द्रोण के पराक्रम का प्रदर्शन
खण्ड 5 — द्रोण पर्व · अध्याय 125
संस्कृत
1संजय उवाच अपराह्ने महाराज संग्रामः सुमहानभूत्। पर्जन्यसमनिर्घोषः पुनद्रोणस्य सोमकैः॥
2शोणाश्वं रथमास्थाय नरवीरः समाहितः। समरेऽभ्यद्रवत् पाण्डूञ्जवमास्थाय मध्यमम्॥
3तव प्रियहिते युक्तो महेष्वासो महाबलः। चित्रपुङ्खः शितैर्बाणैः कलशोत्तमसम्भवः॥ वरान् वरान् हि योधानां विचिन्वन्निव भारत। आक्रीडत रणे राजन् भारद्वाजः प्रतापवान्॥
4तमभ्ययाद् बृहत्क्षत्रः केकयानां महारथः। भ्रातृणां नृप पञ्चानां श्रेष्ठः समरकर्कशः॥
5विमुञ्चन् विशिखांस्तीक्ष्णानाचार्ये भृशमार्दयत्। महामेघो यथा वर्ष विमुञ्चन् गन्धमादने॥
6तस्य द्रोणो महाराज स्वर्णपुवाञ्छिलाशितान्। प्रेषयामास संकुद्धः सायकान् दश पञ्च च॥
7तांस्तु द्रोणविनिर्मुक्तान् क्रुद्धाशीविषसंनिभान्। एकैकं पञ्चभिर्बाणैयुद्धि चिच्छेद हृष्टवत्॥
8तदस्य लाघवं दृष्ट्वा प्रहस्य द्विजपुङ्गवः। प्रेषयामास विशिखानष्टौ संनतपर्वणः॥
9तान् दृष्ट्वापततस्तूर्ण द्रोणचापच्युताशरान्। अवारयच्छरैरेव तावद्भिर्निशितैर्मधे॥
10ततोऽभवन्महाराज तव सैन्यस्य विस्मयः। कर्म कृतं दृष्ट्वा सुदुष्करम्॥
11ततो द्रोणे महाराज बृहत्क्षत्रं विशेषयन्। प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्रं सुदुर्जयम्॥
12कैकेयोऽस्रं समालोक्य मुक्तं द्रोणेन संयुगे। ब्रह्मास्त्रेणैव राजेन्द्र ब्राह्ममस्रमशातयत्॥
13बृहत्क्षत्रेण तत् ततोऽस्रे निहते ब्राह्मे बृहत्क्षवस्तु भारत। विव्याध ब्राह्मणं षष्ट्या स्वर्णपुजैः शिलाशितैः॥
14तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समार्पयत्। स तस्य कवचं भित्त्वा प्राविशद् धरणीतलम्॥
15कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम। तथात्यगान्महीं बाणो भित्त्वा कैकेयमाहवे॥
16सोऽतिविद्धो महाराज कैकेयो द्रोणसायकैः। क्रोधेन महताऽऽविष्टो व्यावृत्य नयने शुभे॥
17द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खः शिलाशितैः। सारथिं चास्य बाणेन भृशं मर्मस्वताडयत्॥
18द्रोणस्तु बहुभिर्विद्धो बृहत्क्षत्रेण मारिष। असृजद् विशिखांस्तीक्ष्णान् कैकेयस्य रथं प्रति॥
19व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम्। अश्वांश्चतुर्भिर्व्यवधीच्चतुरोऽस्य पतत्रिभिः॥
20सूतं चैकेन बाणेन रथनीडादपातयत्। द्वाभ्यां ध्वजं च च्छत्रं च च्छित्वा भूमावपातयत्॥
21ततः साधुविसृष्टेन नाराचेन द्विजर्षभः। हृद्यविध्यद् बृहत्क्षत्रं स च्छिन्नहृदयोऽपतत्॥
22बृहत्क्षत्रे हते राजन् केकयानां महारथे। शैशुपालिरभिक्रुद्धो यन्तारमिदमब्रवीत्॥
23सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः। विनिघ्नन् केकयान् सर्वान् पञ्चालानां च वाहिनीम्॥
24वचनं श्रुत्वा सारथी रथिनां वरम्! द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः॥
25धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः। वधायाभ्यद्रवद् द्रोणं पतङ्ग इव पावकम्॥
26सोऽविध्यत तदा द्रोणं षष्ट्या साश्वरथध्वजम्। पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदनिव॥
27तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन च। चकर्त गार्धपत्रेण यतमानस्य शुष्मिणः॥ तस्य तद्
28अथान्यद् धनुरादाय शैशुपालिमहारथः। विव्याध सायकैलॊणं कङ्कबहिणवाजितैः॥
29तस्य द्रोणो हयान् हत्वा चतुर्भिश्चतुरः शरैः। सारथेश्च शिरः कायाचकर्त प्रहसन्निव॥
30अथैनं पञ्चविंशत्या सायकानां समार्पयत्। अवप्लुत्य रथाच्चैद्यो गदामादाय सत्वरः॥ भारद्वाजाय चिक्षेप रुषितामिव पन्नगीम्।
31तामापतन्तीमालोक्य कालरात्रिमिवोद्यताम्॥ अश्मसारमयीं गुर्वी तपनीयविभूषिताम्। शरैरनेकसाहस्रर्भारद्वाजोऽच्छिनच्छितैः॥
32सा छिन्ना बहुभिर्बाणैर्धारद्वाजेन मारिष। गदा पपात कौरव्य नादयन्ती धरातलम्॥
33गदां विनिहतां दृष्ट्वा धृष्टकेतुरसर्षणः। तोमरं व्यसृजद् वीरः शक्तिं च कनकोज्ज्वलाम्॥
34तोमरं पञ्चभिर्भित्त्वा शक्तिं चिच्छेद पञ्चभिः। तौ जग्मतुर्महीं छिन्नौ सर्पाविव गरुत्पता॥
35ततोऽस्य विशिखं तीक्ष्णं विधाय वधकाङ्क्षिणः। प्रेषयामास समरे भारद्वाजः प्रतापवान्॥
36स तस्य कवचं भित्त्वा हृदयं चाभितौजसः। अभ्यगाद् धरणीं बाणो हंसः पद्मवनं यथा॥
37पतङ्गं हि ग्रसेचाषो यथा क्षुद्रं बुभुक्षितः। तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महाहवे॥
38निहते चेदिराजे तु तत् खण्डं पित्र्यमाविशत्। अमर्षवशमापन्नः पुत्रोऽस्य परमास्रवित्॥
39तमपि ग्रहसन् द्रोणः शरैर्निन्ये यमक्षयम्। महाव्याघ्रो महारण्ये मृगशावं यथा बली॥
40तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत। जरासंधसुतो वीरः स्वयं द्रोणमुपाद्रवत्॥
41स तु द्रोणं महाबाहुः शरधाराभिराहवे। अदृश्यमकरोत् तूर्ण जलदो भास्करं यथः॥
42तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः। व्यसृजत् सायकांस्तूर्ण शतथोऽथ सहस्रशः॥
43छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम्। जारासंधि जघानाशु मिषतां सर्वधन्विनाम्॥
44यो यः स्म नीयते तत्र तं द्रोणो द्वन्तकोपमः। आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः॥
45ततो द्रोणो महाराज नाम विश्राव्य संयुगे। शरैरनेकसाहौः पाण्डवेयान् समावृणोत्॥
46ते तु नामाङ्किता बाणा द्रोणेनास्ताः शिलाशिताः। नरान् नागान् हयांश्चैवनिजघ्नुः शतशो मृधे॥
47ते वध्यमाना द्रोणेन शक्रेणेव महासुराः। समकम्पन्त पञ्चाला गावः शीतार्दिता इव॥
48ततो निष्ठानको घोरः पाण्डवानामजायत। द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ।॥
49प्रताप्यमानाः सूर्येण हन्यमानाश्च सायकैः। अन्वपद्यन्त पञ्चालास्तदा संत्रस्तचेतसः॥
50मोहिता बाणजालेन भारद्वाजेन संयुगे। ऊरुग्राहगृहीतानां पञ्चालानां महारथाः॥
51चेदयश्च महाराज सृञ्जयाः काशिकोसलाः। अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया॥
52ब्रुवन्तश्च रणेऽन्योन्यं चेदिपञ्चालसृञ्जयाः। घ्रत द्रोणं मत द्रोणमिति ते द्रोणमभ्ययुः॥
53यतन्तः पुरुषव्याघ्राः सर्वशत्तया महाद्युतिम्। निनीषवो रणे द्रोणं यमस्य सदनं प्रति॥
54यतमानांस्तुतान् वीरान् भारद्वाजः शिलीमुखैः। यमाय प्रेषयामास चेदिमुख्यान् विशेषतः॥
