अम्बोपाख्यान पर्व — परशुराम और भीष्म का युद्ध
खण्ड 3 — विराट एवं उद्योग पर्व · अध्याय 248
संस्कृत
1भीष्म उवाच एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो। उवाच रुदती कन्यां चोदयन्तीं पुनः पुनः॥
2काश्ये न कामं गृह्णामि शस्त्रं वै वरवर्णिनि। ऋते ब्रह्मविदां हेतोः किमन्यत् करवाणि ते॥
3वाचा भीष्मश्च शाल्वश्च मम राज्ञि वसानुगौ। भविष्यतोऽनवद्याङ्गि तत् करिष्यामि मा शुचः॥
4न तु शस्त्रं ग्रहीष्यामि कथंचिदपि भाविनि। ऋते नियोगाद् विप्राणामेष मे समयः कृतः॥
5अम्बोवाच मम दुःखं भगवता व्यपनेयं यतस्ततः। तच्च भीष्मप्रसूतं मे तं जहीश्वर मा चिरम्॥
6राम उवाच काशिकन्ये पुनर्बंहि भीष्मस्ते चरणावुभौ। शिरसा वन्दना.ऽपि ग्रहीयष्यति गिरा मम॥
7अम्बोवाच जहि भीष्मं रणे राम गर्जन्तमसुरं यथा। समाहूतो रणे राम मम चेदिच्छसि प्रियम्। प्रतिश्रुतं च यदपि तत् सत्यं कर्तुमर्हसि॥
8भीष्म उवाच तयोः संवदतोरेवं राजन् रामाम्बयोस्तदा। ऋषिः परमधर्मात्मा इदं वचनमब्रवीत्॥
9शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि। यदि भीष्मो रणे राम समाहूतस्त्वया मृधे॥
10निर्जितोऽस्मीति वा ब्रूयात् कुर्याद् वा वचनं तव। कृतमस्या भवेत् कार्यं कन्याया भृगुनन्दन॥
11वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो। इयं चापि प्रतिज्ञा ते तदा राम महामुने॥
12जित्वा वै क्षत्रियान् सर्वान् ब्राह्मणेषु प्रतिश्रुता। ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि॥
13ब्रह्मद्विड भविता तं वै हनिष्यामीति भार्गव। शरणार्थं प्रपन्नानां भीतानां शरणार्थिनाम्॥
14न शक्ष्यामि परित्यागं कर्तुं जीवन् कथंचन। यश्च कृत्स्नं रणे क्षत्रं विजेष्यति समागतम्॥
15दीप्तात्मानमहं तं च हनिष्यामीति भार्गव। स एवं विजयी राम भीष्मः कुरुकुलोद्वहः। तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन।॥
16राम उवाच स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम। तथैव च चरिष्यामि यथा साम्नैव लप्स्यते॥
17कार्यमेतन्महद् ब्रह्मन् काशिकन्यामनोगतम्। गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः॥
18यदि भीष्मो रणश्लाघी न करिष्यति मे वचः। हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः॥
19न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम्। कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे॥
20एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः। प्रयाणाय मतिं कृत्वा समुत्तस्थौ महातपाः॥
21ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः। हुताग्नयो जप्तजप्याः प्रतस्थुर्मज्जिघांसया॥
22अभ्यगच्छत् ततो रामः सह तैब्रह्मवादिभिः। कुरुक्षेत्रं महाराज कन्यया सह भारत॥
23न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम्। तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः॥
24भीष्म उवाच ततस्तृतीये दिवसे संदिदेश व्यवस्थितः। कुरु प्रियं स मे राजन् प्राप्तोऽस्मीति महाव्रतः॥
25तमागतमहं श्रुत्वा विषयान्तं महाबलम्। अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम्॥
26गां पुरस्कृत्य राजेन्द्रं ब्राह्मणैः परिवारितः। ऋत्विभिर्देवकल्पैश्च तथैव च पुरोहितैः॥
27स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान्। प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत्॥
28राम उवाच भीष्म कां बुद्धिमास्थाय काशिराजसुता तदा। अकामेन त्वयाऽऽनीता पुनश्चैव विसर्जिता॥
29विभ्रंशिता त्वया हीयं धर्मादास्ते यशस्विनी। परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति॥
30प्रत्याख्याता हि शाल्वेन त्वयाऽऽनीतेति भारत। तस्मादिमा मन्नियोगात् प्रतिगृह्णीष्व भारत॥
31स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम्। न युक्तस्त्ववमानोऽयं राज्ञां कर्तुं त्वयानघ॥
32ततस्तं वै विमनसमुदीक्ष्याहमथाब्रुवम्। नाहमेनां पुनर्दद्यां ब्रह्मन् भ्रात्रे कथंचन॥
33शाल्वस्याहमिति प्राह पुरा मामेव भार्गव। मया चैवाभ्यनुज्ञाता गतेयं नगरं प्रति॥
34न भयान्नाप्यनुक्रोशान्नार्थलोभान्न काम्यया। क्षात्रं धर्ममहं जह्यामिति मे व्रतमाहितम्॥
35अथ मामब्रवीद् रामः क्रोधपर्याकुलेक्षणः। न करिष्यसि चेदेतद् वाक्यं मे नरपुङ्गव॥
36हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः। संरम्भादब्रवीद् रामः क्रोधपर्याकुलेक्षणः॥
37तमहं गीीरिष्टाभि पुनः पुनररिंदम। अयाचं भृगुशार्दूलं न चैव प्रशशाम सः॥
38प्रणम्य तमहं मूर्धा भूयो ब्राह्मणसत्तमम्। अब्रूवं कारणं किं तद् यत् त्वं युद्धं मयेच्छसि॥
39इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम्। उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव॥
40ततो मामब्रवीद् रामः क्रोधसंरक्तलोचनः। जानी मां गुरुं भीष्म गृह्णासीमां न चैव ह॥
41सुतां काश्यस्य कौरव्य मत्प्रियार्थं महामते। न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन॥
42गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः। त्वया विभ्रंशिता हीयं भर्तारं नाधिगच्छति॥
43तथा ब्रूवन्तं तमहं रामं पुरपुरंजयम्। नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते॥
44गुरुत्वं त्वयि सम्प्रेक्ष्य जामदग्न्य पुरातनम्। प्रसादये त्वां भगवस्त्यक्तैषा तु पुरा मया॥
45को जातु परभावां हि नारी व्यालीमव स्थिताम्। वासयेत गृहे जानन् स्त्रीणां दोषो महात्ययः॥
46न भयाद् वासवस्यापि धर्म जह्यां महाव्रत। प्रसीद मा वा यद्वा ते कार्यं तत्कुरु मा चिरम्॥
47अयं चापि विशुद्धात्मन् पुराणे श्रूयते विभो। मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना॥
48गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य परित्यागो विधीयते॥
49स त्व गुरुरिति प्रेम्णा मया सम्मानितो भृशम्। गुरुवृत्तिं न जीनीघे तस्माद योत्स्यामि वै त्वया॥
50गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः। विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव॥
51उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत्। यो हन्यात् समरे क्रुद्धं युध्यन्तमपलायिनम्॥
52ब्रह्महत्या न तस्य स्यादिति धर्मेषू निश्चयः। क्षत्रियाणां स्थितो धर्मं क्षत्रियोऽस्मि तपोधन॥
53यो यथा वर्तते यस्मिंस्तस्मिन्नेव प्रवयर्तयन्। नाधर्मं समवाप्नोति न चाश्रेयश्च विन्दति॥
54अर्थं वा यदि वा धर्म समर्थो देशकालवित्। अर्थसंशयमापन्नः श्रेयान्निः संशयो नरः॥
55यस्मात् संशयितेऽप्यर्थेऽयथान्यायं प्रवर्तसे। तस्माद् योत्स्यामि सहितस्त्वया राम महाहवे॥
56पश्य मे बाहुवीर्यं विक्रमं चातिमानुषम्। एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन।॥
57तत् करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह। द्वन्द्वे राम यथेष्टं मे सज्जीभव महाद्युते॥
58तत्र त्वं निहतो राम मया शरशतार्दितः। प्राप्स्यसे निर्जिताँल्लोकान् शस्त्रपूतो महारणे॥
59स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय। तत्रैष्यामि महाबाहो युद्धाय त्वांत पोधन॥
60अपि तत्र त्वया राम कृतं शौचं पुरा पितुः। तत्राहमपि हत्वा त्वां शौचं कर्ताऽस्मि भार्गव॥
61तत्र राम समागच्छ त्वरितं युद्धदुर्मदा व्यपनेष्यामि ते दर्थं पौराणं ब्राह्मणब्रुव॥ राम बहुशः
62यच्चापि कत्थसे परिवत्सरे। निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु॥
63न तदा जातवान् भीष्मः क्षत्रियो वापि मद्विधः। पश्चाज्जातानि तेजांसि तृणेषु ज्वलितं त्वया।॥
64यस्ते युद्धमयं दधैं कामं च व्यपनाशयेत्। सोऽहं जातो महाबाहो भीष्मः परपुरंजयः। व्यपनेष्यामि ते दर्प युद्धे राम न संशयः॥
65भीष्म उवाच ततो मामब्रवीद् रामः प्रहसन्निव भारत। दिष्ट्या भीष्म मया साधू योद्धुमिच्छसि संगरे॥
66अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह। भाषितं ते करिष्यामि तत्रागच्छ परंतप॥
67तत्र त्वां निहतं माता मया शरशताचितम्। जाह्नवी पश्यतां भीष्म गृध्रकङ्कबलाशनम्॥
68कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता। मया विनिहतं देवी रोदतामद्य पार्थिव॥
69अतदर्हा महाभागा भगीरथसुताऽधा। या त्वामजीजनन्मन्दं युद्धकामुकमातुरम्॥
70एहि गच्छ मया भीष्म युद्धकामुद दुर्मद। गृहाण सर्वं कौरव्य रथादि भरतर्षभ॥
71इति ब्रवाणां तमहं रामं परपुरंजयम्। प्रणम्य शिरसा राममेवमस्त्वित्यथाब्रुवम्॥
72एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया। प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम्॥
73ततः कृतस्वस्त्ययनो मात्रा च प्रतिनन्दितः। द्विजातीन् वाच्य पुण्याहं स्वस्ति चैव महाद्युते॥
74रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः। सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम्॥
75उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम्। तत्कुलीनेन वीरेण हयशास्त्रविदाणे॥
76यत्तुं सूतेन शिष्टेन बहुशो दृष्टकर्मणा। दंशितः पाण्डुरेणाहं कवचेन वपुष्मता॥
77पाण्डुरं कार्मुकं गृह्य प्राया भरतसत्तम। पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि॥
78पाण्डुरैश्चापि व्यजनैर्वीज्यमानो नराधिप। शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः॥
79स्तूयमानो जयाशीभिनिष्क्रम्य गजसाह्वयात्। कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ॥
80ते हयाश्चोदितास्तेन सूतेन परमाहवे। अवहन् मां भृशं राजन् मनोमारुतरंहसः॥
81गत्वाहं तत् कुरुक्षेत्रं स च रामः प्रतापवान्। युद्धाय सहसा राजन् पराक्रान्तौ परस्परम्॥
82ततः संदर्शनेऽतिष्ठं रामस्यातितपस्विनः। प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम्॥
83ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः। अपश्यन्त रणं दिव्यं देवाः सेन्द्रगणास्तदा॥
84ततो दिव्यानि माल्यानि प्रादुरासंस्ततस्ततः। वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह॥
85ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः। प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम्॥
86ततो मामब्रवीद् देवी सर्वभूतहितैषिणी। माता स्वरूपिणी राजन् किमिदं ते चिकीर्षितम्॥
87गत्वाहं जामदग्न्यं तु प्रयाचिष्ये कुरूद्वह। भीष्मेण सह मा योत्सी: शिष्येणेति पुनः पुनः॥
88मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव। जामदग्न्येन समरे योद्धमित्येव भद्यत्॥
89किन्न वै क्षत्रियहणो हरतुल्यपराक्रमः। विदितः पुत्रः रामस्ते यतस्तं योद्भुमिच्छसि॥
90ततोऽहमब्रुवं देवीमभिवाद्य कृताञ्जलिः। सर्वं तद् भरतश्रेष्ठ यथावृत्तं स्वयंवरे॥
91यथा च रामो राजेन्द्र मया पूर्वं प्रचोदितः। काशिराजसुतायाश्च यथा कर्म पुरातनम्॥
92ततः सा राममभ्येत्य जननी मे महानदी। मदर्षं तमृर्षि वीक्ष्य क्षमयामास भार्गवम्॥
93भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत्। स च तामाह याचन्तीं भीष्ममेव निवर्तय। न च मे कुरुते काममित्यहं तमुपागमम्॥
94वैशम्पायन उवाच ततो गङ्गा सुतस्नेहाद् भीष्मं पुनरुपागमत्। न चास्याश्चाकरोद् वाक्यं क्रोधपर्याकुलेक्षणः॥
95अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः। आह्वयामास च तदा युद्धाय द्विजसत्तमः॥
अंग्रेज़ी
1Bhishma said “O Rama, slay Bhishma, “having been thus addressed, my lord, he said to that weeping girl who urged him again and again.
2"O princess of Kashi, I do not take up arms from my own desire, O you of fair complexion, except at the bidding of those conversant with the Vedas; what else shall I do for you?
3O Princess, both Bhishma and Shalva act up to my words and I shall accomplish this work, Do not grieve.
4But I shall not on any account take up arms except at the bidding of regenerate persons; for this is the vow I have made.
5Amba said By some means or other, my distress has its origin in Bhishma; slay him therefore without delay, my lord.
6Rama said O princess of Kashi, I tell you again that thought Bhishma is worthy of your worship, he will, at my word, take up both your feet on his head.
7Amba said Kill Bhishma in battle, O Rama, for he roars like an Asura, after challenging him to fight if you desire, what is pleasing to me, O Rama; besides it is proper that you should perform what you have promised.
8Bhishma said While the two, Amba and Rama, were thus conversing together, the Rishi, of extremely virtuous soul, said these words:
9This is not proper for you, O you of long arms, to abandon a girl who has taken refuge with you. If, O Rama, Bhishma being challenged by you in fight,
10Either says “I am vanquished" or acts !p to your words then the object of this lady will be fulfilled, O delighter of the Bhrigu race.
11And your promise, my lord, will be redeemed, At the time (of war with the Kshatriyas), this was your promise, O Rama, O great sage.
12Having conquered all the Kshatriyas at the time you made this promise to the Brahmanas. "If a Brahmana or a Kshatriya or a Vaishya or a Shudra in battle,
13Becomes the destroyer of a Brahmana I shall slay him" O you of Bhrigu's race, Then, who out of fear will take refuge with me,
14I shall never be able to abandon by any means so long I have some alive, even if a Kshatriyas comes to war with me.
15"I shall slay that one, of blazing self though he be" O you of Bhrigu's race. O Rama, that Bhishma, the supporter of the Kuru race, is even such, Fight with him in battle therefore, O Rama.
16Rama said I remember the promise that I made before, O you best among the Rishis, but in this instance I shall act in such a way that I may gain my object by peaceful means.
17This work, aimed at by the princess of Kashis, is indeed great, Taking this lady, I shall go myself there where he is.
18If Bhishma, proud of his feats in war, does not act up to my commands I shall certainly slay that arrogant one.
19The arrows, shot forth by me, do not stick in the body of living creatures (but pass clearly through them); it is known to you in the with the Kshatriyas.
20Rama saying this, along with those conversant with Brahma, those great devotees rose up intending to depart.
21Then those devotees, staying there for the night, performed their Homa and other ceremonies and went away with the desire of taking my life.
22Then did Rama depart accompanied by those utters of Brahma, making for Kurukshetra, O great king, and taking that girl with him.
23All of them, namely those great-souled ascetics with that foremost among the race of Bhrigu at their head, having reached the river Sarasvati, encamped there.
24Bhishma said On the third day of their encampment, the one of great vows sent me words: "I am come, do what is agreeable to me.”
25Hearing of the arrival of that one endued with great strength at the boundary of my kingdom I went to that lord, the ocean of energy, with great cheerfulness,
26With a cow before me and surrounded by Brahmanas, priests and preceptors who were equal to the gods themselves.
27The son of Jamadagni, endued with luster, seeking me, accepted that worship and said these words,
28Rama said I Bhishma, in what frame of mind was the daughter of the king of Kashis led away by you though you wanted her not; and why was she again sent away.
