आपद्धर्मानुशासन पर्व
खण्ड 7 — शान्ति पर्व (1) · अध्याय 166
संस्कृत
1वैशम्पायन उवाच कथान्तरमथासाद्य खड्गयुद्धविशारदः। नकुलः शरतल्पस्थमिदमाह पितामहम्॥
2नकुल उवाच धनुः प्रहरणं श्रेष्ठमतीवात्र पितामह। मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः॥ विशीर्णे कार्मुके राजन् प्रक्षीणेषु च वाजिषु। खड्ड्रेन शक्यते युद्धे साध्वात्मा परिरक्षितुम्॥
3शरासनधरांश्चैव गदाशक्तिधरांस्तथा। एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम्॥
4अत्र मे संशयश्चैव कौतूहलमतीव च। किंस्वित् प्रहरणं श्रेष्ठं सर्वयुद्धषु पार्थिव॥
5कथं चोत्पादितः खड्गः कस्मै चाय केन च। पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह॥
6वैशम्पायन उवाच तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः। स तु कौशल संयुक्तं सूक्ष्मचित्रार्थसम्मतम्॥ ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम्। शिक्षया चोपपन्नाय द्रोणशिष्याय भारत॥ उवाच स तु धर्मज्ञो धनुर्वेदस्य पारगः। शरतल्पगतो भीष्मो नकुलाय महात्मने॥
7भीष्म उवाच तत्त्वं शृणुष्व माद्रेय यदेतत् परिपृच्छसि। प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः॥
8सलिलैकार्णवं तात पुरा सर्वमभूदिदम्। निष्पकम्पमनाकाशमनिर्देश्यमहीतलम्॥
9तमसाऽऽवृतमस्पर्शमतिगम्भीरदर्शनम्। निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः॥
10सोऽसृजद् वातमग्निं च भास्करं चापि वीर्यवान्। आकाशमसृजच्चोर्ध्वमधो भूमिं च नैर्ऋतीम्॥ नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा। संवत्सरानृतून् मासान् पक्षानथ लवान् क्षणान्॥
11ततः शरीरं लोकस्थं स्थापयित्वा पितामहः। जनयामास भगवान् पुत्रानुत्तमतेजसः॥
12मरीचिमृषिमत्रिं च पुलस्त्यं पुलहं ऋतुम्। वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम्॥ प्राचेतसस्तथा दक्षः कन्याषष्टिमजीजनत्। ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे॥
13ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा। गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च॥ पतत्रिमृगमीनाश्च प्लवङ्गाश्च महोरगाः। तथा पक्षिगणाः सर्वे जलस्थलविचारिणः॥ उद्भिदः स्वेदजाश्चैव साण्डजाश्च जरायुजाः। जज्ञे तात जगत्सर्वं तथा स्थावरजङ्गमम्॥
14भूतसर्गमिमं कृत्वा सर्वलोकपितामहः। शाश्वतं वेदपठितं धर्म प्रयुयुजे ततः॥
15तस्मिन् धर्मे स्थिता देवा: सहाचार्यपुरोहिताः। आदित्या वसवो रुद्राः ससाध्या मरुदतश्विनः॥ भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपाश्च तपोधनाः। वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ॥ ऋषयो वालखिल्याश्च प्रभासा: सिकतास्तथा। घृतपा: सोमवायव्या वैश्वानरमरीचिपाः॥ अकृष्टाश्चैव हंसाश्च ऋषयो वाग्नियोनयः। वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने॥
16दानवेन्द्रास्त्वतिक्रम्य तत् पितामहशासनम्। धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः॥
17हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः। शम्बरो विप्रचित्तिश्च विराधो नमुचिर्बलिः :॥
18एते चान्ये च बहवः सगणा दैत्यदानवाः। धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः॥
19सर्वे तुल्याभिजातीया यथा देवास्तथा वयम्। इत्येवं धर्ममास्थाय स्पर्धमानाः सुरर्षिभिः॥
20न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत। त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः॥
21न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः॥ तदा हिमवतः शृङ्गे सुरम्ये पद्मतारके। शतयोजनविस्तारे मणिरत्नचयाचिते॥
22तस्मिन् गिरिवरे पुत्र पुष्पितद्रुमकानने। तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये॥
23ततो वर्षसहस्रान्ते वितानमकरोत् प्रभुः। विधिना कल्पदृष्टेन यथावच्चोपपादितम्॥
24ऋषिभिर्यज्ञपटुभिर्यथावत् कर्मकर्तृभिः। समिद्भिः परिसंकीर्णं दीप्यमानैश्च पावकैः॥
25काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलंकृतम्। वृतं देवगणैश्चैव प्रवरैर्यज्ञमण्डलम्॥
26तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम्। तत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम्॥
27चन्द्रमा विमलं व्योम यथाभ्युदिततारकम्। विकीर्याग्निं तथा भूतमुत्थितं श्रूयते तदा॥
28नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्र कृशोदरम्। प्रांशुं सुदुर्धर्षतरं तथैव ह्यमितौजसम्॥
29तस्मिन्नुतपतमाने च प्रचचाल वसुन्धरा। महोर्मिकलितावर्तश्चुक्षुभे स महोदधिः॥
30पेतुरुल्का महोत्पाताः शाखाश्च मुमुचुर्दुमाः। अप्रशान्ता दिशः सर्वाः पवनश्चाशिवो ववौ॥ मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात् तथा।
31तत: स तुमुलं दृष्ट्वा तं च भूतमुपस्थितम्॥ महर्षिसुरगन्धर्वानुवाचेदं पितामहः।
32मयैवं चिन्तितं भूतमसि मैष वीर्यवान्।॥ रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम्।
33ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः॥ विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः।
34ततः स शितिकण्ठाय रुद्रायाभिकेतवे॥ ब्रह्मा ददावसिं तीक्ष्णमधर्मप्रतिवारणम्।
35ततः स भगवान् रुद्रो महर्षिजनसंस्तुतः॥ प्रगृह्यासिममेयात्मा रूपमन्यच्चकार ह।
36चतुर्बाहुः स्पृशन् मूर्खा भूस्थितोऽपि दिवाकरम्॥ उर्ध्वदृष्टिर्महालिङ्गो मुखाज्ज्वालाः समुत्सृजन्।
37विकुर्वन् बहुधा वर्णान् नीलपाण्डुरलोहितान्॥ बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम्। नेत्रं चैकं ललाटेन भास्करप्रतिमं वहन्॥ शुशुभातेऽतिविमले द्वे नेत्रे कृष्णपिङ्गले।
38ततो देवो महादेवः शूलपाणिर्भगाक्षिहा॥ सम्प्रगृह्य तु निस्त्रिंशं कालाग्निसमवर्चसम्। त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम्। चचार विविधान् मार्गान् महाबलपराक्रमः॥ विधुन्वन्नसिमाकाशे तथा युद्धचिकीर्षया।
39तस्य नादं विनदतो महाहासं च मुञ्चतः॥ बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत।
40तद्रूपधारिणं रुद्रं रौद्रकर्मचिकीर्षया।॥ निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः। अश्मभिश्चाभ्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः॥
41घोरैः प्रहरणैश्चान्यैः क्षुरधारैरयोमयैः। ततस्तु दानवानीकं सम्प्रणेतारमुच्यतम्॥
42रुद्रं दृष्ट्वा बलोद्भूतं प्रमुमोह चचाल च। चित्रं शीघ्रपदत्वाच्च चरन्तमसिपाणिनम्॥ तमेकमसुराः सर्वे सहस्रमिति मेनिरे।
43छिन्दन भिन्दन् रुजन् कृन्तन् दारयन् पोथयन्नपि॥ अचरद् वैरिसङ्केषु दावाग्निरिव कक्षगः।
44असिवेगप्रभग्नास्ते छिन्नबाहूरुवक्षसः॥ सम्प्रकीर्णान्त्रगात्राश्च पेतुरुआं महाबलाः।
45अपरे दानवा भग्नाः खड्गपातावपीडिताः॥ अन्योन्यमभिनर्दन्तो दिशः सम्प्रतिपेदिरे।
46भूमि केचित् प्रविविशुः पर्वतानपरे तथा॥ अपरे जग्मुराकाशमपरेऽम्भः समाविशन्।
47तस्मिन् महति संवृत्ते समरे भृशदारुणे॥ बभूव भूः प्रतिभया मांसशोणितकर्दमा।
48दानवानां शरीरैश्च पतितैः शोणितोक्षितैः॥ समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः।
49स रुद्रो दानवान् हत्वा कृत्वा धर्मोत्तरं जगत्॥ रौद्र रूपमथोत्क्षिप्य चक्रे रूपं शिवं शिवः।
50ततो महर्षयः सर्वे सर्वे देवगणास्तथा॥ जयेनाद्भुतकल्पेन देवदेवं तथार्चयन्।
51ततः स भगवान् रुद्रो दानवक्षतजोक्षितम्॥ असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे।
52विष्णुर्मरीचये प्रादान्मरीचिर्भगवानपि॥ महर्षिभ्यो ददौ खड्गमृषयो वासवाय च।