55तेषु प्रक्षीयमाणेषु चेदिमुख्येषु सर्वशः। पञ्चाला: समकम्पन्त द्रोणसायकपीडिताः॥
56प्राक्रोशन् भीमसेनं ते धृष्टद्युम्नं च भारत। दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष॥
57ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत्। तथा हि युधि संक्रुद्धो दहति क्षत्रियर्षभान्॥
58धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः। तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत्॥
59द्रोणाग्निमस्रसंस्पर्श प्रविष्टाः क्षत्रियर्षभाः। बहवो दुस्तरं घोरं यत्राह्यन्तं भारत॥
60यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः। मोहयन् सर्वभूतानि द्रोणो हन्ति बलानि नः॥
61तेषां श्रुत्वा क्षत्रधर्मा व्यवस्थितः। अर्धचन्द्रेण चिच्छेद क्षत्रधर्मा महाबलः॥ क्रोधसंविग्नमनसो द्रोणस्य सशरं धनुः। स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः॥ तद् वचनं
62अन्यत् कार्मुकमादाय भास्वरं वेगवत्तरम्। तत्राधाय शरं तीक्ष्णं परानीकविशातनम्॥
63आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत्। स हत्वा क्षत्रधर्माणं जगाम धरणीतलम्॥
64स भिन्नहृदयो वाहान्नयपतन्मेदिनीतले। ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते॥
65अथ द्रोणं समारोहचेकितानो महाबलः। स द्रोणंदशभिर्विद्धवा प्रत्यविद्धयत् स्तनान्तरे॥
66चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान्। तमाचार्यसिभिर्बाणैर्बाह्वोरुरसि चार्पयत्॥
67ध्वजं सप्तभिरुन्मथ्य यन्तारमवधीत् त्रिभिः। तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः॥
68समरे शरसंवीता भारद्वाजेन मारिष। चेकितानरथं दृष्ट्वा हताश्वं हतसारथिम्॥
69तान् समेतान् रणे शूरांश्चेदिपञ्चालसृञ्जयान्। समन्ताद् द्रावयन् द्रोणो वह्वशोभत मारिष॥ आकर्णपलितः श्यामो वयसाशीतिपञ्चकः। रणे पर्यचरद् द्रोणो वृद्धः षोडशवर्षवत्॥
70अथ द्रोणं महाराज विचरन्तमभीतवत्। वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम्॥
71ततोऽब्रवीन्महाबाहुपदो बुद्धिमान् नृप। लुब्धोऽयं क्षत्रियान् हन्ति व्याघ्रः क्षुद्रमृगानिव॥
72कृच्छ्रान् दुर्योधनो लोकान् पापः प्राप्स्यति दुर्मतिः। यस्य लोभाद् विनिहताः समरे क्षत्रियर्षभाः॥
73शतशः शेरते भूमौ निकृत्ता गोवृषा इव। रुधिरेण परीताङ्गाः श्वशृगालदनीकृताः॥
74एवमुक्त्वा महाराज दुपदोऽक्षौहिणीपतिः। पुरस्कृत्य रणेपार्थान् द्रोणमभ्यद्रवद् दुतम्॥
75एवमुक्त्वा महाराज दुपदोऽक्षौहिणीपतिः। पुरस्कृत्य रणेपार्थान् द्रोणमभ्यद्रवद् दुतम्॥
अंग्रेज़ी
1Sanjaya said On the afternoon, O mighty monarch, a terrible battle was fought between Drona and the Somakas, battle whose din resembled the rumble of the rain cloud Parjannya itself.
2That best of heroes among men, mounted on his chariot to which were yoked red steeds, viz., Drona then assailed the Pandavas, firmly resolved to fight with them.
3That fierce bowman, endued with great might and energy, that hero ever engaged in doing good to yourself, that one born in an excellent jar, that puissant son of Bharadvaja, slaying, O king, many best of heroes among the enemy, appeared O Bharata, to sport on the field of battle.
4Him encountered Vrihadkshatra that mighty car-warrior among the Kekayas, the eldest of his five brothers and difficult of being resisted in battle.
5Discharging sharp arrows incessantly, he afflicted the preceptor sorely, like a mighty cloud afflicting the mountain Gandhamadana by pouring its watery contents on it.
6At hin, O mighty monarch, excited with wrath Drona sped ten and five shafts, all whetted on stone and furnished with wings of gold.
7Then Vrihadkshatra cheerful cut-off each of those arrows shot by Drona and looking like so many enraged snakes of virulent poison, with five shafts of his own.
8Then seeing his lightness of hands, that foremost of the regenerate ones smiled and once more, sped at him eight shafts of depressed knots.
9Beholding those shafts shot from Drona's bow coursing swiftly towards himself, Vrihadkshatra baffled them in battle with an equal number of sharp arrows shot by himself.
10Then your troops, O mighty monarch were filled with surprise, beholding Vrihadkshatra achieve that very difficult feat.
11Thereupon, O king, applauding Vrihadkshatra, Drona invoked into existence the invincible Brahma-weapon of celestial make.
12Beholding that weapon discharged by Drona in battle, the Kekaya prince, O foremost of kings, cut down that weapon with his own Brahma weapon.
13Then O Bharata, when the Brahma weapon had been baffled, Vrihadkshatra pierced the Brahmana with sixty shafts, whetted on stones and furnished with wings of gold.
14Then that foremost of men Drona directed several Nacharas at him; these Naracharas penetrating through his armour entered the earth.
15Like, O best of kings, black snakes freed from their sloughs, entering into their holes in anthills, those arrows penetrating through the Kekaya prince entered the earth.
16Then, O mighty monarch, deeply pierced with the arrows of Drona, the Kaikaya prince excited to the highest pitch of fury began to roll his charming eyes.
17He then pierced Drona with seventy shafts whetted on stone and furnished with golden wings; he pierced the latter's charioteer in his vital parts with (fierce) darts.
18O sire, Drona then pierced with numerous arrows by the Kekaya prince Vrihatkshatra, sped at his car many arrows of extreme sharpness.
19Then confounding that mighty car-warrior Vrihatkshatra, Drona slew his four steeds with four winged shafts.