29By you has this lady of spotless fame been robbed of virtue; for touched by you as she has been, for whom would it be proper to marry her?
30Having been once led away by you she has been rejected by Shalva; therefore do at my words accept her, O Bharata.
31Let this princess fulfill her object, О best among men, and it is not proper, O king, that she should be disgraced by you, O sinless one.
32Seeing him absent-minded on her account I said, “I cannot again offer her to my brother by any means, O Brahmana,"
33To me she said before, I belong to Shalva, you of the Bhrigu race, and permitted by me went towards his capital.
34Not out of fear, nor out of pity, nor out of avarice and nor out of a desire to gain my object shall I abandon the duties of the Kshatriya order, such has been the vow made by me.
35Then did Rama say to me with eyes expanded with wrath:-“If you do not act up to my words, O best among men,
36I shall slay you along with your ministers;" he said thus to me again and again with eyes expanded with anger.
37I again and again entreated that best among the Bhrigu race with sweet words, O chastiser among foes, but could not calm him down.
38I then bowing my head to him said again to the best among the Brahmanas; "What is the reason of your proclaiming war with me?
39In my childhood had you taught me the use of four kinds of arms, and I am thus your pupil, O you of Bhrigu race."
40Then did Rama say to me with eyes red with anger, “You know me to be your preceptor, O Bhishma, and yet you will not accept this lady,
41The daughter of the king of the Kashis for my gratification, O son of Kuru, endued with great intelligence. There is no other way of gratifying me, O delighter of Kuru's race.
42Accept this lady, O you of long arms, and perpetuate your family. Being severed from the path of rectitude by yourself she gets no husband."
43I said to Rama, the conqueror of hostile cites who was speaking thus: “This will not be, O regenerate Rishi, what is the use of labouring towards it.
44O son of Jamadagni, considering that you were my preceptor in days of old I sought to gratify you before, my lord.
45Who will permit a woman, who sighs for another and who is therefore like a poisonous snake, to remain in his house knowing the great evils thereof.
46O you of great vows, I shall not for fear of Vasava even forsake my duties; either be gratified with me or do what you please without loss of time.
47My lord of pure heart, even this Sloka is heard in the Puranas, sung by Maruta endued with a large soul.
48The abandonment of a preceptor is provided when he is vain or has swerved from the right path or who does not know what his duties are.
49I respected you very much so long because you were my preceptor; but since you do not know the duties of a preceptor, therefore shall I fight with you.
50I shall not slay a preceptor in battle, especially as he is a Brahmana and you have been forgiven by me since you are old in devotion.
51One, who seeing a Brahmana, ready to fight like a friend of the Kshatriyas, wrathfully slays him who flies not from the fled,
52Is not guilty of slaying a Brahmana, such has been authoritatively laid down in the holy books, O you whose only wealth is asceticism, I am a Kshatriya observing the duties of my order.
53Such a one as myself who treats such according to his merit does not act unrighteously and does not come by evils.
54When one, able to discriminate the propriety of time and place and knowing both virtue and worldly good, is doubtful of his course, he should without hesitation do that which is virtuous.
55Since you act unrighteously towards me in a matter connected with profit, I shall certainly fight with you in a great battle.
56Behold the strength of my arms and superhuman prowess and what I am capable of, under such circumstances.
57I shall do what I can and O regenerate one, I shall fight with you in Kurukshetra; and since you are desirous to fight, be prepared for battle.
58Go, O you who are fond of war, and return to the field of Kurukshetra and I shall go there to fight with you, O you whose only wealth is devotion.
59Being slain by a hundred arrows shot by me, you will obtain those regions earned by your asceticism, being sanctified by my weapons in the battle.
60Where in days of days of old, you sanctified the name of your fathers, even there shall I sanctify you, O you of Bhrigu's race.
61Therefore come there quickly, O you who are hard to vanquish in battle and I shall destroy your boast of days of old, which is even now referred to by Brahmanas,
62The boast that you have indulged in for a long time past, namely the entire body of Kshatriyas have been conquered by me alone, listen to the cause thereof.
63At that time Bhishma was not born not even a Kshatriya like myself, energetic beings were created afterwards, you consumed only straw.
64He, who will remove your boasts of velour and desire for war, is now born. He is myself, Bhishma, the subjugator of hostile cities and I shall destroy your pride in battle. There is no doubt about it.
65Bhishma said Then did Rama say to me with a laugh, O Bharata:-It is fortunate, O Bhishma that you want to fight with me in battle.
66I shall now go, O son of Kuru, to Kurukshetra with you. I shall do what you say. Go there, O chastiser of foes.
67There will your mother Jahnavi see yourself slain by my hundred arrows, O Bhishma, and be made the food of vultures and other birds of prey.
68O ruler of the earth, let your mothe worshipped by Siddhas and Charanas seeing yourself slain by me, weep today.
69Your mother of great parts, the daughter of Bhagiratha that gave birth to you, fool that you are, and affected by the desire of fight, is however undeserving of such a sight.
70Come and let us go together, O Bhishma, who are hard to vanquish in battle and desirous of war; take, O son of Kuru, your chariots etc. O foremost among the Bharatas,
71To Rama the conquered of enemies towns who thus said then I bowed my head and said "Be it so."
72Rama, saying this, went to Kurukshetra with the desire of war and I too entering the city submitted every thing to Satyavati.
73Then after performing propitiatory rites and being blessed by my mother and asking the twice born to bless me,
74I mounted a beautiful chariot made of silver and drawn by white horses, beautiful to look at, furnished with good seats, and covered with tiger skins.
75It was also furnished with great weapons and all other necessary things and guided by a charioteer of good birth well versed in the art of the management of horses,
76Careful and well trained in battle and who had seen many deeds of bravery. I too, with my body covered with a white coat of mail,
77And taking a white bow, went out, O best among the Bharatas with a white umbrella held over my head.
78I was also fanned by white fans, O ruler of men. I was clad with white garments, white head dress and all my ornaments were white.
79I went out of the city called after the elephant, being eulogized with prayers for my victory and approached the site of battle namely Kurukshetra.
80Those horses fleet as the mind or the wind, urged by that charioteer, took me, O king, to the great battle.
81Myself as also that Rama endued with luster having reached Kurukshetra was each desirous of showing our prowess.
82Coming within the sight of that excellent ascetic Rama, I took my good conch and loudly blew it.
83At the time, O king, there were ascetics and other dwellers of the forest as well as groups of gods with Indra at their head to see that fight.
84There were seen at the time divine garlands and divine music and masses of clouds.
85Then did all the devotees, the followers of the scion of Bhrigu's race, become the spectators and surround us.
86Then did my divine mother, doing good to all creatures, in her own form say to me, O king, "what is this desired by you?
87O supporter of the Kuru race, going to the son of Jamadagni I shall beg of him again and again saying: Do not fight with Bhishma.
88Do not, my son fight thus with a Brahmana, O ruler of the earth, do not fight with the son of Jamadagni;" it was thus that she reproved me.
89He has strength similar to that of Hara and he is the exterminator of the Kshatriya race, Rama with whom you desire to fight is well known to you.
90Then did I say to that goddess after bowing to her and clasping my hands all that had happened in the election of husband, O foremost among the Bharatas.
91I told her also the way Rama had been spoken to by me, O chief among kings, and the old doings of the daughter of the king of the Kashis.
92Then my mother, the great river, going to Rama and trying to entreat that Rishi, that scion of Bhrigu's race for my sake,
93Said these words: “Do not fight with Bhishma for he is your pupil” and he too said to her who was beseeching him. “Turn back the purpose of Bhishma. I am here because he does not perform what I desire."
94Vaishampayana said Then did Ganga, out of affection for her son, come again to Bhishma but he with eyes expanded with wrath did not attend to her words.
95Then did the great devotee of virtuous soul, the foremost of the race of Bhrigu present himself to his view and that best among the twice born summoned him to fight.
हिन्दी
1भीष्म ने कहा — "हे राम, भीष्म का वध कीजिए" — हे प्रभो, इस प्रकार बार-बार आग्रह करती हुई उस रोती हुई कन्या से उन्होंने कहा।
2"हे काशिराजकुमारी, हे सुन्दर वर्णवाली, मैं वेदज्ञों की आज्ञा के बिना अपनी ही इच्छा से शस्त्र नहीं उठाता; तुम्हारे लिए और क्या करूँ?
