अनुशासनिक पर्व — यात्रा की सिद्धि, गृह-प्रवेश और दुष्ट भूतों की शान्ति के मन्त्र
खण्ड 9 — अनुशासन से स्वर्गारोहण पर्व तक · अध्याय 150
संस्कृत
1युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद। किं जष्यं जपतो नित्यं भवेद् धर्मफलं महत्॥
2प्रस्थाने वा प्रवेशे वा प्रवृत्ते वापि कर्मणि। दैवे वा श्राद्धकाले वा किं जप्यं कर्मसाधनम्॥
3शान्तिकं पौष्टिकं रक्षा शत्रुभं भयनाशनम्। जप्यं यद् ब्रह्मसमितं तद् भवान् वक्तुमर्हति॥
4भीष्म उवाच व्यासप्रोक्तमिमं मन्त्रं शृणुष्वैकमना नृप। सावित्र्या विहितं दिव्यं सद्यः पापविमोचनम्॥
5शृणु मन्त्रविधिं कृत्स्नं प्रोच्यमानं मयाऽनघ। यं श्रुत्वा पाण्डवश्रेष्ठ सर्वपापैः प्रमुच्यते॥
6रात्रावहनि धर्मज्ञ जपन् पापैर्न लिप्यते। तत् तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप॥
7आयुष्मान् भवते चैव यं श्रुत्वा पार्थिवात्मज। पुरुषस्तु सुसिद्धार्थः प्रेत्य चेह च मोदते॥
8सेवितं सततं राजन् पुरा राजर्षिसत्तमैः। क्षत्रधर्मपरैर्नित्यं सत्यव्रतपरायणैः॥
9इदमाह्निकमव्यग्रं कुर्वद्भिर्नियतैः सदा। नृपैर्भरतशार्दूल प्राप्यते श्रीरनुत्तमा॥
10नमो वसिष्ठाय महाव्रताय पराशरं वेदनिधिं नमस्य। नमोऽस्त्वनन्ताय महोरगाय नमोऽस्तु सिद्धेभ्य इहाक्षयेभ्यः॥
11नमोऽस्त्वृषिभ्यः परमं परेषां देवेषु देवं वरदं वराणाम् सहस्रशीर्षाय नमः शिवाय सहस्रनामाय जनार्दनाय।।
12अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः। ऋतश्च पितृरूपश्च त्र्यम्बकश्च महेश्वरः॥ वृषाकपिश्च शम्भुश्च हवनोऽथेश्वरस्तथा। एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः॥
13शतमेतत् समाम्नतं शतरुद्रे महात्मनाम्। अंशो भगश्च मित्रश्च वरुणश्च जलेश्वरः॥ तथा धार्तायमा चैव जयन्तो भास्करस्तथा। त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते॥ इत्येते द्वादशादित्याः काश्यपेया इति श्रुतिः।
14धरो ध्रुवश्च सोमश्च सावित्रोऽथानिलोऽनलः॥ प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः।
15नासत्यश्चापि दत्तश्च स्मृतौ द्वावश्विनावपि॥ मार्तण्डस्यात्मजावेतौ संज्ञानासाविनिर्गतौ।
16अतः परं प्रवक्ष्यामि लोकानां कर्मसाक्षिणः॥ अपि यज्ञस्य वेत्तारो दत्तस्य सुकृतस्य च।
17अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः॥ शुभाशुभानि कर्माणि मृत्युः कालश्च सर्वशः। विश्वेदेवाः पितृगणा मूर्तिमन्तस्तपोधनाः॥ मुनयश्चैव सिद्धाश्च तपोमोक्षपरायणाः।
18शुचिस्मिताः कीर्तयतां प्रयच्छन्ति शुभं नृणाम्॥ प्रजापतिकृतानेताल्लोकान् दिव्येन तेजसा।
19वसन्ति सर्वलोकेषु प्रयताः सर्वकर्मसु॥ प्राणानामीश्वरानेतान् कीर्तयन् प्रयतो नरः।
20धर्मार्थकामैर्विपुलैयुज्यते सह नित्यशः॥ लोकांश्च लभते पुण्यान् विश्वेश्वरकृताञ्छुभान्।
21एते देवास्त्रयस्त्रिंशत् सर्वभूतगणेश्वराः॥ नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः। ईश्वराः सर्वलोकानां गणेश्वरविनायकाः॥ सौम्या रौद्रा गणाश्चैव योगभूतगणास्तथ ज्योतींषि सरितो व्योम सुपर्णः पतगेश्वरः।। :॥ पृथिव्यां तपसा सिद्धाः स्थावराश्च चराश्च ह। हिमवान् गिरयः सर्वे चत्वारश्च महार्णवाः॥ भवस्यानुचराश्चैव हरतुल्यपराक्रमाः। विष्णुर्देवोऽथ जिष्णुश्च स्कन्दश्चाम्बिकया सह॥ कीर्तयन् प्रयतः सर्वान् सर्वपापैः प्रमुच्यते।
22अत ऊर्ध्वं प्रवक्ष्यामि मानवानृषिसत्तवान्॥ यवक्रीतश्च रैभ्यश्च अर्वावसुपरावसू। औशिजश्चैव कक्षीवान् बलश्चाङ्गिरसः सुतः॥ ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा।
23ब्रह्मतेजोमयाः सर्वे कीर्तिता लोकभावनाः॥ लभन्ते हि शुभं सर्वे रुद्रानलवसुप्रभाः।
24भुवि कृत्वा शुभं कर्म मोदन्ते दिवि दैवतैः॥ महेन्द्रगुरवः सप्त प्राची वै दिशमाश्रिताः।
25प्रयत: कीर्तयेदेताशक्रलोके महीयते॥
26उन्मुचुःप्रमुचुश्चैव स्वस्त्यात्रेयश्च वीर्यवान्। दृढव्यश्चोर्ध्वबाहुश्च तृणसोमाङ्गिरास्तथा॥ मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्। धर्मराजविजः सप्त दक्षिणां दिशमाश्रिताः॥
27दृढेयुश्च ऋतेयुश्च परिव्याधश्च कीर्तिमान्। एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः॥ अत्रेः पुत्रश्च धर्मात्मा ऋषिः सारस्वतस्तथा। वरुणस्यविजः सप्त पश्चिमां दिशमाश्रिताः॥
28अत्रिर्वसिष्ठो भगवान् कश्यपश्च महानृषिः। गौतमश्च भरद्वाजो विश्वामित्रोऽथ कौशिकः॥ ऋचीकतनयश्चोयो जमदग्निः प्रतापवान्। धनेश्वरस्य गुरवः सप्तैते उत्तराश्रिताः॥
29अपरे मुनयः सप्त दिक्षु सर्वास्वधिष्ठिताः। कीर्तिस्तस्तिकरा नृणां कीर्तिता लोकभावनाः॥
30धर्मः कामश्च कालश्च वसुर्वासुकिरेव च। अनन्तः कपिलश्चैव सप्तैते धरणीधराः॥
31रामो व्यासस्तथा द्रौणिरश्वत्थामा च लोमशः। इत्येते मुनयो दिव्या एकैकः सप्त सप्तधा॥
32शान्तिस्वस्तिकरा लोके दिशांपालाः प्रकीर्तिताः। यस्यां यस्यां दिशि ह्येते तन्मुखः शरणं व्रजेत्॥
33स्रष्टारः सर्वभूतानां कीर्तिता लोकपावनाः। संवर्तो मेरुसावर्णो मार्कण्डेयश्च धार्मिकः॥ सांख्यपोगौ नारदश्च दुर्वासाश्च महानृषिः। अत्यन्ततपसो दान्तास्त्रिषु लोकेषु विश्रुताः॥
34अपरे रुद्रसंकाशाः कीर्तिता ब्रह्मलौकिकाः। अपुत्रो लभते पुत्रं दरिद्रो लभते धनम्॥
35तथा धर्मार्थकामेषु सिद्धिं च लभते नरः। पृथु वैन्यं नृपवरं पृथ्वी यस्याभवत् सुता॥ प्रजापति सार्वभौमं कीर्तयेद् वसुधाधिपम्। आदित्यवंशप्रभवं महेन्द्रसमविक्रमम्॥
36पुरूरवसमैलं च त्रिषु लोकेषु विश्रुतम्। बुधस्य दयितं पुत्रं कीर्तयेद् वसुधाधिपम्॥
37त्रिलोकविश्रुतं वीरं भरतं च प्रकीर्तयेत्। गवामयेन यज्ञेन येनेष्टं वै कृते युगे॥ रन्तिदेवं महादेवं कीर्तयेत् परमद्युतिम्। विश्वजित्तपसोपेतं लक्षण्यं लोकपूजितम्॥
38तथा श्वेतं च राजर्षि कीर्तयेत् परमद्युतिम्। सगरस्यात्मजा येन प्लावितास्तारितास्तथा॥
39हुताशन समानेतान् महारूपान् महौजसः। उग्रकायान् महासत्त्वान् कीर्तयेत् कीर्तिवर्धनान्॥
40देवानृषिगणांश्चैव नृपांश्च जगतीश्वरान्। सांख्यं योगं च परमं हव्यं कव्यं तथैव च॥ कीर्तितं परमं ब्रह्म सर्वश्रुतिपरायणम्। मङ्गल्यं सर्वभूतानां पवित्रं बहुकीर्तितम्॥ व्याधिप्रशमनं श्रेष्ठं पौष्टिकं सर्वकर्मणाम्।
41प्रयत: कीर्तयेच्चैतान् कल्यं सायं च भारत॥ एते वै पान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च।
42एते विनायकाः श्रेष्ठा दक्षाः शान्ता जितेन्द्रियाः॥५७ नराणामशुभं सर्वे व्यपोहन्ति प्रकीर्तिताः।
43साक्षिभूता महात्मानः पापस्य सुकृतस्य च॥ एतान् वै कल्यमुत्थाय कीर्तयशुभमश्नुते।
44नाग्निचौरभयं तस्य न मार्गप्रतिरोधनम्॥ एतान् कीर्तयतां नित्यं दुःस्वप्नो नश्यते नृणाम्।
45मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान् व्रजेत्॥ दीक्षाकालेषु सर्वेषु यः पठेन्नियतो द्विजः। न्यायवानात्मनिरतः क्षान्तो दान्तोऽनसूयकः॥ रोगार्तो व्याधियुक्तो वा पठन् पापात् प्रमुच्यते। वास्तुमध्ये तु पठतः कुले स्वस्त्ययनं भवेत्॥ क्षेत्रमध्ये तु पठतः सर्वे सस्यं प्ररोहति। गच्छतः क्षेममध्वानं ग्रामान्तरगतः पठन्॥
46आत्मनश्च सुतानां च दाराणां च धनस्य च। बीजानामोषधीनां च रक्षामेतां प्रयोजयेत्॥
47एतान् संग्रामकाले तु पठतः क्षत्रियस्य तु। व्रजन्ति रिपवो नाशं क्षेमं च परिवर्तते॥ एतान् दैवे च पित्र्ये च पठतः पुरुषस्य हि। भुञ्जते पितरः काव्यं हव्यं च त्रिदिवौकसः॥ न व्याधिश्वापदभयं न द्विपात्र हि तस्करात्।
48कश्मलं लघुतां याति पाप्मना च प्रमुच्यते॥ यानपात्रे च याने च प्रवासे गजवेश्मनि।
49परां सिद्धिमवाप्नोति सावित्री ह्युत्तमां पठन्॥ न च राजभयं तेषां न पिशाचान्न राक्षसात्।
50नाग्नयम्बुपवनव्यालाद् भयं तस्योपजायते॥
51चतुर्णामपि वर्णानामाश्रमस्य विशेषतः।। कराति सततं शान्ति सावित्रीमुत्तमां पठन्॥
52नाग्निर्दहति काष्ठानि सावित्री यत्र पठ्यते। न तत्र बालो म्रियते न च तिष्ठन्ति पन्नगा:॥
