अनुशासनिक पर्व — धर्म और दान का रहस्य
खण्ड 9 — अनुशासन से स्वर्गारोहण पर्व तक · अध्याय 125
संस्कृत
1युधिष्ठिर उवाच जन्म मानुष्यकं प्राप्य कर्मक्षेत्रं सुदुर्लभम्। श्रेयोऽर्थिना दरिद्रेण किं कर्तव्यं पितामह॥
2दानानामुत्तमं यच्च देयं यच्च यथा यथा। मान्यान् पूज्यांश्च गाङ्गेय रहस्यं वक्तुमर्हसि॥
3वैशम्पायन उवाच एवं पृष्टो नरेन्द्रेण पाण्डवेन यशस्विना। धर्माणां परमं गुह्यं भीष्मः प्रोवाच पार्थिवम्॥
4भीष्म उवाच शृणुष्वावहितो राजन् धर्मगुह्यानि भारत। यथा हि भगवान् व्यासः पुरा कथितवान् मयि॥
5देवगुह्यमिदं राजन् यमेनाक्लिष्टकर्मणा। नियमस्थेन युक्तेन तपसो महतः फलम्॥
6येन यः प्रीयते देवः प्रीयन्ते पितरस्तथा। ऋषयः प्रमथा: श्रीश्च चित्रगुप्तो दिशां गजाः॥ ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः। महादानफलं चैव सर्वयज्ञफलं तथा॥ यश्चैतदेवं जानीयाज्ज्ञात्वा वा कुरुतेऽनघ। सदोषोऽदोषवांश्चेह तैर्गुणैः सह युज्यते॥
7दशसूनासमं चक्रं दशचक्रसमो ध्वजः। दशध्वजसमा वेश्या दशवेश्यासमो नृपः॥
8अर्धेनैतानि सर्वाणि नृपतिः कथ्यतेऽधिकः। त्रिवर्गसहितं शास्त्रं पवित्रं पुण्यलक्षणम्॥ धर्मव्याकरणं पुण्यं रहस्यश्रवणं महत्। श्रोतव्यं धर्मसंयुक्तं विहितं त्रिदशैः स्वयम्॥
9पितॄणां यत्र गुह्यानि प्रोच्यन्ते श्राद्धकर्मणि। देवतानां च सर्वेषां रहस्यं कथ्यतेऽखिलम्॥
10ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः। महायज्ञफलं चैव सर्वदानफलं तथा॥
11ये पठन्ति सदा मा येषां चैवोपतिष्ठति। श्रुत्वा च फलमाचष्टे स्वयं नारायणः प्रभुः॥
12गवां फलं तीर्थफलं यज्ञानां चैव यत् फलम्। एतत् फलमवाप्नोति यो नरोऽतिथिपूजकः॥
13श्रोतारः श्रद्दधानाश्च येषां शुद्ध च मानसम्। तेषां व्यक्त जिता लोकाः श्रद्दधनेन साधुना॥ मुच्यते किल्बिषाच्चैच न सा पापेन लिप्यते। धर्मे च लभते नित्यं प्रेत्य लोकगतो नरः॥
14कस्यचित् त्वथ कालस्य देवदूतो यदृच्छया। स्थितो ह्यन्तर्हितो भूत्वा पर्यभाषत वासवम्॥
15यौ तौ कामगुणोपेतावश्विनौ भिषजां वरौ। आज्ञयाहं तयोः प्राप्तः सनरान् पितृदैवतान्॥
16कस्माद्धि मैथुनं श्राद्धे दातुर्भोक्तुश्च वर्जितम्। किमर्थं च त्रयः पिण्डाः प्रविभक्ताः पृथक् पृथक्।।
17प्रथमः कस्य दातव्यो मध्यमः क्व च गच्छति। उत्तरश्च स्मृतः कस्य एतदिच्छागि वेदितुम्॥
18श्रद्दधनेन दूतेन भाषितं धर्मसंहितम्। पूर्वस्थास्त्रिदशाः सर्वे पितरः पूज्य खेचरम्॥
19पितर ऊचुः स्वागतं तेऽस्तु भद्रं ते श्रूयतां खेचरोत्तम। गूढार्थः परमः प्रश्नो भवता समुदीरितः॥
20श्राद्धं दत्त्वा च भुक्त्वा च पुरुषो यःस्त्रियं व्रजेत्। पितरस्तस्य तं मासं तस्मिन् रेतसि शेरते।॥
21प्रविभागं तु पिण्डानां प्रवक्ष्याम्यनुपूर्वशः। पिण्डो ह्यधस्ताद् गच्छंस्तु अप आविश्य भावयेत्।।
22पिण्डं तु मध्यमं तत्र पत्नी त्वेका समश्नुते। पिण्डस्तृतीयो यस्तेषां तं दद्याज्जातवेदसि॥
23एष श्राद्धविधिः प्रोक्तो यथा धर्मो न लुप्यते। पितरस्तस्य तुष्यन्ति प्रहृष्टमनसः सदा॥ प्रजा विवर्धते चास्य अक्षयं चोपतिष्ठति।
24देवदूत उवाच आनुपूर्वेण पिण्डानां प्रविभागः पृथक् पृथक्॥ पितॄणां त्रिषु सर्वेषां निरुक्तं कथितं त्वया।
25एक:समुद्धृतः पिण्डो ह्यधस्तात् कस्य गच्छति॥ कं वा प्रीणयते देवं कथं तारयते पितॄन।
26मध्यमं तु तदा पत्नी भुङ्क्तेऽनुज्ञातमेव हि॥ किमर्थं पितरस्तस्य कव्यमेव च भुञ्जते।
27अत्र यस्त्वन्तिमः पिण्डो गच्छते जातवेदसम्॥ भवते का गतिस्तस्य कं वा समनुगच्छति।
28एतदिच्छाम्यहं श्रोतुं पिण्डेषु त्रिषु श गतिः॥ फलं वृत्तिं च मार्गं च यश्चैनं प्रतिपद्यते।
29पितरः ऊचुः सुमहानेष प्रश्नो वै यस्त्वया समुदीरितः॥ रहस्यमद्भुतं चापि पृष्टाः स्म गगनेचर।
30एतदेव प्रशसंन्ति देवाश्च मुनयस्तथा॥ तेऽप्येवं नाभिजानन्ति पितृकार्यविनिश्चयम्।
31वर्जयित्वा महात्मानं चिरजीविनमुत्तमम्॥ पितृभक्तस्तु यो विप्रो वरलब्धो महायशाः।
32त्रयाणामपि पिण्डानां श्रुत्वा भगवतो गतिम्॥ देवदूतेन यः पृष्टः श्राद्धस्य विधिनिश्चयः।
33गतिं त्रयाणां पिण्डानां शृणुष्वावहितो मम॥ अपो गच्छति यो ह्यत्र शशिनं ह्येष प्रीणयेत्।
34शशी प्रीणयते देवान् पितश्चैव महामते॥ भुङ्क्ते तु पत्नी यं चैषामनुज्ञाता तु मध्यमम्।
35पुत्रकामाय पुत्रं तु प्रयच्छन्ति पितामहाः॥ पिण्डो दीयते तन्निबोध मे।
36पितरस्तेन तृष्यन्ति प्रीताः कामान् दिशन्ति च॥ एतत् ते कथितं सर्वे त्रिषु पिण्डेषु या गतिः।
37ऋत्विग्यो यजमानस्य पितृत्वमनुगच्छति॥ हव्यवाहे तु यः तस्मिन्नहनि मन्यन्ते परिहार्ये हि मैथुनम्।
38शुचिना तु सदा श्राद्धं भोक्तव्य खेचरोत्तम॥ ये मया कथिता दोषास्ते तथा स्युर्न चान्यथा।
39तस्मात् स्नातः शुचिः क्षान्तः श्राद्धंभुञ्जीत वै द्विजः।। प्रजा विवर्धते चास्य यश्चैवं सम्प्रयच्छति।
40भीष्म उवाच ततो विद्युत्प्रभो नाम ऋषिराह महातपाः॥ आदित्यतेजसा तस्य तुल्यं रूपं प्रकाशते। स च धर्मरहस्यानि श्रुत्वा शक्रमथाब्रवीत्॥
41तिर्यग्योनिगतान् सत्त्वान् मा हिंसन्ति मोहिताः। कीटान् पिपीलिकान् सर्पान् मेषान् समृगपक्षिणः।। किल्बिषं सुबहु प्राप्ताः किंस्विदेषां प्रतिक्रिया। ततो देवगणाः सर्वे ऋषयश्च तपोधनाः॥
42पितरश्च महाभागाः पूजयन्ति स्म तं मुनिम्।
43शक्र उवाच कुरुक्षेत्रं गयां गङ्गां प्रभासं पुष्कराणि च॥ एतानि मनसा ध्यात्वा अवगाहेत् ततो जलम्। तथा मुच्यति पापेन राहुणा चन्द्रमा यथा॥
44त्र्यहं स्नातंः स भवति निराहारश्च वर्तते। स्पृशते यो गवां पृष्ठं बालधिं च नमस्यति॥
45ततो विद्युत्प्रभो वाक्यमभ्यभाषत वासवम्। अयं सूक्ष्मतरो धर्मस्तं निबोध शतक्रतो॥
46घृष्टो वटकषायेण अनुलिप्तः प्रियंगुणा। क्षीरेण षष्टिकान् भुक्त्वा सर्वपापैः प्रमुच्यते॥
47श्रूयतां चापरं गृह्यं रहस्यमृषिचिन्तितम्। श्रुतं मे भाषमाणस्य स्थाणोः स्थाने बृहस्पतेः॥
48रुद्रेण सह देवेश तन्निबोध शचीपते। पर्वतारोहणं कृत्वा एकपादो विभावसुम्॥ निरीक्षेत निराहार उर्ध्वबाहुः कृताञ्जलिः। तपसा महता युक्त उपवासफलं लभेत्॥
49रश्मिभिस्तापितोऽर्कस्य सर्वपापमपोहति। ग्रीष्मकालेऽथ वा शीते एवं पापमपोहति॥
50ततः पापत् प्रमुक्तस्य द्युतिर्भवति शाश्वती। तेजसा सूर्यवद् दीप्तो भ्राजते सोमवत् पुनः॥
51मध्ये त्रिदशवर्गस्य देवराजः शतक्रतुः। उवाच मधुरं वाक्यं बृहस्पतिमनुत्तमम्॥
52धर्मगुह्यं तु भगवन् मानुषाणां सुखावहम्। सरहस्याश्च ये दोषास्तान् यथावदुदीरय॥
53बृहस्पति रुवाच प्रतिमेहन्ति ये सूर्यमनिलं द्विषते च ये। हव्यवाहे प्रदीप्ते च समिधं ये न जुह्वति॥ बालवत्सां च ये धेनुं दुहन्ति क्षीरकारणात्। तेषां दोषान् प्रवक्ष्यामि तान् निबोध शचीपते॥
54भानुमाननिलश्चैव हव्यवाहश्च वासव। लोकानां मातरश्चैव गावः सृष्टाः स्वयम्भुवा॥ लोकांस्तारयितुं शक्ता मत्र्येष्वेतेषु देवताः। सर्वे भवन्तः शृण्वन्तु एकैकं धर्मनिश्चयम्॥
55वर्षाणि षडशीति तु दुर्वत्ताः कुलपांसनाः। स्त्रियः सर्वाश्च दुर्वृत्ता:प्रतिमेहन्ति या रविम्॥
56अनिलद्वेषिणः शक्र गर्भस्था च्यवते प्रजा। हव्यवाहस्य दीप्तस्य समिधं ये न जुह्वति।॥
57अग्निकार्येषु वै तेषां हव्यं नाश्नाति पावकः। क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः॥
58न तेषां क्षीरपाः केचिज्जायन्ते कुलवर्धनाः। प्रजाक्षयेण युज्यन्ते कुलवंशक्षयेण च॥
59एवमेतत् पुरा दृष्टं कुलवृद्धौर्द्विजातिभिः। तस्माद् वानि वानि कार्यं कार्यं च नित्यशः।।
