सर्गः 30
किष्किन्धाकाण्ड · अध्याय 30
संस्कृत
1गुहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः। वर्षरात्रोषितो रामः कामशोकाभिपीडितः4.30.1।। पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्। शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्4.30.2।। कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्। बुद्ध्वा कालमतीतं च मुमोह परमातुरः4.30.3।।
2गुहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः। वर्षरात्रोषितो रामः कामशोकाभिपीडितः4.30.1।। पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्। शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्4.30.2।। कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्। बुद्ध्वा कालमतीतं च मुमोह परमातुरः4.30.3।।
3गुहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः। वर्षरात्रोषितो रामः कामशोकाभिपीडितः4.30.1।। पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्। शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्4.30.2।। कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्। बुद्ध्वा कालमतीतं च मुमोह परमातुरः4.30.3।।
4स तु संज्ञामुपागम्य मुहूर्तान्मतिमान्पुनः। मनस्स्थामपि वैदेहीं चिन्तयामास राघवः4.30.4।।
5आसीनः पर्वतस्याग्रे हेमधातुविभूषिते। शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम्4.30.5।।
6दृष्ट्वा च विमलं व्योम गतविद्युद्वलाहकम्। सारसारावसङ्घुष्ठं विललापार्तया गिरा4.30.6।।
7सारसारावसन्नादैस्सारसारवनादिनी। याऽऽश्रमे रमते बाला साऽद्य मे रमते कथम्4.30.7।।
8पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान्। कथं सा रमते बाला पश्यन्ती मामपश्यती4.30.8।।
9या पुरा कलहंसानां स्वरेण कलभाषिणी। बुध्यते चारुसर्वाङ्गी साऽद्य मे बुद्ध्यते कथम्4.30.9।।
10निस्वनं चक्रवाकानां निशम्य नहचारिणाम्। पुण्डरीकविशालाक्षी कथमेषा भविष्यति4.30.10।।
11सरांसि सरितो वापीः काननानि वनानि च। तां विना मृगशाबाक्षीं चरन्नाद्य सुखं लभे4.30.11।।
12अपि तां मद्वियोगाच्छ सौकुमार्याच्च भामिनीम्। सुदूरं पीडयेत्कामश्शरद्गुणनिरन्तरः4.30.12।।
13एवमादि नरश्रेष्ठो विललाप नृपात्मजः। विहङ्ग इव सारङ्गस्सलिलं त्रिदशेश्वरात्4.30.13।।
14ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु। ददर्श पर्युपावृत्तो लक्ष्मीवान्लक्ष्मणोऽग्रजम्4.30.14।।
15तं चिन्तया दुस्सहया परीतं विसंज्ञमेकं विजने मनस्वी। भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम्4.30.15।।
16किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन। अयं सदा संह्रियते समाधिः किमत्र योगेन निवर्तितेन4.30.16।।
17क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम्। सहायसामर्थ्यमदीनसत्त्वः स्वकर्म हेतुं च कुरुष्व हेतुम्4.30.17।।
18न जानकी मानव वंशनाथ त्वया सनाथा सुलभा परेण। न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीर वरार्ह कच्छित्4.30.18।।
19सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः। हितं च पथ्यं च नयप्रसक्तं ससाम धर्मार्थसमाहितं च4.30.19।।
20निस्संशयं कार्यमवेक्षितव्यं क्रियाविशेषोऽह्यनुवर्तितव्यः। ननु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फलं च चिन्त्यम्4.30.20।।
21अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन्। उवाच लक्ष्मणं रामो मुखेन परिशुष्यता4.30.21।।
22तर्पयित्वा सहस्राक्षस्सलिलेन वसुन्धराम्। निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः4.30.22।।
23स्निग्धगम्भीरनिर्घोषाश्शैलद्रुमपुरोगमाः। विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज4.30.23।।
24नीलोत्पलदलश्यामाश्श्यामीकृत्वा दिशो दश। विमदा इव मातङ्गाश्शान्तवेगाः पयोधराः4.30.24।।
25जलगर्भा महामेघा कुटजार्जुनगन्धिनः। चरित्वा विरतास्सौम्य वृष्टिवातास्समुद्यताः4.30.25।।
26घनानां वारणानां च मयूराणां च लक्ष्मण। नादः प्रस्रवणानां च प्रशान्तस्सहसाऽनघ4.30.26।।
27अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः। अनुलिप्ता इवाऽभान्ति गिरयश्चित्रदीप्तिभिः4.30.27।।
28शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम्। लीलासु चैवोत्तम वारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता4.30.28।।
29सम्प्रत्यनेकाश्रय चित्रशोभा लक्ष्मीश्शरत्कालगुणोपनीता। सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति4.30.29।।
30सप्तच्छदानां कुसुमोपगन्धी षट्पादबृन्दैरनुगीयमानः। मत्तद्विपानां पवनोऽनुसारी दर्पं विनेष्यन्नधिकं करोति।।4.30.30।।
31अभ्यागतैश्चारुविशालपक्षै स्सरःप्रियैः पद्मरजोवकीर्णैः। महानदीनां पुलिनोपयातैः क्रीडन्ति हंसास्सह चक्रवाकैः4.30.31।।
32मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु। प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता4.30.32।।
33नभस्समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु। प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः4.30.33।।
34मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पातिभारावनताग्रशाखैः। सुवर्णगौरैर्नयनाभिरामै रुद्योतितानीव वनान्तराणि4.30.34।।
35प्रियान्वितानां नलिनीप्रियाणां वने रतानां कुसुमोद्धतानाम्। मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः4.30.35।।
36व्यभ्रं नभश्शस्त्रविधौतवर्णं कृशप्रवाहानि नदीजलानि। कह्लारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः4.30.36।।
37सूर्यातपक्रामणनष्टपङ्का भूमिश्चिरोदधाटितसान्द्ररेणुः। अन्योन्यवैरेणसमायुताना मुद्योगकालोऽद्य नराधिपानाम्4.30.37।।
38शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांशुसमुत्क्षिताङ्गाः। मदोत्कटास्सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति4.30.38।।
39समन्मथं तीव्रगतानुरागाः कुलान्विता मन्दगतिं करिण्यः। मदान्वितं सम्परिवार्य यान्तं वनेषु भर्तारमनुप्रयान्ति4.30.39।।
40त्यक्त्वा वराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम्। निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमदा मयूराः4.30.40।।
41वित्रास्य कारण्डवचक्रवाका न्महारवैर्भिन्नकटा गजेन्द्राः। सरस्सु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति4.30.41।।
42व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु। ससारसारावनिनादितासु नदीषु हृष्टा निपतन्ति हंसाः4.30.42।।
43नदीघनप्रस्रवणोदकाना मतिप्रवृद्धानिलबर्हिणानाम्। प्लवङ्गमानां च गतोत्सवानां द्रुतं रवास्सम्प्रति सम्प्रणष्टाः4.30.43।।
44अनेकवर्णास्सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः। क्षुधार्दिता घोरविषा बिलेभ्य श्चिरोषिता विप्रसरन्ति सर्पाः4.30.44।।
45चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका। अहो रागवती सन्ध्या जहाति स्वयमम्बरम्4.30.45।।
46रात्रिश्शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा। ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी4.30.46।।
47विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः। नभस्समाक्रामति शीघ्रवेगाः वातावधूता ग्रथितेव माला4.30.47।।
48सुप्तैकहंसं कुमुदैरुपेतं महाह्रदस्थं सलिलं विभाति। घनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम्4.30.48।।
49प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम्। वाप्युत्तमानामधिकाऽद्य लक्ष्मी र्वराङ्गनानामिव भूषितानाम्4.30.49।।
50वेणुस्वनव्यञ्जिततूर्यमिश्रः प्रत्यूषकालानिलसम्प्रवृद्धः। सम्मूर्छितो गर्गरगोवृषाणा मन्योन्यमापूरयतीव शब्दः4.30.50।।
51नवैर्नदीनां कुसुमप्रभासै र्व्याधूयमानैर्मृदुमारुतेन। धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि4.30.51।।
52वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताष्षट्चरणाः प्रह्रृष्टाः। वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः4.30.52।।
53जलं प्रसन्नं कुमुदं प्रभासं क्रौञ्चस्वनश्शालिवनं विपक्वम्। मृदुश्च वायुर्विमलश्च चन्द्र श्शंसन्ति वर्षव्यपनीतकालम्4.30.53।।
54मीनोपसन्दर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः। कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम्4.30.54।।
55सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि। सपत्रलेखानि सरोचनानि वधूमुखानीव नदीमुखानि4.30.55।।
56प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु। गृहीतचापोद्यतचण्डदण्डः प्रचण्डचारोऽद्य वनेषु कामः4.30.56।।
57लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा। निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रणष्टाः4.30.57।।
58दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः। नवसङ्गमसव्रीडा जघनानीव योषितः4.30.58।।
59प्रसन्नसलिलास्सौम्य कुररीभिर्विनादिताः। चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः4.30.59।।
60असनास्सप्तपर्णाश्च कोविदाराश्च पुष्पिताः। दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु4.30.60।।
61हंससारसचक्राह्वैः कुररैश्च समन्ततः। पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण4.30.61।।
62अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज। उद्योगसमयस्सौम्य पार्थिवानामुपस्थितः4.30.62।।
63इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम्4.30.63।।
64चत्वारो वार्षिका मासा गता वर्षशतोपमाः। मम शोकाभिभूतस्य सौम्य सीतामपश्यतः4.30.64।।
65चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम्। विषमं दण्डकारण्यमुद्यानमिव याऽगता4.30.65।।
66प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते। कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण4.30.66।।
67अनाथो हृतराज्योऽयं रावणेन च धर्षितः। दीनो दूरगृहः कामी मां चैव शरणं गतः4.30.67।। इत्येतैः कारणैस्सौम्य सुग्रीवस्य दुरात्मनः। अहं वानरराजस्य परिभूतः परन्तप4.30.68।।