53न तेषां विद्यते दुःख गच्छन्ति परमां गतिम्। ये शृण्वन्ति महद् ब्रह्म सावित्रीगुणकीर्तनम्॥ गवां मध्ये तु पठतो गावोऽस्य बहुवत्सलाः। प्रस्थाने वा प्रवासे वा सर्वावस्थां गतः पठेत्॥
54जपतां जुह्वतां चैव नित्यं च प्रयतात्मनाम्। ऋषीणां परमं जत्यं गुह्यमेतन्नराधिप।।७ याथातथ्येन सिद्धस्य इतिहासं पुरातनम्। पराशरमतं दिव्यं शक्राय कथितं पुरा॥
55तदेतत् ते समाख्यातं तथ्यं ब्रह्म सनातनम्। हृदयं सर्वभूतानां श्रुतिरेषा सनातनी॥ अभ्यासे नित्यं देवाना सप्तर्षीणां ध्रवस्य च। मोक्षणं सर्वकृच्छ्राणां मोचयत्यशुभात् सदा॥
56वृद्धैः काश्यपगौतमप्रभृतिभिर्भूग्वङ्गिरोऽत्र्यादिभिः। शुक्रागस्त्यबृहस्पतिप्रभृतिभिर्ब्रह्मर्षिभिः सेवितम्। भारद्वाजमतमृचीकतनयैः प्राप्तं वसिष्ठात् पुनः। सावित्रीमधिगम्य शक्रवसुभिः कृत्स्ना जिता दानवः।।
57यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय। दिव्यां च भारतकथां कथयेच नित्यं तुल्यं फलं भवति तस्य च तस्य चैव॥
58धर्मो विवर्धति भृगोः परिकीर्तनेन वीर्यं विवर्धति वसिष्ठनमोनतेन। संग्रामजिद् भवति चैव रघु नमस्यन्। स्यादश्विनौ च परिकीर्तयतो न रोगः।।
59एषा ते कथिता राजन् सावित्री ब्रह्म शाश्वती। विवक्षुरसि यच्चान्यत् तत् वे वक्ष्यामि भारत॥
अंग्रेज़ी
1Yuthishthira said O grandfather, O you of great wisdom, O you who know all branches of knowledge, what is that subject of silent recitation by recititing which every day one may win the merit of virtue in a large measure?
2What is that Mantra for recitation, which gives, success, if recited on the occasion of starting on a journey or in entering a new building, or at the beginning of any undertaking, or on the occasion of sacrifices in honour of the deities or of the manes?
3You should tell me what, indeed, what Mantra it is, which propitiates all malevolent influences, or brings on prosperity or growth or protection from evil, or the destruction of enemies, or the dispelling of fears, and which, at the same time, is consistent with the Vedas.
4Bhishma said Hear, O king, with rapt attention, what that Mantra is which was declared by Vyasa. It was ordained by Savitri and is highly excellent. It is capable of purifying a person forthwith of all his sins.
5Hear, O sinless one, as I recite to you the ordinances about that Mantra. Indeed, O chief of the sons of Pandu, by listening to those ordinances, one becomes purged of all his sins.
6One who recites this Mantra day and night becomes never sullied by sin. I shall now declare it to you what that Mantra is. Do you listen with rapt attention.
7Indeed, the man who hears it becomes gifted with longevity, O prince, and attaining to the fruition of all his desires, sports happily both in this life and in the next.
8This Mantra, O king, was daily recited by the foremost of royal sages performing Kshatriya duties and steadily observing the vow of truth.
9Indeed, o foremost of kings, those monarchs who, with controlled senses and tranquil soul, recite this Mantra every day, succeed in winning unrivalled prosperity.
10Salutations to Vasishtha of high vows, after having bowed with respect to Parashara, that Ocean of the Vedas. Salutation to the great snake Ananta, and salutations to all those who are crowned with success, and who are of undecaying glory.
11Salutations to the Rishis, and to Him who is the Highest of the High, the god of gods, and the giver of boons to all those that are foremost. Salutations unto Him of a thousand heads. Him that is most auspicious. Him who has a thousand names. viz., Janardana.
12Aja, Ekapada, Ahivradhna, the unvanquished Pinakin, Rita, Pitrirupa, the threeeyed Maheshvara, Vrishakapi, Shambhu, Havana, and Ishvara, these are the celebrated eleven Rudras, who are the lords of all the worlds.
13These eleven highsouled ones have been mentioned as a hundred in the Shatarudra (of the Vedas). Angsha, Bhaga, Mitra, Varuna the lord of waters, Dhatri, Aryaman, Jayanta, Bhaskara, Tvashtri, Pushan, Indra, and Vishnu, are said to comprise a tale of twelve. These twelve are called Adityas and they are the sons of Kashyapa as the Shruti declares.
14Dhara, Dhruva, Soma, Savittra, Anila, Anala, Pratyusha, and Prabyhava, are the eight Vasus, named in the scriptures.
15Nasatya and Dasra are said to be the two Ashvins. They are the sons of Martanda born of his wife Samjna, from whose nostrils they emanated.
16After this I shall recite the names of those who are the witnesses of all deeds in the worlds. They take note of all sacrifices, of all gifts, of all good deeds.
17Those lords among the deities see everything although they are invisible. Indeed, they see all the good and bad deeds of all beings. They are Mrityu, Kala, the Vishvedevas, the Pitris having forms, the great Rishis having penances for wealth, the Munis, and others crowned with success and devoted to penances and Liberation.
18These of sweet smiles, confer various benefits upon those men who recite their names. Indeed, gifted as they are with celestial energy, they confer various regions of happiness created by the Grandfather upon such men.
19They live in all the worlds and attentively mark all deeds. By reciting the names of those lords of all living creatures, one always becomes gifted with righteousness and wealth and cnjoyments in profusion.
20One acquires hereafter diverse regions of auspiciousness and happiness created by the Lord of the universe.
21These thirty three deities, who are the lords of all beings, as also Nandishvara of huge body, and that preeminent one who has the bull for the emblem on his banner, and those masters of all the worlds, viz., the followers and associates of him called Ganeshvara, and those called Saunyas, and those called the Raudras, and those called the Yogas, and those who are known as the Bhutas, and the luminaries in the firmament, the Rivers, the sky, the king of birds (viz., Garuda), all those persons on Earth who have become crowned with success on account of their who are existing in an immobile or mobile form, Himavat, all the mountains the four Oceans, the followers and companions of Bhava who are gifted with prowess equal to that of Bhava hiinself, the illustrious and evervictorious Vishnu and and Skanda, and Ambika, these are the great souls by reciting whose names with controlled senses, one becomes purged of all his sins. penances, and
22After this, I shall recite the names of those foremost Rishis who are known as Manavas. They are Yavakrita, and Raibhya and Arvavasu, and Paravasu, and Aushija, and Kakshivat, and Vala the son of Angirasa. Then is Kanwa the son of the Rishi Medhatithi, and Varishada.