3हे राजकुमारी, भीष्म और शाल्व दोनों ही मेरे वचनों का पालन करते हैं और मैं यह कार्य सिद्ध कर दूँगा। शोक मत करो।
4किन्तु मैं किसी भी दशा में द्विजों की आज्ञा के बिना शस्त्र न उठाऊँगा; क्योंकि मैंने यही व्रत लिया है।"
5अम्बा ने कहा — किसी न किसी रूप में मेरे दुःख का मूल भीष्म ही हैं; अतः हे प्रभो, बिना विलम्ब उनका वध कीजिए।
6राम ने कहा — हे काशिराजकुमारी, मैं तुमसे फिर कहता हूँ कि यद्यपि भीष्म तुम्हारे पूजने योग्य हैं, तथापि वे मेरे कहने पर तुम्हारे दोनों चरण अपने सिर पर धारण कर लेंगे।
7अम्बा ने कहा — हे राम, यदि आप मुझे प्रिय लगनेवाला कार्य करना चाहते हैं तो उन्हें युद्ध के लिए ललकारकर युद्ध में उनका वध कीजिए, क्योंकि वे असुर के समान गरजते हैं; इसके अतिरिक्त जो आपने वचन दिया है उसे पूरा करना आपके योग्य है।
8भीष्म ने कहा — जब अम्बा और राम इस प्रकार वार्तालाप कर रहे थे, तब उन परम धर्मात्मा ऋषि (अकृतव्रण) ने ये वचन कहे —
9हे महाबाहु, आपकी शरण में आई हुई कन्या को त्यागना आपके योग्य नहीं है। हे राम, यदि आपके द्वारा युद्ध के लिए ललकारे जाने पर भीष्म —
10या तो कहें "मैं हार गया" या आपके वचनों का पालन करें, तो हे भृगुवंश के आनन्दवर्धक, इस देवी का उद्देश्य सिद्ध हो जाएगा।
11और हे प्रभो, आपकी प्रतिज्ञा भी पूरी हो जाएगी। हे राम, हे महर्षि, (क्षत्रियों के साथ युद्ध के) समय आपकी यह प्रतिज्ञा थी —
12उस समय समस्त क्षत्रियों को जीतकर आपने ब्राह्मणों से यह प्रतिज्ञा की थी — "यदि कोई ब्राह्मण, क्षत्रिय, वैश्य अथवा शूद्र युद्ध में —
13ब्राह्मण का घातक बनेगा तो मैं उसका वध करूँगा।" हे भृगुवंशी, "फिर जो भी भय से मेरी शरण में आएगा,
14उसे मैं जब तक जीवित हूँ तब तक किसी भी प्रकार न त्यागूँगा — चाहे कोई क्षत्रिय ही मुझसे युद्ध करने आ जाए।
15हे भृगुवंशी, "मैं उसका वध करूँगा, चाहे वह कितना ही तेजस्वी क्यों न हो।" हे राम, कुरुवंश के आधार वे भीष्म ठीक ऐसे ही हैं; अतः हे राम, उनसे युद्ध कीजिए।
16राम ने कहा — हे ऋषिश्रेष्ठ, मुझे अपनी पूर्व प्रतिज्ञा स्मरण है; किन्तु इस अवसर पर मैं ऐसा उपाय करूँगा जिससे शान्तिपूर्ण ढंग से ही मेरा उद्देश्य सिद्ध हो जाए।
17काशिराजकुमारी का यह अभीष्ट कार्य सचमुच महान् है। इस देवी को साथ लेकर मैं स्वयं वहाँ जाऊँगा जहाँ वे हैं।
18यदि युद्ध में अपने कर्मों पर गर्व करनेवाले भीष्म मेरी आज्ञा का पालन न करेंगे, तो मैं उस अहंकारी का निश्चय ही वध कर दूँगा।
19मेरे छोड़े हुए बाण प्राणियों के शरीर में अटकते नहीं (आर-पार निकल जाते हैं); क्षत्रियों के साथ हुए युद्ध में यह आपको ज्ञात ही है।
20ऐसा कहकर राम, ब्रह्मज्ञानी उन महातपस्वियों के साथ, प्रस्थान के विचार से उठ खड़े हुए।
21तब वे तपस्वी रात भर वहीं ठहरकर अपने होम आदि कर्म सम्पन्न करके मेरे प्राण लेने की इच्छा से चल पड़े।
22हे महाराज, तब राम उन ब्रह्मवादियों के साथ, उस कन्या को साथ लेकर, कुरुक्षेत्र की ओर प्रस्थान कर गए।
23भृगुवंश में अग्रगण्य उन्हें आगे रखकर वे समस्त महात्मा तपस्वी सरस्वती नदी पर पहुँचकर वहीं डेरा डालकर ठहर गए।
24भीष्म ने कहा — डेरा डाले तीसरे दिन उन महाव्रती ने मुझे संदेश भेजा — "मैं आ गया हूँ; मुझे जो प्रिय लगे वह करो।"
25अपने राज्य की सीमा पर उन महाबली के आगमन का समाचार सुनकर मैं अत्यन्त प्रसन्नतापूर्वक उन तेज के सागर स्वामी के पास गया —
26आगे गौ लिए हुए और साक्षात् देवताओं के समान ब्राह्मणों, पुरोहितों तथा आचार्यों से घिरा हुआ।
27तेजस्वी जमदग्निपुत्र ने मुझे देखकर वह पूजा स्वीकार की और ये वचन कहे —
28राम ने कहा — हे भीष्म, तुम काशिराज की कन्या को किस भाव से हरण करके ले गए, जबकि तुम उसे चाहते ही न थे; और उसे फिर विदा क्यों कर दिया?
29तुमने इस निष्कलंक कीर्तिवाली देवी को धर्म से वंचित कर दिया; क्योंकि तुम्हारे द्वारा स्पर्श की जा चुकी इसका विवाह करना अब किसके लिए उचित होगा?
30एक बार तुम्हारे द्वारा हरण की जाने के कारण शाल्व ने इसे ठुकरा दिया है; अतः हे भारत, मेरे कहने से इसे स्वीकार कर लो।
31हे नरश्रेष्ठ, इस राजकुमारी का उद्देश्य पूरा होने दो; और हे राजन्, हे निष्पाप, यह उचित नहीं कि तुम्हारे कारण इसका अपमान हो।
32उसके लिए उन्हें विचलित देखकर मैंने कहा — "हे ब्राह्मण, मैं इसे किसी भी प्रकार फिर अपने भाई को अर्पित नहीं कर सकता।
33हे भृगुवंशी, इसने मुझसे पहले ही कहा था — 'मैं शाल्व की हूँ'; और मेरी अनुमति पाकर यह उसकी राजधानी को गई थी।
34न भय से, न दया से, न लोभ से, और न अपना उद्देश्य सिद्ध करने की इच्छा से मैं क्षत्रियधर्म का त्याग करूँगा — यही मेरा व्रत है।"
35तब क्रोध से फैले नेत्रों से राम ने मुझसे कहा — "हे नरश्रेष्ठ, यदि तुम मेरे वचनों का पालन न करोगे,
36तो मैं तुम्हारे मन्त्रियों सहित तुम्हारा वध कर दूँगा।" क्रोध से फैले नेत्रों से उन्होंने मुझसे बार-बार यही कहा।
37हे शत्रुदमन, मैंने उन भृगुश्रेष्ठ से बार-बार मधुर वचनों से विनती की, किन्तु उन्हें शान्त न कर सका।
38तब मैंने उन्हें सिर झुकाकर उन ब्राह्मणश्रेष्ठ से फिर कहा — "मेरे साथ युद्ध की घोषणा करने का क्या कारण है?
39हे भृगुवंशी, बचपन में आपने ही मुझे चार प्रकार के अस्त्रों का प्रयोग सिखाया था, और इस प्रकार मैं आपका ही शिष्य हूँ।"
40तब क्रोध से लाल नेत्रों से राम ने मुझसे कहा — "हे भीष्म, तुम मुझे अपना गुरु जानते हो, फिर भी हे महाबुद्धिमान् कुरुनन्दन, मेरी प्रसन्नता के लिए —
41काशिराज की इस कन्या को स्वीकार नहीं करते। हे कुरुवंश के आनन्दवर्धक, मुझे प्रसन्न करने का और कोई उपाय नहीं है।
42हे महाबाहु, इस देवी को स्वीकार करो और अपने वंश की वृद्धि करो। तुम्हारे ही कारण सन्मार्ग से च्युत हुई यह पति नहीं पाती।"
43ऐसा कहनेवाले शत्रुनगरियों के विजेता राम से मैंने कहा — "हे द्विजर्षि, यह न होगा; इसके लिए परिश्रम करने से क्या लाभ?
