts of grief. A man becomes a witness in consequence of his having seen, heard and understood a thing.
81Therefore a witness should always tell the truth. A witness should always tell the truth never loses his religious merits and earthly possessions.
82Vidura said Having heard the words of Kashyapa, Prahlada thus spoke to his son.
83Prahlada said Sudhanva is superior to you as Angirasa (his father) is to me. The mother of Sudhanva is superior to your mother. Therefore, O Virochana, Sudhanva is now the lord of your life. Sudhanva said As without being moved by affection for your son you have adhered to virtue, I command that your this son will live for one hundred years.
84Vidura said Hearing these great truths of Dharma, let all persons present in this Sabha reflect upon what should be the answer to the question asked by Krishna (Draupadi).
85Vaishampayana said Even hearing the words of Vidura, the kings did not answer a word. Karna said to Dushasana, “Take away the servant woman Krishna in the inner apartment.”
86Thereupon Dushasana began to drag in the assembly the helpless, modest and ascetic Draupadi who was trembling and weeping piteously to the Pandavas.
Hindi
1भीम ने कहा — हे युधिष्ठिर, जुआरियों के घर में अनेक कुलटा स्त्रियाँ होती हैं। वे उन स्त्रियों को भी दाँव पर लगाकर नहीं खेलते। उनके प्रति भी उनमें दया होती है।
2काशिराज ने जो धन तथा अन्य उत्तम वस्तुएँ दीं, और अन्य राजाओं ने जो मणि-रत्न, पशु, धन, कवच और अस्त्र-शस्त्र भेंट किए, यहाँ तक कि हमारा राज्य, स्वयं आप और हम सब — यह सब हमारे शत्रुओं ने द्यूत में जीत लिया है।
3इस सब पर भी मेरा क्रोध नहीं जागा, क्योंकि आप हमारे स्वामी हैं। किन्तु आपका यह द्रौपदी को दाँव पर लगाना मैं अत्यन्त अनुचित कर्म मानता हूँ।
4पाण्डवों को पति के रूप में प्राप्त करके भी यह निर्दोष बाला इस (व्यवहार) के योग्य नहीं है। केवल आपके कारण ही इन नीच, निन्दनीय, क्रूर और क्षुद्रबुद्धि कुरुओं द्वारा वह सताई जा रही है।
5हे राजन्, उसी के लिए मेरा क्रोध आप पर गिरता है। मैं आपके हाथ जला दूँगा। सहदेव, अग्नि ले आओ!
6अर्जुन ने कहा — हे भीमसेन, ऐसे वचन आपने पहले कभी नहीं कहे। निश्चय ही इन क्रूर शत्रुओं ने आपकी उच्च धर्मनिष्ठा नष्ट कर दी है।
7आपको शत्रु की इच्छाएँ पूर्ण नहीं करनी चाहिए। परम धर्म का आचरण कीजिए। क्या कोई अपने धर्मात्मा ज्येष्ठ भ्राता का उल्लंघन करे?
8कुरुओं द्वारा आमन्त्रित किए जाने पर और क्षत्रिय धर्म (प्रथा) का स्मरण करके राजा ने अपनी इच्छा के विरुद्ध द्यूत खेला। यह निश्चय ही महान् यश का हेतु है।
9भीम ने कहा — हे धनञ्जय, यदि मैं यह न जानता होता कि राजा ने जो किया वह क्षत्रिय प्रथा के अनुसार किया, तो मैं बहुत पहले ही बलपूर्वक उनकी भुजाएँ पकड़कर प्रज्वलित अग्नि में जला देता।
10वैशम्पायन ने कहा — पाण्डवों को इस प्रकार व्यथित और पाञ्चाल राजकुमारी को इस प्रकार पीड़ित देखकर धृतराष्ट्र के पुत्र विकर्ण ने इस प्रकार कहा।
11विकर्ण ने कहा — हे राजाओ, याज्ञसेनी (द्रौपदी) ने जो प्रश्न पूछा है, उसका उत्तर दीजिए। यदि हम अपने समक्ष रखे गए विषय का निर्णय न करें, तो हमें निश्चय ही बिना विलम्ब नरक जाना पड़ेगा।
12कुरुओं में ज्येष्ठ वे दोनों — भीष्म और धृतराष्ट्र — तथा महात्मा विदुर, एक साथ मिलकर भी कुछ नहीं कहते।
13भरद्वाज के पुत्र (द्रोण), जो हम सबके आचार्य हैं, तथा कृप — ये ब्राह्मणश्रेष्ठ उनके प्रश्न का उत्तर क्यों नहीं देते?
