भीम के वचन
खण्ड 2 — वन पर्व · अध्याय 33
संस्कृत
1वैशम्पायन उवाच याज्ञसेन्या वचः श्रुत्वा भीमसेनो झमर्षणः। निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत्॥
2राज्यस्य पदवीधयां व्रज सत्पुरुषोचिताम्। धर्मकामार्थहीनानां किं नो वस्तुं तपोवने॥
3नैवधर्मेण तद् राज्यं नार्जवेन न चौजसा। अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै॥
4गोमायुनेव सिंहानां दुर्बलेन बलीयसाम्। आमिषं विघसाशेन तद्वद् राज्यं हि नो हृतम्॥
5धर्मलेशप्रतिच्छन्नः प्रभवंधर्मकामयोः। अर्थमुत्सृज्य किं राजन् दुःखेषु परितप्यसे॥
6भवतोऽनवधानेन राज्यं नः पश्यतां हृतम्। अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना॥
7कुणीनामिव बिल्वानि पशूनामिवधेनवः। हृतमैश्वर्यमस्माकं जीवतां भवतः कृते॥
8भवत: प्रियमित्येवं महद् व्यसनमीदृशम्। धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत॥
9कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान्। आत्मानं भवतां शास्त्रैर्नियम्य भरतर्षभ।॥
10यद् वयं न तदैवैतान्धार्तराष्ट्रान् निहन्महि। भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम्॥
11अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः। दुर्बलाचरितां राजन् न बलस्थैनिषेविताम्॥
12यां न कृष्णो न बीभत्सु भिमन्युर्न संजयाः। न चाहमभिनन्दामि न च माद्रीसुतावुभौ॥
13भवान्धर्मोधर्म इति सततं व्रतकर्शितः। कच्चिद् राजन् न निर्वेदादापन्नः क्लीबजीविकाम्।।
14दुर्मनुष्या हि निर्वेदमफलं स्वार्थघातकम्। अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम्॥
15स भवान् दृष्टिमाञ्छक्तः पश्यन्नस्मासु पौरुषम्। आनृशंस्यपरो राजन् नानर्थमवबुध्यसे॥
16अस्मानमीधार्तराष्ट्राः क्षममाणानलं सतः। अशक्तानिव मन्यन्ते तद् दुःखं नाहवे वधः॥
17तत्र चेद् युध्यमानानामजिह्ममनिवर्तिनाम्। सर्वशो हि वधः श्रेयान् प्रेत्य लोकान् लभेमहि॥
18अथवा वयमेवैतान् निहत्य भरतर्षभ। आददीमहि गां सर्वां तथापि श्रेय एव नः॥
19सर्वथा कार्यमेतन्नः स्वधर्मनुतिष्ठताम्। काक्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम्॥
20आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे। अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा॥
21कर्शनार्थो हि योधर्मो मित्राणामात्मनस्तथा। व्यसनं नाम तद् राजन् नधर्मः स कुधर्म तत्॥
22सर्वथाधर्मनित्यं तु पुरुषंधर्मदुर्बलम्। त्यजतस्तात्धर्मार्थों प्रेतं दुःखसुखे यथा॥
23यस्यधर्मो हिधर्मार्थं क्लेशभाङ् न स पण्डितः। न सधर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव॥
24यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः। रक्षेत भृतकोऽरण्ये यथा गास्तादृगेव सः॥
25अतिबेलं हि योऽर्थार्थी नेतरावनुतिष्ठति। स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः॥
26सततं यश्च कामार्थी नेतरावनुतिष्ठति। मित्राणि तस्य नश्यन्तिधर्मार्थाभ्यां च हीयते॥
27तस्यधर्मार्थहीनस्य कामान्ते निधनंध्रुवम्। कामतो रममाणस्य मीनस्येवाम्भसः क्षये॥
28तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः। प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा॥
29सर्वथाधर्ममूलोऽर्थोधर्मश्चार्थपरिग्रहः। इतरेतरयो तौ विद्धि मेघोदधी यथा॥
30द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते। स कामश्चित्तसंकल्पः शरीरं नास्य दृश्यते॥
31अर्थार्थी पुरुषो राजन् बृहन्तंधर्ममिच्छति। अर्थमिच्छति कामार्थी न कामादन्यमिच्छति॥
32न हि कामेन कामोऽन्यः साध्यते फलमेव तत्। उपयोगात् फलस्यैव काष्ठाद् भस्मेव पण्डितैः॥
33इमाञ्छकुनकान् राजन् हन्ति वैतंसिको यथा। एतद् रूपमधर्मस्य भूतेषु हि विहिंसता॥ कामाल्लोभाच्चधर्मस्य प्रकृति यो न पश्यति। स बध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः॥
34व्यक्तं ते विदितो राजत्रों द्रव्यपरिग्रहः। प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम्॥
35तस्य नाशे विनाशे वा जरया मरणेन वा। अनर्थ इति मन्यन्ते सोऽयमस्मासु वर्तते॥
36इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च। विषये वर्तमानानां या प्रीतिरुपजायते॥ स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्।
37एवमेव पृथग् दृष्ट्वाधर्मार्थो काममेव च।॥ नधर्मपर एव स्यान्न चार्थपरमो नरः। न कामपरमो वा स्यात् सर्वान् सेवेत सर्वदा॥ धर्म पूर्वेधनं मध्ये जघन्ये काममाचरेत्। अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः॥
38काम पूर्वेधनं मध्ये जघन्येधर्ममाचरेत्। वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः॥
39धर्मं चार्थं च कामं च यथावद् वदतां वर। विभज्य काले कालज्ञः सर्वान् सेवेत पण्डितः॥
40मोक्षो वा परमं श्रेय एष राजान् सुखार्थिनाम्। प्राप्तिर्वा बुद्धिमास्थाय सोपायां कुरुनन्दन॥ तद् वाऽऽशु क्रियतां राजन् प्राप्तिर्वाप्यधिगम्यताम्। जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः॥
41विदितश्चैव मेधर्मः सततं चरितश्च ते। जानन्तस्त्वयि शसन्ति सुहृदः कर्मचोदनाम्॥
42दानं यज्ञाः सतां पूजा वेदधारणमार्जवम्। एषधर्मः परो राजन् बलवान् प्रेत्य चेह च॥
43एष नार्थविहीनेन शक्यो राजन् निषेवितुम्। अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे॥
44धर्ममूलं जगद् राजन् नान्यद्धर्माद् विशिष्यते। धर्मश्चार्थेन महता शक्यो राजन् निषेवितुम्॥
45न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित्। वेत्तुं शक्यः सदा राजन् केवलंधर्मबुद्धिना॥
46प्रतिषिद्धा हि ते याचा यया सिद्ध्यति वै द्विजः। तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ॥
47भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका। क्षत्रियस्य विशेषेणधर्मस्तु बलमौरसम्॥
48स्वधर्म प्रतिपद्यस्व जहि शत्रून् समागतान्। धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय॥
49उदारमेव विद्वांसोधर्मं प्राहुर्मनीषिणः। उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि॥
50अनुबुध्यस्व राजेन्द्र वेत्थधर्मान् सनातनान्। क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः॥
51प्रजापालनसम्भूतं फलं तव न गर्हितम्। एष ते विहितो राजन्धानाधर्मः सनातनः॥
52तस्मादपचितः पार्थ लोके हास्यं गमिष्यसि। स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते॥
53स क्षात्रं हृदयं कृत्वा त्यक्तवेदं शिथिलं मनः। वीर्यमास्थाय कौरव्यधुरमुबहधुर्यवत्॥
