कर्ण पर्व — श्रीकृष्ण और अर्जुन का संवाद
खण्ड 6 — कर्ण, शल्य, सौप्तिक एवं स्त्री पर्व · अध्याय 60
संस्कृत
1संजय उवाच एतस्मिन्नन्तरे कृष्णः पार्थ वचनमब्रवीत्। दर्शयन्निव कौन्तेयं धर्मराज युधिष्ठिरम्॥
2एष पाण्डव ते भ्राता धार्तराष्टैर्महाबलेः। जिघांसुभिर्महेष्वासैर्वृतं पार्थोऽनुसार्यते॥
3तं चानुयान्ति संरब्धा पञ्चाला युद्धदुर्मदाः। युधिष्ठिरं महात्मानं परीप्सन्तो महाबलाः॥
4एष दुर्योधनः पार्थ रथानीकेन दंशितः। राजा सर्वस्य लोकस्य राजानमनुधावति॥ जिघांसु पुरुषव्याघ्र भ्रातृभिः सहितो बली। आशीविषसमस्पशैः सर्वयुद्धविशारदैः॥
5एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः। युधिष्ठिरं धार्तराष्ट्रा नरोत्तममिवार्थिनः॥
6पश्य सात्वत भीमाभ्यां निरुद्धाधिष्ठिताः पुनः। जिहीर्षवोऽमृतं दैत्याः शक्रग्निभ्यामिवासकृत्॥
7एते बहुत्वात्त्वारिताः पुनर्गच्छन्ति पाण्डवम्। समुद्रमिव वार्योधाः प्रावृट्काले महारथाः॥
8नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान्। बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च॥
9मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम्। हुतमग्नौ च कौन्तेयं दुर्योधनवशं गतम्॥
10यथाविधमनीकं तु धार्तराष्ट्रस्य पाण्डव। नास्य शक्रोऽपिमुच्येत सम्प्रातो बाणगोचरम्॥
11दुर्योधनस्य वीरस्य शरौघाशीघ्रमस्यतः। संक्रुद्धस्यान्तकस्येव को वेगं संसहेद् रणे॥
12दुर्योधनस्य वीरस्य द्रौणे: शारद्वतस्य च। कर्णस्य चेषुवेगो वै पर्वतानपि शातयेत्॥
13कर्णेन च कृतो राजा विमुखः शत्रुतापनः। बलवाँल्लघुहस्तश्च कृती युद्धविशारदः॥
14राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे। सहितो धृतराष्ट्रस्य पुत्रैः शूरैर्महाबलेः॥
15तस्यैभिर्युध्यमानस्य संग्रामे संयतात्मनः। अन्यैरपि च पार्थस्य कृतं कर्म महारथैः॥
16उपवासकृशो राजा भृशं भरतसत्तमः। ब्राह्मे बले स्थितो ह्येष न क्षात्रे हि बले विभुः॥
17कर्णेन चाभियुक्तोऽयं भूपतिः शत्रुतापनः। शंशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः॥
18न जीवित महाराजो मन्ये पार्थ युधिष्ठिरः। यद् भीमसेनः सहते सिंहनादममर्षणः॥ नदतां धार्तराष्ट्राणां पुन: सिहनादममर्षणः। धमता च महाशङ्खान् संग्रामे जितकाशिनाम्॥
19युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ। शंचोदयत्यसौ कर्णो धार्तराष्ट्रान् महाबलान्॥ स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च। प्रच्छादयन्ति राजानं शस्त्रजालैर्महारथाः॥
20आतुरो हि कृतो राजा संनिषेव्यश्च भारत। यथैनमनुवर्तन्ते पञ्चालाः सह पाण्डवैः॥ त्वरमाणास्त्वराकाले सर्वशस्त्रभृता वराः। मज्जन्तमिव पाताले बलिनोऽप्युजिहीर्षवः॥
21न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैः। पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः॥ धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो। पञ्चालानां च सर्वेषां चेदीनां चैव भारत॥ एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम्। शरैविध्वंसयति वै नलिनीमिव कुञ्जरः॥
22एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन। पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः॥
23एतं भारत मातङ्गा कर्णेनभिहताः शरैः। आर्तनादान विकुर्वाणा विद्रवन्ति दिशो दश॥
24रथानां द्रवते वृन्दमेतचैव समन्ततः। द्राव्यमाणं रणे पार्थ कर्णेनमित्रकर्षिणा॥
25हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह। व्यस्यं सूतपुत्रस्य केतुं केतुमतां वर॥
26असौ धावति राधेयो भीमसेनरथं प्रति। किरशरशतान्येव विनिघ्नस्तवं वाहिनीम्॥
27एतान् पश्य च पञ्चालान् द्राव्यमाणान् महारथान्। शक्रेणेव यथा दैत्यान् हन्यमानान् महाहवे॥
28एष कर्णो रणे जित्वा पञ्चालान् पाण्डुसृञ्जयान्। दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः॥
29पश्य पार्थ धनुः श्रेष्ठ विकर्षन् साधु शोभते। शत्रु जित्वा यथा शक्रो देवसंघैः समावृतः॥
30एते नर्दन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम्। त्रासयन्तो रणे पाण्डून् सृञ्जयांश्च समन्ततः॥
31एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे। अभिभाषित राधेयः सर्वसैन्यानि मानद॥
32अभिद्रवत भद्रं वो दुतं द्रवत कौरवाः। यथा जीवन वः कश्चिन्मुच्येत युधि सृञ्जयः॥
33तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः। एवमुक्त्वा गतो ह्येष पृष्ठतो विकिरञ्छरान्॥
34पश्य कर्ण रणे श्वेतच्छत्रविराजितम्। उदयं पर्वतं यद्वच्छसाङ्केनाभिशोभितम्॥
35पूर्णचन्द्रनिकाशेन मूर्ध्निच्छत्रेण भारत। ध्रियमाणेन समरे श्रीमच्छतशलाकिना॥ एष त्वां प्रेक्षते कर्णः सकटाक्षं विशाम्पते। उत्तमं जवमास्थाय ध्रुवमेष्यति संयुगे॥
36पश्य होनं महाबाहो विधुन्वानं महद् धनुः। शरांश्चाशीविषाकारान् विसृजन्तं महारणे॥
37असौ निवृत्तौ राधेयो दृष्ट्वा ते वानरध्वजम्। प्रार्थयन् समरे पार्थ त्वया सह परंतप॥
38वधाय चात्मनोऽभ्येति दीप्तास्यं शलभो यथा। कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत॥ रिरक्षिषुः सुसंवृत्तो धार्तराष्ट्रो निवर्तते।
39सर्वैः सहैभिर्दुष्टात्मा वध्यतां च प्रयत्नतः॥ त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता।
40अदीनयोर्विश्रुतयोर्युवयोर्योत्स्यमानयोः॥ देवासुरे पार्थ मृधे देवदानवयोरिव। पश्यन्तु कौरवाः सर्वे तव पार्थ पराक्रमम्॥
41त्वां च दृष्ट्वातिसंरब्धं कर्णं च भरतर्षभ। असौ दुर्योधनः क्रुद्धो नोत्तरं प्रतिपद्यते॥
42आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ। कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे। प्रतिपद्यस्व कौन्तेयं प्राप्तकालमनन्तरम्॥
43आर्यां युद्धे मति कृत्वा प्रत्येहि रथयूथपम्। पञ्च ह्येतानि मुख्यानि स्थानां रथसत्तम॥ शतान्यायान्ति समरे बलिनां तिग्मतेजसाम्। पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा॥ अभिसंहत्य कौन्तेयं पदातिप्रयुतानि च।
44अन्यान्यरक्षितं वीर बलं त्वामभिवर्तते॥ द्रोणपुत्रं पुरस्कृत्य तच्छीघ्रं संनिषूदय।
45निकृत्यैतद्रथानीकं बलिनं लोकविश्रुतम्॥ सूतपुत्रं महेष्वासं दर्शयात्मानमात्मना।
46उत्तमं जवमास्थाय प्रत्येहि भरतर्षभ।॥ असौ कर्णः सुसंरब्धः पञ्चालानभिधावति। केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति॥
47समुपैष्यति पञ्चालानिति मन्ये परंतप। आचक्षे च प्रियं पार्थ तवेदं भरतर्षभ॥ राजासौ कुशली श्रीमान् धर्मपुत्रो युधिष्ठिरः। असौ भीमो महाबाहुः संनिवृत्तश्चमूमुखे॥
48वृतः सृञ्जयसैन्येन शैनेयेन च भारत। वध्यन्त एते समरे कौरवा निशितैः शरै॥ भीमसेनेन कौन्तेय पञ्चालैश्च महात्मभिः।
49सेना हि धार्तराष्ट्रस्य विमुखा विक्षरवणा॥ विप्रधावति वेगेन भीमस्याभिहता शरैः।
50विपन्नसस्येव मही रुधिरेण समुक्षिता॥ भारती भरतश्रेष्ठ सेना कृपणदर्शना।
51निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम्॥ आशीविषमिव क्रुद्धं द्रावयन्तं वरूथिनीम्।
52पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः॥ पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन।
53सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः॥ केतवोऽभिनिपात्यन्ते हस्त्यश्वं च प्रकीर्यते।
54रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः॥ नानावणैर्हता बाणैः पञ्चालैरपलायिभिः।
55निर्मनुष्यान् गजानश्वान् रथांश्चैव धनंजय॥ समाद्रवन्ति पञ्चाला धार्तराष्ट्रांस्तरस्विनः। विमृद्नन्ति नरव्याघ्रा भीमसेनबलाश्रयात्॥
56बलं परेषां दुर्धर्षास्त्यक्त्वा प्राणानरिंदम। एते नर्दन्ति पञ्चाला ध्मापयन्ति च वारिजान्॥
57अभिद्रवन्ति च रणे मृदनन्तः सायकैः : परान्। पश्यस्वैषां च माहात्म्यं पञ्चाला हि पराक्रमात्॥ धार्तराष्ट्रान् विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान्।
58शस्त्रमाच्छिद्य शत्रूणां सायुधानां निरायुधाः॥ तेनैवैतानमोधास्त्रा निघ्नन्ति च नदन्ति च।
59शिरांस्येतानि पात्यन्ते शत्रूणां बाहवोऽपि च॥ रथनागहया वीरा यशस्याः सर्व एव च।
60सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः॥ पञ्चलैर्मानसादेत्य हंसर्गनेव वेगितैः।
61सुभृशं च पराक्रान्ताः पञ्चालानां निवारणे॥ कृपकर्णादयो वीरा ऋषभाणामिवर्षभाः।
62भीमास्त्रेण सुनिर्भग्नान् धार्तराष्ट्रान् महारथान्॥ धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून् सहस्रशः।
63पञ्चालेष्वभिभूतेषु द्विषद्भिरपभीर्नदन्॥ शत्रुपक्षमवस्कन्ध शरानस्यति मारुतिः।
64विषण्णभूयिष्ठतरा धार्तराष्ट्री महाचमूः॥ रथाश्चैते सुवित्रस्ता भीमसेनभयार्दिताः।
65पश्य भीमेन नाराचैर्भिन्ना नागाः पतन्त्यमी॥ वज्रिवज्रहतानीव शिखराणि धराभृताम्।
66भीमसेनस्य निर्विदा बाणैः संनतपर्वभिः॥ स्वान्यनीकानि मृदनन्तो द्रवन्त्येते महागजा:।
67अभिजानीहि भीमस्य सिंहनादं सुदुःसहम्॥ नदतोऽर्जुनं संग्रामे वीरस्य जितकाशिनः।
68एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम्॥ जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः।
69सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः॥ तीक्ष्णैरग्निविप्रख्यैर्नाराचैर्दशभिर्हतः।
70हत्वैन पुनरायाति नागानन्यान् प्रहारिणः॥ पश्य नीलाम्बुदनिभान् महासात्रैरधिष्ठितान्। शक्तितोमरसंघातैविनिघ्नन्तं वृकोदरम्॥
71सप्तसप्त च नागांस्तान् वैजयन्तीश्च सध्वजाः। निहत्य निशितैर्बाणश्छिन्नाः पार्थाग्रजेन ते॥
72दशभिर्दशाभिश्चैको नाराचैर्निहतो गजः। न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा॥ पुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभ।
73अक्षौहिण्यस्तथा तिस्त्रो धार्तराष्ट्रस्य संहता। क्रुद्धेन भीमसेनेन नरसिंहने वारिताः॥
74न शक्नुवन्ति वै पार्थ पार्थिवाः समुदीक्षितुम्। मध्यंदिनगतं सूर्य यथा दुर्बलचक्षुषः॥
75एते भीमस्य संत्रस्ता: सिंहस्येवेतरे मृगाः। शरैः संत्रासिताः संख्ये न लभन्ते सुखं क्वचित्।। ८८
76संजय उवाच एतच्छ्रुत्वा महाबाहुर्वासुदेवाद् धनंजयः। भीमसेनेन तत् कर्मकृतं दृष्ट्वा सुदुष्करम्॥ अर्जुनो व्यधमच्छिष्टानहितान् निशितैः शरैः।
77ते वध्यमानाः समरे संशप्तकगणाः प्रभो॥ प्रभग्नाः समरे भीता दिशो दश महाबलाः। शक्रस्यातिथितां गत्वा विशोका ह्यभवंस्तदा॥
78पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः। जघान् धार्तराष्ट्रस्य चतुर्विधबलां चमूम्॥
79पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः। जघान् धार्तराष्ट्रस्य चतुर्विधबलां चमूम्॥
अंग्रेज़ी
1Sanjaya said In the meantime pointing out the righteous king Yudhishthira to Parthia, the son of Kunti, Krishna said-
2Behold, O son of Pandu, your brother Yudhishthira pursued by the highly powerful sons of Dhritarashtra, all great bowmen desirous of killing him.
3The powerful Panchalas, whom it is difficult to vanquish, are running after the great Yudhishthira for rescuing him.
4Accoutred in coat of mail and accompanied by a large army Duryodhana, the king of the whole world, is pursuing the Pandava king, with a view to kill him, O foremost of men, assisted by his brothers, all expert in fighting whose very touch is like the deadly venom of serpents.
5Your army, riding on elephants, horses and cars and proceeding on foot are going to kill a Yudhishthira like poor men for possessing a costly gem.
6See, obstructed by Satvata and Bhima, they have become motionless like unto the Dailyas desirous of pilfering ambrosia stupefied by Sakra and Agni.
7On account of their numerical vastness (the Kuru) car-warriors are proceeding quickly towards Yudhishthira like unto a collection of water running towards the ocean during the rainy season.
8Blowing their conch-shell and shaking their bows those powerful bow-men are sending up leonine shouts.
9I regard Kunti's son Yudhishthira who has been brought under the influence of Duryodhana as within the mouth of Death or like an oblation of ghee in fire.
10Duryodhana's army is properly armed. Coming within the range of their arrows even Sakra cannot escape.
11Who in battle can bear the force of arrows shot by Duryodhana, who, when worked ups with anger, resembles Death himself.
12The force of Duryodhana's arrows, or of Drona's son's, or Kripa's, or Karna's, can shatter even the very mountains. was
13The powerful light-handed and successful king Yudhishthira, expert in fighting and the scorcher of his enemies, was compelled by Karna to retreat from the battle-field.
14Accompanied by the highly powerful and heroic sons of Dhritarashtra the son of Radha is capable of afflicting the Pandava chief in battle.
15While the self-controlled Partha fighting with them, other great car-warriors brought about his discomfiture.
16O foremost of Bharatas, the king is great emaciated with fasts. He is gifted with the force of a Brahmana, but he is not endued with Kshatriya prowess.
17Afflicted by Karna the king Yudhishthira, the son Pandu, has been greatly imperiled.
18I think, O Partha, the king, Yudhishthira has fallen, since the wrathful Bhimasena, the slayer of his enemies, is calmy bearing the leonine shouts repeatedly sent up by Dhritarashtra's sons desirous of achieving victory and blowing their conch-shells.
19Indeed, O foremost of men, Pandu's son Yudhishthira is slain. See Karna is exciting the great car-warrior of Dhritarashtra's army. The powerful car-warriors are covering the son of Pritha with a down-pour of various weapons such as Indrajala, Sthunakarna and Pasupata.