23All these are gifted with the energy of Brahman and have been spoken of as creators of the universe. They have originated from Rudra and Anala and the Vasusa By reciting their namnes people get great benefits.
24Indeed, by doing good deeds on Earth, people sport happily in the celestial region, with the celestials. These Rishis are the priests of Indra. They live in the East.
25That man who, with rapt attention, recites the names of these Rishis succeeds in ascending to the regions of Indra and getting great honours there.
26Unmuchu, Pramuchu, Svastwyatreya of great energy, Dridhavya, Urdhavahu, Trinasoma Angirasa, and Agastya of great energy, the son of Mitravaruna, these seven are the Ritvijas of the Yama the king of the dead, and live in the southern quarter
27Dridheyu, Riteyu, illustrious Parivyadha, Ekata, Dvita, and Trita, the last three gifted with solar effulgence, and Atri's son of righteous soul, viz., the Rishi Sarasvata, these seven who had acted as Ritvijas in the great sacrifice of Varuna, have taken up their abodes in the Western quarter.
28Atri, the illustrious Vasishtha, the great Rishi Kashyapa, Gautama, Bharadvaja, Vishvamitra the son of Kushika, and Richika's fierce and energetic son Jamadagni, these seven are the Ritvijas of the Lord of treasures and live in the Northern quarter.
29There are seven other Rishis who live in all directions without being confined to any particular one. They, it is, who give fame and of all that is beneficial to men, and they have been sung as the creators of the worlds.
30Dharma, Kama, Kala, Vasu, Vasuki, Ananta, and Kapila, these seven are the upholders of the world.
31Rama, Vyasa, Drona's son Ashvatthama, are the other Rishis. These are the great Rishis as divided into seven groups, cach group consisting of seven.
32They are the creators of that peace and good which men enjoy. They are said to be the Regents of the quarters. One should turn his face to that direction in which one of these Rishis live if one desires to adore him.
33Those Rishis are the creators of all creatures and have been considered as the purifiers of all. Samvarta, Merusavarna, the righteous Markandeya, and Sankhya and Yoga, and Narada and the great Rishi Durvasas, these are gifted with severe penances and great selfcontrol, and arc celebrated over the three worids.
34There are others who are equal to Rudra himself. They live in the region of Brahman. By naming them with respect a sonless man obtains a son, and a poor man acquires riches.
35Indeed, by naming them, one acquires success in religion, and wealth and pleasure. One should also take the name of that celebrated king who was Emperor of all the Earth and equal to a Prajapati, viz., that foremost of monarchs, Prithu, the son of Vena. The Earth became his daughter. One should also name Pururavas, of the Solar race and equal unto Mahendra himself in power.
36He was the son of Ila and celebrated over the three worlds. One should, indeed, take the name of that dear son of Budha.
37One should also take the name of Bharata, that hero celebrated over the three worlds. He also who in the golden age worshipped the gods in a grand Gomedha sacrifice, viz., the illustrious Rantideva, who was equal to Mahadeva himself, should be named. Gifted with penances, possessed of every auspicious mark, the source of every kind of good to the world, he was the conqueror of the universe.
38One should also take the name of the royal sage Shveta of illustrious fame. (He had pleased the great Mahadeva and it was for his sake that Andhaka was killed.) One should also take the name of the illustrious royal sage Bhagiratha, who through the favour of Mahadeva, succeeded in bringing down the sacred river from the celestial region.
39It was Bhagiratha who caused the ashes of the sixty thousand sons of Sagara to be washed with the sacred waters of Ganga and thereby rescued them from their sin. Indeed, one should take the names of all these who were gifted with the blazing effulgence of fire, great beauty, and high energy.
40Some of them were of aweinspiring forms and great power. One should take the names of these deities and Rishis and kings, those lords of the universe, who are multipliers of fame. Sankhya, and Yoga which is highest of the high, and Havya and Kavya and that refuge of all the Shrutis, viz., Supreme Brahınan, have been declared to be the sources of great good to are all creatures. These sacred and sinpurifying, and have been spoken of very highly. These are the foremost of medicines for curing all diseases, and are the givers of success in all deeds.
41Controlling one's senses, one should. O Bharata, take the names of these, morning and evening. It is these who protect. It is these who shower rain. It is these who shine and give light and heat. It is these who blow. It is these who create all things.
42These are considered as the foremost of all, as the leaders of the universe, as highly clever in the performance of all things, as gifted with forgiveness, as complete masters of the senses. Indeed, it has been said that they remove all the evils to which human beings are subject.
43These great ones are the witness of all good and bad deeds. Rising up in the morning one should take their names, for by this one is sure to acquire all that is good.
44He who takes the names of these, becomes freed from the fear of fires and of thieves, Such a man never finds his way obstructed by any obstacle. By taking the names of these great ones, one becomes free from bad dreams of every kind.
45Purged of every sin, such men take birth in auspicious families. That twiceborn person who, with controlled serises, recites these names on ccasions of performing the initiatory rites of sacrifices and other religious practices, becomes as the outcome thereof, gifted with righteousness, devoted to the study of the soul, possessed of forgiveness, and selfcontrol, and free from malice. If a man suffering from disease recites them, he becomes freed from his sin in the form of disease.
46By reciting them within a house, all evils are removed from the inmates. By reciting them within a field, the growth of all kinds of crops is helped
47Reciting them at the time of starting on a journey, or while one is away from his home, one meets with good fortune. These names lead to the protection of his ownself, of his children and wives, of his wealth, and of his seeds, and plants. The Kshatriya who recites these names at the time of joining a battle sees destruction overtake his enemies and good fortune crown him and his party. The man who recites these names on occasions of performing the rites in honour of the deities or the manes, helps the mancs and the deities eat to the sacrificial Havya and Kavya. The man who recites them becomes freed from fear of disease and beasts of prey, of elephants and thieves.
48His burden of anxiety becomes lightened, and he becomes freed from every sin. By reciting these excellent Savitri Mantras on board a vessel, or in a car, or in the courts of kings, one acquires high success. There where these Mantras are recited, fire does not burn wood.
49There children do not die, nor snakes live. Indeed, at such places, there can be no fear of the king, nor Pishachas and Rakshasas.
50Indeed, the man who recites these Mantras ceases to have any fear of fire or water or wind, or beasts of prey.
51These Savitri Mantras, recited duly bring on the peace and wellbeing of all the four castes. Those men who recite them with respect becomc frced from every sorrow and at last acquire a high end.
52Even those are the results acquired by them who recite these Savitri Mantras which are of the form of Brahman. That man who recites these Mantras in the midst of kinc, sees his kine become fruitful.
53Whether when starting on a journcy, or entering a house on returning, one should recite these Mantras on every occasion. These Mantras forin a great mystery of the Rishis and are the very highest of those which they silently recite. Such are these Mantras to them who practice the duty of recitation and pour libations on the sacrificial fire.
54This that I have said to you, is the excellent opinion of Parashara. It was recited formerly to Shakra himself. Representing, as it does, Truth or Eternal Brahma, I have declared it fully to you.
55It forms the hart of all creatures, and is the highest Shruti. All the princes of the solar and lunar families, viz.., the Raghavas and the Kauravas, recite these Mantras every day after having purified themselves. These form the highest end of human creatures. One becomes freed from every trouble and calamity by daily reciting the names of the celestials, of the seven Rishis, and of Dhruva. Indeed, such recitation speedily frees one from distress.
56The sages of olden times, viz., Kashyapa. Gautama, and others, and Bhrigu, Angirasa and Atri and others, and Shukra, Agastya, and Brihaspati, and others, all of whom are regenerate Rishis, have worshipped these Mantras. Approved of by the son of Bharadvaja, these Mantras were attained by the sons of Richika. Having acquired them again from Vasishtha, Shakra and the Vasus went forth to battle and succeeded in vanquishing the Danavas.
57That man who makes a present of a hundred kine with their horns covered with plate of gold to a Brahmana gifted with much learning and wellconversant with the Vedas, and he who causes the excellent Bharata story to be recited in his house every day, are said to acquire equal merits.
58By reciting the name of Bhrigu, one's virtue becomes enhances. By bowing to Vasishtha, one's energy becomes enhanced. By bowing to Raghu, one becomes victorious in battle. By reciting the praises of the Ashvins, one becomes freed from diseases.
59In have thus, O king, told you of the Savitri Mantras which are at one with eternal Brahma. If you wish to question mc on any other subject, you may do so. I shall, O Bharata, answer you.
हिन्दी
1युधिष्ठिर ने कहा — हे पितामह, हे महाप्रज्ञ, हे समस्त विद्याओं के ज्ञाता, वह जप का विषय कौन-सा है जिसका प्रतिदिन पाठ करने से मनुष्य विपुल मात्रा में धर्म का पुण्य प्राप्त कर सके?
2वह कौन-सा जप्य मन्त्र है जो यात्रा पर निकलते समय, अथवा नए भवन में प्रवेश करते समय, अथवा किसी कार्य के आरम्भ में, अथवा देवताओं या पितरों के निमित्त यज्ञ के अवसर पर पढ़े जाने पर सफलता देता है?