44हे जमदग्निपुत्र, हे प्रभो, पूर्वकाल में आप मेरे गुरु थे, यह विचारकर ही मैंने पहले आपको प्रसन्न करने का प्रयत्न किया।
45जो स्त्री किसी दूसरे के लिए तरसती हो और इसीलिए विषैली नागिन के समान हो, उसे इसके महान् अनिष्टों को जानते हुए कौन अपने घर में रहने देगा?
46हे महाव्रती, मैं वासव के भय से भी अपने धर्म का त्याग न करूँगा; या तो मुझ पर प्रसन्न होइए, या विलम्ब किए बिना जो आपकी इच्छा हो सो कीजिए।
47हे शुद्धहृदय स्वामी, पुराणों में महात्मा मरुत् द्वारा गाया हुआ यही श्लोक सुना जाता है —
48'गुरु का परित्याग तब विहित है जब वह अभिमानी हो, अथवा सन्मार्ग से भटक गया हो, अथवा अपने कर्तव्यों को न जानता हो।'
49अब तक मैंने आपका अत्यन्त आदर किया क्योंकि आप मेरे गुरु थे; किन्तु चूँकि आप गुरु के कर्तव्यों को नहीं जानते, इसलिए मैं आपसे युद्ध करूँगा।
50मैं युद्ध में गुरु का वध न करूँगा, विशेषतः जब वे ब्राह्मण हों; और आप तप में वृद्ध हैं, इसलिए मैंने आपको क्षमा कर दिया है।
51जो कोई किसी ब्राह्मण को क्षत्रिय के मित्र की भाँति युद्ध के लिए उद्यत देखकर, और रणभूमि से न भागते हुए उसे क्रोधपूर्वक मार डालता है,
52वह ब्रह्महत्या का दोषी नहीं होता — ऐसा धर्मशास्त्रों में प्रमाणपूर्वक कहा गया है। हे तपोधन, मैं अपने वर्ण के धर्म का पालन करनेवाला क्षत्रिय हूँ।
53मुझ जैसा जो व्यक्ति ऐसे व्यक्ति के साथ उसके योग्य आचरण करता है, वह अधर्म नहीं करता और न ही अनिष्ट को प्राप्त होता है।
54जब देश-काल के औचित्य को पहचानने में समर्थ तथा धर्म और अर्थ दोनों का ज्ञाता कोई पुरुष अपने कर्तव्य के विषय में सन्देह में पड़े, तब उसे बिना हिचकिचाहट वही करना चाहिए जो धर्मसंगत हो।
55चूँकि आप अर्थ से जुड़े एक विषय में मेरे प्रति अधर्मपूर्वक आचरण कर रहे हैं, इसलिए मैं निश्चय ही आपके साथ महायुद्ध करूँगा।
56ऐसी परिस्थिति में मेरी भुजाओं का बल, मेरा अतिमानवीय पराक्रम और मैं क्या कर सकता हूँ — यह देख लीजिए।
57हे द्विज, मैं जो कर सकता हूँ वह करूँगा और कुरुक्षेत्र में आपसे युद्ध करूँगा; और चूँकि आप युद्ध के इच्छुक हैं, युद्ध के लिए तैयार हो जाइए।
58हे युद्धप्रेमी, जाइए और कुरुक्षेत्र की रणभूमि में लौटिए; हे तपोधन, मैं वहीं आपसे युद्ध करने आऊँगा।
59मेरे छोड़े हुए सौ बाणों से मारे जाने पर, युद्ध में मेरे अस्त्रों से पवित्र होकर, आप अपनी तपस्या से अर्जित उन लोकों को प्राप्त करेंगे।
60हे भृगुवंशी, प्राचीन काल में जहाँ आपने अपने पितरों का नाम पवित्र किया था, वहीं मैं आपको पवित्र करूँगा।
61अतः हे युद्ध में दुर्जय, शीघ्र वहाँ आइए; और मैं आपके उस प्राचीन गर्व को चूर कर दूँगा जिसकी चर्चा ब्राह्मण आज भी करते हैं —
62वह गर्व जिसमें आप दीर्घकाल से लिप्त रहे हैं, अर्थात् 'समस्त क्षत्रियसमुदाय मुझ अकेले द्वारा जीता गया' — उसका कारण सुनिए।
63उस समय न भीष्म उत्पन्न हुआ था, न मुझ जैसा कोई क्षत्रिय ही था; तेजस्वी प्राणी तो बाद में उत्पन्न हुए — आपने तो केवल पुआल ही जलाया था।
64जो आपके शौर्य के गर्व और युद्ध की इच्छा को नष्ट करेगा वह अब जन्म ले चुका है। वह मैं ही हूँ — शत्रुनगरियों को जीतनेवाला भीष्म; और मैं युद्ध में आपका गर्व चूर कर दूँगा, इसमें कोई सन्देह नहीं।"
65भीष्म ने कहा — हे भारत, तब राम ने हँसते हुए मुझसे कहा — "हे भीष्म, यह सौभाग्य की बात है कि तुम मेरे साथ युद्ध में लड़ना चाहते हो।
66हे कुरुनन्दन, अब मैं तुम्हारे साथ कुरुक्षेत्र जाऊँगा। जो तुम कहते हो वही करूँगा। हे शत्रुदमन, वहाँ जाओ।
67हे भीष्म, वहाँ तुम्हारी माता जाह्नवी तुम्हें मेरे सौ बाणों से मारा गया और गीधों तथा अन्य मांसभक्षी पक्षियों का आहार बना हुआ देखेंगी।
68हे भूपाल, सिद्धों और चारणों द्वारा पूजित तुम्हारी माता तुम्हें मेरे द्वारा मारा गया देखकर आज विलाप करें।
69हे मूर्ख, युद्ध की इच्छा से ग्रस्त तुम्हें जन्म देनेवाली भगीरथ की पुत्री, वह महागुणवती माता, ऐसा दृश्य देखने योग्य तो नहीं है।
70हे भरतश्रेष्ठ, हे कुरुनन्दन, हे युद्ध में दुर्जय और युद्ध के इच्छुक भीष्म, आओ, हम साथ चलें; अपने रथ आदि ले लो।
71ऐसा कहनेवाले शत्रुनगरियों के विजेता राम को तब मैंने सिर झुकाकर कहा — "ऐसा ही हो।"
72यह कहकर राम युद्ध की इच्छा से कुरुक्षेत्र चले गए और मैंने भी नगर में प्रवेश करके सब कुछ सत्यवती को निवेदित कर दिया।
73तब स्वस्तिवाचन आदि मंगलकर्म सम्पन्न करके, अपनी माता का आशीर्वाद पाकर और द्विजों से आशीर्वाद माँगकर,
74मैं चाँदी से बने, श्वेत घोड़ों से जुते, देखने में सुन्दर, उत्तम आसनों से युक्त और बाघचर्म से ढके एक सुन्दर रथ पर आरूढ़ हुआ।
75वह महान् अस्त्रों तथा अन्य समस्त आवश्यक सामग्री से भी सुसज्जित था और उसे अश्वसंचालन की कला में निपुण, अच्छे कुल में उत्पन्न सारथि चला रहा था —
76सावधान, युद्ध में सुप्रशिक्षित और अनेक वीरकर्म देख चुका। मैंने भी श्वेत कवच से अपना शरीर ढककर,
77और श्वेत धनुष लेकर, अपने सिर पर श्वेत छत्र तनवाकर, हे भरतश्रेष्ठ, प्रस्थान किया।
78हे मनुजेश्वर, मुझ पर श्वेत चँवर भी डुलाए जा रहे थे। मैंने श्वेत वस्त्र, श्वेत उष्णीष धारण किए थे और मेरे समस्त आभूषण भी श्वेत थे।
79विजय की प्रार्थनाओं से स्तुति किया जाता हुआ मैं हस्तिनापुर से निकला और युद्धस्थल कुरुक्षेत्र में जा पहुँचा।
80हे राजन्, उस सारथि द्वारा हाँके गए मन अथवा वायु के समान वेगवाले वे घोड़े मुझे उस महायुद्ध में ले गए।
81कुरुक्षेत्र पहुँचकर मैं तथा वे तेजस्वी राम — दोनों ही अपना पराक्रम दिखाने के इच्छुक थे।
82उन परम तपस्वी राम की दृष्टि में आते ही मैंने अपना श्रेष्ठ शंख लेकर उसे उच्च स्वर में बजाया।
83हे राजन्, उस समय वह युद्ध देखने के लिए तपस्वी और अन्य वनवासी तथा इन्द्र को आगे रखकर देवसमूह भी वहाँ उपस्थित थे।
84उस समय वहाँ दिव्य पुष्पमालाएँ, दिव्य वाद्य और मेघसमूह दिखाई पड़े।
85तब भृगुवंशी के अनुगामी वे समस्त तपस्वी दर्शक बनकर हमें घेरकर खड़े हो गए।
86हे राजन्, तब समस्त प्राणियों का हित करनेवाली मेरी दिव्य माता ने अपने ही रूप में मुझसे कहा — "यह तुमने क्या चाहा है?