60भूतिकामेन म]न सत्यमेतद् ब्रवीमि ते। ततः सर्वा महाभाग देवताः समरुद्गणाः॥ ऋषयश्च महाभागाः पृच्छन्ति स्म पितूंस्ततः। पितरः केन तुष्यन्ति मर्त्यानामल्पचेतसाम्॥ अक्षयं च कथं दानं भवेच्चैवोर्ध्वदेहिकम्।
61आनृण्यं वा कथं मा गच्छेयुः केन कर्मणा॥ एतदिच्छामहे श्रोतुं परं कौतूहलं हि नः।
62पितर ऊचुः न्यायतो वै महाभागाः संशयः समुदाहृतः॥ श्रूयतां येन तुष्यामो मानां साधुकर्मणाम्।
63नीलपण्डप्रमोक्षेण अमावास्यां तिलोदकैः :॥ वर्षासु दीपकैश्चैव पितॄणामनृणो भवेत्।
64अक्षयं निळलीकं च दानमेतन्महाफलम्॥ अस्माकं परितोषश्च अक्षयः परिकीर्त्यते।
65श्रद्दधानाश्च ये मर्त्या आहरिष्यन्ति संततिम्॥ दुर्गात् ते तारयिष्यन्ति नरकात् प्रपितामहान्।
66पितॄणां भाषितं श्रुत्वा हृष्टरोमा तपोधनः॥ वृद्धगार्यो महातेजास्तानेवं वाक्यमब्रवीत्। के गुणा नीलपण्डस्य प्रमुक्तस्य तपोधनाः॥ वर्षासु दीपदानेन तथैव च तिलोदकैः।
67पितर ऊचुः नीलषण्डस्य लाङ्गुलं तोयमभ्युद्धरेद् यदि॥ षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिता:।
68यस्तु शृङ्गगतं पदं कूलादूद्धृत्य तिष्ठति।॥ पितरस्तेन गच्छन्ति सोमलोकमसंशयम्।
69वर्षासु दीपदानेन शशिवच्छोभते नरः॥ तमोरूपं न तस्यास्ति दीपकं यः प्रयच्छति।
70अमावास्यां तु ये माः प्रयच्छन्ति तिलोदकम्॥ पात्रमौदुम्बरं गृह्य मधुमिश्रं तपोधन। कृतं भवति तैः श्राद्धं सरहस्यं यथार्थवत्॥ हृष्टपुष्टमनास्तेषां प्रजा भवति नित्यदा।
71कुलवंशस्य वृद्धिस्तु पिण्डदस्य फलं भवेत्। श्रद्दधानस्तु यः कुर्यात् पितॄणामनृणो भवेत्॥
72एवमेव समुद्विष्टः श्राद्धकालक्रमस्तथा। विधिः पात्रं फलं चैव यथावदनुकीर्तिमम्॥
अंग्रेज़ी
1Yudhishthira said Tell me, O grandfather, how should a poor inan, desirous of achieving his own behoof, act after having acquired the status of humanity and come into this region of acts that is so difficult to acquire.
2Tell me also what is the best of all gifts, and what should be given under what circumstances? Tell me, O son of Ganga, who are truly worthy of honour and adoration. You should describe these mysteries to us.
3Vaishampayana said Thus accosted by that famous king, viz., the son of Pandu, Bhishma explained to that king these great mysteries about duty.
4Bhishma said Listen to me with rapt attention, O king, as I explain to you, O Bharata, these mysteries of duties as the holy Vyasa had explained them to me formerly.
5This subject is a mystery to the very celestials, O king. Yama of pure deeds, with the help of vows well observed and Yoga meditation, had acquired the knowledge of these mysteries as the high fruits of his penances.
6What pleases deity, what pleases the departed manes, the Rishis, the companions of Mahadeva, the goddess Shri Chitragupta, and the powerful Elephants which rule the cardinal points of the compass, what forms the religion of the Rishis, the religion viz., which has many mysteries and which yields high fruits, the merits of what are called great gifts, and the merits of all the sacrifices he who knows these, O sinless one, and knowing acts according to his knowledge, becomes freed from stains if he has stains and acquires the inerits indicated.
7One oilman is equal to ten butchers. Equal to ten oilmen is one drinker of alcohol. Equal to ten drinkers of alcohol is one harlot. Equal to ten harlots is a single king.
8A great king is said to be equal to half of these all. Hence, one should not accept gifts from these. On the other hand, one should attend to the science, which is sacred and which has virtue for its marks, of the threefold objects of life. Amongst these, Wealth and Pleasure are naturally attractive. Hence one should, with rapt attention, listen to the sacred expositions of Religion, for the fruits of listening to the mysteries of Religion are very great. One should certainly hear every subject bearing on Religion as ordained by the celestials themselves.
9In it is contained the ritual about the Shraddha in which have been declared the mysteries of the departed Manes. The mysteries about the deities have also been explained there.
10It contains the duties and practices, productive of great merit, of the Rishis also, together with the mysteries attaching to them. It contains an exposition of the merits of great sacrifices and all kinds of gifts.
11Those men who always read the scriptures about these subjects, those who bear them properly in their mind, and he who, having listened to them, follows them in practice, are all considered to be as holy and sinless as the powerful Narayana himself.
12The merits of the gift of kine, those that belong to the performance of ablutions in sacred waters, those that are acquired by the celebration of sacrifices, all these are acquired by that man who treats guests with respect.
13They who listen to these scriptures, they who are gifted with faith and they who have a pure heart, it is well known conquer many regions of felicity. Those pious men who are gifted with faith, become cleansed of all since and no sin can touch them. Such men always increase in virtue and succeed in attaining to the celestial region.
14Once on a time a celestial messenger, coming to the court of Indra of his own accord, but remaining invisible, addressed the king of the deities in these words:
15At the command of Ashvini Kumars (the celestial physicians) and who are gifted with every desirable quality, I have come to this place where I see human beings the departed Manes and the celestials assembled together.
16Why, indeed, is sexual intercourse interdicted for the man who performs a Shraddha and for him also who eats at a Shraddha? Why are three rice balls offered separately at a Shraddha?
17To whom should the first of those balls be offered? To whom should the second one be offered? And whose has it been said is the third or the remaining one? I wish to know all this!
18After the celestial messenger had said these words connected with virtue and duty, the celestials who were seated towards the east and the departed Manes also, praising that ranger of the sky, began as follows:
19The Pitris said Welcome are you and blessings upon you! Do you listen, O best of all rangers of the sky! The question you have put is a high one and fraught with deep import.
