भगवद्गीता पर्व
खण्ड 4 — भीष्म पर्व · अध्याय 43
संस्कृत
1अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्। त्यागस्य च हृषीकेश पृथक् केशिनिषूदन॥
2श्रीभगवानुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः॥
3त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः। यज्ञदानतपःकर्म न त्याज्यमिति चापरे॥
4मे तत्र त्यागे भरतसत्तम। त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः॥
5यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्। यज्ञो दान तपश्चैव पावनानि मनीषिणाम्॥
6एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति में पार्थ निश्चितं मतमुत्तमम्॥ निश्चयं शृणु
7नियतस्य तु संन्यासः कर्मणो नोपपद्यते। मोहात् तस्य परित्यागस्तामसः परिकीर्तितः॥
8दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत्। स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्॥
9कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन। सङ्गत्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः॥
10न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः॥
11न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते॥
12अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्॥
13पञ्चैतानि महाबाहो कारणानि निबोध मे। सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्॥
14अधिष्ठान तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्॥
15शरीरवाड्मनोभिर्यत् कर्म प्रारभते नरः। न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः॥
16तत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्यान्न स पश्यति दुर्मतिः॥
17यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते। हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते॥
18ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना। करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः॥
19ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः। प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि॥
20सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥
21पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥
22यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम्। अतत्त्वार्थवदल्पं च तत् तामसमुदाहृतम॥
23नियतं सङ्गरहितमरागद्वेषतः कृतम्। अफलप्रेप्सुना कर्म यत्तत् सात्त्विकमुच्यते॥
24यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः। क्रियते बहुलायासं तद् राजसमुदाहृतम्॥
25अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम्। मोहादारभ्यते कर्म यत्तत् तामसमुच्यते॥
26मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः। सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते॥
27रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः। हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः॥
28अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः। विषादी दीर्घसूत्री च कर्ता तामस उच्यते॥
29बुद्धेर्थेदं धृतेश्चैव गुणतस्त्रिविधं शृणु। प्रोच्यमानमशेषेण पृथक्त्वेन धनंजयः॥
30प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये। बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥
31यया धर्ममधर्मं च कार्य चाकार्यमेव च। अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी॥
32अधर्मं धर्ममिति या मन्यते तमसाऽवृता। सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी॥
33धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी॥
34यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन। प्रसङ्गेन फलाकाक्षी धृतिः सा पार्थ राजसी॥
35यया स्वप्नं भयं शोकं विषादं मदमेव च। न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी॥
36सुखं त्विदानी त्रिविधं शृणु मे भरतर्षभ। अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति॥ यत्तदने विषमिव परिणामेऽमृतोपमम्। तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्॥
37विषयेन्द्रियसंयोगाद् यत्तदचेऽमृतोपमम्। परिणामे विषमिव तत् सुखं राजसं स्मृतम्॥
38यदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्॥
39न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्व प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः॥
40ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप। कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥
41शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥
42शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्। दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्॥
43कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्। परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥
44स्वे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः। स्वकर्मनिरतः सिद्धि यथा विन्दति तच्छृणु।॥
45यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः॥
46श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्। स्वभावनियतं कर्म कुर्वन् नाप्नोति किल्बिषम्॥
47सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्। सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः॥
48असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धि परमां संन्यासेनाधिगच्छति॥
49सिद्धि प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे। समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥
50बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च। शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौव्युदस्य च॥
51विविक्तसेवी लध्वाशी यतवाक्कायमानसः। ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः॥
52अहंकार बलं दर्प कामं क्रोधं परिग्रहम्। विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥
53ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्ति लभते पराम्॥
54भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥
55सर्वकर्माण्यपि सदा कुर्वाणो मद्यपाश्रयः। मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥
56चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः। बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव॥
57मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि। अथ चेत् त्वमहंकारान्न श्रोष्यसि विनक्ष्यसि॥
58यदहंकारमाश्रित्य न योत्स्य इति मन्यसे। मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति॥
59स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा। कर्तुनेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत्॥
60ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥
61तमेव शरणं गच्छ सर्वभावेन भारत। तत्प्रसादात् परां शान्ति स्थान प्राप्स्यसि शाश्वतम्॥
62इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया। विमृश्यैतदशेषेण यथेच्छसि तथा कुरु॥
63सर्वगुह्यतमं भूयः शृणु मे परमं वचः। इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥
64मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥
65सर्वधर्मान् परित्यज्य मामेकं शरणं व्रजा अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥
66इदं ते नातपस्काय नाभक्ताय कदाचन। न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥
67य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति। भक्तिं मयि परां मामेवैष्यत्यसंशयः॥
68न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः। भविता न च मे तस्मादन्यः प्रियतरो भुवि॥
69अध्येष्यते च य इमं धर्म्यं संवादमावयोः। ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः॥
70श्रद्धावाननसूयश्च शृणुयादपि यो नरः। सोऽपि मुक्तः शुभाँल्लोकान् प्राप्नुयात् पुण्यकर्मणाम्।।
71कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा। कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनंजय॥
72अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत। स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव॥
73संजय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः। संवादमिममश्रौषमद्भुतं रोमहर्षणम्॥
74व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम्। योगयोगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम्॥
75राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम्। केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः॥
76तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः। विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः॥
77यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीविजयो भूतिर्बुवा नीतिर्मतिर्मम॥
अंग्रेज़ी
1Arjuna said O mighty-armed, I desire to know the true nature of Sanyasa (Renunciation) and Tyaga (Abandonment). O slayer of Keshi, I want to know them distinctly.
2The great one said Rejection of works with some desire is known by the learned as Sanyasa. But the abandonment of the desire for the fruit of all works, is called Tyaga, by the discerning man.
3Some wise men say that work itself should be abandoned considering it to be evil; others say that the works of sacrifice, gifts and penance should not be renounced.
40 best of Bharata's son, listen to my opinion about Tyaga, for powerful of men, Tyaga is of three kinds.
5The works of sacrifice, gifts and penance should not be renounced. They should indeed be performed, for, sacrifices, gifts and penances are the means for the purification of the wise.
6But these works should be performed without attachment and without the desire for fruits. Partha, this is my decided opinion.
7The Renunciation of work is not proper. It is the result of delusion and arises from Tama.
