भगवद्गीता पर्व — धृतराष्ट्र के प्रश्न
खण्ड 4 — भीष्म पर्व · अध्याय 14
संस्कृत
1धृतराष्ट्र उवाच कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना। कथं रथात् स न्यपतत् पिता मे वासवोपमः॥
2कथमाचक्ष्व मे योधा हीना भीष्मेण संजय। बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा॥
3तस्मिन् हते महाप्राज्ञे महेष्वासे महाबले। महासत्त्वे नरव्याने किम आसीन्मनस्तव॥
4आर्ति परामाविशति मनः शंससि मे हतम्। कुरूणामृषभं वीरमकम्पं पुरुषर्षभम्॥
5के तं यान्तमनुप्राप्ता के वास्यासन् पुरोगमाः। केऽतिष्ठन् के न्यवर्तन्त केऽन्ववर्तन्त संजय॥
6के शूरा रथशार्दूलमद्भुतं क्षत्रियर्षभम्। तथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः॥
7यस्तमोऽर्क इवापोहन् परसैन्यममित्रहा। सहस्ररश्मिप्रतिमः परेषां भयमादधत्॥ अकरोद् दुष्करं कर्म रणे पाण्डुसुतेषु यः। ग्रसमानमनीकानि य एनं पर्यवारयन्॥
8कृतिनं तं दुराधर्षं संजयास्य त्वमन्तिके। कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन्॥
9निकृन्तन्तमनीकानि शरदंष्ट्र मनस्विनम्। चापव्यात्ताननं घोरमसिजिह्व दुरासदम्॥ अनर्ह पुरुषव्याघ्रं ह्रीमन्तमपराजितम्। पातयामास कौन्तेयः कथं तमजितं युधि॥ उग्रधन्वानमुग्रेषु वर्तमानं रथोत्तमे। परेषामुत्तमाङ्गानि प्रचिन्वन्तमथेषुभिः॥ पाण्डवानां महत् सैन्यं यं दृष्ट्वोद्यतमाहवे। कालाग्निमिव दुर्धर्षं समचेष्टत नित्यशः॥
10परिकृष्य स सेनां तु दशरात्रमनीकहा। जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्॥
11यः स शक्र इवाक्षय्यं वर्ष शरमयं क्षिपन्। जघान युधि योधानामर्बुद दशभिर्दिनैः॥ स शेते निहतो भूमौ वातभुग्न इव दुमः। मम दुर्मन्त्रितेनाजौ यथा नार्हति भारत॥
12कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी। प्रहर्तुमशकत् तत्र भीष्म भीमपराक्रमम्॥
13कथं भीष्मेण संग्रामं प्राकुर्वन् पाण्डुनन्दनाः। कथं च नाजयद् भीष्मो द्रोणे जीवति संजय॥
14कृपे संनिहिते तत्र भरद्वाजात्मजे तथा। भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः॥
15कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना। भीष्मो विनिहतो युद्धे देवैरपि दुरासदः॥
16यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम्। अजितं जामदग्न्येन शक्रतुल्यपराक्रमम्॥ तं हतं समरे भीष्मं महारथकुलोदितम्। संजयाचक्ष्व मे वीरं येन शर्म न विद्महे॥
17मामकाः के महेष्वासा नाजहुः संजयाच्युतम्। दुर्योधनसमादिष्टाः के वीराः पर्यवारयन्॥
18यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः। कच्चित् ते कुरवः सर्वे नाजहुः संजयाच्युतम्॥
19अश्मसारमयं नूनं हृदयं सुदृढं मम। यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते॥
20यस्मिन् सत्यं च मेधा च नीतिश्च भरतर्षभे। अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि॥
21मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान्। धनुर्हादमहाशब्दो महामेघ इवोन्नतः॥ योऽभ्यवर्षत कौन्तेयान् सपाञ्चालान् ससृजयान्। निघ्नन् पररथान् वीरो दानवानिव वज्रभृत्॥
22इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम्। कार्मुकोर्मिणमक्षय्यमद्वीपं चलमप्लवम्॥ गदासिमकरावासं हयावर्तं गजाकुलम्। पदातिमत्स्यकलिलं शङ्खदुन्दुभिनि:स्वनम्॥ हयान् गजपदातींश्च रथांश्च तरसा बहून्। जिमज्जयन्तं समरे परवीरापहारिणम्॥ विदह्यमानं कोपेन तेजसा च परंतयम्। वेलेव मकरावासं के वीराः पर्यवारयन्॥
23भीष्मो यदकरोत् कर्म समरे संजयारिहा। दुर्योधनहितार्थाय के तस्यास्य पुरोऽभवन्॥
24पुरस्तादवर्तन्त केऽरक्षन् दक्षिणं चक्र भीष्मस्यामिततेजसः। पृष्ठतः के परान् वीरानपासेधन् यतव्रताः॥
25के रक्षन्तो भीष्ममन्तिके। केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः॥
26वामे चक्रे वर्तमाना: केऽध्न संजय सुंजयान्। अग्रतोऽग्र्यमनीकेषु केऽभ्यरक्षन् दुरासदम्॥
27पार्श्वत: केऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम्। समूहे के परान् वीरान् प्रत्ययुध्यन्त संजय॥
28रक्ष्यमाणः कथं वीरैर्गोप्यमानाच तेन ते। दुर्जयानामनीकानि नाजयंस्तरसा युधि॥
29सर्वलोकेश्वरस्येव परमेष्ठीप्रजापतेः। कथं प्रहर्तुमपि ते शेकुः संजय पाण्डवाः॥
30यस्मिन् द्वीपे समाश्वस्य युध्यन्ते कुरवः परैः। तं निमग्नं नरव्याघ्र भीष्मं शंससि संजय॥
31यस्य वीर्यं समाश्रित्य मम पुत्रो बृहद्बलः। न पाण्डवानगणयत् कथं स निहतः परैः॥
32यः पुरा विबुधैः सर्वैः सहाये युद्धदुर्मदः। काक्षितो दानवान् उद्भिः पिता मम महाव्रतः॥
33यस्मिञ्जाते महावीर्ये शान्तनुर्लोकविश्रुतः। शोकं दैन्य च दुःखं च प्राजहात् पुत्रलक्ष्मणि॥ प्रोक्तं परायणं प्राज्ञं स्वधर्मनिरतं शुचिम्। वेदवेदाङ्गत्तत्त्वज्ञं कथं शंससि मे हतम्॥
34सर्वास्त्रविनयोपेतं शान्तं दान्तं मनस्विनम्। हतं शान्तनवं श्रुत्वा मन्ये शेषं हतं बलम्॥
35धर्मादधर्मो बलवान् सम्प्राप्त इति मे मतिः। यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः॥
36जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः। अम्बार्थमुद्यतः संख्ये भीष्मेण युधि निर्जितः॥
37तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम्। हत शंससि मे भीष्मं किं नु दुःखमतः परम्॥
38असकृत् क्षत्रियवाताः संख्ये येन विनिर्जिताः। जामदग्न्येन वीरेण परवीरनिघातिना॥
39न हतो यो महाबुद्धिः सहतोऽद्य शिखण्डिना। तस्मानूनं महावीर्याद्भार्गवाद् युद्धदुर्मदात्॥ तेजोवीर्यबलैर्भूयान् शिखण्डी द्रुपदात्मजः। यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम्॥ परमास्त्रविदं वीरं जघान भरतर्षभम्। के वीरास्तममित्रघ्नमन्वयुः शस्त्रसंसदि॥
40शंस मे तद् यथा चासीद् युद्धं भीष्मस्य पाण्डवैः। योषेव हतवीरा मे सेना पुत्रस्य संजय॥
41अगोपमिव चोद्भ्रान्तं गोकुलं तद् बलं मम। पौरुषं सर्वलोकस्य परं यस्मिन् महाहवे॥ परासक्ते च वस्तस्मिन् कथमासीन्मनस्तदा। जीवितेऽप्यद्य सामर्थ्य किमिवास्मासु संजय॥
42घातयित्वा महावीर्यं पितरं लोकधार्मिकम्। अगाधे सलिले मग्नां नावं दृष्ट्व पारगाः॥
43भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः। अद्रिसारमयं नूनं हृदयं मम संजय॥
44यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते। यस्मिन्नस्त्राणि मेधा च नीतिश्च पुरुषर्षभे॥
45अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि। न चास्त्रेण न शौर्येण तपसा मेधया न च॥
46न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद् विमुच्यते। कालो नूनं महावीर्यः सर्वलोकदुरत्ययः॥
47यत्र शान्तनवं भीष्मं हतं शंससि संजय। पुत्रशोकाभिसंतप्तो महद् दुःखमचिन्तयम्॥ आशंसेऽहं परंत्राणं भीष्माच्छान्तनुनन्दनात्। यदाऽऽदित्यमिवापश्यत् पतितं भुवि संजय॥ दुर्योधनः शान्तनवं किं तदा प्रत्यपद्यत। नाहं स्वेषां परेषां वा बुद्ध्या संजय चिन्तयन्॥ शेषं किंचित् प्रपश्यामि प्रत्यनीके महीक्षिताम्। दारुणः क्षत्रधर्मोऽयमृषिभिः सम्प्रदर्शितः॥ यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः। वयं वा राज्यमिच्छामो घातयित्वा महाव्रतम्॥
48क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः। एतदार्येण कर्तव्यः कृच्छ्रास्वापत्सु संजय॥
49पराक्रमः परा शक्त्या तत् तु तस्मिन् प्रतिष्ठितम्। अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम्॥ कथं शान्तनवं तात पाण्डुपुत्रा न्यवारयन्। कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः॥
