भीष्म-वध पर्व — इरावान् का वध
खण्ड 4 — भीष्म पर्व · अध्याय 92
संस्कृत
1संजय उवाच वर्तमाने तथा रौद्रे राजन् वीरवरक्षये। शकुनिः सौबलः श्रीमान् पाण्डवान् समुपाद्रवत्॥
2तथैव सात्वतो राजन् हार्दिक्यः परवीरहा। अभ्यद्रवत संग्रामे पाण्डवानां वरूथिनीम्॥
3तत: काम्बोजमुख्यानां नदीजानां च वाजिनाम्। आरट्टानां महीजानां सिन्धुजानां च सर्वशः॥ वनायुजानां शुभ्राणां तथा पर्वतवासिनाम्। वाजिनां बहुभिः संख्ये समन्तात् परिवारयन्॥ ये चापरे तित्तिरिजा जवना वातरंहसः। सुवर्णालंकृतैरेतैर्वर्मवद्भिः सुकल्पितैः॥
4हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली। अभ्यवर्तत तत् सैन्यं हृष्टरूपः परंतपः॥
5अर्जुनस्य सुतः श्रीमानिरावान् नाम वीर्यवान्। स्नुषायां नागराजस्य जातः पार्थेन धीमता॥
6ऐरावतेन सा दत्ता अनपत्या महात्मना। पतौ हते सुपर्णेन कृपणा दीनचेतना॥
7भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम्। एवमेष समुत्पन्नः परपक्षेऽर्जुनात्मजः॥
8स नागलोके संवृद्धो मात्रा च परिरक्षितः। पितृव्येण परित्यक्तः पार्थद्वेषाद् दुरात्मना॥
9रूपवान् बलसम्पन्नो गुणवान् सत्यविक्रमः। इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम्॥
10सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः। अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः॥
11न्यवेदयत चात्मानमर्जुनस्य महात्मनः। इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो॥
12मातुः समागमो यश्च तत् सर्वं प्रत्यवेदयत्। तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः॥
13परिष्वज्य सुतं चापि आत्मनः सदृशं गुणैः। प्रीतिमाननयत् पार्थो देवराजनिवेशन॥
14सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप। प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत॥
15युद्धकाले त्वयाऽस्माकं साह्यं देयमिति प्रभो। बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः॥
16कामवर्णजवैरश्चैर्बहुभिः संवृतो नृप। ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः॥
17उत्पेतुः सहसा राजन् हंसा इव महोदधौ। ते त्वदीयान् समासाद्य हयसंघान् मनोजवान्॥
18क्रोडैः क्रोडानभिनन्तो घोणाभिश्च परस्परम्। निपेतुः सहसा राजन् सुवेगाभिहता भुवि॥
19निपतद्भिस्तथा तैश्च हयसंधैः परस्परम्। शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा॥
20तथैव तावका राजन् समेत्यान्योन्यमाहवे। परस्परवधं घोरं चक्रुस्ते हयसादिनः॥
21तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम्। उभयोरपि संशान्ता हयसङ्घाः समन्ततः॥
22प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः। विलयं समनुप्राप्तास्तक्षमाणाः परस्परम्॥
23ततः क्षीणे हयानीके किंचिच्छेषे च भारत। सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि॥
24वायुवेगसमस्पर्शाञ्जवे वायुसमांश्च ते। आरुह्य बलसम्पन्नान् वयःस्थांस्तुगोत्तमान्॥
25गजो गवाक्षो वृषभश्चर्मवानार्जवः शुकः। षडेते बलसम्पन्ना निर्ययुर्महतो बलात्॥
26वार्यमाणाः शकुनिना तैश्च योधैर्महाबलैः। संनद्धा युद्धकुशला रौद्ररूपा महाबलाः॥
27तदनीकं महाबाहो भित्तवा परमदुर्जयम्। बलेन महता युक्ताः स्वर्गाय विजयैषिणः॥
28विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः। तान् प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान्॥
29अब्रवीत् समरे योधान् विचित्रान् दारुणायुधान्। यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः॥ हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम्। बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः॥
30जह्वस्तेषां बलानीकं दुर्जयं समरे परैः। तदनीकमनीकेन समरे वीक्ष्य पातितम्॥
31अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे। इरावन्तमभिदुत्य सर्वतः पर्यवारयन्॥
32तादडयन्तः शितैः परासैश्चोदयन्तः परस्परम्। ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम्॥
33इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः। स्रवता रुधिरेणाक्तस्तोत्रैविद्धं इव द्विपः॥
34पुरतोऽपि च पृष्ठे च पार्श्वयोश्च भृशाहतः। एको बहुभिरत्यर्थं धैर्याद् राजन् न विव्यथे॥
35इरावानपि संकुद्धः सर्वांस्तान् निशितैः शरैः। मोहयामास समरे विद्ध्वा परपुरंजयः॥
36प्रासानुत्कृय तरसा स्वशरीरादरिंदमः। तैरेव ताडयमास सुबलस्यात्मजान् रणे॥
37विकृष्य च शितं खङ्गं गृहीत्वा च शरावरम्। पदातिर्दृतमागच्छज्जिघांसुः सौबलान् युधि॥
38ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः। भूयः क्रोधसमाविष्टा इरावन्तमभिद्रुताः॥
39इरावानपि खड्ड्रेन दर्शयन् पाणिलाघवम्। अभ्यवर्तत तान् सर्वान् सौबलान् बलदर्पितः।। :॥
40लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः। अन्तरं नाभ्यगच्छन्त चरन्तः शीघ्रगैर्हयैः॥
41भूमिष्ठमथ तं संख्ये सम्प्रदृश्य ततः पुनः। परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः:॥
42अथाभ्याशगतानां स खड़ेनामित्रकर्शनः। असिहस्तापहस्ताभ्यः तेषां गात्राण्यकृन्तत॥
43आयुधानि च सर्वेषां बाहुनपि विभूषितान्। अपतन्तः निकृत्ताङ्गा मृता भूमौ गतासवः॥
44वृषभस्तु महाराज बहुधा विपरिक्षतः। अमुच्यत महारौद्रात् तस्माद् वीरावकर्तनात्॥
45तान् सर्वान् पतितान् दृष्ट्वा भीतो दुर्योधनस्ततः। अभ्यधावत संक्रुद्धो राक्षसं घोरदर्शनम्॥
46आय॑शृङ्गि महेष्वासं मायाविनमरिंदमम्। वैरिणं भीमसेनस्य पूर्वं बकवधेन वै॥
47पश्य वीर यथा ह्येष फाल्गुनस्य सुतो बली। मायावी विप्रियं कर्तुमकार्षीन्मे बलक्षयम्॥
48त्वं च कामगमस्तात मायास्त्रे च विशारदः। कृतवैरश्च पार्थेन तस्मादेन रणे जहि॥
49बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः। प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा॥
50आरूढैयुद्धकुशलैर्विमलप्रासयोधिभिः। वीरैः प्रहारिभिर्युक्तैः स्वैरनीकैः समावृतः॥
51हतशेषैर्महाराज द्विसाहौर्हयोत्तमैः। निहन्तुकामः समरे इरावन्तं महाबलम्॥
52इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी। हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत्॥
53तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहाबलः। त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे॥
54तेन मायामयाः सृष्टा हयास्तावन्त एव हि। स्वारूढा राक्षसैोरैः शूलपट्टिशधारिभिः॥
55ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः। अचिराद् गमयामासुः प्रेतलोकं परस्परम्॥
56तस्मिंस्तु निहते सैन्ये तावुभो युद्धदुर्मदौ। संग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ॥
57आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम्। इरावानथ संरब्धः प्रत्यधावन्महाबलः॥
58समभ्याशगतस्याजौ तस्य खङ्गेन दुर्मतेः। चिच्छेद कार्मुकं दीप्तं शरावापं च सत्वरम्॥
59स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत्। इरावन्तमभिक्रुद्धं मोहयन्निव मायया॥
60ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम्। विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः॥ चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः। तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः॥
61सम्बभूव महाराज समवाप च यौवनम्। माया हि सहजा तेषां वयो रूपं च कामजम्॥
62एवं तद् राक्षसस्याङ्गं छिन्नं छिन्नं बभूव ह। इरावानपि संक्रुद्धो राक्षसं तं महाबलम्॥ परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः। स तेन बलिना वीरश्छिद्यमान इरावता॥
63राक्षसोऽप्यनदद् घोरं स शब्दस्तुमुलोऽभवत्। परश्वधक्षतं रक्षः सुस्राव बहु शोणितम्॥
64ततश्चक्रोध बलवांश्चक्रे वेगं च संयुगे। आर्थ्यशृङ्गिस्तथा दृष्ट्वा समरे शत्रुमूर्जितम्॥
65कृत्वा घोरं महद् रूपं ग्रहीतुमुपचक्रमे। अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम्॥
66संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्। तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः॥
67इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे। तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः॥
68योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान्। स नागैर्बहुभी राजन्निरावान् संवृतो रणे॥
69दधार सुमहद् रूपमनन्त इव भोगवान्। ततो बहुविधैर्नागेश्छादयामास राक्षसम्॥
70छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः। सौपर्ण रूपमास्थाय भक्षयामास पन्नगान्॥
71मायया भक्षिते तस्मिन्नन्वये तस्य मातृके। विमोहितमिरावन्तं न्यहनद् राक्षसोऽसिना॥
72सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम्। इरावत: शिरो रक्षः पातयामास भूतले॥
73तस्मिंस्तु विहते वीरे राक्षसेनार्जुनात्मजे। विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः॥
74तस्मिन् महति संग्रामे तादृशे भैरवे पुनः। महान् व्यतिकरो घोरः सेनयोः समपद्यत॥
75गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः। रथाश्वाः दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः॥
76तथा पत्तिरथौघाश्च हयाश्च बहवो रणे। रथिभिनिहता राजंस्तव तेषां च संकुले॥
77अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम्। जघान समरे शूरान् राज्ञस्तान् भीष्मरक्षिणः॥
