(क्रमशः) अर्जुन और कर्ण का घोर युद्ध
खण्ड 5 — द्रोण पर्व · अध्याय 145
संस्कृत
1धृतराष्ट्र उवाच तदवस्थे हते तस्मिन् भूरिश्रवसि कौरवे। यथा भूयोऽभवद् युद्धं तन्ममाचक्ष्व संजय॥
2संजय उवाच भूरिश्रवसि संक्रान्ते परलोकाय भारत। वासुदेव महाबाहुरर्जुनः समचूचुदत्॥
3यतो राजा जयद्रथ.i श्रूयते पुण्डरीकाक्ष त्रिषु धर्मेषु वर्तते॥ प्रतिज्ञा सफलां चापि कर्तुमर्हसि मेऽनघ।
4अस्तमेति महाबाहो त्वरमाणो दिवाकरः॥ एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया। कार्य संरक्ष्यते चैष कुरुसेनामहारथैः॥ तथा नाभ्येति सूर्योऽस्तं यथा सत्यं भवेद् वचः। चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम्॥
5ततः कृष्णो महाबाहु रजतप्रतिमान् हयान्। हयज्ञश्चोदयामास जयद्रथवधं प्रति॥ तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः। त्वरमाणा महाराज सेनामुख्या: समाद्रवन्॥ दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्।
6अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः॥ समासाद्य च बीभत्सुः सैन्धवं समुपस्थितम्।
7नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रेक्षन्निर्दहनिव॥ ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत्। अर्जुनं प्रेक्ष्य संयातं जयद्रथवधं प्रति॥
8अयं स वैकर्तन युद्धकालो विदर्शयस्वात्मबलं महात्मन्। यथा न वध्येत रणेऽर्जुनेन जयद्रथः कर्ण तथा कुरुष्व॥
9अल्पावशेषो दिवसो नृवीर विघातयस्वाद्य रिपुं शरौघैः। दिनक्षयं प्राप्य नरप्रवीर ध्रुवोहि नः कर्ण जयो भविष्यति॥
10सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमनं प्रति। मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम्॥
11अनर्जुनायां च भुवि मुहूर्तमपि मानद। जीवितुं नोत्सहरेन् वै भ्रातरोऽस्य सहानुगाः॥
12विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम्। वसुंधरामिमां कर्ण भोक्ष्यामो हतकण्टकाम्॥
13दैवेनोपहतः पार्थो विपरीतश्च मानद। कार्याकार्यमजानानः प्रतिज्ञां कृतवान् रणे॥
14नूनमात्मविनाशाय पाण्डवेन किरीटिना। कर्ण जयद्रथवधं प्रति॥
15कथं जीवति दुर्धर्षे त्वयि राधेय फाल्गुनः। अनस्तंगत आदित्ये हन्यात् सैन्धवकं नृपम्॥
16प्रतिज्ञेयं कृता
17रक्षितं मद्रराजेन कृपेण च महात्मना। जयद्रथं रणमुखे कथं हन्याद् धनंजयः॥
18द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च। कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः॥
19युध्यन्ते बहवः शूरा लम्बते च दिवाकरः। शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद॥
20स त्वं कर्ण मया साधु शूरैश्चान्यैर्महारथैः। द्रौणिना त्वं हि सहितो मद्रेशेन कृपेण च॥
21युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे। एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष॥
22दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम्। दृढलक्ष्येण वीरेण भीमसेनेन धन्विना॥ भृशं भिन्नतनुः संख्ये शरजालैरनेकशः। स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद॥
23नाङ्गमिङ्गति किंचिन्मे संतप्तस्य महेषुभिः। योत्स्यामि तु यथाशक्त्यात्वदर्थं जीवितं मम॥
24यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम्। न हि मे युध्यमानस्य सायकानस्यतः शितान्॥
25सैन्धवं प्राप्स्यते वीरः सव्यसाची धनंजयः। यत्तु भक्तिमता कार्यं सततं हितकाङ्क्षिणा॥
26तत् करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः। सैन्धवार्थे परं यत्नं करिष्याम्यद्य संयुगे॥
27त्वत्प्रियार्थ महाराज जयो दैवे प्रतिष्ठितः। अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः॥
28त्वदर्थे पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः। अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः॥ पश्यन्तु सर्वसैन्यानि दारुणं लोमहर्षणम्। कर्णकौरवयोरेवं रणे सम्भाषमाणयोः॥
29अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम्। चिच्छेद निशितैर्बाणैः शूराणामनिवर्तिनाम॥ भुजान् परिघसंकाशान् हस्तिहस्तोपमान् रणे। शिरांसि च महाबाहुश्चिच्छेद निशितै शरैः॥
30हस्तिहस्तान् हयग्रीवान् रथाक्षांश्च समन्ततः। शोणिाक्तान् हयारोहान् गृहीतप्रासतोमरान्॥ क्षुरैश्चिच्छेद बीभत्सुधैिकैकं त्रिधैव च। हया वारणमुख्याश्च प्रापतन्त समन्ततः३७॥
31ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च। कक्षमग्निरिवोद्भूतः प्रदहंस्तव वाहिनीम्॥
32अचिरेण महीं पार्थश्चकार रुधिरोत्तराम्। हतभूयिष्ठयोधं तत् कृत्वा तव बलं बली॥ आससाद दुराधर्षः सैन्धवं सत्यविक्रमः। बीभत्सुभीमसेनेन सात्वतेन च रक्षितः॥
33प्रबभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः। तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसम्पदा॥ नामृष्यन्त महेष्वासाः पाण्डवं पुरुषर्षभाः। दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्॥
34अश्वत्थाम कृपश्चैव स्वयमेव च सैन्धवः। संनद्धाः सैन्धवस्यार्थे समावृण्वन् किरीटिनम्॥
35नृत्यन्तं रथमार्गेषु धनुर्ध्यातलनिःस्वनैः। संग्रामकोविदं पार्थ सर्वे युद्धविशारदाः॥ अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम्। सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽच्युतार्जुनौ॥
36सूर्यास्तमनमिच्छन्तो लोहितायति भास्करे। ते भुजैर्भोगिभोगाभै—yष्यानम्य सायकान्॥
37मुमुचः सूर्यरश्म्याभाञ्छतशः फाल्गुनं प्रति। ततस्तानस्यमानांश्च किरीटी युद्धदुर्मदः॥ द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान् रथान्। ॥ सिंहलाडुलकेतुस्तु दर्शयन् वीर्यमात्मनः॥
38शारद्वतीसूतो राजन्नर्जुनं प्रत्यवारयत्। स विदध्वा दशभिः पार्थ वासुदेवं च सप्तभिः॥
39अतिष्ठद् रथमार्गेषु सैन्धवं प्रतिपालयन्। अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः॥ महता रथवंशेन सर्वतः प्रत्यवारयन्। विस्फारयन्तश्चापानि विसृजन्तश्च सायकान्॥
40सैन्धवं पर्यरक्षन्त शासनात् तनयस्य ते। ततः पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत॥
41इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च। अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च॥
42एकैकं दशभिबाणैः सर्वानेव समापर्यत्। तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः॥
43दुर्योधनस्तु विंशत्या कर्णशल्यौ त्रिभित्रिभिः। त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः॥
44विधुन्वतश्च चापानि सर्वतः प्रत्यवारयन्। श्लिष्टं च सर्वतश्चक्रू रथमण्डलमाशु ते॥
45सूर्यास्तमनमिच्छन्तस्त्वरमाणा महारथाः। त एनमभिनर्दन्तो विधुन्वाना धनूंषि च॥
46सिषिचुर्मार्गणैस्तीक्ष्णैर्गिरिं मेघा इवाम्बुभिः। ते महास्त्राणि दिव्यानि तत्र राजन् व्यदर्शयन्॥ धनंजयस्य गात्रे तु शूराः परिघबाहवः। हतभूयिष्ठयोधं तत् कृत्वा तव बलं बली॥
47आससाद दुराधर्षः सैन्धवं सत्यविक्रमः। तं कर्णः संयुगे राजन् प्रत्यवारयदाशुगैः॥
48मिषतो भीमसेनस्य सात्वतस्य च भारत। तं पार्थो दशभिबाणैः प्रत्यविध्यद् रणाजिरे॥ सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः। सात्वतश्च त्रिभिर्बाणैः कर्ण विव्याध मारिष॥
49भीमसेनस्रिभिश्चैव पुनः पार्थश्च सप्तभिः। तान् कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः॥
50तद् युद्धमभवद् राजन् कर्णस्य बहुभिः सह। तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष॥
51यदेकः समरे क्रुद्धस्त्रीन् रथान् पर्यवारयत्। फाल्गुनस्तु महाबाहुः कर्ण वैकर्तनं रणे॥ सायकानां शतेनैव सर्वमर्मस्वताडयत्। रुधिरोक्षितसर्वाङ्ग सूतपुत्रः प्रतापवान्॥
52शरैः पञ्चाशता वीरः फाल्गुनं प्रत्यविध्यता तस्य तल्लाघ्वं दृष्ट्वा नामृष्यत रणेऽर्जुनः॥
53ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे। सायकैनवभिवीरस्त्वरमाणो धनंजयः॥
54अथान्यद् धनुरादाय सूतपुत्रः प्रतापवान्। सायकैरष्टसाहस्रश्छादयामास पाण्डवम्॥
55तां बाणवृष्टिमतुला कर्णचापसमुत्थिताम्। व्यधमत् सायकैः पार्थः शलभानिव मारुतः॥
56छादयामास च तदा सायकैरर्जुनो रणे। पश्यतां सर्वयोधानां दर्शयन् पाणिलाघवम्॥
57वधार्थ चास्य समरे सायकं सूर्यवर्चसम्। चिक्षेप त्वरया युक्तस्त्वराकाले धनंजयः॥
58तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम्। अर्धचन्द्रेण तीक्ष्णेन स च्छिन्नः प्रापतद् भुवि॥
59कर्णोऽपि द्विषतां हन्ता छादयामास फाल्गुनम्। सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया॥
60तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ। सायकैस्तु प्रतिच्छन्नं चक्रतुः खमजिह्मगैः॥
61अदृश्यौ च शिरोघेस्तो निघ्नन्तावितरेतरम्। कर्ण पार्थोऽस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फाल्गुन।।७६ इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तुदतां तदा। युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च॥