20Forsooth, O Arjuna, the king is greatly wounded and weakened, since the Panchalas, the wielders of all sorts of weapons, accompanied with Pandavas, are following him hurriedly at a time when it is necessary to display speed like unto men rushing to rescue a man sinking under earth.
21The king's standard is not to be seen. Most likely it has been struck down by Karna with his arrows. Before the very eyes of the twin brothers, Satyaki, Shikhandin, Dhristadyumna, Satanika, Panchalas and Chedis, Karna is killing the Pandava army like an elephant spoilating lotuses.
22The car-warriors of your army, O son of Pandu, are flying away. See, O Partha, how they are taking to their heels.
23Struck by Karna in battle, O Arjuna the elephants are flying away in ten directions yelling cries of pain.
24Pursued in battle by Karna, the grinder of his enemies the collection of cars is dispersed on all sides.
25O foremost of those leading standards, see the standard the bearing the emblem of an elephant of charioteer's son is moving about all over (the field).
26There the son of Radha runs after Bhimasena scattering hundreds of arrows and killing your soldiers.
27There the powerful Panchala car-warriors are being dispersed (by him) like the Daityas slain by Sakra in the great battle.
28Having defeated the Panchalas, Pandavas and Srinjayas, Karna is casting his eyes on all sides, methinks, for finding you out.
29See Partha, how beautiful he looks while drawing his best of bows as did shine Shakra in the midst of the celestials after having defeated his enemies.
30Witnessing Karna's power there the Kauravas are shouting and striking terror to the Pandavas and Srinjayas.
31Having thus terrified the Pandavas in the great battle with all his force, the son of Radha, O giver of honor, addressing his army said-
32“May you fare well, O Kauravas. Do you move on with such a force that no Srinjaya can escape from the battle-field with his life.
33Do so in a body. We will follow you." Saying this he followed them shooting his arrow.
34See Partha, Karna is shining in the battlefield with a white umbrella like the Udaya (rising mountain) beautified with the moon.
35With this umbrella of a hundred ribs resembling the full-moon held over his head he is casting his looks around for you. Forsooth, he will come here quickly.
36See, O you of large arms, he is drawing a huge bow shooting, in the great battle, arrows resembling deadly serpents.
37Seeing your banner bearing the emblem of a monkey the son of Radha is turning to this direction for seeking an encounter with you.
38O Partha and bringing on his destruction like an insect approaching a burning flame. This wrathful hero is engaged in the well-being of Dhritarashtra's son; that own W one of wicked understanding always seeks to injure you. Seeing Karna alone Dhritarashtra's son is turning with his car force to protect him.
39That wicked man with all his followers should be killed by you with all care if you wish to secure fame, kingdom and happiness.
40O Partha! All Kauravas will introduce with your valour when the battle is initiated with extremne vigour between you both warriors renowned in the world. It will be a fight the same as took place during long long ago between demons and gods.
41Seeing you greatly worked up with anger and Karna too Duryodhiana, although angered, will not be able to do anything.
42O foremost of Bharatas, knowing yourself self-controlled and Karna cherishing animosity against the pious Yudhishthira, O son of Kunti, make use of this good opportunity.
43Making up your mind for battle encounter all the car-warriors. O foremost of car-warriors, five hundred most excellent, powerful and energetic, car-warriors, five thousand elephants, ten thousand horses and ten lakhs foot-soldiers, protecting one another coming against you in a battle-field. as are
44O warrior! Kill immediately the army just ready to attack on you under circle of defence led by Ashvatthama, the son of Drona.
45Of your own accord show yourself to the great bowman, the charioteer's son. Advance with great force, O foremost of Bharatas.
46Worked up up with anger there Karna advances against the Panchalas. I see his standard approaching the car of Dhristadyumna, forsooth.
47He will root out the Panchalas. O Bharata chief, I will communicate to you a good intelligence, the virtuous king Yudhishthira is still alive. The mighty-armed Bhima has returned and is leading the army.
48He is surrounded by the Srinjayas and Satyaki. There in battle the Kuru soldiers are being killed in battle with sharp arrows by Bhimasena and the high-souled Panchalas.
49Wounded with Bhima's arrows, Duryodhana's army, retreating and bathed in blood, are quickly flying away.
50Covered with blood the Bharata is looking poorly like the earth divested of crops.
51Behold, O son of Kunti, Bhimasena, the commander of your army, worked up with anger like a serpent, is assailing the (Kuru) troops.
52Look, O Arjuna, at the yellow, crimson, black and white banners painted with stars, moons and suns and innumerable umbrellas scattered all over the field.
53Standards, made of gold, silver and other metals, are lying about and there lie scattered slain horses.
54Car-warriors, deprived of their life, are dropping down from cars, killed by the unretreating Panchalas with variegated arrows.
55There the quick-coursing Panchalas, O Dhananjaya, are rushing against the elephants, horses and cars belonging the Dhritarashtra's party, divested of their riders. O foremost of men, O slayer of enemies, your warriors, giving up the love of their lives and invincible in battle, are, aided by Bhimasena's power, grinding the enemy's army.
56There the Panchalas are sending up loud war-cries and blowing their conchs as they are advancing against their enemies and grinding them with their arrows.
57Look at their greatness. through their power the Panchalas are killing Dhritarashtra's soldiers as the angry lions kill the tigers.
58Themselves although without any arms they are carrying away the arms of the enemies (from their hands) and with them they are killing foes and making war-caries.
59They are striking down the heads and arms of their enemies. Their car-warriors, elephantwarriors and cavalry are all heroic and praiseworthy.
60Like quick-coursing swans leaving Manasa lake and running into the Ganges the Panchalas are rushing against the Kuru army and are assailing every part of the huge force of Duryodhana.
61Like bulls withstanding bulls, Kripa, Karna and other warriors with all their energy are resisting the Panchalas.
62The heroes, headed by Dhristadyumna, are killing thousands of their enemies, the great car-warriors of Duryodhana's force, already sunk in the ocean of Bhima's weapons.
63Beholding Panchalas overpowered by their energies Marut's son is covering the hostile force with arrows and with roars of lions.
64The major portion of the huge army of Duryodhana is stricken with fear. The cars and horses assailed with Bhima's fear have been scattered all over.
65See, these elephants, struck by Bhima with his Narachas, are dropping down like the summits of mountains clapped by Indra's thunder-bolt.
66There the huge elephants, wounded by Bhima with his arrows, are flying away crushing their own army.
67Do you not recognise the leonine shouts of Bhima, O Arjuna, who, worked up with the desire of achieving victory, is roaring.
68There worked up with anger the Prince of Nishadas is advancing on his best of cars, like Death himself armed with his rod against the son of Pandu for killing him with his Tomara.
69His two arms with Tomaras are cut-off by Bhima with ten sharpened Narachas effulgent like fire of the sun.
70Killing him he is proceeding against other elephants resembling a mass of dark blue clouds and driven by riders. They are striking Vrikodara with Saktis and Tomaras.
71Slaying those forty-nine elephants with sharp arrows Parthas' elder brother is striking down their victorious standards.
72The other elephants were killed each with ten Narachas. The war-cries of Dhritarashtra's soldiers are no longer audible since (Bhima), like Purandara himself, is engaged in battle.
73Three Akshauhini of Dhritarashtra's soldiers have been arranged and they all have been thwarted by angry Bhima, the foremost of men.
74As the people having weak eye-sight cannot see at sun in noon, the kings are unable to gaze directly at Bhimasena, the son of Kunti.
75As the stags feel anxiety with fear of lion, these Kauravas' soldiers are so frightened of the arrows shot by Bhimasena as they are anxious everywhere in the battle-field.
76Sanjaya said Beholding that arduous task accomplished by Bhima Arjuna, with his sharp arrows, killed the remaining enemies.
77O sovereign! The mighty samsaptakas have run away to ten directions on account of their severe slaughter in battle-field and the departing as also loss of courage. A number of other warriors got immediate relief by joining Indra as his guest.