50कथं वा निहतो भीष्मः पिता संजय मे परैः। दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः॥
51दुःशासनश्च कितवो हते भीष्मे किमब्रुवन्। यच्छरीरैरुपास्तीर्णां नरवारणवाजिनाम्॥ शरशक्तिमहाखड्गतोमराक्षां महाभयाम्। प्राविशन् कितवा मन्दाः सभां युद्धदुरासदाम्॥ प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः। के जीयन्ते जितास्तत्र कृतलक्ष्या निपातिताः॥ अन्ये भीष्माच्छान्तनवात् तन्ममाचक्ष्व संजय। न हि मे शान्तिरस्तीह श्रुत्वा देवव्रतं हतम्॥ पितरं भीमकर्माणं भीष्ममाहवशोभिनम्। आति मे हृदये रूढां महती पुत्रहानिजाम्॥
52त्वं हि मे सर्पिषेवाग्निमुद्दीपयसि संजय। महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम्॥ दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः। श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम्॥
53तस्मान्मे सर्वमाचक्ष्व यद् वृत्तं तत्र संजय। यद् वृत्तं तत्र संग्रामे मन्दस्याबुद्धिसम्भवम्॥
54अपनीतं सुनीतं यत् तन्ममाचक्ष्व संजय। यत् कृतं तत्र संग्रामे भीष्मेण जयमिच्छता॥ तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः। तथा तदभवद् युद्धं कुरुपाण्डवसेनयोः॥ क्रमेण येन यस्मिंश्च काले यच्च यथाऽभवत्॥
अंग्रेज़ी
1Dhritarashtra said How has that foremost of all the Kurus Bhishma been killed by Shikhandi? How did my sire (Bhishma) who was like a second Indra fall down from his car?
2O Sanjaya, what happened to my sons when they were deprived of the powerful Bhishma who was like a god and who led a life of celibacy for his father?
3On the fall of that foremost of men Bhishma who possessed great wisdom, great ability for action, great powers and great energy what did our warriors thinks in their ininds?
4Hearing that the foremost of men, the best of the Kurus, the unwavering hero (Bhishma) is killed, my heart is possessed by great grief. sun
5When he advanced who followed him and who went in front? Who stood by his side and who advanced with him?
6Who arc those brave warriors that followed that foremost of all car-warriors, that great bowman, that best of the Kshatriya (Bhishma) when he penetrated into the ranks of the enemy?
7When he attacked the enemy's rank who were the warriors that opposed the chastiser of foes who resembled the and who, spreading terror among the foes destroyed their ranks as the sun destroys darkness, and who achieved exceedingly difficult feats amongst the ranks of the Pandavas?
8O Sanjaya, how did the Pandavas oppose in battle that invincible son of Shantanu that accomplished warrior when he attacked them?
9How did Kunti's son overthrow in battle that unconquerable one, that fearful bowman scattering fearful arrows, and cutting off the enemies, heads, that invincible hero, modest in every thing, that foremost of all men, stationed on his chariot that hero, having arrows for his teeth, with bow for his wide open mouth, with the terrible sword for his tongue; how was be overthrown, who was never vanquished before and who did not deserve such a fate, that warrior who was as irresistible as the fire of dissolution and seeing whom in battle the great army of the Pandavas were ever filled with terror?
10Destroying the enemy's troops for ten days that slayer of heroes, having achieved most difficult feats, has now set like the sun.
11As the result of my evil counsels, that scion of the Bharata race, scattering like Indra himself an inexhaustible shower of arrows, killed in battle one hundred millions of warriors in ten days. He now lies on the bare ground though he deserved it not on the field of battle deprived of life like a great tree uprooted by the wind.
12Seeing the son of Shantanu, Bhishma, of fearful prowess, how could the army of the Panchalas strike him down?
13How did the Pandavas fight with Bhishma? O Sanjaya, how is it that Bhishma could not conquer when Drona is still alive.
14When Kripa was near him, when Drona was there, how could Bhishma that foremost of warriors be killed?
15How could Bhishma, who was an Atiratha and who could not be resisted even by the celestial be killed in battle by the Panchala Prince Shikhandin?
16O Sanjaya, he who always considered himself equal to the mighty son of Jamadagni, he whom Jamadagni's son himself could not conquer, he who resembled Indra in prowess, tell me how such a hero, Bhishma, born as he was in the race of Maharathas, was killed in battle. Without knowing all the particulars, I cannot get rest.
17O Sanjaya, (tell me) what great bow men of my army, did not abandon that hero of unfading energy and what brave warriors at the command Duryodhana stood around that hero in order to protect him?
18O Sanjaya, when all the Pandavas with Shikhandin at their head advanced against Bhishma, I hope the Kurus stood by the side of the great hero of immeasurable prowess.
19Hard as my heart is, it is surely made of stone that it does not break on hearing the death of the foremost of men, Bhishma.
20There were truth, intelligence and policy to an immeasurable extent in that irresistible chief of the Bharata race. How could he be killed in battle?
21He was like a mighty cloud, the twang of his bow was the roar of that clouds, the arrows were its showers of rains, and the sound of his bow was its thunder. That hero, showering his arrows on the sons of Kunti along with the Panchalas and Srinjayas who were on their side struck down the hostile car-warriors as the slayer of Bala (Indra) struck down the Danavas.
22Who were the heroes that opposed, as the shore resists the surging sea, that chastiser of foes, who was a fearful ocean of arrows and weapons, an ocean in which arrows were the terrible crocodiles, bows were the waves, maces and swords were the sharks, steeds and elephants were the eddies,, the foot soldiers were like so many thousands fishes, and the sounds of conchs and drums its roars, an inexhaustible and agitated ocean without an island and without a raft to cross it, an ocean that swallowed up horses and elephants and foot soldiers by millions, an ocean that drowned all hostile heroes, and that consumed in wrath, the wrath which was its ocean fire?