62प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे। प्रशस्यमानो समरे सिद्धचारपपन्नगैः॥
63अयुध्येतां महाराज परस्परवधैषिणौ। ततो दुर्योधनो राजस्तावकानभ्यभाषत॥
64यत्नाद् रक्षत राधेयं नाहत्वा समरेऽर्जुनम्। निवर्तिष्यति राधेय इति मामुक्तवान् वृषः॥
65एतस्मिन्नन्तरे राजन् दृष्ट्वा कर्णस्य विक्रमम्। आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान्॥ अनयत् प्रेतलोकाय चतुर्भिः श्वेतवाहनः। सारथिं चास्य भल्लेन रथनीडादपातयत्॥
66छादयामास स शरैस्तव पुत्रस्य पश्यतः। संछाद्यमानः समरे हताश्वो हतसारथिः॥
67मोहितः शरजालेन कर्तव्यं नाभ्यपद्यता तं तथा विस्थं दृष्ट्वा रथमारोप्य तं तदा॥ अश्वत्थामां महाराज भूयोऽर्जुनमयोधयत्। मद्रराजश्च कौन्तेयमविध्यत् त्रिंशता शरैः॥
68शारद्वतस्तु विंशत्या वासुदेवं समार्पयत्। धनंजयं द्वादशभिराजघान शिलीमुखैः॥
69चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः। पृथक् पृथङ्महाराज विव्यधुः कृष्णपाण्डवौ॥
70तथैव तान् प्रत्यविध्यत् कुन्तीपुत्रो धनंजयः। द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च॥
71सैन्धवं दशभिर्गाणैर्वृषसेनं त्रिभिः शरैः। शारद्वतं च विंशत्या विद्ध्वा पार्थो ननाद ह॥
72ते प्रतिज्ञाप्रतीधातमिच्छन्त: सव्यसाचिनः। सहितास्तावकास्तूर्णमभिपेतुर्धनंजयम्॥
73अथार्जुनः सर्वतो वारुणास्रं प्रादुश्चके त्रासयन् धार्तराष्ट्रान्। तं प्रत्युदीयुः कुरवः पाण्डुपुत्रं स्थैर्महाहैः शरवर्षाण्यवर्षन्॥
74ततस्तु तस्मिंस्तुमुले समुत्थिते। सुदारुणे भारत मोहनीये। नोऽमुह्यत प्राप्य स राजपुत्रः। किरीटमालीव्यसृजच्छरौघान्॥
75राज्यप्रेप्सुः सव्यसाची कुरूणां स्मरन् क्लेशान् द्वादशवर्षवृत्तान्। गाण्डीवमुक्तैरिषुभिर्महात्मा। सर्वा दिशो व्यावृणोदप्रमेयः॥
76प्रदीप्तोल्कमभवचान्तरिक्ष मृतेषु देहेष्वपतन् वयांसि। यत् पिङ्गलज्येन किरीटमाली क्रुद्धो रिपूनाजगवेन हन्ति॥
77ततः किरीट महता महायशाः शरासनेनास्य शराननीकजित्। हयप्रवेकोत्तमनागधूर्गतान् कुरुप्रवीरानिषुभिर्व्यपातयत्॥
78नसींश्च शक्तीश्च नराधिपाः। महान्ति शस्त्राणि च भीमदर्शनाः प्रगृह्य पार्थ सहसाभिदुद्रुवुः॥
79ततो युगान्ताभ्रसमखनं महन्महेन्द्रचापप्रतिमं च गाण्डिवम्। चकर्ष दोर्ध्या विहसन् भृशं ययौ दहंस्त्वदीयान् यमराष्ट्रवर्धनः॥
80स तानुदीर्णान् सरथान् सवारणान् पदातिसङ्घांश्च महाधनुर्धरः। विपन्नसर्वायुधजीवितान् रणे चकार वीरो यमराष्ट्रवर्धनान्॥
अंग्रेज़ी
1Dhritarashtra said When under these circumstances the Kuru warrior Bhurisravas had been slain, relate to me, O Sanjaya how the battle progressed.
2Sanjaya said After Bhurisravas had gone to the regions of the departed, O Bharata, that mighty-armed Arjuna urged Vasudeva sayingचोदयाश्वान् भृशं कृष्ण
3O Krishna, urge the steeds to the top of their speed, so that they may soon carry me to spot where king Jayadratha is, O sinless one, it behoves you, to help me in the fulfilment of my vow!
4O mighty-armed one, the orb of the day, is quickly going towards the Western hills. O foremost of men, I have undertaken to achieve a mighty task. But the ruler of the Sindhus on the other hand is protected by many foremnost warriors among the Kurus. O Krishna, do you drive the horses in such a manner that my vow may be fulfilled before sunset and that Jayadratha may be slain. were
5Then the mighty-armed Krishna versed in horse-lore, urged those horses of Argentine hue towards the car of Jayadratha. Then as Arjuna proceeded shooting swift-flying arrows ever hitting their marks. O mighty monarch, the foremost warriors of yours troops quickly proceeded to meet him. They Duryodhana, Karna, Vrishasena, the king of the Madras.
6Ashvatthaman, Kripa and the ruler of the Sindhus himself; encountering the Sindhu king who was standing before him, Vibhatsu.
7Cast his eyes burning with rage on him and seemed to burn the former there with. Thereupon king Duryodhana addressing Radha's son quickly said. 'Beholding Arjuna exert himself for compassing the slaughter of Jayadratha.” O king, your royal son Suyodhana spoke these very words to Karna.
8O son of Vikartana, the crisis in the battle has arrived. O high-souled warriors, now show your own strength. O Karna, do you so act as Jayadratha may not be slain in battle by Arjuna.
9O foremost hero among men, very little remains of the day. Thwart the enemy now with the waves of your arrows. O foremost of men, if we can safely reach the expire of the day, victory will certainly be ours.
10If the ruler of the Sindhus can be saved till the sun sets, then the son of Kunti, in consequence of his vow being baffled will fall upon.
11O giver of honour, the brothers and the followers of Arjuna will not be able to live for a moment on the face of the earth, when he passes away from it.
12When the Pandavas will be destroyed, O Karna, we shall enjoy this earth with its mountains, gardens and forests, without a thorn in our sides.
130 bestower of honor, confounded by adverse Destiny and through the perversion of his judgment, Arjuna has made this vow without judging what is practicable and what impracticable.
14Surely, O Karna, the diadem-decked son of Pandu had vowed the slaughter of Jayadratha for encompassing his own destruction.
15O son of Radha, how can Phalguna succeed in slaying the ruler of the Sindhus, before
16sunset, when yourself indomitable in battle, is still alive?
17How can Dhananjaya succeed in slaying in battle Jayadratha who is protected by the king of the Madras and the illustrious Kripa himself?
18How can Vibhatsu, who it appears is urged on by Fate, reach the Sindhu-king, who is protected by Drona's son and myself and Dushasana?
19Numerous heroic warriors are fighting for the sake of Jayadratha and the sun is also hanging low. O giver of honors, Partha will not be able to reach the ruler of the Sindhus in battle.
20Now, O Karna, supported by myself, by other heroic mighty car-warriors, by Drona's son, by the king of the Madras and Kripa himself.
21Do you fight with Pritha's son in battle, exerting to the best of your capabilities. Having been thus spoken to by your son, O sire, the son of Radha.
22Replied to Duryodhana that foremost of the Kurus in these words-My body has been mangled with numerous net-works of arrows in the battle by the heroic Bhimasena of resolute aim and of skillful bowmanship. O bestower of honors, I now stay in battle-field, only because it is my duty to do so.
23Afflicted with mighty shafts there is not a single limb of mine that is not suffering excruciating pain; still I shall fight to the best of my abilities. My very life is for you.
24I shall do that by which this foremost of the Pandavas will not succeed in slaying the Sindhu-king. So long as I shall fight discharging sharp arrows.
25The brave Dhananjaya, who can shoot weapons even with his left hand, will not be able to reach the ruler of the Sindhus. Everything that a man bearing love and devotion to you and always anxious for your welfare, ought to do for you.
26Shall be done by me, O you of Kuru's race. As regards our victory it is under the disposal of Destiny. I shall exert myself in battle today to the best of my abilities, for the sake of the Sindhu king.
27And also for accomplishing what would conduce to your good, O monarch. But, o king, victory depends upon Destiny. Relying on my prowess, I shall today fight with Arjuna.
28For your sake, O foremost of men, but victory is dependent on Destiny. O foremost of the Kurus, let all the troops today witness the horripilating and fierce encounter that shall take place between myself and Pritha's son." When Karna and the king of the Kurus were thus talking to each other on the field.