14समस्त दिशाओं से यहाँ एकत्र हुए राजा क्रोध और कामना के समस्त हेतुओं को त्यागकर अपने विवेक के अनुसार बोलें।
15हे राजाओ, द्रौपदी द्वारा पूछे गए प्रश्न का उत्तर दीजिए और भलीभाँति विचार करके कहिए कि आप में से प्रत्येक किस पक्ष में है।
16वैशम्पायन ने कहा — इस प्रकार उन्होंने (विकर्ण ने) सभा में उपस्थित जनों से द्रौपदी के प्रश्न का उत्तर देने के लिए बार-बार निवेदन किया। किन्तु उपस्थित राजाओं ने भला या बुरा एक शब्द भी न कहा।
17राजाओं से बार-बार निवेदन करते हुए, अपनी हथेलियाँ मलते हुए और सर्प के समान निःश्वास लेते हुए विकर्ण ने (पुनः) इस प्रकार कहा।
18विकर्ण ने कहा — हे राजाओ, हे कुरुओ, आप इस प्रश्न का उत्तर दें अथवा न दें, मैं वही कहूँगा जो मुझे न्यायसंगत और उचित प्रतीत होता है।
19हे नरश्रेष्ठ, कहा गया है कि आखेट, मद्यपान, द्यूत और स्त्रीसंग — ये राजाओं के चार व्यसन हैं।
20जो पुरुष उन व्यसनों में आसक्त होता है, वह धर्म को त्यागकर जीता है। इस प्रकार अनुचित कर्म में लगे हुए पुरुष के किए हुए कार्यों को लोग किसी प्रकार प्रमाण नहीं मानते।
21पाण्डु के इस पुत्र (युधिष्ठिर) ने, इन्हीं व्यसनों में से एक (अर्थात् द्यूत) में उन्मत्त होकर लगे रहते हुए और कपटी जुआरियों द्वारा प्रेरित होकर, द्रौपदी को दाँव पर लगाया।
22निर्दोष द्रौपदी पाण्डु के समस्त पुत्रों की साझी पत्नी है। पहले स्वयं को हारकर तब पाण्डव (युधिष्ठिर) ने उसे दाँव पर लगाया।
23सुबल के पुत्र (शकुनि) ने, स्वयं दाँव का इच्छुक होकर, राजा को कृष्णा (द्रौपदी) को दाँव पर लगाने के लिए प्रवृत्त किया। इन समस्त परिस्थितियों पर विचार करके मैं द्रौपदी को जीती हुई नहीं मानता।
24वैशम्पायन ने कहा — ये वचन सुनकर सभा में उपस्थित जनों से महान् कोलाहल उठा। उन सबने विकर्ण की प्रशंसा की और सुबल के पुत्र (शकुनि) की निन्दा की।
25राधा के पुत्र (कर्ण) क्रोध से अपनी सुध-बुध खो बैठे। अपनी सुगठित भुजाएँ लहराते हुए उन्होंने इस प्रकार कहा।
26कर्ण ने कहा — हे विकर्ण, मैंने इस सभा में अनेक विपरीत और परस्पर असंगत बातें देखी हैं। जैसे काष्ठ से उत्पन्न अग्नि उसी काष्ठ को भस्म कर देती है, वैसे ही तुम अपने इस क्रोध से भस्म हो जाओगे।
27यहाँ उपस्थित ये (महान्) पुरुष, यद्यपि कृष्णा (द्रौपदी) द्वारा (बार-बार) प्रेरित किए गए, एक शब्द भी नहीं बोले। वे सब यही मानते हैं कि द्रुपद की पुत्री धर्मपूर्वक जीती गई है।
28हे धृतराष्ट्रपुत्र, अपनी बाल्यावस्था के कारण केवल तुम ही क्रोध में फूट पड़ते हो। यद्यपि तुम बालक मात्र हो, तथापि ऐसे बोलते हो मानो वृद्ध हो।
29हे दुर्योधन के अनुज, तुम वस्तुतः धर्म के नियम क्या हैं, यह नहीं जानते। तुम मूर्ख के समान कहते हो कि यह कृष्णा (द्रौपदी), जो जीती जा चुकी है, जीती (ही) नहीं गई।
30हे धृतराष्ट्रपुत्र, जब पाण्डवों में ज्येष्ठ ने इस सभा में अपना समस्त धन दाँव पर लगा दिया, तब तुम कैसे मानते हो कि कृष्णा (द्रौपदी) जीती नहीं गई?
31हे भरतवंशश्रेष्ठ, द्रौपदी (निश्चय ही) उनके धन में सम्मिलित है। जो कृष्णा (द्रौपदी) धर्मपूर्वक जीती जा चुकी है, उसे तुम जीती हुई क्यों नहीं मानते?
32वार्तालाप में (शकुनि द्वारा) द्रौपदी का नाम लिया गया, और पाण्डव ने उसे दाँव के रूप में स्वीकार किया; तब तुम्हारा यह मत क्यों है कि वह जीती नहीं गई?
33यदि तुम उसे केवल एक वस्त्र में सभा में लाना अनुचित मानते हो, तो मैं जो उत्तम वचन कहता हूँ, उन्हें सुनो।
34हे कुरुवंशी, देवताओं ने यह विधान किया है कि स्त्री का एक ही पति हो; किन्तु इसके (द्रौपदी के) अनेक पति हैं; अतः निश्चय है कि यह असती स्त्री है।
35मेरे मत में इसमें कुछ भी आश्चर्य नहीं यदि वह एक वस्त्र में सभा के समक्ष लाई जाए अथवा नग्न कर दी जाए।
36पाण्डवों के पास जो भी धन था, उसमें वह भी सम्मिलित है और स्वयं पाण्डव भी — यह सब सुबल के पुत्र (शकुनि) ने धर्मपूर्वक जीत लिया है।
37हे दुःशासन, ज्ञान की बातें करने वाला यह विकर्ण बालक मात्र है। पाण्डवों के वस्त्र उतार लो और द्रौपदी के भी।
38वैशम्पायन ने कहा — हे भरतवंशी, यह सुनकर पाण्डवों ने अपने उत्तरीय वस्त्र उतार दिए और उन्हें नीचे फेंककर सभा में (मौन) बैठ गए।
39हे राजन्, तदनन्तर दुःशासन सभा में उपस्थित सबके देखते-देखते द्रौपदी का वस्त्र बलपूर्वक खींचने लगा।
40जब द्रौपदी का वस्त्र इस प्रकार खींचा जा रहा था, तब उसने हरि का स्मरण किया। द्रौपदी ने कहा — हे गोविन्द, हे द्वारकावासी, हे कृष्ण, हे गोपियों के प्रिय,
41हे केशव, क्या आप नहीं देखते कि मैं कुरुओं द्वारा सताई जा रही हूँ? हे प्रभु, हे लक्ष्मीपति, हे व्रजपति, हे समस्त क्लेशों के नाशक, हे जनार्दन, कुरुरूपी सागर में डूबती हुई मेरी रक्षा कीजिए!
42हे कृष्ण, हे महायोगी, हे विश्वात्मा, हे जगत्स्रष्टा, हे गोविन्द, कुरुओं के बीच व्यथित और सुध-बुध खोती हुई मेरी रक्षा कीजिए!