68अनाथो हृतराज्योऽयं रावणेन च धर्षितः। दीनो दूरगृहः कामी मां चैव शरणं गतः4.30.67।। इत्येतैः कारणैस्सौम्य सुग्रीवस्य दुरात्मनः। अहं वानरराजस्य परिभूतः परन्तप4.30.68।।
69स कालं परिसङ्ख्याय सीतायाः परिमार्गणे। कृतार्थस्समयं कृत्वा दुर्मतिर्नावबुध्यते4.30.69।।
70त्वं च किष्किन्धां प्रविश्य ब्रूहि वानरपुङ्गवम्। मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम4.30.70।।
71अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम्। आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः4.30.71।।
72शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्। सत्येन प्रतिगृह्णाति स वीरः पुरुषोत्तमः4.30.72।।
73कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये। तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते4.30.73।।
74नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे। द्रष्टुमिच्छति चापस्य रूपं विद्युद्गणोपमम्4.30.74।।
75घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे। निर्घोषमिव वज्रस्य पुनस्संश्रोतुमिच्छसि4.30.75।।
76काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे। त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज4.30.76।।
77यदर्थमयमारम्भः कृतः परपुरञ्जयः। समयं नाभिजानाति कृतार्थः प्लवगेश्वरः4.30.77।।
78वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः। व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते4.30.78।।
79सामात्यपरिषत्क्रीडन्पानमेवोपसेवते। शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्4.30.79।।
80उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल। मम रोषस्य यद्रूपं ब्रूयाश्चैवमिदं वचः4.30.80।।
81न च सङ्कुचितः पन्था येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः4.30.81।।
82एक एव रणे वाली शरेण निहतो मया। त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्4.30.82।।
83तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ। तत्तद्भ्रूहि नरश्रेष्ठत्वर कालव्यतिक्रमः4.30.83।।
84कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम्। मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येर्मम चोदितैश्शरैः4.30.84।।
85स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम्। चकार तीव्रां मतिमुग्रतेजा हरीश्वरे मानववंशनाथः4.30.85।।
अंग्रेज़ी
1While Sugriva was in his residence, Rama was (in Prasravana mountain) spending his rainy nights tormented by passion (for Sita). Sugriva was engaged in love, forgetting the time fixed for taking up the search for Sita. When the sky became clear of clouds after the rainy season, Rama sat gazing at the clear autumnal Moon's orb. He was besmeared with moonlight and felt perturbed as time was running out. And then fell into a swoon. (only a few months remained for the completion of the exile and Bharata will put an end to himself if Rama does not return to Ayodhya on the stipulated day. This worried Rama.)
2While Sugriva was in his residence, Rama was (in Prasravana mountain) spending his rainy nights tormented by passion (for Sita). Sugriva was engaged in love, forgetting the time fixed for taking up the search for Sita. When the sky became clear of clouds after the rainy season, Rama sat gazing at the clear autumnal Moon's orb. He was besmeared with moonlight and felt perturbed as time was running out. And then fell into a swoon. (only a few months remained for the completion of the exile and Bharata will put an end to himself if Rama does not return to Ayodhya on the stipulated day. This worried Rama.)
3While Sugriva was in his residence, Rama was (in Prasravana mountain) spending his rainy nights tormented by passion (for Sita). Sugriva was engaged in love, forgetting the time fixed for taking up the search for Sita. When the sky became clear of clouds after the rainy season, Rama sat gazing at the clear autumnal Moon's orb. He was besmeared with moonlight and felt perturbed as time was running out. And then fell into a swoon. (only a few months remained for the completion of the exile and Bharata will put an end to himself if Rama does not return to Ayodhya on the stipulated day. This worried Rama.)
4Gaining back the senses after a while, wise Rama started thinking about Vaidehi, who remained in his heart.
5Sitting on top of the mountain shining with gold and minerals, Rama gazed at the pleasant autumnal sky and started thinking of his beloved.
6Looking at the sky rid of clouds and lightning, filled with the sounds of flocks of sarasa birds, Rama cried in a pitiable state.
7'How will the young lady (Sita) whose voice is like the sarasa bird's, who was revelling, listening to its sweet cackle at the hermitage be living now?
8'How will my beloved wife feel on seeing the asana flowers which are as pure as gold, when she does not find me anywhere?
9'How will my Sita with her charming limbs and sweet words, who used to get up from sleep by the cackle of swans, wake up now?
10'How will that lady with large, pale white eyes sustain her life now, since she is used to listening to the sweet notes of chakravaka birds, who were her companions?
11'Even though I am wandering by lakes, rivers, wells, forests and groves,I am not happy without that fawneyed lady.
12'I think even the charm of autumn must be always tormenting that lovely lady, as she is very far from me. She is too delicate to suffer the agony of separation.'
13Thus the best among the princes wailed just as chakrabaka laments for water from Indra, lord of the gods.
14Graceful Lakshmana returned after going round and round the beautiful mountain slopes for fruits and saw his brother.
15Observing Rama who had lost his senses, lying alone in unbearable agony, venerable Lakshmana became sad and miserable and spoke to his brother:
16'O revered brother why do you succumb to passion and loss of selfconfidence? Why is the usual composure of your mind withdrawn? Why do you desist from yaga?
17'You are an undaunted warrior. Take to the path of action. Resort to samadhiyoga or meditation and regain the serenity of mind. Make the strength of your effort the source of your success.
18'O lord of the human race O worthy hero when you are the protector, Janaki cannot be retained by any one easily just as burning fire after it reaches its full height cannot be retained by any one.'
19Rama said to Lakshmana, an unassailable warrior with auspicious signs, that what he had spoken was natural, beneficial, wise and useful.It is in accordance with Sama Veda and the science of statecraft, well established in dharma and artha.
20'My dear, there is no doubt that I have to consider the work (ahead), give special attention to follow up. Surely I need to think over this herculian task and its achievement'.
21Then falling back on the memory of Maithili, the lady with eyes like lotus petals, he said to Lakshmana with parched lips:
22'Having satisfied the earth with abundant rain water and having fulfilled the task of ripening the crops, the thousandeyed Indra has done his duty, has settled down now.
23'O prince having discharged their water the clouds (after the rains) are exhausted. They are moving now over trees and mountains, making deep and pleasant sounds.
24'The clouds, which were dark till now like the blue lotus petals darkening all the ten directions are like elephants free from all intoxication as their fury is abated৷৷
25'O dear the moist winds have ceased to blow as before and are carrying the fragrance of kutaja and arjuna flowers.
26'O sinless Lakshmana the rumblings of heavy clouds, the trumpeting of elephants, the cry of peacocks and the sound of waterfalls have become suddenly stilled.
27'The mountain slopes, having been washed by the showers of rain on all sides, are cleansed. They are shining in variegated colours and look as though the mountain peaks are smeared with glowing colours (of minerals).
28'The autumn has set in, manifesting its grace on the branches of saptachada trees(sevenleafed banana plant) through the radiance of stars, Sun and Moon and through the sports of excellent elephants.
29'From the beauty of autumn manifested in a variety of ways on the clusters of lotuses, touched by the Sun, it seems the goddess of wealth shines and shines effulgently. (The lotus is goddess Laxmi's favourite flower)
30'The wind carries the fragrance of saptachada flowers. Attracted by the fragrance, swarms of bees come humming. The pride of the elephants in rut increases.
31'The swans have come face to face with chakravaka birds. They have newly arrived. Lovers of lakes, they are shaking the pollen of lotuses on their lovely wide wings and have settled on the sandy bankssporting.