3आप मुझे बताइए कि वह कौन-सा मन्त्र है, जो समस्त अनिष्ट प्रभावों को शान्त करता है, अथवा समृद्धि, वृद्धि, अनिष्ट से रक्षा, शत्रुओं का नाश अथवा भयों का निवारण करता है, और जो साथ ही वेदों के अनुकूल भी है।
4भीष्म ने कहा — हे राजन्, एकाग्रचित्त होकर सुनो कि व्यास द्वारा घोषित वह मन्त्र कौन-सा है। वह सवितृ द्वारा विहित है और परम उत्कृष्ट है। वह मनुष्य को उसके समस्त पापों से तत्काल शुद्ध करने में समर्थ है।
5हे निष्पाप, सुनो, मैं तुम्हें उस मन्त्र के विधान सुनाता हूँ। वस्तुतः, हे पाण्डुपुत्रों में श्रेष्ठ, उन विधानों को सुनने मात्र से मनुष्य अपने समस्त पापों से मुक्त हो जाता है।
6जो इस मन्त्र का दिन-रात पाठ करता है, वह कभी पाप से कलुषित नहीं होता। अब मैं तुम्हें बताऊँगा कि वह मन्त्र कौन-सा है। तुम एकाग्रचित्त होकर सुनो।
7वस्तुतः, हे राजकुमार, जो मनुष्य इसे सुनता है वह दीर्घायु से सम्पन्न हो जाता है, और अपनी समस्त कामनाओं की पूर्ति प्राप्त करके इस लोक और परलोक दोनों में सुखपूर्वक विहार करता है।
8हे राजन्, इस मन्त्र का पाठ उन श्रेष्ठ राजर्षियों द्वारा प्रतिदिन किया जाता था जो क्षत्रियधर्म का पालन करते थे और दृढ़तापूर्वक सत्य का व्रत धारण करते थे।
9वस्तुतः, हे राजाओं में श्रेष्ठ, वे नरेश जो संयत इन्द्रियों और शान्त चित्त से इस मन्त्र का प्रतिदिन पाठ करते हैं, अनुपम समृद्धि प्राप्त करने में सफल होते हैं।
10वेदों के सागर पराशर को आदरपूर्वक प्रणाम करके, उच्च व्रतधारी वसिष्ठ को नमस्कार। महान् सर्प अनन्त को नमस्कार, और उन सबको नमस्कार जो सिद्धि से मण्डित हैं और जिनकी कीर्ति अक्षय है।
11ऋषियों को नमस्कार, और उन्हें नमस्कार जो उच्च से भी उच्चतम हैं, देवताओं के देव हैं, और श्रेष्ठ जनों को वर देने वाले हैं। उन सहस्रशीर्ष को नमस्कार, उन परम मंगलमय को नमस्कार, उन सहस्रनाम वाले जनार्दन को नमस्कार।
12अज, एकपाद, अहिर्बुध्न्य, अपराजित पिनाकी, ऋत, पितृरूप, त्रिनेत्र महेश्वर, वृषाकपि, शम्भु, हवन और ईश्वर — ये प्रसिद्ध ग्यारह रुद्र हैं, जो समस्त लोकों के स्वामी हैं।
13(वेदों के) शतरुद्रीय में इन ग्यारह महात्माओं का उल्लेख सौ के रूप में हुआ है। अंश, भग, मित्र, जलों के स्वामी वरुण, धातृ, अर्यमा, जयन्त, भास्कर, त्वष्टृ, पूषा, इन्द्र और विष्णु — ये बारह की गणना बनाते हैं। ये बारह आदित्य कहलाते हैं और, जैसा श्रुति कहती है, ये कश्यप के पुत्र हैं।
14धर, ध्रुव, सोम, सवित्र, अनिल, अनल, प्रत्यूष और प्रभव — ये आठ वसु हैं, जिनके नाम शास्त्रों में आए हैं।
15नासत्य और दस्र — ये दोनों अश्विनीकुमार कहे जाते हैं। ये मार्तण्ड के पुत्र हैं, जो उनकी पत्नी संज्ञा से उत्पन्न हुए, जिनकी नासिका से ये प्रकट हुए थे।
16इसके पश्चात् मैं उनके नाम कहूँगा जो लोकों में समस्त कर्मों के साक्षी हैं। वे समस्त यज्ञों, समस्त दानों और समस्त सत्कर्मों पर ध्यान रखते हैं।
17देवताओं में वे स्वामी अदृश्य होते हुए भी सब कुछ देखते हैं। वस्तुतः वे समस्त प्राणियों के भले-बुरे सब कर्म देखते हैं। वे हैं — मृत्यु, काल, विश्वेदेव, मूर्तिमान् पितर, तपरूपी धन वाले महर्षि, मुनिगण, तथा अन्य वे जो सिद्धि से मण्डित हैं और तप एवं मोक्ष में निरत हैं।
18मधुर मुस्कान वाले ये देव उन मनुष्यों को विविध वरदान देते हैं जो इनके नाम का पाठ करते हैं। वस्तुतः दिव्य तेज से सम्पन्न ये, ऐसे मनुष्यों को पितामह द्वारा रचे गए सुख के विविध लोक प्रदान करते हैं।
19वे समस्त लोकों में निवास करते हैं और सावधानी से समस्त कर्मों पर दृष्टि रखते हैं। समस्त प्राणियों के उन स्वामियों के नामों का पाठ करने से मनुष्य सदा धर्म, धन और प्रचुर भोगों से सम्पन्न होता है।
20वह आगे चलकर विश्वेश्वर द्वारा रचे गए मंगल और सुख के विविध लोक प्राप्त करता है।
21समस्त प्राणियों के स्वामी ये तैंतीस देवता, तथा विशालकाय नन्दीश्वर, और वे श्रेष्ठ देव जिनकी ध्वजा पर वृषभ का चिह्न है, और समस्त लोकों के वे स्वामी — अर्थात् गणेश्वर नामक उन देव के अनुचर और सहचर, तथा सौम्य कहलाने वाले, और रौद्र कहलाने वाले, और योग कहलाने वाले, और भूत नाम से ज्ञात गण, तथा आकाश की ज्योतियाँ, नदियाँ, आकाश, पक्षिराज (अर्थात् गरुड़), पृथ्वी पर वे समस्त पुरुष जो अपने तप के कारण सिद्धि से मण्डित हो चुके हैं, तथा वे जो स्थावर अथवा जंगम रूप में विद्यमान हैं, हिमवान्, समस्त पर्वत, चारों समुद्र, भव के वे अनुचर और सहचर जो स्वयं भव के समान पराक्रम से सम्पन्न हैं, यशस्वी और सदा विजयी विष्णु, स्कन्द और अम्बिका — ये वे महात्मा हैं जिनके नामों का संयत इन्द्रियों से पाठ करने पर मनुष्य अपने समस्त पापों से मुक्त हो जाता है।
22इसके पश्चात् मैं उन श्रेष्ठ ऋषियों के नाम कहूँगा जो मानव कहलाते हैं। वे हैं — यवक्रीत, रैभ्य, अर्वावसु, परावसु, औशिज, कक्षीवान्, और अंगिरा का पुत्र वल। फिर हैं ऋषि मेधातिथि के पुत्र कण्व, और वरिषद।
23ये सब ब्रह्मतेज से सम्पन्न हैं और विश्व के स्रष्टा कहे गए हैं। इनकी उत्पत्ति रुद्र, अनल और वसुओं से हुई है। इनके नामों का पाठ करने से लोगों को महान् लाभ होता है।
24वस्तुतः पृथ्वी पर सत्कर्म करके लोग देवताओं के साथ स्वर्गलोक में सुखपूर्वक विहार करते हैं। ये ऋषि इन्द्र के पुरोहित हैं। वे पूर्व दिशा में निवास करते हैं।
25जो मनुष्य एकाग्रचित्त होकर इन ऋषियों के नामों का पाठ करता है, वह इन्द्र के लोकों में जाने और वहाँ महान् सम्मान पाने में सफल होता है।
26उन्मुचु, प्रमुचु, महातेजस्वी स्वस्त्यात्रेय, दृढव्य, ऊर्ध्वबाहु, त्रिणसोम आंगिरस, और मित्रावरुण के पुत्र महातेजस्वी अगस्त्य — ये सात मृतकों के राजा यम के ऋत्विज् हैं, और दक्षिण दिशा में निवास करते हैं।
27दृढेयु, ऋतेयु, यशस्वी परिव्याध, एकत, द्वित और त्रित — ये अन्तिम तीन सूर्य के समान तेज से युक्त — तथा अत्रि के धर्मात्मा पुत्र, अर्थात् ऋषि सारस्वत — ये सात, जिन्होंने वरुण के महायज्ञ में ऋत्विज् का कार्य किया था, पश्चिम दिशा में अपना निवास बनाए हुए हैं।