53महेन्द्रो लोकपालेभ्यो लोकपालास्तु पुत्रका।६७।। मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम्।
54उचुश्चैनं तथा वाक्यं मानुषाणां त्वमीश्वरः॥ असिना धर्मगर्भेण पालयस्व प्रजा इति।
55धर्मसेतुमतिक्रान्ताः स्थूलसूक्ष्मात्मकारणात्॥ विभज्य दण्डं रक्ष्यास्तु धर्मतो न यदृच्छया।
56दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा॥ व्यङ्गता च शरीरस्य वधो वानल्पकारणात्।
57असेरेतानि रूपाणि दुरादीनि निर्दिशेत्॥ असेरेवं प्रमाणानि परिपाल्य व्यतिक्रमात्।
58स विसृज्याथ पुत्रं स्वं प्रजानामधिपं ततः॥ मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम्।
59क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः॥ आयुश्च तस्माल्लेभे तं नहुषश्च ततो भुवि।
60ययातिनहुषाच्चापि पूरुस्तस्माच्च लब्धवान्॥ अमूर्तरयसस्तस्मात्ततो भूमिशयो नृपः।
61भरतश्चापि दौष्यन्तिर्लेभे भूमिशयादसिम्॥ तस्माल्लेभे च धर्मज्ञो राजन्नैलविलस्तथा।
62ततस्त्वैलविलाल्लेभे धुन्धुमारो नरेश्वरः॥ धुन्धुमाराच्च काम्बोजो मुचुकुन्दस्ततोऽलभत्।
63मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः॥ रैवताद् युवनाश्वश्च युवनाश्वात्ततो रघुः।
64इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान्॥ हरिणावादसि लेभे शुनकः शुनकादपि। उशीनरो वै धर्मात्मा तस्माद् भोजः स यादवः॥
65यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः। प्रतर्दनादष्टकश्च पृषदश्वोऽष्टकादपि॥
66पृषदश्वाद् भरद्वाजो द्रोणस्तस्मात् कृपस्ततः। ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान्॥
67कृत्तिकास्तस्य नक्षत्रमसेरग्निश्च दैवतम्। रोहिणी गोत्रमस्याथ रुद्रश्च गुरुरुत्तमः॥
68असेरष्टौ हि नामानि रहस्यानि निबोध मे। पाण्डवेय सदा यानि कीर्तयन् लभते जयम्॥
69असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः। श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च॥
70अग्रयः प्रहरणानां च खड्गो माद्रवतीसुत। महेश्वरप्रणीतश्च पुराणे निश्चयं गतः॥
71पृथुस्तूत्पादयामास धनुराधमरिंदमः। तेनेयं पृथिवी दुग्धा सस्यानि सुबहून्यपि। धर्मेण च यथापूर्वं वैन्येन परिरक्षिता॥
72तदेतदाएं माद्रेय प्रमाणं कर्तुमर्हसि। असेच पूजा कर्तव्या सदा युद्धविशारदैः॥
73इत्येष प्रथमः कल्पो व्याख्यातस्ते सुविस्तरात्। असेरुत्पत्तिसंसर्गो यथावद् भरतर्षभ॥
74सर्वथैतदिदं श्रुत्वा खड्गसाधनमुत्तमम्। लभते पुरुषः कीर्ति प्रेत्य चानन्त्यमश्नुते॥
अंग्रेज़ी
1When this discourse was finished, Nakula who was an expert swordsman thus questioned the Kuru grandfather lying on his bed of arrows.
2Nakula said-The bow, O grand-father, known as the foremost of weapons in this world. I, however, prefer the sword, since when the bow, O king, is cut off or broken, when horses are dead or weakened, a good warrior, well-trained in the sword, can protect himself by means of his sword.
3A hero armed with the sword can, alone, withstand inany bowmen and many antagonists armed with maces and arrows.
4I have this doubt, and I am anxious to know the truth. Which, O king, is really the foremost of weapons in all battles.
5How was the sword first created and why? Who also was the first teacher in that weapon? Tell me all this, O grandfather.
6Hearing these words of the intelligent son of Madri, the virtuous Bhishma, that perfect master of the science of the bow, lying upon his bed of arrows, answered in many refined words of great significance, of sweet cadence, and showing considerable skill, to the great Nakula, that discipline of Drona of skilful training.
7Bhishma said Hear the truth, O son of Madri, about what you have asked me! I am worked up by this question of yours, like a hill of red chalk.
8In days of yore the universe was one vast sheet of water, fixed and skyless, and without this Earth existing in it.
9Covered with darkness, and unseen, it presented a dreadful aspect. Perfect silence prevailed everywhere and it was immeasurable in extent. In his own proper time the Grandfather (of the universe) was born.
10He then created wind, and fire, and the highly powerful sun. He also created the sky, the heavens, the nether regions, Earth, the quarters, the firmament with the moon and the stars, the constellations, the planets, the year, the seasons, the months, the two fortnights and the smaller divisions of time.
11Assuming a visible form the divine Grandfather then begot (by the power of his will) some highly energetic sons.
12They are the sages Marichi, Atri, Pulastya, Pulaha, Kratu, Vashishtha, Angiras, and the mighty and powerful lord Rudra, and Prachetas. The last beget Daksha, who in his turn beget sixty daughters. All those daughters were accepted by the twice-born sages for the purpose of begetting children upon them.
13From them originated all the creatures of the universe, including the gods, Pitris, Gandharvas, Apsaras all sorts of Rakshasas, birds, animals, fishes, monkeys, great snakes, and various species of fowl ranging in the air or the water and vegetables, and all oviparous or viviparous being or those or born of filth. In this wise the whole universe consisting of mobile and immobile creatures came into being.
14Having thus created all mobile and immobile creatures, then the universal Grandfather preached the eternal religion of the Vedas.
15That religion was accepted by the gods, with their preceptors and priests, the Adityas, the Vasus, the Rudras, the Saddhyas, the Maruts, the Ashvins, Bhrigu, Atri, Angiras, the Siddhas, Kashyapa of Penances, Vashishtha, Gautama, Agastya, Narada, Parvata, the Valkhilya Rishis, those other Rishis known as Prabhasas, the Sikatas, the Ghritapas, the Somavayavyas, the Vaishvanaras, the Marichipas, the Akrishtas, the Hansas, those born of Fire, the Vanaprasthas, and the Prashins. All of them followed the commands of Brahman.
16Disregarding the cominands of the Grandfather, and giving way to anger and covetousness, the foremost of the Danavas, however, began to bring about the destruction of virtue.
17They were Hiranyakashipu, Hiranyaksha, Virochana, Shamvara, Viprachitti, Prahlada, Namuchi and Vali.
18Disregarding all restraints of duty and religion, these and many other Daityas and Danavas sported and found pleasure in all sorts of wicked acts.
19Considering themselves equal in point of birth with the gods, they began to challenge them and the pure sages.
20They never did any good to the other creatures of the universe or showed mercy for any of them. Neglecting the three well-known means, they began to persecute and assail all creatures by holding only the rod of chastisement.