78Lion heart Partha killed the Caturangini army (infantry, chariot-rider, horse-riders and elephant-riders) led by Duryodhana by shooting arrows with bent nodes. O sovereign! The mighty samsaptakas have run away to ten directions on account of their severe slaughter in battle-field and the departing as also loss of courage. A number of other warriors got immediate relief by joining Indra as his guest.
79Lion heart Partha killed the Caturangini army (infantry, chariot-rider, horse-riders and elephant-riders) led by Duryodhana by shooting arrows with bent nodes.
हिन्दी
1सञ्जय ने कहा — इसी बीच कुन्तीपुत्र पार्थ को धर्मात्मा राजा युधिष्ठिर की ओर संकेत करते हुए कृष्ण ने कहा —
2हे पाण्डुपुत्र, देखो, तुम्हारे भ्राता युधिष्ठिर का धृतराष्ट्र के अत्यन्त बलवान् पुत्र पीछा कर रहे हैं, जो सब महाधनुर्धर हैं और उनका वध करना चाहते हैं।
3जिन्हें जीतना कठिन है, वे बलवान् पाञ्चाल महात्मा युधिष्ठिर की रक्षा के लिए उनके पीछे दौड़ रहे हैं।
4हे नरश्रेष्ठ, कवच धारण किए और विशाल सेना के साथ समस्त पृथ्वी का राजा दुर्योधन पाण्डवराज का वध करने के उद्देश्य से उनका पीछा कर रहा है, और उसकी सहायता उसके भाई कर रहे हैं, जो सब युद्ध में निपुण हैं और जिनका स्पर्श ही सर्पों के प्राणघातक विष के समान है।
5हाथियों, अश्वों और रथों पर सवार तथा पैदल चलती हुई वह सेना युधिष्ठिर का वध करने चली है — जैसे दरिद्र मनुष्य किसी बहुमूल्य रत्न को पाने के लिए दौड़ पड़ें।
6देखो, सात्वत (सात्यकि) और भीम द्वारा रोके जाने पर वे उसी प्रकार निश्चल हो गए हैं जैसे अमृत चुराने की इच्छा रखने वाले दैत्य शक्र और अग्नि द्वारा स्तम्भित कर दिए गए हों।
7अपनी विशाल संख्या के बल पर (कुरु) महारथी युधिष्ठिर की ओर उसी प्रकार शीघ्रता से बढ़ रहे हैं जैसे वर्षाकाल में जलराशि समुद्र की ओर दौड़ती है।
8अपने शंख बजाते और धनुष कँपाते हुए वे बलवान् धनुर्धर सिंहनाद कर रहे हैं।
9दुर्योधन के वश में पड़े कुन्तीपुत्र युधिष्ठिर को मैं मृत्यु के मुख में पड़ा हुआ अथवा अग्नि में डाली गई घृत की आहुति के समान मानता हूँ।
10दुर्योधन की सेना भलीभाँति सुसज्जित है। उनके बाणों की सीमा में आ जाने पर स्वयं शक्र भी बच नहीं सकते।
11क्रोध से भरने पर साक्षात् मृत्यु के समान दिखने वाले दुर्योधन द्वारा छोड़े गए बाणों का वेग युद्ध में कौन सह सकता है?
12दुर्योधन के, अथवा द्रोणपुत्र के, अथवा कृप के, अथवा कर्ण के बाणों का वेग पर्वतों को भी चूर-चूर कर सकता है।
13बलवान्, फुर्तीले हाथों वाले और सफल राजा युधिष्ठिर, जो युद्ध में निपुण और शत्रुतापन हैं, कर्ण द्वारा रणभूमि से पीछे हटने को विवश कर दिए गए।
14धृतराष्ट्र के अत्यन्त बलवान् और वीर पुत्रों के साथ मिलकर राधापुत्र युद्ध में पाण्डवराज को पीड़ित करने में समर्थ है।
15जब संयमी पार्थ (युधिष्ठिर) उनसे युद्ध कर रहे थे, तब अन्य महारथियों ने उन्हें परास्त कर दिया।
16हे भरतश्रेष्ठ, राजा उपवासों से अत्यन्त क्षीण हैं। वे ब्राह्मण के बल से सम्पन्न हैं, किन्तु क्षत्रिय के पराक्रम से नहीं।
17कर्ण द्वारा पीड़ित पाण्डुपुत्र राजा युधिष्ठिर महान् संकट में पड़ गए हैं।
18हे पार्थ, मुझे लगता है कि राजा युधिष्ठिर मारे गए, क्योंकि शत्रुसंहारक क्रोधी भीमसेन विजय के अभिलाषी धृतराष्ट्रपुत्रों द्वारा बार-बार किए जाते सिंहनाद और उनके शंखनाद को चुपचाप सह रहे हैं।
19हे नरश्रेष्ठ, निश्चय ही पाण्डुपुत्र युधिष्ठिर मारे गए। देखो, कर्ण धृतराष्ट्र की सेना के महारथियों को उत्तेजित कर रहा है। वे बलवान् महारथी इन्द्रजाल, स्थूणाकर्ण और पाशुपत जैसे नाना अस्त्रों की वर्षा से पृथापुत्र को ढँक रहे हैं।
20हे अर्जुन, निश्चय ही राजा गम्भीर रूप से घायल और दुर्बल हो चुके हैं, क्योंकि समस्त अस्त्रों के ज्ञाता पाञ्चाल, पाण्डवों सहित, ऐसे समय में शीघ्रता से उनके पीछे जा रहे हैं जब वेग दिखाना आवश्यक है — जैसे लोग धरती में धँसते हुए किसी मनुष्य को बचाने के लिए दौड़ पड़ें।
21राजा की ध्वजा दिखाई नहीं देती। सम्भवतः कर्ण ने उसे अपने बाणों से गिरा दिया है। दोनों जुड़वाँ भाइयों, सात्यकि, शिखण्डी, धृष्टद्युम्न, शतानीक, पाञ्चालों और चेदियों की आँखों के सामने ही कर्ण पाण्डव-सेना का उसी प्रकार वध कर रहा है जैसे कोई हाथी कमलों को रौंद डालता है।
22हे पाण्डुपुत्र, तुम्हारी सेना के महारथी भाग रहे हैं। हे पार्थ, देखो, वे कैसे पीठ दिखाकर भाग रहे हैं।
23हे अर्जुन, युद्ध में कर्ण से आहत होकर हाथी पीड़ा की चीत्कार करते हुए दसों दिशाओं में भाग रहे हैं।
24युद्ध में शत्रुमर्दन कर्ण द्वारा पीछा किए जाने पर रथों का समूह चारों ओर बिखर गया है।
25हे श्रेष्ठ ध्वजाधारियों में अग्रगण्य, देखो, सारथिपुत्र की हाथी के चिह्न वाली वह ध्वजा समस्त रणभूमि में घूम रही है।
26वहाँ राधापुत्र सैकड़ों बाण बिखेरता और तुम्हारे सैनिकों का वध करता हुआ भीमसेन के पीछे दौड़ रहा है।
27वहाँ बलवान् पाञ्चाल महारथी उसके द्वारा उसी प्रकार बिखेरे जा रहे हैं जैसे महायुद्ध में शक्र द्वारा मारे गए दैत्य।
28पाञ्चालों, पाण्डवों और सृंजयों को परास्त करके कर्ण चारों ओर दृष्टि डाल रहा है — मुझे लगता है, तुम्हें ही खोजने के लिए।
29हे पार्थ, देखो, अपना श्रेष्ठ धनुष खींचते हुए वह कितना सुन्दर दिखाई देता है — जैसे अपने शत्रुओं को परास्त करके देवताओं के मध्य शक्र शोभित होते थे।
30वहाँ कर्ण का बल देखकर कौरव जयघोष कर रहे हैं और पाण्डवों तथा सृंजयों के हृदय में भय भर रहे हैं।
31हे मानप्रद, इस प्रकार अपने पूरे बल से महायुद्ध में पाण्डवों को भयभीत करके राधापुत्र ने अपनी सेना को सम्बोधित करते हुए कहा —