23Who were in his front when that chastiser of foes Bhishma achieved great feats in battle for the good of Duryodhana?
24Who were they that protected the right of that immeasurably powerful warrior? Who were they that resisted the enemy's warriors from his rear with patience and energy?
25Who placed themselves just in front of him to protect him? Who were the heroes that protected the front of that brave warrior when he fought?
26Who were they that placed themselves on his left and attacked the Srinjayas? Who were they that protected the irresistible ranks of his advanced guard?
27Who protected the wings of that warrior who has gone away to his last journey? O Sanjaya, who were they that fought with the enemy's warriors in general engagement?
28If he was protected by our warriors and if they protected by him, how is it that he could not defeat in battle the Pandava army, invincible though it was?
29O Sanjaya, how could the Pandavas succeed in striking Bhishma who was like Parameshti himself, that lord and creator of all creatures.
30O Sanjaya, you tell me of the disappearance of Bhishma, that foremost of men who was our main stay and relying on whom, the Kurus were fighting with their enemies.
31Alas, how has that greatly powerful warrior, relying on whose prowess my son never cared for the Pandavas, been (today) killed by the enemy?
32In the day of yore when the celestials were fighting with the Danavas, they sought the help of that invincible hero, my great vowobserving father.
33O Sanjaya, how can you tell me that Bhishma that foremost of all mighty men, that renowned warrior, that great refuge of all, that wise and virtuous man ever devoted to the duties of his order and learned in all the Vedas and their branches, the hero in whose birth Shantanu was freed from all grief, melancholy and sorrow, has been killed?
34Skilled in every weapon, possessing himself gentleness, and great energy with passions under complete control, hearing that such son of Shantanu (Bhishma) is killed, I consider that rest of my army as already slain.
35In my opinion, impiety has now become stronger than piety, for the Pandavas desire sovereignty even killed their venerable Guru.
36In the days of yore. Rama, the son of Jamadagni, skilled in every weapon and whom none excelled, was vanquished by Bhishma in battle when fighting on behalf of Amba.
37You tell me that Bhishma who is the foremost of all warriors and who is equal to Indra in the great deeds he has performed has been killed, what can be a greater grief to me than this?
38That great intelligent one, who was not killed even by that slayer of hostile heroes, that Rama, the son of Jamadagni who defeated in battle all Kshatriyas, has now been killed by Shikhandin,.
39There is no doubt the son of Drupada Shikhandin, who has killed in battle that best of the Bharata race, that hero skilled in the greatest of weapons, that brave and accomplished warrior learned in every weapon, is therefore superior to the invincible and greatly powerful son of Bhrigu (Parashuram) in energy, prowess and might. (Now tell me) who were the warriors that followed the chastiser of focs in that great battle?
40Tell me how the battle was fought between the Pandavas and Bhishma? O Sanjaya, my army, deprived of its hero, is now like a woman without a protector.
41That army is now like a panic-stricken herd of kine deprived of its herdsman. When he who possessed prowess superior to that of every man, has fallen in the field of battle, (I guess) what is the mind of my army. O Sanjaya, what power is there in our life.
42When we have caused our greatly powerful father, that foremost of all virtuous men in the world to be killed? Like a man who, when desirous of crossing the sea, sees the boat sunk down in fathomless water.
43I am sure, my sons are bewailing in grief for the death of Bhishma. O Sanjaya, my heart is surely made of stone.
44For it does not burst even on hearing the death of Bhishma that foremost of all men, in whom were intelligence and policy and skill in arms.
45How has that invincible warrior been killed in battle? Neither by weapons, nor by courage, nor by ascetic merit, nor by intelligence.
46Nor by firmness, nor by gift, can a man free himself from death. The greatly powerful Time cannot be transgressed by any thing in the world.
47When, O Sanjaya, as you tell me the son of Shantanu Bhishma is dead. Burning with grief for my sons, nay overwhelmed with great sorrow I hoped for relief from the son of Shantanu, Bhishma. O Sanjaya when he saw Shantanu's son lying dead on the ground like a sun (dropped from the sky) whom did Duryodhana make his refuge? O Sanjaya, reflecting (all I can) with the help of my understanding, I do not see what the end will be of all those kings who are on my side and those who are on the side of the enemy, those that have joined the opposite parties of the battle. Alas, cruel are the Kshatriya duties as fixed by the Rishis, for the Pandavas desire to obtain the sovereignty by even causing the death of Shantanu's son and we too desire to obtain sovereignty by offering that great vowobserving hero as a sacrifice.
48The sons of Pritha, as well as my sons are all performing the duties of Kshatriyas. Therefore none of them incurs any sin, O Sanjaya, even a very virtuous man should do it when a great calamity comes.
49The display of prowess and the great strength has been considered to be the duty of a Kshatriya. How did the Pandavas oppose my father Bhishma, the son of Shantanu, that invincible but modest hero when he was destroying the troops of the enemy? How were the troops arranged and how did he fight with the illustrious enemies?
50O Sanjaya, how was my father Bhishma killed in battle? Duryodhana, Karna and the great skillful Shakuni, the son of Subala.
51And the wily Dushasana, what did they say when Bhishma was killed? Entering that fearful abode of destructive battles play in which the balls have been made by the men, elephants and horses, in which arrows and javelins and swords and darts have formed the dice, who were those notched gamblers that gamble, by taking their very lives who won, who lost who cast the dice with success and who else have been killed besides the son of Shantanu, Bhishma. Tell me all, O Sanjaya, for hearing that Devavrata (of his men) that father of mine, that hero of fearful deeds, that ornament of battle, Bhishma is killed, peace cannot come to me. Thinking that all my sons would be killed, I am affected with the greatest anguish.
52O Sanjaya, you make my that grief blaze forth as fire with Ghee. Sceing Bhishma, celebrated in all the worlds, who undertook a great task, killed, I am sure my sons are lamenting. I desire to hear all their sorrows that have been produced by Duryodhana's act.
53Therefore, O Sanjaya, tell me all that had happened in the battle, the result of my wicked son's folly.
54O Sanjaya, ill or well, tell me every thing. Tell me all in full and in detail, all that was achieved in the battle of Bhishma ever desirous of victory, by that great warrior skilled in all weapons. How did the battle take place between the armies of the Kurus and the Pandavas and in what manner was the battle fought?
हिन्दी
1धृतराष्ट्र ने कहा — समस्त कुरुओं में श्रेष्ठ वे भीष्म शिखण्डी द्वारा किस प्रकार मारे गए? दूसरे इन्द्र के समान मेरे पिता (भीष्म) अपने रथ से किस प्रकार गिर पड़े?
2हे संजय, जब मेरे पुत्र उन बलशाली भीष्म से वंचित हो गए, जो देवता के समान थे और जिन्होंने अपने पिता के लिए ब्रह्मचर्य का जीवन बिताया, तब उनकी क्या दशा हुई?
3उन नरश्रेष्ठ भीष्म के गिरने पर, जो महान् प्रज्ञा, महान् कर्मक्षमता, महान् शक्ति और महान् ओज से सम्पन्न थे, हमारे योद्धाओं ने अपने मन में क्या सोचा?
4यह सुनकर कि नरश्रेष्ठ, कुरुओं में श्रेष्ठ, वे अविचल वीर (भीष्म) मारे गए, मेरा हृदय महान् शोक से भर गया है।
5जब वे आगे बढ़े, तब उनके पीछे कौन चला और आगे कौन गया? उनके पार्श्व में कौन खड़ा रहा और उनके साथ कौन बढ़ा?