8When work is abandoned from bodily fear and froin the consideration of pain, such abandonment arises from Raja, and one who makes such abandonment never obtains the fruit of Tyaga.
9The abandonment of attachment and the fruit of actions which are performed because they are prescribed in the Shastras. O Arjuna, is considered to be of the quality of Sativa.
10He, who has such Tyaga, being possessed of intelligence and with doubts dispelled, has no aversion for an unpleasant action, and has no attachment for pleasant ones.
11Actions cannot be absolutely a abandoned by man; therefore he, who abandons the fruit of actions, is a true Tyagi.
12Those, that do not abandon the desire for the fruit of actions, have after death threefold fruits, good, bad and indifferent.
13Listen to me, O mighty armed (I shall declare to you) the five causes for the completion of actions, as told in the Sankhya which treats with the annihilation of actions.
14Substratum (body), Agency (mind). Organs (physical), Efforts (vital breaths) and Duties (senses), these are the five causes.
15With body, speech or mind, whatever work, good or bad, a man performs these five are their causes.
16Such being the case, he who, owing to his uncultivated understanding and dull mind, sees his own self as the sole agency of all actions, sees nothing.
17He who has no egoism, and whose mind is not sullied, does not kill, or fettered by action, if he kills all these people.
18Knowledge, the Object of knowledge and the Knower, from the threefold impulse of action.. Instrument. Action and Agent from the threefold complements of action.
19Knowledge, Action and Agent have threefold enumeration, according to the difference of qualities. Listen to them now.
20Sattva Knowledge is that by which One Eternal Essence undivided in the divided is seen in all things.
21Raja Knowledge is that which sees various Essences of different things, on account of their separateness.
22Tama Knowledge is that which sees each single object as if it were the whole which is without reason and without truth, and which is mean and low.
23Sattva Action is that which is prescribed in the Shastras, which is performed without attachment, desire or aversion, and without the desire for any fruit by the performer.
24Raja Action is that which is attended with great trouble and which is performed by one who desires for the fruit of action and who is filled with egoism.
25Tama Action is that which is performed from delusion, without regard to consequences and with one's own loss and injury as well as of others.
26Sattva Agent is he who is free from attachment, and egoism, who is full of constancy and energy and who is unmoved both in success and failure.
27Raja Agent is he who is full of affections, who desires for the fruit of actions, who is covetous, cruel and impure, and feels both joy and sorrow.
28Tama Agent is he who is void of application, who is without discernment, who is obstinate, deceitful malicious, idle, desponding, and procrastinating.
29Listen to three fold division of intellect and constancy. O Dhananjaya, I shall exhaustively and distinctly speak to you on this matter.
30Sattva Intellect, O Partha, is that which knows action and inaction, what ought to be done and what ought not to be done, and which knows fear and fearfulness, bondage and deliverance.
31Raja Intellect, O Partha, is that by which one imperfectly discerns right and wrong, and what ought to be done and what ought not to be done.
32Tama Intellect, O Partha, is that by which, being one covered by ignorance, considers wrong to be right, and sees all things in a reverse state.
33Sattva constancy, O Partha, is that by which through devotion one controls the function of the mind, the life-breaths and the senses.
34Raja constancy, O Partha, is that by which through attachment one holds to religion, and profit, washing for fruit.
35Tama Constancy, O Partha, is that thought which undiscerning person does not abandons sleep, fear, sorrow, dependency and folly.
36Now hear from Me, O best of Bharata race, what are the three kinds of happiness. Sattva Happiness is that in which one finds pleasure from repetition of enjoyment, which brings an end to all pain, which is like poison in the beginning, but ambrosia afterwards, which is born out of serenity, and is produced by knowledge.
37Raja Happiness is that which arise from the contact of the senses with their objects and which ambrosia in the beginning and poison next.
38Tama Happiness is that which deludes the self in the beginning and in its consequences, and which arises from sleep, condolence and foolishness.
39There is none, either among the beings on earth or among be celestial in heaven, which is free from these three qualities born of Nature.
40O chastiser of foes, the duties of Brahmanas, Kshatriyas, Vaishyas, and Shudras are each distinguished by these three qualities, born of nature.
41Tranquility, self restraint, penances purity, forgiveness, rectitude, knowledge, experience and faith, these are the distinctive features of a Brahmana.
42Bravery, energy, firmness, skill, firmness in battle, liberality, majesty, these are distinctive features of a Kshatriya.
43Agriculture, tending of cattle and trade, these are the duties of a Vaishya. The natural duty of a Shudra is service.
44Every man, if he engages in his own natural duty, attains to perfection. Hear, how man attains to perfection by performing him own natural duties,
45Worshipping Him, from whom are the life of beings, and by whom all the universe is pervaded, by the performance of his own duty man is sure to attain to perfection.
46Better is one's own duty, though performed imperfectly, than another's duty wellperformed. Man incurs no sin by performing his duty prescribed by Nature.
47Man must not, O son of Kunti abandon his natural duties, however bad they might be-for all actions are enveloped by error as fire by smoke.
48He whose mind is unattached to any thing, who has subdued his self, and whose desire is gone, through Sanyasa, obtains the supreme perfection of freedom from action.
49Learn in brief, O son of Kunti, how a man, obtaining perfection, attains to Brahma, the Supreme End of Knowledge.
50Having a pure mind, restraining his self by constancy, renouncing all objects of sense, and casting off affection and aversion.
51He who resides in a lonely place, cats little, restrains his speech, body and mind, who is ever intent on meditation and abstraction, who is unconcerned.
52Who is free from egoism, violence, pride, lust, wrath, surroundings, who is devoid of selfishness and is tranquil, become fit for assimilation with Brahma.
53Becoming one with Brahma, and obtaining tranquility in spirit, man grieves not and desires not. Seeing all beings alike, he obtains the highest devotion to Me.
54By devotion he truly knows Me, truly what I am and who I am. Then knowing Me truly, he forthwith enters into Me.
55Even performing all actions at all times, such a man, having his refuge in Me, obtains through My favour that state which is eternal and imperishable.
56Mentally dedicating all actions to Me, restoring to mental abstraction, being devoted to Me, fix your thoughts constantly on Me.
57Fixing your thoughts on Me, you will surmount all difficulties through My favour. But if from self-conceit you do not listen to Me, you will surely perish.
58If out of self-conceit you think “I will not fight,” your this resolution will be in vain, for surely will Nature rule you.