29Arjuna was engaged in slaughtering your army with his sharp arrows. He then cut-off with sharp Vallas the arms of unretreating heroes, arms that resembled bludgeons or trunks of elephants. That mighty-armed hero also severed many heads from the trunks of men with his arrows.
30Vibhatsu also cut-off the trunks of elephants, the necks of steeds, the axels of cars and also horses and men steeped in blood and armed with lances, in two or three fragments with his Kshurapras. And horses and excellent elephants.
31And standards and umbrellas and bows and chamaras and heads began to fall fast on all sides. The consuming your troops like fire consuming a heap of dry grass.
32Partha soon made the earth deluged with blood. The mighty and indomitable son of Pritha of prowess incapable of being baffled, spreading a terrible carnage in that host of yours, soon reached the ruler of the Sindhus. Protected by Bhimasena and by Satvata, Vibhatsu.
33O foremost of the Bharatas, appeared effulgent like a blazing fire. Then seeing Arjuna in that condition, all the fierce bowmen of your army, those foremost of men, possessed of the wealth of energy, could not brook him. Thereupon Duryodhana, Karna, Vrihasena, the ruler of the Madras.
34Ashvatthaman, Kripa and the ruler of the Sindhus surrounded the diadem-decked Arjuna on all sides.
35Then all those combatants skilled in fighting, placing the ruler Sindhus at their back and impelled by a desire for slaying Arjuna and Krishna, dauntlessly surrounded Partha, that hero versed in all modes of warfare., who then appeared to dance in the terrace of this chariot, emitting fierce sounds, with his bow-string and his palms and resembling the Destroyer himself with mouth agape.
36Meanwhile the sun and the heavens had assumed a crimson hue. Desirous of the speedy setting of the sun, the Kaurava warriors bending their bows with arms resembling the tapering bodies of serpents.
37Discharged their arrows by hundreds, towards Phalguna, arrows, that resembled the rays of the sun. Cutting off all those shafts thus sped towards him, into two, three or eight fragments, the diadem-decked Arjuna, indomitable in battle, pierced them all (with his arrows). Then Ashvatthaman owning the device of a lion's tail in his banner, displaying his might.
38Began, O monarch, to resist Arjuna. Indeed the son of the daughter of Saradvata, piercing Partha with ten shafts and Krishna with seven.
39Impeded the progress of Arjuna's chariot, with a view to protect the ruler of the Sindhus. Then many foremost one among the Kurus all great car-warriors, surrounded Arjuna on all sides with a large number of chariots, stretching their bows and discharging numerous arrows.
40They began to exert themselves for protecting the ruler of the Sindhus, at the command of your son. We then beheld the strength of the heroic Partha's arms.
41The inexhaustibility of his shafts and the strength also of his bow Gandiva. Repulsing with his own weapons, those of Drona's son and of Kripa.
42He pierced every one of your warriors with nine arrows. Thereupon Drona's son pierced him with twenty-five arrows and Vrishasena pierced him with seven.
43Duryodhana pierced him with twenty, Karna with three shafts. And all of them roared at him and went on piercing him without remission.
44Shaking their bows, they encompassed him on all sides and they also made their chariots to be drawn in a compact circle around him.
45Desirous of the speedy setting of the sun, those mighty fighters of the Kuru host possessed of great agility, began to roar at Arjuna and shaking their bows.
46Covered him with showers of sharp arrows like clouds pouring rain over the mountainbreast; those brave warriors, having arms like heavy bludgeons and showed on that occasion, 0 monarch, on Dhananjaya's body their celestials weapons. Having spread a great carnage in your army, your army, the mighty.
47And indomitable Dhananjaya, of prowess incapable of being baffled, came upon the ruler of the Sindhus. Karna however, O king, with his arrows, resisted him in that battle.
48Before the very eyes, 0 Bharata of Bhimasena and Satvata. The mighty armed son of Pritha in the very sight of all the troops pierced the son of Suta, in return, with ten arrows, on the field of battle. Then Satvata, O sire, pierced Karna with three arrows.
49Bhimasena pierced him with three and Partha again with seven arrows. Then Karna that mighty car-warrior pierced each of them with sixty shafts.
50O king, then a terrible battle raged between Karna on one side and the many on the other, then, O sire, we beheld the wonderful prowess of the son of Suta.
51In asmuchas single-handed, he succeeded in checking the three mighty warriors in battle; then the mighty armed Phalguna struck Karna on the vital limbs with a group of hundred arrows. Thereupon, the puissant son of Suta, steeped all over his body with blood.
52Pierced the heroic Phalguna in return with fifty arrows. Beholding that lightness of hands displayed by him, Arjuna did not throok him.
53Then Pritha's son busting his bow open, pierced him on his chariot with nine arrows of depressed knots, with great speed.
54Then with great lightness at a time when lightness was necessary, Dhananjaya in order to slay Karna, sped at him an arrows of the effulgence of the solar rays.
55As that arrows was coursing with vehemence through the sky, Drona's son with a sharp crescent-shaped arrow cut it off, thus cut down it fell down, on the ground.
56Then the highly puissant son of Suta taking up another bow, covered Pandu's son with thousands of arrows.
57Then with his arrows, Fritha's son scattered the unrivaled shower of arrows that proceeded from Karna's bow, like the tempest scattering masses of clouds.
58Then again Arjuna covered him with arrows, before the eyes of all warriors, displaying great lightness of hands.
59Karna also that slayer of foes, desirous of counteracting the feats of his antagonist, covered Phalguna with thousands of arrows.
60Roaring at each other like two bulls, those foremost of men, those two mighty carwarriors, covered the welkin with clouds of straight-going shafts.
61Each made invisible by the other's arrowy downpour, they went on striking each other; they roared at each other and wounded each other with their sharp arrows respectively saying, I am Partha wait or I am Karna, wait, O Phalguna. Indeed those two heroes fought with each wonderfully, displaying great skill and agility.
62The sight they then presented was such that all the other combatants became spectators of the battle. Then praised by the Siddhas and the Charanas and the Pannagas.
63They fought on with each other desirous of slaying each other. Then Duryodhana addressing your warriors said
64“Heedfully protect the son of Radha. Without slaying Arjuna in battle, he will not abstain. Even these words had Vrisha said to me.
65In the meantime, o king, beholding the prowess of Karna, Arjuna of white horses, with four shafts shot from the bow-string drawn back to the ear, dispatched the four horses of Karna to the regions of Death. Then with a bhalla he felled Karna's charioteer from his niche in the car.
66Then he covered Karna himself with a network of arrows, even before the very eyes of your son. Thus covered with arrows, the steedless and driverless Karna.
67Confounded with arrowy showers was completely embraced. Beholding him made carless, Ashvatthaman, O monarch, caused him to ride on his own chariot and went on fightin with Arjuna. Then the king of the Madras pierced the son of Kunti with thirty arrows.
68The son of Saradvata pierced Vasudeva with twenty arrows; he then struck Dhananjaya with twelve arrows.
69The king of the Sindhus with four. Vrishasena with Karna, separately pierced 0 mighty monarch, Krishna and Pritha's son.
70Dhananjaya, the son of Kunti then in return pierced Drona's son with sixty-four and the ling of the Madras while hundred arrows.
71He pierced the Sindhu ruler with Vallas and Vrishasena with three arrows and then piercing the son of Saradvata, Pritha's son uttered a loud war-cry.
72Then your troops desirous of baffling the fulfillment of Savayasachin's vow, quickly fell upon him, all inflamed with rage.
73Then striking terror into the hearts of the Dhritarastra's troops, Arjuna invoked into existence the Varuna weapon. Then Karna riding on his precious chariot, pouring showers of arrows, proceeded against the son of Pritha.
74But, O Bharata, as that fierce stupefying and terrible battle progressed, the diademdecked Arjuna reaching the Sindhu king did not loose his senses and sped his arrows continuously.
75Desirous of getting back the kingdom and keeping in mind all the wrongs inflicted by the Kurus on them during twelve years past, the high-souled Savyasachin of immeasurable prowess, shrouded all the points of the compass with shafts shot from the Gandiva.
76The welkin then seemed to be illumined by blazing neteors; countless crows began to shoot down on the bodies of the troops. Meanwhile the diadem-decked Arjuna continued to slay the foe with his Gandiva of twany string like the wrathful Mahadeva slaying creatures with his Ajagara bow.
77Then the highly-renowned Arjuna that subduer of hostile troops, scattering away the arrows of the son Drona by means of those shot from his own bow, slew many foremost warriors of the Kurus. mounted on their excellent steeds and elephants.
78Then numerous monarchs taking up heavy maces and clubs of iron and swords and darts and many other kinds of strong weapons and assuming frightful appearance, advanced furiously upon Partha in that battle.
79Arjuna bending his with the force of his arms, his terrible bow the Gandiva that resembled the bow of Indra and of which the twang was as loud as roar of clouds at the end of a Yuga, went on carnaging your soldiers and adding to the population of Death's domain.
80Then that brave warrior caused those furious warriors with their cars and elephants and foot soldiers and bowmen supporting them, to be deprived of their arms and lives and thus considerable added to the population of Yama's kingdom.
