प्रजागर पर्व — विदुर द्वारा नीति का विवेचन
खण्ड 3 — विराट एवं उद्योग पर्व · अध्याय 108
संस्कृत
1विदुर उवाच अत्रैवोदाहरन्तीममितिहासं पुरातनम्। आत्रेयस्य च संवाद साध्यानां चेति नः श्रुतम्॥
2चरन्तं हसरूपेण महर्षिं संशितव्रतम्। साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा॥
3साध्या ऊचुः साध्या देवा वयमेते महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम्। श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम्॥
4हंस उवाच एतत् कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः। ग्रन्धि विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मसमं नयीत॥
5आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति॥
6नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी। न चाभिमानी न च हीनवृत्तो रुक्षां वाचं रुषती वर्जयीत॥
7मर्माण्यस्थीनि हृदयं तथासून् रूक्षा वाचो निर्दहन्तीह पुंसाम्। तस्माद् वाचमुषती रूक्षरूपां धर्मारामो नित्यशो वर्जयीत॥
8अरुन्तुदं परुष रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान्। विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निर्ऋतिं वै वहन्तम्॥
9भृशं सुतीक्ष्णैरनलार्कदीप्तैः। स विध्यमानोऽप्यतिदह्यमानो विद्यात् कविः सुकृतं मे दधाति॥
10यदि सन्तं सेवति सद्यसन्तं तपस्विनं यदि वा स्तेनमेवा वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति॥
11अतिवादं न प्रवदेन वादयेद् योऽनाहतः प्रतिहन्यान्न घातयेत्। हन्तुं च यो नेच्छति पापकं वै तस्मै देवाः स्पृहयन्त्यागताय॥
12अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद् व्याहृतं तद् द्वितीयम्। प्रियं वदेद् व्याहृतं तत् तृतीयं धर्म वदेद् व्याहृतं तच्चतुर्थम्॥
13यादृशैः संनिविंशते यादृशांश्चोपसेवते। यादृगिच्छेच्च भवितुं तादृग् भवति पूरुषः॥
14यतो यतो निवर्तते ततस्ततो विमुच्यते। निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि॥
15न जीयते चानुजिगीषतेऽन्यान् न वैरकृच्चाप्रतिघातकश्चा निन्दाप्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम्॥
16भावमिच्छति सर्वस्य नाभावे कुरुते मनः। सत्यवादी मृदुर्दान्तो य: स उत्तमपूरुषः॥
17नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च। रन्ध्र परस्य जानाति यः स मध्यमपूरुषः॥
18दुःशासनस्तूपहतोऽभिशस्तो नावर्तते मन्युवशात् कृतघ्नः। न कस्यचिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः॥
19न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः। निराकरोति मित्राणि यो वै सोऽधमपूरुषः॥।
20उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान्। अधमांस्तु न सेवेत य इच्छेद् भूतिमात्मनः॥
21प्राप्नोति वै चित्तमसद्वलेन नित्योत्थानात् प्रज्ञया पौरुषेण। न त्वेव सम्यग् लभते प्रशंसा न वृत्तमाप्नोति महाकुलानाम्॥
22धृतराष्ट्र उवाच महाकुलेभ्यः स्पृहयन्ति देवा धर्मार्थनित्याश्च बहुश्रुताश्चा पृच्छामि त्वां विदुर प्रश्नमेतं भवन्ति वै कानि महाकुलानि॥
23विदुर उवाच तपो दमो ब्रह्मवित्तं वितानाः पुण्या विवाहाः सततान्नदानम्। येष्वेवैते सप्त गुणा वसन्ति सम्यग्वृत्तास्तानि महाकुलानि॥
24श्चित्तप्रसादेन चरन्ति धर्मम्। ते कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि॥
25अनिज्यया कुविवाहैर्वेदस्योत्सादनेन च। कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च॥
26देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च। कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च॥
27ब्राह्मणानां परिभवात् परिवादाच्च भारत। कुलान्यकुलतां यान्ति न्यासापहरणेन च॥
28कुलानि समुपेतानि गोभिः पुरुषतोऽर्थतः। कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः॥
29वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि। कुलसंख्यां च गच्छन्ति कर्षन्ति च महद् यशः॥
30वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥
31गोभिः पशुभिरश्चैश्च कृष्या च सुसमृद्धया। कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः॥
32मा नः कुले वैरकृत् कश्चिदस्तु राजाऽमात्यो मा परस्वापहारी। मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः॥
33यश्च नो ब्राह्मणान् हन्याद् यश्च नो ब्राह्मणान् द्विषेत्। न नः स समिति गच्छेद् यश्च नो निर्वपेत् कृषिम्।।३३।
34तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता। सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥
35श्रद्धया परया राजन्नुपनीतानि सत्कृतिम्। प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मिणाम्॥
36सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथान्ये महीजाः। एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः॥
37न तन्मित्रं यस्य कोपाद् बिभेति यद् वा मित्रं शङ्कितेनोपचर्यम्। यस्मिन् मित्रे पितरीवाश्वसीत तद् वै मित्रं सङ्गत्तानीतराणि॥
38यः कश्चिदप्यसम्बद्धो मित्रभावेन वर्तते। स एव बन्धुस्तन्मित्रं सा गतिस्तत् परायणम्॥
39चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः। पारिप्लवमतेर्नित्यमध्रुवो मित्रसंग्रहः॥
40चलचित्तमनात्मानमिन्द्रियाणां वशानुगम्। अर्थाः समभिवर्तन्ते हंसाः शुष्कं सरो यथा।॥
41अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः। शीलमेतदसाधूनाम, पारिप्लवं यथा।॥
42सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये। तान् मृतानपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते॥
43अर्चयेदेव मित्राणि सति वाऽसति वा धने। नानर्थयन् प्रजानाति मित्राणां सारफल्गुताम्॥
44संतापाद् भ्रश्यते रूपं संतापाद् भ्रश्यते बलम्। संतापाद् भ्रश्यते ज्ञानं संतापाद् व्याधिमृच्छति॥
45अनवाप्यं च शोकेन शरीरं चोपतप्यते। अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः॥
46पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते च। पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते च॥
47सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च। पर्यायशः सर्वमेते स्पृशन्ति तस्माद् धीरो न च हृष्येन्न शोचेत्॥
48चलानि हीमानि षडिन्द्रियाणि तेषां यद् यद् वर्धते यत्र यत्र। ततस्तत: स्रवते बुद्धिरस्य छिद्रोदकुम्भादिव नित्यमम्भः॥
49धृतराष्ट्र उवाच तनुरुद्धः शिखी राजा मिथ्योपचरितो मया। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति॥
50नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः। यत् तत् पदमनुद्विग्नं तन्मे वद महामते॥
51विदुर उवाच नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्। नान्यत्र लोभसंत्यागाच्छान्तिं पश्यामि तेऽनघ।५।।
52बुद्ध्या भयं प्रणुदति तपसा विन्दते महत्। गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति॥
53अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः। रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः॥
54स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः। तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते॥
55स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते। न स्त्रीषु राजन् रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः॥
56न वै भिन्ना जातु चरन्ति धर्म न वै शुकं प्राप्नुवन्तीह भिन्नाः। न वै भिन्ना गौरवं प्राप्नुवन्ति न वै भिन्नाः प्रशमं रोचयन्ति॥
57न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नैव तेषाम्। भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किंचिदन्यद् विनाशात्॥
58सम्पन्नं गोषु सम्भाव्यं सम्भाव्यं ब्राह्मणे तपः। सम्भाव्यं चापलं स्त्रीषु सम्भाव्यं ज्ञातितो भयम्॥
59तन्तवोऽs: प्यायिता नित्यं तनवो बहुलाः समाः। बहून् बहुत्वादायासान् सहन्तीत्युपमासताम्॥
60धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च। धृतराष्ट्रोल्मकानीव ज्ञातयो भरतर्षभ॥
61ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च। वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते॥
62महानप्येकजो वृक्षो बलवान् सुप्रतिष्ठितः। प्रसह्य एव वातेन सस्कन्धो मर्दितु क्षणात्॥
63अथ ये सहिता वृक्षाः सघशः सुप्रतिष्ठिताः। ते हि शीघ्रतमान् वातान् सहन्तेऽन्योन्यसंश्रयात्॥
64एवं मनुष्यमप्येकं गुणैरपि समन्वितम्। शक्यं द्विषन्तो मन्यन्ते वायुर्दुममिवैकजम्॥
65अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च। ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत।॥
66अवध्या ब्राह्मणा गावो ज्ञातयः शिशवः स्त्रियः। येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः॥
67न मनुष्ये गुणः कश्चिद् राजन् सधनतामृते। अनातुरत्वाद् भद्रं ते मृतकल्पा हि रोगिणः॥
68अव्याधिजं कटुकं शीर्षरोगि पापानुबन्धं परुषं तीक्ष्णमुष्णम्। सतां पेयं यन्न पिबन्त्यसन्तो मन्यु महाराज पिब प्रशाम्य॥
69रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम्। दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान् न सौख्यम्॥
70पुरा ह्युक्तं नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदी प्रेक्ष्य राजन्। दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति॥
71न तद् बलं यन्मृदुना विरुध्यते सूक्ष्मो धर्मस्तरसा सेवितव्यः। {दुप्रौढा गच्छति पुत्रपौत्रान्॥
72धार्तराष्ट्राः पाण्डवान् पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु। एकारिमित्राः कुरवो ह्येककार्या जीवन्तु राजन् सुखिनः समृद्धाः॥
73मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरुकुलमाजमीढ। पार्थान् बालान् वनबासप्रतप्तान् गोपायस्व स्वं यशस्तात रक्षन्॥
74र्मा तेऽन्तरं रिपव: प्रार्थयन्तु। सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र॥
अंग्रेज़ी
1Vidura said In this connection is quoted the old story of the conversation between the son of Atri and Saddhyas as heard by us.