21Indeed, those foremost of Asuras, filled with pride did not treat other creatures as friends. Accompanied by the twice-born ones the divine Brahman, proceeded to a delightful summit of Himavat, extending for a hundred Yojanas in area, adorned with various sorts of jewels and gems, and upon whose surface the stars existed like so many lotuses on a lake.
22On that king of mountains, O sire, filled with forests of blossoming trees, that foremost of the gods, viz., Brahmana, lived for sometime for accomplishing the business of the world.
23After the expiration of a thousand years, the powerful lord made arrangements for a grand sacrifice according to the ordinances prescribed in the scriptures.
24The sacrificial altar was adorned with Rishis skilled in sacrifice and capable of performing all acts, with sacrificial fuel, and with burning fires.
25And it looked highly beautiful for the sacrificial plates and vessels having been all made of gold. All the leading gods sat there.
26The platform was further adorned with Sadasyas who were all high regenerate Rishis. I have heard from the Rishis that something very awful soon took place in that sacrifice.
27It is heard that a creature came out (from the sacrificial fire) scattering the flames around him, and whose effulgence equalled that of the Moon himself when he rises in the sky be spangled with stars.
28His complexion was dark like that of the petals of the blue lotus. His teeth were keen. His stomach was lean. His stature was tall. He appeared highly irresistible and energetic.
29When that being appeared, the Earth shook. The Ocean became agitated with mountain billows and dreadful eddies.
30Meteors, foreboding great calamities, passed through the sky. The branches of trees began to fall down. All the points of the horizon became unquite. Inauspicious winds blew. All creatures began to tremble with fear every moment.
31Seeing that dreadful agitation of the universe and that Being originated from the sacrificial fire, the Grandfather said to the great Rishis, the gods, and the Gandharvas.
32This Being was thought of by me. Highly energetic his name is Asi (sword or scimitar). I have created him for the protection of the world and the destruction of the enemies of the celestials.
33Leaving off the form he had first assumed, that being then took the shape of a sword of great effulgence, highly polished, sharp-edged, and sprang like the all-destructive Being at the end of the cycle.
34Then Brahman handed over that sharp weapon to the blue-throated Rudra who has for his emblem the foremost of bulls, for empowering him to suppress irreligion and sin.
35At this, the divine and great Rudra, praised by the great Rishis, took up that sword and assumed a different forin.
36Displaying four arms, he became so tall that though he stood on the Earth he touched the very sun with his head. With eyes turned upwards, and with every limb extended wide, he began to eject flames of fire from his mouth.
37Assuming various hues such as blue, white and red, and wearing a black deer-skin set with stars of gold, he bore on his forehead a third eye resembling the effulgent sun. His two other eyes, one of which was black and the other twany, shone very brilliantly.
38Taking up the sword which was effulgent like the all-destructive Yuga fire, and wielding a large shield with three high bosses which shone like a mass of dark clouds stricken with flashes of lightning, the divine Mahadeva, the bearer of the Shula, the tearer of Bhaga's eye, began to perform various kinds of evolutions. Endued with great with great prowess, he began to whirl the sword in the sky, seeking an encounter. an
39He uttered loud roars and awful was the sound of his laughter. Indeed, O Bharata, then Rudra assumed exceedingly terrible appearance.
40Hearing that Rudra had assumed that form for performing dreadful deeds, the Danavas, filled with joy, began to come towards him quickly, showering huge rocks upon him as they came, and burning brands of wood, and various kinds of terrible weapons made of iron cach sharp as of a razor.
41However, seeing that foremost of all beings, the indestructible powerful Rudra, swelling with might, the Danavas army became stupefied and began to tremble.
42Although Rudra was alone and singlehanded, yet so quickly did he move about on the field of battle with the sword in his hand that the Asuras thought there were a thousand Rudras fighting with them.
43Tearing and piercing and assailing and cutting and lopping off and grinding down, the great god moved about quickly among the large number of his enemies like a forest-fire amid heaps of dry grass spread around.
44Assailed by the god with his sword, with arms and thighs and chests cut off and pierced, and with heads cut off, the powerful Asuras began to drop down on the Earth.
45Stricken with strokes of the sword, other Danavas broke and fled in all directions, cheering up one another as they fled.
46Some entered into the bowels of the Earth; others got into the caves of mountains. Some went upwards; others entered into the sea.
47During that dreadful and fierce battle, the Earth was covered with flesh and blood, and dreadful spectacles appeared on all sides.
48Covered with the fallen bodies of Danavas bathed in blood, the Earth looked as if overspread with mountain summits filled with Kinshukas.
49Having killed the Danavas and reestablished virtue on Earth, the auspicious Rudra cast off his dreadful form and put on his beneficient shape.
50Then all the Rishis and all the gods adored that god of gods with loud cries of his victory.
51After this the divine Rudra gave the sword, that protector of religion, covered with the blood of Danavas, to Vishnu with proper adorations.
52Vishnu gave it to Marichi. The divine Marichi gave it to all the great Rishis. the latter gave it to Vasava.
53Vasava gave it to the Regents of the quarters. The Regents, O son, gave that large sword to Manu the son of the Sun-god.
54At the time of giving it to Manu, they said-You are the lord of all men. Protect all creatures with this sword having religion within its womb.
55Properly punishing those who have disregarded the restraints of virtue for the sake of the body or the mind, they should be protected according to the ordinances but never according to caprice.
56Some should be punished with rebukes, fines and forfeitures. Loss of limb or death should never be inflicted for slight offences.
57These punishments, having rebukes as their first, are considered as so many forms of the sword. They are the forms that the sword assumes for the sins of persons under the protection (of the king).
58In time Manu installed his own son Kshupa as the king of all creatures, and gave him the sword for their protection.
59Kshupa gave it to Ikshaku, and Ikshaku to Pururavas. Pururavas gave it to Ayus, and Ayus to Nahusha.
60Nahusha gave it to Yayati, and Yayati to Puru. Puru gave it to Amurttaraya. From Amurttaraya it went to the royal Bhumishaya.
61Bhumishaya gave it to Dhushmanta's son Bharata. Bharata, O king, gave it to the righteous Ailavila.
62Ailavila gave it to king Dhundumara. Dhundumara gave it to Kamvoja, and Kamvoja to Muchukunda.
63Muchukunda gave it to Marutta, and Marutta to Raivata. Raivata gave it to Yuvanashva, and Yuvanashva to Raghu.
64Raghu gave it to the valiant Harinashva. Harinashva gave the sword to Sunaka, and Sunaka to the righteous-souled Ushinara. From the last it was taken by the Bhojas and the Yadavas.
65The Yadus gave it to Shivi. Shivi gave it to Pratarddana. Pratarddana gave it to Ashtaka, and Ashtaka to Prishadashva.
66Prishadashva gave it to Bharadwaja, and Bharadwaja to Drona. Drona gave it to Kripa. Kripa gave that best of swords to you and your brothers.
67The constellation under which the sword was born in Kritika. Agni is its god, and Rohini is its Gotra. Rudra is its great preceptor.
68The sword has eight names which are not generally known. Hear as I name them to you. If one mentions these names, O son of Pandu, one may always acquire victory.
69Those names then are Asi, Vaishasana, Khadga, Sharp-edged, hard of acquisition, Shrigarbha, victory and protector of virtue.
70Of all weapons, O son of Madravati, the sword is the greatest. The Puranas truly say that it was first held by Mahadeva.
71Regarding the bow, again, O chastiser of enemies, it was Prithu who first created it. It was with the help of this weapon that that son of Vena, while he ruled the Earth virtuously for many years, milked her profusely of crops and grain.
72You should, O son of Madri, consider what the Rishis have said as sufficient proof. All persons skilled in battle should adore the sword.
73I have now told you truly the first portion of your question fully, about the origin and creation of the sword, O foremost of Bharata's family.
74By hearing of this excellent story of the origin of the sword, a man acquires fame in this world and eternal happiness in the next.'