32'Goddess Laxmi with her scattered self shines there among the proud elephants, among herds of excited bulls and among streams with clear water.
33'The sky is free from clouds. The peacocks have shed their ornamental plumes. They have lost interest in their beloveds. With their glory withdrawn, the peacocks are devoid of happiness and absorbed in the thought of the clouds.
34'The forests are delightful to the eyes, as if illuminated by a large number of goldencoloured, finesmelling priyaka branches bent under the heavy loads of flowers.
35'Lordly elephants accompanied by their dear female mates, fond of lotus ponds and woods are out to enjoy the sweet smell of the blossoms of saptachada and excited by passion and longing for sexual union are moving slowly.
36'Cleared of the black clouds, the sky is shining like a polished weapon. The river waters flow feebly. Winds blowing over white lotuses feel cool. All quarters clear of darkness are shining.
37Now, with the mud dried by the sun's heat and thick dust raised after long, is the right season for the expeditions of kings bound in mutual enmity.
38'The bulls surrounded by cows are bellowing with the dust settled on their limbs. Excited by passion they are happy, ready to fight. They look attractive, blessed by the attributes of Autumn.
39'The female elephants of good breed, deeply passionate, gather round and follow their intoxicated lord moving slowly through the forest.
40'The peacocks have shed their ornamental wear, their plumes. They are moving on the river banks miserably, devoid of high spirit as if they are being taunted by flocks of sarasa birds (who are highspinted and cheerful).
41'Excellent elephants in rut, with ichor exuding from their temples trumpet, frightening the ducks and chakravaka birds in the water. Strirring the water in the lakes, ornamented with lotuses, they drink it.
42'The swans are full of joy, flocking on the sand banks of rivers crowded with cows where the water is pure and devoid of mud. The rivers are full of sarasa birds and swans who are singing delightfully.
43'Suddenly the turbulent sounds of the river waters, waterfalls and thunderclouds have stopped. The peacoks having lost the pleasure of blowing winds lost their excitement. The croaking of frogs is silent.
44'With no new rainclouds (in the sky), venomous, multicoloured serpents crawl out of the anthills with emacited (hybernated) bodies, troubled by hunger due to long confinement.
45'While the stars appear with the soothing touch of the Moon's beams, this ruddy twilight is quitting the sky on her own.
46'The night appears like a lady with a sweet face lit up by the rising Moon, her beautiful eyes opened up by stars, her body draped in the robe of white Moon light.
47'Driven by the wind, the lovely sarasa birds, after eating ripened grains from paddy fields happily fly the sky in rows like a garland at great speed.
48'With a single swan in sleep night lotuses blooming around it, the water in the big tank appear like the sky free from clouds with the full Moon and clusters of stars scattered. (The swan is the moon, the lotuses the stars and the clean pond the sky).
49'Lakshmi, the goddess of wealth (also of autumn) appears decorated with deep wells like an excellent lady with swans as girdles and blooming lotuses and lilies as garlands.
50'The whistling of bamboos enhanced by the wind in the early morning, and the bellowing of bulls echoing in the caves supplement each other as it were.
51'The river banks shining with fresh white flowers of kasa reeds swayed by the gentle breeze silken look like a lady wrapped in white silk.
52'The butterflies glitter around in the forest fearlessly showing their skill in drinking honey, with their backs turned white with the dust of pollen grains from the lotus cups. They follow the wind along with their loved ones in the forest.
53'The fresh blooms of night lotuses, the cackle of krauncha birds, fully ripened fields of paddy, the gentle breeze and the bright Moon indicate the coming to an end of the rainy season and setting in of autum.
54'Now the riverbrides, displaying their girdles of fish, have slowed down like the gait of sensuous ladies in the early morning, exhausted by sexual pleasures.
55'Crowded with chakravaka birds and green moss, and covered with kasa reeds like silken veils, the river banks appear like the face of the bride decorated with designs of green leaves and gorochana tilaka.
56'Now Cupid is moving unobstructed showing his power by holding his bow indicating strict punishment to those separated from their beloveds in the forests with bana and asana flowers in bloom and bees humming happily.
57'Having showered heavy rains, and filling tanks and rivers, and producing bumper crops on the earth the clouds have disapeared.
58'Just as bashful young brides show their loins slowly during their first sexual meet the rivers start showing their sandy banks slowly in autumn.
59'O gentle Lakshmana the pure water in the tanks and sweet sounds of flocks of female kurari birds and chakravakas there are splendid.
60'The asanas, saptaparna, kovida and bandhujeeva trees and shyama creepers are seen in full bloom on the mountain slopes.
61'Lakshmana look at the swans, sarasas, chakravakas and kurara birds scattered all over the river banks.
62'O handsome prince the time has come for making expeditions by kings against the enemies waiting for victory.
63'O prince this is time for the first expedition (of the year) by kings. I do not find Sugriva making effort in that direction.
64'O gentle one, the four months of rainy season are spent without seeing Sita. It is equal to a hundred years for my griefstricken heart.
65'Just as a female chakravaka follows the male, Sita followed her husband into this dense Dandaka forest as though it is a pleasuregarden.
66'O Lakshmana king Sugriva shows no mercy on one, who is griefstricken, separated from his wife, and banished from the kingdom.
67'O gentle one although I am a vanquisher of foes, this evilminded king of monkeys is slighting me because I am away from home, I have lost my kingdom, I am outraged by Ravana, I am miserable and lovesick and I have sought his help.
68'O gentle one although I am a vanquisher of foes, this evilminded king of monkeys is slighting me because I am away from home, I have lost my kingdom, I am outraged by Ravana, I am miserable and lovesick and I have sought his help.
69'The evilminded Sugriva, having fulfilled his objective, does not realise that he has made a promise to me and has reached the time set for the search of Sita.
70'Go to Kishkinda and speak (on my behalf ) to that fool, Sugriva, the chief of monkeys who is revelling in habitual sensual pleasures
71'He who, having promised to his friend to grant his desire and who, having been obliged, fails to implement the promise, is the lowest on earth.
72'(On the other hand) he who honours his promise, whether good or bad, is truly heroic, the best of men.'
73'Even the carnivorous animals dislike to eat the body of such ungrateful men who do not help their friends even though they have received help and have achieved their objective.'
74'Surely he wishes to see the form of my bow inlaid with gold bent by me to its full length, looking like a streak of lightning.
75'Perhaps he wants once again to hear when enraged in a combat, the dreadful twang of my bow, resembling the peal of a thunderbolt .
76'O prince knowing my valour fully welI, and knowing that you are here to help me he is unhesitatingly revelling in sensual pleasures.
77'O conqueror of the enemy capital the monkey lord who has achieved his goal does not realise the importance of my mission.
78'Having promised (to search for Sita) after the rainy season,Sugriva is not aware that he has (already) spent the four monthsrevelling.
79'Sporting with the council of ministers surrounding him, resorting to drinking, he shows no compassion to us feeling wretched with grief.
80'O mighty warrior O dear, go to Sugriva and make him aware of the virulence of my anger and tell him:
81'The route by which Vali departed, killed by me has not been closed. O Sugriva you ought to abide by the pledge given. Do not follow the path of Vali.
82'Vali was killed by me in the battle with a single arrow while I shall kill you now along with your near and dear ones since you have deviated from the truth.'
83'O bull among men O hero speak to him that all that is done in time is done well. Hurry up. Ask him to do whatever is good for him as well as for us:
84'O lord of monkeys Carry out the promise you made to me, consider it to be eternal dharma. Slain by my arrows, you will see Vali in the abode of the lord of death.'
85On seeing Rama, the protector of the human race, wailing Lakshmana of terrific lustre hardened his stand against Sugriva and proceeded, charged with intense anger. इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे त्रिंशस्सर्गः Thus ends the thirtieth sarga of Kishkindakanda of the Holy Ramayana, the first epic, composed by sage Valmiki.