2While the great Rishi of rigid vows was wandering as a mendicant, the deities called Saddhyas, in days of old, asked him of great wisdom.
3The Saddhyas said We are deities called Saddhyas. O great Rishi, seeing you, we are unable to guess who you are; but it seems to us that you are possessed of self-control and thorough acquaintance with the holy books. It is, therefore, most proper that you should discourse to us in the magnanimous words full of wisdom.
4The mendicant Rishi said O immortals, it has been heard by me that tranquility, self-control and the observance of true religion practiced until all the knots of one's heart be loosened bring for the agreeable and disagreeable to the level of one's own self.
5The man who is reviling should not be reviled; for, the pain that is felt by him who endures (the reviling) patiently consumes the reviler and draws away and assimilates the effect of his good deeds.
6Do not revile others, nor insult them. Do not quarrel with friends, nor associate with the vulgar. Do not be vain, nor of bad manners; and avoid words that are harsh and those that proceed from passion.
7Harsh words burn the very vitals, bones, heart and the life of men. Therefore he that has virtue for his refuse should always avoid harsh and angry words.
8The luckless man who pierce the hearts of others by thorns of harsh words touching their vitals bears on his face the misery and death of all men.
9A wise men pierced by sharp arrows of words from another and blazing like the fire or the sun should, though wounded and burning with extreme pain, bear all with patience, remembering that the effects of the slanderer's good deeds become his own.
10According as a man serves a saint or as he is wicked or virtuous or a thief, so he becomes endued with the habits of his associates; even as a cloth comes to be of the same colour with the die in which it is soaked.
11The gods court the company of one who when reviled does not return nori induces others to return and who when struck does not strike in return or make others strike and who does not wish to injure his assailant.
12Not to speak at all is better than speaking. Secondly, if you have to speak, tell the truth. Thirdly, if you have to speak the truth, speak what is agreeable; and fourthly, if you have to speak what is agreeable, speak what is conducive to morality.
13A man becomes like him with whom he associates or him whom he serves or him like whom he seeks to be.
14Those things one keeps himself away from; then he is freed from everything; and the slightest misery vanishes away.
15(Such a man) does vanquish others nor is vanquished by them; he never appears as other's enemy, nor their assailant; his mind remains calm at praise or blame; and he is unmoved by praise or blame.
16He desires prosperity for all and does not set his heart on their adversity. He is truthful, mind and can keep himself under control. And also he is the best of men.
17He who does not seek to solace another by telling untruth and who having promised performs and who knows the weakness of others, is a man of the middling type.
18Hard to get under control, unable to wear a soft look, owing to rage, when wounded by arms, ungrateful and incapable of being anybody's friend-these are the signs of an inferior man is this world.
19He, who does not appreciates benefits coming from others and who drives away all his friends, is an inferior man.
20He who desires prosperity for himself should serve good men and, on suitable occasions, men of the middling type; but he should never serve people of the inferior type.
21An unrighteous man obtains wealth by force, by incessant efforts, by intelligence and by prowess; but he does not win fame, properly so called, nor the wealth (virtues) of those born in high families.
22Dhritarashtra said The gods prefer those born of high families, and so also those who equally recognise virtue and worldly good and those that are deeply learned. I ask you, O Vidura, this question, "Who are those born in high families?"
23Vidura said Devotion, self-control, knowledge in the Vedas, sacrificial ceremonies, marriages in proper form and incessant gift of food, the families, in which these seven practices exist in proper forms, are consider to be high.
24Those, who do not deviate from the right path, whose forefathers are never pained (at their wrong doings), who practice virtue with cheerfulness of heart, who desire the increase of pure fame of their families, who avoid untruths, come from high families.
25By the non-performance of sacrifices and by the performance of impure marriages, by the leaving off of the study of the Vedas, high families become degenerated, as also by insults to the Brahmanas.
26By destruction of the wealth of the celestials, stealing the wealth of Brahmana and by the transgression of conduct of them, persons belonging to the high family comes into a low category.
27By speaking ill of the Brahmanas and by insulting them, O Bharata, the high families as become degenerated, also by the misappropriation of what has been entrusted to them..
28Families, even possessing cows, members and wealth, are not reckoned among families, who are of bad manners.
29Families, that are not of bad manners, though possessing but little wealth, are reckoned among families; and they win great fame.
30Good manners should be preserved with care for wealth comes and it goes. Those who are week in wealth, are not poor; but those who are weak in good manners are considered to be SO.
31Families well possessed of knowledge, horses and other animals and agricultural produce are not worth regarding, if they are wanting in good manners.
32Let none in our family be a creator of enemies; let none be a minister to the king; none, a thief stealing other's property; none, an enemy of his well-wisher; none, deceitful; none be addicted to falsehood; and none eat before making offerings to his ancestors, gods or guests.
33None in our family who kills the Brahmanas, none in our family who injures the Brahmanas and none in our family who impedes agriculture, should associate with us.
34A straw seat, room to sit in, water and sweet words, these are never wanting in the house of the good.
35These things, O king, the wise and virtuous men attached to the performance of pious acts ever keep ready for offering with reverence to their guests.
36As the Syandana tree, though thin, o king, can still bear weights which other large trees cannot; so persons of high families can bear the load of mental anxiety, which others cannot .
37He whose anger inspires fear or he who must be waited upon with fear is not a friend; but the friend whom one can trust as a father is a true friend. Other kinds of friendship are merely contracted in name.
38That friend who, though not related in any way, yet acts as a friend; and he is a true friend, a refuge and a protector.
39The making of friends by that man is not certain, who is of an unsteady mind or who does not serve old men or who is not constant in his opinions or who is of a frickle disposition. men are
40Prosperity forsakes those who are of unsteady minds, those who have no souls and those who are under the control of their senses, even as the swan forsakes the dried up lakes.
41To be angry all on a sudden and to be generous without cause are the signs of unrighteous like clouds that inconstant.