20He then felled the former's charioteer from his niche of the car, with a single arrow. Cutting off his standard and umbrella with another two arrows, he felled them on the ground.
21Then that foremost among the regenerate ones, with a well directed Naracha pierced Vrihatkshatra on his breast, where-upon the latter then fell down, with his heart torn open.
22When Brihatkshatra that mighty car-warrior was thus slain, O king the son of Sisupala highly enraged addressing his charioteer said-
23"O charioteer, proceed to the spot where the cuirassed Drona stands, slaughtering the Kekaya, the Panchala divisions."
24Hearing those words of that foremost of car-warriors, the charioteer took him to the spot where Drona was, by means of his fleei steeds of Kamboja breed.
25Then swelling with his might, that foremost of the Chedis, viz., slaughtering him, like a fly falling upon fire.
26He then pierced Drona and his steeds. And once more he struck his adversary with sharp arrows, like a man rousing a sleeping tiger.
27Then Drona, with a sharp razor-faced arrow winged with feathers of vultures. cut-off in the middle, the bow of that mighty warrior striving in battle.
28Thereupon that son of Sisupala, that mighty car-warrior, taking up another bow pierced Drona with numerous shafts equipped with wings of the feather of the peacock and the Kanka bird.
29Then Drona slaying with four arrows his four steeds, smilingly severed the head of his charioteer from his trunk.
30He then pierced Dhristaketu himself with twenty five arrows. The prince of the Chedis then leaping off from his chariot, grasped a mace.
31And hurled it at the son of Bharadvaja like an enraged she-snake. Beholding that heavy mace endued with the strength of adamant and adorned with gold, course towards himself like the last night of a man's existence, the son of Bharadvaja cut it off with many thousands of whetted arrows.
32Cut off by numerous shafts by the son of Bharadvaja that mace, O sire, fell down, ) Kaurava, filling the earth with the noise it created.
33Beholding the mace repulsed, the valiant Dhristaketu hurled at Drona first a lance and then a javelin decked with gold.
34Drona then cutting off that lance with five shafts, cut-off the dart with another five. Then both those missiles cut-off, dropped on the ground like two snakes torn to pieces by Garuda.
35Thereafter the highly puissant son of Bharadvaja shot a shaft for the destruction of Dhristaketu who was striving to slay him.
36Penetrating through the breast plate and the breast of Dhristaketu of infinite energy, that dart entered the carth like a swan diving into a lake overgrown with lotuses.
37Like a hungry jay catching and devouring a little insect, Drona of great heroism devoured Dhristaketu in that battle.
38When the Chedi ruler was thus slain, his son versed in the use of excellent weapons became excited with wrath and sought to achieve the task his after left undone.
39Him also Diona smilingly dispatched to the mansion of Death by means of his shafts, like a large and ferocious tiger slaying a young deer in the deep forest.
40While the Pandava troops were being thus reduced in number, O Bharata, the brave son of Jarasandha rushed against, Drona.
41Then with his arrowy showers he quickly rendered Drona in visible, like the clouds rendering the sun invisible.
42Beholding that lightness of hands displayed by him, Drona, that crusher of Kshatriyas, began to discharge arrows by hundreds and thousands.
43Then Drona completely covering that foremost of car-warrior name. Jarasadha's son riding on a golden chariot, quickly slew him, before the very eyes of all the warriors.
44Whoever was carried before Drona, he became his destroyer. And like Death at the time of the dissolution, he wrested the lives out of all creatures.
45Thereupon, 0 mighty monarch, proclaiming his name in the battle, Drona began to cover the Pandava troops with his thousands of shafts.
46Shot by Drona, those arrows with his name engraved on them and whetted on stone, began to dispatch men, elephants and horses by hundreds in that battle.
47Then like mighty Asuras slain by Takra, they were being slaughtered by Drona. The Panchalas then began to tremble like kine afflicted with the chill of winter,
48Who, O foremost of the Bharatas, the Pandava troops were thus being slaughtered by Drona, a loud wail of agony was uttered them.
49Scorched with the rays of the sun and wounded with the arrows of Drona, the Panchalas, panic struck as they were, became seized with anxiety.
50Confounded by the net-work of arrows shot by Bharadvaja's son, the Panchala warriors then thought themselves to be seized by the thighs by alligators.
51But after a while, O mighty monarch, the Chedis, the Srinjayas, the Kasis and the Kosalas, cheerfully rushed against the son of Bharadvaja from a desire for battle.
52The Chedis, the Pandavas and the Panchalas then addressed another saying-Drona is slain, Drona is slain. Thus speaking they assailed Drona.
53Then those foremost of men fell upon Drona of great effulgence in that battle, desirous of dispatching the latter to the abodes of Death.
54As those heroes were struggling against him, the son of Bharadvaja with his arrows, dispatched them to the regions of Death, specially those foremost among the Chedis. one
55When the best warrior of the Chedis were becoming reduced in number, the Panchalas began to tremble, being afflicted by the shafts of Drona.
56Beholding those terrible feats of Drona, 0) sire they began to exclaim aloud saying, 'O Bharata,' 'Oh Bhimasena,; 'O Dhrishtadyumna.'
57They said-Surely this Brahmana has practised mighty ascetic austerities, by virtue of which enraged in battle he is consuming these foremost of Kshatriyas.
58The duty of a Kshatriya is to fight and that of a Brahmana to practise severe austerities. He nas practised austerities and is skilled in the use of weapons and so he burns down by his very glance.
59The foremost of Kshatriyas entering into the blazing fire of Drona, dreadful and unquenchable, are being brunt down, O Bharata.
60The highly effulgence Drona putting forth his prowess and his strength, is confounding all creatures and is slaying all our troops.'
61Hearing those words of the Panchalas, Kshatradharma withstood Drona. Then the mighty Kshatradharma filled with rage, cut-off with a crescent-shaped arrow Drona's bow with shafts fixed on its string. Thereat excited to the highest pitch of fury that crusher of Kshatriyas viz., Drona.
62Took up another bow, resplendent and capable of bearing great strain. Placing on its string a sharp arrow fatal to the foe.
63The puissant Preceptor let it go drawing the bow-string back to the very ears. That arrow then killing Kshatradharman fell down on the Earth's surface.
64With his heart cleft oper, he fell down on the ground from his vehicle. Upon the Death of Dhristadyumna's son, the troops to tremble (in fear).
65Thereafter the mighty Chekitana-countered Drona and piercing the latter with ten arrows, once more wounded him on the breast.
66He wounded Drona's charioteer with four and his four steeds with another four arrows. The preceptor then pierced the right arm of his adversary with sixteen arrows.
67He pierced his standard with sixteen and his charioteer with seven shafts. When Chekitana's charioteer was killed, the horses ran wildly dragging the car along with them.
68Then, O sire, beholding the horseless and the driverless chariot of Chekitana covered with Drona's arrow in battle.
69The Pandavas and the Panchalas were seized with a great panic; then routing completely those assembled host of heroes consisting of Chedis, Panchalas and the Srinjayas, Drona appeared highly beautiful, O sire. With his hoary locks flowing down to the ear, blue in complexion, full eighty-five years of age.
70The venerable Drona, though burdened with the weight of years then moved on the field like a youth of sixteen. Then O mighty monarch, as Drona careered fearlessly on the field of battle.