हिन्दी
1धृतराष्ट्र ने कहा — हे सञ्जय, जब इन परिस्थितियों में कुरुवीर भूरिश्रवा मारे गए, तब युद्ध किस प्रकार आगे बढ़ा, यह मुझे बताओ।
2सञ्जय ने कहा — हे भरतवंशी, भूरिश्रवा के परलोक चले जाने पर उन महाबाहु अर्जुन ने वासुदेव को प्रेरित करते हुए कहा (चोदयाश्वान् भृशं कृष्ण) —
3हे कृष्ण, घोड़ों को उनकी पूरी गति से हाँकिए, जिससे वे मुझे शीघ्र ही उस स्थान पर पहुँचा दें जहाँ राजा जयद्रथ है। हे निष्पाप, मेरी प्रतिज्ञा पूर्ण कराने में मेरी सहायता करना आपको शोभा देता है!
4हे महाबाहु, दिनकर का मण्डल शीघ्रता से पश्चिमी पर्वतों की ओर जा रहा है। हे पुरुषश्रेष्ठ, मैंने एक महान् कार्य पूर्ण करने का बीड़ा उठाया है। किन्तु दूसरी ओर सिन्धुराज कुरुओं के अनेक श्रेष्ठ योद्धाओं द्वारा रक्षित है। हे कृष्ण, आप घोड़ों को इस प्रकार हाँकिए कि सूर्यास्त से पूर्व मेरी प्रतिज्ञा पूर्ण हो जाए और जयद्रथ मारा जाए।
5तब अश्वविद्या में निपुण महाबाहु कृष्ण ने उन रजतवर्ण अश्वों को जयद्रथ के रथ की ओर हाँका। तब जैसे-जैसे अर्जुन शीघ्रगामी और सदा लक्ष्य भेदने वाले बाण छोड़ते हुए आगे बढ़े, हे महाराज, आपकी सेना के श्रेष्ठ योद्धा शीघ्र उनका सामना करने आ पहुँचे — दुर्योधन, कर्ण, वृषसेन, मद्रराज —
6— अश्वत्थामा, कृप और स्वयं सिन्धुराज। अपने सामने खड़े सिन्धुराज का सामना करते हुए विभत्सु (अर्जुन) ने —
7— क्रोध से जलती हुई अपनी दृष्टि उस पर डाली और मानो उसे वहीं भस्म कर देंगे। तब राजा दुर्योधन ने राधापुत्र (कर्ण) को सम्बोधित करके शीघ्र कहा — "अर्जुन को जयद्रथ के वध के लिए इस प्रकार प्रयत्नशील देखकर..." हे राजन्, आपके राजपुत्र सुयोधन ने कर्ण से ठीक ये ही वचन कहे।
8हे विकर्तनपुत्र, युद्ध की निर्णायक घड़ी आ गई है। हे महात्मा योद्धा, अब अपना बल दिखाओ। हे कर्ण, तुम ऐसा करो जिससे युद्ध में अर्जुन द्वारा जयद्रथ का वध न हो सके।
9हे नरवीरश्रेष्ठ, दिन का बहुत थोड़ा भाग शेष है। अब अपने बाणों की तरंगों से शत्रु को रोक दो। हे पुरुषश्रेष्ठ, यदि हम सकुशल दिन का अन्त पा लें, तो विजय निश्चय ही हमारी होगी।
10यदि सूर्यास्त तक सिन्धुराज की रक्षा हो सकी, तो प्रतिज्ञा भंग हो जाने के कारण कुन्तीपुत्र (अग्नि में) गिर पड़ेगा।
11हे मानदाता, जब अर्जुन इस पृथ्वी से चला जाएगा, तब उसके भाई और अनुयायी इस पृथ्वीतल पर क्षणभर भी जीवित नहीं रह सकेंगे।
12हे कर्ण, जब पाण्डव नष्ट हो जाएँगे, तब हम इस पृथ्वी को उसके पर्वतों, उद्यानों और वनों सहित निष्कण्टक होकर भोगेंगे।
13हे मानदाता, प्रतिकूल दैव से मोहित होकर और अपनी बुद्धि के विपर्यय से अर्जुन ने यह प्रतिज्ञा कर ली है, बिना यह विचारे कि क्या साध्य है और क्या असाध्य।
14हे कर्ण, निश्चय ही किरीटधारी पाण्डुपुत्र ने अपने ही विनाश को आमन्त्रित करने के लिए जयद्रथ के वध की प्रतिज्ञा की है।
15हे राधापुत्र, जब तुम स्वयं युद्ध में अजेय होकर अब भी जीवित हो, तब फाल्गुन सूर्यास्त से पूर्व —
16— सिन्धुराज का वध करने में कैसे सफल हो सकता है?
17मद्रराज और स्वयं यशस्वी कृप द्वारा रक्षित जयद्रथ का वध युद्ध में धनञ्जय कैसे कर सकेगा?
18द्रोणपुत्र, मुझ और दुःशासन द्वारा रक्षित सिन्धुराज तक विभत्सु, जो प्रतीत होता है कि काल से प्रेरित है, कैसे पहुँच सकेगा?
19जयद्रथ के लिए अनेक वीर योद्धा युद्ध कर रहे हैं और सूर्य भी नीचे झुक आया है। हे मानदाता, पार्थ युद्ध में सिन्धुराज तक पहुँच नहीं सकेगा।
20अब, हे कर्ण, मुझसे, अन्य वीर महारथियों से, द्रोणपुत्र से, मद्रराज से और स्वयं कृप से समर्थित होकर —
21— तुम अपनी पूरी सामर्थ्य लगाकर युद्ध में पृथापुत्र से लड़ो। हे तात, आपके पुत्र द्वारा इस प्रकार कहे जाने पर राधापुत्र ने —
22— कुरुश्रेष्ठ दुर्योधन को इन वचनों में उत्तर दिया — "अचूक लक्ष्यवाले और धनुर्विद्या में कुशल वीर भीमसेन ने युद्ध में मेरे शरीर को बाणों के अनेक जालों से क्षत-विक्षत कर दिया है। हे मानदाता, मैं अब भी रणभूमि में केवल इसलिए टिका हूँ क्योंकि ऐसा करना मेरा कर्तव्य है।
23प्रबल बाणों से पीड़ित मेरा एक भी अंग ऐसा नहीं जो असह्य वेदना न भोग रहा हो; तथापि मैं अपनी पूरी सामर्थ्य से युद्ध करूँगा। मेरा तो प्राण ही आपके लिए है।
24मैं वह करूँगा जिससे यह पाण्डवश्रेष्ठ सिन्धुराज का वध करने में सफल न हो सके। जब तक मैं तीक्ष्ण बाण छोड़ता हुआ युद्ध करूँगा —
25— तब तक बायें हाथ से भी अस्त्र चलाने में समर्थ वीर धनञ्जय सिन्धुराज तक नहीं पहुँच सकेगा। जो कुछ आपके प्रति प्रेम और भक्ति रखने वाले तथा सदा आपके कल्याण के लिए उत्सुक पुरुष को आपके लिए करना चाहिए —
26— वह सब मैं करूँगा, हे कुरुवंशी। रही विजय की बात, वह तो दैव के अधीन है। आज मैं सिन्धुराज के लिए अपनी पूरी सामर्थ्य से युद्ध में प्रयत्न करूँगा —
27— और, हे राजन्, जो आपके हित में हो वह पूर्ण करने के लिए भी। किन्तु, हे राजन्, विजय दैव पर निर्भर है। अपने पराक्रम के भरोसे मैं आज अर्जुन से युद्ध करूँगा —
28— आपके लिए, हे पुरुषश्रेष्ठ; किन्तु विजय दैव के अधीन है। हे कुरुश्रेष्ठ, आज समस्त सेनाएँ उस रोमांचकारी और भीषण युद्ध को देखें जो मुझमें और पृथापुत्र में होगा।" जब कर्ण और कुरुराज रणभूमि पर इस प्रकार परस्पर वार्तालाप कर रहे थे —
29— तब अर्जुन अपने तीक्ष्ण बाणों से आपकी सेना का संहार करने में लगे थे। उन्होंने तीक्ष्ण वल्ल बाणों से पीछे न हटने वाले वीरों की वे भुजाएँ काट डालीं जो मुद्गरों अथवा हाथियों की सूँड़ों के समान थीं। उन महाबाहु वीर ने अपने बाणों से अनेक सिरों को मनुष्यों के धड़ों से पृथक् कर दिया।
30विभत्सु ने अपने क्षुरप्र बाणों से हाथियों की सूँड़ें, घोड़ों की गर्दनें, रथों की धुरियाँ तथा रक्त से सने और भालों से सुसज्जित घोड़ों और मनुष्यों को दो या तीन टुकड़ों में काट डाला। और घोड़े तथा उत्तम हाथी —
31— और ध्वजाएँ और छत्र और धनुष और चँवर और सिर चारों ओर तेजी से गिरने लगे। जैसे अग्नि सूखी घास के ढेर को भस्म कर देती है, वैसे ही आपकी सेना को भस्म करते हुए —
32— पार्थ ने शीघ्र ही पृथ्वी को रक्त से आप्लावित कर दिया। जिनका पराक्रम कभी विफल नहीं होता, उन पराक्रमी और अजेय पृथापुत्र ने आपकी उस सेना में भयानक संहार फैलाते हुए शीघ्र ही सिन्धुराज तक पहुँच पाया। भीमसेन और सात्वत (सात्यकि) द्वारा रक्षित विभत्सु —