42The dead bodies of those, who, served and benefited by friends, show them ingratitude, are eaten up with disgust even by the birds of prey.
43Poor or rich, one should serve his friends. Unasked to do some service, a friend cannot make know the sincerity or insincerity of his heart.
44Sorrow destroys beauty. Sorrow destroys strength. Sorrow destroys knowledge; and sorrow brings on disease.
45Though one's object is not gained, yet the body is consumed by grief, which makes one's enemies glad; therefore do not give way to grief.
46A man again and again both dies and is born; a man again and again withers and grows; a man again and again asks and is asked; and a man again and again laments and is lamented for.
47Happiness and misery, prosperity and adversity, gain and loss, death and life come to all by turn; therefore he that is wise should not be glad nor sorry.
48The six senses are not constant. The understanding flows out in proportion to their strength, even as water flows out of a full pot through its holes.
49Dhritarashtra said The king (Yudhishthira), who resembles the fame of fire and who has been played false by me, will put an end to the life of my wicked sons in battle.
50Everything seems to be a source of anxiety. Hence my mind is constantly filled with anxiety. O you of great intelligence, speak to me what is calculated to remove my anxiety.
51Vidura said In nothing but knowledge and devotion, in nothing but the control of senses, in nothing else but the perfect abandonment of avarice, do I see your good.
52Knowledge removes fear and greatness is attained by devotion; and by serving one's elders and by application both knowledge and happiness are secured.
53Those, desirous of attaining salvation without securing the merit obtainable by gifts and by the study of the Vedas, roam in this world liberated from anger and jealousy.
54At the end of a good course of study or at the end of a battle well fought or at the end of asceticism well performed, does happiness increase.
55Those who are not in good terms with their blood relations get no sleep, through lying on beds well prepared; nor do they, O king, obtain pleasure from women or from the laudatory songs of professional eulogists.
56Those who are not in good terms with their blood relations cannot practice virtue; nor can they enjoy happiness in this world; nor they can win fame; nor do they derive pleasure from peace.
57They are not pleased with what is spoken for their benefit; they cannot get hat they do not possess; nor they can retain what they have. O chief among men, there is no other end of those that are not in good terms with their blood relations save destruction.
58Milk is possible in cows, devotion is possible in the Brahmanas; unsteadiness is possible among women; and cause of fear may be expected from blood relations.
59Several thin threads of the same length collected together can bear the weight of the shuttle-cock constantly passing over them easily owing to their numerical strength.
60Separated pieces of burning wood produce only smoke; but united they blaze. The same is the case, O Dhritarashtra, with blood relations.
61Those who harsh towards the Brahmanas, women, blood relations and cows fall, O Dhritarashtra, like ripe fruits from their stalks.
62A large tree standing by itself, through strong and firm, can in a moment be brought down with its truck by a strong wind.
63But those trees that grow close together firmly can bear the force of stronger winds owing to their mutual support.
64In the same way people consider a man, who is alone though endowed with many virtues, capable of being vanquished, like a tree standing alone by the wind. are
65Owing to mutual assistance and mutual support, blood relations grow like lotus stalks in a lake.
66The Brahmanas, cows, blood relations, infants and women must not be killed, as also those whose food we have eaten and who have come under our protection.
67In a man no quality develop, O king, without wealth; but you can gain your object owing to immunity from disease. Those that are suffering from disease are like the dead.
68Anger is a drink which the unrighteous cannot swallow. It brings on pain in the end, which is bitter, pungent and hot. It ought to be swallowed up by the good. You, great king, swallow it and be pacified.
69They that are affected with disease do not appreciate enjoyments; not do they gain any pleasure from wealth. Those that are affected with disease and so filled with sorrow do not know what enjoyment, proceeding from wealth, is.
70I told you before, O king, when I saw Draupadi won at dice-'Stop, Duryodhana; for they that are wise avoid excess at play.' You did not act accordingly.
71That is not strength which is opposed to softness. That policy should be pursued which is fraught with virtue. The policy having crookedness at its basis is soon destroyed; but the prosperity derived from a policy, at once strong and soft, descend to one's sons and grandsons.
72Let the sons of Dhritarashtra, therefore, make friends of the sons of Pandu; and let the sons of Pandu make friends with your sons; let the Kurus and Pandus live having the same friends and foes, o king, being happy and prosperous.
73You are now the refuge of the sons of Kuru. The race of Kuru, O Ajmida, is dependent on you. O dear, preserve your fame and protect the sons of Pritha who are mere boys and who are affected with the troubles of exile.