6वे कौन वीर योद्धा थे जो समस्त महारथियों में श्रेष्ठ, उन महान् धनुर्धर, क्षत्रियों में श्रेष्ठ (भीष्म) के पीछे तब चले जब उन्होंने शत्रु की पंक्तियों में प्रवेश किया?
7जब उन्होंने शत्रु की पंक्ति पर आक्रमण किया, तब वे कौन योद्धा थे जिन्होंने उन शत्रुदमन का सामना किया, जो सूर्य के समान थे और जो शत्रुओं में आतंक फैलाते हुए उनकी पंक्तियों को वैसे ही नष्ट करते थे जैसे सूर्य अन्धकार को नष्ट करता है, और जिन्होंने पाण्डवों की पंक्तियों के बीच अत्यन्त दुष्कर पराक्रम किए?
8हे संजय, जब शान्तनु के उन अजेय पुत्र, उन निपुण योद्धा ने पाण्डवों पर आक्रमण किया, तब उन्होंने युद्ध में उनका सामना किस प्रकार किया?
9कुन्तीपुत्र ने युद्ध में उन अजेय को किस प्रकार गिराया — उन भयंकर धनुर्धर को, जो भयंकर बाण बरसाते और शत्रुओं के सिर काटते थे; उन अजेय वीर को, जो प्रत्येक बात में विनम्र थे; उन नरश्रेष्ठ को, जो अपने रथ पर स्थित थे; उन वीर को, जिनके दाँत बाण थे, जिनका खुला हुआ मुख धनुष था, जिनकी जिह्वा भयंकर तलवार थी; उन्हें कैसे गिराया गया, जो पहले कभी पराजित नहीं हुए थे और जो ऐसी नियति के योग्य नहीं थे; उन योद्धा को, जो प्रलयाग्नि के समान अप्रतिरोध्य थे और जिन्हें युद्ध में देखकर पाण्डवों की विशाल सेना सदा आतंक से भर जाती थी?
10दस दिन तक शत्रु की सेनाओं का संहार करते हुए, अत्यन्त दुष्कर पराक्रम करके वे वीरहन्ता अब सूर्य के समान अस्त हो गए।
11मेरी दुष्ट सलाहों के परिणामस्वरूप उन भरतवंशी ने, स्वयं इन्द्र के समान बाणों की अक्षय वर्षा करते हुए, दस दिनों में युद्ध में दस करोड़ योद्धाओं का वध किया। अब वे रणभूमि में प्राणों से रहित होकर नंगी भूमि पर पड़े हैं, यद्यपि वे इसके योग्य नहीं थे — वायु से उखाड़े गए विशाल वृक्ष के समान।
12भयंकर पराक्रम वाले शान्तनुपुत्र भीष्म को देखकर पाञ्चालों की सेना उन्हें किस प्रकार गिरा सकी?
13पाण्डवों ने भीष्म के साथ किस प्रकार युद्ध किया? हे संजय, ऐसा कैसे हुआ कि द्रोण के जीवित रहते हुए भी भीष्म विजय न पा सके?
14जब कृप उनके निकट थे, जब द्रोण वहाँ थे, तब योद्धाओं में श्रेष्ठ भीष्म किस प्रकार मारे जा सके?
15भीष्म, जो अतिरथी थे और जिनका सामना देवता तक नहीं कर सकते थे, वे पाञ्चालकुमार शिखण्डी द्वारा युद्ध में किस प्रकार मारे जा सके?
16हे संजय, जो सदा अपने को जमदग्नि के महाबली पुत्र के समान मानते थे, जिन्हें स्वयं जमदग्निपुत्र भी नहीं जीत सके, जो पराक्रम में इन्द्र के समान थे — मुझे बताओ कि महारथियों के कुल में उत्पन्न ऐसे वीर भीष्म युद्ध में कैसे मारे गए। समस्त विवरण जाने बिना मुझे चैन नहीं मिल सकता।
17हे संजय, (मुझे बताओ) मेरी सेना के कौन-कौन महान् धनुर्धरों ने उन अक्षय ओज वाले वीर का त्याग नहीं किया, और दुर्योधन की आज्ञा से कौन-कौन वीर योद्धा उनकी रक्षा के लिए उनके चारों ओर खड़े रहे?
18हे संजय, जब शिखण्डी को आगे करके समस्त पाण्डव भीष्म के विरुद्ध बढ़े, तब मुझे आशा है कि कुरु उन अपरिमित पराक्रम वाले महान् वीर के पार्श्व में डटे रहे।
19मेरा हृदय जितना कठोर है, वह निश्चय ही पत्थर का बना है, तभी तो नरश्रेष्ठ भीष्म की मृत्यु सुनकर भी वह फटता नहीं।
20भरतवंश के उन अप्रतिरोध्य प्रमुख में सत्य, बुद्धि और नीति — तीनों अपरिमित मात्रा में थे। वे युद्ध में कैसे मारे जा सके?
21वे विशाल मेघ के समान थे, उनके धनुष की टंकार उस मेघ की गर्जना थी, बाण उसकी वर्षा की धाराएँ थीं, और उनके धनुष का शब्द उसका वज्रनाद था। वे वीर कुन्ती के पुत्रों पर तथा उनके पक्ष के पाञ्चालों और सृंजयों पर बाणों की वर्षा करते हुए शत्रुपक्ष के महारथियों को वैसे ही गिराते थे जैसे बल के हन्ता (इन्द्र) दानवों को गिराते थे।
22वे कौन वीर थे जिन्होंने उन शत्रुदमन का सामना वैसे ही किया जैसे तट उमड़ते समुद्र को रोकता है — वे, जो बाणों और शस्त्रों के भयंकर समुद्र थे; ऐसा समुद्र जिसमें बाण भयंकर मगर थे, धनुष तरंगें थीं, गदाएँ और तलवारें शार्क थीं, अश्व और हाथी भँवर थे, पैदल सैनिक सहस्रों मछलियों के समान थे, और शंखों तथा नगाड़ों के नाद उसकी गर्जनाएँ थीं; ऐसा अक्षय और क्षुब्ध समुद्र जिसमें न कोई द्वीप था और न पार करने के लिए कोई बेड़ा; ऐसा समुद्र जो लाखों अश्वों, हाथियों और पैदल सैनिकों को निगल गया; ऐसा समुद्र जिसने समस्त शत्रुवीरों को डुबो दिया और जिसने क्रोध में सबको भस्म कर दिया — वह क्रोध ही जिसकी बड़वाग्नि थी?
23जब वे शत्रुदमन भीष्म दुर्योधन के हित के लिए युद्ध में महान् पराक्रम कर रहे थे, तब उनके सम्मुख कौन थे?
24वे कौन थे जिन्होंने उन अपरिमित शक्तिशाली योद्धा के दक्षिण पार्श्व की रक्षा की? वे कौन थे जिन्होंने धैर्य और ओज के साथ उनके पृष्ठभाग से शत्रु के योद्धाओं को रोका?
25उनकी रक्षा के लिए ठीक उनके सम्मुख कौन खड़े हुए? वे कौन वीर थे जिन्होंने उन वीर योद्धा के लड़ते समय उनके अग्रभाग की रक्षा की?
26वे कौन थे जो उनके वाम पार्श्व में खड़े होकर सृंजयों पर टूट पड़े? वे कौन थे जिन्होंने उनके अग्रिम दल की अप्रतिरोध्य पंक्तियों की रक्षा की?
27जो योद्धा अपनी अन्तिम यात्रा पर चले गए, उनके पार्श्वों की रक्षा किसने की? हे संजय, वे कौन थे जिन्होंने सामान्य युद्ध में शत्रु के योद्धाओं से युद्ध किया?