59Bound by your own Duty, ordained by Nature, you will involuntarily do not, which, out of delusion, you do not wish to do.
60The Lord, O Arjuna, as if mounted on a machine, sits in the heart of all beings, turning them as He pleases by His illusive powers.
61O Bharata, seek shelter under Him in every way. By his favour, you will get Supreme Peace and the Eternal Seat.
62I have thus declared to you the knowledge which is more mysterious than any other mystery. Reflect on it fully, and then act as you like.
63Once more hcar My supernatural words, the most mysterious mystery of all. You are very dear to Me; therefore, I tell you what is good for you.
64Fix your heart on Me, become My devotee, sacrifice to Me, bow down to Me, you will then come to Me. I tell you the truth, for you are very dear to Me.
65Forsaking all religious duties, come to Me, come to Me as your sole refuge. I shall deliver yo:l from all your sins. Do not grieve.
66This knowledge that I have told you must not be declared by you to one who does not practice penances, who is not a devotee, who never waits on a preceptor, and who always culminates Mc.
67He, who will inculcate this supreme knowledge to those who are devoted to Me, offering Me his highest devotion, being freed from all doubts, will come to Me.
68Amongst men none can be dearer to Me than such a man. None on earth can do Me greater service also than he.
69And he, who will study this holy conversation between us, will offer to Me the sacrifice of knowledge. This is my opinion.
70Even he, who with faith and without evil, will hear it, being freed from (the bond of births), will obtain the blessed seat of those that perform pious acts.
71Have you heard, O Partha, this knowledge with mind undirected to any other object? Has, O Dhananjaya, your delusion, caused by ignorance, been destroyed?
72Arjuna said O undecaying One, through your favour my delusion is gone, I now know what I am. I am now firm. My doubts have been dispelled. I will obey you. I will do your bidding.
73Sanjay said O king, I heard this wonderful and hairstirring words of Vasudeva and Partha.
74Through the favour of Vyasa, I myself heard this mysterious, great and best words from the very lips of the Lord of Yoga, Srikrishna.
75O king, I am feeling more and more pleasure as much as I am remembering the holy and wonderful words between Srikrishna and Arjuna.
76O king, I am feeling more and more pleasure as much as I am remembering the wonderful manifestation of Srikrishna.
77Wherever exist the Lord of Yoga Srikrishna and the great bowman Arjuna, there certainly do wealth, victory and glory exist.
हिन्दी
1अर्जुन ने कहा — हे महाबाहो, मैं संन्यास और त्याग का यथार्थ स्वरूप जानना चाहता हूँ। हे केशिनिषूदन, मैं इन्हें पृथक्-पृथक् जानना चाहता हूँ।
2श्रीभगवान् ने कहा — कामना से किए जाने वाले कर्मों के त्याग को विद्वान् लोग संन्यास कहते हैं। किन्तु समस्त कर्मों के फल की कामना के त्याग को विवेकी पुरुष त्याग कहते हैं।
3कुछ मनीषी कहते हैं कि कर्म को दोषयुक्त मानकर उसका त्याग कर देना चाहिए; दूसरे कहते हैं कि यज्ञ, दान और तप के कर्मों का त्याग नहीं करना चाहिए।
4हे भरतश्रेष्ठ, त्याग के विषय में मेरा मत सुनो; क्योंकि हे पुरुषश्रेष्ठ, त्याग तीन प्रकार का है।
5यज्ञ, दान और तप के कर्मों का त्याग नहीं करना चाहिए। उन्हें अवश्य करना चाहिए, क्योंकि यज्ञ, दान और तप मनीषियों को पवित्र करने वाले साधन हैं।
6किन्तु ये कर्म आसक्ति के बिना और फल की कामना के बिना किए जाने चाहिए। हे पार्थ, यही मेरा निश्चित मत है।
7नियत कर्म का त्याग उचित नहीं है। वह मोह का परिणाम है और तमोगुण से उत्पन्न होता है।
8जब शारीरिक भय से और कष्ट के विचार से कर्म का त्याग किया जाता है, तब ऐसा त्याग रजोगुण से उत्पन्न होता है, और ऐसा त्याग करने वाला त्याग का फल कभी नहीं पाता।
9हे अर्जुन, शास्त्र में विहित होने के कारण किए गए कर्मों में आसक्ति और फल का त्याग सात्त्विक गुण वाला माना जाता है।
10जिसमें ऐसा त्याग है, वह बुद्धिमान् और संशयरहित पुरुष अप्रिय कर्म से द्वेष नहीं करता और प्रिय कर्म में आसक्त नहीं होता।
11मनुष्य के द्वारा कर्मों का पूर्ण रूप से त्याग सम्भव नहीं है; इसलिए जो कर्मफल का त्याग करता है, वही सच्चा त्यागी है।