33— हे भरतश्रेष्ठ, प्रज्वलित अग्नि के समान तेजस्वी दिखाई दिए। तब अर्जुन को उस दशा में देखकर आपकी सेना के समस्त प्रचण्ड धनुर्धर, वे तेजरूपी सम्पत्ति से युक्त पुरुषश्रेष्ठ, उन्हें सह न सके। तत्पश्चात् दुर्योधन, कर्ण, वृषसेन, मद्रराज —
34— अश्वत्थामा, कृप और सिन्धुराज ने किरीटधारी अर्जुन को चारों ओर से घेर लिया।
35तब युद्धकुशल वे समस्त योद्धा सिन्धुराज को अपने पीछे रखकर तथा अर्जुन और कृष्ण के वध की इच्छा से प्रेरित होकर निर्भय हो उन पार्थ को घेरे रहे, जो समस्त युद्धपद्धतियों के ज्ञाता थे और जो तब अपने रथ के मंच पर मानो नृत्य करते प्रतीत हो रहे थे — अपनी प्रत्यंचा और हथेलियों से भीषण नाद करते हुए, फैले मुखवाले साक्षात् संहारक (यम) के समान।
36इसी बीच सूर्य और आकाश ने रक्तवर्ण धारण कर लिया था। सूर्य के शीघ्र अस्त होने की कामना करते हुए कौरव योद्धा साँपों के छरहरे शरीरों जैसी भुजाओं से अपने धनुष झुकाकर —
37— फाल्गुन की ओर सैकड़ों बाण छोड़ने लगे, ऐसे बाण जो सूर्य की किरणों के समान थे। अपनी ओर छोड़े गए उन समस्त बाणों को दो, तीन अथवा आठ टुकड़ों में काटकर युद्ध में अजेय किरीटधारी अर्जुन ने उन सबको (अपने बाणों से) बींध डाला। तब ध्वजा में सिंहपुच्छ का चिह्न धारण करने वाले अश्वत्थामा ने अपना बल प्रदर्शित करते हुए —
38— हे राजन्, अर्जुन को रोकना आरम्भ किया। वस्तुतः शरद्वान् की कन्या के उस पुत्र ने पार्थ को दस बाणों से और कृष्ण को सात बाणों से बींधकर —
39— सिन्धुराज की रक्षा के अभिप्राय से अर्जुन के रथ की गति रोक दी। तब कुरुओं में अनेक श्रेष्ठ पुरुष, वे सब महारथी, बड़ी संख्या में रथ लेकर अपने धनुष तानते और असंख्य बाण छोड़ते हुए अर्जुन को चारों ओर से घेरने लगे।
40आपके पुत्र की आज्ञा से वे सिन्धुराज की रक्षा के लिए प्रयत्न करने लगे। तब हमने वीर पार्थ की भुजाओं का बल देखा —
41— उनके बाणों की अक्षयता और उनके गाण्डीव धनुष का बल भी। द्रोणपुत्र और कृप के अस्त्रों को अपने ही अस्त्रों से निवारित करके —
42— उन्होंने आपके प्रत्येक योद्धा को नौ-नौ बाणों से बींध डाला। तत्पश्चात् द्रोणपुत्र ने उन्हें पच्चीस बाणों से और वृषसेन ने सात बाणों से बींधा।
43दुर्योधन ने उन्हें बीस बाणों से और कर्ण ने तीन बाणों से बींधा। और वे सब उन पर गरजे और बिना रुके उन्हें बींधते रहे।
44अपने धनुष हिलाते हुए उन्होंने उन्हें चारों ओर से घेर लिया और अपने रथों को भी उनके चारों ओर एक सघन मण्डल में चलाया।
45सूर्य के शीघ्र अस्त होने की कामना करते हुए महान् फुर्ती से सम्पन्न कुरुसेना के वे प्रबल योद्धा अर्जुन पर गरजने और अपने धनुष हिलाने लगे —
46— और जैसे मेघ पर्वत की छाती पर वर्षा करते हैं, वैसे ही उन्होंने उन्हें तीक्ष्ण बाणों की वर्षा से ढक दिया; भारी मुद्गरों जैसी भुजाओं वाले उन वीर योद्धाओं ने उस अवसर पर, हे राजन्, धनञ्जय के शरीर पर अपने दिव्यास्त्र प्रकट किए। आपकी सेना में महान् संहार फैलाकर वे पराक्रमी —
47— और अजेय धनञ्जय, जिनका पराक्रम कभी विफल नहीं होता, सिन्धुराज के समीप आ पहुँचे। किन्तु, हे राजन्, कर्ण ने उस युद्ध में अपने बाणों से उन्हें रोक दिया —
48— हे भरतवंशी, भीमसेन और सात्वत की आँखों के सामने ही। तब महाबाहु पृथापुत्र ने समस्त सेनाओं के देखते-देखते रणभूमि में सूतपुत्र को बदले में दस बाणों से बींधा। तब, हे तात, सात्वत ने कर्ण को तीन बाणों से बींधा।
49भीमसेन ने उन्हें तीन बाणों से और पार्थ ने फिर सात बाणों से बींधा। तब उन महारथी कर्ण ने उनमें से प्रत्येक को साठ-साठ बाणों से बींधा।
50हे राजन्, तब एक ओर कर्ण और दूसरी ओर उन अनेकों के बीच घोर युद्ध छिड़ गया; तब, हे तात, हमने सूतपुत्र का अद्भुत पराक्रम देखा —
51— इस अर्थ में कि अकेले ही उन्होंने युद्ध में उन तीनों प्रबल योद्धाओं को रोक लिया; तब महाबाहु फाल्गुन ने कर्ण के मर्मस्थलों पर सौ बाणों के समूह से प्रहार किया। तत्पश्चात् सारे शरीर में रक्त से लथपथ पराक्रमी सूतपुत्र ने —
52— बदले में वीर फाल्गुन को पचास बाणों से बींध डाला। उनके द्वारा प्रदर्शित उस हस्तलाघव को देखकर अर्जुन उसे सह न सके।
53तब पृथापुत्र ने उनका धनुष चीरकर उन्हें उनके रथ पर बड़े वेग से गाँठरहित नौ बाणों से बींध डाला।
54तब जिस समय फुर्ती आवश्यक थी उस समय महान् फुर्ती दिखाते हुए धनञ्जय ने कर्ण के वध के लिए उन पर सूर्यकिरणों के समान तेजवाला एक बाण छोड़ा।
55जब वह बाण आकाश में वेग से जा रहा था, तब द्रोणपुत्र ने एक तीक्ष्ण अर्धचन्द्राकार बाण से उसे काट डाला; और इस प्रकार कटकर वह भूमि पर गिर पड़ा।
56तब अत्यन्त पराक्रमी सूतपुत्र ने दूसरा धनुष उठाकर पाण्डुपुत्र को सहस्रों बाणों से ढक दिया।
57तब पृथापुत्र ने अपने बाणों से कर्ण के धनुष से निकली उस अनुपम बाणवर्षा को इस प्रकार बिखेर दिया जैसे आँधी मेघपुंजों को बिखेर देती है।
58तब अर्जुन ने महान् हस्तलाघव दिखाते हुए समस्त योद्धाओं के देखते-देखते फिर उन्हें बाणों से ढक दिया।
59शत्रुनाशक कर्ण ने भी अपने प्रतिद्वन्द्वी के कर्मों को व्यर्थ करने की इच्छा से फाल्गुन को सहस्रों बाणों से ढक दिया।
60दो साँड़ों के समान एक-दूसरे पर गरजते हुए उन पुरुषश्रेष्ठ, उन दो महारथियों ने आकाश को सीधे जाने वाले बाणों के मेघों से ढक दिया।
61एक-दूसरे की बाणवर्षा से परस्पर अदृश्य होकर वे एक-दूसरे पर प्रहार करते रहे; वे एक-दूसरे पर गरजते और अपने तीक्ष्ण बाणों से एक-दूसरे को घायल करते हुए क्रमशः कहते — "मैं पार्थ हूँ, ठहर!" "मैं कर्ण हूँ, ठहर, हे फाल्गुन!" वस्तुतः वे दोनों वीर महान् कौशल और फुर्ती दिखाते हुए एक-दूसरे से अद्भुत ढंग से लड़े।
62तब उन्होंने जो दृश्य प्रस्तुत किया वह ऐसा था कि अन्य समस्त योद्धा उस युद्ध के दर्शक बन गए। तब सिद्धों, चारणों और पन्नगों द्वारा प्रशंसित होकर —
63— वे एक-दूसरे के वध की इच्छा से परस्पर लड़ते रहे। तब दुर्योधन ने आपके योद्धाओं को सम्बोधित करके कहा —
64"राधापुत्र की सावधानी से रक्षा करो। युद्ध में अर्जुन का वध किए बिना वह विरत नहीं होगा। वृष (कर्ण) ने मुझसे ये ही वचन कहे थे।"
65इसी बीच, हे राजन्, कर्ण का पराक्रम देखकर श्वेत अश्वों वाले अर्जुन ने कान तक खींची गई प्रत्यंचा से छोड़े गए चार बाणों द्वारा कर्ण के चारों घोड़ों को यमलोक भेज दिया। फिर एक भल्ल से उन्होंने कर्ण के सारथि को रथ के उसके स्थान से गिरा दिया।