78तथैव तावका राजन् संजयाश्च सहस्रशः। जुह्वतः समरे प्राणान् निजत्रुरितरेतरम्॥
79मुक्तकेशा विकवचा विस्थाश्छिन्नकार्मुकाः। बाहुभिः समयुध्यन्त समवेताः परस्परम्॥
80तथा मर्मातिगैर्भीष्मो निजघान महारथान्। कम्पयन् समरे सेनां पाण्डवानां परंतपः॥
81तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः। दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा॥
82तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम्। अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम्॥ तथैव भीमसेनस्य पार्षतस्य च भारत। रौद्रमासीद् रणे युद्ध सात्यकस्य च धन्विनः॥
83दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान् भयमाविशत्। एक एव रणे शक्तो निहन्तु सर्वसैनिकान्॥ किं पुनः पृथिवीशूर्योधव्रातः समावृतः।
84इत्युब्रुवन् महाराज रणे द्रोणेन पीडिताः॥ वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ।
85उभयोः सेनयोः शूरा नामृष्यन्त परस्परम्॥ आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः।
86तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः॥ न स्म पश्यामहे कंचितं प्राणान् यः परिरक्षति। संग्रामे दैत्यसंकाशे तस्मिन् वीरवरक्षये॥
अंग्रेज़ी
1Sanjaya said When, o king, that dreadful battle destructive of excellent heroes was thus raging, Subala's prosperous son Shakuni rushed against the Pandava hosts.
2Also, O king, that slayer of foes, that son of Hridika, of the Satvata race, proceeded in battle against the Pandava divisions.
3Several warriors of your army, with a mighty division of horses consisting of best animals of the Kamboja breed, of those born in lands watered by many rivers, of those belonging to Aratta, Mahi, Sindhu, and Vanayu, of those that were white-hued, of those born in mountains tracts, and of those exceedingly swift and endued with the fleetness of wind, and of those of the Tittiri breed, surrounded on all sides the Pandava army. With many steeds duly clad in mail and decked with caparisons of gold,
4All best of their class, and fleet as the wind itself, the highly puissant son of the Pandava (Arjuna), of cheerful appearance and the slayer of his foes, rushed against that division of horses belonging to the enemy.
5This prosperous son of Arjuna by name Iravat, endued with great prowess was begotten by the highly intelligent Partha (Arjuna) on the daughter of the sovereign of the Nagas.
6Her husband having been slain by Suparna (Garuda), she was helpless and completely depressed in mind; she was then bestowed upon Arjuna by the illustrious Airavata.
7As she came to him under the influence of desire, the son of Pritha accepted her as his wife. Thus it was that Arjuna's son was begotten upon another's wife.
8This son of Arjuna was brought up in the regions of the Nagas, and was protected by his mother. He was abandoned by his wickedsouled uncle from his animosity for the son of Pritha.
9Hearing that Arjuna Lad come to the regions of Indra, that handsome, highly puissant and accomplished Iravat of prowess that could not be baffled, hide to those regions.
10That mighty-armed hero of infallible prowess, approaching his father did obeisance to him, duly folding his palms.
11He introduced himself to the illustrious Arjuna saying-'I am your son Iravat, O lord, may good betide you.'
12He also reminded Arjuna of the circumstances under which the latter met his mother. Then the of Pandu also remembered them a right.
13Then in the mansion of the chief of the celestial, the son of Pritha embracing his son equal to him in his acquirements, was highly delighted.
14Then that mighty-armed hero (Iravat), O king, was thus cheerfully commanded by Arjuna, in the celestial regions with regard to his own business (namely the impending war with the Kurus).
15'O son, when the battle would take place, you should render us assistance. He then said 'yea' to the words of his father; and now that the hour has arrived, he also presented himself, Son
160 king, surrounded by parti-coloured horses, countless in number. Those horses caparisoned with trappings of gold and of diverse hues and great fleetness,
17O king, suddenly appeared on the field like swans on the bosom of the mighty-main. Those horses encountering your division of fleetest steeds,
18Struck one another with their chests and noses. Overthrown by their own impetuosity, O king, they began to fall down suddenly on the earth.
19When those two horse divisions thus clashed against one another (and some fell down), a terrible sound, resembling that of Suparna's swoop was heard there.
20So also, O mighty monarch, those who rode on these steeds nearing one another in that dreadful battle, fell upon slaughtering one another mercilessly.
21When that general and dreadful encounter regard fiercely, the chargers of the two hosts, seized with panic, coursed wildly all over the field.
22Warriors, mutilated with shafts, with their chargers slain, and themselves exhausted with was fatigue, began to perish, cutting one another with their swords.
23Then when that horse-division considerably thinned and very few survived, O Bharata, the younger brothers of Subala's son (Shakuni), all endued with heroism, rode out in the van (of the hostile ranks).
24On horses, the contract of whose dash was overthrowing like the vehemence of the wind, which were equal to the wind in fleetness, and which were all excellent chargers, well-broken and youthful.
25Gaja, Gavaksha, Vrishabha, Charmavan, Arjava and Shuka, these six highly puissant heroes rode out of the mighty ranks the Kauravas,
26Supported by Shakuni and their respective mighty divisions consisting of highly powerful warriors, themselves covered with amours, accomplished in battle, fierce in aspect and possessed of great strength.
27Breaking through that invincible cavalry division of Iravat, desirous of victory and longing for paradise and endued with great strength,
28Those Gandhara heroes formidable in battle cheerfully penetrated into it. Thereupon the highly puissant Iravat, beholding them very delightful,
29Thus commanded his own warriors adorned with wonderful ornaments and weapons, saying 'Adopt such measures by which these warriors of Dhritarashtra's son may all be destroyed with their weapons and vehicles. Saying 'Yes,' all those warriors belonging to Iravat,
30Slew in battle that division of your army difficult of being conquered by the enemy. Beholding their division crushed by the division of Iravat,
31The sons of Subala not tolerating it is battle, rushing at Iravat, surrounded him on sides.
32Piercing Iravat with sharp lances and urging their warriors against him, those heroes careered over the field creating a great confusion.
33Then Iravat pierced with sharp lances by those high-souled warriors and covered with blood that was trickling down from his wounds, appeared like an elephant pierced with the hook.
34Single-handed as he was, he was smitten sore by many, on his chest, his back, and his flanks; but o king he flinched not in consequence of his great patience.
35Thereupon Iravat, conqueror of hostile cities, waxing worth, piercing all of them with whetted shafts, deprived them of their senses.
36Then drawing out all those lances from his own body, that subduer of enemies wounded the sons of Subala in battle even with those very lances.
37Then drawing his sharp saber and holding his buckler, he (Iravat) quickly ran on foot desirous of slaying the sons of Subala, in that battle.
38Then all those sons of Subala regaining consciousness, possessed by rage, once more rushed towards Iravat.
39Iravat also proud of his strength, and displaying the lightness of his hands by whirling his sword, rushed against all those sons of Subala.
40Those sons of Subala, riding on fleet chargers could find no opportunity for striking Iravat moving as he was with great agility.