हिन्दी
1जब सुग्रीव अपने भवन में थे, तब राम (प्रस्रवण पर्वत पर) सीता के विरह से सन्तप्त होकर वर्षा की रातें बिता रहे थे। सुग्रीव प्रेम में लीन थे और सीता की खोज आरम्भ करने के लिए नियत समय भूल गए थे। वर्षाकाल के पश्चात् जब आकाश मेघों से रहित हो गया, तब राम शरद् के निर्मल चन्द्रमण्डल को निहारते हुए बैठे रहे। चाँदनी में नहाए हुए वे समय बीतता देख व्याकुल हो उठे और फिर मूर्च्छित हो गए।
2जब सुग्रीव अपने भवन में थे, तब राम (प्रस्रवण पर्वत पर) सीता के विरह से सन्तप्त होकर वर्षा की रातें बिता रहे थे। सुग्रीव प्रेम में लीन थे और सीता की खोज आरम्भ करने के लिए नियत समय भूल गए थे। वर्षाकाल के पश्चात् जब आकाश मेघों से रहित हो गया, तब राम शरद् के निर्मल चन्द्रमण्डल को निहारते हुए बैठे रहे। चाँदनी में नहाए हुए वे समय बीतता देख व्याकुल हो उठे और फिर मूर्च्छित हो गए।
3जब सुग्रीव अपने भवन में थे, तब राम (प्रस्रवण पर्वत पर) सीता के विरह से सन्तप्त होकर वर्षा की रातें बिता रहे थे। सुग्रीव प्रेम में लीन थे और सीता की खोज आरम्भ करने के लिए नियत समय भूल गए थे। वर्षाकाल के पश्चात् जब आकाश मेघों से रहित हो गया, तब राम शरद् के निर्मल चन्द्रमण्डल को निहारते हुए बैठे रहे। चाँदनी में नहाए हुए वे समय बीतता देख व्याकुल हो उठे और फिर मूर्च्छित हो गए।
4कुछ देर बाद होश में आकर बुद्धिमान् राम अपने हृदय में बसी वैदेही का चिन्तन करने लगे।
5स्वर्ण और खनिजों से चमकते पर्वत के शिखर पर बैठे राम शरद् के मनोहर आकाश को निहारते हुए अपनी प्रिया का स्मरण करने लगे।
6मेघों और बिजली से रहित, सारस पक्षियों के समूहों के स्वर से भरे आकाश को देखकर राम दयनीय अवस्था में विलाप करने लगे।
7'जिसका स्वर सारस के समान है और जो आश्रम में उनकी मधुर ध्वनि सुनकर आनन्दित होती थी, वह युवती (सीता) अब कैसे जी रही होगी?
8'जब मेरी प्रिया स्वर्ण के समान निर्मल असन के पुष्पों को देखेगी और मुझे कहीं न पाएगी, तब उसे कैसा लगेगा?
9'मनोहर अङ्गों और मधुर वचनों वाली मेरी सीता, जो हंसों के कलरव से नींद से उठा करती थी, अब कैसे जागती होगी?
10'विशाल, धवल नेत्रों वाली वह देवी, जो अपनी सहचरी चक्रवाकों के मधुर स्वर सुनने की अभ्यस्त थी, अब कैसे अपने प्राण धारण करती होगी?
11'यद्यपि मैं सरोवरों, नदियों, कूपों, वनों और उपवनों में भटकता हूँ, तथापि उस मृगनयनी के बिना मुझे सुख नहीं।
12'मैं समझता हूँ कि शरद् का सौन्दर्य भी उस सुन्दरी को निरन्तर सन्तप्त करता होगा, क्योंकि वह मुझसे बहुत दूर है। वह इतनी सुकुमार है कि वियोग की वेदना सह नहीं सकती।'
13इस प्रकार राजकुमारों में श्रेष्ठ राम ने वैसे ही विलाप किया जैसे चक्रवाक देवराज इन्द्र से जल के लिए विलाप करता है।
14सुन्दर पर्वतढालों पर फलों के लिए चारों ओर घूमकर लौटे तेजस्वी लक्ष्मण ने अपने भाई को देखा।
15असह्य वेदना में अकेले पड़े और सुध-बुध खोए राम को देखकर पूजनीय लक्ष्मण दुःखी और व्यथित हो गए और अपने भाई से बोले —
16'हे पूजनीय भ्राता! आप विरह और आत्मविश्वास के ह्रास के वश में क्यों हो रहे हैं? आपके मन का सहज धैर्य कहाँ चला गया? आप अपने कर्तव्यकर्म से विमुख क्यों हैं?
17'आप अदम्य योद्धा हैं। कर्म का मार्ग ग्रहण कीजिए। समाधियोग अथवा ध्यान का आश्रय लेकर मन की शान्ति पुनः प्राप्त कीजिए। अपने प्रयत्न के बल को अपनी सफलता का स्रोत बनाइए।
18'हे मनुष्यजाति के स्वामी! हे श्रेष्ठ वीर! जब आप रक्षक हैं, तब जानकी को कोई सहज ही रोक नहीं सकता, जैसे पूर्ण वेग को प्राप्त प्रज्वलित अग्नि को कोई रोक नहीं सकता।'
19राम ने शुभलक्षणसम्पन्न अजेय योद्धा लक्ष्मण से कहा कि उन्होंने जो कहा वह स्वाभाविक, हितकर, बुद्धिमत्तापूर्ण और उपयोगी है। वह सामवेद और राजनीतिशास्त्र के अनुरूप तथा धर्म और अर्थ में सुप्रतिष्ठित है।
20'हे प्रिय! इसमें सन्देह नहीं कि मुझे आगे के कार्य पर विचार करना है और उसके अनुसरण पर विशेष ध्यान देना है। निश्चय ही मुझे इस महान् कार्य और उसकी सिद्धि पर विचार करना चाहिए।'
21तब कमलदल के समान नेत्रों वाली मैथिली की स्मृति में डूबकर उन्होंने सूखे होंठों से लक्ष्मण से कहा —
22'प्रचुर वर्षाजल से पृथ्वी को तृप्त कर और फसलों को पकाने का कार्य पूरा कर सहस्राक्ष इन्द्र ने अपना कर्तव्य निभा लिया और अब वे विश्राम में हैं।
23'हे राजकुमार! अपना जल बरसा चुकने पर (वर्षा के पश्चात्) मेघ थक गए हैं। अब वे वृक्षों और पर्वतों के ऊपर गम्भीर और मधुर ध्वनि करते हुए विचर रहे हैं।
24'जो मेघ अब तक नील कमलदल के समान काले होकर दसों दिशाओं को अन्धकारमय कर रहे थे, वे अब मद उतर जाने पर शान्त हुए हाथियों के समान हैं।
25'हे प्रिय! आर्द्र वायु पहले की भाँति बहना बन्द कर चुकी है और अब कुटज तथा अर्जुन के पुष्पों की सुगन्ध ले जा रही है।
26'हे निष्पाप लक्ष्मण! घने मेघों की गर्जना, हाथियों की चिंघाड़, मयूरों की केका और झरनों की ध्वनि सहसा शान्त हो गई है।
27'चारों ओर वर्षा की धाराओं से धुलकर पर्वतढाल स्वच्छ हो गए हैं। वे रंगबिरंगी आभा से चमक रहे हैं और ऐसा लगता है मानो पर्वतशिखरों पर (खनिजों के) चमकीले रंग पोत दिए गए हों।
28'शरद् ऋतु आ गई है, जो सप्तच्छद वृक्षों की शाखाओं पर, तारों, सूर्य और चन्द्रमा की कान्ति में तथा श्रेष्ठ गजराजों की क्रीड़ा में अपनी शोभा प्रकट कर रही है।
29'सूर्य से स्पर्श किए गए कमलसमूहों पर नाना रूपों में प्रकट शरद् की शोभा से ऐसा लगता है मानो लक्ष्मी देदीप्यमान होकर चमक रही हों।
30'वायु सप्तच्छद के पुष्पों की सुगन्ध ले जा रही है। उस सुगन्ध से आकृष्ट होकर भ्रमरों के झुण्ड गुञ्जार करते आ रहे हैं। मदमत्त हाथियों का गर्व बढ़ रहा है।
31'हंस चक्रवाकों के आमने-सामने आ गए हैं। वे अभी-अभी आए हैं। सरोवरों के प्रेमी वे अपने सुन्दर चौड़े पंखों पर कमलों के पराग को झाड़ते हुए बालूतटों पर क्रीड़ा करते बैठे हैं।
32'मदमत्त हाथियों के बीच, उन्मत्त वृषभों के झुण्डों के बीच और निर्मल जल वाली धाराओं के बीच लक्ष्मी अपने बिखरे रूप में शोभा पा रही हैं।