हिन्दी
1जब यह प्रवचन समाप्त हुआ, तब खड्गविद्या में निपुण नकुल ने बाणों की शय्या पर लेटे हुए कुरुपितामह से इस प्रकार प्रश्न किया।
2नकुल ने कहा — हे पितामह, धनुष इस संसार में अस्त्रों में श्रेष्ठ माना जाता है। किन्तु मैं खड्ग को अधिक श्रेष्ठ मानता हूँ, क्योंकि हे राजन्, जब धनुष कट या टूट जाता है, जब अश्व मर जाते हैं अथवा क्षीण हो जाते हैं, तब खड्गविद्या में सुशिक्षित उत्तम योद्धा अपने खड्ग से अपनी रक्षा कर सकता है।
3खड्गधारी वीर अकेला ही अनेक धनुर्धरों तथा गदा और बाण लिए अनेक शत्रुओं का सामना कर सकता है।
4मेरे मन में यह सन्देह है, और मैं सत्य जानने को उत्सुक हूँ। हे राजन्, समस्त युद्धों में वस्तुतः कौन-सा अस्त्र श्रेष्ठ है?
5खड्ग की उत्पत्ति सर्वप्रथम कैसे और किसलिए हुई? उस अस्त्र का प्रथम आचार्य कौन था? हे पितामह, मुझे यह सब बताइए।
6माद्री के बुद्धिमान् पुत्र के ये वचन सुनकर धनुर्विद्या के पूर्ण ज्ञाता धर्मात्मा भीष्म ने, बाणों की शय्या पर लेटे हुए ही, द्रोण के कुशल शिक्षा प्राप्त शिष्य महान् नकुल को गम्भीर अर्थवाले, मधुर स्वरवाले तथा विशेष कौशल दर्शाने वाले अनेक परिष्कृत वचनों में उत्तर दिया।
7भीष्म ने कहा — हे माद्रीपुत्र, तुमने जो मुझसे पूछा है, उसका सत्य सुनो! तुम्हारे इस प्रश्न से मैं गेरु के पर्वत के समान उद्दीप्त हो उठा हूँ।
8प्राचीन काल में यह सम्पूर्ण विश्व जल की एक विशाल राशि मात्र था — स्थिर, आकाशरहित, और उसमें यह पृथ्वी विद्यमान नहीं थी।
9अन्धकार से आच्छादित और अदृश्य वह भयानक प्रतीत होता था। सर्वत्र पूर्ण नीरवता व्याप्त थी और वह विस्तार में अपरिमेय था। अपने उचित समय पर (विश्व के) पितामह का जन्म हुआ।
10तब उन्होंने वायु, अग्नि तथा अत्यन्त तेजस्वी सूर्य की रचना की। उन्होंने आकाश, स्वर्गलोक, पाताललोक, पृथ्वी, दिशाएँ, चन्द्र और ताराओं सहित नभोमण्डल, नक्षत्र, ग्रह, वर्ष, ऋतुएँ, मास, दोनों पक्ष तथा काल के छोटे-छोटे विभाग भी रचे।
11तत्पश्चात् दृश्य रूप धारण करके दिव्य पितामह ने (अपनी इच्छाशक्ति से) कुछ अत्यन्त तेजस्वी पुत्र उत्पन्न किए।
12वे हैं मरीचि, अत्रि, पुलस्त्य, पुलह, क्रतु, वसिष्ठ, अङ्गिरा, तथा महाबली एवं शक्तिशाली भगवान् रुद्र और प्रचेता — ये ऋषिगण। अन्तिम (प्रचेता) ने दक्ष को उत्पन्न किया, और दक्ष ने अपनी बारी में साठ कन्याएँ उत्पन्न कीं। वे समस्त कन्याएँ द्विजश्रेष्ठ ऋषियों ने सन्तानोत्पत्ति के निमित्त स्वीकार कीं।
13उन्हीं से विश्व के समस्त प्राणी उत्पन्न हुए — देवता, पितर, गन्धर्व, अप्सराएँ, सब प्रकार के राक्षस, पक्षी, पशु, मत्स्य, वानर, महासर्प, तथा आकाश या जल में विचरने वाली नाना जातियाँ, वनस्पतियाँ, और समस्त अण्डज, जरायुज तथा स्वेदज प्राणी। इस प्रकार चराचर से युक्त सम्पूर्ण विश्व अस्तित्व में आया।
14इस प्रकार समस्त चराचर प्राणियों की सृष्टि करके विश्वपितामह ने वेदों के सनातन धर्म का उपदेश दिया।
15उस धर्म को देवताओं ने अपने आचार्यों और पुरोहितों सहित स्वीकार किया — आदित्यगण, वसुगण, रुद्रगण, साध्यगण, मरुद्गण, अश्विनीकुमार, भृगु, अत्रि, अङ्गिरा, सिद्धगण, तपस्वी कश्यप, वसिष्ठ, गौतम, अगस्त्य, नारद, पर्वत, वालखिल्य ऋषि, प्रभास नाम से विख्यात अन्य ऋषि, सिकत, घृतप, सोमवायव्य, वैश्वानर, मरीचिप, अकृष्ट, हंस, अग्नि से उत्पन्न ऋषि, वानप्रस्थ तथा प्राश्नि — इन सबने ब्रह्मा की आज्ञा का पालन किया।
16किन्तु पितामह की आज्ञा की अवहेलना करके, क्रोध और लोभ के वशीभूत होकर, दानवों में श्रेष्ठ कुछ असुर धर्म का नाश करने में प्रवृत्त हुए।
17वे थे — हिरण्यकशिपु, हिरण्याक्ष, विरोचन, शम्बर, विप्रचित्ति, प्रह्लाद, नमुचि तथा बलि।
18कर्तव्य और धर्म के समस्त बन्धनों की उपेक्षा करके ये तथा और भी अनेक दैत्य और दानव सब प्रकार के दुष्ट कर्मों में क्रीड़ा करते और आनन्द पाते थे।
19अपने को जन्म में देवताओं के समान मानकर वे उन्हें तथा पवित्र ऋषियों को ललकारने लगे।
20उन्होंने विश्व के अन्य प्राणियों का कभी कोई हित नहीं किया, न किसी पर दया दिखाई। तीन सुविख्यात उपायों की उपेक्षा करके वे केवल दण्ड ही धारण करके समस्त प्राणियों को सताने और उन पर आक्रमण करने लगे।
21वास्तव में, अभिमान से भरे उन असुरश्रेष्ठों ने अन्य प्राणियों के साथ मित्रवत् व्यवहार नहीं किया। तब द्विजों के साथ भगवान् ब्रह्मा हिमवान् के एक रमणीय शिखर पर गए, जो सौ योजन विस्तृत था, नाना प्रकार के रत्नों और मणियों से सुशोभित था, और जिसकी सतह पर तारे इस प्रकार शोभित थे मानो सरोवर में अनेक कमल हों।
22हे तात, फूलों से लदे वृक्षों के वनों से पूर्ण उस पर्वतराज पर देवश्रेष्ठ ब्रह्मा जगत् का कार्य सिद्ध करने के लिए कुछ काल रहे।
23एक सहस्र वर्ष बीत जाने पर उन शक्तिशाली भगवान् ने शास्त्रोक्त विधि के अनुसार एक महान् यज्ञ का आयोजन किया।
24वह यज्ञवेदी यज्ञ में निपुण तथा समस्त कर्म करने में समर्थ ऋषियों से, यज्ञ की समिधाओं से, तथा प्रज्वलित अग्नियों से सुशोभित थी।
25और वह अत्यन्त सुन्दर दिखाई देती थी, क्योंकि यज्ञ के समस्त पात्र और बर्तन स्वर्ण के बने थे। वहाँ समस्त प्रमुख देवता विराजमान थे।
26वह मञ्च उन सदस्यों से और भी सुशोभित था जो सब उच्च कोटि के द्विजश्रेष्ठ ऋषि थे। मैंने ऋषियों से सुना है कि उस यज्ञ में शीघ्र ही कुछ अत्यन्त भयानक घटित हुआ।