71His adversaries considered him to be none other than Indra himself armed with the thunder. Then, O king, the intelligent, Drupada
72‘Like a hungry tiger slaying inferior animals, Drona is slaying these Kshatriyas. Surely the wicked Duryodhana will obtain very miserable regions after Death.
73It is through his covetousness that these foremost of the Kshatriyas are lying prostrate on the field of battle being slain by hundreds, like so many quartered bovine bulls.
74Weltering in blood and being the food of the jackals and the dogs.” O mighty monarch, thus speaking, that commander of Aukshauhini, Drupada, placing the Parthas before him, quickly rushed against Drona. a
75Weltering in blood and being the food of the jackals and the dogs.” O mighty monarch, thus speaking, that commander of Aukshauhini, Drupada, placing the Parthas before him, quickly rushed against Drona. a
हिन्दी
1सञ्जय ने कहा — हे महाराज, अपराह्न में द्रोण और सोमकों के बीच एक भयंकर युद्ध हुआ, जिसका घोष साक्षात् पर्जन्य मेघ की गर्जना के समान था।
2नरश्रेष्ठ द्रोण, जिनके रथ में लाल घोड़े जुते हुए थे, उस रथ पर आरूढ़ होकर पाण्डवों से युद्ध करने का दृढ़ निश्चय कर उन पर टूट पड़े।
3महान् बल और तेज से सम्पन्न वह उग्र धनुर्धर, सदा आपका हित करने में लगा रहनेवाला वह वीर, उत्तम कलश से उत्पन्न वह पराक्रमी भरद्वाजपुत्र, हे राजन्, शत्रुपक्ष के अनेक श्रेष्ठ वीरों का वध करता हुआ, हे भरतश्रेष्ठ, रणभूमि में मानो क्रीड़ा कर रहा था।
4उनका सामना केकयों में महारथी बृहत्क्षत्र ने किया, जो अपने पाँच भाइयों में ज्येष्ठ और युद्ध में दुर्जय था।
5निरन्तर तीक्ष्ण बाणों की वर्षा करते हुए उसने आचार्य को अत्यन्त पीड़ित किया, जैसे कोई विशाल मेघ अपना जल बरसाकर गन्धमादन पर्वत को आच्छादित कर देता है।
6हे महाराज, तब क्रोध से भरे द्रोण ने उस पर पन्द्रह बाण छोड़े, जो सब पत्थर पर तेज किए हुए और सुवर्णमय पंखोंवाले थे।
7तब बृहत्क्षत्र ने प्रसन्नतापूर्वक द्रोण के छोड़े हुए उन बाणों को, जो तीव्र विषवाले क्रुद्ध सर्पों के समान जान पड़ते थे, अपने पाँच बाणों से काट डाला।
8तब उसके हस्तलाघव को देखकर वह द्विजश्रेष्ठ मुस्कुराए और फिर उस पर दबी हुई गाँठोंवाले आठ बाण छोड़े।
9द्रोण के धनुष से छूटे हुए उन बाणों को अपनी ओर तीव्र गति से आते देखकर बृहत्क्षत्र ने युद्ध में उतने ही तीक्ष्ण बाण छोड़कर उन्हें व्यर्थ कर दिया।
10हे महाराज, बृहत्क्षत्र को वह अत्यन्त दुष्कर कार्य करते देखकर आपकी सेना विस्मय से भर गई।
11तब, हे राजन्, बृहत्क्षत्र की प्रशंसा करते हुए द्रोण ने दिव्य निर्माणवाले अजेय ब्रह्मास्त्र का आवाहन किया।
12हे नृपश्रेष्ठ, युद्ध में द्रोण द्वारा छोड़े गए उस अस्त्र को देखकर केकयराजकुमार ने अपने ब्रह्मास्त्र से उसे काट डाला।
13तब, हे भरतवंशी, ब्रह्मास्त्र के व्यर्थ हो जाने पर बृहत्क्षत्र ने उस ब्राह्मण को पत्थर पर तेज किए हुए और सुवर्णमय पंखोंवाले साठ बाणों से बींध डाला।
14तब नरश्रेष्ठ द्रोण ने उस पर अनेक नाराच चलाए; वे नाराच उसके कवच को भेदकर पृथ्वी में समा गए।
15हे राजश्रेष्ठ, जैसे केंचुल से मुक्त काले सर्प बाँबी के बिलों में घुस जाते हैं, वैसे ही वे बाण केकयराजकुमार को बींधकर पृथ्वी में प्रवेश कर गए।
16तब, हे महाराज, द्रोण के बाणों से गहरे बिंधे हुए केकयराजकुमार अत्यन्त क्रोध से भरकर अपने सुन्दर नेत्र घुमाने लगे।
17फिर उसने द्रोण को पत्थर पर तेज किए हुए और सुवर्णमय पंखोंवाले सत्तर बाणों से बींधा; और उनके सारथि के मर्मस्थलों को (तीक्ष्ण) भालों से बेध डाला।
18हे तात, केकयराजकुमार बृहत्क्षत्र के अनेक बाणों से बिंधे हुए द्रोण ने तब उसके रथ पर अत्यन्त तीक्ष्ण बहुत-से बाण छोड़े।
19तब उस महारथी बृहत्क्षत्र को विमूढ़ करके द्रोण ने चार पंखयुक्त बाणों से उसके चारों घोड़े मार डाले।
20फिर एक ही बाण से उन्होंने उसके सारथि को रथ के आसन से गिरा दिया। और दो अन्य बाणों से उसकी ध्वजा और छत्र काटकर उन्हें भूमि पर गिरा दिया।
21तब उस द्विजश्रेष्ठ ने एक सुनिश्चित लक्ष्यवाले नाराच से बृहत्क्षत्र की छाती को बींध डाला, जिससे उसका हृदय विदीर्ण हो गया और वह गिर पड़ा।
22हे राजन्, महारथी बृहत्क्षत्र के इस प्रकार मारे जाने पर शिशुपाल का पुत्र (धृष्टकेतु) अत्यन्त क्रुद्ध होकर अपने सारथि से बोला —
23“हे सारथे, वहाँ चलो जहाँ कवचधारी द्रोण केकय और पाञ्चाल सेनाओं का संहार करते हुए खड़े हैं।”
24उस महारथी के ये वचन सुनकर सारथि ने काम्बोज देश के वेगवान् घोड़ों द्वारा उसे वहाँ पहुँचा दिया जहाँ द्रोण थे।