28यदि हमारे योद्धाओं ने उनकी रक्षा की और यदि उन्होंने हमारे योद्धाओं की रक्षा की, तो ऐसा कैसे हुआ कि वे युद्ध में पाण्डव सेना को — यद्यपि वह अजेय थी — पराजित न कर सके?
29हे संजय, पाण्डव भीष्म पर प्रहार करने में कैसे सफल हुए, जो स्वयं परमेष्ठी के समान थे — उन समस्त प्राणियों के स्वामी और रचयिता के समान?
30हे संजय, तुम मुझसे भीष्म के अन्तर्धान की बात कहते हो — उन नरश्रेष्ठ की, जो हमारे मुख्य आधार थे और जिन पर भरोसा करके कुरु अपने शत्रुओं से युद्ध कर रहे थे।
31हाय! वे महाशक्तिशाली योद्धा, जिनके पराक्रम पर भरोसा करके मेरे पुत्र ने कभी पाण्डवों की चिन्ता नहीं की, (आज) शत्रु द्वारा किस प्रकार मारे गए?
32प्राचीन काल में जब देवता दानवों से युद्ध कर रहे थे, तब उन्होंने उन अजेय वीर, महान् व्रतधारी मेरे पिता की सहायता माँगी थी।
33हे संजय, तुम मुझसे यह कैसे कह सकते हो कि भीष्म मारे गए — वे, जो समस्त बलशाली पुरुषों में श्रेष्ठ थे, जो विख्यात योद्धा थे, जो सबके महान् आश्रय थे, जो प्रज्ञावान् और धर्मात्मा थे, जो सदा अपने वर्ण के कर्तव्यों में निरत रहे और जो समस्त वेदों तथा उनके अंगों के ज्ञाता थे — वे वीर, जिनके जन्म से शान्तनु समस्त शोक, विषाद और दुःख से मुक्त हो गए थे?
34प्रत्येक शस्त्र में निपुण, स्वयं सौम्यता और महान् ओज से युक्त, वासनाओं को पूर्ण संयम में रखने वाले शान्तनु के ऐसे पुत्र (भीष्म) के मारे जाने की बात सुनकर मैं अपनी शेष सेना को भी मारी हुई ही मानता हूँ।
35मेरे मत में अब अधर्म धर्म से अधिक बलवान् हो गया है, क्योंकि पाण्डव राज्य की इच्छा से अपने पूज्य गुरु तक का वध कर बैठे।
36प्राचीन काल में जमदग्नि के पुत्र राम, जो प्रत्येक शस्त्र में निपुण थे और जिनसे कोई श्रेष्ठ नहीं था, अम्बा के पक्ष में लड़ते समय युद्ध में भीष्म द्वारा पराजित किए गए थे।
37तुम मुझसे कहते हो कि वे भीष्म, जो समस्त योद्धाओं में श्रेष्ठ हैं और जो अपने किए हुए महान् कर्मों में इन्द्र के समान हैं, मारे गए — इससे बड़ा शोक मेरे लिए और क्या हो सकता है?
38वे महाबुद्धिमान्, जो शत्रुवीरों के उन हन्ता जमदग्निपुत्र राम द्वारा भी नहीं मारे जा सके — जिन्होंने युद्ध में समस्त क्षत्रियों को पराजित किया था — वे अब शिखण्डी द्वारा मारे गए हैं।
39इसमें सन्देह नहीं कि द्रुपद का पुत्र शिखण्डी, जिसने युद्ध में भरतवंश के उन श्रेष्ठ पुरुष का — उन वीर का, जो महानतम अस्त्रों में निपुण थे, उन वीर और निपुण योद्धा का, जो प्रत्येक शस्त्र के ज्ञाता थे — वध किया है, वह ओज, पराक्रम और बल में अजेय तथा महाशक्तिशाली भृगुपुत्र (परशुराम) से भी श्रेष्ठ है। (अब मुझे बताओ) उस महान् युद्ध में उन शत्रुदमन के पीछे कौन योद्धा चले?
40मुझे बताओ कि पाण्डवों और भीष्म के बीच युद्ध किस प्रकार हुआ? हे संजय, अपने वीर से वंचित मेरी सेना अब उस स्त्री के समान है जिसका कोई रक्षक न हो।
41वह सेना अब अपने ग्वाले से वंचित गौओं के भयभीत झुण्ड के समान है। जब वे, जिनका पराक्रम प्रत्येक मनुष्य से श्रेष्ठ था, रणभूमि में गिर पड़े, तब (मैं अनुमान करता हूँ) मेरी सेना की क्या दशा होगी। हे संजय, अब हमारे जीवन में कौन-सी शक्ति शेष है?
42जब हमने अपने महाशक्तिशाली पिता को, जो संसार के समस्त धर्मात्माओं में श्रेष्ठ थे, मरवा ही दिया? हमारी दशा उस मनुष्य के समान है, जो समुद्र पार करने की इच्छा करते हुए अपनी नौका को अथाह जल में डूबी हुई देखे।
43मुझे विश्वास है कि मेरे पुत्र भीष्म की मृत्यु के शोक में विलाप कर रहे हैं। हे संजय, मेरा हृदय निश्चय ही पत्थर का बना है।
44क्योंकि नरश्रेष्ठ भीष्म की, जिनमें बुद्धि, नीति और शस्त्रकौशल थे, मृत्यु सुनकर भी वह फटता नहीं।
45वे अजेय योद्धा युद्ध में किस प्रकार मारे गए? न शस्त्रों से, न साहस से, न तप के पुण्य से, न बुद्धि से —
46न दृढ़ता से, न दान से — किसी भी उपाय से मनुष्य मृत्यु से मुक्त नहीं हो सकता। महाशक्तिशाली काल का उल्लंघन संसार की कोई वस्तु नहीं कर सकती।
47हे संजय, जब तुम मुझसे कहते हो कि शान्तनुपुत्र भीष्म मर गए... अपने पुत्रों के लिए शोक से जलता हुआ, नहीं, महान् दुःख से अभिभूत मैं शान्तनुपुत्र भीष्म से ही राहत की आशा रखता था। हे संजय, जब दुर्योधन ने शान्तनुपुत्र को आकाश से गिरे सूर्य के समान भूमि पर मृत पड़ा देखा, तब उसने किसे अपना आश्रय बनाया? हे संजय, अपनी बुद्धि की सहायता से (जितना हो सके उतना) विचार करके भी मैं यह नहीं देख पाता कि मेरे पक्ष के तथा शत्रु के पक्ष के उन समस्त राजाओं का अन्त क्या होगा, जो युद्ध के दो विरोधी दलों में सम्मिलित हुए हैं। हाय, ऋषियों द्वारा निश्चित क्षत्रिय-धर्म कितने क्रूर हैं — क्योंकि पाण्डव शान्तनुपुत्र की मृत्यु करवाकर भी राज्य पाना चाहते हैं, और हम भी उन महान् व्रतधारी वीर को आहुति के रूप में चढ़ाकर राज्य पाना चाहते हैं।
48पृथा के पुत्र तथा मेरे पुत्र — सब क्षत्रिय-धर्म का ही पालन कर रहे हैं। इसलिए उनमें से किसी को कोई पाप नहीं लगता। हे संजय, जब महान् विपत्ति आ पड़ती है, तब अत्यन्त धर्मात्मा पुरुष को भी ऐसा ही करना पड़ता है।
49पराक्रम का प्रदर्शन और महान् बल क्षत्रिय का धर्म माना गया है। जब मेरे पिता शान्तनुपुत्र भीष्म — वे अजेय किन्तु विनम्र वीर — शत्रु की सेनाओं का संहार कर रहे थे, तब पाण्डवों ने उनका सामना किस प्रकार किया? सेनाएँ किस प्रकार व्यूहबद्ध थीं और उन्होंने उन यशस्वी शत्रुओं से किस प्रकार युद्ध किया?