54न हि केवलधर्मात्मा पृथिवीं जातु कश्चन। पार्थिवो व्यजयद् राजन् न भूतिं न पुनः श्रियम्॥
55जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम्। निकृत्या लभते राज्यमाहारमिव शल्यकः॥
56भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः। निकृत्या निर्जिता देवैरसुराः पार्थिवर्षभ॥
57एवं बलवतः सर्वमिति बुद्ध्वा महीपते। जहि शत्रून् महाबाहो परां निकृतिमास्थितः॥
58न ह्यर्जुनसमः कश्चिद् युधि योद्धाधनुर्धरः। भविता वा पुमान् कश्चिन्मत्समो वा गदाधरः॥
59सत्त्वेन कुरुते युद्धं राजन् सुबलवानपि। अप्रमादी महोत्साही सत्त्वस्थो भव पाण्डव॥
60ते सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा। न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी॥
61अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता। बीजौपम्येन कौन्तेय मा भूदन्न संशयः॥
62अर्थेन तु समो नार्थो यत्र लभ्येत नोदयः। न तत्र विपणः कार्यः खरकण्डूयनं हि तत्॥
63एवमेव मनुष्येन्द्रधर्मं त्यक्त्वाल्पकं नरः। बृहन्तंधर्ममाप्नोति स बुद्ध इति निश्चितम्॥
64अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः। भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुर्वते वशम्॥
65सत्त्वेन कुरुते युद्धं राजन् सुबलवानपि। नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः॥
66सर्वथा संहतैरेव दुर्बलैर्बलवानपि। अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव॥
67यथा राजन् प्रजाः सर्वाः सूर्यः पति गभस्तिभिः। अत्ति चैव तथैव त्वं सदृशः सवितुर्भव॥
68एतच्चापि तपो राजन् पुराणमिति नः श्रुतम्। विधिना पालनं भूमेर्यत् कृतं न पितामहैः॥
69न तथा तपसा राजैल्लोकान् प्राप्नोति क्षत्रियः। यथा सृष्टेन युद्धेन विजयेनेतरेण वा॥
70अपेयात् किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा। इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम्॥
71भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च। कथायुक्ताः परिषदः पृथग राजन् समागताः॥
72इदमभ्यधिकं राजन् ब्राह्मणाः कुरवश्च ते। समेताः कथयन्तीह मुदिताः सत्यसंधताम्॥
73यन्न मोहान्न कार्पण्या लोभान भयादपि। अनृतं किंचिदुक्तं ते न कामानार्थकारणात्॥
74यदेनः कुरुते किंचिद् राजा भूमिमवाप्नुवन्। सर्वं तन्नुदते पश्चाद् यज्ञैर्विपुलदक्षिणैः॥
75ब्राह्मणेभ्यो ददद् ग्रामान् गाश्च राजन् सहस्रशः। मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः॥
76पौरजानपदाः सर्वे प्रायशः कुरुनन्दन। सवृद्धबालसहिताः शंसन्ति त्वां युधिष्ठिर॥
77श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा। सत्यं स्तेने बलं नार्यो राज्यं दुर्योधने तथा॥
78इति लोके निर्वचनं पुरश्चरति भारत। अपि चैताः स्त्रियो बाला: स्वाध्यायमधिकुर्वते॥
79इमामवस्थां च गते सहास्माभिररिंदम। हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति॥
80स भवान् रथमास्थाय सर्वोपकरणान्वितम्। त्वरमाणोऽभिनिर्यातु विप्रेभ्योऽर्थविभावकः॥ वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्। अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः॥ आशीविषसमैवीरैर्मरुद्भिरिव वृत्रहा। अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा। श्रियमादत्स्व कौन्तेयधार्तराष्ट्रान् महावल॥
81न हि गाण्डीवमुक्तानां शराणां गार्धवाससाम्। स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत्॥
82न स वीरो न मातङ्गो न च सोऽश्वोऽस्ति भारत। यः सहेत गदावेगं मम क्रुद्धस्य संयुगे॥
83सृञ्जयैः सह कैकेयैर्वृष्णीनां वृषभेण च। कथंस्विद् युधि कौन्तेय न राज्यं प्राप्नुयामहे॥
84शत्रुहस्तगतां राजन् कथंस्विन्नाहरेर्महीम्। इह यत्नमुपाहृत्य बलेन महतान्वितः॥
अंग्रेज़ी
1Vaishampayana said : Having heard these words of Yajnaseni (Draupadi), Bhimasena came to the king (Yudhishthira). And sighing in wrath, he thus spoke to him.
2Bhima said: O king, walk as regards kingdoms in the customary path trodden by good men. What do you gain by living in the hermitage of the ascetics, thus deprived of Dharma, Artha and Kama?
3Your kingdom has been robbed by Duryodhana by an unfair gambling at dice and not by virtue or by honesty or by prowess.
4He has robbed our kingdom like a weak offal-eating jackal that steals the prey from mighty lions.
5O king, why do you, abandoning the wealth which is the source of both virtue and pleasures and in obedience of the (mere) trifling virtue of keeping one's promise, suffer such afflictions?
6Our kingdom, protected by the wielder of Gandiva (Arjuna) and incapable of being snatched from us by (even) Shakra (Indra), was robbed from us in our very sight (only) on account of your carelessness.
7It was for you, that notwithstanding we were alive, our prosperity was wrested from use like a fruit from one who is unable to use his arms or like kine from one who cannot use his legs.
8O descendant of Bharata, you are firin in the desire of acquiring virtue. It was to please you that we suffered ourselves to be overwhelmed with such calamities.
9O best of the Bharata race, it was because we are at your command that we are giving pain to our friends and joy to our enemies.
10It was on our part an act of folly which gives me great pain that we did not, obeying your command, kill the sons of Dhritarashtra then and there.
11O king, this your living in the forest like an wild animal is an act which only a weak man alone would submit to.
12Your this act is approved of neither by Krishna, nor by Vivatsu (Arjuna), nor by Abhimanyu, nor by the Srinjayas, nor by myself, nor by the sons of Madri.
13Afflicted with your vow you always cry, "Virtue, virtue."O king, have you from despair become a man of no manliness?
14Cowards only, being unable to win back their prosperity, cherish despair which is fruitless and destructive of one's own purpose.
15You have ability and cyes. You see that we possess manliness. O king, it is because you have adopted a peaceful life that you do not feel (the pain of) this distress.