28अत्रि, यशस्वी वसिष्ठ, महर्षि कश्यप, गौतम, भरद्वाज, कुशिक के पुत्र विश्वामित्र, और ऋचीक के उग्र तथा तेजस्वी पुत्र जमदग्नि — ये सात कुबेर के ऋत्विज् हैं और उत्तर दिशा में निवास करते हैं।
29सात अन्य ऋषि हैं जो किसी एक दिशा में सीमित न रहकर समस्त दिशाओं में निवास करते हैं। वे ही मनुष्यों को कीर्ति और समस्त कल्याणकारी वस्तुएँ प्रदान करते हैं, और वे लोकों के स्रष्टा के रूप में गाए गए हैं।
30धर्म, काम, काल, वसु, वासुकि, अनन्त और कपिल — ये सात जगत् के धारक हैं।
31राम, व्यास, द्रोणपुत्र अश्वत्थामा — ये अन्य ऋषि हैं। ये महर्षिगण सात-सात के सात वर्गों में विभाजित हैं।
32वे उस शान्ति और कल्याण के स्रष्टा हैं जिसका मनुष्य उपभोग करते हैं। वे दिशाओं के अधिपति कहे जाते हैं। जो इनमें से किसी की आराधना करना चाहे, उसे उस दिशा की ओर मुख करना चाहिए जिसमें वह ऋषि निवास करता है।
33वे ऋषि समस्त प्राणियों के स्रष्टा हैं और सबके पवित्रकर्ता माने गए हैं। संवर्त, मेरुसावर्ण, धर्मात्मा मार्कण्डेय, सांख्य और योग, नारद तथा महर्षि दुर्वासा — ये कठोर तप और महान् आत्मसंयम से सम्पन्न हैं, और तीनों लोकों में विख्यात हैं।
34कुछ अन्य हैं जो स्वयं रुद्र के समान हैं। वे ब्रह्मलोक में निवास करते हैं। इनका आदरपूर्वक नाम लेने से पुत्रहीन मनुष्य पुत्र पाता है, और निर्धन मनुष्य धन प्राप्त करता है।
35वस्तुतः इनका नाम लेने से मनुष्य धर्म, अर्थ और काम में सफलता प्राप्त करता है। उस विख्यात राजा का भी नाम लेना चाहिए जो समस्त पृथ्वी का सम्राट् और प्रजापति के समान था — अर्थात् नरेशों में श्रेष्ठ वेन के पुत्र पृथु का। पृथ्वी उसकी पुत्री हो गई थी। सूर्यवंशी और शक्ति में स्वयं महेन्द्र के समान पुरूरवा का भी नाम लेना चाहिए।
36वह इला का पुत्र था और तीनों लोकों में विख्यात था। वस्तुतः बुध के उस प्रिय पुत्र का नाम अवश्य लेना चाहिए।
37तीनों लोकों में विख्यात उस वीर भरत का भी नाम लेना चाहिए। वे भी, जिन्होंने सत्ययुग में एक विशाल गोमेध यज्ञ में देवताओं की पूजा की — अर्थात् यशस्वी रन्तिदेव, जो स्वयं महादेव के समान थे — नाम लेने योग्य हैं। तप से सम्पन्न, समस्त शुभ लक्षणों से युक्त, संसार के लिए हर प्रकार के कल्याण के स्रोत, वे विश्व के विजेता थे।
38परम यशस्वी राजर्षि श्वेत का भी नाम लेना चाहिए। (उन्होंने महादेव को प्रसन्न किया था और उन्हीं के लिए अन्धक का वध हुआ था।) उन यशस्वी राजर्षि भगीरथ का भी नाम लेना चाहिए, जो महादेव की कृपा से पवित्र नदी को स्वर्गलोक से पृथ्वी पर उतार लाने में सफल हुए।
39भगीरथ ही थे जिन्होंने सगर के साठ सहस्र पुत्रों की भस्म को गंगा के पवित्र जल से धुलवाया और इस प्रकार उन्हें उनके पाप से उबारा। वस्तुतः इन सबका नाम लेना चाहिए, जो अग्नि के प्रज्वलित तेज, महान् सौन्दर्य और उच्च तेज से सम्पन्न थे।
40उनमें से कुछ भयोत्पादक रूप और महान् शक्ति वाले थे। इन देवताओं, ऋषियों और राजाओं का — विश्व के उन स्वामियों का, जो कीर्ति के वर्धक हैं — नाम लेना चाहिए। सांख्य, और उच्च से भी उच्चतम योग, और हव्य तथा कव्य, और समस्त श्रुतियों का वह आश्रय, अर्थात् परब्रह्म — ये समस्त प्राणियों के लिए महान् कल्याण के स्रोत घोषित किए गए हैं। ये पवित्र और पापनाशक हैं, और इनकी अत्यन्त प्रशंसा की गई है। ये समस्त रोगों की चिकित्सा के लिए श्रेष्ठतम औषधियाँ हैं, और समस्त कर्मों में सफलता के दाता हैं।
41हे भारत, अपनी इन्द्रियों को संयत करके प्रातः और सायं इनका नाम लेना चाहिए। ये ही रक्षा करते हैं। ये ही वृष्टि करते हैं। ये ही चमकते हैं और प्रकाश तथा ताप देते हैं। ये ही बहते हैं। ये ही समस्त वस्तुओं की सृष्टि करते हैं।
42ये सबमें श्रेष्ठ माने जाते हैं, विश्व के नेता, समस्त कार्यों के सम्पादन में परम कुशल, क्षमा से सम्पन्न, और इन्द्रियों के पूर्ण स्वामी। वस्तुतः कहा गया है कि वे उन समस्त अनिष्टों को दूर कर देते हैं जिनके अधीन मनुष्य रहता है।
43ये महात्मा समस्त भले-बुरे कर्मों के साक्षी हैं। प्रातःकाल उठकर मनुष्य को इनका नाम लेना चाहिए, क्योंकि ऐसा करने से वह निश्चय ही समस्त कल्याण प्राप्त करता है।
44जो इनका नाम लेता है, वह अग्नि और चोरों के भय से मुक्त हो जाता है। ऐसे मनुष्य का मार्ग किसी बाधा से कभी अवरुद्ध नहीं होता। इन महात्माओं का नाम लेने से मनुष्य हर प्रकार के दुःस्वप्नों से मुक्त हो जाता है।
45समस्त पापों से मुक्त होकर ऐसे मनुष्य शुभ कुलों में जन्म लेते हैं। जो द्विज संयत इन्द्रियों से यज्ञों की दीक्षा तथा अन्य धार्मिक अनुष्ठानों के अवसर पर इन नामों का पाठ करता है, वह उसके फलस्वरूप धर्मपरायण, आत्मचिन्तन में निरत, क्षमा और आत्मसंयम से युक्त, तथा द्वेष से रहित हो जाता है। यदि रोग से पीड़ित मनुष्य इनका पाठ करे, तो वह रोग के रूप में विद्यमान अपने पाप से मुक्त हो जाता है।
46घर के भीतर इनका पाठ करने से गृहवासियों के समस्त अनिष्ट दूर हो जाते हैं। खेत में इनका पाठ करने से हर प्रकार की फसल की वृद्धि में सहायता मिलती है।
47यात्रा पर निकलते समय अथवा घर से दूर रहते हुए इनका पाठ करने से मनुष्य को सौभाग्य प्राप्त होता है। ये नाम उसकी अपनी, उसकी सन्तानों और पत्नियों की, उसके धन की, तथा उसके बीजों और वनस्पतियों की रक्षा करते हैं। जो क्षत्रिय युद्ध में सम्मिलित होते समय इन नामों का पाठ करता है, वह अपने शत्रुओं पर विनाश आते और अपने तथा अपने पक्ष पर सौभाग्य उतरते देखता है। जो मनुष्य देवताओं अथवा पितरों के निमित्त किए जाने वाले कर्मों के अवसर पर इन नामों का पाठ करता है, वह पितरों और देवताओं को यज्ञ के हव्य और कव्य के भोग में सहायता देता है। जो मनुष्य इनका पाठ करता है वह रोग, हिंस्र पशुओं, हाथियों और चोरों के भय से मुक्त हो जाता है।
48उसकी चिन्ता का भार हलका हो जाता है, और वह समस्त पापों से मुक्त हो जाता है। नौका पर, अथवा रथ में, अथवा राजाओं की सभाओं में इन उत्तम सावित्री मन्त्रों का पाठ करने से मनुष्य उच्च सफलता प्राप्त करता है। जहाँ इन मन्त्रों का पाठ होता है, वहाँ अग्नि काष्ठ को नहीं जलाती।