20The departed Manes of that man who indulges in sexual intercourse on the day he performs a Shraddha or eats at a Shraddha, have to lie for a whole month on his vital seed.
21We shall explain the classification of the riccballs offered at a Shraddha, The first ricehall should be thought of as being thrown into the waters.
22The second ball should be given to one of the wives to eat. The third ball should be thrown into the burning fire.
23This is the ordinance about the Shraddha. This is the ordinance of the rites of religion. The Pitris of that man who acts according to this ordinance become pleased with him and remain always cheerful. The progeny of such a man increases and he always commands endless riches.
24The Celestial Messenger said You have explained the division of the ricc balls and their consignment one after another to the three, together with the reasons thereof.
25Whom does that riceball which is thrown into the waters reach? How does it , by being so thrown please the deities, and how does it rescue the departed Manes?
26The second ball is eaten by the wife. That has been laid down in the ordinance. How do the Pitris of that man become the eaters thereof?
27The last ball goes into the burning fire. How does that ball succeed in finding its way to you, or who is he to whom it goes?
28I wish to hear this, that is, what are the ends attained by the balls offered at Shraddhas when thus disposed of by being thrown into the waters, given to the wife, and thrown into the burning fire.
29The Pitris said The question which you have asked is of deep import. It involves a mystery and is wonderful. We have been highly pleased with you, O rarger of the sky.
30The very celestials and the Munis applaud acts done in honour of the departed Manes. Even they do not know what the certain conclusions are of the ordinances about the acts done in honour of the Pitris.
31Excepting the great, immortal and excellent Markandeya, that learned Brahmana of great fame, who is ever devoted to the Pitris, none amongst them is conversant with the mysteries of the ordinances about the Pitris.
32Having heard from the holy Vyasa what the end is of the three riceballs offered at the Shraddha, as explained by the Pitris themselves in reply to the question of the celestial messenger, I shall explain the same to you. Do you hear, o king, what the conclusions are about the ordinances about the Shraddha.
33Listen with attention, O Bharata, to me as I explain what the end is of the three rice balls. That rice ball which goes into water is considered as pleasing the deity of the Moon.
34That deity being pleased, O you of great intelligence gratifies in return the other deities and the Pitris also with them. It has bean laid down that the second riceball should be eaten by the wife.
35The Pitris, who always wish for progeny, bestow children on the woman of the house. Listen now to me as I tell you what becomes of the rice ball that is thrown into the burning fire.
36With that ball the Pitris are pleased, and as the result thereof, grant the fruition of all desires to the person offering it. I have thus told you everything about the end of the three riceballs offered at the Shraddha and consigned to the three (viz. water, the spouse and the fire.)
37That Brahmana who becomes the priest at a Shraddha forins himself by that deed, the Pitri of the person performing ine Shraddha. Hence he should abstain that day from sexual intercourse with even his own wife.
38O best of all rangers of the sky, the man who eats at a Shraddha should remain pure for that day. By acting otherwise one surely commits the sin I have indicated. It cannot be otherwise.
39Hence, the Brahmana who is invited to a Shraddha for eating the offerings should eat them after purifying himself by a bath and remain pious for that day by abstaining form every kind of injury or evil. The progeny of such a person multiplies and he also who feeds him gets the same reward.
40Bhishma said After the Pitris had said so, a Rishi of austere penances, named Vidyutprabha, whose form was effulgent like the Sun spoke.
41Having heard those mysteries of religion as explained by che Pitris, he addressed Shakra, saying, Stupefied by folly, men kill numerous creatures born in the intermediate orders, such as worms, ants, snakes, sheep, deer and birds. They commit a great sin by these acts. What, however, is the remedy?
42When this question was asked, all the gods and Rishis having penances for wealth and the highly blessed Pitris, praised that ascetic.
43Shakra said Thinking in one's mind of Kurukshetra and Gaya and Ganga and Prabhasa and the lakes of Pushkara, one should dip his head in a piece of water.
44By so doing he becomes purged off of all his sins like the Moon freed from Rahu. He should thus bathe for three days successively and then fast for every day.
45Besides this, he should touch (After bathing) the back of a cow and bow his head to her tail. Vidutprabha, after this, once more addressing Vasava said, I shall describe a rite that is more subtle. Listen to me, O you of a hundred sacrifices.
46Rubbed with the astringent powder of the hanging roots of the banian and anointed with the oil of Priyangu, one should eat the Shashtika paddy mixed with milk. By so doing he becomes purged off all his sins.
47Listen now to another mystery unknown to many but which was discovered by the Rishis with the help of meditation. I heard it from Brihaspati while he recited it before Mahadeva.
48O king of the celestials do you hear it with Rudra in your company, O lord of Shachi. If a person, ascending a mountain stands there on one foot, with arms upraised and joined together and abstaining from food, looks at a burning fire, he acquires the merits of severe penances and obtains the rewards of fasts.
49Heated by the rays of the Sun, he becomes purged off all his sins. One who acts thus in both the summer and the winter seasons becomes freed from every sin.
50Purged off of every sin one acquires a splendour of complexion for all time. Such a man burns with energy like the Sun or shines in beauty like the Moon.
51After this, the king of the celestials viz., he of a hundred sacrifices, seated in the midst of the gods then sweetly addressed Brihaspati, with these excellent words:
52O Holy One, do you describe those mysteries of religion which are fraught with happiness to human beings, and what the faults are which they commit, together with the mysteries of them.
53Brihaspati said They who pass urine, facing the sun, they who do not show respect for the wind, they who do not pour libations on the burning fire, they who milk a cow whose calf is very young, actuated by the desire of obtaining from her as much milk as possible, commit many sins. I shall describe what those faults are, O lord of Shachi, Do you hear me.
54The Sun, Wind, the carrier of sacrificial oblations, O Vasava, and kine who are the mothers of all creatures, were created by the self-create himself, for rescuing all the worlds, O Shakra. These are the deities of human beings. Listen all the conclusions of religion.
55Those wicked men and wicked women who pass urine facing the Sun, live in great infamy for eighty six years.
56That man, O Shakra, who cherishes no respect for the wind, gets children that come out prematurely from the womb of his wife. These men who do not pour libations on the burning fire, find that the fire, when they do light it up for such rites as they wish to perform refuses to eat their libations.
57Those men who drink the milk of kire whose calves are very young, never get children for perpetuating their races.
58Such men see their children die and their families shrink. These are consequences of the acts referred to as observed by twice born persons, venerable for age in their respective families.
59Hence, one should always avoid that which has been interdicted and do only that which has been directed to be done, if one is desirous of securing his prosperity. This that I say to you is very true.
60After the celestial preceptor had said this the highly blessed celestials, with the Maruts, and the highly blessed Rishis questioned the departed Manes saying, You Pitris with what acts of human beings, who are generally gifted with little understandings, do you become pleased? What gifts made in course of such rites as are performed for improving the position of deceased persons in the other world become inexhaustible in efficacy?
61By doing what acts can men become freed from the debt they owe to their ancestors? We wish to hear this. Great is our curiosity.
62The Pitris said Yoy highly blessed ones, the doubt existing in your minds has been properly explained. Listen as we describe the deeds of righteous men with which we become pleased.
63Blue hued bulls should be liberated. Gifts should be made to us, on the day of the new moon of sesame seeds and water. In the season of rains, lamps should be lighted. By these decds of men they can free themselves from the debt they owe to their ancestors.
64Such gifts never become vain. On the other hand they yield great and endless fruits. The gratification we derive from them is considered to be inexhaustible.
65Those men who gifted with faith, beget offspring, rescue their deceased ancestors from imiserable Hell.
66Hearing these words of the Pitris, Vriddha Gargya, endued with penances and high energy, became filled with wonder so that the hair on his body stood erect. Addressing them he said, Ye having penances for wealth, tell us what the merits are of setting free Bulls having blue complexions. What merits, again, are of the gifts of lamps in the season of rains and the gift of water with sesame seeds?
67The Pitris said If a bull of blue complexion upon being liberated raises a (small) quantity of water with its tail the Pitris become pleased with that water for full sixty thousand years.
68The mud such a bull raises with its horns from the banks (of a river or lake) succeeds, forsooth, in sending the Pitris to the region of Soma.
69By giving lamps in the season of rains one shines with effulgence like Soma himself. The man who gives lamps is never subject to the quality of Darkness.
70Those men who make gifts on the day of the new moon of sesame seeds and water, mixed with honey and using a vessel of copper, O you having penances for wealth, are considered as duly performing a Shraddha with all its mysteries. These men get children of sound health and cheerful minds.
71The merit acquired by the giver of the Pinda takes the forin of the growth of his family. Indeed, he who performs these acts with faith, becomes freed from the debt he owes to the ancestors.
72Thus have been laid down the proper time for the performance of the Shraddha, the ordinances about the rites to be observed the proper person that should be fed at the Shraddha, and the merits that belong to it. I have described everything to you in due orders.