74O descendant of Kuru, make peace with the sons of Pandu; let not your enemies pry into your internal relations; they are all attached to truth. O god among men, O king among men, make Duryodhana renounce his ways.
हिन्दी
1विदुर ने कहा — इस प्रसंग में अत्रि के पुत्र तथा साध्यों के संवाद का वह प्राचीन इतिहास कहा जाता है, जैसा हमने सुना है।
2प्राचीन काल में, जब कठोर व्रत वाले वे महर्षि भिक्षुक के रूप में विचरण कर रहे थे, तब साध्य नामक देवताओं ने उन महाबुद्धिमान् से पूछा।
3साध्यों ने कहा — हम साध्य नामक देवता हैं। हे महर्षि, आपको देखकर भी हम यह अनुमान नहीं लगा पा रहे कि आप कौन हैं; किन्तु हमें ऐसा प्रतीत होता है कि आप आत्मसंयम से युक्त तथा शास्त्रों के पूर्ण ज्ञाता हैं। इसलिए यह अत्यन्त उचित है कि आप हमें बुद्धि से भरे उदार वचनों में उपदेश दें।
4भिक्षुक ऋषि ने कहा — हे अमरो, मैंने सुना है कि शान्ति, आत्मसंयम तथा सच्चे धर्म का वह आचरण, जो हृदय की समस्त ग्रन्थियाँ खुल जाने तक किया जाए, प्रिय तथा अप्रिय को अपने ही समान स्तर पर ले आता है।
5जो निन्दा करता है, उसकी निन्दा नहीं करनी चाहिए; क्योंकि जो (निन्दा को) धैर्यपूर्वक सहता है, उसके द्वारा भोगी गई पीड़ा निन्दक को जला देती है और उसके पुण्यकर्मों का फल खींचकर अपने में मिला लेती है।
6दूसरों की निन्दा मत करो, न उनका अपमान करो। मित्रों से कलह मत करो, न नीचों की संगति करो। न अभिमानी बनो, न दुराचारी; और कठोर वचनों तथा क्रोध से निकले वचनों से बचो।
7कठोर वचन मनुष्यों के मर्म, अस्थि, हृदय तथा प्राणों तक को जला देते हैं। इसलिए जिसका आश्रय धर्म है, उसे कठोर तथा क्रोधपूर्ण वचनों से सदा बचना चाहिए।
8वह अभागा पुरुष, जो कठोर वचनों के काँटों से दूसरों के मर्म को छूते हुए उनके हृदय को बींधता है, समस्त मनुष्यों का दुःख तथा मृत्यु अपने मुख पर धारण करता है।
9दूसरे के तीखे वचन-बाणों से बिंधा हुआ तथा अग्नि या सूर्य के समान जलता हुआ बुद्धिमान् पुरुष, यद्यपि आहत हो और अत्यन्त पीड़ा से दग्ध हो, तथापि यह स्मरण करते हुए सब कुछ धैर्यपूर्वक सहे कि निन्दक के पुण्यकर्मों का फल उसी का हो जाता है।
10मनुष्य जैसे साधु की सेवा करता है, अथवा जैसा वह दुष्ट, धर्मात्मा या चोर होता है, वैसे ही वह अपने संगियों के स्वभाव से युक्त हो जाता है — जैसे वस्त्र उसी रंग का हो जाता है जिस रंग में वह डुबोया जाता है।
11जो निन्दा किए जाने पर न स्वयं निन्दा लौटाता है और न दूसरों से लौटवाता है, जो प्रहार किए जाने पर न स्वयं प्रहार करता है और न दूसरों से करवाता है, और जो अपने ऊपर प्रहार करने वाले की हानि नहीं चाहता — देवता उसी की संगति चाहते हैं।
12बिलकुल न बोलना बोलने से श्रेष्ठ है। दूसरे, यदि बोलना ही पड़े तो सत्य बोलो। तीसरे, यदि सत्य बोलना ही पड़े तो प्रिय बोलो; और चौथे, यदि प्रिय बोलना ही पड़े तो वही बोलो जो धर्म के अनुकूल हो।
13मनुष्य जिसकी संगति करता है, अथवा जिसकी सेवा करता है, अथवा जिसके समान होना चाहता है — वह वैसा ही हो जाता है।
14जिन वस्तुओं से मनुष्य स्वयं को दूर रखता है, उन सबसे वह मुक्त हो जाता है; और तनिक-सा भी दुःख शेष नहीं रहता।
15(ऐसा पुरुष) न दूसरों को जीतता है, न उनसे जीता जाता है; वह न किसी का शत्रु बनकर प्रकट होता है, न किसी पर प्रहार करने वाला; प्रशंसा अथवा निन्दा में उसका मन शान्त बना रहता है; और वह स्तुति या निन्दा से विचलित नहीं होता।
16वह सबकी समृद्धि चाहता है और किसी की विपत्ति पर मन नहीं लगाता। वह सत्यवादी, मृदु तथा आत्मसंयमी होता है। और वही पुरुषों में श्रेष्ठ है।
17जो असत्य कहकर दूसरे को सान्त्वना देने का प्रयत्न नहीं करता, जो प्रतिज्ञा करके उसे पूरा करता है और जो दूसरों की दुर्बलता को जानता है — वह मध्यम श्रेणी का पुरुष है।
18जिसे वश में करना कठिन हो, जो क्रोध के कारण मृदु दृष्टि तक न रख सके, जो शस्त्रों से आहत होने पर भी न झुके, जो कृतघ्न हो और जो किसी का मित्र होने में असमर्थ हो — इस संसार में ये अधम पुरुष के लक्षण हैं।
19जो दूसरों से मिले उपकारों को नहीं मानता और जो अपने समस्त मित्रों को दूर भगा देता है — वह अधम पुरुष है।
20जो अपनी समृद्धि चाहता है, उसे सत्पुरुषों की सेवा करनी चाहिए और उपयुक्त अवसरों पर मध्यम श्रेणी के पुरुषों की भी; किन्तु उसे अधम श्रेणी के लोगों की सेवा कभी नहीं करनी चाहिए।
21अधर्मी पुरुष बल से, निरन्तर प्रयत्न से, बुद्धि से तथा पराक्रम से धन प्राप्त कर लेता है; किन्तु वह न वास्तविक कीर्ति पाता है, न उच्च कुलों में जन्मे पुरुषों का वह धन (अर्थात् उनके गुण)।
22धृतराष्ट्र ने कहा — देवता उच्च कुलों में जन्मे लोगों को प्रिय मानते हैं, और उन्हें भी जो धर्म तथा अर्थ को समान रूप से पहचानते हैं तथा जो गहरे विद्वान् हैं। हे विदुर, मैं तुमसे यह प्रश्न पूछता हूँ — "उच्च कुलों में जन्मे कौन हैं?"
23विदुर ने कहा — तप, आत्मसंयम, वेदों का ज्ञान, यज्ञकर्म, विधिपूर्वक विवाह तथा निरन्तर अन्नदान — जिन कुलों में ये सात आचार विधिपूर्वक विद्यमान हैं, वे ही उच्च माने जाते हैं।
24जो सन्मार्ग से विचलित नहीं होते, जिनके पूर्वजों को (उनके दुष्कर्मों से) कभी पीड़ा नहीं होती, जो प्रसन्न हृदय से धर्म का आचरण करते हैं, जो अपने कुल की निर्मल कीर्ति की वृद्धि चाहते हैं और जो असत्य से बचते हैं — वे उच्च कुलों से आते हैं।
25यज्ञ न करने से, अपवित्र विवाह करने से, वेदों का अध्ययन छोड़ देने से तथा ब्राह्मणों का अपमान करने से उच्च कुल भी पतित हो जाते हैं।
26देवताओं के धन का नाश करने से, ब्राह्मणों का धन चुराने से तथा उनके प्रति सदाचार का उल्लंघन करने से उच्च कुल के पुरुष भी नीच श्रेणी में आ जाते हैं।
27हे भरतवंशी, ब्राह्मणों की निन्दा करने से तथा उनका अपमान करने से, और साथ ही धरोहर के रूप में सौंपी गई वस्तु को हड़प लेने से उच्च कुल पतित हो जाते हैं।
28जिन कुलों का आचरण बुरा है, वे गौओं, जनों तथा धन से सम्पन्न होकर भी कुलों में नहीं गिने जाते।
29जिन कुलों का आचरण बुरा नहीं है, वे थोड़े ही धन वाले होकर भी कुलों में गिने जाते हैं; और वे महान् कीर्ति प्राप्त करते हैं।
30सदाचार की सावधानी से रक्षा करनी चाहिए, क्योंकि धन आता है और चला जाता है। जो धन से दुर्बल हैं वे दरिद्र नहीं हैं; किन्तु जो सदाचार से दुर्बल हैं, वे ही दरिद्र माने जाते हैं।