41Then beholding Iravat standing on foot on the ground, those warriors surrounding him close, endeavored to capture him.
42once more Then Iravat, that slayer of foes, beholding them very near to himself, with his sword, cut off their right and left arms (lit: with which they wielded their swords and their bows respectively), and also mutilated their bodies.
43Their weapons and their hands furnished with these, fell down on earth, and they themselves deprived of life and with their bodies mangled, fell down dead.
44Only Vrishabha, O mighty monarch, with his body mangled with wounds, escaped, with difficulty, alive from that most terrible combat destructive of heroes.
45Then your son Duryodhana beholding all those heroes crushed, waxing worth, said these words unto the Rakshasa of fearful appearance,
46That fierce bowman, that subduer of foes, that one of great illusive energies, viz., Alambusha the son of Rishyashringa, who was the enemy of Bhimasena, in consequence of the latter's slaughter of Vaka.
47'Behold O hero, how this puissant son of Arjuna, versed in illusions, has done me this terrible wrong in the shape of destroying my forces?
48You are also, O sire, capable of going every where at your unrestrained will and are also versed in all weapons of illusion; you are moreover the sworn enemy of Pritha's son; so slay me this one in battle.' Sworn
49Saying 'yea' (to Duryodhana's words), that Rakshasas of terrible appearance rushed, uttering his war-cries, to the spot where the youthful son of Arjuna was.
50Alambusha was supported by the heroic lancers of his own division, all accomplished in smiting and well-mounted, skillful in fight, bearing resplendent lances.
51He was desirous, O king, of slaying in battle the highly puissant Iravat, along with the two thousands excellent cavalry that survived the recent conflict.
52The most agile and puissant Iravat also, that slayer of enemies, waxing worth began to resist the Rakshasa who was desirous of slaying him.
53That Rakshasa (Alambusha) endued with great strength, beholding Iravat make towards himself, speedily began to put forth his illusions.
54He then created, as many illusive chargers, all mounted by fierce Rakshasas, bearing in their hands lances and battle axes.
55These two thousand well-disciplined smiters, advancing with wrath. and encountering Iravat's division, were both speedily dispatched to the regions of the departed.
56When both the divisions of Iravat and Alambusha were slain in battle, those two heroes, both formidable in battle, encountered each other like Indra and Vritra.
57Seeing that Rakshasa invincible in battle make towards himself, the highly puissant Iravat, exited with wrath, began to resist him;
58And when the former had come very near to him, with his sword he cut off that wicked one's bow and shafts into five fragments each.
59Seeing his bow severed, he speedily mounted on the sky, confounding as it were with his illusive powers Iravat who was greatly excited with rage.
60Thereupon mounting on the sky, that unapproachable hero Iravat, versed in all duty and capable of assuming any from at will, confounding with his illusive powers that Rakshasa, cut off the latter's limbs in that battle. Thus was that foremost of Rakshasas cut into pieces again and again.
61But, O mighty monarch, Alambusha was again born anew, in the fullness of his youth. Illusion is natural with them (the Rakshasas) and their age and appearance are the result of their will. son
62Thus the limbs of the Rakshasa again and again cut to pieces, appeared very beautiful. Thereupon the enraged Iravat repeatedly cut that Rakshasa endued with great strength with his battle axe of exceeding sharpness. Cut like a tree by that powerful Iravat, that heroic.
63Rakshasa uttered a dreadful roar; that created a terrible sound. Cut with the strokes of the battle-axes, the Rakshasa shed blood profusely.
64Thereafter that of Rishyashringa possessed of great strength, beholding his puissant antagonist blaze forth in that battle, became inflamed with fury and put forth his own powers in that battle.
65Assuming a dreadful and prodigious form he tried to capture the son of Arjuna, namely the illustrious Iravat.
66In the very thick of the fright, before the very eyes of all the combatants, seeing that; illusion forth by that wicked-souled Rakshasa,
67Iravat, highly excited with rage, himself began to create great illusions. Then when that unreceding hero was over-whelmed with rage in that battle,
68A Naga related to him through his mother came to his support; surrounded on all side by numerous Nagas, O king, in that battle,
69That Naga, assumed a prodigious form mighty like that of Ananta himself. Thereafter with those innumerable and diverse kinds of Nagas, he covered the Rakshasa.
70Thus surrounded by the Nagas, that foremost of the Rakshasas, reflecting for a while, assumed the form of Garuda and devoured all those serpents.
71What that Naga, related to him through his mother's side had been thus devoured through the illusive powers of Alambusha, Iravat became confounded and the Rakshasa slew him with his sword.
72Then that Rakshasa felled on the earth the head of Iravat graced with earrings and a diadem, and effulgent like the moon or the lotus.
73When that heroic son of Arjuna had been slain by the Rakshasa, the sons of Dhritarashtra with all their partisan kings, were relieved of their anxiety.
74In that great and dreadful battle between those two armics, awful was the carnage that then took place.
75Horses and elephants, and foot-soldiers, mixing with one another, was siain by the tuskers; and car-warriors, and horse-soldiers, and tuskers were also slain in that battle by foot-soldiers.
76Then, O king, in that dreadful engagement, divisions of foot-soldiers and car-warriors and numerous horses, belonging to your as well as their (Pandavas) host, were slain by carwarriors.
77Meanwhile Arjuna also unaware the fate of the son of his lions, slew that battle those heroic kings who were engaged in supporting Bhishma.
78Thereafter, O monarch, your warriors and the Srinjayas, by thousands, gave up their lives in battle slaying one another.
79Car-warrior, with disheveled hair, with their arrows, swords, and bows severed, fought on with their naked arms meeting one another.
80The highly powerful Bhishma also show in that battle mighty car-warriors with shafts capable of penetrating into the very vitals, agitating the whole host of the Pandavas.
81By him (Bhishma) many warriors and tuskers, and horse-soldiers and car-warriors and steeds of Yudhisthira's army, were slain.
82In that battle, O Bharata, we beheld the prowess of Bhishma, of Bhimasena and also, O Bharata, of the son of Prishata. The battle that mighty bowmen of the Satvata race namely Satyaki, fought, was indeed very fierce.
83Beholding the prowess of Drona, the Pandavas were seized with terror. Singlehanded can this Drona slay us in battle with all our soldiers; what to speak of him when he is supported by a large body of warriors of worldspread renown.
84Even these were the words that the sons of Pritha said, O monarch, when o foremost of the Bharatas, they were greatly afflicted by him in that fierce fight.
85All the heroes endued with great strength, of those two armies, did not give or take quarter; they fought on as if possessed by Rakshasas or evil spirits.
86And, O sire, the bowmen of your army and those belonging to the army of the Pandavas, were all excited to the highest pitch of fury. We indeed did not then find any one pay the least heed to his life in that battle destructive of heroes, and that resembled the fight of the Daityas themselves.