43वैशम्पायन ने कहा — हे राजन्, इस प्रकार पीड़ित होकर उस देवी ने अपना मुख ढाँपकर त्रिलोकीनाथ कृष्ण (हरि) का स्मरण करते हुए ऊँचे स्वर में रुदन किया।
44याज्ञसेनी (द्रौपदी) के वचन सुनकर कृष्ण अत्यन्त द्रवित हुए। अपना आसन छोड़कर वे दयालु देव करुणावश वहाँ पैदल ही आ पहुँचे।
45जब याज्ञसेनी (द्रौपदी) कृष्ण, विष्णु, हरि तथा नर से रक्षा के लिए पुकार रही थी, तब यशस्वी (देव) धर्म ने अदृश्य रहकर उसे अनेक उत्तम वस्त्रों से ढँक दिया।
46हे राजन्, ज्यों-ज्यों द्रौपदी का वस्त्र खींचा जाता, त्यों-त्यों एक उतरने पर उसी प्रकार का दूसरा प्रकट होकर उसे ढँक लेता।
47हे प्रभु, धर्म द्वारा (द्रौपदी को) दी गई रक्षा के फलस्वरूप अनेक रंगों के सैकड़ों-सैकड़ों वस्त्र प्रकट हुए।
48तदनन्तर महान् कोलाहल उठा। संसार में इस अत्यन्त अद्भुत दृश्य को देखकर (वहाँ उपस्थित) समस्त राजाओं ने द्रौपदी की प्रशंसा की और धृतराष्ट्र के पुत्र की निन्दा की।
49तदनन्तर भीम ने अपनी हथेलियाँ भींचकर और क्रोध से अधर काँपते हुए राजाओं के बीच ऊँचे स्वर में एक भयंकर शपथ ली।
50भीम ने कहा — हे क्षत्रियो, हे संसार के मनुष्यो, मेरे ये वचन सुनो — ऐसे वचन जो न कभी किसी पुरुष ने पहले कहे और न भविष्य में कोई पुरुष (कभी) कहेगा।
51हे पृथ्वीपतियो, यदि ये वचन कहकर मैं इन्हें आगे पूर्ण न करूँ, और यदि मैं भरतवंश के इस पापी नराधम, इस दुष्टबुद्धि दुरात्मा की छाती बलपूर्वक चीरकर रणभूमि में उसका जीवन-रुधिर न पिऊँ, तो मुझे अपने पूर्वजों की गति प्राप्त न हो।
52वैशम्पायन ने कहा — उनके ये भयंकर और रोमांचकारी वचन सुनकर वहाँ उपस्थित प्रत्येक जन ने उनकी प्रशंसा की और धृतराष्ट्र के पुत्र की निन्दा की।
53जब सभा में वस्त्रों का ढेर लग गया, तब दुःशासन थककर और लज्जित होकर बैठ गया।
54कुन्ती के पुत्रों को उस दशा में देखकर वहाँ उपस्थित उन समस्त नरदेवों ने रोमांचकारी स्वर में "धिक्!" "धिक्!" (धृतराष्ट्र के पुत्र को) पुकारा।
55वहाँ उपस्थित समस्त सज्जनों ने कहा — "हाय, कुरु उनसे पूछे गए प्रश्न का उत्तर नहीं देते।" उन सबने धृतराष्ट्र की निन्दा की।
56तदनन्तर धर्म के समस्त उपदेशों में निष्णात विदुर ने अपने हाथ हिलाकर सभा में सबको मौन कराकर ये वचन कहे।
57विदुर ने कहा — हे सभा में उपस्थित पुरुषो, द्रौपदी अपना प्रश्न पूछकर करुण स्वर में रो रही है। आप उसके प्रश्न का उत्तर नहीं देते। यहाँ धर्म का उत्पीड़न हो रहा है।
58विपत्ति में पड़ा पुरुष सज्जनों की सभा में ऐसे आता है जैसे कोई प्रज्वलित अग्नि में जल रहा हो। सभा में बैठे जन सत्य और धर्म के द्वारा उस अग्नि को बुझाकर उसे शीतल करते हैं।
59विपत्ति में पड़ा पुरुष सभा से धर्म द्वारा अनुमोदित अपने अधिकारों के विषय में पूछता है। सभा में बैठे जनों को क्रोध अथवा कामना से विचलित हुए बिना उसके प्रश्न का उत्तर देना चाहिए।
60हे राजाओ, विकर्ण ने अपने ज्ञान और विवेक के अनुसार प्रश्न का उत्तर दे दिया है। आपको भी जैसा उचित प्रतीत हो, वैसा उत्तर देना चाहिए।
61जो पुरुष धर्म के नियमों को जानता है और सभा में बैठता है, यदि वह अपने से पूछे गए प्रश्न का उत्तर नहीं देता, तो असत्य से लगने वाले पाप का आधा भाग उसे लगता है।
62जो पुरुष धर्म के नियमों को जानता है और सभा में बैठता है, यदि वह अपने से पूछे गए प्रश्न का असत्य उत्तर देता है, तो उसे निश्चय ही असत्य का पूरा पाप लगता है।
63विद्वान् जन इस विषय के सम्बन्ध में प्रह्लाद और आंगिरस के पुत्र का प्राचीन इतिहास उदाहरण के रूप में उद्धृत करते हैं।
64प्रह्लाद नामक दैत्यों का एक अधिपति था, जिसका पुत्र विरोचन था। उसने (विरोचन ने) एक कन्या के लिए आंगिरस के पुत्र सुधन्वा से विवाद किया।
65हमने सुना है कि कन्या को प्राप्त करने के लिए "मैं श्रेष्ठ हूँ", "मैं श्रेष्ठ हूँ" — ऐसा कहते हुए उन्होंने अपने प्राणों तक का दाँव लगाया।
66जब वे इस प्रकार परस्पर विवाद करने लगे, तब दोनों ने प्रह्लाद से पूछा — "हम दोनों में श्रेष्ठ कौन है? इस प्रश्न का उत्तर दीजिए, असत्य मत बोलिए।"
67उसने (प्रह्लाद ने) उनके विवाद से भयभीत होकर सुधन्वा की ओर देखा। (तब) ब्रह्मदण्ड के समान क्रोध से जलते हुए सुधन्वा ने उससे इस प्रकार कहा।
68हे प्रह्लाद, यदि आप असत्य उत्तर देंगे अथवा उत्तर देंगे ही नहीं, तो वज्रधारी (इन्द्र) अपने वज्र से आपके सिर के सौ टुकड़े कर देंगे।
69सुधन्वा के इस प्रकार कहने पर वह दैत्य (प्रह्लाद) पीपल के पत्ते के समान काँपता हुआ परम तेजस्वी कश्यप के पास परामर्श करने गया।
70प्रह्लाद ने कहा — हे महानुभाव, आप उन धर्मोपदेशों में निष्णात हैं जो देवताओं, असुरों और ब्राह्मणों का मार्गदर्शन करते हैं। यहाँ कर्तव्य के विषय में एक महान् धर्मसंकट है। उसे सुनिए।
71मुझे बताइए, मैं आपसे पूछता हूँ — जो पुरुष प्रश्न पूछे जाने पर उसका उत्तर नहीं देते अथवा असत्य उत्तर देते हैं, उन्हें कौन-से लोक प्राप्त होते हैं?