25तब अपने बल से उन्मत्त होकर वह चेदिश्रेष्ठ उन्हें मारने के लिए इस प्रकार टूट पड़ा, जैसे पतंगा अग्नि पर गिरता है।
26उसने द्रोण को और उनके घोड़ों को बींध डाला। फिर उसने तीक्ष्ण बाणों से अपने प्रतिद्वन्द्वी पर प्रहार किया, मानो कोई सोते हुए बाघ को जगा रहा हो।
27तब द्रोण ने गीधों के पंखों से युक्त एक तीक्ष्ण क्षुरप्र बाण से युद्ध में प्रयत्नशील उस महावीर का धनुष बीच से काट डाला।
28तब शिशुपाल के उस पुत्र, उस महारथी ने दूसरा धनुष लेकर मोर और कङ्क पक्षी के पंखोंवाले अनेक बाणों से द्रोण को बींध डाला।
29तब द्रोण ने चार बाणों से उसके चारों घोड़ों को मारकर मुस्कुराते हुए उसके सारथि का सिर धड़ से अलग कर दिया।
30फिर उन्होंने स्वयं धृष्टकेतु को पच्चीस बाणों से बींधा। तब चेदिराजकुमार ने अपने रथ से कूदकर एक गदा उठाई।
31और उसे क्रुद्ध सर्पिणी के समान भरद्वाजपुत्र पर फेंका। वज्र के समान बलवाली और सुवर्ण से अलंकृत उस भारी गदा को मनुष्य के जीवन की अन्तिम रात्रि के समान अपनी ओर आते देखकर भरद्वाजपुत्र ने उसे सहस्रों तीक्ष्ण बाणों से काट डाला।
32हे तात, भरद्वाजपुत्र के अनेक बाणों से कटी हुई वह गदा, हे कौरव, अपने शब्द से पृथ्वी को भरती हुई गिर पड़ी।
33गदा को विफल हुआ देखकर पराक्रमी धृष्टकेतु ने द्रोण पर पहले एक शक्ति और फिर सुवर्ण से मढ़ा हुआ एक तोमर फेंका।
34तब द्रोण ने पाँच बाणों से उस शक्ति को और अन्य पाँच बाणों से उस तोमर को काट डाला। कटे हुए वे दोनों अस्त्र गरुड़ द्वारा खण्ड-खण्ड किए गए दो सर्पों के समान भूमि पर गिर पड़े।
35इसके पश्चात् अत्यन्त पराक्रमी भरद्वाजपुत्र ने अपने वध के लिए प्रयत्न करते हुए धृष्टकेतु के विनाश के लिए एक बाण छोड़ा।
36अनन्त तेजवाले धृष्टकेतु के कवच और वक्षःस्थल को भेदकर वह बाण पृथ्वी में इस प्रकार समा गया, जैसे कोई हंस कमलों से भरे सरोवर में डुबकी लगाता है।
37जैसे भूखा पक्षी किसी छोटे कीट को पकड़कर निगल जाता है, वैसे ही महापराक्रमी द्रोण ने उस युद्ध में धृष्टकेतु को ग्रस लिया।
38चेदिराज के इस प्रकार मारे जाने पर उत्तम अस्त्रों के प्रयोग में निपुण उसका पुत्र क्रोध से भर गया और अपने पिता के अधूरे कार्य को पूरा करने के लिए उद्यत हुआ।
39उसे भी द्रोण ने मुस्कुराते हुए अपने बाणों से यमराज के भवन भेज दिया, जैसे कोई विशाल और हिंस्र बाघ गहन वन में किसी मृगशावक को मार डालता है।
40हे भरतवंशी, इस प्रकार पाण्डव सेना के क्षीण होते जाने पर जरासन्ध का वीर पुत्र द्रोण पर टूट पड़ा।
41फिर उसने अपनी बाणवर्षा से शीघ्र ही द्रोण को अदृश्य कर दिया, जैसे मेघ सूर्य को ढँक लेते हैं।
42उसके द्वारा दिखाए गए उस हस्तलाघव को देखकर क्षत्रियमर्दन द्रोण सैकड़ों और सहस्रों की संख्या में बाण छोड़ने लगे।
43तब द्रोण ने सुवर्णमय रथ पर आरूढ़ उस महारथी जरासन्धपुत्र को पूर्णतया आच्छादित करके समस्त योद्धाओं के देखते-देखते शीघ्र ही मार डाला।
44जो कोई भी द्रोण के सामने पहुँचता, वे उसके संहारक बन जाते। और प्रलयकाल के यमराज के समान वे समस्त प्राणियों के प्राण हर लेते थे।
45तब, हे महाराज, युद्ध में अपना नाम घोषित करते हुए द्रोण पाण्डव सेना को अपने सहस्रों बाणों से आच्छादित करने लगे।
46द्रोण द्वारा छोड़े गए, उनके नाम से अंकित और पत्थर पर तेज किए हुए वे बाण उस युद्ध में सैकड़ों की संख्या में मनुष्यों, हाथियों और घोड़ों को यमलोक भेजने लगे।
47तब वे इन्द्र द्वारा मारे जाते महाबली असुरों के समान द्रोण द्वारा संहृत होने लगे। पाञ्चाल शीत से पीड़ित गौओं के समान काँपने लगे,
48हे भरतश्रेष्ठ, जब इस प्रकार द्रोण द्वारा पाण्डव सेना का संहार हो रहा था, तब उनमें से आर्तनाद का महान् कोलाहल उठा।
49सूर्य की किरणों से संतप्त और द्रोण के बाणों से घायल पाञ्चाल भयभीत होकर चिन्ता से ग्रस्त हो गए।
50भरद्वाजपुत्र द्वारा छोड़े गए बाणों के जाल से विमूढ़ हुए पाञ्चाल योद्धा अपने को ऐसा मानने लगे मानो ग्राहों ने उनकी जाँघें पकड़ ली हों।
51किन्तु कुछ काल के पश्चात्, हे महाराज, चेदि, सृञ्जय, काशी और कोसल के योद्धा युद्ध की इच्छा से प्रसन्नतापूर्वक भरद्वाजपुत्र पर टूट पड़े।
52तब चेदि, पाण्डव और पाञ्चाल एक-दूसरे से कहने लगे — द्रोण मारे गए, द्रोण मारे गए। ऐसा कहते हुए उन्होंने द्रोण पर आक्रमण किया।
53तब वे नरश्रेष्ठ उस युद्ध में महातेजस्वी द्रोण को यमलोक भेजने की इच्छा से उन पर टूट पड़े।
54जब वे वीर उनसे जूझ रहे थे, तब भरद्वाजपुत्र ने अपने बाणों से उन्हें यमलोक पहुँचा दिया, विशेषतः चेदियों में श्रेष्ठ योद्धाओं को।
55जब चेदियों के श्रेष्ठ योद्धा घटते जा रहे थे, तब द्रोण के बाणों से पीड़ित पाञ्चाल काँपने लगे।
56हे तात, द्रोण के उन भयंकर पराक्रमों को देखकर वे ऊँचे स्वर में पुकारने लगे — ‘हे भरत!’, ‘हे भीमसेन!’, ‘हे धृष्टद्युम्न!’