32"हे कौरवो, तुम्हारा कल्याण हो। तुम ऐसे वेग से आगे बढ़ो कि कोई सृंजय प्राणों सहित रणभूमि से बचकर न जा सके।
33यह सब एक साथ करो। हम तुम्हारे पीछे आते हैं।" यह कहकर वह बाण छोड़ता हुआ उनके पीछे चला।
34हे पार्थ, देखो, श्वेत छत्र के साथ कर्ण रणभूमि में उसी प्रकार शोभित हो रहा है जैसे चन्द्रमा से सुशोभित उदयाचल।
35पूर्ण चन्द्रमा के समान सौ तीलियों वाला वह छत्र अपने सिर पर तने हुए वह तुम्हें खोजने के लिए चारों ओर दृष्टि डाल रहा है। निश्चय ही वह शीघ्र ही यहाँ आएगा।
36हे महाबाहु, देखो, वह अपना विशाल धनुष खींचकर महायुद्ध में प्राणघातक सर्पों के समान बाण छोड़ रहा है।
37वानर के चिह्न वाली तुम्हारी ध्वजा देखकर राधापुत्र तुमसे भिड़ने के लिए इसी दिशा की ओर मुड़ रहा है।
38हे पार्थ, वह अपना ही विनाश लेकर आ रहा है — जैसे कोई पतंगा जलती ज्वाला की ओर बढ़ता है। यह क्रोधी वीर धृतराष्ट्रपुत्र के हित में लगा हुआ है; वह दुर्बुद्धि सदा तुम्हारा अनिष्ट ही चाहता है। कर्ण को अकेला देखकर धृतराष्ट्रपुत्र अपनी रथसेना सहित उसकी रक्षा के लिए मुड़ रहा है।
39यदि तुम यश, राज्य और सुख प्राप्त करना चाहते हो, तो उस दुष्ट को उसके समस्त अनुचरों सहित पूरी सावधानी से मार डालो।
40हे पार्थ! जब जगत् में विख्यात तुम दोनों योद्धाओं के बीच अत्यन्त प्रचण्ड युद्ध छिड़ेगा, तब समस्त कौरव तुम्हारे पराक्रम से परिचित होंगे। वह युद्ध वैसा ही होगा जैसा बहुत पहले असुरों और देवताओं के बीच हुआ था।
41तुम्हें और कर्ण को अत्यन्त क्रोध से भरा देखकर दुर्योधन क्रुद्ध होते हुए भी कुछ न कर सकेगा।
42हे भरतश्रेष्ठ, अपने आपको संयमी जानकर और कर्ण को धर्मात्मा युधिष्ठिर के प्रति द्वेष पालते जानकर, हे कुन्तीपुत्र, इस उत्तम अवसर का लाभ उठाओ।
43युद्ध का मन बनाकर समस्त महारथियों का सामना करो। हे रथियों में श्रेष्ठ, पाँच सौ अत्यन्त उत्तम, बलवान् और तेजस्वी महारथी, पाँच सहस्र हाथी, दस सहस्र अश्व तथा दस लाख पैदल सैनिक एक-दूसरे की रक्षा करते हुए रणभूमि में तुम्हारे सम्मुख आ रहे हैं।
44हे वीर! द्रोणपुत्र अश्वत्थामा के नेतृत्व में चक्रव्यूह बनाकर तुम पर आक्रमण करने को तैयार उस सेना का तत्काल वध करो।
45स्वयं आगे बढ़कर उस महाधनुर्धर सारथिपुत्र के सम्मुख अपने-आपको प्रकट करो। हे भरतश्रेष्ठ, महान् वेग से आगे बढ़ो।
46वहाँ क्रोध से भरकर कर्ण पाञ्चालों के विरुद्ध बढ़ रहा है। मैं उसकी ध्वजा को धृष्टद्युम्न के रथ के समीप पहुँचते देख रहा हूँ — निश्चय ही।
47वह पाञ्चालों को जड़ से उखाड़ देगा। हे भरतश्रेष्ठ, मैं तुम्हें एक शुभ समाचार दूँ — धर्मात्मा राजा युधिष्ठिर अब भी जीवित हैं। महाबाहु भीम लौट आए हैं और सेना का नेतृत्व कर रहे हैं।
48वे सृंजयों और सात्यकि से घिरे हैं। वहाँ युद्ध में भीमसेन और महात्मा पाञ्चालों के तीक्ष्ण बाणों से कुरु-सैनिक मारे जा रहे हैं।
49भीम के बाणों से घायल होकर, पीछे हटती और रुधिर में नहाई दुर्योधन की सेना शीघ्रता से भाग रही है।
50रुधिर से ढँकी हुई वह भारत-सेना उस पृथ्वी के समान दीन दिखाई दे रही है जिसकी फसल उजड़ गई हो।
51हे कुन्तीपुत्र, देखो, तुम्हारी सेना के सेनापति भीमसेन सर्प के समान क्रोध से भरकर (कुरु) सेना पर प्रहार कर रहे हैं।
52हे अर्जुन, देखो — तारों, चन्द्रमाओं और सूर्यों से चित्रित पीली, लाल, काली और श्वेत पताकाएँ तथा असंख्य छत्र समस्त रणभूमि में बिखरे पड़े हैं।
53स्वर्ण, चाँदी तथा अन्य धातुओं की बनी ध्वजाएँ इधर-उधर पड़ी हैं और वहीं मारे गए अश्व बिखरे पड़े हैं।
54रणभूमि से न हटने वाले पाञ्चालों द्वारा नाना प्रकार के बाणों से मारे गए महारथी प्राणों से हीन होकर अपने रथों से गिर रहे हैं।
55हे धनञ्जय, वहाँ शीघ्रगामी पाञ्चाल धृतराष्ट्र के पक्ष के उन हाथियों, अश्वों और रथों की ओर झपट रहे हैं, जो अपने सवारों से रहित हैं। हे नरश्रेष्ठ, हे शत्रुसंहारक, तुम्हारे योद्धा प्राणों का मोह छोड़कर और युद्ध में अजेय होकर, भीमसेन के बल से सहायता पाकर शत्रु की सेना को पीस रहे हैं।
56वहाँ पाञ्चाल ऊँचे स्वर से सिंहनाद कर रहे हैं और अपने शंख बजा रहे हैं, जब वे अपने शत्रुओं के सम्मुख बढ़ते और उन्हें अपने बाणों से पीसते जा रहे हैं।
57उनकी महत्ता देखो। अपने बल से पाञ्चाल धृतराष्ट्र के सैनिकों का उसी प्रकार वध कर रहे हैं जैसे क्रुद्ध सिंह व्याघ्रों का वध करते हैं।
58स्वयं निःशस्त्र होते हुए भी वे शत्रुओं के हाथों से उनके अस्त्र छीन लेते हैं और उन्हीं से शत्रुओं का वध करते हुए सिंहनाद करते हैं।
59वे अपने शत्रुओं के मस्तक और भुजाएँ काट रहे हैं। उनके महारथी, गजयोद्धा और अश्वारोही — सब वीर और प्रशंसा के योग्य हैं।
60जैसे शीघ्रगामी हंस मानसरोवर छोड़कर गंगा की ओर दौड़ पड़ते हैं, वैसे ही पाञ्चाल कुरु-सेना पर टूट पड़ रहे हैं और दुर्योधन की विशाल सेना के प्रत्येक भाग पर प्रहार कर रहे हैं।
61जैसे साँड़ साँड़ों का सामना करते हैं, वैसे ही कृप, कर्ण तथा अन्य योद्धा अपने पूरे बल से पाञ्चालों का प्रतिरोध कर रहे हैं।
62धृष्टद्युम्न के नेतृत्व में वे वीर अपने शत्रुओं का, दुर्योधन की सेना के उन महारथियों का, जो पहले ही भीम के अस्त्रों के सागर में डूब चुके हैं, सहस्रों की संख्या में वध कर रहे हैं।
63पाञ्चालों को अपने तेज से शत्रुओं पर हावी होते देखकर मरुत्पुत्र (भीम) शत्रु-सेना को बाणों और सिंहगर्जनाओं से ढँक रहे हैं।
64दुर्योधन की विशाल सेना का अधिकांश भाग भय से ग्रस्त है। भीम के भय से आक्रान्त रथ और अश्व चारों ओर बिखर गए हैं।
65देखो, भीम द्वारा अपने नाराचों से आहत ये हाथी उसी प्रकार गिर रहे हैं जैसे इन्द्र के वज्र से आहत पर्वत-शिखर।
66वहाँ भीम के बाणों से घायल विशाल हाथी अपनी ही सेना को कुचलते हुए भाग रहे हैं।
67हे अर्जुन, क्या तुम भीम के उन सिंहनादों को नहीं पहचानते, जो विजय प्राप्त करने की इच्छा से भरकर गरज रहे हैं?