72कश्यप ने कहा — जो जानते हुए भी लोभ, क्रोध अथवा भय से प्रश्न का उत्तर नहीं देता, वह अपने शरीर पर वरुण के एक सहस्र पाश (एक प्रकार के अस्त्र) ले आता है।
73जो पुरुष प्रत्यक्ष देखे अथवा सुने हुए किसी विषय में साक्षी के रूप में प्रस्तुत किया जाकर असत्य बोलता है, वह भी अपने ऊपर वरुण के एक सहस्र पाश ले आता है।
74एक पूरे वर्ष के बीत जाने पर उनमें से एक पाश (उसके शरीर से) ढीला होता है। अतः जो जानता है, उसे बिना छिपाए सत्य बोलना चाहिए।
75यदि पाप से बिंधा हुआ धर्म किसी सभा में जाए, तो उस सभा के प्रत्येक पुरुष का कर्तव्य है कि वह उस शल्य को निकाले। यदि वे ऐसा करने में चूकते हैं, तो स्वयं उसी से बिंध जाते हैं।
76जिस सभा में वस्तुतः निन्दनीय कर्म की भर्त्सना नहीं होती, वहाँ उस कर्म के पाप का आधा भाग उस सभा के अध्यक्ष को लगता है, चौथाई निन्दनीय कर्म करने वाले को, और चौथाई वहाँ उपस्थित समस्त जनों को।
77दूसरी ओर, जिस सभा में निन्दा के योग्य पुरुष की भर्त्सना होती है, उस सभा का अध्यक्ष समस्त पापों से मुक्त हो जाता है, और वहाँ उपस्थित अन्य जनों को भी कोई पाप नहीं लगता। केवल उस (पापपूर्ण) कर्म का कर्ता ही उसके लिए उत्तरदायी होता है।
78हे प्रह्लाद, जो धर्म के विषय में पूछे जाने पर असत्य उत्तर देते हैं, वे अपने पूर्वजों की सात पीढ़ी ऊपर और सात पीढ़ी नीचे तक के पुण्यकर्मों का नाश कर देते हैं।
79जिसका समस्त धन नष्ट हो गया हो, जिसका पुत्र मर गया हो, जो ऋणग्रस्त हो, जो अपने साथियों से बिछुड़ गया हो, जिस स्त्री का पति मर गया हो, जिसने राजा की माँग के कारण सर्वस्व खो दिया हो, जो स्त्री बन्ध्या हो, जिसे व्याघ्र निगल रहा हो, जो सौत हो, और जो झूठे साक्षियों द्वारा अपनी सम्पत्ति से वंचित कर दिया गया हो — देवताओं ने इन सबका शोक समान कोटि का कहा है।
80जो असत्य बोलता है, वह इन समस्त प्रकार के शोकों को प्राप्त करता है। मनुष्य किसी वस्तु को देखने, सुनने और समझने के कारण ही साक्षी बनता है।
81अतः साक्षी को सदा सत्य बोलना चाहिए। जो साक्षी सदा सत्य बोलता है, वह अपने धर्म और सांसारिक सम्पत्ति से कभी वंचित नहीं होता।
82विदुर ने कहा — कश्यप के वचन सुनकर प्रह्लाद ने अपने पुत्र से इस प्रकार कहा।
83प्रह्लाद ने कहा — जैसे आंगिरस (सुधन्वा के पिता) मुझसे श्रेष्ठ हैं, वैसे ही सुधन्वा तुमसे श्रेष्ठ है। सुधन्वा की माता तुम्हारी माता से श्रेष्ठ है। अतः हे विरोचन, सुधन्वा अब तुम्हारे प्राणों का स्वामी है। सुधन्वा ने कहा — जिस प्रकार आपने पुत्र-स्नेह से विचलित हुए बिना धर्म का पालन किया, उसके कारण मैं आज्ञा देता हूँ कि आपका यह पुत्र सौ वर्ष जीवित रहेगा।
84विदुर ने कहा — धर्म के इन महान् सत्यों को सुनकर इस सभा में उपस्थित समस्त जन विचार करें कि कृष्णा (द्रौपदी) द्वारा पूछे गए प्रश्न का क्या उत्तर होना चाहिए।
85वैशम्पायन ने कहा — विदुर के वचन सुनकर भी राजाओं ने एक शब्द उत्तर न दिया। कर्ण ने दुःशासन से कहा — "इस दासी कृष्णा को भीतर के कक्ष में ले जाओ।"
86तदनन्तर दुःशासन उस असहाय, लज्जाशील और तपस्विनी द्रौपदी को सभा में घसीटने लगा, जो काँपती हुई पाण्डवों की ओर देखकर करुण स्वर में रो रही थी।
Nepali
1भीमले भने — हे युधिष्ठिर, जुवाडेहरूको घरमा अनेक कुलटा स्त्रीहरू हुन्छन्। तिनीहरूले ती स्त्रीहरूलाई पनि दाउमा राखेर खेल्दैनन्। तिनीहरूप्रति पनि उनीहरूमा दया हुन्छ।
2काशिराजले जुन धन तथा अन्य उत्तम वस्तुहरू दिए, र अन्य राजाहरूले जुन मणि-रत्न, पशु, धन, कवच र अस्त्र-शस्त्र भेटी गरे, यहाँसम्म कि हाम्रो राज्य, स्वयं तपाईं र हामी सबै — यो सबै हाम्रा शत्रुहरूले द्यूतमा जितिसकेका छन्।
3यो सबैमा पनि मेरो क्रोध जागेन, किनभने तपाईं हाम्रा स्वामी हुनुहुन्छ। तर तपाईंले द्रौपदीलाई दाउमा राख्नु मैले अत्यन्त अनुचित कर्म ठान्दछु।
4पाण्डवहरूलाई पतिका रूपमा प्राप्त गरेर पनि यी निर्दोष बालिका यस (व्यवहार)को योग्य छैनन्। केवल तपाईंकै कारण यी नीच, निन्दनीय, क्रूर र क्षुद्रबुद्धि कुरुहरूद्वारा उनी सताइँदै छिन्।
5हे राजन्, उनकै कारण मेरो क्रोध तपाईंमाथि खस्दछ। म तपाईंका हात जलाइदिनेछु। सहदेव, आगो लिएर आऊ!