49वहाँ बालक नहीं मरते, न ही सर्प जीवित रहते हैं। वस्तुतः ऐसे स्थानों पर न राजा का भय रह सकता है, न पिशाचों और राक्षसों का।
50वस्तुतः जो मनुष्य इन मन्त्रों का पाठ करता है, उसे अग्नि, जल, वायु अथवा हिंस्र पशुओं का भय नहीं रह जाता।
51ये सावित्री मन्त्र, विधिपूर्वक पढ़े जाने पर, चारों वर्णों की शान्ति और कल्याण लाते हैं। जो मनुष्य आदरपूर्वक इनका पाठ करते हैं वे समस्त शोक से मुक्त हो जाते हैं और अन्त में उत्तम गति प्राप्त करते हैं।
52ब्रह्मस्वरूप इन सावित्री मन्त्रों का पाठ करने वालों को यही फल प्राप्त होते हैं। जो मनुष्य गौओं के बीच इन मन्त्रों का पाठ करता है, वह अपनी गौओं को फलवती होते देखता है।
53चाहे यात्रा पर निकलते समय हो, अथवा लौटकर घर में प्रवेश करते समय, मनुष्य को प्रत्येक अवसर पर इन मन्त्रों का पाठ करना चाहिए। ये मन्त्र ऋषियों का महान् रहस्य हैं और उन सबमें सर्वश्रेष्ठ हैं जिनका वे मौन जप करते हैं। जो जप के धर्म का आचरण करते हैं और यज्ञाग्नि में आहुतियाँ डालते हैं, उनके लिए ये मन्त्र ऐसे ही हैं।
54जो मैंने तुमसे कहा है, वह पराशर का उत्तम मत है। पूर्वकाल में इसका पाठ स्वयं शक्र के समक्ष किया गया था। सत्य अथवा सनातन ब्रह्म का प्रतिनिधित्व करने के कारण, मैंने इसे तुम्हें पूर्ण रूप से बता दिया है।
55यह समस्त प्राणियों का हृदय है, और सर्वोच्च श्रुति है। सूर्यवंश और चन्द्रवंश के समस्त राजकुमार — अर्थात् राघव और कौरव — स्वयं को शुद्ध करने के पश्चात् प्रतिदिन इन मन्त्रों का पाठ करते हैं। ये मनुष्यों की परम गति हैं। देवताओं, सप्तर्षियों और ध्रुव के नामों का प्रतिदिन पाठ करने से मनुष्य समस्त कष्टों और विपत्तियों से मुक्त हो जाता है। वस्तुतः ऐसा पाठ मनुष्य को शीघ्र ही दुःख से मुक्त कर देता है।
56प्राचीन काल के मुनि — अर्थात् कश्यप, गौतम आदि, तथा भृगु, अंगिरा, अत्रि आदि, तथा शुक्र, अगस्त्य, बृहस्पति आदि, जो सब द्विजर्षि हैं — इन मन्त्रों की उपासना कर चुके हैं। भरद्वाज के पुत्र द्वारा अनुमोदित होकर ये मन्त्र ऋचीक के पुत्रों को प्राप्त हुए। इन्हें पुनः वसिष्ठ से प्राप्त करके शक्र और वसुगण युद्ध को निकले और दानवों को पराजित करने में सफल हुए।
57जो मनुष्य बहुश्रुत और वेदों के पूर्ण ज्ञाता ब्राह्मण को सुवर्णमण्डित शृंगों वाली सौ गौएँ दान में देता है, और जो अपने घर में प्रतिदिन उत्तम भारत-कथा का पाठ कराता है — दोनों समान पुण्य प्राप्त करते हैं, ऐसा कहा गया है।
58भृगु का नाम लेने से मनुष्य का धर्म बढ़ता है। वसिष्ठ को प्रणाम करने से उसका तेज बढ़ता है। रघु को प्रणाम करने से वह युद्ध में विजयी होता है। अश्विनीकुमारों की स्तुति करने से वह रोगों से मुक्त हो जाता है।
59हे राजन्, इस प्रकार मैंने तुम्हें उन सावित्री मन्त्रों के विषय में बताया जो सनातन ब्रह्म के साथ एकरूप हैं। यदि तुम मुझसे किसी अन्य विषय पर प्रश्न करना चाहो, तो कर सकते हो। हे भारत, मैं तुम्हें उत्तर दूँगा।
नेपाली
1युधिष्ठिरले भने — हे पितामह, हे महाप्रज्ञ, हे सम्पूर्ण विद्याका ज्ञाता, त्यो जपको विषय कुन हो जसको प्रतिदिन पाठ गरेर मनुष्यले विपुल मात्रामा धर्मको पुण्य प्राप्त गर्न सकोस्?
2त्यो कुन जप्य मन्त्र हो जो यात्रामा निस्कँदा, अथवा नयाँ भवनमा प्रवेश गर्दा, अथवा कुनै कार्यको आरम्भमा, अथवा देवता वा पितृका निमित्त यज्ञको अवसरमा पढिँदा सफलता दिन्छ?
3तपाईंले मलाई बताउनुहोस् कि त्यो कुन मन्त्र हो, जसले सम्पूर्ण अनिष्ट प्रभावलाई शान्त पार्दछ, अथवा समृद्धि, वृद्धि, अनिष्टबाट रक्षा, शत्रुहरूको नाश अथवा भयको निवारण गर्दछ, र जो साथसाथै वेदअनुकूल पनि छ।
4भीष्मले भने — हे राजन्, एकाग्रचित्त भई सुन कि व्यासद्वारा घोषित त्यो मन्त्र कुन हो। त्यो सवितृद्वारा विहित छ र परम उत्कृष्ट छ। त्यसले मनुष्यलाई उसका सम्पूर्ण पापबाट तत्काल शुद्ध पार्न समर्थ छ।
5हे निष्पाप, सुन, म तिमीलाई त्यस मन्त्रका विधान सुनाउँछु। वस्तुतः, हे पाण्डुपुत्रहरूमा श्रेष्ठ, ती विधान सुन्नै मात्रले मनुष्य आफ्ना सम्पूर्ण पापबाट मुक्त हुन्छ।
6जसले यस मन्त्रको दिनरात पाठ गर्दछ, ऊ कहिल्यै पापले कलुषित हुँदैन। अब म तिमीलाई बताउनेछु कि त्यो मन्त्र कुन हो। तिमी एकाग्रचित्त भई सुन।
7वस्तुतः, हे राजकुमार, जुन मनुष्यले यो सुन्दछ ऊ दीर्घायुले सम्पन्न हुन्छ, र आफ्ना सम्पूर्ण कामनाको पूर्ति प्राप्त गरेर यस लोक र परलोक दुवैमा सुखपूर्वक विहार गर्दछ।
8हे राजन्, यस मन्त्रको पाठ ती श्रेष्ठ राजर्षिहरूद्वारा प्रतिदिन गरिन्थ्यो जसले क्षत्रियधर्मको पालन गर्दथे र दृढतापूर्वक सत्यको व्रत धारण गर्दथे।
9वस्तुतः, हे राजाहरूमा श्रेष्ठ, ती नरेशहरू जसले संयत इन्द्रिय र शान्त चित्तले यस मन्त्रको प्रतिदिन पाठ गर्दछन्, अनुपम समृद्धि प्राप्त गर्नमा सफल हुन्छन्।
10वेदहरूका सागर पराशरलाई आदरपूर्वक प्रणाम गरेर, उच्च व्रतधारी वसिष्ठलाई नमस्कार। महान् सर्प अनन्तलाई नमस्कार, र ती सबैलाई नमस्कार जो सिद्धिले मण्डित छन् र जसको कीर्ति अक्षय छ।
11ऋषिहरूलाई नमस्कार, र उनलाई नमस्कार जो उच्चभन्दा पनि उच्चतम छन्, देवताहरूका देव हुन्, र श्रेष्ठ जनहरूलाई वर दिने हुन्। ती सहस्रशीर्षलाई नमस्कार, ती परम मङ्गलमयलाई नमस्कार, ती सहस्रनाम भएका जनार्दनलाई नमस्कार।
12अज, एकपाद, अहिर्बुध्न्य, अपराजित पिनाकी, ऋत, पितृरूप, त्रिनेत्र महेश्वर, वृषाकपि, शम्भु, हवन र ईश्वर — यी प्रसिद्ध एघार रुद्र हुन्, जो सम्पूर्ण लोकका स्वामी हुन्।
13(वेदहरूको) शतरुद्रीयमा यी एघार महात्माको उल्लेख सयका रूपमा भएको छ। अंश, भग, मित्र, जलका स्वामी वरुण, धातृ, अर्यमा, जयन्त, भास्कर, त्वष्टृ, पूषा, इन्द्र र विष्णु — यिनले बाह्रको गणना बनाउँछन्। यी बाह्र आदित्य कहलाउँछन् र, जसो श्रुतिले भन्दछ, यिनी कश्यपका पुत्र हुन्।
14धर, ध्रुव, सोम, सवित्र, अनिल, अनल, प्रत्यूष र प्रभव — यी आठ वसु हुन्, जसका नाम शास्त्रहरूमा आएका छन्।