हिन्दी
1सञ्जय ने कहा — हे राजन्, जब श्रेष्ठ वीरों का विनाश करने वाला वह भयंकर युद्ध इस प्रकार चल रहा था, तब सुबल के समृद्ध पुत्र शकुनि पाण्डवसेना पर टूट पड़े।
2हे राजन्, सात्वत वंश के वे शत्रुहन्ता हृदिकपुत्र (कृतवर्मा) भी युद्ध में पाण्डवों के सेनाविभागों की ओर बढ़े।
3आपकी सेना के अनेक योद्धाओं ने विशाल अश्वसेना के साथ पाण्डवसेना को चारों ओर से घेर लिया — उस अश्वसेना में काम्बोज नस्ल के उत्तम अश्व थे, अनेक नदियों से सिंचित प्रदेशों में जन्मे अश्व थे, आरट्ट, मही, सिन्धु और वनायु देश के अश्व थे, श्वेत वर्ण वाले अश्व थे, पर्वतीय प्रदेशों में जन्मे अश्व थे, अत्यन्त तीव्रगामी और वायु के समान वेग वाले अश्व थे तथा तित्तिरि नस्ल के अश्व थे। विधिपूर्वक कवच पहनाए गए और स्वर्ण के साज-सामान से सजे अनेक अश्वों सहित —
4— जो सभी अपनी जाति में श्रेष्ठ और साक्षात् वायु के समान वेगवान् थे, पाण्डुपुत्र (अर्जुन) के अत्यन्त पराक्रमी पुत्र ने, जो प्रसन्नमुख और शत्रुहन्ता थे, शत्रु की उस अश्वसेना पर आक्रमण किया।
5अर्जुन के इस समृद्ध पुत्र का नाम इरावान् था; महान् पराक्रम से सम्पन्न वह परम बुद्धिमान् पार्थ (अर्जुन) द्वारा नागराज की कन्या के गर्भ से उत्पन्न हुआ था।
6उसका पति सुपर्ण (गरुड़) द्वारा मारा जा चुका था, अतः वह असहाय और मन से पूर्णतः खिन्न थी; तब यशस्वी ऐरावत ने उसे अर्जुन को प्रदान किया।
7वह जब कामभाव से प्रेरित होकर उनके पास आई, तब पृथापुत्र ने उसे अपनी पत्नी के रूप में स्वीकार किया। इस प्रकार अर्जुन का पुत्र दूसरे की पत्नी के गर्भ से उत्पन्न हुआ।
8अर्जुन का यह पुत्र नागलोक में पला-बढ़ा और अपनी माता द्वारा रक्षित रहा। पृथापुत्र के प्रति शत्रुता के कारण उसके दुष्टात्मा मामा ने उसे त्याग दिया था।
9यह सुनकर कि अर्जुन इन्द्रलोक में आए हैं, वह सुन्दर, अत्यन्त पराक्रमी और गुणसम्पन्न इरावान्, जिसका पराक्रम कभी व्यर्थ नहीं होता था, उन लोकों में जा पहुँचा।
10अमोघ पराक्रम वाले उन महाबाहु वीर ने अपने पिता के निकट जाकर विधिपूर्वक हाथ जोड़कर उन्हें प्रणाम किया।
11उसने यशस्वी अर्जुन से अपना परिचय देते हुए कहा — "हे स्वामी, मैं आपका पुत्र इरावान् हूँ; आपका कल्याण हो।"
12उसने अर्जुन को उन परिस्थितियों का भी स्मरण कराया जिनमें उनकी भेंट उसकी माता से हुई थी। तब पाण्डुपुत्र ने भी उन्हें भलीभाँति स्मरण किया।
13तब देवराज के भवन में पृथापुत्र ने गुणों में अपने समान उस पुत्र को गले लगाकर अत्यन्त हर्ष का अनुभव किया।
14तब, हे राजन्, देवलोक में अर्जुन ने उन महाबाहु वीर (इरावान्) को अपने कार्य (अर्थात् कुरुओं के साथ आने वाले युद्ध) के विषय में प्रसन्नतापूर्वक इस प्रकार आदेश दिया —
15— "हे पुत्र, जब युद्ध हो, तब तुम्हें हमारी सहायता करनी चाहिए।" तब उसने अपने पिता के वचनों को "तथास्तु" कहकर स्वीकार किया; और अब जब वह घड़ी आ पहुँची, तब वह भी उपस्थित हो गया —
16— हे राजन्, असंख्य रंग-बिरंगे घोड़ों से घिरा हुआ। स्वर्ण के साज-सामान से सजे, विविध वर्णों वाले और महान् वेग से सम्पन्न वे घोड़े —
17— हे राजन्, रणभूमि में सहसा इस प्रकार प्रकट हुए, जैसे विशाल समुद्र की छाती पर हंस हों। वे घोड़े आपके तीव्रगामी अश्वों के विभाग से भिड़कर —
18— एक-दूसरे को अपनी छाती और नथुनों से टकराने लगे। हे राजन्, अपने ही वेग से गिराए जाकर वे सहसा पृथ्वी पर गिरने लगे।
19जब वे दोनों अश्वसेनाएँ इस प्रकार परस्पर टकराईं (और कुछ गिर पड़े), तब वहाँ सुपर्ण (गरुड़) के झपट्टे के समान भयंकर शब्द सुनाई दिया।
20हे महाराज, उसी प्रकार उन घोड़ों पर सवार योद्धा भी उस भयंकर युद्ध में एक-दूसरे के निकट पहुँचकर निर्दयतापूर्वक एक-दूसरे का वध करने में जुट गए।
21जब वह व्यापक और भयंकर संग्राम घोर रूप से छिड़ गया, तब दोनों सेनाओं के घोड़े आतंक से ग्रस्त होकर समस्त रणभूमि में उन्मत्त होकर दौड़ने लगे।
22बाणों से क्षत-विक्षत, अपने घोड़ों से रहित और स्वयं थकान से चूर योद्धा एक-दूसरे को तलवारों से काटते हुए मरने लगे।
23हे भरतवंशी, जब वह अश्वसेना बहुत घट गई और बहुत थोड़े ही बचे, तब सुबलपुत्र (शकुनि) के छोटे भाई, जो सभी वीरता से सम्पन्न थे, (शत्रुपंक्तियों के) अग्रभाग में निकल आए —
24— ऐसे घोड़ों पर सवार होकर, जिनके आघात का वेग वायु के प्रचण्ड वेग के समान सब कुछ उलट देने वाला था, जो वेग में वायु के समान थे, और जो सभी उत्तम, सुशिक्षित और तरुण अश्व थे।
25गज, गवाक्ष, वृषभ, चर्मवान्, आर्जव और शुक — ये छह अत्यन्त पराक्रमी वीर कौरवों की विशाल पंक्तियों से निकले —
26— शकुनि के तथा अपने-अपने विशाल सेनाविभागों के सहयोग से, जिनमें अत्यन्त बलशाली योद्धा थे; वे स्वयं कवचों से ढके, युद्ध में निपुण, देखने में भयंकर और महान् बल से सम्पन्न थे।
27विजय के इच्छुक, स्वर्ग की अभिलाषा रखने वाले और महान् बल से सम्पन्न इरावान् की उस अजेय अश्वसेना को भेदते हुए —
28— युद्ध में दुर्धर्ष वे गान्धार वीर प्रसन्नतापूर्वक उसमें घुस गए। तब अत्यन्त पराक्रमी इरावान् ने उन्हें देखकर अत्यन्त हर्ष का अनुभव किया, और —
29— अद्भुत आभूषणों और शस्त्रास्त्रों से सुसज्जित अपने योद्धाओं को इस प्रकार आदेश दिया — "ऐसे उपाय करो जिनसे धृतराष्ट्रपुत्र के ये समस्त योद्धा अपने शस्त्रों और वाहनों सहित नष्ट हो जाएँ।" "जो आज्ञा" कहकर इरावान् के वे समस्त योद्धा —
30— आपकी सेना के उस विभाग का, जो शत्रु के लिए दुर्जय था, युद्ध में संहार कर दिया। इरावान् के विभाग द्वारा अपने विभाग को कुचला गया देखकर —
31— सुबल के पुत्र इसे युद्ध में सहन न कर सके और इरावान् पर टूटकर उन्हें चारों ओर से घेर लिया।
32इरावान् को तीक्ष्ण भालों से बींधते हुए और अपने योद्धाओं को उन पर प्रेरित करते हुए वे वीर महान् कोलाहल मचाते हुए रणभूमि में विचरने लगे।
33तब उन महात्मा योद्धाओं द्वारा तीक्ष्ण भालों से बिंधे और अपने घावों से बहते रक्त से लथपथ इरावान् अङ्कुश से बिंधे हुए हाथी के समान प्रतीत हुए।
34यद्यपि वे अकेले थे, तथापि अनेकों ने उनकी छाती, पीठ और पार्श्वों पर घोर प्रहार किए; किन्तु हे राजन्, अपने महान् धैर्य के कारण वे विचलित नहीं हुए।
35तब शत्रुनगरों के विजेता इरावान् ने क्रोध से बढ़ते हुए उन सबको तीक्ष्ण बाणों से बींधकर संज्ञाशून्य कर दिया।
36तत्पश्चात् अपने शरीर से उन समस्त भालों को निकालकर उन शत्रुदमन ने उन्हीं भालों से युद्ध में सुबल के पुत्रों को घायल कर दिया।
37तब अपनी तीक्ष्ण तलवार खींचकर और ढाल थामकर वे (इरावान्) उस युद्ध में सुबल के पुत्रों का वध करने की इच्छा से शीघ्र ही पैदल दौड़े।
38तब सुबल के वे समस्त पुत्र चेतना लौट आने पर क्रोध से भरकर पुनः इरावान् की ओर दौड़े।
39अपने बल पर गर्वित इरावान् भी तलवार घुमाते हुए अपने हाथों की फुर्ती दिखाते हुए सुबल के उन समस्त पुत्रों पर टूट पड़े।
40तीव्रगामी घोड़ों पर सवार सुबल के वे पुत्र महान् फुर्ती से विचरते हुए इरावान् पर प्रहार करने का अवसर ही न पा सके।
41तब इरावान् को भूमि पर पैदल खड़ा देखकर उन योद्धाओं ने उन्हें निकट से घेरकर पकड़ने का प्रयत्न किया।
42तब उन शत्रुहन्ता इरावान् ने उन्हें अपने अत्यन्त निकट देखकर अपनी तलवार से उनकी दाहिनी और बाईं भुजाएँ (अर्थात् जिनसे वे क्रमशः तलवार और धनुष चलाते थे) काट डालीं और उनके शरीर भी क्षत-विक्षत कर दिए।
43उनके शस्त्र और उन्हें थामे हुए हाथ पृथ्वी पर गिर पड़े, और वे स्वयं प्राणों से रहित होकर, अपने क्षत-विक्षत शरीरों सहित, मरकर गिर पड़े।
44हे महाराज, केवल वृषभ ही, अपना शरीर घावों से क्षत-विक्षत लिए, वीरों का विनाश करने वाले उस अत्यन्त भयंकर संग्राम से कठिनाई से जीवित बच निकला।
45तब आपके पुत्र दुर्योधन ने उन समस्त वीरों को कुचला गया देखकर क्रोध से बढ़ते हुए भयंकर रूप वाले उस राक्षस से ये वचन कहे —
46— उस भयंकर धनुर्धर, उस शत्रुदमन, महान् मायावी शक्तियों से सम्पन्न ऋष्यशृङ्ग के पुत्र अलम्बुष से, जो बक के वध के कारण भीमसेन का शत्रु था।
47"हे वीर, देखो, माया में निपुण अर्जुन के इस पराक्रमी पुत्र ने मेरी सेना का विनाश करके मेरे साथ कैसा भयंकर अनर्थ किया है!