87हे कुरुवंश के आधार, मैं जमदग्निपुत्र के पास जाकर उनसे बार-बार यह प्रार्थना करूँगी — 'भीष्म से युद्ध मत कीजिए।'
88हे पुत्र, हे भूपाल, ब्राह्मण के साथ इस प्रकार युद्ध मत करो; जमदग्निपुत्र से युद्ध मत करो" — इस प्रकार उन्होंने मुझे फटकारा।
89"उनका बल हर के समान है और वे क्षत्रियवंश के संहारक हैं; जिन राम के साथ तुम युद्ध करना चाहते हो वे तुम्हें भलीभाँति ज्ञात हैं।"
90हे भरतश्रेष्ठ, तब मैंने उन देवी को प्रणाम करके और हाथ जोड़कर वह सब कह सुनाया जो स्वयंवर में घटित हुआ था।
91हे नृपश्रेष्ठ, मैंने उन्हें यह भी बताया कि मैंने राम से किस प्रकार बात की, तथा काशिराज की कन्या का पूरा पुराना वृत्तान्त भी।
92तब मेरी माता, वह महानदी, राम के पास जाकर मेरे लिए उन भृगुवंशी ऋषि से विनती करती हुई
93ये वचन बोलीं — "भीष्म से युद्ध मत कीजिए, क्योंकि वह आपका शिष्य है।" और उन्होंने भी विनती करती हुई उनसे कहा — "भीष्म का संकल्प फेर दीजिए। मैं यहाँ इसीलिए हूँ कि वह मेरी इच्छा पूरी नहीं करता।"
94वैशम्पायन ने कहा — तब गंगा पुत्र-स्नेह के कारण फिर भीष्म के पास आईं, किन्तु क्रोध से फैले नेत्रोंवाले उसने उनके वचनों पर ध्यान नहीं दिया।
95तब धर्मात्मा महातपस्वी वे भृगुश्रेष्ठ उसके सामने आ उपस्थित हुए और उन द्विजश्रेष्ठ ने उसे युद्ध के लिए ललकारा।
नेपाली
1भीष्मले भने — "हे राम, भीष्मको वध गर्नुहोस्" — हे प्रभो, यसरी पटकपटक आग्रह गर्ने ती रोइरहेकी कन्यालाई उनले भने।
2"हे काशिराजकुमारी, हे सुन्दर वर्णवाली, म वेदज्ञहरूको आज्ञाविना आफ्नै इच्छाले शस्त्र उठाउँदिनँ; तिम्रा निम्ति अरू के गरूँ?
3हे राजकुमारी, भीष्म र शाल्व दुवैले मेरा वचनको पालन गर्छन् र म यो कार्य सिद्ध गरिदिनेछु। शोक नगर।
4तर म कुनै पनि अवस्थामा द्विजहरूको आज्ञाविना शस्त्र उठाउनेछैनँ; किनभने मैले यही व्रत लिएको छु।"
5अम्बाले भनिन् — कुनै न कुनै रूपमा मेरो दुःखको मूल भीष्म नै हुन्; त्यसैले हे प्रभो, ढिलाइ नगरी उनको वध गर्नुहोस्।
6रामले भने — हे काशिराजकुमारी, म तिमीलाई फेरि भन्छु कि यद्यपि भीष्म तिम्रो पूजनीय हुन्, तापनि उनी मेरो भनाइमा तिम्रा दुवै चरण आफ्नो शिरमा धारण गर्नेछन्।
7अम्बाले भनिन् — हे राम, यदि तपाईं मलाई प्रिय लाग्ने कार्य गर्न चाहनुहुन्छ भने उनलाई युद्धका लागि ललकारेर युद्धमा उनको वध गर्नुहोस्, किनभने उनी असुरझैँ गर्जन्छन्; यसबाहेक जुन वचन तपाईंले दिनुभएको छ त्यो पूरा गर्नु तपाईंको योग्य हो।
8भीष्मले भने — जब अम्बा र राम यसरी वार्तालाप गर्दै थिए, तब ती परम धर्मात्मा ऋषि (अकृतव्रण)ले यी वचन भने —
9हे महाबाहु, तपाईंको शरणमा आएकी कन्यालाई त्याग्नु तपाईंको योग्य होइन। हे राम, यदि तपाईंले युद्धका लागि ललकार्दा भीष्मले —
10या त भनून् "म हारेँ" या तपाईंका वचनको पालन गरून्, भने हे भृगुवंशका आनन्दवर्धक, यी देवीको उद्देश्य सिद्ध हुनेछ।
11र हे प्रभो, तपाईंको प्रतिज्ञा पनि पूरा हुनेछ। हे राम, हे महर्षि, (क्षत्रियहरूसँगको युद्धको) बेला तपाईंको यो प्रतिज्ञा थियो —
12त्यस बेला सम्पूर्ण क्षत्रियलाई जितेर तपाईंले ब्राह्मणहरूसँग यो प्रतिज्ञा गर्नुभएको थियो — "यदि कुनै ब्राह्मण, क्षत्रिय, वैश्य वा शूद्रले युद्धमा —
13ब्राह्मणको घातक बन्नेछ भने म उसको वध गर्नेछु।" हे भृगुवंशी, "अनि जो पनि भयले मेरो शरणमा आउनेछ,
14उसलाई म जबसम्म जीवित छु तबसम्म कुनै पनि प्रकारले त्याग्नेछैनँ — चाहे कुनै क्षत्रिय नै मसँग युद्ध गर्न आओस्।
15हे भृगुवंशी, "म उसको वध गर्नेछु, चाहे ऊ जतिसुकै तेजस्वी किन नहोस्।" हे राम, कुरुवंशका आधार ती भीष्म ठीक यस्तै छन्; त्यसैले हे राम, उनीसँग युद्ध गर्नुहोस्।
16रामले भने — हे ऋषिश्रेष्ठ, मलाई आफ्नो पूर्वप्रतिज्ञा सम्झना छ; तर यस अवसरमा म यस्तो उपाय गर्नेछु जसबाट शान्तिपूर्ण ढङ्गले नै मेरो उद्देश्य सिद्ध होस्।
17काशिराजकुमारीको यो अभीष्ट कार्य साँच्चै महान् छ। यी देवीलाई सँगै लिएर म आफैँ त्यहाँ जानेछु जहाँ उनी छन्।
18यदि युद्धमा आफ्ना कर्ममा गर्व गर्ने भीष्मले मेरो आज्ञाको पालन गरेनन् भने, म त्यस अहङ्कारीको निश्चय नै वध गरिदिनेछु।
19मैले छोडेका बाण प्राणीहरूको शरीरमा अड्किँदैनन् (आरपार निस्कन्छन्); क्षत्रियहरूसँग भएको युद्धमा यो तपाईंलाई थाहै छ।
20यसो भनेर राम, ब्रह्मज्ञानी ती महातपस्वीहरूसँग, प्रस्थानको विचारले उठे।
21तब ती तपस्वी रातभर त्यहीँ बसेर आफ्ना होम आदि कर्म सम्पन्न गरी मेरो प्राण लिने इच्छाले हिँडे।
22हे महाराज, तब राम ती ब्रह्मवादीहरूसँग, ती कन्यालाई सँगै लिएर, कुरुक्षेत्रतिर प्रस्थान गरे।
23भृगुवंशमा अग्रगण्य उनलाई अगाडि राखेर ती सम्पूर्ण महात्मा तपस्वी सरस्वती नदीमा पुगेर त्यहीँ डेरा हालेर बसे।
24भीष्मले भने — डेरा हालेको तेस्रो दिन ती महाव्रतीले मलाई सन्देश पठाए — "म आइपुगेँ; मलाई जे प्रिय लाग्छ त्यही गर।"
25आफ्नो राज्यको सिमानामा ती महाबलीको आगमनको समाचार सुनेर म अत्यन्त प्रसन्नतापूर्वक ती तेजका सागर स्वामीकहाँ गएँ —
26अगाडि गाई लिएर र साक्षात् देवताझैँ ब्राह्मण, पुरोहित तथा आचार्यहरूले घेरिएर।
27तेजस्वी जमदग्निपुत्रले मलाई देखेर त्यो पूजा स्वीकार गरे र यी वचन भने —
28रामले भने — हे भीष्म, तिमीले काशिराजकी कन्यालाई कुन भावले हरण गरेर लग्यौ, जब कि तिमी उनलाई चाहँदै नथियौ; र उनलाई फेरि किन बिदा गर्यौ?