27सुना जाता है कि (यज्ञाग्नि से) एक प्राणी प्रकट हुआ, जो चारों ओर ज्वालाएँ बिखेर रहा था, और जिसका तेज उस चन्द्रमा के समान था जब वह ताराओं से जड़े आकाश में उदित होता है।
28उसका वर्ण नील कमल की पँखुड़ियों जैसा श्याम था। उसके दाँत तीक्ष्ण थे। उसका उदर कृश था। उसकी देह लम्बी थी। वह अत्यन्त अजेय और तेजस्वी प्रतीत होता था।
29जब वह प्राणी प्रकट हुआ, तब पृथ्वी काँप उठी। समुद्र पर्वताकार लहरों और भयंकर भँवरों से क्षुब्ध हो उठा।
30महान् विपत्तियों की सूचना देने वाली उल्काएँ आकाश में गिरने लगीं। वृक्षों की शाखाएँ गिरने लगीं। समस्त दिशाएँ अशान्त हो उठीं। अशुभ वायु बहने लगी। समस्त प्राणी प्रतिक्षण भय से काँपने लगे।
31विश्व की उस भयानक क्षुब्धता और यज्ञाग्नि से उत्पन्न उस प्राणी को देखकर पितामह ने महर्षियों, देवताओं तथा गन्धर्वों से कहा —
32यह प्राणी मेरे द्वारा चिन्तित है। अत्यन्त तेजस्वी इसका नाम असि (खड्ग अथवा कृपाण) है। मैंने इसे जगत् की रक्षा और देवताओं के शत्रुओं के विनाश के लिए रचा है।
33पहले धारण किया हुआ रूप छोड़कर वह प्राणी तब एक महातेजस्वी, भलीभाँति मार्जित, तीक्ष्णधार खड्ग का रूप धारण कर गया, और कल्प के अन्त में प्रकट होने वाले सर्वसंहारक की भाँति उछल पड़ा।
34तब ब्रह्मा ने वह तीक्ष्ण अस्त्र नीलकण्ठ रुद्र को सौंप दिया, जिनका चिह्न वृषभश्रेष्ठ है, जिससे वे अधर्म और पाप का दमन कर सकें।
35इस पर महर्षियों से स्तुत दिव्य महान् रुद्र ने वह खड्ग उठाया और एक भिन्न रूप धारण किया।
36चार भुजाएँ प्रकट करके वे इतने विशाल हो गए कि पृथ्वी पर खड़े होकर भी अपने मस्तक से सूर्य को छूने लगे। ऊपर की ओर उठी हुई आँखों और चारों ओर फैले हुए अङ्गों के साथ वे अपने मुख से अग्नि की ज्वालाएँ उगलने लगे।
37नील, श्वेत तथा रक्त — नाना वर्ण धारण करके, और स्वर्ण के तारों से जड़ा कृष्ण मृगचर्म पहनकर, उन्होंने अपने ललाट पर तेजस्वी सूर्य के समान तीसरा नेत्र धारण किया। उनके अन्य दो नेत्र, जिनमें एक काला और दूसरा पिङ्गल था, अत्यन्त उज्ज्वल चमक रहे थे।
38प्रलयकालीन युगाग्नि के समान तेजस्वी उस खड्ग को उठाकर, और तीन ऊँचे उभारों वाली विशाल ढाल धारण करके, जो बिजली की चमक से आहत मेघपुञ्ज के समान शोभित थी, शूलधारी, भग के नेत्र को उखाड़ने वाले दिव्य महादेव नाना प्रकार के युद्धकौशल दिखाने लगे। महान् पराक्रम से युक्त होकर वे युद्ध की इच्छा से आकाश में खड्ग घुमाने लगे।
39उन्होंने ऊँचे गर्जन किए और उनके अट्टहास का शब्द भयानक था। हे भारत, वास्तव में तब रुद्र ने अत्यन्त भयंकर रूप धारण किया।
40यह सुनकर कि रुद्र ने भयंकर कर्म करने के लिए वह रूप धारण किया है, दानव हर्ष से भरकर शीघ्रता से उनकी ओर आने लगे, और आते-आते उन पर विशाल शिलाएँ, जलती हुई काष्ठ की मशालें तथा छुरे के समान तीक्ष्ण लोहे के नाना प्रकार के भयंकर अस्त्र बरसाने लगे।
41किन्तु समस्त प्राणियों में श्रेष्ठ, अविनाशी, बल से उमड़ते हुए शक्तिशाली रुद्र को देखकर दानवों की सेना स्तम्भित हो गई और काँपने लगी।
42यद्यपि रुद्र अकेले और असहाय थे, तथापि हाथ में खड्ग लिए वे रणभूमि में इतनी शीघ्रता से विचरते थे कि असुरों को लगा मानो सहस्र रुद्र उनसे युद्ध कर रहे हों।
43विदीर्ण करते, बेधते, प्रहार करते, काटते, अङ्ग छाँटते और चूर करते हुए वे महादेव अपने शत्रुओं के विशाल समूह के बीच इस प्रकार शीघ्रता से विचरते रहे जैसे चारों ओर फैले सूखे तृण के ढेरों में दावानल।
44महादेव के खड्ग से आहत, भुजाएँ, जङ्घाएँ और वक्षस्थल कटे-बिंधे तथा शिर छिन्न होकर शक्तिशाली असुर पृथ्वी पर गिरने लगे।
45खड्ग के प्रहारों से आहत अन्य दानव भागते हुए एक-दूसरे को ढाढ़स बँधाते हुए सब दिशाओं में भाग खड़े हुए।
46कोई पृथ्वी के गर्भ में घुस गए; कोई पर्वतों की गुफाओं में जा छिपे। कोई ऊपर आकाश की ओर गए; कोई समुद्र में प्रविष्ट हुए।
47उस भयानक और घोर युद्ध में पृथ्वी मांस और रक्त से ढँक गई, और चारों ओर भयंकर दृश्य दिखाई देने लगे।
48रक्त में सने दानवों के गिरे हुए शरीरों से आच्छादित पृथ्वी ऐसी लगती थी मानो किंशुक के फूलों से भरे पर्वतशिखरों से ढँकी हो।
49दानवों का वध करके और पृथ्वी पर धर्म की पुनःस्थापना करके कल्याणकारी रुद्र ने अपना भयंकर रूप त्यागकर अपना मङ्गलमय रूप धारण किया।
50तब समस्त ऋषियों और समस्त देवताओं ने उनकी विजय के उच्च घोषों से उन देवाधिदेव की स्तुति की।
51इसके पश्चात् दिव्य रुद्र ने दानवों के रक्त से सना वह खड्ग, जो धर्म का रक्षक है, यथोचित सत्कार के साथ विष्णु को दे दिया।
52विष्णु ने वह मरीचि को दिया। दिव्य मरीचि ने वह समस्त महर्षियों को दिया। महर्षियों ने वह वासव (इन्द्र) को दिया।
53वासव ने वह दिक्पालों को दिया। हे पुत्र, दिक्पालों ने वह विशाल खड्ग सूर्यपुत्र मनु को दिया।
54मनु को देते समय उन्होंने कहा — तुम समस्त मनुष्यों के स्वामी हो। धर्म को अपने गर्भ में धारण करने वाले इस खड्ग से समस्त प्राणियों की रक्षा करो।
55जिन्होंने देह अथवा मन के कारण धर्म के बन्धनों की उपेक्षा की है, उन्हें यथोचित दण्ड देते हुए विधि के अनुसार प्रजा की रक्षा करनी चाहिए, कभी मनमानी से नहीं।