12जो कर्मफल की कामना का त्याग नहीं करते, उन्हें मृत्यु के पश्चात् तीन प्रकार के फल मिलते हैं — शुभ, अशुभ और मिश्रित।
13हे महाबाहो, मुझसे सुनो — (मैं तुमसे कहूँगा) कर्मों की सिद्धि के वे पाँच कारण, जो कर्मों के अन्त का विवेचन करने वाले सांख्य में कहे गए हैं।
14अधिष्ठान (शरीर), कर्ता (मन), करण (शारीरिक इन्द्रियाँ), चेष्टाएँ (प्राण) और दैव (इन्द्रियाँ) — ये पाँच कारण हैं।
15मनुष्य शरीर, वाणी अथवा मन से जो कुछ भी शुभ अथवा अशुभ कर्म करता है, उसके ये ही पाँच कारण होते हैं।
16ऐसा होने पर भी जो अपनी अपरिष्कृत बुद्धि और मन्द चित्त के कारण अपने ही आपको समस्त कर्मों का एकमात्र कर्ता देखता है, वह कुछ भी नहीं देखता।
17जिसमें अहंकार नहीं है और जिसकी बुद्धि लिप्त नहीं है, वह इन समस्त लोगों को मारकर भी न मारता है, न कर्म से बँधता है।
18ज्ञान, ज्ञेय (जानने योग्य वस्तु) और ज्ञाता — ये कर्म की तीन प्रकार की प्रेरणा हैं। करण, कर्म और कर्ता — ये कर्म के तीन प्रकार के अंग हैं।
19गुणों के भेद के अनुसार ज्ञान, कर्म और कर्ता की तीन-तीन प्रकार की गणना है। अब उन्हें सुनो।
20सात्त्विक ज्ञान वह है जिसके द्वारा विभक्त वस्तुओं में अविभक्त एक ही सनातन तत्त्व समस्त वस्तुओं में देखा जाता है।
21राजस ज्ञान वह है जो पृथक्ता के कारण भिन्न-भिन्न वस्तुओं में भिन्न-भिन्न तत्त्व देखता है।
22तामस ज्ञान वह है जो प्रत्येक एक वस्तु को ही सम्पूर्ण मान लेता है, जो युक्तिरहित और सत्य से रहित है, तथा जो तुच्छ और नीच है।
23सात्त्विक कर्म वह है जो शास्त्र में विहित है, जो आसक्ति, राग अथवा द्वेष के बिना किया जाता है, और जिसमें कर्ता को किसी फल की कामना नहीं होती।
24राजस कर्म वह है जो अत्यन्त क्लेश के साथ किया जाता है और जिसे कर्मफल की कामना रखने वाला तथा अहंकार से भरा पुरुष करता है।
25तामस कर्म वह है जो मोह से, परिणाम का विचार किए बिना, तथा अपने और दूसरों के नाश और हानि को न देखकर किया जाता है।
26सात्त्विक कर्ता वह है जो आसक्ति और अहंकार से मुक्त है, जो धैर्य और उत्साह से भरा है, और जो सिद्धि तथा असिद्धि दोनों में विचलित नहीं होता।
27राजस कर्ता वह है जो रागों से भरा है, जो कर्मफल की कामना करता है, जो लोभी, क्रूर और अपवित्र है, तथा जो हर्ष और शोक दोनों का अनुभव करता है।
28तामस कर्ता वह है जो अनुद्योगी है, जो विवेकहीन है, जो हठी, कपटी, दूसरों का अनिष्ट करने वाला, आलसी, विषादग्रस्त और दीर्घसूत्री है।
29हे धनंजय, अब बुद्धि और धृति के तीन प्रकार के भेद सुनो। मैं इस विषय पर तुमसे विस्तार से और पृथक्-पृथक् कहूँगा।
30हे पार्थ, सात्त्विक बुद्धि वह है जो प्रवृत्ति और निवृत्ति को, कर्तव्य और अकर्तव्य को जानती है, तथा जो भय और अभय को, बन्धन और मोक्ष को जानती है।
31हे पार्थ, राजस बुद्धि वह है जिसके द्वारा मनुष्य धर्म और अधर्म को तथा कर्तव्य और अकर्तव्य को अपूर्ण रूप से जानता है।
32हे पार्थ, तामस बुद्धि वह है जिसके द्वारा अज्ञान से आवृत होकर मनुष्य अधर्म को धर्म मान लेता है और समस्त वस्तुओं को उलटा देखता है।
33हे पार्थ, सात्त्विक धृति वह है जिसके द्वारा मनुष्य योग से मन, प्राण और इन्द्रियों के व्यापार को वश में रखता है।
34हे पार्थ, राजस धृति वह है जिसके द्वारा मनुष्य आसक्ति से, फल की कामना करते हुए, धर्म और अर्थ को पकड़े रहता है।
35हे पार्थ, तामस धृति वह है जिसके द्वारा अविवेकी पुरुष निद्रा, भय, शोक, विषाद और मूढ़ता को नहीं छोड़ता।
36हे भरतश्रेष्ठ, अब मुझसे सुनो कि सुख कितने प्रकार का है। सात्त्विक सुख वह है जिसमें मनुष्य अभ्यास के बार-बार दोहराने से आनन्द पाता है, जो समस्त दुःख का अन्त कर देता है, जो आरम्भ में विष के समान किन्तु पीछे अमृत के समान होता है, जो प्रसन्नता से उत्पन्न होता है और ज्ञान से जन्म लेता है।
37राजस सुख वह है जो इन्द्रियों के अपने विषयों से सम्पर्क से उत्पन्न होता है और जो आरम्भ में अमृत के समान और पीछे विष के समान होता है।
38तामस सुख वह है जो आरम्भ में और परिणाम में भी आत्मा को मोहित करता है, और जो निद्रा, आलस्य तथा मूढ़ता से उत्पन्न होता है।
39पृथ्वी के प्राणियों में अथवा स्वर्ग के देवताओं में ऐसा कोई नहीं है जो प्रकृति से उत्पन्न इन तीनों गुणों से मुक्त हो।
40हे परन्तप, ब्राह्मणों, क्षत्रियों, वैश्यों और शूद्रों के कर्म प्रकृति से उत्पन्न इन्हीं तीन गुणों के द्वारा पृथक्-पृथक् किए गए हैं।
41शम, दम, तप, शौच, क्षमा, सरलता, ज्ञान, विज्ञान (अनुभव) और आस्तिकता — ये ब्राह्मण के लक्षण हैं।
42शौर्य, तेज, धैर्य, दक्षता, युद्ध में स्थिरता, दानशीलता और प्रभुत्व — ये क्षत्रिय के लक्षण हैं।