33'आकाश मेघों से रहित है। मयूरों ने अपने शोभादायक पंख गिरा दिए हैं। उनकी अपनी प्रियाओं में रुचि नहीं रही। शोभा छिन जाने पर मयूर सुखहीन होकर मेघों के चिन्तन में डूबे हैं।
34'पुष्पों के भारी बोझ से झुकी सुनहरी, सुगन्धित प्रियक शाखाओं की बहुलता से मानो प्रकाशित वन नेत्रों को आनन्द देते हैं।
35'कमलसरोवरों और वनों के प्रेमी गजराज अपनी प्रिय हथिनियों के साथ सप्तच्छद के पुष्पों की मधुर सुगन्ध का आनन्द लेने निकले हैं और काम से उत्तेजित होकर संयोग की कामना से धीरे-धीरे विचर रहे हैं।
36'काले मेघों से मुक्त आकाश माँजे हुए शस्त्र के समान चमक रहा है। नदियों का जल मन्द गति से बह रहा है। श्वेत कमलों के ऊपर से बहती वायु शीतल लगती है। अन्धकार से मुक्त सब दिशाएँ चमक रही हैं।
37अब सूर्य के ताप से कीचड़ सूख जाने और दीर्घकाल के पश्चात् घनी धूल उड़ने से परस्पर वैर रखने वाले राजाओं के अभियान का उपयुक्त समय आ गया है।
38'अङ्गों पर धूल जमाए वृषभ गौओं से घिरे हुए हुंकार रहे हैं। काम से उत्तेजित वे प्रसन्न हैं और युद्ध के लिए उद्यत हैं। शरद् के गुणों से आशीर्वादित वे मनोहर लगते हैं।
39'उत्तम कुल की, गहरी अनुरागवती हथिनियाँ अपने मदमत्त स्वामी के चारों ओर एकत्र होकर वन में धीरे-धीरे चलते हुए उनके पीछे चलती हैं।
40'मयूरों ने अपने शोभावस्त्र, अपने पंख त्याग दिए हैं। वे नदीतटों पर उदास होकर उत्साहरहित विचर रहे हैं, मानो उल्लसित सारस पक्षियों के समूह उनका उपहास कर रहे हों।
41'कपोलों से मद बहाते मदमत्त गजराज चिंघाड़कर जल में कारण्डवों और चक्रवाकों को भयभीत कर रहे हैं। कमलों से अलंकृत सरोवरों का जल मथकर वे उसे पी रहे हैं।
42'हंस उन नदीतटों के बालूतटों पर एकत्र होकर आनन्दमग्न हैं जहाँ गौएँ भरी हैं और जल निर्मल तथा कीचड़रहित है। नदियाँ सारसों और हंसों से भरी हैं जो मधुर स्वर में गा रहे हैं।
43'नदीजल, झरनों और गरजते मेघों की कोलाहलपूर्ण ध्वनियाँ सहसा रुक गई हैं। वायु के सुख से वञ्चित मयूरों का उल्लास चला गया। मेढकों का टर्राना मौन हो गया।
44'(आकाश में) नए वर्षामेघ न रहने से विषधर, रंगबिरंगे सर्प दीर्घ बन्दी अवस्था से क्षुधापीड़ित होकर कृश शरीर लिए बाँबियों से बाहर निकल रहे हैं।
45'चन्द्रकिरणों के शीतल स्पर्श से जब तारे प्रकट होते हैं, तब यह अरुण सन्ध्या स्वयं ही आकाश छोड़ रही है।
46'रात्रि उस मधुरमुखी स्त्री के समान लगती है जिसका मुख उदित चन्द्रमा से आलोकित है, जिसके सुन्दर नेत्र तारों से खुले हैं और जिसका शरीर श्वेत चाँदनी के वस्त्र में लिपटा है।
47'वायु से प्रेरित होकर सुन्दर सारस पक्षी धान के खेतों से पके दाने खाकर प्रसन्नतापूर्वक पंक्तियों में माला के समान महान् वेग से आकाश में उड़ रहे हैं।
48'एक अकेले सोए हंस और चारों ओर खिली कुमुदिनियों सहित विशाल सरोवर का जल पूर्णचन्द्र और बिखरे तारासमूहों से युक्त मेघरहित आकाश के समान प्रतीत होता है।
49'हंसों की करधनी और खिले कमल-कुमुदों की मालाओं से युक्त उत्तम स्त्री के समान लक्ष्मी गहरे कूपों से अलंकृत होकर शोभा पा रही हैं।
50'प्रातःकाल वायु से बढ़ी बाँसों की सीत्कार और गुफाओं में गूँजती वृषभों की हुंकार मानो एक-दूसरे के पूरक हैं।
51'मन्द पवन से हिलते काँस के नवीन श्वेत फूलों से चमकते नदीतट श्वेत रेशम में लिपटी स्त्री के समान लगते हैं।
52'कमलपात्रों के पराग की धूल से पीठ श्वेत किए तितलियाँ वन में निर्भय होकर मधुपान का कौशल दिखाती हुई चमक रही हैं। वे वन में अपने प्रियजनों के साथ वायु के पीछे चलती हैं।
53'कुमुदिनियों का नवीन विकास, क्रौञ्च पक्षियों का कलरव, पूर्ण पके धान के खेत, मन्द पवन और उज्ज्वल चन्द्रमा — ये वर्षाकाल की समाप्ति और शरद् के आगमन के सूचक हैं।
54'अब नदीरूपी वधुएँ मछलियों की करधनी दिखाती हुई प्रातःकाल रतिक्रीड़ा से थकी विलासिनी स्त्रियों की चाल के समान मन्द हो गई हैं।
55'चक्रवाकों और हरी काई से भरे तथा रेशमी घूँघट के समान काँस से ढँके नदीतट हरे पत्तों की रचना और गोरोचन के तिलक से सजे वधू के मुख के समान प्रतीत होते हैं।
56'अब खिले बाण और असन के पुष्पों से भरे तथा भ्रमरों के प्रसन्न गुञ्जन से गूँजते वनों में प्रियजनों से बिछुड़ों को कठोर दण्ड की सूचना देता हुआ धनुष धारण किए कामदेव अपनी शक्ति दिखाता निर्बाध विचर रहा है।
57'भारी वर्षा बरसाकर, तालाबों और नदियों को भरकर तथा पृथ्वी पर प्रचुर फसल उपजाकर मेघ अदृश्य हो गए हैं।
58'जैसे लजाती नववधुएँ प्रथम समागम में धीरे-धीरे अपनी कटि दिखाती हैं, वैसे ही शरद् में नदियाँ धीरे-धीरे अपने बालूतट दिखाने लगती हैं।
59'हे सौम्य लक्ष्मण! सरोवरों का निर्मल जल और वहाँ कुररियों तथा चक्रवाकों के झुण्डों के मधुर स्वर मनोहर हैं।
60'पर्वतढालों पर असन, सप्तपर्ण, कोविदार और बन्धुजीव वृक्ष तथा श्यामा लताएँ पूर्ण खिली दिखाई देती हैं।
61'हे लक्ष्मण! नदीतटों पर सब ओर बिखरे हंस, सारस, चक्रवाक और कुरर पक्षियों को देखो।
62'हे सुन्दर राजकुमार! विजय की प्रतीक्षा करते राजाओं के लिए शत्रुओं पर अभियान करने का समय आ गया है।
63'हे राजकुमार! यह राजाओं के (वर्ष के) प्रथम अभियान का समय है। मुझे सुग्रीव उस दिशा में कोई प्रयत्न करते दिखाई नहीं देते।
64'हे सौम्य! सीता को देखे बिना वर्षा के चार मास बीत गए। मेरे शोकाकुल हृदय के लिए यह सौ वर्षों के समान है।
65'जैसे चक्रवाकी अपने साथी के पीछे चलती है, वैसे ही सीता इस घोर दण्डकवन में अपने पति के पीछे ऐसे चली मानो यह कोई क्रीड़ावन हो।
66'हे लक्ष्मण! जो शोकाकुल है, पत्नी से बिछुड़ा है और राज्य से निर्वासित है, उस पर राजा सुग्रीव कोई दया नहीं दिखाते।
67'हे सौम्य! यद्यपि मैं शत्रुविजयी हूँ, तथापि यह दुर्बुद्धि वानरराज मेरी अवहेलना कर रहा है, क्योंकि मैं घर से दूर हूँ, मैंने राज्य खोया है, रावण ने मेरा अपमान किया है, मैं दुःखी और विरहव्याकुल हूँ और मैंने उसकी सहायता माँगी है।