57वे बोले — निश्चय ही इस ब्राह्मण ने महान् तपस्या की है, जिसके प्रभाव से युद्ध में क्रुद्ध होकर यह इन श्रेष्ठ क्षत्रियों को भस्म कर रहा है।
58क्षत्रिय का धर्म युद्ध करना है और ब्राह्मण का कठोर तप करना। इसने तप भी किया है और अस्त्रों के प्रयोग में भी निपुण है, इसलिए यह अपनी दृष्टिमात्र से भस्म कर देता है।
59हे भरत, द्रोणरूपी भयंकर और अनिर्वाप्य प्रज्वलित अग्नि में प्रवेश करके श्रेष्ठ क्षत्रिय भस्म हो रहे हैं।
60महातेजस्वी द्रोण अपने पराक्रम और बल का प्रदर्शन करते हुए समस्त प्राणियों को विमूढ़ कर रहे हैं और हमारी सारी सेना का संहार कर रहे हैं।’
61पाञ्चालों के ये वचन सुनकर क्षत्रधर्मा ने द्रोण का सामना किया। तब क्रोध से भरे उस पराक्रमी क्षत्रधर्मा ने एक अर्धचन्द्राकार बाण से द्रोण का वह धनुष काट डाला, जिसकी प्रत्यंचा पर बाण चढ़ा हुआ था। इससे वे क्षत्रियमर्दन द्रोण अत्यन्त क्रोध से भर उठे।
62उन्होंने दूसरा धनुष उठाया, जो देदीप्यमान और महान् तनाव सहने में समर्थ था। उसकी प्रत्यंचा पर शत्रु के लिए घातक एक तीक्ष्ण बाण रखा।
63पराक्रमी आचार्य ने प्रत्यंचा को कानों तक खींचकर उसे छोड़ दिया। वह बाण क्षत्रधर्मा का वध करके पृथ्वी के तल पर गिर पड़ा।
64हृदय विदीर्ण हो जाने से वह अपने रथ से भूमि पर गिर पड़ा। धृष्टद्युम्न के पुत्र की मृत्यु से सेना (भय से) काँप उठी।
65इसके पश्चात् पराक्रमी चेकितान ने द्रोण का सामना किया और दस बाणों से उन्हें बींधकर फिर उनकी छाती पर घाव किया।
66उसने चार बाणों से द्रोण के सारथि को और अन्य चार बाणों से उनके चारों घोड़ों को घायल किया। तब आचार्य ने सोलह बाणों से अपने प्रतिद्वन्द्वी की दाहिनी भुजा को बींध डाला।
67उन्होंने सोलह बाणों से उसकी ध्वजा को और सात बाणों से उसके सारथि को बींधा। चेकितान का सारथि मारा जाने पर घोड़े रथ को घसीटते हुए उन्मत्त होकर भागे।
68तब, हे तात, युद्ध में द्रोण के बाणों से आच्छादित चेकितान के उस अश्वहीन और सारथिहीन रथ को देखकर —
69— पाण्डव और पाञ्चाल महान् भय से ग्रस्त हो गए; तब चेदि, पाञ्चाल और सृञ्जय वीरों के उस एकत्र समुदाय को पूर्णतया छिन्न-भिन्न करके द्रोण अत्यन्त शोभायमान दिखाई दिए, हे तात। कानों तक लटकती श्वेत केशराशि, श्याम वर्ण और पूरे पचासी वर्ष की अवस्था के साथ —
70— वृद्धावस्था के भार से दबे होने पर भी वे पूज्य द्रोण रणभूमि में सोलह वर्ष के युवक के समान विचरण करने लगे। तब, हे महाराज, जब द्रोण रणभूमि में निर्भय होकर विचर रहे थे —
71— तब उनके शत्रुओं ने उन्हें वज्रधारी साक्षात् इन्द्र के अतिरिक्त और कुछ नहीं माना। तब, हे राजन्, बुद्धिमान् द्रुपद ने कहा —
72‘जैसे भूखा बाघ छोटे पशुओं का वध करता है, वैसे ही द्रोण इन क्षत्रियों का संहार कर रहे हैं। निश्चय ही दुष्ट दुर्योधन मरने के पश्चात् अत्यन्त दुःखदायी लोकों को प्राप्त होगा।
73उसी के लोभ के कारण ये श्रेष्ठ क्षत्रिय सैकड़ों की संख्या में मारे जाकर रणभूमि में इस प्रकार पड़े हैं, जैसे खण्ड-खण्ड किए गए बैल।
74रक्त में लथपथ और सियारों तथा कुत्तों का आहार बनते हुए।” हे महाराज, ऐसा कहकर अक्षौहिणी के उस सेनापति द्रुपद ने पार्थों को आगे करके शीघ्र ही द्रोण पर आक्रमण किया।
75रक्त में लथपथ और सियारों तथा कुत्तों का आहार बनते हुए।” हे महाराज, ऐसा कहकर अक्षौहिणी के उस सेनापति द्रुपद ने पार्थों को आगे करके शीघ्र ही द्रोण पर आक्रमण किया।
नेपाली
1सञ्जयले भने — हे महाराज, अपराह्नमा द्रोण र सोमकहरूबीच एक भयङ्कर युद्ध भयो, जसको घोष साक्षात् पर्जन्य मेघको गर्जनसमान थियो।
2नरश्रेष्ठ द्रोण, जसको रथमा राता घोडा नारिएका थिए, त्यस रथमा आरूढ भई पाण्डवहरूसँग युद्ध गर्ने दृढ निश्चय गरी तिनीहरूमाथि जाइलागे।
3महान् बल र तेजले सम्पन्न ती उग्र धनुर्धर, सधैँ तपाईंको हित गर्नमा लागिरहने ती वीर, उत्तम कलशबाट उत्पन्न ती पराक्रमी भरद्वाजपुत्र, हे राजन्, शत्रुपक्षका अनेक श्रेष्ठ वीरहरूको वध गर्दै, हे भरतश्रेष्ठ, रणभूमिमा मानौँ क्रीडा गरिरहेका थिए।
4तिनको सामना केकयहरूमध्ये महारथी बृहत्क्षत्रले गरे, जो आफ्ना पाँच भाइमध्ये जेठा र युद्धमा दुर्जय थिए।
5निरन्तर तीक्ष्ण बाणहरूको वर्षा गर्दै तिनले आचार्यलाई अत्यन्त पीडित गरे, जसरी कुनै विशाल मेघले आफ्नो जल बर्साएर गन्धमादन पर्वतलाई आच्छादित गर्छ।
6हे महाराज, तब क्रोधले भरिएका द्रोणले तिनीमाथि पन्ध्र बाण छोडे, जुन सबै ढुङ्गामा उध्याइएका र सुवर्णमय पखेटायुक्त थिए।
7तब बृहत्क्षत्रले प्रसन्न भई द्रोणले छोडेका ती बाणहरूलाई, जो तीव्र विषयुक्त क्रुद्ध सर्पजस्ता देखिन्थे, आफ्ना पाँच बाणले काटिदिए।
8तब तिनको हस्तलाघव देखेर ती द्विजश्रेष्ठ मुस्कुराए र फेरि तिनीमाथि दबिएका गाँठायुक्त आठ बाण छोडे।
9द्रोणको धनुषबाट छुटेका ती बाणहरूलाई आफूतिर तीव्र गतिले आइरहेको देखेर बृहत्क्षत्रले युद्धमा त्यति नै तीक्ष्ण बाण छोडेर तिनलाई व्यर्थ पारिदिए।
10हे महाराज, बृहत्क्षत्रले त्यो अत्यन्त दुष्कर कार्य गरेको देखेर तपाईंको सेना विस्मयले भरियो।
11तब, हे राजन्, बृहत्क्षत्रको प्रशंसा गर्दै द्रोणले दिव्य निर्माणयुक्त अजेय ब्रह्मास्त्रको आवाहन गरे।
12हे नृपश्रेष्ठ, युद्धमा द्रोणद्वारा छोडिएको त्यस अस्त्रलाई देखेर केकयराजकुमारले आफ्नो ब्रह्मास्त्रले त्यसलाई काटिदिए।
13तब, हे भरतवंशी, ब्रह्मास्त्र व्यर्थ भएपछि बृहत्क्षत्रले ती ब्राह्मणलाई ढुङ्गामा उध्याइएका र सुवर्णमय पखेटायुक्त साठी बाणले छेडिदिए।
14तब नरश्रेष्ठ द्रोणले तिनीमाथि अनेक नाराच चलाए; ती नाराच तिनको कवच छेडेर पृथ्वीभित्र पसे।
15हे राजश्रेष्ठ, जसरी काँचुली फुकालेका काला सर्पहरू ढिस्काका दुलामा पस्छन्, त्यसै गरी ती बाणहरू केकयराजकुमारलाई छेडेर पृथ्वीभित्र प्रवेश गरे।