43कृषि, गोपालन और वाणिज्य — ये वैश्य के कर्म हैं। शूद्र का स्वाभाविक कर्म सेवा है।
44प्रत्येक मनुष्य यदि अपने स्वाभाविक कर्म में लगे, तो सिद्धि को प्राप्त करता है। सुनो, मनुष्य अपने स्वाभाविक कर्मों को करते हुए किस प्रकार सिद्धि प्राप्त करता है।
45जिससे समस्त प्राणियों का जीवन है और जिससे यह सारा जगत् व्याप्त है, उसकी अपने कर्म के आचरण के द्वारा उपासना करके मनुष्य निश्चय ही सिद्धि प्राप्त करता है।
46भली-भाँति किए गए दूसरे के धर्म से अपना धर्म, यद्यपि अपूर्ण रूप से किया गया हो, श्रेष्ठ है। प्रकृति के द्वारा नियत अपने कर्म को करते हुए मनुष्य पाप का भागी नहीं होता।
47हे कुन्तीपुत्र, मनुष्य को अपने स्वाभाविक कर्मों का त्याग नहीं करना चाहिए, चाहे वे कितने ही दोषयुक्त क्यों न हों — क्योंकि समस्त कर्म दोष से वैसे ही आवृत हैं जैसे अग्नि धुएँ से।
48जिसका मन किसी वस्तु में आसक्त नहीं है, जिसने अपने आप को जीत लिया है और जिसकी कामना चली गई है, वह संन्यास के द्वारा निष्कर्मता की परम सिद्धि को प्राप्त करता है।
49हे कुन्तीपुत्र, संक्षेप में सुनो कि सिद्धि प्राप्त करके मनुष्य किस प्रकार ब्रह्म को, ज्ञान की परम निष्ठा को, प्राप्त करता है।
50शुद्ध बुद्धि से युक्त होकर, धैर्य से अपने आप को संयत करके, इन्द्रियों के समस्त विषयों का त्याग करके तथा राग और द्वेष को छोड़कर —
51— जो एकान्त स्थान में रहता है, थोड़ा खाता है, अपनी वाणी, शरीर और मन को संयत रखता है, जो सदा ध्यान और समाधि में तत्पर रहता है, जो उदासीन है;
52— जो अहंकार, हिंसा, दर्प, काम, क्रोध और परिग्रह से मुक्त है, जो ममता से रहित और शान्त है — वह ब्रह्म से एकत्व के योग्य हो जाता है।
53ब्रह्म से एक होकर और अन्तःकरण में शान्ति प्राप्त करके मनुष्य न शोक करता है, न कामना। समस्त प्राणियों को समान देखते हुए वह मेरी परम भक्ति को प्राप्त करता है।
54भक्ति के द्वारा वह मुझे यथार्थ रूप से जान लेता है — मैं क्या हूँ और कौन हूँ। तब मुझे यथार्थ रूप से जानकर वह तत्काल मुझमें प्रवेश कर जाता है।
55सब समय समस्त कर्म करते हुए भी ऐसा पुरुष मेरा आश्रय लेकर मेरी कृपा से उस पद को प्राप्त करता है जो सनातन और अविनाशी है।
56समस्त कर्म मन से मुझे अर्पित करके, समाधि का आश्रय लेकर और मुझमें भक्ति रखकर अपना चित्त निरन्तर मुझमें लगाओ।
57मुझमें चित्त लगाकर तुम मेरी कृपा से समस्त कठिनाइयों को पार कर जाओगे। किन्तु यदि तुम अहंकार से मेरी बात नहीं सुनोगे, तो निश्चय ही नष्ट हो जाओगे।
58यदि अहंकार से तुम यह सोचते हो कि "मैं युद्ध नहीं करूँगा", तो तुम्हारा यह निश्चय व्यर्थ होगा; क्योंकि प्रकृति निश्चय ही तुम्हें अपने वश में कर लेगी।
59प्रकृति के द्वारा नियत अपने ही कर्म से बँधे हुए तुम, जिस कर्म को मोहवश करना नहीं चाहते, उसे भी विवश होकर करोगे।
60हे अर्जुन, ईश्वर समस्त प्राणियों के हृदय में स्थित होकर, मानो यन्त्र पर आरूढ़ होकर, अपनी माया से उन्हें जैसे चाहते हैं वैसे घुमाते हैं।
61हे भारत, सब प्रकार से उन्हीं की शरण लो। उनकी कृपा से तुम परम शान्ति और सनातन पद प्राप्त करोगे।
62इस प्रकार मैंने तुमसे वह ज्ञान कहा जो समस्त रहस्यों से भी अधिक रहस्यमय है। इस पर भली-भाँति विचार करो, और फिर जैसा चाहो वैसा करो।
63एक बार फिर मेरे परम वचन सुनो, जो समस्त रहस्यों में सबसे बड़ा रहस्य है। तुम मुझे अत्यन्त प्रिय हो; इसलिए मैं तुमसे वही कहता हूँ जो तुम्हारे लिए हितकर है।
64अपना हृदय मुझमें लगाओ, मेरे भक्त बनो, मेरे लिए यज्ञ करो, मुझे प्रणाम करो — तब तुम मुझे प्राप्त होगे। मैं तुमसे सत्य कहता हूँ, क्योंकि तुम मुझे अत्यन्त प्रिय हो।
65समस्त धर्मों को छोड़कर मेरी शरण में आओ, केवल मेरी ही शरण में आओ। मैं तुम्हें समस्त पापों से मुक्त कर दूँगा। शोक मत करो।
66तुमसे कहा गया यह ज्ञान उसे कभी नहीं बताना चाहिए जो तप नहीं करता, जो भक्त नहीं है, जो कभी गुरु की सेवा नहीं करता, और जो सदा मेरी निन्दा करता है।
67जो मुझमें परम भक्ति अर्पित करते हुए मेरे भक्तों को यह परम ज्ञान सिखाएगा, वह समस्त संशयों से मुक्त होकर मुझे प्राप्त होगा।
68मनुष्यों में उससे बढ़कर मुझे प्रिय और कोई नहीं हो सकता। इस पृथ्वी पर उससे बढ़कर मेरी सेवा करने वाला भी और कोई नहीं हो सकता।
69और जो हम दोनों के इस पवित्र संवाद का अध्ययन करेगा, वह मुझे ज्ञानयज्ञ अर्पित करेगा — यही मेरा मत है।
70और जो श्रद्धापूर्वक तथा दोषदृष्टि से रहित होकर इसे सुनेगा, वह भी (जन्म के बन्धन से) मुक्त होकर पुण्यकर्म करने वालों के मंगलमय लोक को प्राप्त करेगा।
71हे पार्थ, क्या तुमने यह ज्ञान अन्य किसी वस्तु की ओर मन लगाए बिना सुना? हे धनंजय, क्या अज्ञान से उत्पन्न तुम्हारा मोह नष्ट हो गया?