66तब उन्होंने आपके पुत्र के देखते-देखते ही स्वयं कर्ण को बाणों के जाल से ढक दिया। इस प्रकार बाणों से ढके हुए, अश्वहीन और सारथिहीन कर्ण —
67— बाणवर्षा से विमूढ़ होकर पूर्णतः आवृत हो गए। उन्हें रथहीन हुआ देखकर, हे राजन्, अश्वत्थामा ने उन्हें अपने ही रथ पर चढ़ा लिया और अर्जुन से युद्ध करते रहे। तब मद्रराज ने कुन्तीपुत्र को तीस बाणों से बींधा।
68शरद्वान् के पुत्र (कृप) ने वासुदेव को बीस बाणों से बींधा; फिर उन्होंने धनञ्जय पर बारह बाणों से प्रहार किया।
69सिन्धुराज ने चार बाणों से (बींधा)। हे महाराज, वृषसेन और कर्ण ने पृथक्-पृथक् कृष्ण और पृथापुत्र को बींधा।
70तब कुन्तीपुत्र धनञ्जय ने बदले में द्रोणपुत्र को चौंसठ बाणों से और मद्रराज को सौ बाणों से बींधा।
71उन्होंने सिन्धुराज को वल्ल बाणों से और वृषसेन को तीन बाणों से बींधा, और फिर शरद्वान् के पुत्र को बींधकर पृथापुत्र ने उच्च स्वर से सिंहनाद किया।
72तब सव्यसाची की प्रतिज्ञा की पूर्ति को विफल करने की इच्छा से आपकी सेनाएँ क्रोध से जलती हुई शीघ्र उन पर टूट पड़ीं।
73तब धृतराष्ट्र की सेनाओं के हृदयों में आतंक भरते हुए अर्जुन ने वारुणास्त्र का आवाहन किया। तब कर्ण अपने बहुमूल्य रथ पर चढ़कर बाणों की वर्षा करते हुए पृथापुत्र के विरुद्ध आगे बढ़े।
74किन्तु, हे भरतवंशी, ज्यों-ज्यों वह भीषण, मूर्च्छित कर देने वाला और भयानक युद्ध आगे बढ़ा, त्यों-त्यों सिन्धुराज तक पहुँचे हुए किरीटधारी अर्जुन ने अपनी सुध-बुध नहीं खोई और निरन्तर अपने बाण छोड़ते रहे।
75राज्य पुनः प्राप्त करने की इच्छा से और बीते बारह वर्षों में कुरुओं द्वारा उन पर किए गए समस्त अन्यायों को स्मरण करते हुए अपरिमित पराक्रमवाले महात्मा सव्यसाची ने गाण्डीव से छोड़े गए बाणों से समस्त दिशाएँ आच्छादित कर दीं।
76तब आकाश मानो प्रज्वलित उल्काओं से आलोकित प्रतीत हुआ; असंख्य काक सैनिकों के शरीरों पर झपटने लगे। इसी बीच किरीटधारी अर्जुन अपने पीतवर्ण प्रत्यंचावाले गाण्डीव से शत्रुओं का वध करते रहे, जैसे क्रुद्ध महादेव अपने अजगर धनुष से प्राणियों का संहार करते हैं।
77तब अत्यन्त विख्यात शत्रुसेनादमन अर्जुन ने अपने धनुष से छोड़े गए बाणों द्वारा द्रोणपुत्र के बाणों को बिखेरकर उत्तम अश्वों और हाथियों पर सवार अनेक कुरुश्रेष्ठ योद्धाओं का वध कर डाला।
78तब अनेक राजा भारी गदाएँ, लोहे के मुद्गर, तलवारें, भाले और अन्य अनेक प्रकार के दृढ़ अस्त्र उठाकर तथा भयानक रूप धारण करके उस युद्ध में क्रोधपूर्वक पार्थ पर टूट पड़े।
79अर्जुन ने अपनी भुजाओं के बल से अपने उस भयानक धनुष गाण्डीव को झुकाया, जो इन्द्र के धनुष के समान था और जिसकी टंकार युगान्त के मेघों की गर्जना जितनी प्रचण्ड थी, और आपके सैनिकों का संहार करते हुए यमलोक की जनसंख्या बढ़ाते रहे।
80तब उन वीर योद्धा ने उन क्रुद्ध योद्धाओं को, उनके रथों, हाथियों, पैदल सैनिकों और उनका साथ देने वाले धनुर्धरों सहित, अस्त्रों और प्राणों से वंचित कर दिया और इस प्रकार यमराज के राज्य की जनसंख्या में उल्लेखनीय वृद्धि की।
नेपाली
1धृतराष्ट्रले भने — हे सञ्जय, जब यी परिस्थितिमा कुरुवीर भूरिश्रवा मारिए, तब युद्ध कसरी अघि बढ्यो, त्यो मलाई भन।
2सञ्जयले भने — हे भरतवंशी, भूरिश्रवा परलोक गएपछि ती महाबाहु अर्जुनले वासुदेवलाई प्रेरित गर्दै भने (चोदयाश्वान् भृशं कृष्ण) —
3हे कृष्ण, घोडाहरूलाई तिनको पूरा गतिमा हाँक्नुहोस्, जसले गर्दा तिनले मलाई चाँडै त्यस ठाउँमा पुऱ्याऊन् जहाँ राजा जयद्रथ छ। हे निष्पाप, मेरो प्रतिज्ञा पूरा गराउनमा मलाई सहायता गर्नु तपाईंलाई शोभा दिन्छ!
4हे महाबाहु, दिनकरको मण्डल छिटो पश्चिमी पर्वततिर गइरहेको छ। हे पुरुषश्रेष्ठ, मैले एउटा महान् कार्य पूरा गर्ने बिँडो उठाएको छु। तर अर्कोतिर सिन्धुराज कुरुहरूका अनेक श्रेष्ठ योद्धाद्वारा रक्षित छ। हे कृष्ण, तपाईंले घोडाहरूलाई यसरी हाँक्नुहोस् कि सूर्यास्तअघि नै मेरो प्रतिज्ञा पूरा होस् र जयद्रथ मारियोस्।
5तब अश्वविद्यामा निपुण महाबाहु कृष्णले ती चाँदीवर्णका अश्वहरूलाई जयद्रथको रथतिर हाँके। तब जसरी-जसरी अर्जुन शीघ्रगामी र सधैँ लक्ष्य भेद्ने बाण छोड्दै अघि बढे, हे महाराज, तपाईंको सेनाका श्रेष्ठ योद्धाहरू चाँडै उनको सामना गर्न आइपुगे — दुर्योधन, कर्ण, वृषसेन, मद्रराज —
6— अश्वत्थामा, कृप र स्वयं सिन्धुराज। आफ्नो सामु उभिएका सिन्धुराजको सामना गर्दै विभत्सु (अर्जुन)ले —
7— क्रोधले जलेको आफ्नो दृष्टि उसमाथि हाले र मानौँ उसलाई त्यहीँ भस्म पारिदिनेछन्। तब राजा दुर्योधनले राधापुत्र (कर्ण)लाई सम्बोधन गरेर चाँडै भने — "अर्जुनलाई जयद्रथको वधका लागि यसरी प्रयत्नशील देखेर..." हे राजन्, तपाईंका राजपुत्र सुयोधनले कर्णसँग ठीक यिनै वचन भने।
8हे विकर्तनपुत्र, युद्धको निर्णायक घडी आइपुग्यो। हे महात्मा योद्धा, अब आफ्नो बल देखाऊ। हे कर्ण, तिमी यस्तो गर जसले गर्दा युद्धमा अर्जुनद्वारा जयद्रथको वध हुन नसकोस्।
9हे नरवीरश्रेष्ठ, दिनको धेरै थोरै भाग बाँकी छ। अब आफ्ना बाणका तरङ्गले शत्रुलाई रोकिदेऊ। हे पुरुषश्रेष्ठ, यदि हामीले सकुशल दिनको अन्त्य पायौँ भने, विजय निश्चय नै हाम्रो हुनेछ।
10यदि सूर्यास्तसम्म सिन्धुराजको रक्षा हुन सक्यो भने, प्रतिज्ञा भङ्ग भएका कारण कुन्तीपुत्र (अग्निमा) खस्नेछ।
11हे मानदाता, जब अर्जुन यस पृथ्वीबाट जानेछ, तब उसका भाइ र अनुयायीहरू यस पृथ्वीतलमा क्षणभर पनि जीवित रहन सक्नेछैनन्।
12हे कर्ण, जब पाण्डवहरू नष्ट हुनेछन्, तब हामी यस पृथ्वीलाई यसका पर्वत, उद्यान र वनसहित निष्कण्टक भई भोग्नेछौँ।
13हे मानदाता, प्रतिकूल दैवले मोहित भएर र आफ्नो बुद्धिको विपर्ययले अर्जुनले यो प्रतिज्ञा गरेको छ, के साध्य छ र के असाध्य छ भन्ने नविचारी।
14हे कर्ण, निश्चय नै किरीटधारी पाण्डुपुत्रले आफ्नै विनाशलाई निम्त्याउनका लागि जयद्रथको वधको प्रतिज्ञा गरेको छ।
15हे राधापुत्र, जब तिमी स्वयं युद्धमा अजेय भई अहिले पनि जीवित छौ, तब फाल्गुनले सूर्यास्तअघि —
16— सिन्धुराजको वध गर्नमा कसरी सफल हुन सक्छ?
17मद्रराज र स्वयं यशस्वी कृपद्वारा रक्षित जयद्रथको वध युद्धमा धनञ्जयले कसरी गर्न सक्नेछ?
18द्रोणपुत्र, म र दुःशासनद्वारा रक्षित सिन्धुराजसम्म विभत्सु, जो देखिन्छ कि कालले प्रेरित छ, कसरी पुग्न सक्नेछ?