68'हे सौम्य! यद्यपि मैं शत्रुविजयी हूँ, तथापि यह दुर्बुद्धि वानरराज मेरी अवहेलना कर रहा है, क्योंकि मैं घर से दूर हूँ, मैंने राज्य खोया है, रावण ने मेरा अपमान किया है, मैं दुःखी और विरहव्याकुल हूँ और मैंने उसकी सहायता माँगी है।
69'अपना प्रयोजन सिद्ध कर चुका दुर्बुद्धि सुग्रीव यह नहीं समझता कि उसने मुझसे प्रतिज्ञा की थी और सीता की खोज के लिए नियत समय आ पहुँचा है।
70'किष्किन्धा जाओ और उस मूर्ख वानरनायक सुग्रीव से (मेरी ओर से) कहो, जो अभ्यस्त विषयभोगों में डूबा है —
71'जो अपने मित्र से उसकी कामना पूरी करने की प्रतिज्ञा कर और स्वयं उपकृत होकर भी उस प्रतिज्ञा को नहीं निभाता, वह पृथ्वी पर सबसे नीच है।
72'(इसके विपरीत) जो अपनी प्रतिज्ञा का पालन करता है, चाहे वह भली हो या बुरी, वही सच्चा वीर और पुरुषों में श्रेष्ठ है।'
73'जो सहायता पाकर और अपना प्रयोजन सिद्ध कर लेने पर भी अपने मित्रों की सहायता नहीं करते, ऐसे कृतघ्नों का शरीर मांसभक्षी पशु तक खाना पसन्द नहीं करते।'
74'निश्चय ही वह मेरे स्वर्णजटित धनुष का वह रूप देखना चाहता है जिसे मैं पूरा खींच लेता हूँ और जो बिजली की रेखा के समान दिखाई देता है।
75'सम्भवतः वह युद्ध में क्रुद्ध होने पर वज्र की गर्जना के समान मेरे धनुष की भयंकर टंकार एक बार फिर सुनना चाहता है।
76'हे राजकुमार! मेरे पराक्रम को भलीभाँति जानते हुए और यह जानते हुए भी कि तुम मेरी सहायता के लिए यहाँ हो, वह निःसंकोच विषयभोगों में डूबा है।
77'हे शत्रुनगरीविजयी! अपना लक्ष्य सिद्ध कर चुका वह वानरराज मेरे कार्य का महत्त्व नहीं समझता।
78'वर्षाकाल के पश्चात् (सीता की खोज की) प्रतिज्ञा कर चुके सुग्रीव को यह भान नहीं कि उसने चार मास भोगविलास में बिता दिए।
79'चारों ओर मन्त्रिमण्डल से घिरकर क्रीड़ा करता और मद्यपान में लगा वह शोक से व्यथित हम पर कोई करुणा नहीं दिखाता।
80'हे महावीर! हे प्रिय! सुग्रीव के पास जाओ और उसे मेरे क्रोध की प्रचण्डता का बोध कराते हुए कहो —
81'मेरे द्वारा मारे गए वालि जिस मार्ग से गए, वह मार्ग बन्द नहीं हुआ है। हे सुग्रीव! तुम्हें दी हुई प्रतिज्ञा पर स्थिर रहना चाहिए। वालि के मार्ग पर मत चलो।
82'वालि को मैंने युद्ध में एक ही बाण से मारा था, किन्तु अब तुम्हें तुम्हारे प्रियजनों सहित मारूँगा, क्योंकि तुम सत्य से विचलित हो गए हो।'
83'हे नरश्रेष्ठ! हे वीर! उससे कहो कि जो कुछ समय पर किया जाता है, वही भलीभाँति किया जाता है। शीघ्रता करो। उससे कहो कि जो उसके लिए तथा हमारे लिए हितकर हो, वही करे —
84'हे वानरराज! मुझसे की हुई प्रतिज्ञा पूरी करो, उसे सनातन धर्म समझो। मेरे बाणों से मारे जाकर तुम यमराज के धाम में वालि को देखोगे।'
85मनुष्यजाति के रक्षक राम को विलाप करते देखकर भयंकर तेज वाले लक्ष्मण ने सुग्रीव के प्रति अपना रुख कठोर कर लिया और तीव्र क्रोध से भरकर प्रस्थान किया। इस प्रकार महर्षि वाल्मीकि रचित आदिकाव्य श्रीमद्रामायण के किष्किन्धाकाण्ड का त्रिंश सर्ग समाप्त हुआ।
नेपाली
1जब सुग्रीव आफ्नो भवनमा थिए, तब राम (प्रस्रवण पर्वतमा) सीताको विरहले सन्तप्त भई वर्षाका रात बिताउँदै हुनुहुन्थ्यो। सुग्रीव प्रेममा लीन थिए र सीताको खोजी सुरु गर्न तोकिएको समय बिर्सिएका थिए। वर्षाकालपछि जब आकाश मेघरहित भयो, तब राम शरद्को निर्मल चन्द्रमण्डल हेर्दै बस्नुभयो। जुनेलीमा नुहाएका उहाँ समय बित्दै गएको देखेर व्याकुल हुनुभयो र त्यसपछि मूर्च्छित हुनुभयो।
2जब सुग्रीव आफ्नो भवनमा थिए, तब राम (प्रस्रवण पर्वतमा) सीताको विरहले सन्तप्त भई वर्षाका रात बिताउँदै हुनुहुन्थ्यो। सुग्रीव प्रेममा लीन थिए र सीताको खोजी सुरु गर्न तोकिएको समय बिर्सिएका थिए। वर्षाकालपछि जब आकाश मेघरहित भयो, तब राम शरद्को निर्मल चन्द्रमण्डल हेर्दै बस्नुभयो। जुनेलीमा नुहाएका उहाँ समय बित्दै गएको देखेर व्याकुल हुनुभयो र त्यसपछि मूर्च्छित हुनुभयो।
3जब सुग्रीव आफ्नो भवनमा थिए, तब राम (प्रस्रवण पर्वतमा) सीताको विरहले सन्तप्त भई वर्षाका रात बिताउँदै हुनुहुन्थ्यो। सुग्रीव प्रेममा लीन थिए र सीताको खोजी सुरु गर्न तोकिएको समय बिर्सिएका थिए। वर्षाकालपछि जब आकाश मेघरहित भयो, तब राम शरद्को निर्मल चन्द्रमण्डल हेर्दै बस्नुभयो। जुनेलीमा नुहाएका उहाँ समय बित्दै गएको देखेर व्याकुल हुनुभयो र त्यसपछि मूर्च्छित हुनुभयो।
4केही बेरपछि होसमा आएर बुद्धिमान् राम आफ्नो हृदयमा बसेकी वैदेहीको चिन्तन गर्न थाल्नुभयो।
5सुन र खनिजले चम्किने पर्वतको टुप्पोमा बसेका रामले शरद्को मनोहर आकाश हेर्दै आफ्नी प्रियाको सम्झना गर्न थाल्नुभयो।
6मेघ र बिजुलीबाट मुक्त, सारस पक्षीका बथानका स्वरले भरिएको आकाश हेरेर राम दयनीय अवस्थामा विलाप गर्न थाल्नुभयो।
7'जसको स्वर सारसजस्तो छ र जो आश्रममा तिनको मीठो कलरव सुनेर आनन्दित हुन्थिन्, ती युवती (सीता) अब कसरी बाँचिरहेकी होलिन्?
8'जब मेरी प्रिया सुनझैँ निर्मल असनका फूल देख्नेछिन् र मलाई कतै भेट्टाउनेछैनन्, तब उनलाई कस्तो लाग्ला?
9'मनोहर अङ्ग र मीठा वचन भएकी मेरी सीता, जो हाँसको कलरवले निद्राबाट उठ्ने गर्थिन्, अब कसरी ब्युँझिन्छिन् होला?
10'विशाल, धवल आँखा भएकी ती देवी, जो आफ्ना सहचरी चक्रवाकका मीठा स्वर सुन्ने अभ्यस्त थिइन्, अब कसरी आफ्नो प्राण धारण गरिरहेकी होलिन्?
11'यद्यपि म पोखरी, नदी, इनार, वन र उपवनमा भौँतारिन्छु, तापनि ती मृगनयनीविना मलाई सुख छैन।
12'मलाई लाग्छ शरद्को सौन्दर्यले पनि ती सुन्दरीलाई निरन्तर सन्तप्त पारिरहेको होला, किनभने उनी मबाट धेरै टाढा छिन्। उनी यति सुकुमार छिन् कि वियोगको वेदना सहन सक्दिनन्।'
13यसरी राजकुमारहरूमा श्रेष्ठ रामले त्यसरी नै विलाप गर्नुभयो जसरी चक्रवाकले देवराज इन्द्रसँग जलका लागि विलाप गर्छ।
14सुन्दर पर्वतढालमा फलका लागि चारैतिर घुमेर फर्केका तेजस्वी लक्ष्मणले आफ्ना दाजुलाई देखे।
15असह्य वेदनामा एक्लै परेका र सुधबुध गुमाएका रामलाई देखेर पूजनीय लक्ष्मण दुःखी र व्यथित भए र आफ्ना दाजुसँग बोले —
16'हे पूजनीय दाजु! तपाईं विरह र आत्मविश्वासको ह्रासको वशमा किन पर्दै हुनुहुन्छ? तपाईंको मनको सहज धैर्य कहाँ गयो? तपाईं आफ्नो कर्तव्यकर्मबाट किन विमुख हुनुहुन्छ?