हिन्दी
1युधिष्ठिर ने कहा — हे पितामह, मुझे बताइए कि अत्यन्त दुर्लभ मनुष्यत्व का पद प्राप्त करके और कर्म के इस लोक में आकर दरिद्र पुरुष को अपना हित सिद्ध करने के लिए किस प्रकार आचरण करना चाहिए।
2यह भी बताइए कि समस्त दानों में श्रेष्ठ कौन है, और किन परिस्थितियों में क्या दान देना चाहिए? हे गङ्गापुत्र, मुझे बताइए कि वस्तुतः कौन सम्मान और पूजा के योग्य हैं। आप हमें ये रहस्य समझाइए।
3वैशम्पायन ने कहा — पाण्डुपुत्र उस यशस्वी राजा द्वारा इस प्रकार सम्बोधित किए जाने पर भीष्म ने उस राजा को धर्म के ये महान् रहस्य समझाए।
4भीष्म ने कहा — हे राजन्, हे भारत, एकाग्र मन से मुझसे सुनो, मैं तुम्हें धर्म के वे रहस्य समझाता हूँ जैसे पूर्वकाल में भगवान् व्यास ने मुझे समझाए थे।
5हे राजन्, यह विषय स्वयं देवताओं के लिए भी रहस्य है। पवित्र कर्मों वाले यम ने भलीभाँति पालन किए गए व्रतों और योग-ध्यान की सहायता से अपने तप के उच्च फल के रूप में इन रहस्यों का ज्ञान प्राप्त किया था।
6देवताओं को क्या प्रसन्न करता है, पितरों, ऋषियों, महादेव के गणों, देवी श्री, चित्रगुप्त तथा दिशाओं के शासक महाबली गजों को क्या प्रसन्न करता है; ऋषियों का धर्म क्या है — वह धर्म, जिसमें अनेक रहस्य हैं और जो उच्च फल देता है; जिन्हें महादान कहा जाता है उनका पुण्य क्या है, और समस्त यज्ञों का पुण्य क्या है — हे निष्पाप, जो इन्हें जानता है और जानकर अपने ज्ञान के अनुसार आचरण करता है, वह यदि उस पर कलङ्क हों तो उनसे मुक्त हो जाता है और उपर्युक्त पुण्य प्राप्त करता है।
7एक तेली दस कसाइयों के बराबर है। दस तेलियों के बराबर एक मद्यपायी है। दस मद्यपायियों के बराबर एक वेश्या है। दस वेश्याओं के बराबर एक राजा है।
8कहा जाता है कि एक महान् राजा इन सबके आधे के बराबर है। अतः इनसे दान ग्रहण नहीं करना चाहिए। इसके विपरीत मनुष्य को जीवन के तीनों प्रयोजनों के उस शास्त्र पर ध्यान देना चाहिए जो पवित्र है और जिसका लक्षण धर्म है। इनमें अर्थ और काम स्वभावतः आकर्षक हैं। अतः मनुष्य को एकाग्र मन से धर्म के पवित्र विवेचन सुनने चाहिए, क्योंकि धर्म के रहस्य सुनने के फल अत्यन्त महान् हैं। स्वयं देवताओं द्वारा विहित धर्म से सम्बन्धित प्रत्येक विषय निश्चय ही सुनना चाहिए।
9उसी में श्राद्ध का वह विधान निहित है जिसमें पितरों के रहस्य घोषित किए गए हैं। देवताओं के रहस्य भी वहीं समझाए गए हैं।
10उसमें ऋषियों के महान् पुण्यदायी कर्तव्य और आचरण भी हैं, तथा उनसे जुड़े रहस्य भी। उसमें महान् यज्ञों और सब प्रकार के दानों के पुण्य का विवेचन है।
11जो पुरुष इन विषयों के शास्त्रों को सदा पढ़ते हैं, जो उन्हें भलीभाँति मन में धारण करते हैं, और जो उन्हें सुनकर आचरण में उनका पालन करता है — वे सब स्वयं महाबली नारायण के समान पवित्र और निष्पाप माने जाते हैं।
12गोदान का पुण्य, पवित्र जलों में स्नान का पुण्य, यज्ञों के अनुष्ठान से प्राप्त पुण्य — ये सब वह पुरुष प्राप्त करता है जो अतिथियों का आदरपूर्वक सत्कार करता है।
13जो इन शास्त्रों को सुनते हैं, जो श्रद्धा से सम्पन्न हैं और जिनका हृदय शुद्ध है — यह प्रसिद्ध है कि वे सुख के अनेक लोक जीत लेते हैं। जो पुण्यात्मा पुरुष श्रद्धा से सम्पन्न हैं, वे समस्त पापों से शुद्ध हो जाते हैं और कोई पाप उन्हें छू नहीं सकता। ऐसे पुरुष सदा धर्म में बढ़ते हैं और दिव्य लोक प्राप्त करने में सफल होते हैं।
14एक बार एक दिव्य दूत अपनी इच्छा से इन्द्र की सभा में आया, किन्तु अदृश्य रहते हुए उसने देवराज को इन शब्दों में सम्बोधित किया —
15प्रत्येक वाञ्छनीय गुण से सम्पन्न अश्विनीकुमारों (दिव्य वैद्यों) की आज्ञा से मैं इस स्थान पर आया हूँ, जहाँ मैं मनुष्यों, पितरों और देवताओं को एक साथ एकत्र देख रहा हूँ।
16जो श्राद्ध करता है और जो श्राद्ध में भोजन करता है, उसके लिए मैथुन क्यों निषिद्ध है? श्राद्ध में तीन पिण्ड अलग-अलग क्यों अर्पित किए जाते हैं?
17उन पिण्डों में से पहला किसे अर्पित किया जाना चाहिए? दूसरा किसे? और शेष तीसरा किसका कहा गया है? मैं यह सब जानना चाहता हूँ!
18जब दिव्य दूत ने धर्म और कर्तव्य से सम्बद्ध ये वचन कहे, तब पूर्व दिशा की ओर बैठे देवताओं तथा पितरों ने भी उस आकाशचारी की प्रशंसा करते हुए इस प्रकार कहा —
19पितरों ने कहा — तुम्हारा स्वागत है और तुम्हारा कल्याण हो! हे आकाशचारियों में श्रेष्ठ, सुनो! तुमने जो प्रश्न पूछा है, वह उच्च और गम्भीर अर्थ से भरा है।
20जो पुरुष जिस दिन श्राद्ध करता है अथवा श्राद्ध में भोजन करता है, उसी दिन मैथुन में प्रवृत्त होता है, उसके पितरों को पूरे एक मास तक उसके वीर्य पर लेटना पड़ता है।
21अब हम श्राद्ध में अर्पित पिण्डों का विभाजन बताएँगे। प्रथम पिण्ड को जल में डाला जाने वाला समझना चाहिए।
22दूसरा पिण्ड पत्नियों में से एक को खाने के लिए देना चाहिए। तीसरा पिण्ड प्रज्वलित अग्नि में डालना चाहिए।
23यही श्राद्ध का विधान है। यही धार्मिक कर्मों का विधान है। जो पुरुष इस विधान के अनुसार आचरण करता है, उसके पितर उससे प्रसन्न होते हैं और सदा आनन्दित रहते हैं। ऐसे पुरुष की सन्तति बढ़ती है और उसके पास सदा अक्षय धन रहता है।
24दिव्य दूत ने कहा — आपने पिण्डों का विभाजन और उन तीनों को क्रमशः अर्पित करने की विधि तथा उसके कारण भी बताए।
25जो पिण्ड जल में डाला जाता है, वह किस तक पहुँचता है? इस प्रकार डाले जाने से वह देवताओं को कैसे प्रसन्न करता है, और पितरों का उद्धार कैसे करता है?
26दूसरा पिण्ड पत्नी खाती है। यह विधान में कहा गया है। तब उस पुरुष के पितर उसके भोक्ता कैसे बनते हैं?
27अन्तिम पिण्ड प्रज्वलित अग्नि में जाता है। वह पिण्ड आप तक पहुँचने में कैसे सफल होता है, अथवा वह कौन है जिसके पास वह जाता है?