16The sons of Dhritarashtra consider us, who are only forgiving, as men really incompetent and weak. O king, this gives me more pain than death in battle would have given me.
17If we all die in a fair fight without turning our backs on our foes, even that would be better than this exile, for we shall then obtain regions of bliss.
18O best of the Bharata race, on the other hand if we become the ruler of the whole earth by killing them, that would be doing us a great good.
19This is our bounded duty, we who ever adhere to the duties of our own order, who are ever desirous of great achievements and who wish to take revenge on our enemies.
20Our kingdom having been robbed from us, if we (under the circumstances) engage in a war, our that act, when it well be known in the world, will bring praise and no condemnation.
21O king, the virtue, that produces affliction on one's ownself and on one's own friends, is no virtue, at all. It is vice that produces calamities.
22O sire, virtue is sometimes (the indirect cause of) the weakness of men. Dharina and Artha forsake such men, as pain and pleasure forsake a dead man.
23He who practices virtue only for the sake of virtue always suffers afflictions. He can never be called a wise man. He cannot know the (real) purpose of virtue, as a blind man is incapable of seeing the light of the sun.
24He who considers that his wealth exists for himself alone does not at all understand the purpose of wealth. He is like the servant tending kine in the forest.
25He, again, who pursues Artha (profit or wealth) too much without pursuing Dharma (virtue) and Kama (pleasure) deserves to be censured and killed by all creatures.
26He who always pursues Kama without pursuing Dharma and Artha loses his friends and also loses virtue and profit.
27Such a man, indulging in pleasure at will becoming destitute of virtue and profit, meets with certain death at the expiration of the period of enjoyment, as the fish dies when the water is dried up.
28It is for this, those that are wise always pursue both virtue and profit, for the union of virtue and profit is the essential requisite of pleasure, as wood is of fire.
29Pleasure has always virtue for its root and virtue is always united with pleasure. Know that both are dependent on one another, as the ocean and the clouds (depend on each other).
30The sensation that one feels in consequence of the contact with the objects of touch or in consequence of the possession of wealth is called pleasure. It exists in the mind and has no corporeal existence.
31O king, he that wishes to have Artha should seek a large share of virtue. Those that wish Karma should seek (also) Artha, but Kama does not yield any thing in return.
32Pleasure brings its own fruit; it cannot lead to another (pleasure). Ashes may be had from wood, but nothing could be had from ashes.
33O king, as a fowler kills the birds, so does sin kill all the creatures of the world. He who, being misled by pleasure and covetousness, does not understand the nature of virtue, deserves to be killed by all. He becomes a wretch here and hereafter (after death).
34O king, it is evident that you know that pleasure is to be derived from virtuous objects of enjoyments. You also know (what) their ordinary states as well as their great changes (are).
35From their (objects of enjoyment's) loss, destruction, decrepitude and death, arises what is called affliction. That affliction has overtaken us.
36The pleasure that is produce by the five senses, by the mind and by the heart being directed to the objects proper to each, is in my opinion, one of the best fruits of our actions.
37Thus Dharma, Artha and Kama should be taken into one's consideration one after the other. One should not pursue virtue alone. No man should consider profit or pleasure as the highest object of his desire. All the three should always be (equally) pursued. The Shastras ordain that one should pursue virtue in the morning, profit at noon and pleasure in the evening.
38The Shastras ordain that one should pursue pleasure in the first, profit in the second and virtue in the last portion of his life.
39O foremost of eloquent men, those that are learned and fully conversant with the proper divisions of time, dividing their time properly, pursue all three, Dharma Artha and Kama.
40O king, O descendant of Kuru, whether freedom from all these three (Dharma, Artha and Kama) or possession of them is the better course for those that desire happiness, should be settled by you after careful thought. O king, you should then without the least hesitation act either to achieve them or to abandon them, for he who lives wavering between the two becomes most miserable.
41It is well that your conduct is ever regulated by virtue. Knowing this, your sensible friends advise you to act (thus).
42O king, gift, sacrifice, adoration to the honest, study of the Vedas and honesty, these are the highest virtues strong both here and hereafter.
43But, O foremost of men, these virtues, cannot be attained by one that has no wealth, even if he possess infinite other accomplishments.
44O king, the universe depends on virtue. There is nothing higher than virtue. O king, virtue is attainable (only) by those who possess wealth.
45But wealth cannot be acquired by leading the life of a mendicant nor by bearing a life of weakness. O king, wealth can be earned by virtuous intelligence.
46O best of men, in your case, begging, which is a success to the Brahmanas, has been forbidden. Therefore try to acquire wealth by prowess and energy.
47It is not proper for you to lead a life of mendicancy or the life of Shudra. Prowess and energy constitute the special virtue of the Kshatriya.
48Therefore, O son of Pritha, perform the duty of your own (order) and destroy the enemies. Destroy the prowess of the sons of Dhritarashtra with my help and with that of Partha (Arjuna).
49The wise and learned man says that prosperity is virtue. Therefore, acquire prosperity, for you ought not to be in frivolity.
50O king of kings, awake and understand the eternal virtues (of one's own order). You belong by birth to an order the acts of which are cruel and are the sources of pain to others.
51O king, cherish your subjects and reap the fruits (of that good act) that can never be wrong. This is the eternal duty ordained (for us the Kshatriyas) by the Creator himself.
52O son of Pritha, if you fall off from it, you will be the laughing stock (of all men). Deviation from the duties of one's own (order) is never praised.
53O descendant of Kuru, therefore, making your heart as the order in which you belong requires it and abandoning this your course of weakness, summon prowess an bear your weight (of duty) like one that bears it manfully.
54O king, no monarch can acquire the sovereignty of earth or prosperity or affluence by means of being only virtuous-minded.
55As a fowler catches a flock of very easilytempled games by offering them some attractive food, so does an intelligent man acquire a kingdom by offering bribes to his enemy's men and covetous enemies.
56O foremost of monarchs, the Asuras, though they were elder brothers of the Devas and though they in affluence were, vanquished by the Devas by mean of Stratagem.
57O mighty armed hero, O ruler of the world, thus everything belongs to those that possess might. Destroy enemy by means of stratagem.
58There is none equal to Arjuna in wielding the bow in battle. There is none equal to me in wielding the mace.
59O king, men of prowess engage in battle depending on their prowess alone and not on the strength of numbers and not on information of the enemy' plan through spies. O son of Pandu, therefore exert your prowess. were
60Prowess is the root of wealth; whatever else is called its root is not so. As the shade of the tree in winter is useless, so is everything fruitless without prowess.
61O son of Kunti, wealth should be spent in the way that seeds are scattered on the ground by one who wishes to increase it. Let there be no doubt (about it) in your mind.
62But where wealth is more than sufficient, there should be no expenditure of wealth. In such cases investment of wealth is like the scratching of an ass, which is first pleasurable and then painful.
63O king of men, a man, who in order to earn a greater measure of virtue casts away like seeds the little virtue that he is sticking to, is certainly considered to be wise.
64Those, that are learned, alienate the friends of the foe that possesses friends. Having thus weakened him by making his friends abandon him, they bring him to subjugation.