19जयद्रथका लागि अनेक वीर योद्धा युद्ध गरिरहेका छन् र सूर्य पनि तल झुकिसकेको छ। हे मानदाता, पार्थ युद्धमा सिन्धुराजसम्म पुग्न सक्नेछैन।
20अब, हे कर्ण, मबाट, अन्य वीर महारथीहरूबाट, द्रोणपुत्रबाट, मद्रराजबाट र स्वयं कृपबाट समर्थित भई —
21— तिमी आफ्नो पूरा सामर्थ्य लगाएर युद्धमा पृथापुत्रसँग लड। हे तात, तपाईंका पुत्रद्वारा यसरी भनिएपछि राधापुत्रले —
22— कुरुश्रेष्ठ दुर्योधनलाई यी वचनमा उत्तर दिए — "अचूक लक्ष्यवाला र धनुर्विद्यामा कुशल वीर भीमसेनले युद्धमा मेरो शरीरलाई बाणका अनेक जालले क्षतविक्षत पारिदिएका छन्। हे मानदाता, म अहिले पनि रणभूमिमा केवल यसकारण टिकेको छु किनभने त्यसो गर्नु मेरो कर्तव्य हो।
23प्रबल बाणहरूले पीडित मेरो एउटा पनि अङ्ग यस्तो छैन जसले असह्य वेदना भोगिरहेको छैन; तथापि म आफ्नो पूरा सामर्थ्यले युद्ध गर्नेछु। मेरो त प्राण नै तपाईंका लागि हो।
24म त्यो गर्नेछु जसले गर्दा यो पाण्डवश्रेष्ठ सिन्धुराजको वध गर्नमा सफल हुन नसकोस्। जबसम्म म तीक्ष्ण बाण छोड्दै युद्ध गर्नेछु —
25— तबसम्म देब्रे हातले पनि अस्त्र चलाउन समर्थ वीर धनञ्जय सिन्धुराजसम्म पुग्न सक्नेछैन। जे-जति तपाईंप्रति प्रेम र भक्ति राख्ने तथा सधैँ तपाईंको कल्याणका लागि उत्सुक पुरुषले तपाईंका लागि गर्नुपर्छ —
26— त्यो सबै म गर्नेछु, हे कुरुवंशी। रह्यो विजयको कुरा, त्यो त दैवको अधीनमा छ। आज म सिन्धुराजका लागि आफ्नो पूरा सामर्थ्यले युद्धमा प्रयत्न गर्नेछु —
27— र, हे राजन्, जो तपाईंको हितमा होस् त्यो पूरा गर्नका लागि पनि। तर, हे राजन्, विजय दैवमा निर्भर छ। आफ्नो पराक्रमको भरमा म आज अर्जुनसँग युद्ध गर्नेछु —
28— तपाईंका लागि, हे पुरुषश्रेष्ठ; तर विजय दैवको अधीनमा छ। हे कुरुश्रेष्ठ, आज सम्पूर्ण सेनाहरूले त्यो रोमाञ्चकारी र भीषण युद्ध हेरून् जो ममा र पृथापुत्रमा हुनेछ।" जब कर्ण र कुरुराज रणभूमिमा यसरी परस्पर वार्तालाप गरिरहेका थिए —
29— तब अर्जुन आफ्ना तीक्ष्ण बाणले तपाईंको सेनाको संहार गर्नमा लागिरहेका थिए। उनले तीक्ष्ण वल्ल बाणले पछि नहट्ने वीरहरूका ती पाखुरा काटिदिए जो मुड्की अथवा हात्तीका सुँडजस्ता थिए। ती महाबाहु वीरले आफ्ना बाणले अनेक शिरलाई मनुष्यहरूका धडबाट अलग पारिदिए।
30विभत्सुले आफ्ना क्षुरप्र बाणले हात्तीका सुँड, घोडाका घाँटी, रथका धुरा तथा रगतले लटपटिएका र भालाले सुसज्जित घोडा र मनुष्यहरूलाई दुई वा तीन टुक्रामा काटिदिए। र घोडा तथा उत्तम हात्तीहरू —
31— र ध्वजा र छत्र र धनु र चँवर र शिरहरू चारैतिर छिटो-छिटो खस्न थाले। जसरी आगोले सुकेको घाँसको थुप्रोलाई भस्म पार्छ, त्यसरी नै तपाईंको सेनालाई भस्म पार्दै —
32— पार्थले चाँडै नै पृथ्वीलाई रगतले आप्लावित पारिदिए। जसको पराक्रम कहिल्यै विफल हुँदैन, ती पराक्रमी र अजेय पृथापुत्रले तपाईंको त्यस सेनामा भयानक संहार फैलाउँदै चाँडै नै सिन्धुराजसम्म पुगे। भीमसेन र सात्वत (सात्यकि)द्वारा रक्षित विभत्सु —
33— हे भरतश्रेष्ठ, प्रज्वलित अग्निजस्तै तेजस्वी देखिए। तब अर्जुनलाई त्यस दशामा देखेर तपाईंको सेनाका सम्पूर्ण प्रचण्ड धनुर्धरहरू, ती तेजरूपी सम्पत्तिले युक्त पुरुषश्रेष्ठहरू, उनलाई सहन सकेनन्। त्यसपछि दुर्योधन, कर्ण, वृषसेन, मद्रराज —
34— अश्वत्थामा, कृप र सिन्धुराजले किरीटधारी अर्जुनलाई चारैतिरबाट घेरे।
35तब युद्धकुशल ती सम्पूर्ण योद्धाहरू सिन्धुराजलाई आफ्नो पछाडि राखेर तथा अर्जुन र कृष्णको वधको इच्छाले प्रेरित भई निर्भय भएर ती पार्थलाई घेरे, जो सम्पूर्ण युद्धपद्धतिका ज्ञाता थिए र जो तब आफ्नो रथको मञ्चमा मानौँ नृत्य गरिरहेका देखिन्थे — आफ्नो ताँदो र हत्केलाले भीषण नाद गर्दै, फैलिएको मुख भएका साक्षात् संहारक (यम)जस्तै।
36यसै बीचमा सूर्य र आकाशले रक्तवर्ण धारण गरिसकेका थिए। सूर्य चाँडै अस्ताओस् भन्ने कामना गर्दै कौरव योद्धाहरू सर्पका पातला शरीरजस्ता पाखुराले आफ्ना धनु झुकाएर —
37— फाल्गुनतिर सयौँ बाण छोड्न थाले, यस्ता बाण जो सूर्यका किरणजस्ता थिए। आफूतिर छोडिएका ती सम्पूर्ण बाणलाई दुई, तीन अथवा आठ टुक्रामा काटेर युद्धमा अजेय किरीटधारी अर्जुनले ती सबैलाई (आफ्ना बाणले) छेडिदिए। तब ध्वजामा सिंहपुच्छको चिह्न धारण गर्ने अश्वत्थामाले आफ्नो बल प्रदर्शन गर्दै —
38— हे राजन्, अर्जुनलाई रोक्न थाले। वास्तवमै शरद्वान्की कन्याका ती पुत्रले पार्थलाई दस बाणले र कृष्णलाई सात बाणले छेडेर —
39— सिन्धुराजको रक्षाको अभिप्रायले अर्जुनको रथको गति रोकिदिए। तब कुरुहरूमा अनेक श्रेष्ठ पुरुषहरू, ती सबै महारथीहरू, ठूलो सङ्ख्यामा रथ लिएर आफ्ना धनु ताँदै र असङ्ख्य बाण छोड्दै अर्जुनलाई चारैतिरबाट घेर्न थाले।
40तपाईंका पुत्रको आज्ञाले तिनीहरू सिन्धुराजको रक्षाका लागि प्रयत्न गर्न थाले। तब हामीले वीर पार्थका पाखुराको बल देख्यौँ —
41— उनका बाणहरूको अक्षयता र उनको गाण्डीव धनुको बल पनि। द्रोणपुत्र र कृपका अस्त्रलाई आफ्नै अस्त्रले निवारण गरेर —
42— उनले तपाईंका प्रत्येक योद्धालाई नौ-नौ बाणले छेडिदिए। त्यसपछि द्रोणपुत्रले उनलाई पच्चीस बाणले र वृषसेनले सात बाणले छेडे।
43दुर्योधनले उनलाई बीस बाणले र कर्णले तीन बाणले छेडे। र तिनीहरू सबै उनीमाथि गर्जे र नरोकिकन उनलाई छेड्दै रहे।
44आफ्ना धनु हल्लाउँदै तिनीहरूले उनलाई चारैतिरबाट घेरे र आफ्ना रथहरूलाई पनि उनका चारैतिर एउटा सघन मण्डलमा चलाए।
45सूर्य चाँडै अस्ताओस् भन्ने कामना गर्दै महान् फुर्तीले सम्पन्न कुरुसेनाका ती प्रबल योद्धाहरू अर्जुनमाथि गर्जन र आफ्ना धनु हल्लाउन थाले —
46— र जसरी मेघले पर्वतको छातीमा वर्षा गर्छ, त्यसरी नै तिनीहरूले उनलाई तीक्ष्ण बाणको वर्षाले ढाकिदिए; गह्रौँ मुड्कीजस्ता पाखुरा भएका ती वीर योद्धाहरूले त्यस अवसरमा, हे राजन्, धनञ्जयको शरीरमा आफ्ना दिव्यास्त्र प्रकट गरे। तपाईंको सेनामा महान् संहार फैलाएर ती पराक्रमी —
47— र अजेय धनञ्जय, जसको पराक्रम कहिल्यै विफल हुँदैन, सिन्धुराजको छेउमा आइपुगे। तर, हे राजन्, कर्णले त्यस युद्धमा आफ्ना बाणले उनलाई रोकिदिए —