16तब, हे महाराज, द्रोणका बाणले गहिरो छेडिएका केकयराजकुमार अत्यन्त क्रोधले भरिएर आफ्ना सुन्दर आँखा घुमाउन थाले।
17त्यसपछि तिनले द्रोणलाई ढुङ्गामा उध्याइएका र सुवर्णमय पखेटायुक्त सत्तरी बाणले छेडे; अनि तिनका सारथिका मर्मस्थललाई (तीक्ष्ण) भालाले छेडिदिए।
18हे तात, केकयराजकुमार बृहत्क्षत्रका अनेक बाणले छेडिएका द्रोणले तब तिनको रथमाथि अत्यन्त तीक्ष्ण धेरै बाण छोडे।
19तब ती महारथी बृहत्क्षत्रलाई विमूढ पारेर द्रोणले चार पखेटायुक्त बाणले तिनका चारै घोडा मारिदिए।
20त्यसपछि एउटै बाणले तिनले तिनका सारथिलाई रथको आसनबाट खसालिदिए। अनि अरू दुई बाणले तिनको ध्वजा र छत्र काटेर भुइँमा खसालिदिए।
21तब ती द्विजश्रेष्ठले एउटा सुनिश्चित लक्ष्यको नाराचले बृहत्क्षत्रको छाती छेडिदिए, जसले गर्दा तिनको हृदय विदीर्ण भयो र तिनी ढले।
22हे राजन्, महारथी बृहत्क्षत्र यसरी मारिएपछि शिशुपालका पुत्र (धृष्टकेतु) अत्यन्त क्रुद्ध भई आफ्नो सारथिलाई भने —
23“हे सारथि, त्यहाँ जाऊ जहाँ कवचधारी द्रोण केकय र पाञ्चाल सेनाहरूको संहार गर्दै उभिएका छन्।”
24ती महारथीका यी वचन सुनेर सारथिले काम्बोज देशका वेगवान् घोडाहरूद्वारा तिनलाई त्यहाँ पुर्याए जहाँ द्रोण थिए।
25तब आफ्नो बलले उन्मत्त भई ती चेदिश्रेष्ठ तिनलाई मार्न यसरी जाइलागे, जसरी पुतली आगोमा खस्छ।
26तिनले द्रोणलाई र तिनका घोडाहरूलाई छेडिदिए। अनि फेरि तीक्ष्ण बाणले आफ्ना प्रतिद्वन्द्वीमाथि प्रहार गरे, मानौँ कसैले सुतिरहेको बाघलाई ब्युँझाइरहेको होस्।
27तब द्रोणले गिद्धका प्वाँखयुक्त एक तीक्ष्ण क्षुरप्र बाणले युद्धमा प्रयत्नरत ती महावीरको धनुष बीचबाट काटिदिए।
28तब शिशुपालका ती पुत्र, ती महारथीले अर्को धनुष लिएर मयूर र कङ्क पक्षीका प्वाँखयुक्त अनेक बाणले द्रोणलाई छेडिदिए।
29तब द्रोणले चार बाणले तिनका चारै घोडा मारेर मुस्कुराउँदै तिनका सारथिको टाउको धडबाट अलग गरिदिए।
30त्यसपछि तिनले स्वयं धृष्टकेतुलाई पच्चीस बाणले छेडे। तब चेदिराजकुमारले आफ्नो रथबाट हामफालेर एउटा गदा उठाए।
31र त्यसलाई क्रुद्ध सर्पिणीजस्तै भरद्वाजपुत्रमाथि फ्याँके। वज्रसमान बल भएको र सुवर्णले अलंकृत त्यो गह्रौँ गदा मानिसको जीवनको अन्तिम रात्रिझैँ आफूतिर आइरहेको देखेर भरद्वाजपुत्रले त्यसलाई हजारौँ तीक्ष्ण बाणले काटिदिए।
32हे तात, भरद्वाजपुत्रका अनेक बाणले काटिएको त्यो गदा, हे कौरव, आफ्नो शब्दले पृथ्वी भर्दै खस्यो।
33गदा विफल भएको देखेर पराक्रमी धृष्टकेतुले द्रोणमाथि पहिले एउटा शक्ति र त्यसपछि सुवर्णले मढिएको एउटा तोमर फ्याँके।
34तब द्रोणले पाँच बाणले त्यो शक्ति र अरू पाँच बाणले त्यो तोमर काटिदिए। काटिएका ती दुवै अस्त्र गरुडद्वारा टुक्रा-टुक्रा पारिएका दुई सर्पजस्तै भुइँमा खसे।
35त्यसपछि अत्यन्त पराक्रमी भरद्वाजपुत्रले आफ्नो वधका लागि प्रयत्नरत धृष्टकेतुको विनाशका लागि एउटा बाण छोडे।
36अनन्त तेज भएका धृष्टकेतुको कवच र छाती छेडेर त्यो बाण पृथ्वीभित्र यसरी पस्यो, जसरी कुनै हाँस कमलले भरिएको तलाउमा चुर्लुम्म डुब्छ।
37जसरी भोको चराले सानो कीरालाई समातेर निल्छ, त्यसै गरी महापराक्रमी द्रोणले त्यस युद्धमा धृष्टकेतुलाई ग्रसे।
38चेदिराज यसरी मारिएपछि उत्तम अस्त्रको प्रयोगमा निपुण तिनका पुत्र क्रोधले भरिए र आफ्ना पिताको अधुरो कार्य पूरा गर्न उद्यत भए।
39तिनलाई पनि द्रोणले मुस्कुराउँदै आफ्ना बाणले यमराजको भवनमा पठाइदिए, जसरी कुनै विशाल र हिंस्रक बाघले गहन वनमा मृगको बच्चालाई मार्छ।
40हे भरतवंशी, यसरी पाण्डव सेना क्षीण हुँदै गएपछि जरासन्धका वीर पुत्र द्रोणमाथि जाइलागे।
41अनि तिनले आफ्नो बाणवर्षाले शीघ्र नै द्रोणलाई अदृश्य पारिदिए, जसरी मेघले सूर्यलाई छोप्छ।
42तिनले देखाएको त्यो हस्तलाघव देखेर क्षत्रियमर्दन द्रोणले सयौँ र हजारौँको सङ्ख्यामा बाण छोड्न थाले।
43तब द्रोणले सुवर्णमय रथमा आरूढ ती महारथी जरासन्धपुत्रलाई पूर्णतया आच्छादित पारेर सम्पूर्ण योद्धाहरूको आँखै अगाडि शीघ्र नै मारिदिए।
44जो कोही पनि द्रोणको सामु पुग्थे, तिनी उसका संहारक बन्थे। र प्रलयकालको यमराजजस्तै तिनले सम्पूर्ण प्राणीका प्राण हरण गर्थे।
45तब, हे महाराज, युद्धमा आफ्नो नाम घोषणा गर्दै द्रोणले पाण्डव सेनालाई आफ्ना हजारौँ बाणले आच्छादित गर्न थाले।
46द्रोणद्वारा छोडिएका, तिनको नाम अङ्कित र ढुङ्गामा उध्याइएका ती बाणहरूले त्यस युद्धमा सयौँको सङ्ख्यामा मानिस, हात्ती र घोडालाई यमलोक पठाउन थाले।
47तब तिनीहरू इन्द्रद्वारा मारिने महाबली असुरहरूजस्तै द्रोणद्वारा संहार हुन थाले। पाञ्चालहरू जाडोले पीडित गाईहरूजस्तै काँप्न थाले,
48हे भरतश्रेष्ठ, जब यसरी द्रोणद्वारा पाण्डव सेनाको संहार भइरहेको थियो, तब तिनीहरूबाट आर्तनादको महान् कोलाहल उठ्यो।
49सूर्यका किरणले सन्तप्त र द्रोणका बाणले घाइते पाञ्चालहरू भयभीत भई चिन्ताले ग्रस्त भए।
50भरद्वाजपुत्रले छोडेका बाणको जालले विमूढ भएका पाञ्चाल योद्धाहरूले आफूलाई यस्तो ठान्न थाले मानौँ गोहीहरूले तिनीहरूका तिघ्रा समातेका छन्।
51तर केही समयपछि, हे महाराज, चेदि, सृञ्जय, काशी र कोसलका योद्धाहरू युद्धको इच्छाले प्रसन्न भई भरद्वाजपुत्रमाथि जाइलागे।
52तब चेदि, पाण्डव र पाञ्चालहरू एकअर्कालाई भन्न थाले — द्रोण मारिए, द्रोण मारिए। यसो भन्दै तिनीहरूले द्रोणमाथि आक्रमण गरे।
53तब ती नरश्रेष्ठहरू त्यस युद्धमा महातेजस्वी द्रोणलाई यमलोक पठाउने इच्छाले तिनीमाथि जाइलागे।
54जब ती वीरहरू तिनीसँग जुधिरहेका थिए, तब भरद्वाजपुत्रले आफ्ना बाणले तिनीहरूलाई यमलोक पुर्याइदिए, विशेषगरी चेदिहरूमध्ये श्रेष्ठ योद्धाहरूलाई।
55जब चेदिहरूका श्रेष्ठ योद्धाहरू घट्दै गइरहेका थिए, तब द्रोणका बाणले पीडित पाञ्चालहरू काँप्न थाले।
56हे तात, द्रोणका ती भयङ्कर पराक्रम देखेर तिनीहरू उच्च स्वरमा पुकार्न थाले — ‘हे भरत!’, ‘हे भीमसेन!’, ‘हे धृष्टद्युम्न!’