6अर्जुनले भने — हे भीमसेन, यस्ता वचन तपाईंले पहिले कहिल्यै भन्नुभएको थिएन। निश्चय नै यी क्रूर शत्रुहरूले तपाईंको उच्च धर्मनिष्ठा नष्ट पारिदिएका छन्।
7तपाईंले शत्रुका इच्छा पूरा गर्नुहुँदैन। परम धर्मको आचरण गर्नुहोस्। के कसैले आफ्ना धर्मात्मा जेठा दाजुको उल्लङ्घन गर्नुपर्छ?
8कुरुहरूद्वारा आमन्त्रित गरिएपछि र क्षत्रिय धर्म (प्रथा)को स्मरण गरेर राजाले आफ्नो इच्छाविरुद्ध द्यूत खेले। यो निश्चय नै महान् यशको हेतु हो।
9भीमले भने — हे धनञ्जय, यदि मैले यो थाहा नपाएको भए कि राजाले जे गरे त्यो क्षत्रिय प्रथाअनुसार गरे, तब म धेरै पहिले नै बलपूर्वक उनका पाखुरा समातेर प्रज्वलित आगोमा जलाइदिन्थेँ।
10वैशम्पायनले भने — पाण्डवहरूलाई यसरी व्यथित र पाञ्चाल राजकुमारीलाई यसरी पीडित देखेर धृतराष्ट्रका पुत्र विकर्णले यसरी भने।
11विकर्णले भने — हे राजाहरू, याज्ञसेनी (द्रौपदी)ले जुन प्रश्न सोधेकी छिन्, त्यसको उत्तर दिनुहोस्। यदि हामीले हाम्रा सामु राखिएको विषयको निर्णय गरेनौँ भने, हामीले निश्चय नै ढिलाइविना नरक जानुपर्नेछ।
12कुरुहरूमा जेठा ती दुवै — भीष्म र धृतराष्ट्र — तथा महात्मा विदुर, सँगै मिलेर पनि केही भन्दैनन्।
13भरद्वाजका पुत्र (द्रोण), जो हामी सबैका आचार्य हुन्, तथा कृप — यी ब्राह्मणश्रेष्ठहरूले उनको प्रश्नको उत्तर किन दिँदैनन्?
14सम्पूर्ण दिशाबाट यहाँ जम्मा भएका राजाहरू क्रोध र कामनाका सम्पूर्ण हेतु त्यागेर आफ्नो विवेकअनुसार बोलून्।
15हे राजाहरू, द्रौपदीद्वारा सोधिएको प्रश्नको उत्तर दिनुहोस् र राम्ररी विचार गरेर भन्नुहोस् कि तपाईंहरूमध्ये प्रत्येक कुन पक्षमा हुनुहुन्छ।
16वैशम्पायनले भने — यसरी उनले (विकर्णले) सभामा उपस्थित जनहरूलाई द्रौपदीको प्रश्नको उत्तर दिन बारम्बार अनुरोध गरे। तर उपस्थित राजाहरूले असल वा खराब एक शब्द पनि भनेनन्।
17राजाहरूलाई बारम्बार अनुरोध गर्दै, आफ्ना हत्केला मल्दै र सर्पझैँ सुस्केरा हाल्दै विकर्णले (पुनः) यसरी भने।
18विकर्णले भने — हे राजाहरू, हे कुरुहरू, तपाईंहरूले यस प्रश्नको उत्तर दिनुहोस् वा नदिनुहोस्, म त्यही भन्नेछु जो मलाई न्यायसङ्गत र उचित लाग्दछ।
19हे नरश्रेष्ठ, भनिएको छ कि आखेट, मद्यपान, द्यूत र स्त्रीसङ्ग — यी राजाहरूका चार व्यसन हुन्।
20जुन पुरुष ती व्यसनमा आसक्त हुन्छ, ऊ धर्म त्यागेर बाँच्दछ। यसरी अनुचित कर्ममा लागेको पुरुषले गरेका कार्यलाई मानिसहरूले कुनै प्रकारले प्रमाण मान्दैनन्।
21पाण्डुका यी पुत्र (युधिष्ठिर)ले, यिनै व्यसनमध्ये एक (अर्थात् द्यूत)मा उन्मत्त भई लागिरहेको बेला र कपटी जुवाडेहरूद्वारा प्रेरित भई, द्रौपदीलाई दाउमा राखे।
22निर्दोष द्रौपदी पाण्डुका सम्पूर्ण पुत्रहरूकी साझा पत्नी हुन्। पहिले आफूलाई हारेर अनि पाण्डव (युधिष्ठिर)ले उनलाई दाउमा राखे।
23सुबलका पुत्र (शकुनि)ले, स्वयं दाउको इच्छुक भई, राजालाई कृष्णा (द्रौपदी)लाई दाउमा राख्न प्रेरित गरे। यी सम्पूर्ण परिस्थितिमाथि विचार गरेर म द्रौपदीलाई जितिएकी मान्दिनँ।