29तिमीले यी निष्कलङ्क कीर्तिवाली देवीलाई धर्मबाट वञ्चित पार्यौ; किनभने तिमीबाट स्पर्श गरिसकिएकी यिनको विवाह गर्नु अब कसका निम्ति उचित होला?
30एकपटक तिमीबाट हरण गरिएकाले शाल्वले यिनलाई ठुकराएका छन्; त्यसैले हे भारत, मेरो भनाइले यिनलाई स्वीकार गर।
31हे नरश्रेष्ठ, यी राजकुमारीको उद्देश्य पूरा हुन देऊ; र हे राजन्, हे निष्पाप, यो उचित होइन कि तिम्रो कारणले यिनको अपमान होस्।
32उनका निम्ति उनलाई विचलित देखेर मैले भनेँ — "हे ब्राह्मण, म यिनलाई कुनै पनि प्रकारले फेरि आफ्ना भाइलाई अर्पण गर्न सक्दिनँ।
33हे भृगुवंशी, यिनले मलाई पहिल्यै भनेकी थिइन् — 'म शाल्वकी हुँ'; र मेरो अनुमति पाएर यिनी उनको राजधानीतिर गएकी थिइन्।
34न भयले, न दयाले, न लोभले, र न आफ्नो उद्देश्य सिद्ध गर्ने इच्छाले म क्षत्रियधर्मको त्याग गर्नेछु — यही मेरो व्रत हो।"
35तब क्रोधले फैलिएका आँखाले रामले मलाई भने — "हे नरश्रेष्ठ, यदि तिमीले मेरा वचनको पालन गरेनौ भने,
36म तिम्रा मन्त्रीहरूसहित तिम्रो वध गरिदिनेछु।" क्रोधले फैलिएका आँखाले उनले मलाई पटकपटक यही भने।
37हे शत्रुदमन, मैले ती भृगुश्रेष्ठसँग पटकपटक मधुर वचनले विन्ती गरेँ, तर उनलाई शान्त पार्न सकिनँ।
38तब मैले उनलाई शिर निहुराई ती ब्राह्मणश्रेष्ठलाई फेरि भनेँ — "मसँग युद्धको घोषणा गर्नुको के कारण छ?
39हे भृगुवंशी, बाल्यकालमा तपाईंले नै मलाई चार प्रकारका अस्त्रको प्रयोग सिकाउनुभएको थियो, र यसरी म तपाईंकै शिष्य हुँ।"
40तब क्रोधले राता आँखाले रामले मलाई भने — "हे भीष्म, तिमी मलाई आफ्नो गुरु जान्दछौ, तैपनि हे महाबुद्धिमान् कुरुनन्दन, मेरो प्रसन्नताका निम्ति —
41काशिराजकी यी कन्यालाई स्वीकार गर्दैनौ। हे कुरुवंशका आनन्दवर्धक, मलाई प्रसन्न पार्ने अर्को कुनै उपाय छैन।
42हे महाबाहु, यी देवीलाई स्वीकार गर र आफ्नो वंशको वृद्धि गर। तिम्रै कारणले सन्मार्गबाट च्युत भएकी यिनले पति पाउँदिनन्।"
43यसो भन्ने शत्रुनगरहरूका विजेता रामलाई मैले भनेँ — "हे द्विजर्षि, यो हुनेछैन; यसका निम्ति परिश्रम गरेर के लाभ?
44हे जमदग्निपुत्र, हे प्रभो, पूर्वकालमा तपाईं मेरा गुरु हुनुहुन्थ्यो, यही विचार गरेर मैले पहिले तपाईंलाई प्रसन्न पार्ने प्रयत्न गरेँ।
45जुन स्त्री अर्कैका निम्ति तड्पिरहेकी होस् र त्यसैले विषालु नागिनीझैँ होस्, उसलाई यसका महान् अनिष्ट जानीजानी कसले आफ्नो घरमा बस्न देला?
46हे महाव्रती, म वासवको भयले पनि आफ्नो धर्मको त्याग गर्नेछैनँ; या त ममाथि प्रसन्न हुनुहोस्, या ढिलाइ नगरी जे तपाईंको इच्छा छ त्यही गर्नुहोस्।
47हे शुद्धहृदयी स्वामी, पुराणहरूमा महात्मा मरुत्ले गाएको यही श्लोक सुनिन्छ —
48'गुरुको परित्याग तब विहित छ जब उनी अभिमानी हुन्, अथवा सन्मार्गबाट भड्किएका हुन्, अथवा आफ्ना कर्तव्य नजान्ने हुन्।'
49अहिलेसम्म मैले तपाईंको अत्यन्त आदर गरेँ किनभने तपाईं मेरा गुरु हुनुहुन्थ्यो; तर किनकि तपाईं गुरुका कर्तव्य जान्नुहुन्न, त्यसैले म तपाईंसँग युद्ध गर्नेछु।
50म युद्धमा गुरुको वध गर्नेछैनँ, विशेष गरी जब उनी ब्राह्मण हुन्; र तपाईं तपमा वृद्ध हुनुहुन्छ, त्यसैले मैले तपाईंलाई क्षमा गरेको छु।
51जसले कुनै ब्राह्मणलाई क्षत्रियको मित्रझैँ युद्धका लागि उद्यत देखेर, र रणभूमिबाट नभागिरहेको उसलाई क्रोधपूर्वक मारिदिन्छ,
52ऊ ब्रह्महत्याको दोषी हुँदैन — यस्तो धर्मशास्त्रमा प्रमाणपूर्वक भनिएको छ। हे तपोधन, म आफ्नो वर्णको धर्म पालन गर्ने क्षत्रिय हुँ।
53मजस्तो जो व्यक्तिले त्यस्ता व्यक्तिसँग उसको योग्य आचरण गर्छ, उसले अधर्म गर्दैन र न त अनिष्ट नै भोग्छ।
54जब देशकालको औचित्य चिन्न सक्ने तथा धर्म र अर्थ दुवैका ज्ञाता कुनै पुरुष आफ्नो कर्तव्यको विषयमा शङ्कामा परून्, तब उनले नहिचकिचाई त्यही गर्नुपर्छ जुन धर्मसंगत होस्।
55किनकि तपाईं अर्थसँग जोडिएको एउटा विषयमा मप्रति अधर्मपूर्वक आचरण गर्दै हुनुहुन्छ, त्यसैले म निश्चय नै तपाईंसँग महायुद्ध गर्नेछु।
56यस्तो परिस्थितिमा मेरा पाखुराको बल, मेरो अतिमानवीय पराक्रम र म के गर्न सक्छु — यो हेर्नुहोस्।
57हे द्विज, म जे गर्न सक्छु त्यो गर्नेछु र कुरुक्षेत्रमा तपाईंसँग युद्ध गर्नेछु; र किनकि तपाईं युद्धका इच्छुक हुनुहुन्छ, युद्धका लागि तयार हुनुहोस्।
58हे युद्धप्रेमी, जानुहोस् र कुरुक्षेत्रको रणभूमिमा फर्कनुहोस्; हे तपोधन, म त्यहीँ तपाईंसँग युद्ध गर्न आउनेछु।
59मैले छोडेका सय बाणले मारिएपछि, युद्धमा मेरा अस्त्रले पवित्र भई, तपाईंले आफ्नो तपस्याले आर्जन गरेका ती लोक प्राप्त गर्नुहुनेछ।
60हे भृगुवंशी, प्राचीन कालमा जहाँ तपाईंले आफ्ना पितृहरूको नाम पवित्र पार्नुभएको थियो, त्यहीँ म तपाईंलाई पवित्र पार्नेछु।