56कुछ को फटकार, अर्थदण्ड और सम्पत्ति-हरण से दण्डित करना चाहिए। छोटे अपराधों के लिए अङ्गच्छेद या मृत्युदण्ड कभी नहीं देना चाहिए।
57फटकार जिनमें पहला है, वे ये दण्ड खड्ग के ही अनेक रूप माने जाते हैं। ये वे रूप हैं जो खड्ग (राजा की) रक्षा में रहने वाले जनों के पापों के लिए धारण करता है।
58कालान्तर में मनु ने अपने पुत्र क्षुप को समस्त प्राणियों का राजा अभिषिक्त किया, और प्रजा की रक्षा के लिए उसे वह खड्ग दिया।
59क्षुप ने वह इक्ष्वाकु को दिया, और इक्ष्वाकु ने पुरूरवा को। पुरूरवा ने वह आयु को दिया, और आयु ने नहुष को।
60नहुष ने वह ययाति को दिया, और ययाति ने पुरु को। पुरु ने वह अमूर्तरय को दिया। अमूर्तरय से वह राजा भूमिशय को प्राप्त हुआ।
61भूमिशय ने वह दुष्यन्त के पुत्र भरत को दिया। हे राजन्, भरत ने वह धर्मात्मा ऐलविल को दिया।
62ऐलविल ने वह राजा धुन्धुमार को दिया। धुन्धुमार ने वह काम्बोज को दिया, और काम्बोज ने मुचुकुन्द को।
63मुचुकुन्द ने वह मरुत्त को दिया, और मरुत्त ने रैवत को। रैवत ने वह युवनाश्व को दिया, और युवनाश्व ने रघु को।
64रघु ने वह पराक्रमी हरिणाश्व को दिया। हरिणाश्व ने वह खड्ग सुनक को दिया, और सुनक ने धर्मात्मा उशीनर को। अन्तिम से वह भोजों और यादवों ने ग्रहण किया।
65यदुओं ने वह शिवि को दिया। शिवि ने वह प्रतर्दन को दिया। प्रतर्दन ने वह अष्टक को दिया, और अष्टक ने पृषदश्व को।
66पृषदश्व ने वह भरद्वाज को दिया, और भरद्वाज ने द्रोण को। द्रोण ने वह कृप को दिया। कृप ने वह खड्गश्रेष्ठ तुम्हें और तुम्हारे भाइयों को दिया।
67जिस नक्षत्र में खड्ग का जन्म हुआ वह कृत्तिका है। अग्नि इसके देवता हैं, और रोहिणी इसका गोत्र है। रुद्र इसके महान् आचार्य हैं।
68खड्ग के आठ नाम हैं जो साधारणतया ज्ञात नहीं हैं। सुनो, मैं तुम्हें उनके नाम बताता हूँ। हे पाण्डुपुत्र, यदि कोई इन नामों का उच्चारण करे, तो वह सदा विजय प्राप्त कर सकता है।
69वे नाम हैं — असि, वैशसन, खड्ग, तीक्ष्णधार, दुष्प्राप्य, श्रीगर्भ, विजय तथा धर्मरक्षक।
70हे माद्रवतीपुत्र, समस्त अस्त्रों में खड्ग ही श्रेष्ठ है। पुराण यथार्थतः कहते हैं कि इसे सर्वप्रथम महादेव ने धारण किया था।
71हे शत्रुदमन, फिर धनुष के विषय में — उसकी रचना सर्वप्रथम पृथु ने की थी। इसी अस्त्र की सहायता से वेनपुत्र ने, अनेक वर्षों तक धर्मपूर्वक पृथ्वी का शासन करते हुए, उससे प्रचुर मात्रा में शस्य और धान्य दुहे।
72हे माद्रीपुत्र, ऋषियों ने जो कहा है उसी को तुम्हें पर्याप्त प्रमाण मानना चाहिए। युद्धकुशल समस्त पुरुषों को खड्ग की पूजा करनी चाहिए।
73हे भरतवंशश्रेष्ठ, तुम्हारे प्रश्न का प्रथम अंश — खड्ग की उत्पत्ति और रचना के विषय में — मैंने अब तुम्हें यथार्थतः और पूर्णतः बता दिया है।
74खड्ग की उत्पत्ति की यह उत्तम कथा सुनने से मनुष्य इस लोक में यश और परलोक में शाश्वत सुख प्राप्त करता है।"
नेपाली
1जब यो प्रवचन समाप्त भयो, तब खड्गविद्यामा निपुण नकुलले बाणको शय्यामा पल्टिएका कुरुपितामहसँग यसरी प्रश्न गरे।
2नकुलले भने — हे पितामह, धनुष यस संसारमा अस्त्रहरूमा श्रेष्ठ मानिन्छ। तर म खड्गलाई बढी श्रेष्ठ मान्दछु, किनभने हे राजन्, जब धनुष काटिन्छ वा भाँचिन्छ, जब अश्वहरू मर्छन् अथवा क्षीण हुन्छन्, तब खड्गविद्यामा सुशिक्षित उत्तम योद्धाले आफ्नो खड्गले आफ्नो रक्षा गर्न सक्दछ।
3खड्गधारी वीर एक्लै अनेक धनुर्धर तथा गदा र बाण लिएका अनेक शत्रुहरूको सामना गर्न सक्दछ।
4मेरो मनमा यो शङ्का छ, र म सत्य जान्न उत्सुक छु। हे राजन्, सम्पूर्ण युद्धहरूमा वास्तवमा कुन अस्त्र श्रेष्ठ छ?
5खड्गको उत्पत्ति सर्वप्रथम कसरी र किन भयो? त्यस अस्त्रका प्रथम आचार्य को थिए? हे पितामह, मलाई यो सबै बताउनुहोस्।
6माद्रीका बुद्धिमान् पुत्रका यी वचन सुनेर धनुर्विद्याका पूर्ण ज्ञाता धर्मात्मा भीष्मले, बाणकै शय्यामा पल्टिरहेकै अवस्थामा, द्रोणका कुशल शिक्षा पाएका शिष्य महान् नकुललाई गम्भीर अर्थ भएका, मधुर स्वर भएका तथा विशेष कौशल देखाउने अनेक परिष्कृत वचनमा उत्तर दिए।
7भीष्मले भने — हे माद्रीपुत्र, तिमीले जुन मसँग सोध्यौ, त्यसको सत्य सुन! तिम्रो यस प्रश्नले म गेरुको पर्वतझैँ उद्दीप्त भएको छु।
8प्राचीन कालमा यो सम्पूर्ण विश्व जलको एउटा विशाल राशिमात्र थियो — स्थिर, आकाशरहित, र त्यसमा यो पृथ्वी विद्यमान थिएन।
9अन्धकारले ढाकिएको र अदृश्य त्यो भयानक देखिन्थ्यो। सर्वत्र पूर्ण नीरवता व्याप्त थियो र त्यो विस्तारमा अपरिमेय थियो। आफ्नो उचित समयमा (विश्वका) पितामहको जन्म भयो।
10तब उनले वायु, अग्नि तथा अत्यन्त तेजस्वी सूर्यको रचना गरे। उनले आकाश, स्वर्गलोक, पाताललोक, पृथ्वी, दिशाहरू, चन्द्र र ताराहरूसहितको नभोमण्डल, नक्षत्र, ग्रह, वर्ष, ऋतुहरू, महिना, दुवै पक्ष तथा कालका साना-साना विभाग पनि रचे।
11त्यसपछि दृश्य रूप धारण गरेर दिव्य पितामहले (आफ्नो इच्छाशक्तिले) केही अत्यन्त तेजस्वी पुत्र उत्पन्न गरे।
12ती हुन् मरीचि, अत्रि, पुलस्त्य, पुलह, क्रतु, वसिष्ठ, अङ्गिरा, तथा महाबली एवं शक्तिशाली भगवान् रुद्र र प्रचेता — यी ऋषिगण। अन्तिम (प्रचेता)ले दक्षलाई उत्पन्न गरे, र दक्षले आफ्नो पालोमा साठी कन्या उत्पन्न गरे। ती सम्पूर्ण कन्या द्विजश्रेष्ठ ऋषिहरूले सन्तानोत्पत्तिका निमित्त स्वीकार गरे।