15नासत्य र दस्र — यी दुवैलाई अश्विनीकुमार भनिन्छ। यिनी मार्तण्डका पुत्र हुन्, जो उनकी पत्नी संज्ञाबाट उत्पन्न भए, जसको नाकबाट यिनी प्रकट भएका थिए।
16यसपछि म तिनका नाम भन्नेछु जो लोकहरूमा सम्पूर्ण कर्मका साक्षी हुन्। तिनीहरूले सम्पूर्ण यज्ञ, सम्पूर्ण दान र सम्पूर्ण सत्कर्ममा ध्यान राख्दछन्।
17देवताहरूमा ती स्वामीहरूले अदृश्य भए तापनि सबै कुरा देख्दछन्। वस्तुतः तिनीहरूले सम्पूर्ण प्राणीका असल-खराब सबै कर्म देख्दछन्। तिनीहरू हुन् — मृत्यु, काल, विश्वेदेव, मूर्तिमान् पितृ, तपरूपी धन भएका महर्षि, मुनिगण, तथा अन्य ती जो सिद्धिले मण्डित छन् र तप एवं मोक्षमा निरत छन्।
18मधुर मुस्कान भएका यी देवहरूले ती मनुष्यहरूलाई विविध वरदान दिन्छन् जसले यिनका नामको पाठ गर्दछन्। वस्तुतः दिव्य तेजले सम्पन्न यिनले, त्यस्ता मनुष्यहरूलाई पितामहद्वारा रचिएका सुखका विविध लोक प्रदान गर्दछन्।
19तिनीहरू सम्पूर्ण लोकमा निवास गर्दछन् र सावधानीपूर्वक सम्पूर्ण कर्ममाथि दृष्टि राख्दछन्। सम्पूर्ण प्राणीका ती स्वामीहरूका नामको पाठ गरेर मनुष्य सधैँ धर्म, धन र प्रचुर भोगले सम्पन्न हुन्छ।
20ऊ अगाडि गएर विश्वेश्वरद्वारा रचिएका मङ्गल र सुखका विविध लोक प्राप्त गर्दछ।
21सम्पूर्ण प्राणीका स्वामी यी तेत्तीस देवता, तथा विशालकाय नन्दीश्वर, र ती श्रेष्ठ देव जसको ध्वजामा वृषभको चिह्न छ, र सम्पूर्ण लोकका ती स्वामी — अर्थात् गणेश्वर नामक ती देवका अनुचर र सहचर, तथा सौम्य कहलाउने, र रौद्र कहलाउने, र योग कहलाउने, र भूत नामले चिनिने गण, तथा आकाशका ज्योति, नदीहरू, आकाश, पक्षिराज (अर्थात् गरुड), पृथ्वीमा ती सम्पूर्ण पुरुष जो आफ्नो तपका कारण सिद्धिले मण्डित भइसकेका छन्, तथा ती जो स्थावर अथवा जङ्गम रूपमा विद्यमान छन्, हिमवान्, सम्पूर्ण पर्वत, चारै समुद्र, भवका ती अनुचर र सहचर जो स्वयं भवजस्तै पराक्रमले सम्पन्न छन्, यशस्वी र सधैँ विजयी विष्णु, स्कन्द र अम्बिका — यी ती महात्मा हुन् जसका नामको संयत इन्द्रियले पाठ गर्दा मनुष्य आफ्ना सम्पूर्ण पापबाट मुक्त हुन्छ।
22यसपछि म ती श्रेष्ठ ऋषिहरूका नाम भन्नेछु जो मानव कहलाउँछन्। तिनीहरू हुन् — यवक्रीत, रैभ्य, अर्वावसु, परावसु, औशिज, कक्षीवान्, र अङ्गिराका पुत्र वल। अनि छन् ऋषि मेधातिथिका पुत्र कण्व, र वरिषद।
23यी सबै ब्रह्मतेजले सम्पन्न छन् र विश्वका स्रष्टा भनिएका छन्। यिनको उत्पत्ति रुद्र, अनल र वसुहरूबाट भएको हो। यिनका नामको पाठ गरेर मानिसहरूलाई महान् लाभ हुन्छ।
24वस्तुतः पृथ्वीमा सत्कर्म गरेर मानिसहरू देवताहरूसँग स्वर्गलोकमा सुखपूर्वक विहार गर्दछन्। यी ऋषिहरू इन्द्रका पुरोहित हुन्। तिनीहरू पूर्व दिशामा निवास गर्दछन्।
25जुन मनुष्यले एकाग्रचित्त भई यी ऋषिहरूका नामको पाठ गर्दछ, ऊ इन्द्रका लोकमा जान र त्यहाँ महान् सम्मान पाउनमा सफल हुन्छ।
26उन्मुचु, प्रमुचु, महातेजस्वी स्वस्त्यात्रेय, दृढव्य, ऊर्ध्वबाहु, त्रिणसोम आङ्गिरस, र मित्रावरुणका पुत्र महातेजस्वी अगस्त्य — यी सात मृतकहरूका राजा यमका ऋत्विज् हुन्, र दक्षिण दिशामा निवास गर्दछन्।
27दृढेयु, ऋतेयु, यशस्वी परिव्याध, एकत, द्वित र त्रित — यी अन्तिम तीन सूर्यजस्तै तेजले युक्त — तथा अत्रिका धर्मात्मा पुत्र, अर्थात् ऋषि सारस्वत — यी सात, जसले वरुणको महायज्ञमा ऋत्विज्को कार्य गरेका थिए, पश्चिम दिशामा आफ्नो निवास बनाएका छन्।
28अत्रि, यशस्वी वसिष्ठ, महर्षि कश्यप, गौतम, भरद्वाज, कुशिकका पुत्र विश्वामित्र, र ऋचीकका उग्र तथा तेजस्वी पुत्र जमदग्नि — यी सात कुबेरका ऋत्विज् हुन् र उत्तर दिशामा निवास गर्दछन्।
29सात अन्य ऋषि छन् जो कुनै एक दिशामा सीमित नरही सम्पूर्ण दिशामा निवास गर्दछन्। तिनीहरूले नै मनुष्यहरूलाई कीर्ति र सम्पूर्ण कल्याणकारी वस्तु प्रदान गर्दछन्, र तिनीहरू लोकहरूका स्रष्टाका रूपमा गाइएका छन्।
30धर्म, काम, काल, वसु, वासुकि, अनन्त र कपिल — यी सात जगत्का धारक हुन्।
31राम, व्यास, द्रोणपुत्र अश्वत्थामा — यी अन्य ऋषि हुन्। यी महर्षिगण सात-सातका सात वर्गमा विभाजित छन्।
32तिनीहरू त्यस शान्ति र कल्याणका स्रष्टा हुन् जसको मनुष्यहरूले उपभोग गर्दछन्। तिनीहरू दिशाहरूका अधिपति भनिन्छन्। जसले यिनमध्ये कसैको आराधना गर्न चाहन्छ, उसले त्यस दिशातिर मुख फर्काउनुपर्दछ जसमा त्यो ऋषि निवास गर्दछ।
33ती ऋषिहरू सम्पूर्ण प्राणीका स्रष्टा हुन् र सबैका पवित्रकर्ता मानिएका छन्। संवर्त, मेरुसावर्ण, धर्मात्मा मार्कण्डेय, साङ्ख्य र योग, नारद तथा महर्षि दुर्वासा — यिनी कठोर तप र महान् आत्मसंयमले सम्पन्न छन्, र तीनै लोकमा विख्यात छन्।
34केही अरू छन् जो स्वयं रुद्रजस्तै छन्। तिनीहरू ब्रह्मलोकमा निवास गर्दछन्। यिनको आदरपूर्वक नाम लिएर पुत्रहीन मनुष्यले पुत्र पाउँछ, र निर्धन मनुष्यले धन प्राप्त गर्दछ।
35वस्तुतः यिनको नाम लिएर मनुष्यले धर्म, अर्थ र काममा सफलता प्राप्त गर्दछ। त्यस विख्यात राजाको पनि नाम लिनुपर्दछ जो सम्पूर्ण पृथ्वीको सम्राट् र प्रजापतिजस्तै थियो — अर्थात् नरेशहरूमा श्रेष्ठ वेनका पुत्र पृथुको। पृथ्वी उनकी पुत्री भएकी थिइन्। सूर्यवंशी र शक्तिमा स्वयं महेन्द्रजस्तै पुरूरवाको पनि नाम लिनुपर्दछ।
36ऊ इलाका पुत्र थिए र तीनै लोकमा विख्यात थिए। वस्तुतः बुधका ती प्रिय पुत्रको नाम अवश्य लिनुपर्दछ।
37तीनै लोकमा विख्यात ती वीर भरतको पनि नाम लिनुपर्दछ। ती पनि, जसले सत्ययुगमा एउटा विशाल गोमेध यज्ञमा देवताहरूको पूजा गरे — अर्थात् यशस्वी रन्तिदेव, जो स्वयं महादेवजस्तै थिए — नाम लिन योग्य छन्। तपले सम्पन्न, सम्पूर्ण शुभ लक्षणले युक्त, संसारका लागि हरेक प्रकारको कल्याणका स्रोत, उनी विश्वका विजेता थिए।
38परम यशस्वी राजर्षि श्वेतको पनि नाम लिनुपर्दछ। (उनले महादेवलाई प्रसन्न पारेका थिए र उनकै लागि अन्धकको वध भएको थियो।) ती यशस्वी राजर्षि भगीरथको पनि नाम लिनुपर्दछ, जो महादेवको कृपाले पवित्र नदीलाई स्वर्गलोकबाट पृथ्वीमा ओराल्न सफल भए।
39भगीरथ नै थिए जसले सगरका साठी सहस्र पुत्रहरूको खरानीलाई गङ्गाको पवित्र जलले पखाल्न लगाए र यसरी तिनलाई तिनका पापबाट उबारे। वस्तुतः यी सबैको नाम लिनुपर्दछ, जो अग्निको प्रज्वलित तेज, महान् सौन्दर्य र उच्च तेजले सम्पन्न थिए।