48— हे भरतवंशी, भीमसेन र सात्वतका आँखाकै अगाडि। तब महाबाहु पृथापुत्रले सम्पूर्ण सेनाहरूले हेरिरहेकै बेला रणभूमिमा सूतपुत्रलाई बदलामा दस बाणले छेडे। तब, हे तात, सात्वतले कर्णलाई तीन बाणले छेडे।
49भीमसेनले उनलाई तीन बाणले र पार्थले फेरि सात बाणले छेडे। तब ती महारथी कर्णले तिनीहरूमध्ये प्रत्येकलाई साठी-साठी बाणले छेडे।
50हे राजन्, तब एकातिर कर्ण र अर्कातिर ती अनेकबीच घोर युद्ध सुरु भयो; तब, हे तात, हामीले सूतपुत्रको अद्भुत पराक्रम देख्यौँ —
51— यस अर्थमा कि एक्लै उनले युद्धमा ती तीनै प्रबल योद्धालाई रोकिदिए; तब महाबाहु फाल्गुनले कर्णका मर्मस्थलमा सय बाणको समूहले प्रहार गरे। त्यसपछि सारा शरीरमा रगतले लछप्पै भिजेका पराक्रमी सूतपुत्रले —
52— बदलामा वीर फाल्गुनलाई पचास बाणले छेडिदिए। उनले देखाएको त्यो हस्तलाघव देखेर अर्जुनले त्यो सहन सकेनन्।
53तब पृथापुत्रले उनको धनु चिरेर उनलाई उनकै रथमा ठूलो वेगले गाँठोरहित नौ बाणले छेडिदिए।
54तब जुन बेला फुर्ती आवश्यक थियो त्यस बेला महान् फुर्ती देखाउँदै धनञ्जयले कर्णको वधका लागि उनीमाथि सूर्यकिरणजस्तै तेज भएको एउटा बाण छोडे।
55जब त्यो बाण आकाशमा वेगले गइरहेको थियो, तब द्रोणपुत्रले एउटा तीक्ष्ण अर्धचन्द्राकार बाणले त्यसलाई काटिदिए; र यसरी कटेर त्यो भूमिमा खस्यो।
56तब अत्यन्त पराक्रमी सूतपुत्रले अर्को धनु उठाएर पाण्डुपुत्रलाई हजारौँ बाणले ढाकिदिए।
57तब पृथापुत्रले आफ्ना बाणले कर्णको धनुबाट निस्केको त्यो अनुपम बाणवर्षालाई यसरी छरपष्ट पारिदिए जसरी आँधीले मेघपुञ्जलाई छरपष्ट पार्छ।
58तब अर्जुनले महान् हस्तलाघव देखाउँदै सम्पूर्ण योद्धाहरूले हेरिरहेकै बेला फेरि उनलाई बाणले ढाकिदिए।
59शत्रुनाशक कर्णले पनि आफ्नो प्रतिद्वन्द्वीका कर्मलाई व्यर्थ पार्ने इच्छाले फाल्गुनलाई हजारौँ बाणले ढाकिदिए।
60दुई साँढेजस्तै एकअर्कामाथि गर्जँदै ती पुरुषश्रेष्ठ, ती दुई महारथीले आकाशलाई सीधा जाने बाणका मेघले ढाकिदिए।
61एकअर्काको बाणवर्षाले परस्पर अदृश्य भई तिनीहरू एकअर्कामाथि प्रहार गरिरहे; तिनीहरू एकअर्कामाथि गर्जन्थे र आफ्ना तीक्ष्ण बाणले एकअर्कालाई घाइते पार्दै क्रमशः भन्थे — "म पार्थ हुँ, पर्ख!" "म कर्ण हुँ, पर्ख, हे फाल्गुन!" वास्तवमै ती दुवै वीर महान् कौशल र फुर्ती देखाउँदै एकअर्कासँग अद्भुत ढङ्गले लडे।
62तब तिनीहरूले प्रस्तुत गरेको दृश्य यस्तो थियो कि अन्य सम्पूर्ण योद्धाहरू त्यस युद्धका दर्शक बने। तब सिद्ध, चारण र पन्नगहरूद्वारा प्रशंसित भई —
63— तिनीहरू एकअर्काको वधको इच्छाले परस्पर लडिरहे। तब दुर्योधनले तपाईंका योद्धाहरूलाई सम्बोधन गरेर भने —
64"राधापुत्रको सावधानीपूर्वक रक्षा गर। युद्धमा अर्जुनको वध नगरी ऊ विरत हुनेछैन। वृष (कर्ण)ले मसँग यिनै वचन भनेका थिए।"
65यसै बीचमा, हे राजन्, कर्णको पराक्रम देखेर श्वेत अश्व भएका अर्जुनले कानसम्म तानिएको ताँदोबाट छोडिएका चार बाणद्वारा कर्णका चारै घोडालाई यमलोक पठाइदिए। अनि एउटा भल्लले उनले कर्णका सारथिलाई रथको उनको स्थानबाट खसालिदिए।
66तब उनले तपाईंका पुत्रले हेरिरहेकै बेला स्वयं कर्णलाई बाणको जालले ढाकिदिए। यसरी बाणले ढाकिएका, अश्वहीन र सारथिहीन कर्ण —
67— बाणवर्षाले विमूढ भई पूर्णतः आवृत भए। उनलाई रथहीन भएको देखेर, हे राजन्, अश्वत्थामाले उनलाई आफ्नै रथमा चढाए र अर्जुनसँग युद्ध गरिरहे। तब मद्रराजले कुन्तीपुत्रलाई तीस बाणले छेडे।
68शरद्वान्का पुत्र (कृप)ले वासुदेवलाई बीस बाणले छेडे; अनि उनले धनञ्जयमाथि बाह्र बाणले प्रहार गरे।
69सिन्धुराजले चार बाणले (छेडे)। हे महाराज, वृषसेन र कर्णले छुट्टाछुट्टै कृष्ण र पृथापुत्रलाई छेडे।
70तब कुन्तीपुत्र धनञ्जयले बदलामा द्रोणपुत्रलाई चौँसट्ठी बाणले र मद्रराजलाई सय बाणले छेडे।
71उनले सिन्धुराजलाई वल्ल बाणले र वृषसेनलाई तीन बाणले छेडे, र फेरि शरद्वान्का पुत्रलाई छेडेर पृथापुत्रले उच्च स्वरले सिंहनाद गरे।
72तब सव्यसाचीको प्रतिज्ञाको पूर्तिलाई विफल पार्ने इच्छाले तपाईंका सेनाहरू क्रोधले जल्दै चाँडै उनीमाथि जाइलागे।
73तब धृतराष्ट्रका सेनाहरूको हृदयमा आतङ्क भर्दै अर्जुनले वारुणास्त्रको आवाहन गरे। तब कर्ण आफ्नो बहुमूल्य रथमा चढेर बाणको वर्षा गर्दै पृथापुत्रविरुद्ध अघि बढे।
74तर, हे भरतवंशी, जति-जति त्यो भीषण, मूर्च्छा पार्ने र भयानक युद्ध अघि बढ्यो, त्यति-त्यति सिन्धुराजसम्म पुगेका किरीटधारी अर्जुनले आफ्नो सुधबुध गुमाएनन् र निरन्तर आफ्ना बाण छोडिरहे।
75राज्य पुनः प्राप्त गर्ने इच्छाले र बितेका बाह्र वर्षमा कुरुहरूले उनीहरूमाथि गरेका सम्पूर्ण अन्यायलाई सम्झँदै अपरिमित पराक्रम भएका महात्मा सव्यसाचीले गाण्डीवबाट छोडिएका बाणले सम्पूर्ण दिशा आच्छादित पारिदिए।
76तब आकाश मानौँ प्रज्वलित उल्काहरूले आलोकित देखियो; असङ्ख्य कागहरू सैनिकहरूका शरीरमा झम्टिन थाले। यसै बीचमा किरीटधारी अर्जुन आफ्नो पहेँलो ताँदो भएको गाण्डीवले शत्रुहरूको वध गरिरहे, जसरी क्रुद्ध महादेवले आफ्नो अजगर धनुले प्राणीहरूको संहार गर्छन्।
77तब अत्यन्त विख्यात शत्रुसेनादमन अर्जुनले आफ्नो धनुबाट छोडिएका बाणद्वारा द्रोणपुत्रका बाणलाई छरपष्ट पारेर उत्तम अश्व र हात्तीमा सवार अनेक कुरुश्रेष्ठ योद्धाहरूको वध गरिदिए।
78तब अनेक राजाहरू गह्रौँ गदा, फलामका मुड्की, तरवार, भाला र अन्य अनेक प्रकारका दृढ अस्त्र उठाएर तथा भयानक रूप धारण गरेर त्यस युद्धमा क्रोधपूर्वक पार्थमाथि जाइलागे।
79अर्जुनले आफ्ना पाखुराको बलले आफ्नो त्यो भयानक धनु गाण्डीवलाई झुकाए, जो इन्द्रको धनुजस्तै थियो र जसको टङ्कार युगान्तका मेघको गर्जनजत्तिकै प्रचण्ड थियो, र तपाईंका सैनिकहरूको संहार गर्दै यमलोकको जनसङ्ख्या बढाइरहे।
80तब ती वीर योद्धाले ती क्रुद्ध योद्धाहरूलाई, तिनका रथ, हात्ती, पैदल सैनिक र तिनको साथ दिने धनुर्धरहरूसहित, अस्त्र र प्राणबाट वञ्चित पारिदिए र यसरी यमराजको राज्यको जनसङ्ख्यामा उल्लेखनीय वृद्धि गरे।