24वैशम्पायनले भने — यी वचन सुनेर सभामा उपस्थित जनहरूबाट महान् कोलाहल उठ्यो। तिनीहरू सबैले विकर्णको प्रशंसा गरे र सुबलका पुत्र (शकुनि)को निन्दा गरे।
25राधाका पुत्र (कर्ण) क्रोधले आफ्नो होस गुमाए। आफ्ना सुगठित पाखुरा हल्लाउँदै उनले यसरी भने।
26कर्णले भने — हे विकर्ण, मैले यस सभामा अनेक विपरीत र परस्पर असङ्गत कुरा देखेको छु। जसरी काठबाट उत्पन्न आगोले त्यही काठलाई भस्म पार्दछ, त्यसरी नै तिमी आफ्नो यस क्रोधले भस्म हुनेछौ।
27यहाँ उपस्थित यी (महान्) पुरुषहरू, यद्यपि कृष्णा (द्रौपदी)द्वारा (बारम्बार) प्रेरित गरिए, एक शब्द पनि बोलेनन्। तिनीहरू सबै यही मान्दछन् कि द्रुपदकी पुत्री धर्मपूर्वक जितिएकी हुन्।
28हे धृतराष्ट्रपुत्र, आफ्नो बाल्यावस्थाका कारण तिमी मात्र क्रोधमा फुट्दछौ। यद्यपि तिमी बालक मात्र हौ, तथापि यसरी बोल्दछौ मानौँ वृद्ध हौ।
29हे दुर्योधनका भाइ, तिमीलाई वास्तवमा धर्मका नियम के हुन् थाहा छैन। तिमी मूर्खझैँ भन्दछौ कि यी कृष्णा (द्रौपदी), जो जितिइसकेकी छिन्, जितिएकै छैनन्।
30हे धृतराष्ट्रपुत्र, जब पाण्डवहरूमा जेठाले यस सभामा आफ्नो सम्पूर्ण सम्पत्ति दाउमा राखे, तब तिमी कसरी मान्दछौ कि कृष्णा (द्रौपदी) जितिएकी छैनन्?
31हे भरतवंशश्रेष्ठ, द्रौपदी (निश्चय नै) उनको सम्पत्तिमा समावेश छिन्। जुन कृष्णा (द्रौपदी) धर्मपूर्वक जितिइसकेकी छिन्, तिनलाई तिमी जितिएकी किन मान्दैनौ?
32वार्तालापमा (शकुनिद्वारा) द्रौपदीको नाम लिइयो, र पाण्डवले उनलाई दाउका रूपमा स्वीकार गरे; तब तिम्रो यो मत किन छ कि उनी जितिएकी छैनन्?
33यदि तिमी उनलाई केवल एक वस्त्रमा सभामा ल्याउनु अनुचित ठान्दछौ भने, म जुन उत्तम वचन भन्दछु, ती सुन।
34हे कुरुवंशी, देवताहरूले यो विधान गरेका छन् कि स्त्रीको एउटै मात्र पति होस्; तर यिनका (द्रौपदीका) अनेक पति छन्; त्यसैले निश्चय छ कि यिनी असती स्त्री हुन्।
35मेरो मतमा यसमा केही पनि आश्चर्य छैन यदि उनलाई एक वस्त्रमा सभाको सामु ल्याइयोस् अथवा नग्न पारियोस्।
36पाण्डवहरूसँग जुन-जुन धन थियो, त्यसमा उनी पनि समावेश छिन् र स्वयं पाण्डवहरू पनि — यो सबै सुबलका पुत्र (शकुनि)ले धर्मपूर्वक जितेका छन्।
37हे दुःशासन, ज्ञानका कुरा गर्ने यो विकर्ण बालक मात्र हो। पाण्डवहरूका वस्त्र उतार र द्रौपदीका पनि।
38वैशम्पायनले भने — हे भरतवंशी, यो सुनेर पाण्डवहरूले आफ्ना उत्तरीय वस्त्र उतारे र तिनलाई तल फ्याँकेर सभामा (मौन) बसे।
39हे राजन्, त्यसपछि दुःशासनले सभामा उपस्थित सबैका सामु द्रौपदीको वस्त्र बलपूर्वक तान्न थाल्यो।
40जब द्रौपदीको वस्त्र यसरी तानिँदै थियो, तब उनले हरिको स्मरण गरिन्। द्रौपदीले भनिन् — हे गोविन्द, हे द्वारकावासी, हे कृष्ण, हे गोपिनीहरूका प्रिय,
41हे केशव, के तपाईं देख्नुहुन्न कि म कुरुहरूद्वारा सताइँदै छु? हे प्रभु, हे लक्ष्मीपति, हे व्रजपति, हे सम्पूर्ण क्लेशका नाशक, हे जनार्दन, कुरुरूपी सागरमा डुब्दै गरेकी मेरो रक्षा गर्नुहोस्!
42हे कृष्ण, हे महायोगी, हे विश्वात्मा, हे जगत्स्रष्टा, हे गोविन्द, कुरुहरूका बीचमा व्यथित र होस गुमाउँदै गरेकी मेरो रक्षा गर्नुहोस्!