40तीमध्ये केही भयोत्पादक रूप र महान् शक्ति भएका थिए। यी देवता, ऋषि र राजाहरूको — विश्वका ती स्वामीहरूको, जो कीर्तिका वर्धक हुन् — नाम लिनुपर्दछ। साङ्ख्य, र उच्चभन्दा पनि उच्चतम योग, र हव्य तथा कव्य, र सम्पूर्ण श्रुतिको त्यो आश्रय, अर्थात् परब्रह्म — यी सम्पूर्ण प्राणीका लागि महान् कल्याणका स्रोत घोषित गरिएका छन्। यी पवित्र र पापनाशक छन्, र यिनको अत्यन्त प्रशंसा गरिएको छ। यी सम्पूर्ण रोगको चिकित्साका लागि श्रेष्ठतम औषधि हुन्, र सम्पूर्ण कर्ममा सफलताका दाता हुन्।
41हे भारत, आफ्ना इन्द्रियलाई संयत पारेर बिहान र साँझ यिनको नाम लिनुपर्दछ। यिनैले रक्षा गर्दछन्। यिनैले वृष्टि गराउँछन्। यिनै चम्किन्छन् र प्रकाश तथा ताप दिन्छन्। यिनै बग्दछन्। यिनैले सम्पूर्ण वस्तुको सृष्टि गर्दछन्।
42यिनी सबैमा श्रेष्ठ मानिन्छन्, विश्वका नेता, सम्पूर्ण कार्यको सम्पादनमा परम कुशल, क्षमाले सम्पन्न, र इन्द्रियका पूर्ण स्वामी। वस्तुतः भनिएको छ कि तिनीहरूले ती सम्पूर्ण अनिष्ट हटाइदिन्छन् जसका अधीनमा मनुष्य रहन्छ।
43यी महात्माहरू सम्पूर्ण असल-खराब कर्मका साक्षी हुन्। बिहान उठेर मनुष्यले यिनको नाम लिनुपर्दछ, किनभने यसो गरेर उसले निश्चय नै सम्पूर्ण कल्याण प्राप्त गर्दछ।
44जसले यिनको नाम लिन्छ, ऊ अग्नि र चोरहरूको भयबाट मुक्त हुन्छ। त्यस्तो मनुष्यको मार्ग कुनै बाधाले कहिल्यै अवरुद्ध हुँदैन। यी महात्माहरूको नाम लिएर मनुष्य हरेक प्रकारका दुःस्वप्नबाट मुक्त हुन्छ।
45सम्पूर्ण पापबाट मुक्त भई त्यस्ता मनुष्यहरूले शुभ कुलमा जन्म लिन्छन्। जुन द्विजले संयत इन्द्रियले यज्ञको दीक्षा तथा अन्य धार्मिक अनुष्ठानको अवसरमा यी नामको पाठ गर्दछ, ऊ त्यसको फलस्वरूप धर्मपरायण, आत्मचिन्तनमा निरत, क्षमा र आत्मसंयमले युक्त, तथा द्वेषबाट रहित हुन्छ। यदि रोगले पीडित मनुष्यले यिनको पाठ गर्यो भने, ऊ रोगका रूपमा विद्यमान आफ्नो पापबाट मुक्त हुन्छ।
46घरभित्र यिनको पाठ गरेर गृहवासीहरूका सम्पूर्ण अनिष्ट हटिजान्छन्। खेतमा यिनको पाठ गरेर हरेक प्रकारका बालीको वृद्धिमा सहायता मिल्दछ।
47यात्रामा निस्कँदा अथवा घरबाट टाढा रहँदा यिनको पाठ गरेर मनुष्यले सौभाग्य प्राप्त गर्दछ। यी नामले उसको आफ्नो, उसका सन्तान र पत्नीहरूको, उसको धनको, तथा उसका बीउ र वनस्पतिको रक्षा गर्दछन्। जुन क्षत्रियले युद्धमा सम्मिलित हुने बेला यी नामको पाठ गर्दछ, उसले आफ्ना शत्रुहरूमाथि विनाश आइरहेको र आफू तथा आफ्नो पक्षमाथि सौभाग्य ओर्लिरहेको देख्दछ। जुन मनुष्यले देवता अथवा पितृका निमित्त गरिने कर्मको अवसरमा यी नामको पाठ गर्दछ, उसले पितृ र देवताहरूलाई यज्ञका हव्य र कव्यको भोगमा सहायता दिन्छ। जुन मनुष्यले यिनको पाठ गर्दछ ऊ रोग, हिंस्रक पशु, हात्ती र चोरहरूको भयबाट मुक्त हुन्छ।
48उसको चिन्ताको भार हलुका हुन्छ, र ऊ सम्पूर्ण पापबाट मुक्त हुन्छ। नौकामा, अथवा रथमा, अथवा राजाहरूका सभामा यी उत्तम सावित्री मन्त्रको पाठ गरेर मनुष्यले उच्च सफलता प्राप्त गर्दछ। जहाँ यी मन्त्रको पाठ हुन्छ, त्यहाँ अग्निले काठलाई जलाउँदैन।
49त्यहाँ बालकहरू मर्दैनन्, न त सर्पहरू जीवित रहन्छन्। वस्तुतः त्यस्ता स्थानहरूमा न राजाको भय रहन सक्दछ, न पिशाच र राक्षसहरूको।
50वस्तुतः जुन मनुष्यले यी मन्त्रको पाठ गर्दछ, उसलाई अग्नि, जल, वायु अथवा हिंस्रक पशुहरूको भय रहँदैन।
51यी सावित्री मन्त्र, विधिपूर्वक पढिँदा, चारै वर्णका शान्ति र कल्याण ल्याउँछन्। जुन मनुष्यहरूले आदरपूर्वक यिनको पाठ गर्दछन् तिनीहरू सम्पूर्ण शोकबाट मुक्त हुन्छन् र अन्तमा उत्तम गति प्राप्त गर्दछन्।
52ब्रह्मस्वरूप यी सावित्री मन्त्रको पाठ गर्नेहरूलाई यिनै फल प्राप्त हुन्छन्। जुन मनुष्यले गाईहरूको बीचमा यी मन्त्रको पाठ गर्दछ, उसले आफ्ना गाईहरू फलवती भएको देख्दछ।
53चाहे यात्रामा निस्कँदा होस्, अथवा फर्केर घरमा प्रवेश गर्दा, मनुष्यले प्रत्येक अवसरमा यी मन्त्रको पाठ गर्नुपर्दछ। यी मन्त्र ऋषिहरूका महान् रहस्य हुन् र ती सबैमा सर्वश्रेष्ठ छन् जसको तिनीहरू मौन जप गर्दछन्। जसले जपको धर्मको आचरण गर्दछन् र यज्ञाग्निमा आहुति हाल्दछन्, तिनका लागि यी मन्त्र यस्तै छन्।
54जो मैले तिमीसँग भनेको छु, त्यो पराशरको उत्तम मत हो। पूर्वकालमा यसको पाठ स्वयं शक्रको सामु गरिएको थियो। सत्य अथवा सनातन ब्रह्मको प्रतिनिधित्व गर्ने भएकाले, मैले यो तिमीलाई पूर्ण रूपमा बताइदिएको छु।
55यो सम्पूर्ण प्राणीको हृदय हो, र सर्वोच्च श्रुति हो। सूर्यवंश र चन्द्रवंशका सम्पूर्ण राजकुमार — अर्थात् राघव र कौरव — आफूलाई शुद्ध पारेपछि प्रतिदिन यी मन्त्रको पाठ गर्दछन्। यी मनुष्यहरूका परम गति हुन्। देवता, सप्तर्षि र ध्रुवका नामको प्रतिदिन पाठ गरेर मनुष्य सम्पूर्ण कष्ट र विपत्तिबाट मुक्त हुन्छ। वस्तुतः त्यस्तो पाठले मनुष्यलाई चाँडै नै दुःखबाट मुक्त पारिदिन्छ।
56प्राचीन कालका मुनिहरू — अर्थात् कश्यप, गौतम आदि, तथा भृगु, अङ्गिरा, अत्रि आदि, तथा शुक्र, अगस्त्य, बृहस्पति आदि, जो सबै द्विजर्षि हुन् — यी मन्त्रको उपासना गरिसकेका छन्। भरद्वाजका पुत्रद्वारा अनुमोदित भई यी मन्त्र ऋचीकका पुत्रहरूलाई प्राप्त भए। यिनलाई पुनः वसिष्ठबाट प्राप्त गरेर शक्र र वसुगण युद्धमा निस्के र दानवहरूलाई पराजित गर्नमा सफल भए।
57जुन मनुष्यले बहुश्रुत र वेदका पूर्ण ज्ञाता ब्राह्मणलाई सुवर्णमण्डित शृङ्ग भएका सय गाई दानमा दिन्छ, र जसले आफ्नो घरमा प्रतिदिन उत्तम भारत-कथाको पाठ गराउँछ — दुवैले समान पुण्य प्राप्त गर्दछन्, यसो भनिएको छ।
58भृगुको नाम लिएर मनुष्यको धर्म बढ्दछ। वसिष्ठलाई प्रणाम गरेर उसको तेज बढ्दछ। रघुलाई प्रणाम गरेर ऊ युद्धमा विजयी हुन्छ। अश्विनीकुमारहरूको स्तुति गरेर ऊ रोगहरूबाट मुक्त हुन्छ।
59हे राजन्, यसरी मैले तिमीलाई ती सावित्री मन्त्रका विषयमा बताएँ जो सनातन ब्रह्मसँग एकरूप छन्। यदि तिमीले मसँग कुनै अन्य विषयमा प्रश्न गर्न चाहन्छौ भने, गर्न सक्छौ। हे भारत, म तिमीलाई उत्तर दिनेछु।