28मैं यह सुनना चाहता हूँ — अर्थात् जल में डालकर, पत्नी को देकर और प्रज्वलित अग्नि में डालकर इस प्रकार अर्पित किए जाने पर श्राद्ध के पिण्डों की क्या गति होती है।
29पितरों ने कहा — तुमने जो प्रश्न पूछा है, वह गम्भीर अर्थ से भरा है। उसमें रहस्य निहित है और वह अद्भुत है। हे आकाशचारी, हम तुमसे अत्यन्त प्रसन्न हुए हैं।
30स्वयं देवता और मुनि भी पितरों के सम्मान में किए गए कर्मों की प्रशंसा करते हैं। वे भी नहीं जानते कि पितरों के सम्मान में किए गए कर्मों के विधानों के निश्चित निष्कर्ष क्या हैं।
31महान् यश वाले उन विद्वान् ब्राह्मण, महान्, अमर और श्रेष्ठ मार्कण्डेय को छोड़कर, जो सदा पितरों के भक्त हैं, उनमें से कोई भी पितरों के विधानों के रहस्यों का ज्ञाता नहीं है।
32दिव्य दूत के प्रश्न के उत्तर में स्वयं पितरों द्वारा समझाए गए श्राद्ध के तीन पिण्डों की गति भगवान् व्यास से सुनकर मैं वही तुम्हें समझाऊँगा। हे राजन्, सुनो कि श्राद्ध के विधानों के निष्कर्ष क्या हैं।
33हे भारत, ध्यान से मुझसे सुनो, मैं बताता हूँ कि तीन पिण्डों की क्या गति होती है। जो पिण्ड जल में जाता है, वह चन्द्रदेव को प्रसन्न करने वाला माना जाता है।
34हे महाबुद्धिमान्, वे देव प्रसन्न होकर बदले में अन्य देवताओं तथा उनके साथ पितरों को भी तृप्त करते हैं। विधान में कहा गया है कि दूसरा पिण्ड पत्नी खाए।
35सन्तति की सदा कामना करने वाले पितर घर की स्त्री को सन्तान प्रदान करते हैं। अब मुझसे सुनो, मैं बताता हूँ कि प्रज्वलित अग्नि में डाले गए पिण्ड का क्या होता है।
36उस पिण्ड से पितर प्रसन्न होते हैं, और उसके फलस्वरूप उसे अर्पित करने वाले पुरुष को समस्त कामनाओं की पूर्ति प्रदान करते हैं। इस प्रकार मैंने तुम्हें श्राद्ध में अर्पित और तीनों (अर्थात् जल, पत्नी और अग्नि) को समर्पित तीन पिण्डों की गति के विषय में सब कुछ बता दिया।
37जो ब्राह्मण श्राद्ध में पुरोहित बनता है, वह उस कर्म से श्राद्ध करने वाले पुरुष का पितर बन जाता है। अतः उसे उस दिन अपनी ही पत्नी के साथ भी मैथुन से विरत रहना चाहिए।
38हे आकाशचारियों में श्रेष्ठ, जो पुरुष श्राद्ध में भोजन करता है, उसे उस दिन पवित्र रहना चाहिए। इससे भिन्न आचरण करने पर मनुष्य निश्चय ही वह पाप करता है जो मैंने बताया। यह अन्यथा नहीं हो सकता।
39अतः जो ब्राह्मण श्राद्ध में अर्पित अन्न खाने के लिए निमन्त्रित किया जाए, उसे स्नान से अपने को शुद्ध करके भोजन करना चाहिए और उस दिन प्रत्येक प्रकार की हिंसा अथवा अनिष्ट से विरत रहकर पवित्र रहना चाहिए। ऐसे पुरुष की सन्तति बढ़ती है, और जो उसे भोजन कराता है वह भी वही फल पाता है।
40भीष्म ने कहा — पितरों के ऐसा कहने के पश्चात् विद्युत्प्रभ नामक कठोर तप वाले एक ऋषि, जिनका रूप सूर्य के समान देदीप्यमान था, बोले।
41पितरों द्वारा समझाए गए धर्म के वे रहस्य सुनकर उन्होंने शक्र को सम्बोधित करके कहा — मोह से मूढ़ होकर मनुष्य मध्यवर्ती योनियों में जन्मे अगणित प्राणियों का वध करते हैं — जैसे कीट, चींटी, सर्प, भेड़, मृग और पक्षी। इन कर्मों से वे महान् पाप करते हैं। किन्तु इसका प्रतिकार क्या है?
42जब यह प्रश्न पूछा गया, तब समस्त देवताओं, तप को ही धन मानने वाले ऋषियों तथा परम भाग्यशाली पितरों ने उस तपस्वी की प्रशंसा की।
43शक्र ने कहा — मन में कुरुक्षेत्र, गया, गङ्गा, प्रभास तथा पुष्कर के सरोवरों का स्मरण करके मनुष्य को अपना सिर जल में डुबाना चाहिए।
44ऐसा करने से वह राहु से मुक्त चन्द्रमा के समान अपने समस्त पापों से शुद्ध हो जाता है। उसे इस प्रकार लगातार तीन दिन स्नान करना चाहिए और फिर प्रत्येक दिन उपवास करना चाहिए।
45इसके अतिरिक्त उसे (स्नान के पश्चात्) गौ की पीठ का स्पर्श करना चाहिए और उसकी पूँछ को सिर झुकाकर प्रणाम करना चाहिए। इसके पश्चात् विद्युत्प्रभ ने फिर वासव को सम्बोधित करके कहा — मैं एक और सूक्ष्म विधि बताऊँगा। हे शतक्रतु, मुझसे सुनिए।
46वट की लटकती जड़ों के कषाय चूर्ण से मलकर और प्रियङ्गु के तेल से लेप करके मनुष्य को दूध में मिला षष्टिक धान का अन्न खाना चाहिए। ऐसा करने से वह अपने समस्त पापों से शुद्ध हो जाता है।
47अब एक और रहस्य सुनिए, जो बहुतों को अज्ञात है किन्तु जिसे ऋषियों ने ध्यान की सहायता से खोजा। मैंने इसे बृहस्पति से तब सुना जब वे महादेव के समक्ष इसका पाठ कर रहे थे।
48हे देवराज, हे शचीपते, रुद्र को साथ लेकर इसे सुनिए। यदि कोई पुरुष पर्वत पर चढ़कर वहाँ एक पैर पर खड़ा हो, भुजाएँ ऊपर उठाकर जोड़े हुए और अन्न से विरत रहकर प्रज्वलित अग्नि की ओर देखता रहे, तो वह कठोर तप का पुण्य प्राप्त करता है और उपवासों का फल पाता है।
49सूर्य की किरणों से तप्त होकर वह अपने समस्त पापों से शुद्ध हो जाता है। जो ग्रीष्म और शीत दोनों ऋतुओं में ऐसा करता है, वह प्रत्येक पाप से मुक्त हो जाता है।
50प्रत्येक पाप से शुद्ध होकर मनुष्य सदा के लिए वर्ण की कान्ति प्राप्त करता है। ऐसा पुरुष सूर्य के समान तेज से जलता है अथवा चन्द्रमा के समान सौन्दर्य से शोभा पाता है।
51इसके पश्चात् देवराज, अर्थात् शतक्रतु, देवताओं के मध्य बैठे हुए, बृहस्पति को इन उत्तम वचनों से मधुरतापूर्वक सम्बोधित करके बोले —
52हे भगवन्, आप धर्म के उन रहस्यों का वर्णन कीजिए जो मनुष्यों के लिए सुख से भरे हैं, तथा वे दोष भी बताइए जो वे करते हैं, और उनके रहस्य भी।
53बृहस्पति ने कहा — जो सूर्य की ओर मुँह करके मूत्र त्यागते हैं, जो वायु का आदर नहीं करते, जो प्रज्वलित अग्नि में आहुतियाँ नहीं देते, जो अत्यन्त छोटे बछड़े वाली गौ को अधिक से अधिक दूध पाने की इच्छा से दुहते हैं — वे अनेक पाप करते हैं। हे शचीपते, मैं बताऊँगा कि वे दोष क्या हैं। आप मुझसे सुनिए।
54हे वासव, सूर्य, वायु, यज्ञ की आहुतियों को ढोने वाली अग्नि तथा समस्त प्राणियों की माता गौएँ — हे शक्र, ये समस्त लोकों के उद्धार के लिए स्वयं स्वयंभू द्वारा रचे गए थे। ये मनुष्यों के देवता हैं। धर्म के समस्त निष्कर्ष सुनिए।
55जो दुष्ट पुरुष और दुष्ट स्त्रियाँ सूर्य की ओर मुँह करके मूत्र त्यागती हैं, वे छियासी वर्ष तक महान् अपयश में जीती हैं।
56हे शक्र, जो पुरुष वायु का आदर नहीं करता, उसे ऐसी सन्तान होती है जो अपनी माता के गर्भ से समय से पूर्व निकल आती है। जो पुरुष प्रज्वलित अग्नि में आहुतियाँ नहीं देते, वे पाते हैं कि जब वे अपने अभीष्ट कर्मों के लिए अग्नि प्रज्वलित करते हैं, तब वह अग्नि उनकी आहुतियाँ खाने से इनकार कर देती है।
57जो पुरुष अत्यन्त छोटे बछड़ों वाली गौओं का दूध पीते हैं, उन्हें अपने वंश की परम्परा चलाने के लिए कभी सन्तान नहीं होती।
58ऐसे पुरुष अपनी सन्तान को मरते और अपने कुल को क्षीण होते देखते हैं। ये उन कर्मों के परिणाम हैं जिन्हें अपने-अपने कुलों में वयोवृद्ध और आदरणीय द्विजों ने देखा और बताया है।
59अतः जो पुरुष अपनी समृद्धि सुरक्षित रखना चाहता है, उसे सदा निषिद्ध कर्मों से बचना चाहिए और केवल वही करना चाहिए जो करने का विधान है। जो मैं तुमसे कहता हूँ, वह परम सत्य है।
60देवगुरु के ऐसा कहने के पश्चात् मरुतों सहित परम भाग्यशाली देवताओं तथा परम भाग्यशाली ऋषियों ने पितरों से पूछा — हे पितरो, प्रायः अल्पबुद्धि वाले मनुष्यों के किन कर्मों से आप प्रसन्न होते हैं? मृत पुरुषों की परलोक में स्थिति सुधारने के लिए किए जाने वाले कर्मों में दिए गए कौन-से दान अक्षय फल वाले होते हैं?