68वहाँ क्रोध से भरकर निषादराज अपने श्रेष्ठ रथ पर आरूढ़ होकर पाण्डुपुत्र की ओर बढ़ रहा है — मानो हाथ में दण्ड लिए साक्षात् मृत्यु — उन्हें अपने तोमर से मारने के लिए।
69तोमर थामे उसकी दोनों भुजाएँ भीम ने सूर्य की अग्नि के समान तेजस्वी दस तीक्ष्ण नाराचों से काट डालीं।
70उसका वध करके वे अन्य हाथियों की ओर बढ़ रहे हैं, जो गहरे नीले मेघों के समूह के समान दिखाई देते हैं और महावतों द्वारा हाँके जा रहे हैं। वे वृकोदर पर शक्तियों और तोमरों से प्रहार कर रहे हैं।
71तीक्ष्ण बाणों से उन उनचास हाथियों का वध करके पार्थ के ज्येष्ठ भ्राता उनकी विजय-ध्वजाएँ गिरा रहे हैं।
72शेष हाथी दस-दस नाराचों से मारे गए। धृतराष्ट्र के सैनिकों के सिंहनाद अब सुनाई नहीं देते, क्योंकि (भीम) साक्षात् पुरन्दर के समान युद्ध में जुटे हुए हैं।
73धृतराष्ट्र के सैनिकों की तीन अक्षौहिणी व्यूह में सजाई गई थीं और उन सबको क्रोध से भरे नरश्रेष्ठ भीम ने विफल कर दिया।
74जैसे दुर्बल दृष्टि वाले लोग मध्याह्न के सूर्य की ओर नहीं देख सकते, वैसे ही राजा कुन्तीपुत्र भीमसेन की ओर सीधे दृष्टि नहीं डाल पा रहे।
75जैसे मृग सिंह के भय से व्याकुल हो उठते हैं, वैसे ही ये कौरव सैनिक भीमसेन द्वारा छोड़े गए बाणों से इतने भयभीत हैं कि रणभूमि में चारों ओर व्याकुल घूम रहे हैं।
76सञ्जय ने कहा — भीम द्वारा किया गया वह दुष्कर कार्य देखकर अर्जुन ने अपने तीक्ष्ण बाणों से शेष शत्रुओं का वध कर डाला।
77हे महाराज! रणभूमि में हुए भीषण संहार तथा साथियों के चले जाने और साहस टूट जाने के कारण बलवान् संशप्तक दसों दिशाओं में भाग गए। अनेक अन्य योद्धा इन्द्र के अतिथि बनकर तत्काल विश्राम पा गए।
78सिंह-हृदय पार्थ ने बँकी गाँठों वाले बाण छोड़कर दुर्योधन के नेतृत्व वाली चतुरंगिणी सेना (पैदल, रथी, अश्वारोही और गजारोही) का वध किया। हे महाराज! रणभूमि में हुए भीषण संहार तथा साथियों के चले जाने और साहस टूट जाने के कारण बलवान् संशप्तक दसों दिशाओं में भाग गए। अनेक अन्य योद्धा इन्द्र के अतिथि बनकर तत्काल विश्राम पा गए।
79सिंह-हृदय पार्थ ने बँकी गाँठों वाले बाण छोड़कर दुर्योधन के नेतृत्व वाली चतुरंगिणी सेना (पैदल, रथी, अश्वारोही और गजारोही) का वध किया।
नेपाली
1सञ्जयले भने — यसैबीच कुन्तीपुत्र पार्थलाई धर्मात्मा राजा युधिष्ठिरतिर सङ्केत गर्दै कृष्णले भने —
2हे पाण्डुपुत्र, हेर, तिम्रा दाजु युधिष्ठिरलाई धृतराष्ट्रका अत्यन्त बलवान् छोराहरूले पछ्याइरहेका छन्, जो सबै महाधनुर्धर छन् र उनको वध गर्न चाहन्छन्।
3जसलाई जित्न कठिन छ, ती बलवान् पाञ्चालहरू महात्मा युधिष्ठिरको रक्षाका लागि उनको पछि दौडिरहेका छन्।
4हे नरश्रेष्ठ, कवच धारण गरेर र विशाल सेनासहित सम्पूर्ण पृथ्वीका राजा दुर्योधनले पाण्डवराजको वध गर्ने उद्देश्यले उनलाई पछ्याइरहेका छन्, र उनको सहायता उनका भाइहरूले गरिरहेका छन्, जो सबै युद्धमा निपुण छन् र जसको स्पर्श नै सर्पको प्राणघातक विषजस्तै छ।
5हात्ती, अश्व र रथमा सवार तथा पैदल हिँड्दै गरेको त्यो सेना युधिष्ठिरको वध गर्न लागेको छ — जसरी दरिद्र मानिसहरू कुनै बहुमूल्य रत्न पाउन दौडिन्छन्।
6हेर, सात्वत (सात्यकि) र भीमले रोकेपछि तिनीहरू त्यसरी नै निश्चल भएका छन् जसरी अमृत चोर्ने इच्छा राख्ने दैत्यहरू शक्र र अग्निद्वारा स्तब्ध पारिएका होऊन्।
7आफ्नो विशाल सङ्ख्याको बलमा (कुरु) महारथीहरू युधिष्ठिरतिर त्यसरी नै हतारमा बढिरहेका छन् जसरी वर्षाकालमा जलराशि समुद्रतिर दौडन्छ।
8आफ्ना शङ्ख फुक्दै र धनुष कँपाउँदै ती बलवान् धनुर्धरहरू सिंहनाद गरिरहेका छन्।
9दुर्योधनको वशमा परेका कुन्तीपुत्र युधिष्ठिरलाई म मृत्युको मुखमा परेको वा अग्निमा हालिएको घिउको आहुतिजस्तै ठान्दछु।
10दुर्योधनको सेना राम्ररी सुसज्जित छ। तिनका बाणको सीमामा आएपछि स्वयं शक्र पनि बाँच्न सक्दैनन्।
11क्रोधले भरिँदा साक्षात् मृत्युजस्तै देखिने दुर्योधनले छाडेका बाणको वेग युद्धमा कसले सहन सक्छ?