57तिनीहरूले भने — निश्चय नै यी ब्राह्मणले महान् तपस्या गरेका छन्, जसको प्रभावले युद्धमा क्रुद्ध भई यिनले यी श्रेष्ठ क्षत्रियहरूलाई भस्म गरिरहेका छन्।
58क्षत्रियको धर्म युद्ध गर्नु हो र ब्राह्मणको कठोर तप गर्नु। यिनले तप पनि गरेका छन् र अस्त्रको प्रयोगमा पनि निपुण छन्, त्यसैले यिनले आफ्नो दृष्टिमात्रले भस्म पारिदिन्छन्।
59हे भरत, द्रोणरूपी भयङ्कर र निभाउनै नसकिने प्रज्वलित अग्निमा प्रवेश गरेर श्रेष्ठ क्षत्रियहरू भस्म भइरहेका छन्।
60महातेजस्वी द्रोणले आफ्नो पराक्रम र बल प्रकट गर्दै सम्पूर्ण प्राणीलाई विमूढ पारिरहेका छन् र हाम्रो सारा सेनाको संहार गरिरहेका छन्।’
61पाञ्चालहरूका यी वचन सुनेर क्षत्रधर्माले द्रोणको सामना गरे। तब क्रोधले भरिएका ती पराक्रमी क्षत्रधर्माले एउटा अर्धचन्द्राकार बाणले द्रोणको त्यो धनुष काटिदिए, जसको प्रत्यञ्चामा बाण चढाइएको थियो। यसले ती क्षत्रियमर्दन द्रोण अत्यन्त क्रोधले भरिए।
62तिनले अर्को धनुष उठाए, जो देदीप्यमान र महान् तनाव सहन सक्ने थियो। त्यसको प्रत्यञ्चामा शत्रुका लागि घातक एउटा तीक्ष्ण बाण राखे।
63पराक्रमी आचार्यले प्रत्यञ्चालाई कानसम्म तानेर त्यसलाई छोडिदिए। त्यो बाण क्षत्रधर्माको वध गरेर पृथ्वीको सतहमा खस्यो।
64हृदय विदीर्ण भएपछि तिनी आफ्नो रथबाट भुइँमा खसे। धृष्टद्युम्नका पुत्रको मृत्युले सेना (भयले) काँप्यो।
65त्यसपछि पराक्रमी चेकितानले द्रोणको सामना गरे र दस बाणले तिनलाई छेडेर फेरि तिनको छातीमा घाउ बनाए।
66तिनले चार बाणले द्रोणका सारथिलाई र अरू चार बाणले तिनका चारै घोडालाई घाइते बनाए। तब आचार्यले सोह्र बाणले आफ्ना प्रतिद्वन्द्वीको दाहिने पाखुरा छेडिदिए।
67तिनले सोह्र बाणले तिनको ध्वजा र सात बाणले तिनका सारथिलाई छेडे। चेकितानका सारथि मारिएपछि घोडाहरू रथलाई घिसार्दै उन्मत्त भई भागे।
68तब, हे तात, युद्धमा द्रोणका बाणले आच्छादित चेकितानको त्यो अश्वहीन र सारथिहीन रथ देखेर —
69— पाण्डव र पाञ्चालहरू महान् भयले ग्रस्त भए; तब चेदि, पाञ्चाल र सृञ्जय वीरहरूको त्यो एकत्रित समुदायलाई पूर्णतया छिन्नभिन्न पारेर द्रोण अत्यन्त शोभायमान देखिए, हे तात। कानसम्म झुल्ने सेतो केशराशि, श्याम वर्ण र पूरा पचासी वर्षको उमेरसहित —
70— वृद्धावस्थाको भारले थिचिएका भए पनि ती पूज्य द्रोण रणभूमिमा सोह्र वर्षका युवकजस्तै विचरण गर्न थाले। तब, हे महाराज, जब द्रोण रणभूमिमा निर्भय भई विचरण गरिरहेका थिए —
71— तब तिनका शत्रुहरूले तिनलाई वज्रधारी साक्षात् इन्द्रबाहेक अरू केही ठानेनन्। तब, हे राजन्, बुद्धिमान् द्रुपदले भने —
72‘जसरी भोको बाघले साना पशुहरूको वध गर्छ, त्यसै गरी द्रोणले यी क्षत्रियहरूको संहार गरिरहेका छन्। निश्चय नै दुष्ट दुर्योधनले मरेपछि अत्यन्त दुःखदायी लोक प्राप्त गर्नेछ।
73उसैको लोभका कारण यी श्रेष्ठ क्षत्रियहरू सयौँको सङ्ख्यामा मारिएर रणभूमिमा यसरी पल्टिएका छन्, जसरी टुक्रा-टुक्रा पारिएका गोरुहरू।
74रगतमा लतपत र स्याल तथा कुकुरहरूको आहार बन्दै।” हे महाराज, यसो भनेर अक्षौहिणीका ती सेनापति द्रुपदले पार्थहरूलाई अगाडि राखेर शीघ्र नै द्रोणमाथि आक्रमण गरे।
75रगतमा लतपत र स्याल तथा कुकुरहरूको आहार बन्दै।” हे महाराज, यसो भनेर अक्षौहिणीका ती सेनापति द्रुपदले पार्थहरूलाई अगाडि राखेर शीघ्र नै द्रोणमाथि आक्रमण गरे।