50हे संजय, मेरे पिता भीष्म युद्ध में किस प्रकार मारे गए? दुर्योधन, कर्ण और सुबल के पुत्र महाकुशल शकुनि —
51तथा धूर्त दुःशासन — भीष्म के मारे जाने पर इन्होंने क्या कहा? विनाशकारी युद्ध की उस भयंकर द्यूतशाला में प्रवेश करके, जिसमें मनुष्यों, हाथियों और अश्वों से गोलियाँ बनाई गई हैं, जिसमें बाणों, भालों, तलवारों और शक्तियों ने पासों का रूप लिया है — वे कौन सम-कोटि के जुआरी थे जो अपने प्राणों को ही दाँव पर लगाकर खेलते हैं? कौन जीता, कौन हारा, किसका पासा सफल रहा, और शान्तनुपुत्र भीष्म के अतिरिक्त और कौन मारे गए? हे संजय, मुझे सब बताओ; क्योंकि यह सुनकर कि देवव्रत — मेरे वे पिता, वे भयंकर कर्मों वाले वीर, वे युद्ध के आभूषण भीष्म — मारे गए, मुझे शान्ति नहीं मिल सकती। यह सोचकर कि मेरे समस्त पुत्र मारे जाएँगे, मैं परम व्यथा से पीड़ित हूँ।
52हे संजय, तुम मेरे उस शोक को वैसे ही प्रज्वलित कर रहे हो जैसे घृत से अग्नि। समस्त लोकों में विख्यात भीष्म को, जिन्होंने इतना महान् कार्य अपने ऊपर लिया था, मारा गया देखकर मुझे विश्वास है कि मेरे पुत्र विलाप कर रहे हैं। दुर्योधन के कर्म से उत्पन्न उन सबके शोक मैं सुनना चाहता हूँ।
53इसलिए हे संजय, मुझे वह सब बताओ जो युद्ध में हुआ — मेरे दुष्ट पुत्र की मूर्खता का परिणाम।
54हे संजय, बुरा हो अथवा भला, मुझे सब कुछ बताओ। मुझे पूरा और विस्तार से सब बताओ — विजय के सदा इच्छुक भीष्म के युद्ध में उन महान् योद्धा ने, जो समस्त शस्त्रों में निपुण थे, जो कुछ किया, वह सब। कुरुओं और पाण्डवों की सेनाओं के बीच युद्ध किस प्रकार हुआ और वह किस रीति से लड़ा गया?
नेपाली
1धृतराष्ट्रले भने — सम्पूर्ण कुरुहरूमा श्रेष्ठ ती भीष्म शिखण्डीद्वारा कसरी मारिए? दोस्रो इन्द्रजस्ता मेरा पिता (भीष्म) आफ्नो रथबाट कसरी खसे?
2हे सञ्जय, जब मेरा पुत्रहरू ती बलशाली भीष्मबाट वञ्चित भए, जो देवताजस्ता थिए र जसले आफ्ना पिताका लागि ब्रह्मचर्यको जीवन बिताए, तब तिनीहरूको के दशा भयो?
3ती नरश्रेष्ठ भीष्म ढल्दा, जो महान् प्रज्ञा, महान् कर्मक्षमता, महान् शक्ति र महान् ओजले सम्पन्न थिए, हाम्रा योद्धाहरूले आफ्नो मनमा के सोचे?
4यो सुनेर कि नरश्रेष्ठ, कुरुहरूमा श्रेष्ठ, ती अविचल वीर (भीष्म) मारिए, मेरो हृदय महान् शोकले भरिएको छ।
5जब उनी अगाडि बढे, तब उनको पछाडि को हिँड्यो र अगाडि को गयो? उनको छेउमा को उभियो र उनीसँगै को बढ्यो?
6ती को वीर योद्धाहरू थिए जो सम्पूर्ण महारथीहरूमा श्रेष्ठ, ती महान् धनुर्धर, क्षत्रियहरूमा श्रेष्ठ (भीष्म)को पछाडि तब हिँडे जब उनले शत्रुका पङ्क्तिमा प्रवेश गरे?
7जब उनले शत्रुको पङ्क्तिमाथि आक्रमण गरे, तब ती को योद्धाहरू थिए जसले ती शत्रुदमनको सामना गरे, जो सूर्यजस्तै थिए र जो शत्रुहरूमा आतङ्क फैलाउँदै तिनका पङ्क्तिलाई त्यसै गरी नष्ट गर्थे जसरी सूर्यले अन्धकारलाई नष्ट गर्छ, र जसले पाण्डवहरूका पङ्क्तिको बीचमा अत्यन्त दुष्कर पराक्रम गरे?
8हे सञ्जय, जब शान्तनुका ती अजेय पुत्र, ती निपुण योद्धाले पाण्डवहरूमाथि आक्रमण गरे, तब तिनीहरूले युद्धमा उनको सामना कसरी गरे?
9कुन्तीपुत्रले युद्धमा ती अजेयलाई कसरी ढाले — ती भयङ्कर धनुर्धरलाई, जो भयङ्कर बाण बर्साउँथे र शत्रुहरूका शिर काट्थे; ती अजेय वीरलाई, जो प्रत्येक कुरामा विनम्र थिए; ती नरश्रेष्ठलाई, जो आफ्नो रथमा स्थित थिए; ती वीरलाई, जसका दाँत बाण थिए, जसको खुला मुख धनु थियो, जसको जिब्रो भयङ्कर तरवार थियो; उनलाई कसरी ढालियो, जो पहिले कहिल्यै पराजित भएका थिएनन् र जो त्यस्तो नियतिका योग्य थिएनन्; ती योद्धालाई, जो प्रलयाग्निजस्तै अप्रतिरोध्य थिए र जसलाई युद्धमा देखेर पाण्डवहरूको विशाल सेना सधैँ आतङ्कले भरिन्थ्यो?
10दस दिनसम्म शत्रुका सेनाहरूको संहार गर्दै, अत्यन्त दुष्कर पराक्रम गरेर ती वीरहन्ता अब सूर्यजस्तै अस्त भए।
11मेरा दुष्ट सल्लाहका परिणामस्वरूप ती भरतवंशीले, स्वयं इन्द्रजस्तै बाणको अक्षय वर्षा गर्दै, दस दिनमा युद्धमा दस करोड योद्धाको वध गरे। अब उनी रणभूमिमा प्राणरहित भई नाङ्गो भूमिमा पल्टिएका छन्, यद्यपि उनी यसका योग्य थिएनन् — वायुले उखेलेको विशाल रूखजस्तै।
12भयङ्कर पराक्रम भएका शान्तनुपुत्र भीष्मलाई देखेर पाञ्चालहरूको सेनाले उनलाई कसरी ढाल्न सक्यो?
13पाण्डवहरूले भीष्मसँग कसरी युद्ध गरे? हे सञ्जय, यस्तो कसरी भयो कि द्रोण जीवितै हुँदा पनि भीष्मले विजय पाउन सकेनन्?
14जब कृप उनको नजिक थिए, जब द्रोण त्यहाँ थिए, तब योद्धाहरूमा श्रेष्ठ भीष्म कसरी मारिन सके?
15भीष्म, जो अतिरथी थिए र जसको सामना देवताहरूले समेत गर्न सक्दैनथे, उनी पाञ्चालकुमार शिखण्डीद्वारा युद्धमा कसरी मारिन सके?