48हे तात, तुम भी अपनी अबाध इच्छा से सर्वत्र जाने में समर्थ हो और समस्त मायास्त्रों में निपुण हो; इसके अतिरिक्त तुम पृथापुत्र के कट्टर शत्रु हो; अतः इसका युद्ध में मेरे लिए वध कर दो।"
49(दुर्योधन के वचनों को) "तथास्तु" कहकर भयंकर रूप वाला वह राक्षस सिंहनाद करता हुआ उस स्थान की ओर दौड़ा जहाँ अर्जुन का तरुण पुत्र था।
50अलम्बुष को अपने विभाग के उन वीर भालाधारियों का सहयोग प्राप्त था, जो सभी प्रहार में निपुण, उत्तम वाहनों पर सवार, युद्ध में कुशल और देदीप्यमान भाले धारण किए हुए थे।
51हे राजन्, वह अत्यन्त पराक्रमी इरावान् का, हाल के संग्राम से बचे उन दो सहस्र उत्तम अश्वारोहियों सहित, युद्ध में वध करना चाहता था।
52परम फुर्तीले और पराक्रमी इरावान् भी, वे शत्रुहन्ता, क्रोध से बढ़ते हुए अपना वध करने के इच्छुक उस राक्षस को रोकने लगे।
53महान् बल से सम्पन्न उस राक्षस (अलम्बुष) ने इरावान् को अपनी ओर आते देखकर शीघ्र ही अपनी माया का प्रयोग आरम्भ किया।
54तब उसने उतने ही मायावी घोड़े रच डाले, जिन पर भयंकर राक्षस सवार थे और जो अपने हाथों में भाले तथा फरसे लिए हुए थे।
55क्रोधपूर्वक आगे बढ़ते हुए वे दो सहस्र सुशिक्षित प्रहारक इरावान् के विभाग से भिड़ गए, और दोनों ही पक्ष शीघ्र ही परलोक भेज दिए गए।
56जब इरावान् और अलम्बुष दोनों के सेनाविभाग युद्ध में मारे गए, तब वे दोनों वीर, जो दोनों ही युद्ध में दुर्धर्ष थे, इन्द्र और वृत्र के समान परस्पर भिड़ गए।
57युद्ध में अजेय उस राक्षस को अपनी ओर आते देखकर अत्यन्त पराक्रमी इरावान् क्रोध से उत्तेजित होकर उसे रोकने लगे;
58— और जब वह उनके अत्यन्त निकट आ पहुँचा, तब उन्होंने अपनी तलवार से उस दुष्ट के धनुष और बाणों के पाँच-पाँच टुकड़े कर डाले।
59अपना धनुष कटा देखकर वह शीघ्र ही आकाश में जा चढ़ा, मानो अपनी मायाशक्ति से क्रोध में अत्यन्त उत्तेजित इरावान् को मोहित कर रहा हो।
60तब समस्त धर्मों के ज्ञाता और इच्छानुसार कोई भी रूप धारण करने में समर्थ वे दुर्धर्ष वीर इरावान् भी आकाश में चढ़कर, अपनी मायाशक्ति से उस राक्षस को मोहित करते हुए, उस युद्ध में उसके अङ्ग काट डाले। इस प्रकार वह राक्षसश्रेष्ठ बार-बार टुकड़े-टुकड़े किया गया।
61किन्तु हे महाराज, अलम्बुष पुनः नवीन रूप में, पूर्ण यौवन के साथ जन्म ले लेता था। माया उनका (राक्षसों का) स्वभाव ही है, और उनकी आयु तथा रूप उनकी इच्छा के अनुसार होते हैं।
62इस प्रकार बार-बार टुकड़े-टुकड़े किए गए उस राक्षस के अङ्ग अत्यन्त सुन्दर प्रतीत होते थे। तब क्रुद्ध इरावान् ने महान् बल से सम्पन्न उस राक्षस को अपने अत्यन्त तीक्ष्ण फरसे से बार-बार काटा। उस बलशाली इरावान् द्वारा वृक्ष के समान काटे जाने पर वह वीर —
63— राक्षस भयंकर गर्जना करने लगा; उससे भीषण शब्द उत्पन्न हुआ। फरसे के प्रहारों से कटे हुए उस राक्षस के शरीर से रक्त की धारा बहने लगी।
64तत्पश्चात् महान् बल से सम्पन्न ऋष्यशृङ्ग का वह पुत्र अपने पराक्रमी प्रतिपक्षी को उस युद्ध में इस प्रकार देदीप्यमान होते देखकर क्रोध से जल उठा और उस युद्ध में अपनी शक्तियों का प्रयोग किया।
65भयंकर और विशालकाय रूप धारण करके उसने अर्जुन के पुत्र, यशस्वी इरावान् को पकड़ने का प्रयत्न किया।
66उस घोर युद्ध के बीच, समस्त योद्धाओं के देखते-देखते ही, उस दुष्टात्मा राक्षस द्वारा फैलाई गई उस माया को देखकर —
67— क्रोध से अत्यन्त उत्तेजित इरावान् ने स्वयं भी महान् माया रचनी आरम्भ की। तब जब वे कभी पीछे न हटने वाले वीर उस युद्ध में क्रोध से अभिभूत हुए,
68— तब उनकी माता की ओर से सम्बन्धी एक नाग उनकी सहायता के लिए आया; हे राजन्, उस युद्ध में असंख्य नागों से चारों ओर से घिरा हुआ —
69— उस नाग ने साक्षात् अनन्त के समान विशालकाय रूप धारण किया। तत्पश्चात् उन असंख्य और विविध प्रकार के नागों से उसने उस राक्षस को ढक दिया।
70इस प्रकार नागों से घिरा हुआ वह राक्षसश्रेष्ठ कुछ क्षण विचार करके गरुड़ का रूप धारण कर बैठा और उन समस्त सर्पों को निगल गया।
71जब उनकी माता की ओर से सम्बन्धी वह नाग अलम्बुष की मायाशक्ति से इस प्रकार निगल लिया गया, तब इरावान् मोहित हो गए और उस राक्षस ने अपनी तलवार से उनका वध कर दिया।
72तब उस राक्षस ने कुण्डलों और मुकुट से सुशोभित तथा चन्द्रमा या कमल के समान देदीप्यमान इरावान् के मस्तक को पृथ्वी पर गिरा दिया।
73जब अर्जुन का वह वीर पुत्र राक्षस द्वारा मारा गया, तब धृतराष्ट्र के पुत्र अपने समस्त पक्षपाती राजाओं सहित चिन्ता से मुक्त हो गए।
74उन दोनों सेनाओं के बीच हुए उस महान् और भयंकर युद्ध में जो संहार हुआ, वह भयावह था।
75घोड़े, हाथी और पैदल सैनिक परस्पर मिल-जुलकर गजों द्वारा मारे गए; और उस युद्ध में रथी, अश्वारोही तथा गजारोही भी पैदल सैनिकों द्वारा मारे गए।