65O king, those that are strong engage in battle by depending on their own courage. They do not conquer people by continued efforts or by the arts of conciliation.
66O king, sometimes those that are weak kill a powerful enemy by combination, as bees kill the spoiler of their honey by the force of their numbers.
67O king, like the sun that sustains as well as destroys all creatures by this rays, you too adopt the ways of the sun.
68O king, it has been heard by us in the Puranas that to protect one's own kingdom and cherish one's own subjects, as was done by our forefathers, is a kind of Tapa (austerities).
69O king, a Kshatriya cannot acquire those regions of blessedness which he can by fair fight, whether (that fight) ends in victory or defeat.
70Seeing your this affliction, (the people of) the world have come to this conclusion that light may (some day) forsake the sun and beauty may (some day) forsake the moon.
71O king, the learned men, both separately and assembling together, talk with one another by praising you and blaming the other (Duryodhana).
72O king, over and above this the Brahmanas and the Kurus assembling together talk cheerfully of your great adherence to truth.
73They say that you have never from delusion, from meanness, from covetousness, from fear, from desire or from wealth, uttered an untruth.
74Whatever sin a king commits in acquiring dominions, he consumes it all by means of performing sacrifices in which large Dakshinas are given away.
75O king, as the moon emerges from the clouds, so does a king emerge from all sins by bestowing thousands of villages and kine on the Brahmanas.
76O descendant of Kuru, O Yudhishthira, all the citizens and the inhabitants of the country, both young and old, praise you.
77"As milk in a bag made of a boar's hide, as the Vedas in a Shudra, as truth in a robber and as strength in a woman, so is sovereignty in Duryodhana.
78Thus talk the people among one another. O descendant of Bharata, even women and children are repeating it, as if it were a lesson they wanted to commit to memory.
79O chastiser of foes, you have fallen into this state along with me. Alas! we too are lost with you on account of your this calamity.
80Therefore, ascending on your chariot, furnished with every implement of war and making the chief Brahmanas utter benedictions on you, march at once, even this very day, against Hastinapur, so that you may be able to give to the Brahmanas the spoils of your victory. Surrounded by your brothers, who are all great wielders of bows and by (other) heroes, who are all skilled in weapons and all like virulent snakes, start (at once) like the slayer of Vritra (Indra) surrounded by the Marutas. Destroy with your prowess your weak enemies as the slayer of Vritra (Indra) destroyed the Asuras. O son of Kunti, snatch away from the son of Dhritarashtra (Duryodhana) the prosperity he (now) enjoys.
81There is no mortal who can withstand the touch of the arrows which are equipped with the feathers of vulture and which are like the snakes of virulent poison when these are shot from the Gandiva (bow).
82O descendant of Bharata, there is not a warrior, nor an elephant, nor an horse that can withstand the force of my mace when I am angry in battle.
83O son of Kunti, why should we not snatch back our kingdom from our foe after fighting a great battle with the help of the Srinjayas the Kaikeyas and the chief of the Vrishnis.
84O king, why should we not succeed in Snatching away the (sovereignty of the) earth from the hands of our enemy? Let us but try with the help of a large army.
हिन्दी
1वैशम्पायन ने कहा — याज्ञसेनी (द्रौपदी) के ये वचन सुनकर भीमसेन राजा (युधिष्ठिर) के पास आए और क्रोध से लम्बी साँस लेते हुए उनसे इस प्रकार बोले।
2भीम ने कहा — हे राजन्, राज्य के विषय में सत्पुरुषों द्वारा चले गए प्रथागत मार्ग पर ही चलिए। इस प्रकार धर्म, अर्थ और काम से वंचित होकर तपस्वियों के आश्रम में रहने से आपको क्या लाभ है?
3आपका राज्य दुर्योधन ने द्यूत के अनुचित छल से हरा है, न कि धर्म से, न सत्यनिष्ठा से और न ही पराक्रम से।
4उसने हमारा राज्य उसी प्रकार हर लिया, जैसे कोई दुर्बल, मांसभक्षी शृगाल बलवान् सिंहों से उनका शिकार चुरा ले।
5हे राजन्, धर्म और सुख दोनों के मूल उस धन को त्यागकर, और प्रतिज्ञा-पालन के (मात्र) तुच्छ धर्म के वशीभूत होकर, आप ऐसे क्लेश क्यों सहते हैं?
6गाण्डीवधारी (अर्जुन) से रक्षित तथा (स्वयं) शक्र (इन्द्र) द्वारा भी हमसे न छीना जा सकने वाला हमारा राज्य, केवल आपके प्रमाद के कारण, हमारी ही आँखों के सामने हर लिया गया।
7आपके ही कारण, हमारे जीवित रहते हुए भी, हमारी सम्पत्ति हमसे उसी प्रकार छीन ली गई, जैसे बाहुहीन पुरुष से फल अथवा पैरों से असमर्थ पुरुष से गौएँ छीन ली जाती हैं।
8हे भरतवंशी, आप धर्म के अर्जन की इच्छा में दृढ़ हैं। आपको प्रसन्न करने के लिए ही हमने स्वयं को ऐसी विपत्तियों से अभिभूत होने दिया।
9हे भरतश्रेष्ठ, हम आपकी आज्ञा के अधीन हैं, इसीलिए हम अपने मित्रों को दुःख और अपने शत्रुओं को हर्ष दे रहे हैं।
10यह हमारी ओर से मूर्खता का कार्य था, जो मुझे महान् पीड़ा देता है, कि आपकी आज्ञा के वश हमने धृतराष्ट्र के पुत्रों को उसी समय, वहीं वध नहीं किया।
11हे राजन्, वन्य पशु के समान वन में आपका यह निवास ऐसा कार्य है, जिसे केवल दुर्बल पुरुष ही स्वीकार करेगा।
12आपके इस कार्य का अनुमोदन न कृष्ण करते हैं, न विवत्सु (अर्जुन), न अभिमन्यु, न सृंजय, न मैं और न माद्री के पुत्र।
13अपनी प्रतिज्ञा से पीड़ित होकर आप सदा "धर्म, धर्म" पुकारते रहते हैं। हे राजन्, क्या आप निराशा से पुरुषार्थहीन हो गए हैं?