16हे सञ्जय, जो सधैँ आफूलाई जमदग्निका महाबली पुत्रसमान मान्थे, जसलाई स्वयं जमदग्निपुत्रले पनि जित्न सकेनन्, जो पराक्रममा इन्द्रजस्तै थिए — मलाई बताऊ कि महारथीहरूको कुलमा उत्पन्न यस्ता वीर भीष्म युद्धमा कसरी मारिए। सम्पूर्ण विवरण नजानी मलाई चैन मिल्न सक्दैन।
17हे सञ्जय, (मलाई बताऊ) मेरो सेनाका कुन-कुन महान् धनुर्धरहरूले ती अक्षय ओज भएका वीरको त्याग गरेनन्, र दुर्योधनको आज्ञाले कुन-कुन वीर योद्धाहरू उनको रक्षाका लागि उनको चारैतिर उभिए?
18हे सञ्जय, जब शिखण्डीलाई अगाडि राखेर सम्पूर्ण पाण्डवहरू भीष्मविरुद्ध बढे, तब मलाई आशा छ कि कुरुहरू ती अपरिमित पराक्रम भएका महान् वीरको छेउमा डटिरहे।
19मेरो हृदय जति कठोर छ, त्यो निश्चय नै ढुङ्गाको बनेको छ, त्यसैले त नरश्रेष्ठ भीष्मको मृत्यु सुनेर पनि त्यो फुट्दैन।
20भरतवंशका ती अप्रतिरोध्य प्रमुखमा सत्य, बुद्धि र नीति — तीनै अपरिमित मात्रामा थिए। उनी युद्धमा कसरी मारिन सके?
21उनी विशाल मेघजस्तै थिए, उनको धनुको टङ्कार त्यस मेघको गर्जन थियो, बाणहरू त्यसका वर्षाका धारा थिए, र उनको धनुको शब्द त्यसको वज्रनाद थियो। ती वीरले कुन्तीका पुत्रहरूमाथि तथा तिनका पक्षका पाञ्चाल र सृञ्जयहरूमाथि बाणको वर्षा गर्दै शत्रुपक्षका महारथीहरूलाई त्यसै गरी ढाल्थे जसरी बलका हन्ता (इन्द्र)ले दानवहरूलाई ढाल्थे।
22ती को वीरहरू थिए जसले ती शत्रुदमनको सामना त्यसै गरी गरे जसरी किनाराले उर्लिएको समुद्रलाई रोक्छ — उनी, जो बाण र शस्त्रका भयङ्कर समुद्र थिए; त्यस्तो समुद्र जसमा बाणहरू भयङ्कर गोही थिए, धनुहरू तरङ्ग थिए, गदा र तरवारहरू सार्क थिए, घोडा र हात्तीहरू भुमरी थिए, पैदल सैनिकहरू हजारौँ माछाजस्तै थिए, र शङ्ख तथा नगराका नाद त्यसका गर्जन थिए; त्यस्तो अक्षय र क्षुब्ध समुद्र जसमा न कुनै द्वीप थियो न पार गर्न कुनै डुङ्गा; त्यस्तो समुद्र जसले लाखौँ घोडा, हात्ती र पैदल सैनिकलाई निल्यो; त्यस्तो समुद्र जसले सम्पूर्ण शत्रुवीरलाई डुबायो र जसले क्रोधमा सबैलाई भस्म पार्यो — त्यही क्रोध नै जसको बडवाग्नि थियो?
23जब ती शत्रुदमन भीष्म दुर्योधनको हितका लागि युद्धमा महान् पराक्रम गरिरहेका थिए, तब उनको सामु को थिए?
24ती को थिए जसले ती अपरिमित शक्तिशाली योद्धाको दाहिने छेउको रक्षा गरे? ती को थिए जसले धैर्य र ओजका साथ उनको पछाडिबाट शत्रुका योद्धाहरूलाई रोके?
25उनको रक्षाका लागि ठीक उनको सामु को उभिए? ती को वीरहरू थिए जसले ती वीर योद्धा लड्दा उनको अग्रभागको रक्षा गरे?
26ती को थिए जो उनको देब्रे छेउमा उभिएर सृञ्जयहरूमाथि जाइलागे? ती को थिए जसले उनको अग्रिम दलका अप्रतिरोध्य पङ्क्तिको रक्षा गरे?
27जो योद्धा आफ्नो अन्तिम यात्रामा गए, उनका छेउहरूको रक्षा कसले गर्यो? हे सञ्जय, ती को थिए जसले सामान्य युद्धमा शत्रुका योद्धाहरूसँग युद्ध गरे?
28यदि हाम्रा योद्धाहरूले उनको रक्षा गरे र यदि उनले हाम्रा योद्धाहरूको रक्षा गरे भने, त्यसो भए यस्तो कसरी भयो कि उनले युद्धमा पाण्डव सेनालाई — यद्यपि त्यो अजेय थियो — पराजित गर्न सकेनन्?
29हे सञ्जय, पाण्डवहरू भीष्ममाथि प्रहार गर्नमा कसरी सफल भए, जो स्वयं परमेष्ठीजस्तै थिए — ती सम्पूर्ण प्राणीका स्वामी र रचयिताजस्तै?
30हे सञ्जय, तिमी मलाई भीष्मको अन्तर्धानको कुरा भन्दछौ — ती नरश्रेष्ठको, जो हाम्रा मुख्य आधार थिए र जसमाथि भरोसा गरेर कुरुहरू आफ्ना शत्रुसँग युद्ध गरिरहेका थिए।
31हाय! ती महाशक्तिशाली योद्धा, जसको पराक्रममा भरोसा गरेर मेरो पुत्रले कहिल्यै पाण्डवहरूको चिन्ता गरेनन्, (आज) शत्रुद्वारा कसरी मारिए?
32प्राचीन कालमा जब देवताहरू दानवहरूसँग युद्ध गरिरहेका थिए, तब तिनीहरूले ती अजेय वीर, महान् व्रतधारी मेरा पिताको सहायता मागेका थिए।
33हे सञ्जय, तिमी मलाई यो कसरी भन्न सक्छौ कि भीष्म मारिए — उनी, जो सम्पूर्ण बलशाली पुरुषमा श्रेष्ठ थिए, जो विख्यात योद्धा थिए, जो सबैका महान् आश्रय थिए, जो प्रज्ञावान् र धर्मात्मा थिए, जो सधैँ आफ्नो वर्णका कर्तव्यमा निरत रहे र जो सम्पूर्ण वेद तथा तिनका अङ्गका ज्ञाता थिए — ती वीर, जसको जन्मले शान्तनु सम्पूर्ण शोक, विषाद र दुःखबाट मुक्त भएका थिए?
34प्रत्येक शस्त्रमा निपुण, स्वयं सौम्यता र महान् ओजले युक्त, वासनालाई पूर्ण संयममा राख्ने शान्तनुका यस्ता पुत्र (भीष्म) मारिएको कुरा सुनेर म आफ्नो बाँकी सेनालाई पनि मारिएकै ठान्दछु।
35मेरो मतमा अब अधर्म धर्मभन्दा बलवान् भएको छ, किनभने पाण्डवहरूले राज्यको इच्छाले आफ्ना पूज्य गुरुसम्मको वध गरे।
36प्राचीन कालमा जमदग्निका पुत्र राम, जो प्रत्येक शस्त्रमा निपुण थिए र जसभन्दा कोही श्रेष्ठ थिएन, अम्बाका पक्षमा लड्दा युद्धमा भीष्मद्वारा पराजित भएका थिए।
37तिमी मलाई भन्दछौ कि ती भीष्म, जो सम्पूर्ण योद्धाहरूमा श्रेष्ठ छन् र जो आफूले गरेका महान् कर्ममा इन्द्रजस्तै छन्, मारिए — यसभन्दा ठूलो शोक मेरा लागि अरू के हुन सक्छ?