72अर्जुन ने कहा — हे अच्युत, आपकी कृपा से मेरा मोह चला गया, अब मैं जान गया कि मैं क्या हूँ। अब मैं स्थिर हूँ। मेरे संशय दूर हो गए। मैं आपकी आज्ञा मानूँगा। मैं आपका कहा करूँगा।
73संजय ने कहा — हे राजन्, इस प्रकार मैंने वासुदेव और पार्थ के ये अद्भुत तथा रोमांचकारी वचन सुने।
74व्यास की कृपा से मैंने स्वयं योगेश्वर श्रीकृष्ण के मुख से ही यह रहस्यमय, महान् और श्रेष्ठ वचन सुना।
75हे राजन्, श्रीकृष्ण और अर्जुन के बीच के उस पवित्र और अद्भुत संवाद को जितना-जितना मैं स्मरण करता हूँ, उतना-उतना मुझे अधिक आनन्द होता है।
76हे राजन्, श्रीकृष्ण के उस अद्भुत रूप को जितना-जितना मैं स्मरण करता हूँ, उतना-उतना मुझे अधिक आनन्द होता है।
77जहाँ योगेश्वर श्रीकृष्ण और महान् धनुर्धर अर्जुन हैं, वहाँ निश्चय ही श्री, विजय और कीर्ति हैं।
नेपाली
1अर्जुनले भने — हे महाबाहु, म संन्यास र त्यागको यथार्थ स्वरूप जान्न चाहन्छु। हे केशिनिषूदन, म यिनलाई छुट्टाछुट्टै जान्न चाहन्छु।
2श्रीभगवान्ले भने — कामनाले गरिने कर्मको त्यागलाई विद्वान्हरूले संन्यास भन्दछन्। तर सम्पूर्ण कर्मको फलको कामनाको त्यागलाई विवेकी पुरुषले त्याग भन्दछन्।
3कोही मनीषीहरूले भन्दछन् कि कर्मलाई दोषयुक्त मानी त्यसको त्याग गर्नुपर्छ; अरूले भन्दछन् कि यज्ञ, दान र तपका कर्मको त्याग गर्नु हुँदैन।
4हे भरतश्रेष्ठ, त्यागको विषयमा मेरो मत सुन; किनभने हे पुरुषश्रेष्ठ, त्याग तीन प्रकारको छ।
5यज्ञ, दान र तपका कर्मको त्याग गर्नु हुँदैन। ती अवश्य गर्नुपर्छ, किनभने यज्ञ, दान र तप मनीषीहरूलाई पवित्र पार्ने साधन हुन्।
6तर यी कर्म आसक्तिबिना र फलको कामनाबिना गरिनुपर्छ। हे पार्थ, यही मेरो निश्चित मत हो।
7नियत कर्मको त्याग उचित छैन। त्यो मोहको परिणाम हो र तमोगुणबाट उत्पन्न हुन्छ।
8जब शारीरिक भयले र कष्टको विचारले कर्मको त्याग गरिन्छ, तब त्यस्तो त्याग रजोगुणबाट उत्पन्न हुन्छ, र त्यस्तो त्याग गर्नेले त्यागको फल कहिल्यै पाउँदैन।
9हे अर्जुन, शास्त्रमा विहित भएकाले गरिएका कर्ममा आसक्ति र फलको त्याग सात्त्विक गुणको मानिन्छ।
10जसमा त्यस्तो त्याग छ, त्यो बुद्धिमान् र संशयरहित पुरुषले अप्रिय कर्मसँग द्वेष गर्दैन र प्रिय कर्ममा आसक्त हुँदैन।
11मनुष्यद्वारा कर्मको पूर्ण रूपमा त्याग सम्भव छैन; त्यसैले जसले कर्मफलको त्याग गर्दछ, उही साँचो त्यागी हो।
12जसले कर्मफलको कामनाको त्याग गर्दैनन्, तिनीहरूलाई मृत्युपछि तीन प्रकारका फल मिल्दछन् — शुभ, अशुभ र मिश्रित।
13हे महाबाहु, मबाट सुन — (म तिमीलाई भन्नेछु) कर्मको सिद्धिका ती पाँच कारण, जो कर्मको अन्त्यको विवेचन गर्ने साङ्ख्यमा भनिएका छन्।
14अधिष्ठान (शरीर), कर्ता (मन), करण (शारीरिक इन्द्रिय), चेष्टा (प्राण) र दैव (इन्द्रिय) — यी पाँच कारण हुन्।
15मनुष्यले शरीर, वाणी अथवा मनले जे-जति शुभ अथवा अशुभ कर्म गर्दछ, त्यसका यिनै पाँच कारण हुन्छन्।
16यस्तो हुँदाहुँदै पनि जसले आफ्नो अपरिष्कृत बुद्धि र मन्द चित्तका कारण आफूलाई नै सम्पूर्ण कर्मको एकमात्र कर्ता देख्दछ, उसले केही पनि देख्दैन।
17जसमा अहङ्कार छैन र जसको बुद्धि लिप्त छैन, उसले यी सम्पूर्ण मानिसलाई मारेर पनि न मार्दछ, न कर्मले बाँधिन्छ।
18ज्ञान, ज्ञेय (जान्नुपर्ने वस्तु) र ज्ञाता — यी कर्मका तीन प्रकारका प्रेरणा हुन्। करण, कर्म र कर्ता — यी कर्मका तीन प्रकारका अङ्ग हुन्।
19गुणको भेदअनुसार ज्ञान, कर्म र कर्ताको तीन-तीन प्रकारको गणना छ। अब ती सुन।
20सात्त्विक ज्ञान त्यो हो जसद्वारा विभक्त वस्तुहरूमा अविभक्त एउटै सनातन तत्त्व सम्पूर्ण वस्तुमा देखिन्छ।
21राजस ज्ञान त्यो हो जसले पृथक्ताका कारण भिन्न-भिन्न वस्तुमा भिन्न-भिन्न तत्त्व देख्दछ।
22तामस ज्ञान त्यो हो जसले प्रत्येक एउटै वस्तुलाई नै सम्पूर्ण ठान्दछ, जो युक्तिरहित र सत्यरहित छ, तथा जो तुच्छ र नीच छ।
23सात्त्विक कर्म त्यो हो जो शास्त्रमा विहित छ, जो आसक्ति, राग अथवा द्वेषबिना गरिन्छ, र जसमा कर्तालाई कुनै फलको कामना हुँदैन।