76तब, हे राजन्, उस भयंकर संग्राम में आपकी तथा उनकी (पाण्डवों की) सेना के पैदल सैनिकों, रथियों और असंख्य घोड़ों के विभाग रथियों द्वारा मारे गए।
77इसी बीच अर्जुन ने भी, अपने औरस पुत्र की गति से अनजान रहते हुए, उस युद्ध में उन वीर राजाओं का वध किया जो भीष्म की सहायता में लगे हुए थे।
78तत्पश्चात्, हे महाराज, आपके योद्धा तथा सृञ्जय सहस्रों की संख्या में एक-दूसरे का वध करते हुए युद्ध में अपने प्राण त्यागते गए।
79बिखरे केशों वाले रथी, जिनके बाण, तलवारें और धनुष कट चुके थे, एक-दूसरे से भिड़कर अपनी नंगी भुजाओं से ही लड़ते रहे।
80अत्यन्त बलशाली भीष्म ने भी उस युद्ध में मर्मस्थलों तक भेद जाने वाले बाणों से महारथियों का वध किया और समस्त पाण्डवसेना को विचलित कर दिया।
81उन्होंने (भीष्म ने) युधिष्ठिर की सेना के अनेक योद्धाओं, गजों, अश्वारोहियों, रथियों तथा घोड़ों का वध किया।
82हे भरतवंशी, उस युद्ध में हमने भीष्म का, भीमसेन का तथा, हे भरतवंशी, पृषतपुत्र का भी पराक्रम देखा। सात्वत वंश के उन महाधनुर्धर सात्यकि ने जो युद्ध लड़ा, वह सचमुच अत्यन्त घोर था।
83द्रोण का पराक्रम देखकर पाण्डव आतंक से ग्रस्त हो गए। "ये द्रोण अकेले ही हमारी समस्त सेना सहित हमारा युद्ध में वध कर सकते हैं; फिर उनकी तो बात ही क्या, जब उन्हें विश्वविख्यात योद्धाओं के विशाल समूह का सहयोग प्राप्त हो।"
84हे महाराज, हे भरतश्रेष्ठ, जब वे उस घोर युद्ध में उनके द्वारा अत्यन्त पीड़ित हुए, तब पृथा के पुत्रों ने यही वचन कहे।
85उन दोनों सेनाओं के महान् बल से सम्पन्न समस्त वीर न किसी को अभयदान देते थे और न स्वयं माँगते थे; वे ऐसे लड़ रहे थे मानो राक्षसों अथवा दुष्ट आत्माओं से आविष्ट हों।
86और हे तात, आपकी सेना के तथा पाण्डवों की सेना के धनुर्धर सभी क्रोध की चरम सीमा तक उत्तेजित थे। वीरों का विनाश करने वाले और साक्षात् दैत्यों के संग्राम के समान उस युद्ध में हमने किसी को भी अपने प्राणों की तनिक भी चिन्ता करते नहीं पाया।
नेपाली
1सञ्जयले भने — हे राजन्, जब श्रेष्ठ वीरहरूको विनाश गर्ने त्यो भयङ्कर युद्ध यसरी चलिरहेको थियो, तब सुबलका समृद्ध पुत्र शकुनि पाण्डवसेनामाथि जाइलागे।
2हे राजन्, सात्वत वंशका ती शत्रुहन्ता हृदिकपुत्र (कृतवर्मा) पनि युद्धमा पाण्डवहरूका सेनाविभागतिर बढे।
3तपाईंको सेनाका अनेक योद्धाले विशाल अश्वसेनासहित पाण्डवसेनालाई चारैतिरबाट घेरे — त्यस अश्वसेनामा काम्बोज नस्लका उत्तम अश्व थिए, अनेक नदीले सिञ्चित प्रदेशमा जन्मेका अश्व थिए, आरट्ट, मही, सिन्धु र वनायु देशका अश्व थिए, सेतो वर्णका अश्व थिए, पहाडी प्रदेशमा जन्मेका अश्व थिए, अत्यन्त तीव्रगामी र वायुसमान वेग भएका अश्व थिए तथा तित्तिरि नस्लका अश्व थिए। विधिपूर्वक कवच पहिराइएका र सुनका साजसामानले सजिएका अनेक अश्वसहित —
4— जो सबै आफ्नो जातिमा श्रेष्ठ र साक्षात् वायुसमान वेगवान् थिए, पाण्डुपुत्र (अर्जुन)का अत्यन्त पराक्रमी पुत्रले, जो प्रसन्नमुख र शत्रुहन्ता थिए, शत्रुको त्यस अश्वसेनामाथि आक्रमण गरे।
5अर्जुनका यी समृद्ध पुत्रको नाम इरावान् थियो; महान् पराक्रमले सम्पन्न ती परम बुद्धिमान् पार्थ (अर्जुन)द्वारा नागराजकी कन्याको गर्भबाट उत्पन्न भएका थिए।
6उनका पति सुपर्ण (गरुड)द्वारा मारिइसकेका थिए, त्यसैले उनी असहाय र मनले पूर्णतः खिन्न थिइन्; तब यशस्वी ऐरावतले उनलाई अर्जुनलाई प्रदान गरे।
7उनी जब कामभावले प्रेरित भई उनको छेउमा आइन्, तब पृथापुत्रले उनलाई आफ्नी पत्नीका रूपमा स्वीकार गरे। यसरी अर्जुनका पुत्र अर्काकी पत्नीको गर्भबाट उत्पन्न भए।
8अर्जुनका यी पुत्र नागलोकमा हुर्के र आफ्नी माताद्वारा रक्षित रहे। पृथापुत्रप्रतिको शत्रुताका कारण उनका दुष्टात्मा मामाले उनलाई त्यागिदिएका थिए।
9अर्जुन इन्द्रलोकमा आएका छन् भन्ने सुनेर ती सुन्दर, अत्यन्त पराक्रमी र गुणसम्पन्न इरावान्, जसको पराक्रम कहिल्यै व्यर्थ हुँदैनथ्यो, ती लोकमा गइपुगे।
10अमोघ पराक्रम भएका ती महाबाहु वीरले आफ्ना पिताको छेउ गएर विधिपूर्वक हात जोडेर उनलाई प्रणाम गरे।
11उनले यशस्वी अर्जुनलाई आफ्नो परिचय दिँदै भने — "हे स्वामी, म तपाईंको पुत्र इरावान् हुँ; तपाईंको कल्याण होस्।"
12उनले अर्जुनलाई ती परिस्थिति पनि सम्झाए जसमा उनको भेट उनकी मातासँग भएको थियो। तब पाण्डुपुत्रले पनि ती राम्ररी सम्झे।
13तब देवराजको भवनमा पृथापुत्रले गुणमा आफूसमान ती पुत्रलाई अङ्कमाल गरेर अत्यन्त हर्षको अनुभव गरे।
14तब, हे राजन्, देवलोकमा अर्जुनले ती महाबाहु वीर (इरावान्)लाई आफ्नो कार्य (अर्थात् कुरुहरूसँग आउने युद्ध)का विषयमा प्रसन्नतापूर्वक यसरी आदेश दिए —
15— "हे पुत्र, जब युद्ध होस्, तब तिमीले हाम्रो सहायता गर्नुपर्छ।" तब उनले आफ्ना पिताका वचनलाई "तथास्तु" भनेर स्वीकार गरे; र अब त्यो घडी आइपुग्दा उनी पनि उपस्थित भए —
16— हे राजन्, असङ्ख्य रङ्गीबिरङ्गी घोडाले घेरिएर। सुनका साजसामानले सजिएका, विविध वर्णका र महान् वेगले सम्पन्न ती घोडाहरू —