38ती महाबुद्धिमान्, जो शत्रुवीरहरूका ती हन्ता जमदग्निपुत्र रामद्वारा पनि मारिन सकेनन् — जसले युद्धमा सम्पूर्ण क्षत्रियलाई पराजित गरेका थिए — उनी अब शिखण्डीद्वारा मारिएका छन्।
39यसमा सन्देह छैन कि द्रुपदका पुत्र शिखण्डी, जसले युद्धमा भरतवंशका ती श्रेष्ठ पुरुषको — ती वीरको, जो महानतम अस्त्रमा निपुण थिए, ती वीर र निपुण योद्धाको, जो प्रत्येक शस्त्रका ज्ञाता थिए — वध गरेको छ, त्यो ओज, पराक्रम र बलमा अजेय तथा महाशक्तिशाली भृगुपुत्र (परशुराम)भन्दा पनि श्रेष्ठ छ। (अब मलाई बताऊ) त्यस महान् युद्धमा ती शत्रुदमनको पछाडि को योद्धाहरू हिँडे?
40मलाई बताऊ कि पाण्डवहरू र भीष्मको बीचमा युद्ध कसरी भयो? हे सञ्जय, आफ्नो वीरबाट वञ्चित मेरो सेना अब त्यस स्त्रीजस्तै छ जसको कुनै रक्षक नहोस्।
41त्यो सेना अब आफ्नो गोठालाबाट वञ्चित गाईहरूको भयभीत बथानजस्तै छ। जब उनी, जसको पराक्रम प्रत्येक मानिसभन्दा श्रेष्ठ थियो, रणभूमिमा ढले, तब (म अनुमान गर्छु) मेरो सेनाको के दशा होला। हे सञ्जय, अब हाम्रो जीवनमा कुन शक्ति बाँकी छ?
42जब हामीले आफ्ना महाशक्तिशाली पितालाई, जो संसारका सम्पूर्ण धर्मात्मामा श्रेष्ठ थिए, मरवाइदियौँ? हाम्रो दशा त्यस मानिसजस्तै छ, जसले समुद्र पार गर्ने इच्छा गर्दागर्दै आफ्नो डुङ्गा अथाह जलमा डुबेको देखोस्।
43मलाई विश्वास छ कि मेरा पुत्रहरू भीष्मको मृत्युको शोकमा विलाप गरिरहेका छन्। हे सञ्जय, मेरो हृदय निश्चय नै ढुङ्गाको बनेको छ।
44किनभने नरश्रेष्ठ भीष्मको, जसमा बुद्धि, नीति र शस्त्रकौशल थियो, मृत्यु सुनेर पनि त्यो फुट्दैन।
45ती अजेय योद्धा युद्धमा कसरी मारिए? न शस्त्रले, न साहसले, न तपको पुण्यले, न बुद्धिले —
46न दृढताले, न दानले — कुनै पनि उपायले मानिस मृत्युबाट मुक्त हुन सक्दैन। महाशक्तिशाली कालको उल्लङ्घन संसारको कुनै वस्तुले गर्न सक्दैन।
47हे सञ्जय, जब तिमी मलाई भन्दछौ कि शान्तनुपुत्र भीष्म मरे... आफ्ना पुत्रहरूका लागि शोकले जल्दै, होइन, महान् दुःखले अभिभूत भई म शान्तनुपुत्र भीष्मबाटै राहतको आशा राख्दथेँ। हे सञ्जय, जब दुर्योधनले शान्तनुपुत्रलाई आकाशबाट खसेको सूर्यजस्तै भूमिमा मृत पल्टिएको देखे, तब उनले कसलाई आफ्नो आश्रय बनाए? हे सञ्जय, आफ्नो बुद्धिको सहायताले (जति सकिन्छ त्यति) विचार गरेर पनि म यो देख्न सक्दिनँ कि मेरो पक्षका तथा शत्रुका पक्षका ती सम्पूर्ण राजाहरूको अन्त्य के होला, जो युद्धका दुई विरोधी दलमा सामेल भएका छन्। हाय, ऋषिहरूद्वारा निश्चित क्षत्रिय-धर्म कति क्रूर छन् — किनभने पाण्डवहरू शान्तनुपुत्रको मृत्यु गराएर पनि राज्य पाउन चाहन्छन्, र हामी पनि ती महान् व्रतधारी वीरलाई आहुतिको रूपमा चढाएर राज्य पाउन चाहन्छौँ।
48पृथाका पुत्रहरू तथा मेरा पुत्रहरू — सबैले क्षत्रिय-धर्मकै पालन गरिरहेका छन्। त्यसैले तिनीहरूमध्ये कसैलाई कुनै पाप लाग्दैन। हे सञ्जय, जब महान् विपत्ति आइपर्छ, तब अत्यन्त धर्मात्मा पुरुषले पनि यस्तै गर्नुपर्छ।
49पराक्रमको प्रदर्शन र महान् बल क्षत्रियको धर्म मानिएको छ। जब मेरा पिता शान्तनुपुत्र भीष्म — ती अजेय तर विनम्र वीर — शत्रुका सेनाहरूको संहार गरिरहेका थिए, तब पाण्डवहरूले उनको सामना कसरी गरे? सेनाहरू कसरी व्यूहबद्ध थिए र तिनीहरूले ती यशस्वी शत्रुहरूसँग कसरी युद्ध गरे?
50हे सञ्जय, मेरा पिता भीष्म युद्धमा कसरी मारिए? दुर्योधन, कर्ण र सुबलका पुत्र महाकुशल शकुनि —
51तथा धूर्त दुःशासन — भीष्म मारिएपछि यिनीहरूले के भने? विनाशकारी युद्धको त्यस भयङ्कर द्यूतशालामा प्रवेश गरेर, जसमा मानिस, हात्ती र घोडाबाट गोटी बनाइएका छन्, जसमा बाण, भाला, तरवार र शक्तिहरूले पासाको रूप लिएका छन् — ती को समान कोटिका जुवाडे थिए जसले आफ्नै प्राण दाउमा राखेर खेल्छन्? को जित्यो, को हार्यो, कसको पासा सफल रह्यो, र शान्तनुपुत्र भीष्मबाहेक अरू को मारिए? हे सञ्जय, मलाई सबै बताऊ; किनभने यो सुनेर कि देवव्रत — मेरा ती पिता, ती भयङ्कर कर्म भएका वीर, ती युद्धका आभूषण भीष्म — मारिए, मलाई शान्ति मिल्न सक्दैन। यो सोचेर कि मेरा सम्पूर्ण पुत्र मारिनेछन्, म परम व्यथाले पीडित छु।
52हे सञ्जय, तिमी मेरो त्यस शोकलाई त्यसै गरी प्रज्वलित गरिरहेका छौ जसरी घिउले आगोलाई। सम्पूर्ण लोकमा विख्यात भीष्मलाई, जसले यति महान् कार्य आफूमाथि लिएका थिए, मारिएको देखेर मलाई विश्वास छ कि मेरा पुत्रहरू विलाप गरिरहेका छन्। दुर्योधनको कर्मबाट उत्पन्न ती सबैका शोक म सुन्न चाहन्छु।
53त्यसैले हे सञ्जय, मलाई त्यो सबै बताऊ जो युद्धमा भयो — मेरा दुष्ट पुत्रको मूर्खताको परिणाम।
54हे सञ्जय, नराम्रो होस् वा राम्रो, मलाई सबै कुरा बताऊ। मलाई पूरा र विस्तारपूर्वक सबै बताऊ — विजयका सधैँ इच्छुक भीष्मको युद्धमा ती महान् योद्धाले, जो सम्पूर्ण शस्त्रमा निपुण थिए, जे-जति गरे, त्यो सबै। कुरु र पाण्डवहरूका सेनाबीच युद्ध कसरी भयो र त्यो कुन रीतिले लडियो?