12दुर्योधनका, वा द्रोणपुत्रका, वा कृपका, वा कर्णका बाणको वेगले पर्वतलाई पनि चूरचूर पार्न सक्छ।
13बलवान्, फुर्तिला हात भएका र सफल राजा युधिष्ठिर, जो युद्धमा निपुण र शत्रुतापन छन्, कर्णद्वारा रणभूमिबाट पछि हट्न विवश पारिए।
14धृतराष्ट्रका अत्यन्त बलवान् र वीर छोराहरूसँग मिलेर राधापुत्र युद्धमा पाण्डवराजलाई पीडित पार्न समर्थ छन्।
15जब संयमी पार्थ (युधिष्ठिर) तिनीहरूसँग युद्ध गरिरहेका थिए, तब अरू महारथीहरूले उनलाई परास्त गरिदिए।
16हे भरतश्रेष्ठ, राजा उपवासले अत्यन्त क्षीण छन्। उनी ब्राह्मणको बलले सम्पन्न छन्, तर क्षत्रियको पराक्रमले होइन।
17कर्णद्वारा पीडित पाण्डुपुत्र राजा युधिष्ठिर महान् सङ्कटमा परेका छन्।
18हे पार्थ, मलाई लाग्छ कि राजा युधिष्ठिर मारिए, किनभने शत्रुसंहारक क्रोधी भीमसेनले विजयका अभिलाषी धृतराष्ट्रपुत्रहरूले पटक-पटक गरेका सिंहनाद र तिनीहरूको शङ्खनाद चुपचाप सहिरहेका छन्।
19हे नरश्रेष्ठ, निश्चय नै पाण्डुपुत्र युधिष्ठिर मारिए। हेर, कर्णले धृतराष्ट्रको सेनाका महारथीहरूलाई उत्तेजित पारिरहेका छन्। ती बलवान् महारथीहरूले इन्द्रजाल, स्थूणाकर्ण र पाशुपतजस्ता नाना अस्त्रको वर्षाले पृथापुत्रलाई ढाकिरहेका छन्।
20हे अर्जुन, निश्चय नै राजा गम्भीर रूपमा घाइते र दुर्बल भइसकेका छन्, किनभने सम्पूर्ण अस्त्रका ज्ञाता पाञ्चालहरू, पाण्डवहरूसहित, यस्तो बेलामा हतारमा उनको पछि गइरहेका छन् जब वेग देखाउनु आवश्यक छ — जसरी मानिसहरू भुइँमा धसिँदै गरेको कुनै मानिसलाई बचाउन दौडिन्छन्।
21राजाको ध्वजा देखिँदैन। सम्भवतः कर्णले त्यो आफ्ना बाणले ढालिदिएका छन्। दुवै जुम्ल्याहा भाइ, सात्यकि, शिखण्डी, धृष्टद्युम्न, शतानीक, पाञ्चाल र चेदिहरूकै आँखाअगाडि कर्णले पाण्डव सेनाको त्यसरी नै वध गरिरहेका छन् जसरी कुनै हात्तीले कमलहरू कुल्चिदिन्छ।
22हे पाण्डुपुत्र, तिम्रो सेनाका महारथीहरू भाग्दै छन्। हे पार्थ, हेर, तिनीहरू कसरी पीठ फर्काएर भाग्दै छन्।
23हे अर्जुन, युद्धमा कर्णबाट घाइते भई हात्तीहरू पीडाको चित्कार गर्दै दसै दिशामा भाग्दै छन्।
24युद्धमा शत्रुमर्दन कर्णले पछ्याएपछि रथहरूको समूह चारैतिर छरिएको छ।
25हे श्रेष्ठ ध्वजाधारीहरूमा अग्रगण्य, हेर, सारथिपुत्रको हात्तीको चिह्न भएको त्यो ध्वजा सम्पूर्ण रणभूमिमा घुमिरहेको छ।
26त्यहाँ राधापुत्र सयौँ बाण छर्दै र तिम्रा सिपाहीको वध गर्दै भीमसेनको पछि दौडिरहेका छन्।
27त्यहाँ बलवान् पाञ्चाल महारथीहरू उनीद्वारा त्यसरी नै छरपस्ट पारिँदै छन् जसरी महायुद्धमा शक्रद्वारा मारिएका दैत्यहरू।
28पाञ्चाल, पाण्डव र सृञ्जयहरूलाई परास्त गरेर कर्णले चारैतिर दृष्टि हालिरहेका छन् — मलाई लाग्छ, तिमीलाई नै खोज्नका लागि।
29हे पार्थ, हेर, आफ्नो श्रेष्ठ धनुष तान्दा उनी कति सुन्दर देखिन्छन् — जसरी आफ्ना शत्रुहरूलाई परास्त गरेर देवताहरूको माझमा शक्र शोभित हुन्थे।
30त्यहाँ कर्णको बल देखेर कौरवहरू जयघोष गरिरहेका छन् र पाण्डव तथा सृञ्जयहरूको हृदयमा भय भरिरहेका छन्।
31हे मानप्रद, यसरी आफ्नो पूरा बलले महायुद्धमा पाण्डवहरूलाई भयभीत पारेर राधापुत्रले आफ्नो सेनालाई सम्बोधन गर्दै भने —
32"हे कौरवहरू हो, तिमीहरूको कल्याण होस्। तिमीहरू यस्तो वेगले अगाडि बढ कि कुनै सृञ्जय प्राणसहित रणभूमिबाट उम्केर जान नसकोस्।
33यो सबै एकैसाथ गर। हामी तिमीहरूको पछि आउँछौँ।" यसो भनेर उनी बाण छाड्दै तिनीहरूको पछि लागे।
34हे पार्थ, हेर, श्वेत छत्रसहित कर्ण रणभूमिमा त्यसरी नै शोभित भइरहेका छन् जसरी चन्द्रमाले सुशोभित उदयाचल।
35पूर्ण चन्द्रमाजस्तै सय सिक्का भएको त्यो छत्र आफ्नो शिरमाथि तानेर उनी तिमीलाई खोज्न चारैतिर दृष्टि हालिरहेका छन्। निश्चय नै उनी चाँडै यहाँ आउनेछन्।
36हे महाबाहु, हेर, उनी आफ्नो विशाल धनुष तानेर महायुद्धमा प्राणघातक सर्पजस्ता बाण छाडिरहेका छन्।
37वानरको चिह्न भएको तिम्रो ध्वजा देखेर राधापुत्र तिमीसँग भिड्न यही दिशातिर मोडिँदै छन्।
38हे पार्थ, उनी आफ्नै विनाश लिएर आउँदै छन् — जसरी कुनै पुतली बलिरहेको ज्वालातिर बढ्छ। यी क्रोधी वीर धृतराष्ट्रपुत्रको हितमा लागेका छन्; ती दुर्बुद्धिले सधैँ तिम्रो अनिष्टै चाहन्छन्। कर्णलाई एक्लै देखेर धृतराष्ट्रपुत्र आफ्नो रथसेनासहित उनको रक्षाका लागि मोडिँदै छन्।
39यदि तिमी यश, राज्य र सुख प्राप्त गर्न चाहन्छौ भने ती दुष्टलाई तिनका सम्पूर्ण अनुचरसहित पूरा सावधानीसाथ मारिदेऊ।
40हे पार्थ! जब जगत्मा विख्यात तिमी दुवै योद्धाबीच अत्यन्त प्रचण्ड युद्ध सुरु हुनेछ, तब सम्पूर्ण कौरवहरू तिम्रो पराक्रमसँग परिचित हुनेछन्। त्यो युद्ध त्यस्तै हुनेछ जस्तो धेरै पहिले असुर र देवताहरूबीच भएको थियो।
41तिमीलाई र कर्णलाई अत्यन्त क्रोधले भरिएको देखेर दुर्योधनले क्रुद्ध हुँदाहुँदै पनि केही गर्न सक्नेछैनन्।
42हे भरतश्रेष्ठ, आफूलाई संयमी जानेर र कर्णलाई धर्मात्मा युधिष्ठिरप्रति द्वेष पालेको जानेर, हे कुन्तीपुत्र, यो उत्तम अवसरको लाभ उठाऊ।
43युद्धको मन बनाएर सम्पूर्ण महारथीहरूको सामना गर। हे रथीहरूमा श्रेष्ठ, पाँच सय अत्यन्त उत्तम, बलवान् र तेजस्वी महारथी, पाँच हजार हात्ती, दस हजार अश्व तथा दस लाख पैदल सिपाही एकअर्काको रक्षा गर्दै रणभूमिमा तिम्रो सामु आइरहेका छन्।
44हे वीर! द्रोणपुत्र अश्वत्थामाको नेतृत्वमा चक्रव्यूह बनाएर तिमीमाथि आक्रमण गर्न तयार त्यो सेनाको तत्कालै वध गर।
45आफैँ अगाडि बढेर ती महाधनुर्धर सारथिपुत्रको सामु आफूलाई प्रकट गर। हे भरतश्रेष्ठ, महान् वेगले अगाडि बढ।
46त्यहाँ क्रोधले भरिएर कर्ण पाञ्चालहरूविरुद्ध बढिरहेका छन्। म उनको ध्वजालाई धृष्टद्युम्नको रथनजिक पुगेको देखिरहेको छु — निश्चय नै।