31जो कुल विद्या, अश्वों तथा अन्य पशुओं और कृषि की उपज से भरपूर हैं, वे भी यदि सदाचार से रहित हों तो आदर के योग्य नहीं हैं।
32हमारे कुल में कोई शत्रु उत्पन्न करने वाला न हो; कोई राजा का मन्त्री न बने; कोई दूसरों का धन चुराने वाला चोर न हो; कोई अपने हितैषी का शत्रु न हो; कोई कपटी न हो; कोई असत्य का व्यसनी न हो; और कोई अपने पितरों, देवताओं अथवा अतिथियों को अर्पण किए बिना भोजन न करे।
33हमारे कुल में जो ब्राह्मणों का वध करता हो, जो ब्राह्मणों को हानि पहुँचाता हो और जो कृषि में बाधा डालता हो — वह हमारे साथ संगति न करे।
34तृण का आसन, बैठने का स्थान, जल तथा मधुर वचन — ये सत्पुरुषों के घर में कभी नहीं चूकते।
35हे राजन्, पुण्यकर्मों में लगे बुद्धिमान् तथा धर्मात्मा पुरुष इन वस्तुओं को सदा तैयार रखते हैं, जिससे वे अपने अतिथियों को श्रद्धापूर्वक अर्पित कर सकें।
36हे राजन्, जैसे स्यन्दन वृक्ष पतला होते हुए भी वह भार सह लेता है जो अन्य बड़े वृक्ष नहीं सह सकते, वैसे ही उच्च कुलों के पुरुष उस मानसिक चिन्ता का भार सह लेते हैं जिसे दूसरे नहीं सह सकते।
37जिसका क्रोध भय उत्पन्न करता हो, अथवा जिसकी सेवा भय के साथ करनी पड़े — वह मित्र नहीं है; किन्तु जिस मित्र पर पिता के समान विश्वास किया जा सके, वही सच्चा मित्र है। अन्य प्रकार की मित्रताएँ केवल नाम की होती हैं।
38जो किसी प्रकार का सम्बन्धी न होते हुए भी मित्र के समान आचरण करता है — वही सच्चा मित्र है, वही आश्रय है और वही रक्षक है।
39जिसका मन चंचल है, अथवा जो वृद्धों की सेवा नहीं करता, अथवा जो अपने मत पर स्थिर नहीं रहता, अथवा जिसका स्वभाव अस्थिर है — उस पुरुष का मित्र बनाना निश्चित नहीं होता।
40जिनका मन चंचल है, जिनमें आत्मबल नहीं है और जो अपनी इन्द्रियों के वश में हैं — समृद्धि उन्हें वैसे ही छोड़ देती है जैसे हंस सूखे हुए सरोवरों को।
41सहसा क्रुद्ध हो जाना तथा बिना कारण उदार बन जाना — ये अधर्मी पुरुषों के लक्षण हैं, जो मेघों के समान चंचल होते हैं।
42जो मित्रों के द्वारा सेवा तथा उपकार पाकर भी उनके प्रति कृतघ्नता दिखाते हैं, उनके शव माँसभक्षी पक्षियों के द्वारा भी घृणापूर्वक ही खाए जाते हैं।
43निर्धन हो या धनी, मनुष्य को अपने मित्रों की सेवा करनी चाहिए। जब तक कोई सेवा करने को न कहा जाए, तब तक मित्र अपने हृदय की सच्चाई अथवा कपट को प्रकट नहीं कर सकता।
44शोक सौन्दर्य को नष्ट करता है। शोक बल को नष्ट करता है। शोक ज्ञान को नष्ट करता है; और शोक रोग ले आता है।
45अभीष्ट वस्तु प्राप्त न होने पर भी शोक से शरीर ही जलता है, जिससे शत्रु प्रसन्न होते हैं; इसलिए शोक के वश में मत होओ।
46मनुष्य बार-बार मरता है और बार-बार जन्म लेता है; मनुष्य बार-बार क्षीण होता है और बार-बार बढ़ता है; मनुष्य बार-बार माँगता है और उससे बार-बार माँगा जाता है; और मनुष्य बार-बार शोक करता है और उसके लिए बार-बार शोक किया जाता है।
47सुख और दुःख, समृद्धि और विपत्ति, लाभ और हानि, मृत्यु और जीवन — ये सबको बारी-बारी से प्राप्त होते हैं; इसलिए बुद्धिमान् को न हर्षित होना चाहिए, न शोकाकुल।
48छहों इन्द्रियाँ स्थिर नहीं हैं। उनके बल के अनुपात में बुद्धि बाहर बह जाती है — जैसे भरे हुए घड़े से उसके छिद्रों द्वारा जल बह जाता है।
49धृतराष्ट्र ने कहा — वह राजा (युधिष्ठिर), जो अग्नि की कीर्ति के समान है और जिसके साथ मैंने छल किया है, युद्ध में मेरे दुष्ट पुत्रों के प्राणों का अन्त कर देगा।
50सब कुछ चिन्ता का ही कारण प्रतीत होता है। इसीलिए मेरा मन निरन्तर चिन्ता से भरा रहता है। हे महाबुद्धिमान्, मुझसे वह कहो जो मेरी चिन्ता को दूर करने वाला हो।
51विदुर ने कहा — ज्ञान तथा तप के अतिरिक्त, इन्द्रियों के संयम के अतिरिक्त, तथा लोभ के पूर्ण त्याग के अतिरिक्त और किसी में मुझे तुम्हारा हित नहीं दिखाई देता।
52ज्ञान भय को दूर करता है और तप से महत्ता प्राप्त होती है; और अपने गुरुजनों की सेवा तथा अभ्यास से ज्ञान और सुख — दोनों प्राप्त होते हैं।
53जो मोक्ष प्राप्त करना चाहते हैं, वे दान तथा वेदाध्ययन से मिलने वाले पुण्य की अपेक्षा किए बिना ही, क्रोध और ईर्ष्या से मुक्त होकर इस संसार में विचरण करते हैं।
54भली प्रकार सम्पन्न किए गए अध्ययन के अन्त में, भली प्रकार लड़े गए युद्ध के अन्त में, अथवा भली प्रकार किए गए तप के अन्त में — सुख की वृद्धि होती है।
55जिनका अपने बन्धु-बान्धवों से मेल नहीं है, उन्हें भली-भाँति सजी शय्याओं पर लेटकर भी नींद नहीं आती; और हे राजन्, न वे स्त्रियों से सुख पाते हैं, न बन्दीजनों के स्तुतिगान से।
56जिनका अपने बन्धु-बान्धवों से मेल नहीं है, वे न धर्म का आचरण कर सकते हैं; न इस लोक में सुख भोग सकते हैं; न कीर्ति प्राप्त कर सकते हैं; और न शान्ति से आनन्द पा सकते हैं।
57जो उनके हित के लिए कहा जाता है, उससे वे प्रसन्न नहीं होते; जो उनके पास नहीं है उसे वे पा नहीं सकते; और जो उनके पास है उसे वे बचा नहीं सकते। हे नरश्रेष्ठ, जिनका अपने बन्धु-बान्धवों से मेल नहीं है, उनका विनाश के अतिरिक्त और कोई अन्त नहीं है।
58गौओं में दूध सम्भव है, ब्राह्मणों में तप सम्भव है; स्त्रियों में चंचलता सम्भव है; और बन्धु-बान्धवों से भय का कारण उत्पन्न हो सकता है।
59समान लम्बाई के अनेक पतले धागे एक साथ मिलकर, अपनी संख्या के बल से, अपने ऊपर निरन्तर चलने वाली ढरकी का भार सरलता से सह लेते हैं।
60अलग-अलग पड़े जलते हुए काष्ठ केवल धुआँ देते हैं; किन्तु एक साथ होने पर वे प्रज्वलित हो उठते हैं। हे धृतराष्ट्र, बन्धु-बान्धवों की भी यही दशा है।
61हे धृतराष्ट्र, जो ब्राह्मणों, स्त्रियों, बन्धु-बान्धवों तथा गौओं के प्रति कठोर हैं, वे डंठल से पके फलों की भाँति गिर पड़ते हैं।
62अकेला खड़ा हुआ बड़ा वृक्ष, चाहे कितना ही बलवान् और दृढ़ क्यों न हो, प्रबल वायु के द्वारा तने सहित क्षण भर में गिरा दिया जा सकता है।
63किन्तु जो वृक्ष एक साथ सटकर दृढ़ता से उगते हैं, वे परस्पर के सहारे से प्रबल वायु का वेग भी सह लेते हैं।
64इसी प्रकार, जो पुरुष अनेक गुणों से युक्त होकर भी अकेला है, उसे लोग वैसे ही पराजित किए जाने योग्य मानते हैं जैसे वायु के द्वारा अकेला खड़ा वृक्ष।
65परस्पर सहायता तथा परस्पर सहारे से बन्धु-बान्धव सरोवर में कमलनालों की भाँति बढ़ते हैं।
66ब्राह्मणों, गौओं, बन्धु-बान्धवों, बालकों तथा स्त्रियों का वध नहीं करना चाहिए; और न उनका जिनका अन्न हमने खाया है तथा जो हमारी शरण में आए हैं।