14कायर ही, अपनी सम्पत्ति को पुनः जीतने में असमर्थ होकर, उस निराशा को पालते हैं, जो निष्फल है और अपने ही प्रयोजन का नाश करने वाली है।
15आपमें सामर्थ्य है और आपके नेत्र भी हैं। आप देखते हैं कि हममें पुरुषार्थ है। हे राजन्, आपने शान्त जीवन अपना लिया है, इसीलिए आप इस दुर्दशा की (पीड़ा) अनुभव नहीं करते।
16धृतराष्ट्र के पुत्र हमें, जो केवल क्षमाशील हैं, वस्तुतः अक्षम और दुर्बल पुरुष समझते हैं। हे राजन्, यह मुझे युद्ध में मृत्यु से भी अधिक पीड़ा देता है।
17यदि हम सब शत्रुओं को पीठ दिखाए बिना धर्मयुद्ध में मारे जाएँ, तो वह भी इस वनवास से श्रेष्ठ होगा, क्योंकि तब हम पुण्यलोकों को प्राप्त करेंगे।
18हे भरतश्रेष्ठ, दूसरी ओर यदि उन्हें मारकर हम समस्त पृथ्वी के शासक बन जाएँ, तो वह हमारे लिए महान् कल्याण होगा।
19यही हमारा अवश्यकर्तव्य है — हम, जो सदा अपने वर्ण के धर्मों का पालन करते हैं, जो सदा महान् कर्मों के अभिलाषी हैं और जो शत्रुओं से प्रतिशोध लेना चाहते हैं।
20हमारा राज्य हमसे हर लिया गया है; ऐसी स्थिति में यदि हम युद्ध में प्रवृत्त हों, तो हमारा वह कर्म, जब संसार में विदित होगा, प्रशंसा लाएगा, निन्दा नहीं।
21हे राजन्, जो धर्म स्वयं को तथा अपने मित्रों को क्लेश उत्पन्न करता है, वह धर्म है ही नहीं। वह तो अधर्म है, जो विपत्तियाँ उत्पन्न करता है।
22हे तात, धर्म कभी-कभी मनुष्यों की दुर्बलता का (परोक्ष कारण) बन जाता है। ऐसे मनुष्यों को धर्म और अर्थ उसी प्रकार त्याग देते हैं, जैसे मृत पुरुष को सुख और दुःख त्याग देते हैं।
23जो केवल धर्म के लिए ही धर्म का आचरण करता है, वह सदा क्लेश भोगता है। उसे कभी बुद्धिमान् नहीं कहा जा सकता। वह धर्म के (वास्तविक) प्रयोजन को नहीं जान सकता, जैसे अन्धा पुरुष सूर्य के प्रकाश को देखने में असमर्थ होता है।
24जो यह मानता है कि उसका धन केवल उसी के लिए है, वह धन के प्रयोजन को तनिक भी नहीं समझता। वह वन में गौएँ चराने वाले सेवक के समान है।
25और जो धर्म तथा काम का सेवन किए बिना अत्यधिक अर्थ के ही पीछे लगा रहता है, वह समस्त प्राणियों द्वारा निन्दित और वध किए जाने योग्य है।
26जो धर्म और अर्थ का सेवन किए बिना सदा काम के ही पीछे लगा रहता है, वह अपने मित्रों को खो देता है और धर्म तथा अर्थ को भी खो देता है।
27ऐसा पुरुष, इच्छानुसार भोगों में लिप्त रहकर धर्म और अर्थ से रहित हो जाता है, और भोग-काल की समाप्ति पर निश्चित मृत्यु को प्राप्त होता है, जैसे जल सूख जाने पर मछली मर जाती है।
28इसीलिए बुद्धिमान् पुरुष सदा धर्म और अर्थ दोनों का सेवन करते हैं, क्योंकि धर्म और अर्थ का संयोग ही काम की अनिवार्य आवश्यकता है, जैसे अग्नि के लिए काष्ठ।
29काम का मूल सदा धर्म ही है और धर्म सदा काम से संयुक्त रहता है। जानिए कि दोनों एक-दूसरे पर आश्रित हैं, जैसे समुद्र और मेघ (परस्पर आश्रित हैं)।
30स्पर्श के विषयों के संसर्ग से अथवा धन के अधिकार से जो अनुभूति होती है, उसी को काम (सुख) कहते हैं। वह मन में स्थित है, उसका कोई शारीरिक अस्तित्व नहीं।
31हे राजन्, जो अर्थ चाहता है, उसे धर्म का बड़ा भाग खोजना चाहिए। जो काम चाहते हैं, उन्हें (भी) अर्थ खोजना चाहिए, किन्तु काम बदले में कुछ नहीं देता।
32काम अपना ही फल देता है; वह किसी अन्य (काम) तक नहीं ले जाता। काष्ठ से भस्म प्राप्त हो सकती है, किन्तु भस्म से कुछ भी प्राप्त नहीं होता।
33हे राजन्, जैसे व्याध पक्षियों का वध करता है, वैसे ही पाप संसार के समस्त प्राणियों का वध करता है। जो काम और लोभ से भ्रमित होकर धर्म के स्वरूप को नहीं समझता, वह सबके द्वारा वध किए जाने योग्य है। वह इस लोक में और परलोक में (मृत्यु के पश्चात्) अधम हो जाता है।
34हे राजन्, यह स्पष्ट है कि आप जानते हैं कि सुख धर्मयुक्त भोग्य वस्तुओं से ही प्राप्त होता है। आप उनकी सामान्य अवस्थाओं तथा उनके महान् परिवर्तनों को भी जानते हैं।
35उन (भोग्य वस्तुओं) के नाश, विनाश, जीर्णता और मृत्यु से ही वह उत्पन्न होता है, जिसे क्लेश कहते हैं। वही क्लेश हम पर आ पड़ा है।
36पाँचों इन्द्रियों, मन तथा हृदय के अपने-अपने उचित विषयों में प्रवृत्त होने से जो सुख उत्पन्न होता है, वह मेरे मत में हमारे कर्मों के श्रेष्ठतम फलों में से एक है।
37इस प्रकार धर्म, अर्थ और काम पर क्रमशः विचार करना चाहिए। केवल धर्म का ही सेवन नहीं करना चाहिए। किसी को भी अर्थ अथवा काम को अपनी अभिलाषा का सर्वोच्च लक्ष्य नहीं मानना चाहिए। तीनों का सदा (समान रूप से) सेवन करना चाहिए। शास्त्र विधान करते हैं कि प्रातःकाल धर्म का, मध्याह्न में अर्थ का और सायंकाल काम का सेवन करना चाहिए।
38शास्त्र विधान करते हैं कि जीवन के प्रथम भाग में काम का, द्वितीय में अर्थ का और अन्तिम भाग में धर्म का सेवन करना चाहिए।
39हे वक्ताओं में श्रेष्ठ, जो विद्वान् हैं और काल के उचित विभागों से भलीभाँति परिचित हैं, वे अपने समय का यथोचित विभाजन करके तीनों — धर्म, अर्थ और काम — का सेवन करते हैं।
40हे राजन्, हे कुरुवंशी, सुख के अभिलाषियों के लिए इन तीनों (धर्म, अर्थ और काम) से मुक्ति श्रेष्ठ मार्ग है अथवा उनका अधिकार — यह आपको भलीभाँति विचार करके निश्चित करना चाहिए। हे राजन्, तत्पश्चात् आपको तनिक भी संकोच किए बिना या तो उन्हें प्राप्त करने के लिए अथवा उनका त्याग करने के लिए कार्य करना चाहिए, क्योंकि जो दोनों के बीच डाँवाडोल रहता है, वह अत्यन्त दुःखी होता है।