61मनुष्य किन कर्मों से अपने पूर्वजों के प्रति अपने ऋण से मुक्त हो सकते हैं? हम यह सुनना चाहते हैं। हमारी उत्सुकता महान् है।
62पितरों ने कहा — हे परम भाग्यशालियो, तुम्हारे मन में जो सन्देह है, वह भलीभाँति प्रकट किया गया है। सुनो, हम उन धर्मात्मा पुरुषों के कर्मों का वर्णन करते हैं जिनसे हम प्रसन्न होते हैं।
63नील वर्ण के बैल छोड़े जाने चाहिए। अमावस्या के दिन हमें तिल और जल का दान करना चाहिए। वर्षा ऋतु में दीप जलाए जाने चाहिए। मनुष्य इन कर्मों से अपने पूर्वजों के प्रति अपने ऋण से मुक्त हो सकते हैं।
64ऐसे दान कभी व्यर्थ नहीं होते। इसके विपरीत वे महान् और अक्षय फल देते हैं। उनसे हमें जो तृप्ति मिलती है, वह अक्षय मानी जाती है।
65जो पुरुष श्रद्धा से सम्पन्न होकर सन्तान उत्पन्न करते हैं, वे अपने दिवंगत पूर्वजों को दुःखमय नरक से उबारते हैं।
66पितरों के ये वचन सुनकर तप और महान् तेज से सम्पन्न वृद्ध गार्ग्य विस्मय से इतने भर गए कि उनके शरीर के रोएँ खड़े हो गए। उन्हें सम्बोधित करके उन्होंने कहा — हे तपोधनो, हमें बताइए कि नील वर्ण के बैलों को छोड़ने का क्या पुण्य है। और वर्षा ऋतु में दीपदान तथा तिल सहित जल के दान का क्या पुण्य है?
67पितरों ने कहा — यदि छोड़ा गया नील वर्ण का बैल अपनी पूँछ से (थोड़ा-सा) जल उछाल दे, तो पितर उस जल से पूरे साठ सहस्र वर्ष तक तृप्त रहते हैं।
68ऐसा बैल (नदी या सरोवर के) तटों से अपने सींगों से जो कीचड़ उछालता है, वह निश्चय ही पितरों को सोम के लोक तक पहुँचाने में समर्थ होता है।
69वर्षा ऋतु में दीपदान करने से मनुष्य स्वयं सोम के समान तेज से देदीप्यमान होता है। जो दीपदान करता है, वह कभी तमोगुण के अधीन नहीं होता।
70हे तपोधनो, जो पुरुष अमावस्या के दिन ताँबे के पात्र का प्रयोग करके मधु मिला तिल और जल का दान करते हैं, वे समस्त रहस्यों सहित विधिपूर्वक श्राद्ध करने वाले माने जाते हैं। ऐसे पुरुषों को उत्तम स्वास्थ्य और प्रसन्न मन वाली सन्तान प्राप्त होती है।
71पिण्डदाता द्वारा अर्जित पुण्य उसके कुल की वृद्धि का रूप ले लेता है। वस्तुतः जो श्रद्धा से ये कर्म करता है, वह अपने पूर्वजों के प्रति अपने ऋण से मुक्त हो जाता है।
72इस प्रकार श्राद्ध के अनुष्ठान का उचित काल, आचरणीय कर्मों के विधान, श्राद्ध में भोजन कराने योग्य उचित पुरुष तथा उससे जुड़े पुण्य — ये सब बताए गए। मैंने तुम्हें सब कुछ यथाक्रम बता दिया।
नेपाली
1युधिष्ठिरले भने — हे पितामह, मलाई भन्नुहोस् कि अत्यन्त दुर्लभ मनुष्यत्वको पद प्राप्त गरेर र कर्मको यस लोकमा आएर दरिद्र पुरुषले आफ्नो हित सिद्ध गर्न कसरी आचरण गर्नुपर्छ।
2यो पनि भन्नुहोस् कि सम्पूर्ण दानमा श्रेष्ठ कुन हो, र कुन परिस्थितिमा के दान दिनुपर्छ? हे गङ्गापुत्र, मलाई भन्नुहोस् कि वस्तुतः को सम्मान र पूजाका योग्य छन्। तपाईं हामीलाई यी रहस्य बुझाउनुहोस्।
3वैशम्पायनले भने — पाण्डुपुत्र त्यस यशस्वी राजाद्वारा यसरी सम्बोधन गरिएपछि भीष्मले त्यस राजालाई धर्मका यी महान् रहस्य बुझाए।
4भीष्मले भने — हे राजन्, हे भारत, एकाग्र मनले मबाट सुन, म तिमीलाई धर्मका ती रहस्य बुझाउँछु जसरी पूर्वकालमा भगवान् व्यासले मलाई बुझाएका थिए।
5हे राजन्, यो विषय स्वयं देवताहरूका लागि पनि रहस्य हो। पवित्र कर्म भएका यमले राम्ररी पालन गरिएका व्रत र योगध्यानको सहायताले आफ्नो तपको उच्च फलका रूपमा यी रहस्यको ज्ञान प्राप्त गरेका थिए।
6देवताहरूलाई के प्रसन्न पार्दछ, पितृ, ऋषि, महादेवका गण, देवी श्री, चित्रगुप्त तथा दिशाका शासक महाबली गजलाई के प्रसन्न पार्दछ; ऋषिहरूको धर्म के हो — त्यो धर्म, जसमा अनेक रहस्य छन् र जसले उच्च फल दिन्छ; जसलाई महादान भनिन्छ तिनको पुण्य के हो, र सम्पूर्ण यज्ञको पुण्य के हो — हे निष्पाप, जसले यी जान्दछ र जानेर आफ्नो ज्ञानअनुसार आचरण गर्दछ, ऊ यदि उसमा कलङ्क छन् भने तीबाट मुक्त हुन्छ र उपर्युक्त पुण्य प्राप्त गर्दछ।
7एक तेली दस कसाईबराबर छ। दस तेलीबराबर एक मद्यपायी छ। दस मद्यपायीबराबर एक वेश्या छ। दस वेश्याबराबर एक राजा छ।
8भनिन्छ कि एक महान् राजा यी सबैको आधाबराबर छ। अतः यिनीहरूबाट दान ग्रहण गर्नुहुँदैन। यसको विपरीत मानिसले जीवनका तीनै प्रयोजनका त्यस शास्त्रमा ध्यान दिनुपर्छ जो पवित्र छ र जसको लक्षण धर्म हो। यीमध्ये अर्थ र काम स्वभावैले आकर्षक छन्। अतः मानिसले एकाग्र मनले धर्मका पवित्र विवेचन सुन्नुपर्छ, किनभने धर्मका रहस्य सुन्नुका फल अत्यन्त महान् छन्। स्वयं देवताहरूद्वारा विहित धर्मसँग सम्बन्धित प्रत्येक विषय निश्चय नै सुन्नुपर्छ।
9त्यसैमा श्राद्धको त्यो विधान निहित छ जसमा पितृहरूका रहस्य घोषित गरिएका छन्। देवताहरूका रहस्य पनि त्यहीँ बुझाइएका छन्।
10त्यसमा ऋषिहरूका महान् पुण्यदायी कर्तव्य र आचरण पनि छन्, तथा तिनसँग जोडिएका रहस्य पनि। त्यसमा महान् यज्ञ र सबै प्रकारका दानका पुण्यको विवेचन छ।
11जुन पुरुषहरूले यी विषयका शास्त्र सधैँ पढ्छन्, जसले तिनलाई राम्ररी मनमा धारण गर्दछन्, र जसले तिनलाई सुनेर आचरणमा तिनको पालन गर्दछ — तिनीहरू सबै स्वयं महाबली नारायणसमान पवित्र र निष्पाप मानिन्छन्।
12गोदानको पुण्य, पवित्र जलमा स्नानको पुण्य, यज्ञका अनुष्ठानबाट प्राप्त पुण्य — यी सबै त्यो पुरुषले प्राप्त गर्दछ जसले अतिथिहरूको आदरपूर्वक सत्कार गर्दछ।
13जसले यी शास्त्र सुन्छन्, जो श्रद्धाले सम्पन्न छन् र जसको हृदय शुद्ध छ — यो प्रसिद्ध छ कि तिनीहरूले सुखका अनेक लोक जित्दछन्। जुन पुण्यात्मा पुरुषहरू श्रद्धाले सम्पन्न छन्, तिनीहरू सम्पूर्ण पापबाट शुद्ध हुन्छन् र कुनै पापले तिनीहरूलाई छुन सक्दैन। यस्ता पुरुष सधैँ धर्ममा बढ्दछन् र दिव्य लोक प्राप्त गर्न सफल हुन्छन्।
14एक पटक एक दिव्य दूत आफ्नै इच्छाले इन्द्रको सभामा आयो, तर अदृश्य रहँदै उसले देवराजलाई यी शब्दमा सम्बोधन गर्यो —
15प्रत्येक वाञ्छनीय गुणले सम्पन्न अश्विनीकुमार (दिव्य वैद्य)को आज्ञाले म यस स्थानमा आएको छु, जहाँ म मानिस, पितृ र देवताहरूलाई एकैसाथ जम्मा भएको देख्दै छु।
16जसले श्राद्ध गर्दछ र जसले श्राद्धमा भोजन गर्दछ, उसका लागि मैथुन किन निषिद्ध छ? श्राद्धमा तीन पिण्ड अलग-अलग किन अर्पण गरिन्छन्?