67हे राजन्, धन के बिना मनुष्य में कोई गुण विकसित नहीं होता; किन्तु नीरोग रहने से तुम अपना अभीष्ट प्राप्त कर सकते हो। जो रोग से पीड़ित हैं, वे मृतकों के समान हैं।
68क्रोध ऐसा पेय है जिसे अधर्मी निगल नहीं सकते। यह अन्त में ऐसी पीड़ा लाता है जो कड़वी, तीखी तथा जलाने वाली है। सत्पुरुषों को इसे निगल जाना चाहिए। हे महाराज, तुम इसे निगल लो और शान्त हो जाओ।
69जो रोग से पीड़ित हैं, वे भोगों का आनन्द नहीं ले पाते; न उन्हें धन से कोई सुख मिलता है। जो रोग से पीड़ित हैं और इसी कारण शोक से भरे हैं, वे नहीं जानते कि धन से मिलने वाला भोग क्या होता है।
70हे राजन्, जब मैंने द्रौपदी को द्यूत में जीता हुआ देखा था, तब मैंने तुमसे पहले ही कहा था — "रुक जाओ, दुर्योधन; क्योंकि बुद्धिमान् लोग द्यूत में अति से बचते हैं।" तुमने उसके अनुसार आचरण नहीं किया।
71जो मृदुता का विरोधी है, वह बल नहीं है। उसी नीति का अनुसरण करना चाहिए जो धर्म से युक्त हो। जिस नीति का आधार कुटिलता है, वह शीघ्र ही नष्ट हो जाती है; किन्तु जो नीति एक साथ दृढ़ तथा मृदु हो, उससे प्राप्त समृद्धि पुत्रों तथा पौत्रों तक चली जाती है।
72इसलिए धृतराष्ट्र के पुत्र पाण्डु के पुत्रों से मित्रता करें; और पाण्डु के पुत्र तुम्हारे पुत्रों से मित्रता करें; हे राजन्, कुरु तथा पाण्डव समान मित्रों तथा समान शत्रुओं वाले होकर, सुखी और समृद्ध होकर रहें।
73इस समय तुम्हीं कुरुपुत्रों के आश्रय हो। हे अजमीढ, कुरुवंश तुम पर ही निर्भर है। हे प्रिय, अपने यश की रक्षा करो और पृथा के उन पुत्रों की रक्षा करो जो अभी बालक ही हैं और वनवास के कष्टों से पीड़ित हैं।
74हे कुरुवंशी, पाण्डु के पुत्रों से सन्धि कर लो; तुम्हारे शत्रु तुम्हारे भीतरी सम्बन्धों में ताक-झाँक न कर सकें; वे (पाण्डव) सभी सत्य में अनुरक्त हैं। हे मनुष्यों में देव, हे नरेश्वर, दुर्योधन से उसका यह मार्ग त्याग करा दो।
नेपाली
1विदुरले भने — यस प्रसङ्गमा अत्रिका छोरा तथा साध्यहरूको संवादको त्यो प्राचीन इतिहास भनिन्छ, जस्तो हामीले सुनेका छौँ।
2प्राचीन कालमा, जब कठोर व्रत भएका ती महर्षि भिक्षुकका रूपमा विचरण गरिरहेका थिए, तब साध्य नामका देवताहरूले ती महाबुद्धिमान्सँग सोधे।
3साध्यहरूले भने — हामी साध्य नामका देवता हौँ। हे महर्षि, तपाईंलाई देखेर पनि हामीले यो अनुमान लगाउन सकिरहेका छैनौँ कि तपाईं को हुनुहुन्छ; तर हामीलाई यस्तो लाग्छ कि तपाईं आत्मसंयमले युक्त तथा शास्त्रका पूर्ण ज्ञाता हुनुहुन्छ। त्यसैले यो अत्यन्त उचित छ कि तपाईंले हामीलाई बुद्धिले भरिएका उदार वचनमा उपदेश दिनुहोस्।
4भिक्षुक ऋषिले भने — हे अमरहरू, मैले सुनेको छु कि शान्ति, आत्मसंयम तथा साँचो धर्मको त्यो आचरण, जुन हृदयका सम्पूर्ण ग्रन्थि नखुलेसम्म गरियोस्, प्रिय तथा अप्रियलाई आफ्नै समान स्तरमा ल्याउँछ।
5जसले निन्दा गर्छ, त्यसको निन्दा गर्नु हुँदैन; किनभने जसले (निन्दालाई) धैर्यपूर्वक सहन्छ, त्यसले भोगेको पीडाले निन्दकलाई जलाउँछ र त्यसका पुण्यकर्मको फल तानेर आफूमा मिलाउँछ।
6अरूको निन्दा नगर, न तिनको अपमान गर। मित्रहरूसँग कलह नगर, न नीचहरूको सङ्गत गर। न अभिमानी बन, न दुराचारी; र कठोर वचन तथा क्रोधबाट निस्केका वचनबाट जोगिऊ।
7कठोर वचनले मानिसका मर्म, हाड, हृदय तथा प्राणसम्मलाई जलाउँछन्। त्यसैले जसको आश्रय धर्म हो, त्यसले कठोर तथा क्रोधपूर्ण वचनबाट सधैँ जोगिनुपर्छ।
8त्यो अभागी पुरुष, जसले कठोर वचनका काँडाले अरूको मर्म छुँदै तिनको हृदय घोच्छ, सम्पूर्ण मानिसको दुःख तथा मृत्यु आफ्नो मुखमा धारण गर्छ।
9अर्काका तीखा वचन-वाणले घोचिएको तथा आगो वा सूर्यजस्तै जलिरहेको बुद्धिमान् पुरुषले, यद्यपि घाइते होस् र अत्यन्त पीडाले दग्ध होस्, तापनि यो सम्झँदै सबै कुरा धैर्यपूर्वक सहोस् कि निन्दकका पुण्यकर्मको फल उसैको हुन्छ।
10मानिसले जसरी साधुको सेवा गर्छ, अथवा जस्तो त्यो दुष्ट, धर्मात्मा वा चोर हुन्छ, त्यसै गरी त्यो आफ्ना सङ्गीहरूको स्वभावले युक्त हुन्छ — जसरी कपडा त्यही रङको हुन्छ जुन रङमा त्यो डुबाइन्छ।
11जसले निन्दा गरिँदा न आफैँ निन्दा फर्काउँछ, न अरूबाट फर्काउन लगाउँछ, जसले प्रहार गरिँदा न आफैँ प्रहार गर्छ, न अरूबाट गराउँछ, र जसले आफूमाथि प्रहार गर्नेको हानि चाहँदैन — देवताहरूले त्यसैको सङ्गत चाहन्छन्।
12बिल्कुलै नबोल्नु बोल्नुभन्दा श्रेष्ठ हो। दोस्रो, यदि बोल्नै पर्यो भने सत्य बोल। तेस्रो, यदि सत्य बोल्नै पर्यो भने प्रिय बोल; र चौथो, यदि प्रिय बोल्नै पर्यो भने त्यही बोल जुन धर्मअनुकूल होस्।
13मानिसले जसको सङ्गत गर्छ, अथवा जसको सेवा गर्छ, अथवा जोजस्तै हुन चाहन्छ — त्यो त्यस्तै हुन्छ।
14जुन वस्तुबाट मानिसले आफूलाई टाढा राख्छ, ती सबैबाट त्यो मुक्त हुन्छ; र अलिकति पनि दुःख बाँकी रहँदैन।
15(त्यस्तो पुरुष) न अरूलाई जित्छ, न तिनीहरूबाट जितिन्छ; त्यो न कसैको शत्रु भएर देखिन्छ, न कसैमाथि प्रहार गर्ने; प्रशंसा वा निन्दामा त्यसको मन शान्त रहन्छ; र त्यो स्तुति वा निन्दाले विचलित हुँदैन।
16त्यसले सबैको समृद्धि चाहन्छ र कसैको विपत्तिमा मन लगाउँदैन। त्यो सत्यवादी, मृदु तथा आत्मसंयमी हुन्छ। र त्यही पुरुषहरूमा श्रेष्ठ हो।
17जसले असत्य भनेर अर्कालाई सान्त्वना दिने प्रयत्न गर्दैन, जसले प्रतिज्ञा गरेर त्यो पूरा गर्छ र जसले अरूको दुर्बलता जान्दछ — त्यो मध्यम श्रेणीको पुरुष हो।
18जसलाई वशमा पार्न कठिन होस्, जसले क्रोधका कारण मृदु दृष्टिसम्म राख्न नसकोस्, जो शस्त्रले घाइते हुँदा पनि ननिहुरोस्, जो कृतघ्न होस् र जो कसैको मित्र हुन असमर्थ होस् — यस संसारमा यी अधम पुरुषका लक्षण हुन्।
19जसले अरूबाट पाएका उपकारलाई मान्दैन र जसले आफ्ना सम्पूर्ण मित्रलाई टाढा भगाउँछ — त्यो अधम पुरुष हो।
20जसले आफ्नो समृद्धि चाहन्छ, उसले सत्पुरुषहरूको सेवा गर्नुपर्छ र उपयुक्त अवसरमा मध्यम श्रेणीका पुरुषको पनि; तर उसले अधम श्रेणीका मानिसको सेवा कहिल्यै गर्नु हुँदैन।
21अधर्मी पुरुषले बलले, निरन्तर प्रयत्नले, बुद्धिले तथा पराक्रमले धन प्राप्त गर्छ; तर त्यसले न वास्तविक कीर्ति पाउँछ, न उच्च कुलमा जन्मेका पुरुषको त्यो धन (अर्थात् तिनका गुण)।
22धृतराष्ट्रले भने — देवताहरूले उच्च कुलमा जन्मेकालाई प्रिय मान्छन्, र तिनलाई पनि जसले धर्म तथा अर्थलाई समान रूपमा चिन्छन् तथा जो गहिरा विद्वान् छन्। हे विदुर, म तिमीसँग यो प्रश्न सोध्छु — "उच्च कुलमा जन्मेका को हुन्?"