13तिनैबाट विश्वका सम्पूर्ण प्राणी उत्पन्न भए — देवता, पितृ, गन्धर्व, अप्सराहरू, सबै प्रकारका राक्षस, पक्षी, पशु, मत्स्य, वानर, महासर्प, तथा आकाश वा जलमा विचरण गर्ने नाना जाति, वनस्पति, र सम्पूर्ण अण्डज, जरायुज तथा स्वेदज प्राणी। यसरी चराचरयुक्त सम्पूर्ण विश्व अस्तित्वमा आयो।
14यसरी सम्पूर्ण चराचर प्राणीको सृष्टि गरेर विश्वपितामहले वेदहरूको सनातन धर्मको उपदेश दिए।
15त्यस धर्मलाई देवताहरूले आफ्ना आचार्य र पुरोहितसहित स्वीकार गरे — आदित्यगण, वसुगण, रुद्रगण, साध्यगण, मरुद्गण, अश्विनीकुमार, भृगु, अत्रि, अङ्गिरा, सिद्धगण, तपस्वी कश्यप, वसिष्ठ, गौतम, अगस्त्य, नारद, पर्वत, वालखिल्य ऋषि, प्रभास नामले विख्यात अन्य ऋषि, सिकत, घृतप, सोमवायव्य, वैश्वानर, मरीचिप, अकृष्ट, हंस, अग्निबाट उत्पन्न ऋषि, वानप्रस्थ तथा प्राश्नि — यी सबैले ब्रह्माको आज्ञा पालन गरे।
16तर पितामहको आज्ञाको अवहेलना गरेर, क्रोध र लोभको वशमा परेर, दानवहरूमा श्रेष्ठ केही असुर धर्मको नाश गर्नमा प्रवृत्त भए।
17तिनीहरू थिए — हिरण्यकशिपु, हिरण्याक्ष, विरोचन, शम्बर, विप्रचित्ति, प्रह्लाद, नमुचि तथा बलि।
18कर्तव्य र धर्मका सम्पूर्ण बन्धनको उपेक्षा गरेर यी तथा अरू पनि अनेक दैत्य र दानव सबै प्रकारका दुष्ट कर्ममा क्रीडा गर्थे र आनन्द पाउँथे।
19आफूलाई जन्ममा देवताहरूसरह मानेर तिनीहरूले उनीहरूलाई तथा पवित्र ऋषिहरूलाई ललकार्न थाले।
20तिनीहरूले विश्वका अन्य प्राणीको कहिल्यै कुनै हित गरेनन्, न कसैमाथि दया देखाए। तीन सुविख्यात उपायको उपेक्षा गरेर तिनीहरू केवल दण्डमात्र धारण गरेर सम्पूर्ण प्राणीलाई सताउन र तिनीहरूमाथि आक्रमण गर्न थाले।
21वास्तवमा, अभिमानले भरिएका ती असुरश्रेष्ठहरूले अन्य प्राणीसँग मित्रवत् व्यवहार गरेनन्। तब द्विजहरूसँगै भगवान् ब्रह्मा हिमवान्को एउटा रमणीय शिखरमा गए, जो सय योजन विस्तृत थियो, नाना प्रकारका रत्न र मणिले सुशोभित थियो, र जसको सतहमा ताराहरू यसरी शोभित थिए मानौँ सरोवरमा अनेक कमल छन्।
22हे तात, फूलले लटरम्म भएका रूखका वनले पूर्ण त्यस पर्वतराजमा देवश्रेष्ठ ब्रह्मा जगत्को कार्य सिद्ध गर्नका लागि केही काल रहे।
23एक हजार वर्ष बितेपछि ती शक्तिशाली भगवान्ले शास्त्रोक्त विधिअनुसार एउटा महान् यज्ञको आयोजन गरे।
24त्यो यज्ञवेदी यज्ञमा निपुण तथा सम्पूर्ण कर्म गर्न समर्थ ऋषिहरूले, यज्ञका समिधाले, तथा प्रज्वलित अग्निहरूले सुशोभित थियो।
25र त्यो अत्यन्त सुन्दर देखिन्थ्यो, किनभने यज्ञका सम्पूर्ण पात्र र भाँडा सुनका बनेका थिए। त्यहाँ सम्पूर्ण प्रमुख देवता विराजमान थिए।
26त्यो मञ्च ती सदस्यहरूले अझ सुशोभित थियो जो सबै उच्च कोटिका द्विजश्रेष्ठ ऋषि थिए। मैले ऋषिहरूबाट सुनेको छु कि त्यस यज्ञमा चाँडै नै केही अत्यन्त भयानक घटित भयो।
27सुनिन्छ कि (यज्ञाग्निबाट) एउटा प्राणी प्रकट भयो, जसले चारैतिर ज्वाला छरिरहेको थियो, र जसको तेज त्यस चन्द्रमासरह थियो जब ऊ ताराले जडिएको आकाशमा उदाउँछ।
28उसको वर्ण नीलकमलका पत्रजस्तै श्याम थियो। उसका दाँत तीक्ष्ण थिए। उसको उदर कृश थियो। उसको देह अग्लो थियो। ऊ अत्यन्त अजेय र तेजस्वी देखिन्थ्यो।
29जब त्यो प्राणी प्रकट भयो, तब पृथ्वी काँप्यो। समुद्र पर्वताकार छाल र भयङ्कर भुमरीले क्षुब्ध भयो।
30महान् विपत्तिको सूचना दिने उल्काहरू आकाशमा खस्न थाले। रूखका हाँगा झर्न थाले। सम्पूर्ण दिशा अशान्त भए। अशुभ वायु बहन थाल्यो। सम्पूर्ण प्राणी प्रतिक्षण भयले काँप्न थाले।
31विश्वको त्यस भयानक क्षुब्धता र यज्ञाग्निबाट उत्पन्न त्यस प्राणीलाई देखेर पितामहले महर्षिहरू, देवताहरू तथा गन्धर्वहरूलाई भने —
32यो प्राणी मबाट चिन्तित हो। अत्यन्त तेजस्वी यसको नाम असि (खड्ग अथवा कृपाण) हो। मैले यसलाई जगत्को रक्षा र देवताहरूका शत्रुको विनाशका लागि रचेको हुँ।
33पहिले धारण गरेको रूप छोडेर त्यो प्राणी तब एउटा महातेजस्वी, राम्ररी टल्काइएको, तीक्ष्णधार खड्गको रूपमा परिणत भयो, र कल्पको अन्तमा प्रकट हुने सर्वसंहारकझैँ उफ्र्यो।
34तब ब्रह्माले त्यो तीक्ष्ण अस्त्र नीलकण्ठ रुद्रलाई सुम्पिदिए, जसको चिह्न वृषभश्रेष्ठ हो, जसबाट उनले अधर्म र पापको दमन गर्न सकून्।
35यसमा महर्षिहरूद्वारा स्तुत दिव्य महान् रुद्रले त्यो खड्ग उठाए र एउटा भिन्न रूप धारण गरे।
36चार भुजा प्रकट गरेर उनी यति विशाल भए कि पृथ्वीमा उभिएर पनि आफ्नो शिरले सूर्यलाई छुन थाले। माथितिर उठेका आँखा र चारैतिर फैलिएका अङ्गसहित उनी आफ्नो मुखबाट अग्निका ज्वाला ओकल्न थाले।
37नील, श्वेत तथा रक्त — नाना वर्ण धारण गरेर, र सुनका ताराले जडिएको कृष्ण मृगचर्म लगाएर, उनले आफ्नो निधारमा तेजस्वी सूर्यसरहको तेस्रो नेत्र धारण गरे। उनका अन्य दुई नेत्र, जसमध्ये एउटा कालो र अर्को पिङ्गल थियो, अत्यन्त उज्ज्वल चम्किरहेका थिए।
38प्रलयकालीन युगाग्निसरह तेजस्वी त्यस खड्गलाई उठाएर, र तीन अग्ला उभार भएको विशाल ढाल धारण गरेर, जो बिजुलीको चमकले आहत मेघपुञ्जसरह शोभित थियो, शूलधारी, भगको नेत्र उप्काउने दिव्य महादेव नाना प्रकारका युद्धकौशल देखाउन थाले। महान् पराक्रमले युक्त भएर उनी युद्धको इच्छाले आकाशमा खड्ग घुमाउन थाले।
39उनले उच्च गर्जन गरे र उनको अट्टहासको शब्द भयानक थियो। हे भारत, वास्तवमा तब रुद्रले अत्यन्त भयङ्कर रूप धारण गरे।