24राजस कर्म त्यो हो जो अत्यन्त क्लेशका साथ गरिन्छ र जो कर्मफलको कामना राख्ने तथा अहङ्कारले भरिएको पुरुषले गर्दछ।
25तामस कर्म त्यो हो जो मोहले, परिणामको विचार नगरी, तथा आफ्नो र अरूको नाश र हानि नहेरी गरिन्छ।
26सात्त्विक कर्ता त्यो हो जो आसक्ति र अहङ्कारबाट मुक्त छ, जो धैर्य र उत्साहले भरिएको छ, र जो सिद्धि तथा असिद्धि दुवैमा विचलित हुँदैन।
27राजस कर्ता त्यो हो जो रागले भरिएको छ, जसले कर्मफलको कामना गर्दछ, जो लोभी, क्रूर र अपवित्र छ, तथा जसले हर्ष र शोक दुवैको अनुभव गर्दछ।
28तामस कर्ता त्यो हो जो अनुद्योगी छ, जो विवेकहीन छ, जो हठी, कपटी, अरूको अनिष्ट गर्ने, अल्छी, विषादग्रस्त र दीर्घसूत्री छ।
29हे धनञ्जय, अब बुद्धि र धृतिका तीन प्रकारका भेद सुन। म यस विषयमा तिमीलाई विस्तारपूर्वक र छुट्टाछुट्टै भन्नेछु।
30हे पार्थ, सात्त्विक बुद्धि त्यो हो जसले प्रवृत्ति र निवृत्तिलाई, कर्तव्य र अकर्तव्यलाई जान्दछ, तथा जसले भय र अभयलाई, बन्धन र मोक्षलाई जान्दछ।
31हे पार्थ, राजस बुद्धि त्यो हो जसद्वारा मनुष्यले धर्म र अधर्मलाई तथा कर्तव्य र अकर्तव्यलाई अपूर्ण रूपमा जान्दछ।
32हे पार्थ, तामस बुद्धि त्यो हो जसद्वारा अज्ञानले आवृत भई मनुष्यले अधर्मलाई धर्म ठान्दछ र सम्पूर्ण वस्तुलाई उल्टो देख्दछ।
33हे पार्थ, सात्त्विक धृति त्यो हो जसद्वारा मनुष्यले योगले मन, प्राण र इन्द्रियको व्यापारलाई वशमा राख्दछ।
34हे पार्थ, राजस धृति त्यो हो जसद्वारा मनुष्यले आसक्तिले, फलको कामना गर्दै, धर्म र अर्थलाई समातिरहन्छ।
35हे पार्थ, तामस धृति त्यो हो जसद्वारा अविवेकी पुरुषले निद्रा, भय, शोक, विषाद र मूढतालाई छोड्दैन।
36हे भरतश्रेष्ठ, अब मबाट सुन कि सुख कति प्रकारको छ। सात्त्विक सुख त्यो हो जसमा मनुष्यले अभ्यासको बारम्बार दोहोर्याइबाट आनन्द पाउँछ, जसले सम्पूर्ण दुःखको अन्त्य गरिदिन्छ, जो आरम्भमा विषसमान तर पछि अमृतसमान हुन्छ, जो प्रसन्नताबाट उत्पन्न हुन्छ र ज्ञानबाट जन्म लिन्छ।
37राजस सुख त्यो हो जो इन्द्रियको आफ्ना विषयसँगको सम्पर्कबाट उत्पन्न हुन्छ र जो आरम्भमा अमृतसमान र पछि विषसमान हुन्छ।
38तामस सुख त्यो हो जो आरम्भमा र परिणाममा पनि आत्मालाई मोहित पार्दछ, र जो निद्रा, आलस्य तथा मूढताबाट उत्पन्न हुन्छ।
39पृथ्वीका प्राणीहरूमा अथवा स्वर्गका देवताहरूमा त्यस्तो कोही छैन जो प्रकृतिबाट उत्पन्न यी तीन गुणबाट मुक्त होस्।
40हे परन्तप, ब्राह्मण, क्षत्रिय, वैश्य र शूद्रका कर्म प्रकृतिबाट उत्पन्न यिनै तीन गुणद्वारा छुट्टाछुट्टै गरिएका छन्।
41शम, दम, तप, शौच, क्षमा, सरलता, ज्ञान, विज्ञान (अनुभव) र आस्तिकता — यी ब्राह्मणका लक्षण हुन्।
42शौर्य, तेज, धैर्य, दक्षता, युद्धमा स्थिरता, दानशीलता र प्रभुत्व — यी क्षत्रियका लक्षण हुन्।
43कृषि, गोपालन र वाणिज्य — यी वैश्यका कर्म हुन्। शूद्रको स्वाभाविक कर्म सेवा हो।
44प्रत्येक मनुष्य यदि आफ्नो स्वाभाविक कर्ममा लाग्दछ भने, सिद्धि प्राप्त गर्दछ। सुन, मनुष्यले आफ्ना स्वाभाविक कर्म गर्दै कसरी सिद्धि प्राप्त गर्दछ।
45जसबाट सम्पूर्ण प्राणीको जीवन छ र जसबाट यो सारा जगत् व्याप्त छ, उहाँको आफ्नो कर्मको आचरणद्वारा उपासना गरेर मनुष्यले निश्चय नै सिद्धि प्राप्त गर्दछ।
46राम्ररी गरिएको अर्काको धर्मभन्दा आफ्नो धर्म, यद्यपि अपूर्ण रूपमा गरिएको होस्, श्रेष्ठ छ। प्रकृतिद्वारा नियत आफ्नो कर्म गर्दै मनुष्य पापको भागी हुँदैन।
47हे कुन्तीपुत्र, मनुष्यले आफ्ना स्वाभाविक कर्मको त्याग गर्नु हुँदैन, ती जतिसुकै दोषयुक्त किन नहोऊन् — किनभने सम्पूर्ण कर्म दोषले त्यसै गरी आवृत छन् जसरी अग्नि धुवाँले।
48जसको मन कुनै वस्तुमा आसक्त छैन, जसले आफूलाई जितेको छ र जसको कामना गइसकेको छ, उसले संन्यासद्वारा निष्कर्मताको परम सिद्धि प्राप्त गर्दछ।
49हे कुन्तीपुत्र, सङ्क्षेपमा सुन कि सिद्धि प्राप्त गरेर मनुष्यले कसरी ब्रह्म, ज्ञानको परम निष्ठा, प्राप्त गर्दछ।
50शुद्ध बुद्धिले युक्त भई, धैर्यले आफूलाई संयमित गरी, इन्द्रियका सम्पूर्ण विषयको त्याग गरी तथा राग र द्वेष छोडेर —