17— हे राजन्, रणभूमिमा एक्कासि यसरी प्रकट भए, जसरी विशाल समुद्रको छातीमा हाँसहरू हुन्। ती घोडाहरू तपाईंका तीव्रगामी अश्वहरूको विभागसँग भिडेर —
18— एकअर्कालाई आफ्नो छाती र नाकले ठक्कर दिन थाले। हे राजन्, आफ्नै वेगले ढालिएर तिनीहरू एक्कासि पृथ्वीमा ढल्न थाले।
19जब ती दुवै अश्वसेना यसरी आपसमा ठोक्किए (र केही ढले), तब त्यहाँ सुपर्ण (गरुड)को झम्टाइजस्तै भयङ्कर शब्द सुनियो।
20हे महाराज, त्यसै गरी ती घोडामा सवार योद्धाहरू पनि त्यस भयङ्कर युद्धमा एकअर्काको नजिक पुगेर निर्दयतापूर्वक एकअर्काको वध गर्न जुटे।
21जब त्यो व्यापक र भयङ्कर सङ्ग्राम घोर रूपमा छेडियो, तब दुवै सेनाका घोडाहरू आतङ्कले ग्रस्त भई सम्पूर्ण रणभूमिमा उन्मत्त भई दौडन थाले।
22बाणले क्षतविक्षत, आफ्ना घोडाविहीन र आफै थकानले चूर योद्धाहरू एकअर्कालाई तरबारले काट्दै मर्न थाले।
23हे भरतवंशी, जब त्यो अश्वसेना धेरै घट्यो र निकै थोरै मात्र बाँके, तब सुबलपुत्र (शकुनि)का कान्छा भाइहरू, जो सबै वीरताले सम्पन्न थिए, (शत्रुपङ्क्तिको) अग्रभागमा निस्किए —
24— यस्ता घोडामा सवार भएर, जसको आघातको वेग वायुको प्रचण्ड वेगसमान सबथोक उल्टाइदिने थियो, जो वेगमा वायुसमान थिए, र जो सबै उत्तम, सुशिक्षित र तरुण अश्व थिए।
25गज, गवाक्ष, वृषभ, चर्मवान्, आर्जव र शुक — यी छ अत्यन्त पराक्रमी वीर कौरवहरूका विशाल पङ्क्तिबाट निस्के —
26— शकुनिको तथा आआफ्ना विशाल सेनाविभागको सहयोगमा, जसमा अत्यन्त बलशाली योद्धाहरू थिए; तिनीहरू आफै कवचले ढाकिएका, युद्धमा निपुण, हेर्नमा भयङ्कर र महान् बलले सम्पन्न थिए।
27विजयका इच्छुक, स्वर्गको अभिलाषा राख्ने र महान् बलले सम्पन्न इरावान्को त्यस अजेय अश्वसेनालाई भेद्दै —
28— युद्धमा दुर्धर्ष ती गान्धार वीरहरू प्रसन्नतापूर्वक त्यसभित्र पसे। तब अत्यन्त पराक्रमी इरावान्ले तिनलाई देखेर अत्यन्त हर्षको अनुभव गरे, र —
29— अद्भुत आभूषण र शस्त्रास्त्रले सुसज्जित आफ्ना योद्धाहरूलाई यसरी आदेश दिए — "यस्तो उपाय गर जसबाट धृतराष्ट्रपुत्रका यी सम्पूर्ण योद्धा आफ्ना शस्त्र र वाहनसहित नष्ट होऊन्।" "जो आज्ञा" भन्दै इरावान्का ती सम्पूर्ण योद्धाले —
30— तपाईंको सेनाको त्यस विभागको, जो शत्रुका लागि दुर्जय थियो, युद्धमा संहार गरे। इरावान्को विभागद्वारा आफ्नो विभाग कुल्चिएको देखेर —
31— सुबलका पुत्रहरूले यो युद्धमा सहन गर्न सकेनन् र इरावान्माथि जाइलागेर उनलाई चारैतिरबाट घेरे।
32इरावान्लाई तिखा भालाले बिँध्दै र आफ्ना योद्धाहरूलाई उनीमाथि प्रेरित गर्दै ती वीरहरू महान् कोलाहल मच्चाउँदै रणभूमिमा विचरण गर्न थाले।
33तब ती महात्मा योद्धाहरूद्वारा तिखा भालाले बिँधिएका र आफ्ना घाउबाट बगेको रगतले लतपतिएका इरावान् अङ्कुशले बिँधिएको हात्तीसमान देखिए।
34यद्यपि उनी एक्लै थिए, तथापि अनेकले उनको छाती, पीठ र कोखमा घोर प्रहार गरे; तर हे राजन्, आफ्नो महान् धैर्यका कारण उनी विचलित भएनन्।
35तब शत्रुनगरका विजेता इरावान्ले क्रोधले बढ्दै तिनी सबैलाई तिखा बाणले बिँधेर संज्ञाशून्य पारिदिए।
36त्यसपछि आफ्नो शरीरबाट ती सम्पूर्ण भाला निकालेर ती शत्रुदमनले तिनै भालाले युद्धमा सुबलका पुत्रहरूलाई घाइते पारिदिए।
37तब आफ्नो तिखो तरबार निकालेर र ढाल समातेर उनी (इरावान्) त्यस युद्धमा सुबलका पुत्रहरूको वध गर्ने इच्छाले चाँडै पैदल दौडे।
38तब सुबलका ती सम्पूर्ण पुत्र चेतना फर्केपछि क्रोधले भरिएर पुनः इरावान्तिर दौडे।
39आफ्नो बलमा गर्वित इरावान् पनि तरबार घुमाउँदै आफ्ना हातको फुर्ती देखाउँदै सुबलका ती सम्पूर्ण पुत्रमाथि जाइलागे।
40तीव्रगामी घोडामा सवार सुबलका ती पुत्रहरूले महान् फुर्तीले विचरण गरिरहेका इरावान्माथि प्रहार गर्ने अवसर नै पाएनन्।
41तब इरावान्लाई भुइँमा पैदल उभिएको देखेर ती योद्धाहरूले उनलाई नजिकबाट घेरेर समात्ने प्रयत्न गरे।
42तब ती शत्रुहन्ता इरावान्ले तिनलाई आफ्नो अत्यन्त नजिक देखेर आफ्नो तरबारले तिनका दाहिने र देब्रे पाखुरा (अर्थात् जसले तिनीहरू क्रमशः तरबार र धनु चलाउँथे) काटिदिए र तिनका शरीर पनि क्षतविक्षत पारिदिए।
43तिनका शस्त्र र ती समातेका हात पृथ्वीमा झरे, र तिनीहरू आफै प्राणविहीन भई, आफ्ना क्षतविक्षत शरीरसहित, मरेर ढले।
44हे महाराज, केवल वृषभ मात्र, आफ्नो शरीर घाउले क्षतविक्षत लिएर, वीरहरूको विनाश गर्ने त्यस अत्यन्त भयङ्कर सङ्ग्रामबाट कठिनाइले जीवित उम्किए।
45तब तपाईंका पुत्र दुर्योधनले ती सम्पूर्ण वीरलाई कुल्चिएको देखेर क्रोधले बढ्दै भयङ्कर रूप भएको त्यस राक्षसलाई यी वचन भने —
46— त्यस भयङ्कर धनुर्धर, त्यस शत्रुदमन, महान् मायावी शक्तिले सम्पन्न ऋष्यशृङ्गका पुत्र अलम्बुषलाई, जो बकको वधका कारण भीमसेनको शत्रु थियो।
47"हे वीर, हेर, मायामा निपुण अर्जुनका यी पराक्रमी पुत्रले मेरो सेनाको विनाश गरेर मसँग कस्तो भयङ्कर अनर्थ गरेका छन्!