40रुद्रले भयङ्कर कर्म गर्नका लागि त्यो रूप धारण गरेका छन् भन्ने सुनेर दानवहरू हर्षले भरिएर हतारिँदै उनीतर्फ आउन थाले, र आउँदा-आउँदै उनीमाथि विशाल शिला, बलिरहेका काठका राँको तथा छुराजस्तै तीक्ष्ण फलामका नाना प्रकारका भयङ्कर अस्त्र बर्साउन थाले।
41तर सम्पूर्ण प्राणीमा श्रेष्ठ, अविनाशी, बलले उर्लिरहेका शक्तिशाली रुद्रलाई देखेर दानवहरूको सेना स्तम्भित भयो र काँप्न थाल्यो।
42यद्यपि रुद्र एक्लै र असहाय थिए, तथापि हातमा खड्ग लिएर उनी रणभूमिमा यति छिटो विचरण गर्थे कि असुरहरूलाई लाग्यो मानौँ हजार रुद्र तिनीहरूसँग युद्ध गरिरहेका छन्।
43विदीर्ण गर्दै, छेड्दै, प्रहार गर्दै, काट्दै, अङ्ग छिनाल्दै र चूर पार्दै ती महादेव आफ्ना शत्रुहरूको विशाल समूहका बीच यसरी छिटो विचरण गरिरहे जसरी चारैतिर फैलिएका सुक्खा घाँसका थुप्रामा दावानल।
44महादेवको खड्गले आहत, भुजा, तिघ्रा र छाती काटिएका-छेडिएका तथा शिर छिन्न भएर शक्तिशाली असुरहरू पृथ्वीमा ढल्न थाले।
45खड्गका प्रहारले आहत अन्य दानवहरू भाग्दै एक-अर्कालाई ढाडस दिँदै सबै दिशामा भागे।
46कोही पृथ्वीको गर्भमा पसे; कोही पर्वतका गुफामा गएर लुके। कोही माथि आकाशतिर गए; कोही समुद्रमा प्रविष्ट भए।
47त्यस भयानक र घोर युद्धमा पृथ्वी मासु र रगतले ढाकियो, र चारैतिर भयङ्कर दृश्य देखिन थाले।
48रगतमा लत्पतिएका दानवहरूका ढलेका शरीरले ढाकिएको पृथ्वी यस्तो देखिन्थ्यो मानौँ किंशुकका फूलले भरिएका पर्वतशिखरले ढाकिएको होस्।
49दानवहरूको वध गरेर र पृथ्वीमा धर्मको पुनःस्थापना गरेर कल्याणकारी रुद्रले आफ्नो भयङ्कर रूप त्यागेर आफ्नो मङ्गलमय रूप धारण गरे।
50तब सम्पूर्ण ऋषि र सम्पूर्ण देवताहरूले उनको विजयका उच्च घोषले ती देवाधिदेवको स्तुति गरे।
51त्यसपछि दिव्य रुद्रले दानवहरूको रगतले लत्पतिएको त्यो खड्ग, जो धर्मको रक्षक हो, यथोचित सत्कारसहित विष्णुलाई दिए।
52विष्णुले त्यो मरीचिलाई दिए। दिव्य मरीचिले त्यो सम्पूर्ण महर्षिलाई दिए। महर्षिहरूले त्यो वासव (इन्द्र)लाई दिए।
53वासवले त्यो दिक्पालहरूलाई दिए। हे पुत्र, दिक्पालहरूले त्यो विशाल खड्ग सूर्यपुत्र मनुलाई दिए।
54मनुलाई दिने बेला उनीहरूले भने — तिमी सम्पूर्ण मनुष्यका स्वामी हौ। धर्मलाई आफ्नो गर्भमा धारण गर्ने यस खड्गले सम्पूर्ण प्राणीको रक्षा गर।
55जसले देह अथवा मनका कारण धर्मका बन्धनको उपेक्षा गरेका छन्, तिनलाई यथोचित दण्ड दिँदै विधिअनुसार प्रजाको रक्षा गर्नुपर्दछ, कहिल्यै मनपरीले होइन।
56कसैलाई हप्की, अर्थदण्ड र सम्पत्ति-हरणले दण्डित गर्नुपर्दछ। साना अपराधका लागि अङ्गच्छेद वा मृत्युदण्ड कहिल्यै दिनुहुँदैन।
57हप्की जसमा पहिलो हो, ती यी दण्ड खड्गकै अनेक रूप मानिन्छन्। यी ती रूप हुन् जो खड्गले (राजाको) रक्षामा रहने जनका पापका लागि धारण गर्दछ।
58कालान्तरमा मनुले आफ्ना पुत्र क्षुपलाई सम्पूर्ण प्राणीको राजा अभिषिक्त गरे, र प्रजाको रक्षाका लागि उनलाई त्यो खड्ग दिए।
59क्षुपले त्यो इक्ष्वाकुलाई दिए, र इक्ष्वाकुले पुरूरवालाई। पुरूरवाले त्यो आयुलाई दिए, र आयुले नहुषलाई।
60नहुषले त्यो ययातिलाई दिए, र ययातिले पुरुलाई। पुरुले त्यो अमूर्तरयलाई दिए। अमूर्तरयबाट त्यो राजा भूमिशयलाई प्राप्त भयो।
61भूमिशयले त्यो दुष्यन्तका पुत्र भरतलाई दिए। हे राजन्, भरतले त्यो धर्मात्मा ऐलविललाई दिए।
62ऐलविलले त्यो राजा धुन्धुमारलाई दिए। धुन्धुमारले त्यो काम्बोजलाई दिए, र काम्बोजले मुचुकुन्दलाई।
63मुचुकुन्दले त्यो मरुत्तलाई दिए, र मरुत्तले रैवतलाई। रैवतले त्यो युवनाश्वलाई दिए, र युवनाश्वले रघुलाई।
64रघुले त्यो पराक्रमी हरिणाश्वलाई दिए। हरिणाश्वले त्यो खड्ग सुनकलाई दिए, र सुनकले धर्मात्मा उशीनरलाई। अन्तिमबाट त्यो भोज र यादवहरूले ग्रहण गरे।
65यदुहरूले त्यो शिविलाई दिए। शिविले त्यो प्रतर्दनलाई दिए। प्रतर्दनले त्यो अष्टकलाई दिए, र अष्टकले पृषदश्वलाई।
66पृषदश्वले त्यो भरद्वाजलाई दिए, र भरद्वाजले द्रोणलाई। द्रोणले त्यो कृपलाई दिए। कृपले त्यो खड्गश्रेष्ठ तिमी र तिम्रा भाइहरूलाई दिए।
67जुन नक्षत्रमा खड्गको जन्म भयो त्यो कृत्तिका हो। अग्नि यसका देवता हुन्, र रोहिणी यसको गोत्र हो। रुद्र यसका महान् आचार्य हुन्।
68खड्गका आठ नाम छन् जो साधारणतया ज्ञात छैनन्। सुन, म तिमीलाई तिनका नाम बताउँछु। हे पाण्डुपुत्र, यदि कसैले यी नामको उच्चारण गर्दछ भने, ऊ सधैँ विजय प्राप्त गर्न सक्दछ।
69ती नाम हुन् — असि, वैशसन, खड्ग, तीक्ष्णधार, दुष्प्राप्य, श्रीगर्भ, विजय तथा धर्मरक्षक।
70हे माद्रवतीपुत्र, सम्पूर्ण अस्त्रहरूमा खड्गनै श्रेष्ठ हो। पुराणहरूले यथार्थतः भन्दछन् कि यसलाई सर्वप्रथम महादेवले धारण गरेका थिए।
71हे शत्रुदमन, फेरि धनुषका विषयमा — त्यसको रचना सर्वप्रथम पृथुले गरेका थिए। यसै अस्त्रको सहायताले वेनपुत्रले, अनेक वर्षसम्म धर्मपूर्वक पृथ्वीको शासन गर्दै, त्यसबाट प्रचुर मात्रामा शस्य र धान्य दुहे।
72हे माद्रीपुत्र, ऋषिहरूले जे भनेका छन् त्यसैलाई तिमीले पर्याप्त प्रमाण मान्नुपर्दछ। युद्धकुशल सम्पूर्ण पुरुषले खड्गको पूजा गर्नुपर्दछ।
73हे भरतवंशश्रेष्ठ, तिम्रो प्रश्नको प्रथम अंश — खड्गको उत्पत्ति र रचनाका विषयमा — मैले अब तिमीलाई यथार्थतः र पूर्णतः बताइदिएँ।
74खड्गको उत्पत्तिको यो उत्तम कथा सुन्नाले मनुष्यले यस लोकमा यश र परलोकमा शाश्वत सुख प्राप्त गर्दछ।"