47उनले पाञ्चालहरूलाई जरैदेखि उखेलिदिनेछन्। हे भरतश्रेष्ठ, म तिमीलाई एउटा शुभ समाचार दिऊँ — धर्मात्मा राजा युधिष्ठिर अझै जीवित छन्। महाबाहु भीम फर्किएका छन् र सेनाको नेतृत्व गरिरहेका छन्।
48उनी सृञ्जयहरू र सात्यकिले घेरिएका छन्। त्यहाँ युद्धमा भीमसेन र महात्मा पाञ्चालहरूका तीक्ष्ण बाणले कुरु सिपाहीहरू मारिँदै छन्।
49भीमका बाणले घाइते भई, पछि हट्दै र रगतमा नुहाएको दुर्योधनको सेना हतारमा भाग्दै छ।
50रगतले ढाकिएको त्यो भारत सेना त्यो पृथ्वीजस्तै दीन देखिँदै छ जसको बाली उजाडिएको होस्।
51हे कुन्तीपुत्र, हेर, तिम्रो सेनाका सेनापति भीमसेन सर्पजस्तै क्रोधले भरिएर (कुरु) सेनामाथि प्रहार गरिरहेका छन्।
52हे अर्जुन, हेर — तारा, चन्द्रमा र सूर्यले चित्रित पहेँला, राता, काला र श्वेत पताका तथा असङ्ख्य छत्र सम्पूर्ण रणभूमिमा छरिएका छन्।
53सुन, चाँदी तथा अरू धातुका बनेका ध्वजाहरू यताउता पल्टिएका छन् र त्यहीँ मारिएका अश्वहरू छरिएका छन्।
54रणभूमिबाट नहट्ने पाञ्चालहरूद्वारा नाना प्रकारका बाणले मारिएका महारथीहरू प्राणविहीन भई आफ्ना रथबाट खस्दै छन्।
55हे धनञ्जय, त्यहाँ शीघ्रगामी पाञ्चालहरू धृतराष्ट्रको पक्षका ती हात्ती, अश्व र रथहरूतिर झम्टिरहेका छन्, जो आफ्ना सवारविहीन छन्। हे नरश्रेष्ठ, हे शत्रुसंहारक, तिम्रा योद्धाहरू प्राणको मोह छोडेर र युद्धमा अजेय भई, भीमसेनको बलले सहायता पाएर शत्रुको सेनालाई पिसिरहेका छन्।
56त्यहाँ पाञ्चालहरू उच्च स्वरले सिंहनाद गरिरहेका छन् र आफ्ना शङ्ख फुकिरहेका छन्, जब तिनीहरू आफ्ना शत्रुको सामु बढ्दै र तिनीहरूलाई आफ्ना बाणले पिस्दै छन्।
57तिनीहरूको महिमा हेर। आफ्नो बलले पाञ्चालहरूले धृतराष्ट्रका सिपाहीहरूको त्यसरी नै वध गरिरहेका छन् जसरी क्रुद्ध सिंहहरूले बाघहरूको वध गर्छन्।
58आफैँ निःशस्त्र हुँदाहुँदै पनि तिनीहरूले शत्रुहरूका हातबाट तिनका अस्त्र खोसिदिन्छन् र तिनैले शत्रुहरूको वध गर्दै सिंहनाद गर्छन्।
59तिनीहरूले आफ्ना शत्रुका शिर र पाखुरा काटिरहेका छन्। तिनका महारथी, गजयोद्धा र अश्वारोही — सबै वीर र प्रशंसायोग्य छन्।
60जसरी शीघ्रगामी हाँसहरू मानसरोवर छोडेर गङ्गातिर दौडिन्छन्, त्यसरी नै पाञ्चालहरू कुरु सेनामाथि जाइलागिरहेका छन् र दुर्योधनको विशाल सेनाको प्रत्येक भागमाथि प्रहार गरिरहेका छन्।
61जसरी साँढेहरूले साँढेहरूको सामना गर्छन्, त्यसरी नै कृप, कर्ण तथा अरू योद्धाहरूले आफ्नो पूरा बलले पाञ्चालहरूको प्रतिरोध गरिरहेका छन्।
62धृष्टद्युम्नको नेतृत्वमा ती वीरहरूले आफ्ना शत्रु, दुर्योधनको सेनाका ती महारथीहरूको, जो पहिल्यै भीमका अस्त्रको सागरमा डुबिसकेका छन्, हजारौँको सङ्ख्यामा वध गरिरहेका छन्।
63पाञ्चालहरूलाई आफ्नो तेजले शत्रुहरूमाथि हावी भएको देखेर मरुत्पुत्र (भीम)ले शत्रुसेनालाई बाण र सिंहगर्जनाले ढाकिरहेका छन्।
64दुर्योधनको विशाल सेनाको अधिकांश भाग भयले ग्रस्त छ। भीमको भयले आक्रान्त रथ र अश्वहरू चारैतिर छरिएका छन्।
65हेर, भीमले आफ्ना नाराचले हानेका यी हात्तीहरू त्यसरी नै ढल्दै छन् जसरी इन्द्रको वज्रले हानिएका पर्वतका टाकुरा।
66त्यहाँ भीमका बाणले घाइते विशाल हात्तीहरू आफ्नै सेनालाई कुल्चँदै भाग्दै छन्।
67हे अर्जुन, के तिमी भीमका ती सिंहनाद चिन्दैनौ, जो विजय प्राप्त गर्ने इच्छाले भरिएर गर्जिरहेका छन्?
68त्यहाँ क्रोधले भरिएर निषादराज आफ्नो श्रेष्ठ रथमा आरूढ भई पाण्डुपुत्रतिर बढिरहेका छन् — मानौँ हातमा दण्ड लिएका साक्षात् मृत्यु — उनलाई आफ्नो तोमरले मार्न।
69तोमर समातेका उनका दुवै पाखुरा भीमले सूर्यको अग्निजस्तै तेजस्वी दस तीक्ष्ण नाराचले काटिदिए।
70उनको वध गरेर उनी अरू हात्तीहरूतिर बढिरहेका छन्, जो गाढा निला मेघको समूहजस्तै देखिन्छन् र माहुतेहरूले हाँकिरहेका छन्। तिनीहरूले वृकोदरमाथि शक्ति र तोमरले प्रहार गरिरहेका छन्।
71तीक्ष्ण बाणले ती उनन्चास हात्तीको वध गरेर पार्थका जेठा दाजुले तिनका विजयध्वजा ढालिरहेका छन्।
72बाँकी हात्तीहरू दस-दस नाराचले मारिए। धृतराष्ट्रका सिपाहीहरूका सिंहनाद अब सुनिँदैनन्, किनभने (भीम) साक्षात् पुरन्दरजस्तै युद्धमा जुटेका छन्।
73धृतराष्ट्रका सिपाहीहरूका तीन अक्षौहिणी व्यूहमा सजाइएका थिए र ती सबैलाई क्रोधले भरिएका नरश्रेष्ठ भीमले विफल पारिदिए।
74जसरी कमजोर दृष्टि भएका मानिसहरूले मध्याह्नको सूर्यतिर हेर्न सक्दैनन्, त्यसरी नै राजाहरूले कुन्तीपुत्र भीमसेनतिर सीधै दृष्टि हाल्न सकिरहेका छैनन्।
75जसरी मृगहरू सिंहको भयले व्याकुल हुन्छन्, त्यसरी नै यी कौरव सिपाहीहरू भीमसेनले छाडेका बाणले यति भयभीत छन् कि रणभूमिमा चारैतिर व्याकुल घुमिरहेका छन्।
76सञ्जयले भने — भीमले गरेको त्यो दुष्कर कार्य देखेर अर्जुनले आफ्ना तीक्ष्ण बाणले बाँकी शत्रुहरूको वध गरे।
77हे महाराज! रणभूमिमा भएको भीषण संहार तथा साथीहरू गएको र साहस टुटेको कारण बलवान् संशप्तकहरू दसै दिशामा भागे। अरू अनेक योद्धा इन्द्रका पाहुना बनेर तत्कालै विश्राम पाए।
78सिंहहृदय पार्थले बाङ्गा गाँठा भएका बाण छाडेर दुर्योधनको नेतृत्वमा रहेको चतुरङ्गिणी सेना (पैदल, रथी, अश्वारोही र गजारोही)को वध गरे। हे महाराज! रणभूमिमा भएको भीषण संहार तथा साथीहरू गएको र साहस टुटेको कारण बलवान् संशप्तकहरू दसै दिशामा भागे। अरू अनेक योद्धा इन्द्रका पाहुना बनेर तत्कालै विश्राम पाए।
79सिंहहृदय पार्थले बाङ्गा गाँठा भएका बाण छाडेर दुर्योधनको नेतृत्वमा रहेको चतुरङ्गिणी सेना (पैदल, रथी, अश्वारोही र गजारोही)को वध गरे।