48हे तात, तिमी पनि आफ्नो अबाध इच्छाले सर्वत्र जान समर्थ छौ र सम्पूर्ण मायास्त्रमा निपुण छौ; यसबाहेक तिमी पृथापुत्रका कट्टर शत्रु हौ; त्यसैले यसको युद्धमा मेरा लागि वध गरिदेऊ।"
49(दुर्योधनका वचनलाई) "तथास्तु" भन्दै भयङ्कर रूप भएको त्यो राक्षस सिंहनाद गर्दै त्यस ठाउँतिर दौड्यो जहाँ अर्जुनका तरुण पुत्र थिए।
50अलम्बुषलाई आफ्नो विभागका ती वीर भालाधारीहरूको सहयोग प्राप्त थियो, जो सबै प्रहारमा निपुण, उत्तम वाहनमा सवार, युद्धमा कुशल र देदीप्यमान भाला धारण गरेका थिए।
51हे राजन्, त्यो अत्यन्त पराक्रमी इरावान्को, भर्खरको सङ्ग्रामबाट बाँचेका ती दुई हजार उत्तम अश्वारोहीसहित, युद्धमा वध गर्न चाहन्थ्यो।
52परम फुर्तिलो र पराक्रमी इरावान् पनि, ती शत्रुहन्ता, क्रोधले बढ्दै आफ्नो वध गर्न इच्छुक त्यस राक्षसलाई रोक्न थाले।
53महान् बलले सम्पन्न त्यस राक्षस (अलम्बुष)ले इरावान्लाई आफूतिर आइरहेको देखेर चाँडै आफ्नो मायाको प्रयोग सुरु गर्यो।
54तब उसले उति नै मायावी घोडा रच्यो, जसमा भयङ्कर राक्षसहरू सवार थिए र जसले आफ्ना हातमा भाला तथा बन्चरो लिएका थिए।
55क्रोधपूर्वक अगाडि बढ्दै ती दुई हजार सुशिक्षित प्रहारक इरावान्को विभागसँग भिडे, र दुवै पक्ष चाँडै परलोक पठाइए।
56जब इरावान् र अलम्बुष दुवैका सेनाविभाग युद्धमा मारिए, तब ती दुवै वीर, जो दुवै नै युद्धमा दुर्धर्ष थिए, इन्द्र र वृत्रसमान आपसमा भिडे।
57युद्धमा अजेय त्यस राक्षसलाई आफूतिर आइरहेको देखेर अत्यन्त पराक्रमी इरावान् क्रोधले उत्तेजित भई त्यसलाई रोक्न थाले;
58— र जब त्यो उनको अत्यन्त नजिक आइपुग्यो, तब उनले आफ्नो तरबारले त्यस दुष्टका धनु र बाणका पाँचपाँच टुक्रा पारिदिए।
59आफ्नो धनु काटिएको देखेर त्यो चाँडै आकाशमा चढ्यो, मानौँ आफ्नो मायाशक्तिले क्रोधमा अत्यन्त उत्तेजित इरावान्लाई मोहित पार्दै छ।
60तब सम्पूर्ण धर्मका ज्ञाता र इच्छाअनुसार जुनसुकै रूप धारण गर्न समर्थ ती दुर्धर्ष वीर इरावान् पनि आकाशमा चढेर, आफ्नो मायाशक्तिले त्यस राक्षसलाई मोहित पार्दै, त्यस युद्धमा त्यसका अङ्ग काटिदिए। यसरी त्यो राक्षसश्रेष्ठ बारम्बार टुक्राटुक्रा पारियो।
61तर हे महाराज, अलम्बुष पुनः नयाँ रूपमा, पूर्ण यौवनसहित जन्मन्थ्यो। माया तिनको (राक्षसहरूको) स्वभाव नै हो, र तिनका आयु तथा रूप तिनकै इच्छाअनुसार हुन्छन्।
62यसरी बारम्बार टुक्राटुक्रा पारिएका त्यस राक्षसका अङ्ग अत्यन्त सुन्दर देखिन्थे। तब क्रुद्ध इरावान्ले महान् बलले सम्पन्न त्यस राक्षसलाई आफ्नो अत्यन्त तिखो बन्चरोले बारम्बार काटे। त्यस बलशाली इरावान्द्वारा रूखझैँ काटिँदा त्यो वीर —
63— राक्षस भयङ्कर गर्जन गर्न थाल्यो; त्यसबाट भीषण शब्द उत्पन्न भयो। बन्चरोका प्रहारले काटिएको त्यस राक्षसको शरीरबाट रगतको धारा बग्न थाल्यो।
64त्यसपछि महान् बलले सम्पन्न ऋष्यशृङ्गको त्यो पुत्र आफ्नो पराक्रमी प्रतिपक्षीलाई त्यस युद्धमा यसरी देदीप्यमान भइरहेको देखेर क्रोधले जल्यो र त्यस युद्धमा आफ्ना शक्तिको प्रयोग गर्यो।
65भयङ्कर र विशालकाय रूप धारण गरेर उसले अर्जुनका पुत्र, यशस्वी इरावान्लाई समात्ने प्रयत्न गर्यो।
66त्यस घोर युद्धको बीचमा, सम्पूर्ण योद्धाहरूले हेर्दाहेर्दै, त्यस दुष्टात्मा राक्षसले फैलाएको त्यस मायालाई देखेर —
67— क्रोधले अत्यन्त उत्तेजित इरावान्ले आफै पनि महान् माया रच्न थाले। तब जब ती कहिल्यै पछि नहट्ने वीर त्यस युद्धमा क्रोधले अभिभूत भए,
68— तब उनकी माताको तर्फबाट नाता पर्ने एउटा नाग उनको सहायताका लागि आयो; हे राजन्, त्यस युद्धमा असङ्ख्य नागले चारैतिरबाट घेरिएको —
69— त्यस नागले साक्षात् अनन्तसमान विशालकाय रूप धारण गर्यो। त्यसपछि ती असङ्ख्य र विविध प्रकारका नागले उसले त्यस राक्षसलाई छोपिदियो।
70यसरी नागहरूले घेरिएको त्यो राक्षसश्रेष्ठले केही क्षण विचार गरेर गरुडको रूप धारण गर्यो र ती सम्पूर्ण सर्पलाई निल्यो।
71जब उनकी माताको तर्फबाट नाता पर्ने त्यो नाग अलम्बुषको मायाशक्तिले यसरी निलियो, तब इरावान् मोहित भए र त्यस राक्षसले आफ्नो तरबारले उनको वध गर्यो।
72तब त्यस राक्षसले कुण्डल र मुकुटले सुशोभित तथा चन्द्रमा वा कमलसमान देदीप्यमान इरावान्को शिर पृथ्वीमा झारिदियो।
73जब अर्जुनका ती वीर पुत्र राक्षसद्वारा मारिए, तब धृतराष्ट्रका पुत्रहरू आफ्ना सम्पूर्ण पक्षपाती राजासहित चिन्ताबाट मुक्त भए।
74ती दुवै सेनाबीच भएको त्यस महान् र भयङ्कर युद्धमा जुन संहार भयो, त्यो भयावह थियो।
75घोडा, हात्ती र पैदल सैनिक आपसमा मिसिएर हात्तीहरूद्वारा मारिए; र त्यस युद्धमा रथी, अश्वारोही तथा गजारोही पनि पैदल सैनिकहरूद्वारा मारिए।
76तब, हे राजन्, त्यस भयङ्कर सङ्ग्राममा तपाईंका तथा तिनका (पाण्डवहरूका) सेनाका पैदल सैनिक, रथी र असङ्ख्य घोडाका विभाग रथीहरूद्वारा मारिए।
77यसैबीच अर्जुनले पनि, आफ्ना औरस पुत्रको गति नजानी, त्यस युद्धमा ती वीर राजाहरूको वध गरे जो भीष्मको सहायतामा लागेका थिए।
78त्यसपछि, हे महाराज, तपाईंका योद्धा तथा सृञ्जयहरू हजारौँको सङ्ख्यामा एकअर्काको वध गर्दै युद्धमा आफ्ना प्राण त्याग्दै गए।
79छरिएका कपाल भएका रथीहरू, जसका बाण, तरबार र धनु काटिइसकेका थिए, एकअर्कासँग भिडेर आफ्ना नाङ्गा पाखुराले नै लडिरहे।
80अत्यन्त बलशाली भीष्मले पनि त्यस युद्धमा मर्मस्थलसम्म भेद्न सक्ने बाणले महारथीहरूको वध गरे र सम्पूर्ण पाण्डवसेनालाई विचलित पारे।
81उनले (भीष्मले) युधिष्ठिरको सेनाका अनेक योद्धा, हात्ती, अश्वारोही, रथी तथा घोडाको वध गरे।
82हे भरतवंशी, त्यस युद्धमा हामीले भीष्मको, भीमसेनको तथा, हे भरतवंशी, पृषतपुत्रको पनि पराक्रम देख्यौँ। सात्वत वंशका ती महाधनुर्धर सात्यकिले जुन युद्ध लडे, त्यो साँच्चै अत्यन्त घोर थियो।
83द्रोणको पराक्रम देखेर पाण्डवहरू आतङ्कले ग्रस्त भए। "यी द्रोणले एक्लै नै हाम्रो सम्पूर्ण सेनासहित हाम्रो युद्धमा वध गर्न सक्छन्; फेरि उनको त कुरै के, जब उनलाई विश्वविख्यात योद्धाहरूको विशाल समूहको सहयोग प्राप्त होस्।"
84हे महाराज, हे भरतश्रेष्ठ, जब तिनीहरू त्यस घोर युद्धमा उनीद्वारा अत्यन्त पीडित भए, तब पृथाका पुत्रहरूले यिनै वचन भने।
85ती दुवै सेनाका महान् बलले सम्पन्न सम्पूर्ण वीरहरूले न कसैलाई अभयदान दिन्थे, न आफै माग्थे; तिनीहरू यसरी लडिरहेका थिए मानौँ राक्षस अथवा दुष्ट आत्माले आविष्ट छन्।
86अनि हे तात, तपाईंको सेनाका तथा पाण्डवहरूको सेनाका धनुर्धरहरू सबै क्रोधको चरम सीमासम्म उत्तेजित थिए। वीरहरूको विनाश गर्ने र साक्षात् दैत्यहरूको सङ्ग्रामसमान त्यस युद्धमा हामीले कसैलाई पनि आफ्ना प्राणको अलिकति पनि चिन्ता गरेको पाएनौँ।