41यह अच्छा है कि आपका आचरण सदा धर्म से नियन्त्रित रहता है। यह जानकर ही आपके विवेकी मित्र आपको (इस प्रकार) आचरण करने का परामर्श देते हैं।
42हे राजन्, दान, यज्ञ, सत्पुरुषों का सत्कार, वेदों का अध्ययन और सत्यनिष्ठा — ये सर्वोच्च धर्म हैं, जो इस लोक और परलोक दोनों में बलवान् हैं।
43किन्तु, हे नरश्रेष्ठ, ये धर्म उस पुरुष द्वारा प्राप्त नहीं किए जा सकते, जिसके पास धन नहीं है — भले ही उसमें अनन्त अन्य गुण क्यों न हों।
44हे राजन्, समस्त जगत् धर्म पर आश्रित है। धर्म से श्रेष्ठ कुछ भी नहीं। हे राजन्, धर्म (केवल) उन्हीं के द्वारा प्राप्य है, जिनके पास धन है।
45किन्तु धन न भिक्षुक का जीवन बिताने से अर्जित होता है और न दुर्बलता का जीवन ढोने से। हे राजन्, धन धर्मयुक्त बुद्धि से अर्जित किया जा सकता है।
46हे नरश्रेष्ठ, आपके लिए भिक्षा, जो ब्राह्मणों के लिए सिद्धि है, निषिद्ध है। अतः पराक्रम और तेज से धन अर्जित करने का प्रयत्न कीजिए।
47आपके लिए भिक्षावृत्ति का अथवा शूद्र का जीवन बिताना उचित नहीं है। पराक्रम और तेज ही क्षत्रिय का विशेष धर्म है।
48अतः हे पृथापुत्र, अपने (वर्ण) के धर्म का पालन कीजिए और शत्रुओं का नाश कीजिए। मेरी तथा पार्थ (अर्जुन) की सहायता से धृतराष्ट्र के पुत्रों के पराक्रम का नाश कीजिए।
49बुद्धिमान् और विद्वान् पुरुष कहते हैं कि सम्पत्ति ही धर्म है। अतः सम्पत्ति अर्जित कीजिए, क्योंकि आपको प्रमाद में नहीं रहना चाहिए।
50हे राजाधिराज, जागिए और (अपने वर्ण के) सनातन धर्मों को समझिए। आप जन्म से उस वर्ण के हैं, जिसके कर्म क्रूर हैं और दूसरों के लिए पीड़ा के स्रोत हैं।
51हे राजन्, अपनी प्रजा का पालन कीजिए और (उस सत्कर्म के) उन फलों को भोगिए, जो कभी अनुचित नहीं हो सकते। यही सनातन धर्म है, जिसका विधान स्वयं ब्रह्मा ने (हम क्षत्रियों के लिए) किया है।
52हे पृथापुत्र, यदि आप उससे च्युत होते हैं, तो आप (सब मनुष्यों के) उपहास का पात्र बनेंगे। अपने (वर्ण) के धर्मों से विचलन की कभी प्रशंसा नहीं होती।
53हे कुरुवंशी, अतः अपने हृदय को उस वर्ण के अनुरूप बनाइए जिसमें आप उत्पन्न हुए हैं, और दुर्बलता के इस मार्ग को त्यागकर पराक्रम का आह्वान कीजिए तथा (कर्तव्य का) अपना भार उसी प्रकार वहन कीजिए, जैसे कोई पुरुषोचित रीति से उसे वहन करता है।
54हे राजन्, कोई भी राजा केवल धर्मपरायण होने मात्र से पृथ्वी का आधिपत्य, सम्पत्ति अथवा वैभव प्राप्त नहीं कर सकता।
55जैसे व्याध सहज ही लुभा जाने वाले पक्षियों के झुण्ड को किसी आकर्षक भोजन का प्रलोभन देकर पकड़ लेता है, वैसे ही बुद्धिमान् पुरुष शत्रु के लोगों तथा लोभी शत्रुओं को उपहार देकर राज्य प्राप्त कर लेता है।
56हे राजाओं में श्रेष्ठ, असुर, यद्यपि वे देवताओं के ज्येष्ठ भ्राता थे और वैभव में (उनसे अधिक) थे, फिर भी देवताओं द्वारा छल-नीति से पराजित कर दिए गए।
57हे महाबाहु वीर, हे जगत् के शासक, इस प्रकार सब कुछ उन्हीं का है, जिनके पास बल है। छल-नीति से शत्रु का नाश कीजिए।
58युद्ध में धनुष धारण करने में अर्जुन के समान कोई नहीं है। गदा चलाने में मेरे समान कोई नहीं है।
59हे राजन्, पराक्रमी पुरुष केवल अपने पराक्रम के भरोसे युद्ध में प्रवृत्त होते हैं, न कि संख्या-बल के भरोसे और न गुप्तचरों द्वारा प्राप्त शत्रु की योजना की सूचना के भरोसे। हे पाण्डुपुत्र, अतः अपने पराक्रम का प्रयोग कीजिए।
60पराक्रम ही धन का मूल है; अन्य जो कुछ भी उसका मूल कहा जाता है, वह नहीं है। जैसे शीतकाल में वृक्ष की छाया निरर्थक है, वैसे ही पराक्रम के बिना सब कुछ निष्फल है।
61हे कुन्तीपुत्र, जो धन बढ़ाना चाहता है, उसे धन उसी प्रकार व्यय करना चाहिए, जैसे भूमि पर बीज बिखेरे जाते हैं। इस विषय में आपके मन में कोई सन्देह न रहे।
62किन्तु जहाँ धन आवश्यकता से अधिक हो, वहाँ धन का व्यय नहीं करना चाहिए। ऐसी स्थिति में धन का निवेश गर्दभ के खुजलाने के समान है, जो पहले सुखकर और फिर पीड़ादायक होता है।
63हे नरेश्वर, जो पुरुष अधिक धर्म अर्जित करने के लिए उस थोड़े-से धर्म को, जिससे वह चिपका हुआ है, बीज के समान बिखेर देता है, वह निश्चय ही बुद्धिमान् माना जाता है।
64जो विद्वान् हैं, वे मित्रवान् शत्रु के मित्रों को उससे विमुख कर देते हैं। इस प्रकार उसके मित्रों से उसका परित्याग कराकर उसे दुर्बल करके वे उसे वश में कर लेते हैं।
65हे राजन्, जो बलवान् हैं, वे अपने ही साहस के भरोसे युद्ध में प्रवृत्त होते हैं। वे निरन्तर प्रयासों अथवा साम की कलाओं से लोगों को नहीं जीतते।
66हे राजन्, कभी-कभी दुर्बल जन संगठित होकर बलवान् शत्रु का वध कर देते हैं, जैसे मधुमक्खियाँ अपनी संख्या के बल से अपने मधु के लुटेरे को मार डालती हैं।
67हे राजन्, जैसे सूर्य अपनी किरणों से समस्त प्राणियों का पालन भी करता है और नाश भी, वैसे ही आप भी सूर्य की रीति अपनाइए।
68हे राजन्, हमने पुराणों में सुना है कि अपने राज्य की रक्षा करना और अपनी प्रजा का पालन करना — जैसा हमारे पूर्वजों ने किया — एक प्रकार का तप है।