43वैशम्पायनले भने — हे राजन्, यसरी पीडित भई ती देवीले आफ्नो मुख छोपेर त्रिलोकीनाथ कृष्ण (हरि)को स्मरण गर्दै उच्च स्वरमा रोइन्।
44याज्ञसेनी (द्रौपदी)का वचन सुनेर कृष्ण अत्यन्त द्रवित भए। आफ्नो आसन छोडेर ती दयालु देव करुणावश त्यहाँ पैदलै आइपुगे।
45जब याज्ञसेनी (द्रौपदी) कृष्ण, विष्णु, हरि तथा नरसँग रक्षाका लागि पुकारिरहेकी थिइन्, तब यशस्वी (देव) धर्मले अदृश्य रही उनलाई अनेक उत्तम वस्त्रले ढाकिदिए।
46हे राजन्, जति-जति द्रौपदीको वस्त्र तानिन्थ्यो, त्यति-त्यति एउटा उत्रेपछि त्यस्तै अर्को प्रकट भई उनलाई ढाकिदिन्थ्यो।
47हे प्रभु, धर्मद्वारा (द्रौपदीलाई) दिइएको रक्षाको फलस्वरूप अनेक रङका सयौँ-सयौँ वस्त्र प्रकट भए।
48त्यसपछि महान् कोलाहल उठ्यो। संसारमा यस अत्यन्त अद्भुत दृश्यलाई देखेर (त्यहाँ उपस्थित) सम्पूर्ण राजाहरूले द्रौपदीको प्रशंसा गरे र धृतराष्ट्रका पुत्रको निन्दा गरे।
49त्यसपछि भीमले आफ्ना हत्केला कसेर र क्रोधले ओठ काम्दै राजाहरूका बीचमा उच्च स्वरमा एउटा भयङ्कर शपथ खाए।
50भीमले भने — हे क्षत्रियहरू, हे संसारका मानिसहरू, मेरा यी वचन सुन — यस्ता वचन जो न कहिल्यै कुनै पुरुषले पहिले भने न भविष्यमा कुनै पुरुषले (कहिल्यै) भन्नेछ।
51हे पृथ्वीपतिहरू, यदि यी वचन भनेर मैले तिनलाई पछि पूरा गरिनँ भने, र यदि मैले भरतवंशका यस पापी नराधम, यस दुष्टबुद्धि दुरात्माको छाती बलपूर्वक चिरेर रणभूमिमा त्यसको जीवन-रगत पिइनँ भने, मलाई आफ्ना पूर्वजहरूको गति प्राप्त नहोस्।
52वैशम्पायनले भने — उनका यी भयङ्कर र रोमाञ्चकारी वचन सुनेर त्यहाँ उपस्थित प्रत्येक जनले उनको प्रशंसा गरे र धृतराष्ट्रका पुत्रको निन्दा गरे।
53जब सभामा वस्त्रहरूको थुप्रो लाग्यो, तब दुःशासन थकित भई र लज्जित भई बस्यो।
54कुन्तीका पुत्रहरूलाई त्यस अवस्थामा देखेर त्यहाँ उपस्थित ती सम्पूर्ण नरदेवहरूले रोमाञ्चकारी स्वरमा "धिक्!" "धिक्!" (धृतराष्ट्रका पुत्रलाई) भनी पुकारे।
55त्यहाँ उपस्थित सम्पूर्ण सज्जनहरूले भने — "हाय, कुरुहरूले तिनीहरूलाई सोधिएको प्रश्नको उत्तर दिँदैनन्।" तिनीहरू सबैले धृतराष्ट्रको निन्दा गरे।
56त्यसपछि धर्मका सम्पूर्ण उपदेशमा निष्णात विदुरले आफ्ना हात हल्लाएर सभामा सबैलाई मौन गराई यी वचन भने।
57विदुरले भने — हे सभामा उपस्थित पुरुषहरू, द्रौपदी आफ्नो प्रश्न सोधेर करुण स्वरमा रोइरहेकी छिन्। तपाईंहरू उनको प्रश्नको उत्तर दिनुहुन्न। यहाँ धर्मको उत्पीडन भइरहेको छ।
58विपत्तिमा परेको पुरुष सज्जनहरूको सभामा यसरी आउँछ जसरी कोही प्रज्वलित आगोमा जलिरहेको होस्। सभामा बसेका जनहरूले सत्य र धर्मद्वारा त्यस आगोलाई निभाएर उसलाई शीतल पार्दछन्।
59विपत्तिमा परेको पुरुषले सभासँग धर्मद्वारा अनुमोदित आफ्ना अधिकारका विषयमा सोध्दछ। सभामा बसेका जनहरूले क्रोध अथवा कामनाले विचलित नभई उसको प्रश्नको उत्तर दिनुपर्दछ।
60हे राजाहरू, विकर्णले आफ्नो ज्ञान र विवेकअनुसार प्रश्नको उत्तर दिइसकेका छन्। तपाईंहरूले पनि जस्तो उचित लाग्दछ, त्यस्तै उत्तर दिनुपर्दछ।
61जुन पुरुषले धर्मका नियम जान्दछ र सभामा बस्दछ, यदि उसले आफूलाई सोधिएको प्रश्नको उत्तर दिँदैन भने, असत्यबाट लाग्ने पापको आधा भाग उसलाई लाग्दछ।
62जुन पुरुषले धर्मका नियम जान्दछ र सभामा बस्दछ, यदि उसले आफूलाई सोधिएको प्रश्नको असत्य उत्तर दिन्छ भने, उसलाई निश्चय नै असत्यको पूरा पाप लाग्दछ।
63विद्वान् जनहरूले यस विषयको सम्बन्धमा प्रह्लाद र आङ्गिरसका पुत्रको प्राचीन इतिहास उदाहरणका रूपमा उद्धृत गर्दछन्।
64प्रह्लाद नामक दैत्यहरूका एक अधिपति थिए, जसका पुत्र विरोचन थिए। उनले (विरोचनले) एउटी कन्याका लागि आङ्गिरसका पुत्र सुधन्वासँग विवाद गरे।
65हामीले सुनेका छौँ कि कन्या प्राप्त गर्नका लागि "म श्रेष्ठ छु", "म श्रेष्ठ छु" — यसो भन्दै उनीहरूले आफ्ना प्राणसम्मको दाउ लगाए।
66जब उनीहरू यसरी परस्पर विवाद गर्न थाले, तब दुवैले प्रह्लादसँग सोधे — "हामी दुईमध्ये श्रेष्ठ को हो? यस प्रश्नको उत्तर दिनुहोस्, असत्य नबोल्नुहोस्।"
67उनले (प्रह्लादले) तिनीहरूको विवादले भयभीत भई सुधन्वातिर हेरे। (तब) ब्रह्मदण्डजस्तै क्रोधले जलिरहेका सुधन्वाले उनलाई यसरी भने।
68हे प्रह्लाद, यदि तपाईंले असत्य उत्तर दिनुभयो अथवा उत्तर नै दिनुभएन भने, वज्रधारी (इन्द्र)ले आफ्नो वज्रले तपाईंको टाउकोका सय टुक्रा पारिदिनेछन्।
69सुधन्वाले यसरी भनेपछि ती दैत्य (प्रह्लाद) पीपलको पातझैँ काम्दै परम तेजस्वी कश्यपकहाँ परामर्श गर्न गए।
70प्रह्लादले भने — हे महानुभाव, तपाईं ती धर्मोपदेशमा निष्णात हुनुहुन्छ जसले देवता, असुर र ब्राह्मणहरूको मार्गदर्शन गर्दछन्। यहाँ कर्तव्यका विषयमा एउटा महान् धर्मसङ्कट छ। त्यो सुन्नुहोस्।
71मलाई भन्नुहोस्, म तपाईंसँग सोध्दछु — जुन पुरुषहरूले प्रश्न सोधिँदा त्यसको उत्तर दिँदैनन् अथवा असत्य उत्तर दिन्छन्, तिनीहरूले कुन-कुन लोक प्राप्त गर्दछन्?