23विदुरले भने — तप, आत्मसंयम, वेदको ज्ञान, यज्ञकर्म, विधिपूर्वक विवाह तथा निरन्तर अन्नदान — जुन कुलमा यी सात आचार विधिपूर्वक विद्यमान छन्, तिनै उच्च मानिन्छन्।
24जो सन्मार्गबाट विचलित हुँदैनन्, जसका पुर्खालाई (तिनका दुष्कर्मले) कहिल्यै पीडा हुँदैन, जसले प्रसन्न हृदयले धर्मको आचरण गर्छन्, जसले आफ्नो कुलको निर्मल कीर्तिको वृद्धि चाहन्छन् र जो असत्यबाट जोगिन्छन् — तिनीहरू उच्च कुलबाट आउँछन्।
25यज्ञ नगर्नाले, अपवित्र विवाह गर्नाले, वेदको अध्ययन छोड्नाले तथा ब्राह्मणको अपमान गर्नाले उच्च कुल पनि पतित हुन्छन्।
26देवताहरूको धनको नाश गर्नाले, ब्राह्मणहरूको धन चोर्नाले तथा तिनीहरूप्रति सदाचारको उल्लङ्घन गर्नाले उच्च कुलका पुरुष पनि नीच श्रेणीमा आउँछन्।
27हे भरतवंशी, ब्राह्मणहरूको निन्दा गर्नाले तथा तिनको अपमान गर्नाले, र सँगै धरौटीका रूपमा सुम्पिएको वस्तु हडप्नाले उच्च कुल पतित हुन्छन्।
28जुन कुलको आचरण नराम्रो छ, ती गाई, जन तथा धनले सम्पन्न भएर पनि कुलहरूमा गनिँदैनन्।
29जुन कुलको आचरण नराम्रो छैन, ती थोरै मात्र धन भएर पनि कुलहरूमा गनिन्छन्; र तिनीहरूले महान् कीर्ति प्राप्त गर्छन्।
30सदाचारको सावधानीपूर्वक रक्षा गर्नुपर्छ, किनभने धन आउँछ र गइहाल्छ। जो धनले दुर्बल छन् तिनीहरू दरिद्र होइनन्; तर जो सदाचारले दुर्बल छन्, तिनै दरिद्र मानिन्छन्।
31जुन कुल विद्या, घोडा तथा अन्य पशु र कृषिको उब्जनीले भरिपूर्ण छन्, ती पनि यदि सदाचारविहीन छन् भने आदरका योग्य छैनन्।
32हाम्रो कुलमा कोही शत्रु उत्पन्न गर्ने नहोस्; कोही राजाको मन्त्री नबनोस्; कोही अरूको धन चोर्ने चोर नहोस्; कोही आफ्नो हितैषीको शत्रु नहोस्; कोही कपटी नहोस्; कोही असत्यको व्यसनी नहोस्; र कोही आफ्ना पितृ, देवता अथवा अतिथिलाई अर्पण नगरी भोजन नगरोस्।
33हाम्रो कुलमा जसले ब्राह्मणको वध गर्छ, जसले ब्राह्मणलाई हानि पुर्याउँछ र जसले कृषिमा बाधा हाल्छ — त्यसले हामीसँग सङ्गत नगरोस्।
34कुशको आसन, बस्ने ठाउँ, जल तथा मीठो वचन — यी सत्पुरुषको घरमा कहिल्यै चुक्दैनन्।
35हे राजन्, पुण्यकर्ममा लागेका बुद्धिमान् तथा धर्मात्मा पुरुषले यी वस्तुहरू सधैँ तयार राख्छन्, जसले तिनले आफ्ना अतिथिलाई श्रद्धापूर्वक अर्पण गर्न सकून्।
36हे राजन्, जसरी स्यन्दन रूख पातलो भएर पनि त्यो भार सहन्छ जुन अन्य ठूला रूखले सहन सक्दैनन्, त्यसै गरी उच्च कुलका पुरुषले त्यो मानसिक चिन्ताको भार सहन्छन् जुन अरूले सहन सक्दैनन्।
37जसको क्रोधले डर उत्पन्न गर्छ, अथवा जसको सेवा डरसँग गर्नुपर्छ — त्यो मित्र होइन; तर जुन मित्रमाथि पिताजस्तै विश्वास गर्न सकियोस्, त्यही साँचो मित्र हो। अन्य प्रकारका मित्रता केवल नामका हुन्छन्।
38जो कुनै प्रकारको सम्बन्धी नभई पनि मित्रजस्तै आचरण गर्छ — त्यही साँचो मित्र हो, त्यही आश्रय हो र त्यही रक्षक हो।
39जसको मन चञ्चल छ, अथवा जसले वृद्धहरूको सेवा गर्दैन, अथवा जो आफ्नो मतमा स्थिर रहँदैन, अथवा जसको स्वभाव अस्थिर छ — त्यस पुरुषले मित्र बनाउनु निश्चित हुँदैन।
40जसको मन चञ्चल छ, जसमा आत्मबल छैन र जो आफ्ना इन्द्रियको वशमा छन् — समृद्धिले तिनलाई त्यसै गरी छोड्छ जसरी हाँसले सुकेका तलाउलाई।
41एक्कासि क्रुद्ध हुनु तथा कारणविनै उदार बन्नु — यी अधर्मी पुरुषका लक्षण हुन्, जो बादलजस्तै चञ्चल हुन्छन्।
42जसले मित्रहरूबाट सेवा तथा उपकार पाएर पनि तिनीहरूप्रति कृतघ्नता देखाउँछन्, तिनका शव मासुभक्षी चराहरूले पनि घृणापूर्वक नै खान्छन्।
43निर्धन होस् वा धनी, मानिसले आफ्ना मित्रको सेवा गर्नुपर्छ। जबसम्म कुनै सेवा गर्न भनिँदैन, तबसम्म मित्रले आफ्नो हृदयको सच्चाइ अथवा कपट प्रकट गर्न सक्दैन।
44शोकले सौन्दर्यलाई नष्ट गर्छ। शोकले बललाई नष्ट गर्छ। शोकले ज्ञानलाई नष्ट गर्छ; र शोकले रोग ल्याउँछ।
45अभीष्ट वस्तु प्राप्त नभए पनि शोकले शरीर नै जल्छ, जसबाट शत्रुहरू प्रसन्न हुन्छन्; त्यसैले शोकको वशमा नपर।
46मानिस बारम्बार मर्छ र बारम्बार जन्मन्छ; मानिस बारम्बार क्षीण हुन्छ र बारम्बार बढ्छ; मानिसले बारम्बार माग्छ र उससँग बारम्बार मागिन्छ; र मानिसले बारम्बार शोक गर्छ र उसका लागि बारम्बार शोक गरिन्छ।
47सुख र दुःख, समृद्धि र विपत्ति, लाभ र हानि, मृत्यु र जीवन — यी सबैलाई पालैपालो प्राप्त हुन्छन्; त्यसैले बुद्धिमान्ले न हर्षित हुनुपर्छ, न शोकाकुल।
48छवटै इन्द्रिय स्थिर छैनन्। तिनको बलको अनुपातमा बुद्धि बाहिर बग्छ — जसरी भरिएको घडाबाट त्यसका प्वालहरूबाट पानी बग्छ।
49धृतराष्ट्रले भने — त्यो राजा (युधिष्ठिर), जो आगोको कीर्तिजस्तै छ र जससँग मैले छल गरेको छु, युद्धमा मेरा दुष्ट छोराहरूका प्राणको अन्त्य गर्नेछ।