69हे राजन्, क्षत्रिय उन पुण्यलोकों को अन्यथा प्राप्त नहीं कर सकता, जिन्हें वह धर्मयुद्ध से प्राप्त करता है — चाहे (वह युद्ध) विजय में समाप्त हो अथवा पराजय में।
70आपका यह क्लेश देखकर संसार (के लोग) इस निष्कर्ष पर पहुँच गए हैं कि (किसी दिन) प्रकाश सूर्य को त्याग सकता है और (किसी दिन) सौन्दर्य चन्द्रमा को त्याग सकता है।
71हे राजन्, विद्वान् जन, पृथक्-पृथक् भी और एकत्र होकर भी, परस्पर आपकी प्रशंसा और उस दूसरे (दुर्योधन) की निन्दा करते हुए वार्तालाप करते हैं।
72हे राजन्, इसके अतिरिक्त ब्राह्मण और कुरुजन एकत्र होकर आपकी सत्य के प्रति महान् निष्ठा की प्रसन्नतापूर्वक चर्चा करते हैं।
73वे कहते हैं कि आपने कभी भी मोह से, नीचता से, लोभ से, भय से, कामना से अथवा धन के कारण असत्य नहीं कहा।
74राज्य अर्जित करने में राजा जो भी पाप करता है, उसे वह बड़ी दक्षिणाओं वाले यज्ञों के अनुष्ठान से भस्म कर देता है।
75हे राजन्, जैसे चन्द्रमा मेघों से निकल आता है, वैसे ही राजा ब्राह्मणों को सहस्रों ग्राम और गौएँ देकर समस्त पापों से मुक्त हो जाता है।
76हे कुरुवंशी, हे युधिष्ठिर, नगर के तथा देश के समस्त निवासी, बालक और वृद्ध सभी, आपकी प्रशंसा करते हैं।
77"जैसे शूकर के चमड़े की थैली में दूध, जैसे शूद्र में वेद, जैसे लुटेरे में सत्य और जैसे स्त्री में बल — वैसा ही दुर्योधन में राज्य है।
78इस प्रकार लोग परस्पर बातें करते हैं। हे भरतवंशी, स्त्रियाँ और बालक तक इसे इस प्रकार दोहराते हैं, मानो यह कोई पाठ हो जिसे वे कण्ठस्थ करना चाहते हों।
79हे शत्रुदमन, आप मेरे सहित इस अवस्था में आ पड़े हैं। हाय! आपकी इस विपत्ति के कारण हम भी आपके साथ नष्ट हो रहे हैं।
80अतः युद्ध के समस्त उपकरणों से सुसज्जित अपने रथ पर आरूढ़ होकर, श्रेष्ठ ब्राह्मणों से अपने ऊपर आशीर्वाद कहलवाकर, आज इसी क्षण हस्तिनापुर की ओर प्रस्थान कीजिए, जिससे आप ब्राह्मणों को अपनी विजय का धन दे सकें। अपने भाइयों से घिरे हुए, जो सभी महान् धनुर्धर हैं, तथा (अन्य) वीरों से घिरे हुए, जो सभी अस्त्रों में कुशल और तीव्र विष वाले सर्पों के समान हैं, आप (तत्काल) उसी प्रकार प्रस्थान कीजिए, जैसे मरुतों से घिरे हुए वृत्रहन्ता (इन्द्र)। अपने पराक्रम से अपने दुर्बल शत्रुओं का नाश कीजिए, जैसे वृत्रहन्ता (इन्द्र) ने असुरों का नाश किया था। हे कुन्तीपुत्र, धृतराष्ट्र के पुत्र (दुर्योधन) से वह सम्पत्ति छीन लीजिए, जिसका वह (अब) उपभोग कर रहा है।
81गृध्र के पंखों से युक्त तथा तीव्र विष वाले सर्पों के समान उन बाणों का स्पर्श कोई भी मर्त्य सह नहीं सकता, जब वे गाण्डीव (धनुष) से छोड़े जाते हैं।
82हे भरतवंशी, ऐसा कोई योद्धा नहीं, न कोई हाथी, न कोई अश्व, जो युद्ध में मेरे क्रुद्ध होने पर मेरी गदा के वेग को सह सके।
83हे कुन्तीपुत्र, सृंजयों, कैकेयों तथा वृष्णियों के प्रमुख की सहायता से महान् युद्ध करके हम अपने शत्रु से अपना राज्य क्यों न छीन लें?
84हे राजन्, हम अपने शत्रु के हाथों से (पृथ्वी का आधिपत्य) छीनने में सफल क्यों न होंगे? हम एक बड़ी सेना की सहायता से प्रयत्न तो करें।
नेपाली
1वैशम्पायनले भने — याज्ञसेनी (द्रौपदी)का यी वचन सुनेर भीमसेन राजा (युधिष्ठिर)कहाँ आए र क्रोधले लामो सास फेर्दै तिनलाई यसरी भने।
2भीमले भने — हे राजन्, राज्यको विषयमा सत्पुरुषहरूले हिँडेको परम्परागत मार्गमै हिँड्नुहोस्। यसरी धर्म, अर्थ र कामबाट वञ्चित भई तपस्वीहरूको आश्रममा बस्नाले तपाईंलाई के लाभ छ?
3तपाईंको राज्य दुर्योधनले द्यूतको अनुचित छलद्वारा हरण गरेको हो, न कि धर्मद्वारा, न सत्यनिष्ठाद्वारा, न त पराक्रमद्वारा।
4उसले हाम्रो राज्य त्यसै गरी हरण गर्यो, जसरी कुनै दुर्बल, मासु खाने स्यालले बलवान् सिंहहरूबाट तिनको सिकार चोर्छ।
5हे राजन्, धर्म र सुख दुवैको मूल त्यो धनलाई त्यागेर, र प्रतिज्ञा-पालनको (मात्र) तुच्छ धर्मको वशमा परेर, तपाईं यस्ता क्लेश किन सहनुहुन्छ?
6गाण्डीवधारी (अर्जुन)द्वारा रक्षित तथा (स्वयं) शक्र (इन्द्र)ले पनि हामीबाट खोस्न नसक्ने हाम्रो राज्य, केवल तपाईंको प्रमादका कारण, हाम्रै आँखाअगाडि हरण गरियो।
7तपाईंकै कारण, हामी जीवितै हुँदा पनि, हाम्रो सम्पत्ति त्यसै गरी खोसियो, जसरी बाहुहीन पुरुषबाट फल अथवा खुट्टा चलाउन नसक्ने पुरुषबाट गाईहरू खोसिन्छन्।
8हे भरतवंशी, तपाईं धर्म आर्जन गर्ने इच्छामा दृढ हुनुहुन्छ। तपाईंलाई प्रसन्न पार्नकै लागि हामीले आफूलाई यस्ता विपत्तिहरूले अभिभूत हुन दियौँ।
9हे भरतश्रेष्ठ, हामी तपाईंको आज्ञाको अधीनमा छौँ, त्यसैले हामी आफ्ना मित्रहरूलाई दुःख र आफ्ना शत्रुहरूलाई हर्ष दिइरहेका छौँ।
10त्यो हाम्रो तर्फबाट मूर्खताको काम थियो, जसले मलाई ठूलो पीडा दिन्छ, कि तपाईंको आज्ञाको वशमा परी हामीले धृतराष्ट्रका पुत्रहरूलाई त्यही बेला, त्यहीँ वध गरेनौँ।
11हे राजन्, वन्य पशुझैँ वनमा तपाईंको यो बसाइ यस्तो काम हो, जसलाई केवल दुर्बल पुरुषले मात्र स्वीकार गर्नेछ।
12तपाईंको यो कामको अनुमोदन न कृष्णले गर्नुहुन्छ, न विवत्सु (अर्जुन)ले, न अभिमन्युले, न सृंजयहरूले, न मैले र न माद्रीका पुत्रहरूले।
13आफ्नो प्रतिज्ञाले पीडित भई तपाईं सधैँ "धर्म, धर्म" भन्दै कराइरहनुहुन्छ। हे राजन्, के तपाईं निराशाले पुरुषार्थहीन हुनुभयो?