61त्यसैले हे युद्धमा दुर्जय, चाँडै त्यहाँ आउनुहोस्; र म तपाईंको त्यो प्राचीन गर्व चूर पारिदिनेछु जसको चर्चा ब्राह्मणहरूले आज पनि गर्छन् —
62त्यो गर्व जसमा तपाईं दीर्घकालदेखि लिप्त हुनुहुन्छ, अर्थात् 'सम्पूर्ण क्षत्रियसमुदाय म एक्लैले जितेँ' — त्यसको कारण सुन्नुहोस्।
63त्यस बेला न भीष्म जन्मेको थियो, न मजस्तो कुनै क्षत्रिय नै थियो; तेजस्वी प्राणी त पछि जन्मे — तपाईंले त केवल पराल मात्र जलाउनुभयो।
64जसले तपाईंको शौर्यको गर्व र युद्धको इच्छा नष्ट गर्नेछ ऊ अब जन्मिसकेको छ। त्यो म नै हुँ — शत्रुनगरहरूलाई जित्ने भीष्म; र म युद्धमा तपाईंको गर्व चूर पारिदिनेछु, यसमा कुनै सन्देह छैन।"
65भीष्मले भने — हे भारत, तब रामले हाँस्दै मलाई भने — "हे भीष्म, यो सौभाग्यको कुरा हो कि तिमी मसँग युद्धमा लड्न चाहन्छौ।
66हे कुरुनन्दन, अब म तिमीसँगै कुरुक्षेत्र जानेछु। जे तिमी भन्छौ त्यही गर्नेछु। हे शत्रुदमन, त्यहाँ जाऊ।
67हे भीष्म, त्यहाँ तिम्री आमा जाह्नवीले तिमीलाई मेरा सय बाणले मारिएको र गिद्ध तथा अन्य मासुभक्षी पक्षीहरूको आहार बनेको देख्नेछिन्।
68हे भूपाल, सिद्ध र चारणहरूद्वारा पूजित तिम्री आमाले तिमीलाई मबाट मारिएको देखेर आज विलाप गरून्।
69हे मूर्ख, युद्धको इच्छाले ग्रस्त तिमीलाई जन्म दिने भगीरथकी छोरी, ती महागुणवती माता, यस्तो दृश्य हेर्न योग्य त होइनन्।
70हे भरतश्रेष्ठ, हे कुरुनन्दन, हे युद्धमा दुर्जय र युद्धका इच्छुक भीष्म, आऊ, हामी सँगै जाऔँ; आफ्ना रथ आदि लेऊ।"
71यसो भन्ने शत्रुनगरहरूका विजेता रामलाई तब मैले शिर निहुराई भनेँ — "यस्तै होस्।"
72यसो भनेर राम युद्धको इच्छाले कुरुक्षेत्र गए र मैले पनि नगरमा प्रवेश गरी सबै कुरा सत्यवतीलाई निवेदन गरेँ।
73तब स्वस्तिवाचन आदि मङ्गलकर्म सम्पन्न गरी, आफ्नी आमाको आशीर्वाद पाई र द्विजहरूसँग आशीर्वाद मागी,
74म चाँदीले बनेको, सेता घोडा जोतिएको, हेर्नमा सुन्दर, उत्तम आसनले युक्त र बाघछालाले ढाकिएको एउटा सुन्दर रथमा आरूढ भएँ।
75त्यो महान् अस्त्र तथा अन्य सम्पूर्ण आवश्यक सामग्रीले पनि सुसज्जित थियो र त्यसलाई अश्वसञ्चालनको कलामा निपुण, असल कुलमा जन्मेका सारथिले चलाइरहेका थिए —
76सावधान, युद्धमा सुप्रशिक्षित र अनेक वीरकर्म देखिसकेका। मैले पनि सेतो कवचले आफ्नो शरीर ढाकेर,
77र सेतो धनु लिएर, आफ्नो शिरमाथि सेतो छाता तन्काएर, हे भरतश्रेष्ठ, प्रस्थान गरेँ।
78हे मनुजेश्वर, ममाथि सेता चँवर पनि हल्लाइँदै थिए। मैले सेता वस्त्र, सेतो पगडी धारण गरेको थिएँ र मेरा सम्पूर्ण गहना पनि सेता थिए।
79विजयका प्रार्थनाहरूले स्तुति गरिँदै म हस्तिनापुरबाट निस्केँ र युद्धस्थल कुरुक्षेत्रमा गएर पुगेँ।
80हे राजन्, ती सारथिले हाँकेका मन वा वायुसमान वेगवाला ती घोडाहरूले मलाई त्यस महायुद्धमा पुर्याए।
81कुरुक्षेत्र पुगेपछि म तथा ती तेजस्वी राम — दुवै नै आफ्नो पराक्रम देखाउन इच्छुक थियौँ।
82ती परम तपस्वी रामको दृष्टिमा पर्नासाथ मैले आफ्नो श्रेष्ठ शङ्ख लिएर त्यसलाई उच्च स्वरमा फुकेँ।
83हे राजन्, त्यस बेला त्यो युद्ध हेर्न तपस्वी र अन्य वनवासी तथा इन्द्रलाई अगाडि राखेर देवसमूह पनि त्यहाँ उपस्थित थिए।
84त्यस बेला त्यहाँ दिव्य पुष्पमाला, दिव्य वाद्य र मेघसमूह देखा परे।
85तब भृगुवंशीका अनुगामी ती सम्पूर्ण तपस्वी दर्शक बनेर हामीलाई घेरेर उभिए।
86हे राजन्, तब सम्पूर्ण प्राणीको हित गर्ने मेरी दिव्य आमाले आफ्नै रूपमा मलाई भनिन् — "यो तिमीले के चाहेका छौ?
87हे कुरुवंशका आधार, म जमदग्निपुत्रकहाँ गएर उनीसँग पटकपटक यो प्रार्थना गर्नेछु — 'भीष्मसँग युद्ध नगर्नुहोस्।'
88हे पुत्र, हे भूपाल, ब्राह्मणसँग यसरी युद्ध नगर; जमदग्निपुत्रसँग युद्ध नगर" — यसरी उनले मलाई हप्काइन्।
89"उनको बल हरसमान छ र उनी क्षत्रियवंशका संहारक हुन्; जुन रामसँग तिमी युद्ध गर्न चाहन्छौ उनी तिमीलाई राम्ररी थाहै छन्।"
90हे भरतश्रेष्ठ, तब मैले ती देवीलाई प्रणाम गरी र हात जोडेर त्यो सबै भनेँ जुन स्वयंवरमा घटेको थियो।
91हे नृपश्रेष्ठ, मैले उनलाई यो पनि बताएँ कि मैले रामसँग कसरी कुरा गरेँ, तथा काशिराजकी कन्याको पूरा पुरानो वृत्तान्त पनि।
92तब मेरी आमा, ती महानदी, रामकहाँ गएर मेरा निम्ति ती भृगुवंशी ऋषिसँग विन्ती गर्दै
93यी वचन भनिन् — "भीष्मसँग युद्ध नगर्नुहोस्, किनभने ऊ तपाईंको शिष्य हो।" र उनले पनि विन्ती गर्दै गरेकी उनलाई भने — "भीष्मको सङ्कल्प फेरिदिनुहोस्। म यहाँ त्यसैले छु कि उसले मेरो इच्छा पूरा गर्दैन।"
94वैशम्पायनले भने — तब गङ्गा पुत्रस्नेहका कारण फेरि भीष्मकहाँ आइन्, तर क्रोधले फैलिएका आँखा भएका उनले उनका वचनमा ध्यान दिएनन्।
95तब धर्मात्मा महातपस्वी ती भृगुश्रेष्ठ उनको सामु आइपुगे र ती द्विजश्रेष्ठले उनलाई युद्धका लागि ललकारे।