51— जो एकान्त स्थानमा बस्दछ, थोरै खान्छ, आफ्नो वाणी, शरीर र मनलाई संयमित राख्दछ, जो सधैँ ध्यान र समाधिमा तत्पर रहन्छ, जो उदासीन छ;
52— जो अहङ्कार, हिंसा, दर्प, काम, क्रोध र परिग्रहबाट मुक्त छ, जो ममतारहित र शान्त छ — ऊ ब्रह्मसँगको एकत्वका लागि योग्य हुन्छ।
53ब्रह्मसँग एक भई र अन्तःकरणमा शान्ति प्राप्त गरी मनुष्यले न शोक गर्दछ, न कामना। सम्पूर्ण प्राणीलाई समान देख्दै उसले मेरो परम भक्ति प्राप्त गर्दछ।
54भक्तिद्वारा उसले मलाई यथार्थ रूपमा जान्दछ — म के हुँ र को हुँ। तब मलाई यथार्थ रूपमा जानेर ऊ तत्काल ममा प्रवेश गर्दछ।
55सधैँ सम्पूर्ण कर्म गर्दागर्दै पनि त्यस्तो पुरुषले मेरो आश्रय लिएर मेरो कृपाले त्यो पद प्राप्त गर्दछ जो सनातन र अविनाशी छ।
56सम्पूर्ण कर्म मनले मलाई अर्पण गरेर, समाधिको आश्रय लिएर र ममा भक्ति राखेर आफ्नो चित्त निरन्तर ममा लगाऊ।
57ममा चित्त लगाएर तिमीले मेरो कृपाले सम्पूर्ण कठिनाइ पार गर्नेछौ। तर यदि तिमीले अहङ्कारले मेरो कुरा सुनेनौ भने, निश्चय नै नष्ट हुनेछौ।
58यदि अहङ्कारले तिमी यो सोच्दछौ कि "म युद्ध गर्दिनँ", भने तिम्रो यो निश्चय व्यर्थ हुनेछ; किनभने प्रकृतिले निश्चय नै तिमीलाई आफ्नो वशमा पार्नेछ।
59प्रकृतिद्वारा नियत आफ्नै कर्मले बाँधिएका तिमीले, जुन कर्म मोहवश गर्न चाहँदैनौ, त्यो पनि विवश भई गर्नेछौ।
60हे अर्जुन, ईश्वर सम्पूर्ण प्राणीको हृदयमा स्थित भई, मानौँ यन्त्रमा आरूढ भई, आफ्नो मायाले तिनीहरूलाई जसरी चाहनुहुन्छ त्यसै गरी घुमाउनुहुन्छ।
61हे भारत, सबै प्रकारले उहाँकै शरण लेऊ। उहाँको कृपाले तिमीले परम शान्ति र सनातन पद प्राप्त गर्नेछौ।
62यसरी मैले तिमीलाई त्यो ज्ञान भनेँ जो सम्पूर्ण रहस्यभन्दा पनि बढी रहस्यमय छ। यसमा राम्ररी विचार गर, र त्यसपछि जस्तो चाहन्छौ त्यस्तै गर।
63एक पटक फेरि मेरा परम वचन सुन, जो सम्पूर्ण रहस्यमा सबैभन्दा ठूलो रहस्य हो। तिमी मलाई अत्यन्त प्रिय छौ; त्यसैले म तिमीलाई त्यही भन्दछु जो तिम्रा लागि हितकर छ।
64आफ्नो हृदय ममा लगाऊ, मेरा भक्त बन, मेरा लागि यज्ञ गर, मलाई प्रणाम गर — तब तिमीले मलाई प्राप्त गर्नेछौ। म तिमीलाई सत्य भन्दछु, किनभने तिमी मलाई अत्यन्त प्रिय छौ।
65सम्पूर्ण धर्म छोडेर मेरो शरणमा आऊ, केवल मेरै शरणमा आऊ। म तिमीलाई सम्पूर्ण पापबाट मुक्त पारिदिनेछु। शोक नगर।
66तिमीलाई भनिएको यो ज्ञान त्यसलाई कहिल्यै भन्नु हुँदैन जसले तप गर्दैन, जो भक्त होइन, जसले कहिल्यै गुरुको सेवा गर्दैन, र जसले सधैँ मेरो निन्दा गर्दछ।
67जसले ममा परम भक्ति अर्पण गर्दै मेरा भक्तहरूलाई यो परम ज्ञान सिकाउनेछ, ऊ सम्पूर्ण संशयबाट मुक्त भई मलाई प्राप्त गर्नेछ।
68मनुष्यहरूमा उसभन्दा बढी मलाई प्रिय अरू कोही हुन सक्दैन। यस पृथ्वीमा उसभन्दा बढी मेरो सेवा गर्ने पनि अरू कोही हुन सक्दैन।
69र जसले हामी दुवैको यस पवित्र संवादको अध्ययन गर्नेछ, उसले मलाई ज्ञानयज्ञ अर्पण गर्नेछ — यही मेरो मत हो।
70र जसले श्रद्धापूर्वक तथा दोषदृष्टिरहित भई यो सुन्नेछ, उसले पनि (जन्मको बन्धनबाट) मुक्त भई पुण्यकर्म गर्नेहरूको मङ्गलमय लोक प्राप्त गर्नेछ।
71हे पार्थ, के तिमीले यो ज्ञान अरू कुनै वस्तुतिर मन नलगाई सुन्यौ? हे धनञ्जय, के अज्ञानबाट उत्पन्न तिम्रो मोह नष्ट भयो?
72अर्जुनले भने — हे अच्युत, तपाईंको कृपाले मेरो मोह गयो, अब म जानेँ कि म के हुँ। अब म स्थिर छु। मेरा संशय हटे। म तपाईंको आज्ञा मान्नेछु। म तपाईंले भनेको गर्नेछु।
73सञ्जयले भने — हे राजन्, यसरी मैले वासुदेव र पार्थका यी अद्भुत तथा रोमाञ्चकारी वचन सुनेँ।
74व्यासको कृपाले मैले आफैँ योगेश्वर श्रीकृष्णको मुखबाटै यो रहस्यमय, महान् र श्रेष्ठ वचन सुनेँ।
75हे राजन्, श्रीकृष्ण र अर्जुनबीचको त्यस पवित्र र अद्भुत संवादलाई जति-जति म स्मरण गर्दछु, त्यति-त्यति मलाई बढी आनन्द हुन्छ।
76हे राजन्, श्रीकृष्णको त्यस अद्भुत रूपलाई जति-जति म स्मरण गर्दछु, त्यति-त्यति मलाई बढी आनन्द हुन्छ।
77जहाँ योगेश्वर श्रीकृष्ण र महान् धनुर्धर अर्जुन छन्, त्यहाँ निश्चय नै श्री, विजय र कीर्ति छन्।