17ती पिण्डमध्ये पहिलो कसलाई अर्पण गरिनुपर्छ? दोस्रो कसलाई? र बाँकी तेस्रो कसको भनिएको छ? म यो सबै जान्न चाहन्छु!
18जब दिव्य दूतले धर्म र कर्तव्यसँग सम्बद्ध यी वचन भन्यो, तब पूर्व दिशातिर बसेका देवता तथा पितृहरूले पनि त्यस आकाशचारीको प्रशंसा गर्दै यसरी भने —
19पितृहरूले भने — तिम्रो स्वागत छ र तिम्रो कल्याण होस्! हे आकाशचारीहरूमा श्रेष्ठ, सुन! तिमीले सोधेको प्रश्न उच्च र गम्भीर अर्थले भरिएको छ।
20जुन पुरुष जुन दिन श्राद्ध गर्दछ अथवा श्राद्धमा भोजन गर्दछ, त्यसै दिन मैथुनमा प्रवृत्त हुन्छ, उसका पितृहरूले पूरै एक महिनासम्म उसको वीर्यमाथि पल्टिनुपर्दछ।
21अब हामी श्राद्धमा अर्पण गरिने पिण्डको विभाजन बताउनेछौँ। पहिलो पिण्डलाई जलमा हालिने ठान्नुपर्छ।
22दोस्रो पिण्ड पत्नीहरूमध्ये एकलाई खान दिनुपर्छ। तेस्रो पिण्ड प्रज्वलित अग्निमा हाल्नुपर्छ।
23यही श्राद्धको विधान हो। यही धार्मिक कर्मको विधान हो। जुन पुरुषले यस विधानअनुसार आचरण गर्दछ, उसका पितृहरू उससँग प्रसन्न हुन्छन् र सधैँ आनन्दित रहन्छन्। यस्तो पुरुषको सन्तति बढ्छ र उससँग सधैँ अक्षय धन रहन्छ।
24दिव्य दूतले भन्यो — तपाईंहरूले पिण्डको विभाजन र ती तीनलाई क्रमशः अर्पण गर्ने विधि तथा त्यसका कारण पनि बताउनुभयो।
25जुन पिण्ड जलमा हालिन्छ, त्यो कोसम्म पुग्दछ? यसरी हालिनाले त्यसले देवताहरूलाई कसरी प्रसन्न पार्दछ, र पितृहरूको उद्धार कसरी गर्दछ?
26दोस्रो पिण्ड पत्नीले खान्छिन्। यो विधानमा भनिएको छ। तब त्यस पुरुषका पितृहरू त्यसका भोक्ता कसरी बन्छन्?
27अन्तिम पिण्ड प्रज्वलित अग्निमा जान्छ। त्यो पिण्ड तपाईंहरूसम्म पुग्न कसरी सफल हुन्छ, अथवा त्यो को हो जसकहाँ त्यो जान्छ?
28म यो सुन्न चाहन्छु — अर्थात् जलमा हालेर, पत्नीलाई दिएर र प्रज्वलित अग्निमा हालेर यसरी अर्पण गरिँदा श्राद्धका पिण्डको के गति हुन्छ।
29पितृहरूले भने — तिमीले सोधेको प्रश्न गम्भीर अर्थले भरिएको छ। त्यसमा रहस्य निहित छ र त्यो अद्भुत छ। हे आकाशचारी, हामी तिमीसँग अत्यन्त प्रसन्न भएका छौँ।
30स्वयं देवता र मुनिहरूले पनि पितृहरूको सम्मानमा गरिएका कर्मको प्रशंसा गर्दछन्। तिनीहरूले पनि जान्दैनन् कि पितृहरूको सम्मानमा गरिएका कर्मका विधानका निश्चित निष्कर्ष के हुन्।
31महान् यश भएका ती विद्वान् ब्राह्मण, महान्, अमर र श्रेष्ठ मार्कण्डेयलाई छोडेर, जो सधैँ पितृहरूका भक्त छन्, तिनीहरूमध्ये कोही पनि पितृहरूका विधानका रहस्यका ज्ञाता छैनन्।
32दिव्य दूतको प्रश्नको उत्तरमा स्वयं पितृहरूद्वारा बुझाइएको श्राद्धका तीन पिण्डको गति भगवान् व्यासबाट सुनेर म त्यही तिमीलाई बुझाउँछु। हे राजन्, सुन कि श्राद्धका विधानका निष्कर्ष के हुन्।
33हे भारत, ध्यान दिएर मबाट सुन, म बताउँछु कि तीन पिण्डको के गति हुन्छ। जुन पिण्ड जलमा जान्छ, त्यो चन्द्रदेवलाई प्रसन्न पार्ने मानिन्छ।
34हे महाबुद्धिमान्, ती देव प्रसन्न भई बदलामा अन्य देवता तथा तिनीहरूसँगै पितृहरूलाई पनि तृप्त पार्दछन्। विधानमा भनिएको छ कि दोस्रो पिण्ड पत्नीले खाऊन्।
35सन्ततिको सधैँ कामना गर्ने पितृहरूले घरकी स्त्रीलाई सन्तान प्रदान गर्दछन्। अब मबाट सुन, म बताउँछु कि प्रज्वलित अग्निमा हालिएको पिण्डको के हुन्छ।
36त्यस पिण्डबाट पितृहरू प्रसन्न हुन्छन्, र त्यसको फलस्वरूप त्यो अर्पण गर्ने पुरुषलाई सम्पूर्ण कामनाको पूर्ति प्रदान गर्दछन्। यसरी मैले तिमीलाई श्राद्धमा अर्पण गरिएका र तीनै (अर्थात् जल, पत्नी र अग्नि)लाई समर्पित तीन पिण्डको गतिका विषयमा सबै कुरा बताइदिएँ।
37जुन ब्राह्मण श्राद्धमा पुरोहित बन्दछ, ऊ त्यस कर्मबाट श्राद्ध गर्ने पुरुषको पितृ बन्दछ। अतः उसले त्यस दिन आफ्नै पत्नीसँग पनि मैथुनबाट विरत रहनुपर्छ।
38हे आकाशचारीहरूमा श्रेष्ठ, जुन पुरुषले श्राद्धमा भोजन गर्दछ, उसले त्यस दिन पवित्र रहनुपर्छ। यसभन्दा भिन्न आचरण गर्दा मानिसले निश्चय नै त्यो पाप गर्दछ जो मैले बताएँ। यो अन्यथा हुन सक्दैन।
39अतः जुन ब्राह्मणलाई श्राद्धमा अर्पण गरिएको अन्न खान निम्तो दिइयोस्, उसले स्नानले आफूलाई शुद्ध पारेर भोजन गर्नुपर्छ र त्यस दिन प्रत्येक प्रकारको हिंसा अथवा अनिष्टबाट विरत रहेर पवित्र रहनुपर्छ। यस्तो पुरुषको सन्तति बढ्छ, र जसले उसलाई भोजन गराउँछ उसले पनि त्यही फल पाउँछ।
40भीष्मले भने — पितृहरूले यसो भनेपछि विद्युत्प्रभ नामक कठोर तप भएका एक ऋषि, जसको रूप सूर्यजस्तै देदीप्यमान थियो, बोले।
41पितृहरूद्वारा बुझाइएका धर्मका ती रहस्य सुनेर उनले शक्रलाई सम्बोधन गरेर भने — मोहले मूढ भई मानिसहरूले मध्यवर्ती योनिमा जन्मेका अगणित प्राणीको वध गर्दछन् — जस्तै कीरा, कमिला, सर्प, भेडा, मृग र पक्षी। यी कर्मबाट तिनीहरूले महान् पाप गर्दछन्। तर यसको प्रतिकार के छ?