72कश्यपले भने — जसले जानीजानी पनि लोभ, क्रोध अथवा भयले प्रश्नको उत्तर दिँदैन, उसले आफ्नो शरीरमा वरुणका एक हजार पाश (एक प्रकारका अस्त्र) ल्याउँछ।
73जुन पुरुष प्रत्यक्ष देखेको अथवा सुनेको कुनै विषयमा साक्षीका रूपमा प्रस्तुत गरिएर असत्य बोल्दछ, उसले पनि आफूमाथि वरुणका एक हजार पाश ल्याउँछ।
74एक पूरा वर्ष बितेपछि तीमध्ये एउटा पाश (उसको शरीरबाट) खुकुलो हुन्छ। त्यसैले जसले जान्दछ, उसले नलुकाई सत्य बोल्नुपर्दछ।
75यदि पापले बिँधिएको धर्म कुनै सभामा जान्छ भने, त्यस सभाका प्रत्येक पुरुषको कर्तव्य हो कि उसले त्यो शल्य निकालोस्। यदि तिनीहरूले त्यसो गर्न चुक्छन् भने, स्वयं तिनीहरू त्यसैले बिँधिन्छन्।
76जुन सभामा वास्तवमा निन्दनीय कर्मको भर्त्सना हुँदैन, त्यहाँ त्यस कर्मको पापको आधा भाग त्यस सभाका अध्यक्षलाई लाग्दछ, चौथाइ निन्दनीय कर्म गर्नेलाई, र चौथाइ त्यहाँ उपस्थित सम्पूर्ण जनलाई।
77अर्कोतिर, जुन सभामा निन्दायोग्य पुरुषको भर्त्सना हुन्छ, त्यस सभाका अध्यक्ष सम्पूर्ण पापबाट मुक्त हुन्छन्, र त्यहाँ उपस्थित अन्य जनहरूलाई पनि कुनै पाप लाग्दैन। केवल त्यस (पापपूर्ण) कर्मको कर्ता मात्र त्यसका लागि उत्तरदायी हुन्छ।
78हे प्रह्लाद, जसले धर्मका विषयमा सोधिँदा असत्य उत्तर दिन्छन्, तिनीहरूले आफ्ना पूर्वजहरूका सात पुस्ता माथि र सात पुस्ता तलसम्मका पुण्यकर्मको नाश गर्दछन्।
79जसको सम्पूर्ण धन नष्ट भएको होस्, जसको पुत्र मरेको होस्, जो ऋणग्रस्त होस्, जो आफ्ना साथीहरूबाट छुट्टिएको होस्, जुन स्त्रीको पति मरेको होस्, जसले राजाको मागका कारण सर्वस्व गुमाएको होस्, जुन स्त्री बाँझी होस्, जसलाई बाघले निल्दै होस्, जो सौता होस्, र जो झूटा साक्षीहरूद्वारा आफ्नो सम्पत्तिबाट वञ्चित गरिएको होस् — देवताहरूले यी सबैको शोक समान कोटिको भनेका छन्।
80जो असत्य बोल्दछ, उसले यी सम्पूर्ण प्रकारका शोक प्राप्त गर्दछ। मानिस कुनै वस्तु देखेको, सुनेको र बुझेको कारणले नै साक्षी बन्दछ।
81त्यसैले साक्षीले सधैँ सत्य बोल्नुपर्दछ। जुन साक्षीले सधैँ सत्य बोल्दछ, ऊ आफ्नो धर्म र सांसारिक सम्पत्तिबाट कहिल्यै वञ्चित हुँदैन।
82विदुरले भने — कश्यपका वचन सुनेर प्रह्लादले आफ्ना पुत्रलाई यसरी भने।
83प्रह्लादले भने — जसरी आङ्गिरस (सुधन्वाका पिता) मभन्दा श्रेष्ठ छन्, त्यसरी नै सुधन्वा तिमीभन्दा श्रेष्ठ छन्। सुधन्वाकी आमा तिम्री आमाभन्दा श्रेष्ठ छिन्। त्यसैले हे विरोचन, सुधन्वा अब तिम्रा प्राणका स्वामी हुन्। सुधन्वाले भने — जसरी तपाईंले पुत्रस्नेहले विचलित नभई धर्मको पालन गर्नुभयो, त्यसैले म आज्ञा दिन्छु कि तपाईंको यो पुत्र सय वर्ष जीवित रहनेछ।
84विदुरले भने — धर्मका यी महान् सत्य सुनेर यस सभामा उपस्थित सम्पूर्ण जनहरूले विचार गरून् कि कृष्णा (द्रौपदी)द्वारा सोधिएको प्रश्नको के उत्तर हुनुपर्दछ।
85वैशम्पायनले भने — विदुरका वचन सुनेर पनि राजाहरूले एक शब्द उत्तर दिएनन्। कर्णले दुःशासनलाई भने — "यी दासी कृष्णालाई भित्री कक्षमा लैजाऊ।"
86त्यसपछि दुःशासनले ती असहाय, लज्जाशील र तपस्विनी द्रौपदीलाई सभामा घिसार्न थाल्यो, जो काम्दै पाण्डवहरूतिर हेरेर करुण स्वरमा रोइरहेकी थिइन्।