17'तपाईं अदम्य योद्धा हुनुहुन्छ। कर्मको मार्ग ग्रहण गर्नुहोस्। समाधियोग अथवा ध्यानको आश्रय लिएर मनको शान्ति पुनः प्राप्त गर्नुहोस्। आफ्नो प्रयत्नको बललाई आफ्नो सफलताको स्रोत बनाउनुहोस्।
18'हे मानवजातिका स्वामी! हे श्रेष्ठ वीर! जब तपाईं रक्षक हुनुहुन्छ, तब जानकीलाई कसैले सजिलै रोक्न सक्दैन, जसरी पूर्ण वेगमा पुगेको प्रज्वलित अग्निलाई कसैले रोक्न सक्दैन।'
19रामले शुभलक्षणसम्पन्न अजेय योद्धा लक्ष्मणसँग भन्नुभयो कि उनले जे भने त्यो स्वाभाविक, हितकर, बुद्धिमत्तापूर्ण र उपयोगी छ। त्यो सामवेद र राजनीतिशास्त्रअनुरूप तथा धर्म र अर्थमा सुप्रतिष्ठित छ।
20'हे प्रिय! यसमा सन्देह छैन कि मैले अगाडिको काममा विचार गर्नुपर्छ र त्यसको अनुसरणमा विशेष ध्यान दिनुपर्छ। निश्चय नै मैले यो महान् काम र त्यसको सिद्धिबारे सोच्नुपर्छ।'
21त्यसपछि कमलदलजस्ता आँखा भएकी मैथिलीको सम्झनामा डुबेर उहाँले सुकेका ओठले लक्ष्मणसँग भन्नुभयो —
22'प्रशस्त वर्षाजलले पृथ्वीलाई तृप्त पारेर र बाली पकाउने काम पूरा गरेर सहस्राक्ष इन्द्रले आफ्नो कर्तव्य निभाइसके र अब उनी विश्राममा छन्।
23'हे राजकुमार! आफ्नो पानी बर्साइसकेपछि (वर्षापछि) मेघहरू थाकेका छन्। अब तिनीहरू रूख र पर्वतमाथि गम्भीर र मीठो ध्वनि गर्दै विचरण गरिरहेका छन्।
24'जुन मेघहरू अहिलेसम्म नीलकमलका पत्रझैँ कालो भई दसै दिशा अन्धकारमय पार्दै थिए, ती अब मद उत्रेपछि शान्त भएका हात्तीझैँ छन्।
25'हे प्रिय! ओसिलो वायुले पहिलेझैँ बहन छोडिसक्यो र अब कुटज तथा अर्जुनका फूलको सुगन्ध बोकिरहेको छ।
26'हे निष्पाप लक्ष्मण! बाक्ला मेघको गर्जन, हात्तीको चिच्याहट, मयूरको केका र झरनाको ध्वनि अचानक शान्त भएका छन्।
27'चारैतिर वर्षाका झरीले धोइएर पर्वतढालहरू सफा भएका छन्। तिनीहरू रङ्गीचङ्गी आभाले चम्किरहेका छन् र यस्तो लाग्छ मानौँ पर्वतशिखरमा (खनिजका) चम्किला रङ दलिएका छन्।
28'शरद् आइसक्यो, जसले सप्तच्छद रूखका हाँगामा, तारा, सूर्य र चन्द्रमाको कान्तिमा तथा श्रेष्ठ गजराजका क्रीडामा आफ्नो शोभा प्रकट गरिरहेको छ।
29'सूर्यले स्पर्श गरेका कमलसमूहमा नानाथरी रूपमा प्रकट शरद्को शोभाबाट यस्तो लाग्छ मानौँ लक्ष्मी देदीप्यमान भई चम्किरहेकी छिन्।
30'वायुले सप्तच्छदका फूलको सुगन्ध बोकिरहेको छ। त्यो सुगन्धले आकर्षित भई भमराका बथान गुञ्जिँदै आइरहेका छन्। मदमत्त हात्तीको गर्व बढिरहेको छ।
31'हाँसहरू चक्रवाकसँग आमनेसामने भएका छन्। तिनीहरू भर्खरै आएका हुन्। पोखरीका प्रेमी तिनीहरू आफ्ना सुन्दर फराकिला पखेटामा कमलको पराग झार्दै बालुवाका किनारमा क्रीडा गर्दै बसेका छन्।
32'मदमत्त हात्तीका बीच, उन्मत्त साँढेका बथानका बीच र निर्मल जल भएका धाराका बीच लक्ष्मी आफ्नो छरिएको रूपमा शोभा पाइरहेकी छिन्।
33'आकाश मेघरहित छ। मयूरहरूले आफ्ना शोभादायक पखेटा झारेका छन्। तिनीहरूको आफ्ना प्रियामा रुचि रहेन। शोभा गुमेपछि मयूरहरू सुखविहीन भई मेघकै चिन्तनमा डुबेका छन्।
34'फूलको भारी बोझले झुकेका सुनौला, सुगन्धित प्रियक हाँगाको प्रशस्तताले मानौँ प्रकाशित वनहरू आँखालाई आनन्द दिन्छन्।
35'कमलपोखरी र वनका प्रेमी गजराजहरू आफ्ना प्रिय हात्तिनीसँग सप्तच्छदका फूलको मीठो सुगन्धको आनन्द लिन निस्केका छन् र कामले उत्तेजित भई संयोगको कामनाले विस्तारै विचरण गरिरहेका छन्।
36'कालो मेघबाट मुक्त आकाश माझिएको शस्त्रझैँ चम्किरहेको छ। नदीको पानी मन्द गतिले बगिरहेको छ। सेता कमलमाथिबाट बग्ने वायु शीतल लाग्छ। अन्धकारबाट मुक्त सबै दिशा चम्किरहेका छन्।
37अब सूर्यको तापले हिलो सुकेपछि र लामो समयपछि बाक्लो धूलो उड्न थालेपछि परस्पर वैर राख्ने राजाहरूका अभियानको उपयुक्त समय आइसक्यो।
38'अङ्गमा धूलो जमाएका साँढेहरू गाईले घेरिएर हुँकार गरिरहेका छन्। कामले उत्तेजित तिनीहरू प्रसन्न छन् र युद्धका लागि उद्यत छन्। शरद्का गुणले आशीर्वादित तिनीहरू मनोहर देखिन्छन्।
39'उत्तम कुलका, गहिरो अनुरागवती हात्तिनीहरू आफ्ना मदमत्त स्वामीको वरिपरि भेला भई वनमा विस्तारै हिँड्दै उनको पछि लाग्छन्।
40'मयूरहरूले आफ्ना शोभावस्त्र, आफ्ना पखेटा त्यागेका छन्। तिनीहरू नदीको किनारमा उदास भई उत्साहविहीन विचरण गरिरहेका छन्, मानौँ उल्लसित सारस पक्षीका बथानले तिनीहरूको खिसी गरिरहेका छन्।
41'गालाबाट मद बगाउँदै मदमत्त गजराजहरू चिच्याएर पानीमा कारण्डव र चक्रवाकलाई भयभीत पारिरहेका छन्। कमलले अलङ्कृत पोखरीको पानी मन्थन गरेर तिनीहरू त्यो पिइरहेका छन्।
42'हाँसहरू ती नदीका बालुवाका किनारमा भेला भई आनन्दमग्न छन् जहाँ गाईहरू भरिएका छन् र पानी निर्मल तथा हिलोरहित छ। नदीहरू सारस र हाँसले भरिएका छन् जो मीठो स्वरमा गाइरहेका छन्।
43'नदीको पानी, झरना र गर्जने मेघका कोलाहलपूर्ण ध्वनि अचानक रोकिएका छन्। वायुको सुखबाट वञ्चित मयूरहरूको उल्लास गयो। भ्यागुताको कराइ मौन भयो।
44'(आकाशमा) नयाँ वर्षामेघ नरहेकाले विषालु, रङ्गीचङ्गी सर्पहरू लामो बन्दी अवस्थाबाट भोकले पीडित भई दुब्ला शरीर लिएर धमिराका थुम्काबाट बाहिर निस्किरहेका छन्।
45'चन्द्रकिरणको शीतल स्पर्शले जब ताराहरू प्रकट हुन्छन्, तब यो अरुण सन्ध्या आफैँ आकाश छोड्दै छिन्।
46'रात त्यो मीठो मुख भएकी स्त्रीझैँ देखिन्छे जसको मुख उदाएको चन्द्रमाले उज्यालो भएको छ, जसका सुन्दर आँखा ताराले खोलिएका छन् र जसको शरीर सेतो जुनेलीको वस्त्रमा बेरिएको छ।
47'वायुले प्रेरित भई सुन्दर सारस पक्षीहरू धानका खेतबाट पाकेका दाना खाएर प्रसन्नतापूर्वक पङ्क्तिमा मालाझैँ महान् वेगले आकाशमा उडिरहेका छन्।
48'एउटै सुतेको हाँस र वरिपरि फुलेका कुमुदिनीसहित विशाल पोखरीको पानी पूर्णचन्द्र र छरिएका तारासमूहले युक्त मेघरहित आकाशझैँ देखिन्छ।