42जब यो प्रश्न सोधियो, तब सम्पूर्ण देवता, तपलाई नै धन मान्ने ऋषिहरू तथा परम भाग्यशाली पितृहरूले त्यस तपस्वीको प्रशंसा गरे।
43शक्रले भने — मनमा कुरुक्षेत्र, गया, गङ्गा, प्रभास तथा पुष्करका सरोवर सम्झेर मानिसले आफ्नो शिर जलमा डुबाउनुपर्छ।
44यसो गर्नाले ऊ राहुबाट मुक्त चन्द्रमाजस्तै आफ्ना सम्पूर्ण पापबाट शुद्ध हुन्छ। उसले यसरी लगातार तीन दिन स्नान गर्नुपर्छ र त्यसपछि प्रत्येक दिन उपवास गर्नुपर्छ।
45यसबाहेक उसले (स्नानपछि) गाईको पिठ्युँ स्पर्श गर्नुपर्छ र त्यसको पुच्छरलाई शिर झुकाएर प्रणाम गर्नुपर्छ। यसपछि विद्युत्प्रभले फेरि वासवलाई सम्बोधन गरेर भने — म अर्को एउटा सूक्ष्म विधि बताउँछु। हे शतक्रतु, मबाट सुन्नुहोस्।
46बरका झुण्डिएका जराका कषाय चूर्णले मलेर र प्रियङ्गुको तेलले लेप गरेर मानिसले दूधमा मिसाइएको षष्टिक धानको अन्न खानुपर्छ। यसो गर्नाले ऊ आफ्ना सम्पूर्ण पापबाट शुद्ध हुन्छ।
47अब अर्को एउटा रहस्य सुन्नुहोस्, जो धेरैलाई अज्ञात छ तर जसलाई ऋषिहरूले ध्यानको सहायताले पत्ता लगाए। मैले यो बृहस्पतिबाट तब सुनेँ जब उनी महादेवको समक्ष यसको पाठ गरिरहेका थिए।
48हे देवराज, हे शचीपति, रुद्रलाई साथ लिएर यो सुन्नुहोस्। यदि कुनै पुरुष पर्वतमा चढेर त्यहाँ एउटा खुट्टामा उभिन्छ, पाखुरा माथि उठाएर जोडेको र अन्नबाट विरत रहेर प्रज्वलित अग्नितिर हेरिरहन्छ भने, उसले कठोर तपको पुण्य प्राप्त गर्दछ र उपवासको फल पाउँछ।
49सूर्यका किरणले तातिएर ऊ आफ्ना सम्पूर्ण पापबाट शुद्ध हुन्छ। जसले ग्रीष्म र शीत दुवै ऋतुमा यसो गर्दछ, ऊ प्रत्येक पापबाट मुक्त हुन्छ।
50प्रत्येक पापबाट शुद्ध भई मानिसले सधैँका लागि वर्णको कान्ति प्राप्त गर्दछ। यस्तो पुरुष सूर्यजस्तै तेजले बल्दछ अथवा चन्द्रमाजस्तै सौन्दर्यले शोभा पाउँछ।
51यसपछि देवराज, अर्थात् शतक्रतु, देवताहरूको बीचमा बसेर, बृहस्पतिलाई यी उत्तम वचनले मधुरतापूर्वक सम्बोधन गर्दै भने —
52हे भगवन्, तपाईं धर्मका ती रहस्यको वर्णन गर्नुहोस् जो मानिसहरूका लागि सुखले भरिएका छन्, तथा ती दोष पनि बताउनुहोस् जो तिनीहरूले गर्दछन्, र तिनका रहस्य पनि।
53बृहस्पतिले भने — जसले सूर्यतिर मुख फर्काएर मूत्र त्याग्छन्, जसले वायुको आदर गर्दैनन्, जसले प्रज्वलित अग्निमा आहुति दिँदैनन्, जसले अत्यन्त सानो बाछो भएकी गाईलाई सकेसम्म धेरै दूध पाउने इच्छाले दुहुन्छन् — तिनीहरूले अनेक पाप गर्दछन्। हे शचीपति, म बताउँछु कि ती दोष के हुन्। तपाईं मबाट सुन्नुहोस्।
54हे वासव, सूर्य, वायु, यज्ञका आहुति बोक्ने अग्नि तथा सम्पूर्ण प्राणीकी माता गाईहरू — हे शक्र, यी सम्पूर्ण लोकको उद्धारका लागि स्वयं स्वयम्भूद्वारा रचिएका थिए। यी मानिसहरूका देवता हुन्। धर्मका सम्पूर्ण निष्कर्ष सुन्नुहोस्।
55जुन दुष्ट पुरुष र दुष्ट स्त्रीहरू सूर्यतिर मुख फर्काएर मूत्र त्याग्छन्, तिनीहरू छयासी वर्षसम्म महान् अपयशमा बाँच्दछन्।
56हे शक्र, जुन पुरुषले वायुको आदर गर्दैन, उसलाई यस्तो सन्तान हुन्छ जो आफ्नी आमाको गर्भबाट समयअघि नै निस्कन्छ। जुन पुरुषहरूले प्रज्वलित अग्निमा आहुति दिँदैनन्, तिनीहरूले पाउँछन् कि जब तिनीहरू आफ्ना अभीष्ट कर्मका लागि अग्नि प्रज्वलित गर्दछन्, तब त्यो अग्निले तिनीहरूका आहुति खान अस्वीकार गर्दछ।
57जुन पुरुषहरूले अत्यन्त सानो बाछो भएकी गाईको दूध पिउँछन्, तिनीहरूलाई आफ्नो वंशको परम्परा चलाउन कहिल्यै सन्तान हुँदैन।
58यस्ता पुरुषहरूले आफ्ना सन्तानलाई मर्दै र आफ्नो कुललाई क्षीण हुँदै देख्दछन्। यी ती कर्मका परिणाम हुन् जसलाई आ-आफ्ना कुलमा वयोवृद्ध र आदरणीय द्विजहरूले देखेका र बताएका छन्।
59अतः जुन पुरुषले आफ्नो समृद्धि सुरक्षित राख्न चाहन्छ, उसले सधैँ निषिद्ध कर्मबाट बच्नुपर्छ र केवल त्यही गर्नुपर्छ जो गर्ने विधान छ। म तिमीलाई जे भन्दछु, त्यो परम सत्य हो।
60देवगुरुले यसो भनेपछि मरुत्हरूसहित परम भाग्यशाली देवता तथा परम भाग्यशाली ऋषिहरूले पितृहरूलाई सोधे — हे पितृहरू, प्रायः अल्पबुद्धि भएका मानिसका कुन कर्मबाट तपाईंहरू प्रसन्न हुनुहुन्छ? मृत पुरुषहरूको परलोकमा स्थिति सुधार्नका लागि गरिने कर्ममा दिइएका कुन दान अक्षय फल भएका हुन्छन्?
61मानिसहरू कुन कर्मबाट आफ्ना पूर्वजप्रतिको आफ्नो ऋणबाट मुक्त हुन सक्दछन्? हामी यो सुन्न चाहन्छौँ। हाम्रो उत्सुकता महान् छ।
62पितृहरूले भने — हे परम भाग्यशालीहरू, तिम्रो मनमा जुन सन्देह छ, त्यो राम्ररी प्रकट गरिएको छ। सुन, हामी ती धर्मात्मा पुरुषका कर्मको वर्णन गर्दछौँ जसबाट हामी प्रसन्न हुन्छौँ।
63नीलो वर्णका गोरु छोडिनुपर्छ। औंसीको दिन हामीलाई तिल र जलको दान गर्नुपर्छ। वर्षा ऋतुमा दीप बालिनुपर्छ। मानिसहरू यी कर्मबाट आफ्ना पूर्वजप्रतिको आफ्नो ऋणबाट मुक्त हुन सक्दछन्।
64यस्ता दान कहिल्यै व्यर्थ हुँदैनन्। यसको विपरीत ती महान् र अक्षय फल दिन्छन्। तिनबाट हामीलाई मिल्ने तृप्ति अक्षय मानिन्छ।
65जुन पुरुषहरू श्रद्धाले सम्पन्न भई सन्तान उत्पन्न गर्दछन्, तिनीहरूले आफ्ना दिवङ्गत पूर्वजलाई दुःखमय नरकबाट उद्धार गर्दछन्।
66पितृहरूका यी वचन सुनेर तप र महान् तेजले सम्पन्न वृद्ध गार्ग्य विस्मयले यति भरिए कि उनको शरीरका रौँ ठाडा भए। तिनीहरूलाई सम्बोधन गरेर उनले भने — हे तपोधनहरू, हामीलाई भन्नुहोस् कि नीलो वर्णका गोरु छोड्नुको के पुण्य छ। र वर्षा ऋतुमा दीपदान तथा तिलसहित जलको दानको के पुण्य छ?
67पितृहरूले भने — यदि छाडिएको नीलो वर्णको गोरुले आफ्नो पुच्छरले (थोरै) जल उछालिदियो भने, पितृहरू त्यस जलले पूरै साठी हजार वर्षसम्म तृप्त रहन्छन्।
68यस्तो गोरुले (नदी वा सरोवरका) किनारबाट आफ्ना सिङले जुन हिलो उछाल्दछ, त्यसले निश्चय नै पितृहरूलाई सोमको लोकसम्म पुर्याउन समर्थ हुन्छ।
69वर्षा ऋतुमा दीपदान गर्नाले मानिस स्वयं सोमजस्तै तेजले देदीप्यमान हुन्छ। जसले दीपदान गर्दछ, ऊ कहिल्यै तमोगुणको अधीनमा हुँदैन।
70हे तपोधनहरू, जुन पुरुषहरूले औंसीको दिन तामाको भाँडो प्रयोग गरेर मह मिसाइएको तिल र जलको दान गर्दछन्, तिनीहरू सम्पूर्ण रहस्यसहित विधिपूर्वक श्राद्ध गर्ने मानिन्छन्। यस्ता पुरुषलाई उत्तम स्वास्थ्य र प्रसन्न मन भएको सन्तान प्राप्त हुन्छ।
71पिण्डदाताले आर्जन गरेको पुण्यले उसको कुलको वृद्धिको रूप लिन्छ। वस्तुतः जसले श्रद्धाले यी कर्म गर्दछ, ऊ आफ्ना पूर्वजप्रतिको आफ्नो ऋणबाट मुक्त हुन्छ।
72यसरी श्राद्धको अनुष्ठानको उचित काल, आचरणीय कर्मका विधान, श्राद्धमा भोजन गराउन योग्य उचित पुरुष तथा त्यससँग जोडिएका पुण्य — यी सबै बताइए। मैले तिमीलाई सबै कुरा यथाक्रम बताइदिएँ।