50सबै कुरा चिन्ताकै कारण देखिन्छ। त्यसैले मेरो मन निरन्तर चिन्ताले भरिएको छ। हे महाबुद्धिमान्, मलाई त्यो भन जुन मेरो चिन्ता हटाउने होस्।
51विदुरले भने — ज्ञान तथा तपबाहेक, इन्द्रियको संयमबाहेक, तथा लोभको पूर्ण त्यागबाहेक अरू कुनैमा मलाई तिम्रो हित देखिँदैन।
52ज्ञानले डर हटाउँछ र तपले महत्ता प्राप्त हुन्छ; र आफ्ना गुरुजनको सेवा तथा अभ्यासले ज्ञान र सुख — दुवै प्राप्त हुन्छन्।
53जसले मोक्ष प्राप्त गर्न चाहन्छन्, तिनीहरू दान तथा वेदाध्ययनबाट मिल्ने पुण्यको अपेक्षा नगरीकनै, क्रोध र ईर्ष्याबाट मुक्त भई यस संसारमा विचरण गर्छन्।
54राम्ररी सम्पन्न गरिएको अध्ययनको अन्त्यमा, राम्ररी लडिएको युद्धको अन्त्यमा, अथवा राम्ररी गरिएको तपको अन्त्यमा — सुखको वृद्धि हुन्छ।
55जसको आफ्ना बन्धुबान्धवसँग मेल छैन, तिनलाई राम्ररी सजाइएका शय्यामा पल्टेर पनि निद्रा लाग्दैन; र हे राजन्, न तिनीहरूले स्त्रीबाट सुख पाउँछन्, न बन्दीजनका स्तुतिगानबाट।
56जसको आफ्ना बन्धुबान्धवसँग मेल छैन, तिनीहरूले न धर्मको आचरण गर्न सक्छन्; न यस लोकमा सुख भोग्न सक्छन्; न कीर्ति प्राप्त गर्न सक्छन्; न शान्तिबाट आनन्द पाउन सक्छन्।
57तिनको हितका लागि जे भनिन्छ, त्यसबाट तिनीहरू प्रसन्न हुँदैनन्; जुन तिनीसँग छैन त्यो तिनले पाउन सक्दैनन्; र जुन तिनीसँग छ त्यो तिनले जोगाउन सक्दैनन्। हे नरश्रेष्ठ, जसको आफ्ना बन्धुबान्धवसँग मेल छैन, तिनको विनाशबाहेक अरू कुनै अन्त्य छैन।
58गाईमा दूध सम्भव छ, ब्राह्मणमा तप सम्भव छ; स्त्रीमा चञ्चलता सम्भव छ; र बन्धुबान्धवबाट डरको कारण उत्पन्न हुन सक्छ।
59समान लम्बाइका अनेक पातला धागा सँगै मिलेर, आफ्नो सङ्ख्याको बलले, आफूमाथि निरन्तर चल्ने ढर्कीको भार सजिलैसँग सहन्छन्।
60छुट्टाछुट्टै रहेका जलिरहेका काठले केवल धुवाँ दिन्छन्; तर सँगै हुँदा ती दन्किन्छन्। हे धृतराष्ट्र, बन्धुबान्धवको पनि यही दशा हो।
61हे धृतराष्ट्र, जो ब्राह्मण, स्त्री, बन्धुबान्धव तथा गाईप्रति कठोर छन्, तिनीहरू हाँगाबाट पाकेको फलझैँ खस्छन्।
62एक्लै उभिएको ठूलो रूख, जति नै बलियो र दृढ किन नहोस्, प्रबल वायुले फेदसहित क्षणभरमै ढालिदिन सक्छ।
63तर जुन रूखहरू सँगै टाँसिएर दृढतापूर्वक उम्रन्छन्, तिनीहरूले पारस्परिक सहाराले प्रबल वायुको वेग पनि सहन्छन्।
64त्यसै गरी, जुन पुरुष अनेक गुणले युक्त भएर पनि एक्लो छ, त्यसलाई मानिसहरूले त्यसै गरी पराजित गर्न सकिने ठान्छन् जसरी वायुद्वारा एक्लै उभिएको रूख।
65पारस्परिक सहायता तथा पारस्परिक सहाराले बन्धुबान्धव तलाउमा कमलका नालझैँ बढ्छन्।
66ब्राह्मण, गाई, बन्धुबान्धव, बालक तथा स्त्रीको वध गर्नु हुँदैन; न तिनको जसको अन्न हामीले खाएका छौँ तथा जो हाम्रो शरणमा आएका छन्।
67हे राजन्, धनविना मानिसमा कुनै गुण विकसित हुँदैन; तर निरोगी रहनाले तिमीले आफ्नो अभीष्ट प्राप्त गर्न सक्छौ। जो रोगले पीडित छन्, तिनीहरू मृतकसमान हुन्।
68क्रोध यस्तो पेय हो जसलाई अधर्मीहरूले निल्न सक्दैनन्। यसले अन्त्यमा यस्तो पीडा ल्याउँछ जुन तीतो, तीखो तथा पोल्ने हुन्छ। सत्पुरुषहरूले यसलाई निल्नुपर्छ। हे महाराज, तिमी यसलाई निलिदेऊ र शान्त होऊ।
69जो रोगले पीडित छन्, तिनीहरूले भोगको आनन्द लिन सक्दैनन्; न तिनलाई धनबाट कुनै सुख मिल्छ। जो रोगले पीडित छन् र यसैकारण शोकले भरिएका छन्, तिनीहरू जान्दैनन् कि धनबाट मिल्ने भोग के हो।
70हे राजन्, जब मैले द्रौपदीलाई जुवामा जितिएको देखेको थिएँ, तब मैले तिमीलाई पहिल्यै भनेको थिएँ — "रोकिऊ, दुर्योधन; किनभने बुद्धिमान्हरू जुवामा अतिबाट जोगिन्छन्।" तिमीले त्यसअनुसार आचरण गरेनौ।
71जो मृदुताको विरोधी छ, त्यो बल होइन। त्यही नीतिको अनुसरण गर्नुपर्छ जुन धर्मले युक्त होस्। जुन नीतिको आधार कुटिलता हो, त्यो चाँडै नै नष्ट हुन्छ; तर जुन नीति एकैसाथ दृढ र मृदु छ, त्यसबाट प्राप्त समृद्धि छोरा तथा नातिसम्म जान्छ।
72त्यसैले धृतराष्ट्रका छोराहरूले पाण्डुका छोराहरूसँग मित्रता गरून्; र पाण्डुका छोराहरूले तिम्रा छोराहरूसँग मित्रता गरून्; हे राजन्, कुरु तथा पाण्डवहरू समान मित्र तथा समान शत्रु भएर, सुखी र समृद्ध भई रहून्।
73यस समय तिमी नै कुरुपुत्रहरूका आश्रय हौ। हे अजमीढ, कुरुवंश तिमीमाथि नै निर्भर छ। हे प्रिय, आफ्नो यशको रक्षा गर र पृथाका ती छोराहरूको रक्षा गर जो अझै बालक नै छन् र वनवासका कष्टले पीडित छन्।
74हे कुरुवंशी, पाण्डुका छोराहरूसँग सन्धि गर; तिम्रा शत्रुहरूले तिम्रा भित्री सम्बन्धमा चियोचर्चो गर्न नपाऊन्; तिनीहरू (पाण्डवहरू) सबै सत्यमा अनुरक्त छन्। हे मानिसहरूमा देव, हे नरेश्वर, दुर्योधनलाई उसको यो मार्ग त्याग गराऊ।