49'हाँसको करधनी र फुलेका कमलकुमुदका मालाले युक्त उत्तम स्त्रीझैँ लक्ष्मी गहिरा इनारले अलङ्कृत भई शोभा पाइरहेकी छिन्।
50'बिहान वायुले बढाएको बाँसको सीत्कार र गुफामा गुञ्जने साँढेको हुँकार मानौँ एकअर्काका पूरक हुन्।
51'मन्द बतासले हल्लिएका काँसका नयाँ सेता फूलले चम्किएका नदीका किनारा सेतो रेशममा बेरिएकी स्त्रीझैँ देखिन्छन्।
52'कमलपात्रका परागको धूलोले ढाड सेतो बनाएका पुतलीहरू वनमा निर्भय भई मधुपानको कौशल देखाउँदै चम्किरहेका छन्। तिनीहरू वनमा आफ्ना प्रियजनसँगै वायुको पछि लाग्छन्।
53'कुमुदिनीको नयाँ विकास, क्रौञ्च पक्षीको कलरव, पूर्ण पाकेका धानका खेत, मन्द बतास र उज्ज्वल चन्द्रमा — यी वर्षाकालको समाप्ति र शरद्को आगमनका सूचक हुन्।
54'अब नदीरूपी वधूहरू माछाको करधनी देखाउँदै बिहान रतिक्रीडाले थाकेकी विलासिनी स्त्रीको चालझैँ मन्द भएका छन्।
55'चक्रवाक र हरियो लेउले भरिएका तथा रेशमी घुम्टोझैँ काँसले ढाकिएका नदीका किनारा हरिया पातको रचना र गोरोचनको टीकाले सजिएकी वधूको मुखझैँ देखिन्छन्।
56'अब फुलेका बाण र असनका फूलले भरिएका तथा भमराका प्रसन्न गुञ्जनले गुञ्जिएका वनमा प्रियजनबाट छुट्टिएकाहरूलाई कठोर दण्डको सूचना दिँदै धनुष धारण गरेका कामदेवले आफ्नो शक्ति देखाउँदै निर्बाध विचरण गरिरहेका छन्।
57'भारी वर्षा बर्साएर, तलाउ र नदी भरेर तथा पृथ्वीमा प्रशस्त बाली उब्जाएर मेघहरू अलप भएका छन्।
58'जसरी लजालु नवबधूहरूले प्रथम समागममा विस्तारै आफ्नो कटि देखाउँछन्, त्यसरी नै शरद्मा नदीहरूले विस्तारै आफ्ना बालुवाका किनारा देखाउन थाल्छन्।
59'हे सौम्य लक्ष्मण! पोखरीको निर्मल पानी र त्यहाँ कुररी तथा चक्रवाकका बथानका मीठा स्वर मनोहर छन्।
60'पर्वतढालमा असन, सप्तपर्ण, कोविदार र बन्धुजीव रूख तथा श्यामा लहरा पूर्ण फुलेका देखिन्छन्।
61'हे लक्ष्मण! नदीका किनारमा सबैतिर छरिएका हाँस, सारस, चक्रवाक र कुरर पक्षीहरू हेर।
62'हे सुन्दर राजकुमार! विजयको प्रतीक्षा गरिरहेका राजाहरूका लागि शत्रुमाथि अभियान गर्ने समय आइसक्यो।
63'हे राजकुमार! यो राजाहरूको (वर्षको) पहिलो अभियानको समय हो। मलाई सुग्रीव त्यस दिशामा कुनै प्रयत्न गरिरहेको देखिँदैन।
64'हे सौम्य! सीतालाई नदेखी वर्षाका चार महिना बिते। मेरो शोकाकुल हृदयका लागि यो सय वर्षसमान छ।
65'जसरी चक्रवाकी आफ्नो जोडीको पछि लाग्छे, त्यसरी नै सीता यस घोर दण्डकवनमा आफ्ना पतिको पछि त्यसरी लागिन् मानौँ यो कुनै क्रीडावन हो।
66'हे लक्ष्मण! जो शोकाकुल छ, पत्नीबाट छुट्टिएको छ र राज्यबाट निर्वासित छ, उसमाथि राजा सुग्रीवले कुनै दया देखाउँदैनन्।
67'हे सौम्य! यद्यपि म शत्रुविजयी हुँ, तापनि यो दुर्बुद्धि वानरराजले मेरो अवहेलना गरिरहेको छ, किनभने म घरबाट टाढा छु, मैले राज्य गुमाएको छु, रावणले मेरो अपमान गरेको छ, म दुःखी र विरहव्याकुल छु र मैले उसको सहायता मागेको छु।
68'हे सौम्य! यद्यपि म शत्रुविजयी हुँ, तापनि यो दुर्बुद्धि वानरराजले मेरो अवहेलना गरिरहेको छ, किनभने म घरबाट टाढा छु, मैले राज्य गुमाएको छु, रावणले मेरो अपमान गरेको छ, म दुःखी र विरहव्याकुल छु र मैले उसको सहायता मागेको छु।
69'आफ्नो प्रयोजन सिद्ध गरिसकेको दुर्बुद्धि सुग्रीवले यो बुझ्दैन कि उसले मसँग प्रतिज्ञा गरेको थियो र सीताको खोजीका लागि तोकिएको समय आइपुगेको छ।
70'किष्किन्धा जाऊ र त्यो मूर्ख वानरनायक सुग्रीवसँग (मेरो तर्फबाट) भन, जो अभ्यस्त विषयभोगमा डुबेको छ —
71'जसले आफ्नो मित्रसँग उसको कामना पूरा गर्ने प्रतिज्ञा गरेर र आफैँ उपकृत भएर पनि त्यो प्रतिज्ञा निभाउँदैन, ऊ पृथ्वीमा सबैभन्दा नीच हो।
72'(यसको विपरीत) जसले आफ्नो प्रतिज्ञाको पालन गर्छ, चाहे त्यो असल होस् वा खराब, उही साँचो वीर र पुरुषहरूमा श्रेष्ठ हो।'
73'जसले सहायता पाएर र आफ्नो प्रयोजन सिद्ध गरिसकेर पनि आफ्ना मित्रलाई सहायता गर्दैनन्, त्यस्ता कृतघ्नहरूको शरीर मांसभक्षी पशुले पनि खान मन पराउँदैनन्।'
74'निश्चय नै उसले मेरो सुनजडित धनुषको त्यो रूप हेर्न चाहन्छ जुन मैले पूरै तान्छु र जुन बिजुलीको रेखाझैँ देखिन्छ।
75'सम्भवतः ऊ युद्धमा क्रुद्ध हुँदा वज्रको गर्जनझैँ मेरो धनुषको भयंकर टङ्कार एकपटक फेरि सुन्न चाहन्छ।
76'हे राजकुमार! मेरो पराक्रम राम्ररी जानेर र तिमी मेरो सहायताका लागि यहाँ छौ भन्ने जानेर पनि ऊ नहिचकिचाई विषयभोगमा डुबेको छ।
77'हे शत्रुनगरीविजयी! आफ्नो लक्ष्य सिद्ध गरिसकेको त्यो वानरराजले मेरो कामको महत्त्व बुझ्दैन।
78'वर्षाकालपछि (सीताको खोजीको) प्रतिज्ञा गरिसकेका सुग्रीवलाई यो थाहा छैन कि उसले चार महिना भोगविलासमा बिताइसक्यो।
79'चारैतिर मन्त्रिमण्डलले घेरिएर क्रीडा गर्दै र मद्यपानमा लागेको ऊ शोकले व्यथित हामीमाथि कुनै करुणा देखाउँदैन।
80'हे महावीर! हे प्रिय! सुग्रीवकहाँ जाऊ र उसलाई मेरो क्रोधको प्रचण्डताको बोध गराउँदै भन —
81'मैले मारेका वालि जुन बाटो गए, त्यो बाटो बन्द भएको छैन। हे सुग्रीव! तिमीले दिएको प्रतिज्ञामा स्थिर रहनुपर्छ। वालिको बाटो नहिँड।
82'वालिलाई मैले युद्धमा एउटै बाणले मारेको थिएँ, तर अब तिमीलाई तिम्रा प्रियजनसहित मार्नेछु, किनभने तिमी सत्यबाट विचलित भएका छौ।'
83'हे नरश्रेष्ठ! हे वीर! उसलाई भन कि जे समयमा गरिन्छ, त्यही राम्ररी गरिन्छ। हतार गर। उसलाई भन कि जे उसका लागि तथा हाम्रा लागि हितकर छ, त्यही गरोस् —
84'हे वानरराज! मसँग गरेको प्रतिज्ञा पूरा गर, त्यसलाई सनातन धर्म ठान। मेरा बाणले मारिएर तिमीले यमराजको धाममा वालिलाई देख्नेछौ।'
85मानवजातिका रक्षक रामलाई विलाप गरिरहेको देखेर भयंकर तेज भएका लक्ष्मणले सुग्रीवप्रति आफ्नो अडान कठोर बनाए र तीव्र क्रोधले भरिएर प्रस्थान गरे। यसरी महर्षि वाल्मीकिद्वारा रचित आदिकाव्य श्रीमद्रामायणको किष्किन्धाकाण्डको तीसौँ सर्ग समाप्त भयो।