14कायरहरूले मात्र, आफ्नो सम्पत्ति फेरि जित्न नसकेर, त्यो निराशालाई पालिराख्छन्, जो निष्फल छ र आफ्नै प्रयोजनको नाश गर्ने खालको छ।
15तपाईंमा सामर्थ्य छ र तपाईंका आँखा पनि छन्। तपाईं देख्नुहुन्छ कि हामीमा पुरुषार्थ छ। हे राजन्, तपाईंले शान्त जीवन अपनाउनुभएको छ, त्यसैले तपाईं यो दुर्दशाको (पीडा) अनुभव गर्नुहुन्न।
16धृतराष्ट्रका पुत्रहरूले हामीलाई, जो केवल क्षमाशील छौँ, वास्तवमै अक्षम र दुर्बल पुरुष ठान्छन्। हे राजन्, यसले मलाई युद्धमा मृत्युले दिने भन्दा पनि बढी पीडा दिन्छ।
17यदि हामी सबै शत्रुहरूलाई पिठ्युँ नदेखाई धर्मयुद्धमा मारिन्छौँ भने, त्यो पनि यो वनवासभन्दा श्रेष्ठ हुनेछ, किनभने तब हामी पुण्यलोकहरू प्राप्त गर्नेछौँ।
18हे भरतश्रेष्ठ, अर्कोतर्फ यदि तिनीहरूलाई मारेर हामी सम्पूर्ण पृथ्वीका शासक बन्यौँ भने, त्यो हाम्रा लागि महान् कल्याण हुनेछ।
19यही हाम्रो अवश्यकर्तव्य हो — हामी, जो सधैँ आफ्नो वर्णका धर्महरूको पालन गर्छौं, जो सधैँ महान् कर्महरूका अभिलाषी छौँ र जो शत्रुहरूसँग प्रतिशोध लिन चाहन्छौँ।
20हाम्रो राज्य हामीबाट हरण गरिएको छ; यस्तो अवस्थामा यदि हामी युद्धमा प्रवृत्त भयौँ भने, हाम्रो त्यो कर्म, जब संसारमा विदित हुनेछ, प्रशंसा ल्याउनेछ, निन्दा होइन।
21हे राजन्, जुन धर्मले आफैँलाई तथा आफ्ना मित्रहरूलाई क्लेश उत्पन्न गर्छ, त्यो धर्म नै होइन। त्यो त अधर्म हो, जसले विपत्तिहरू उत्पन्न गर्छ।
22हे तात, धर्म कहिलेकाहीँ मानिसहरूको दुर्बलताको (परोक्ष कारण) बन्छ। त्यस्ता मानिसहरूलाई धर्म र अर्थले त्यसै गरी त्याग्छन्, जसरी मृत पुरुषलाई सुख र दुःखले त्याग्छन्।
23जसले केवल धर्मकै लागि धर्मको आचरण गर्छ, उसले सधैँ क्लेश भोग्छ। उसलाई कहिल्यै बुद्धिमान् भन्न सकिँदैन। उसले धर्मको (वास्तविक) प्रयोजन जान्न सक्दैन, जसरी अन्धो पुरुष सूर्यको प्रकाश देख्न असमर्थ हुन्छ।
24जसले आफ्नो धन आफ्नै लागि मात्र हो भन्ने ठान्छ, उसले धनको प्रयोजन कत्ति पनि बुझ्दैन। ऊ वनमा गाई चराउने सेवकजस्तै हो।
25र जसले धर्म तथा कामको सेवन नगरी अत्यधिक अर्थकै पछि लागिरहन्छ, ऊ सम्पूर्ण प्राणीहरूद्वारा निन्दित र वध गरिनुपर्ने योग्य हुन्छ।
26जसले धर्म र अर्थको सेवन नगरी सधैँ कामकै पछि लागिरहन्छ, उसले आफ्ना मित्रहरू गुमाउँछ र धर्म तथा अर्थ पनि गुमाउँछ।
27त्यस्तो पुरुष, इच्छाअनुसार भोगमा लिप्त रही धर्म र अर्थबाट रहित हुन्छ, र भोग-कालको समाप्तिमा निश्चित मृत्यु प्राप्त गर्छ, जसरी पानी सुकेपछि माछा मर्छ।
28त्यसैले बुद्धिमान् पुरुषहरूले सधैँ धर्म र अर्थ दुवैको सेवन गर्छन्, किनभने धर्म र अर्थको संयोग नै कामको अनिवार्य आवश्यकता हो, जसरी अग्निका लागि काठ।
29कामको मूल सधैँ धर्म नै हो र धर्म सधैँ कामसँग संयुक्त रहन्छ। जान्नुहोस् कि दुवै एक-अर्कामा आश्रित छन्, जसरी समुद्र र बादल (परस्पर आश्रित छन्)।
30स्पर्शका विषयहरूको सम्पर्कबाट अथवा धनको अधिकारबाट जुन अनुभूति हुन्छ, त्यसैलाई काम (सुख) भनिन्छ। त्यो मनमा रहन्छ, त्यसको कुनै शारीरिक अस्तित्व हुँदैन।
31हे राजन्, जसले अर्थ चाहन्छ, उसले धर्मको ठूलो भाग खोज्नुपर्छ। जसले काम चाहन्छन्, तिनले (पनि) अर्थ खोज्नुपर्छ, तर कामले बदलामा केही दिँदैन।
32कामले आफ्नै फल दिन्छ; त्यसले अर्को (काम)सम्म पुर्याउँदैन। काठबाट खरानी प्राप्त हुन सक्छ, तर खरानीबाट केही पनि प्राप्त हुँदैन।
33हे राजन्, जसरी व्याधले पक्षीहरूको वध गर्छ, त्यसै गरी पापले संसारका सम्पूर्ण प्राणीहरूको वध गर्छ। जो काम र लोभले भ्रमित भई धर्मको स्वरूप बुझ्दैन, ऊ सबैद्वारा वध गरिनुपर्ने योग्य हुन्छ। ऊ यस लोकमा र परलोकमा (मृत्युपछि) अधम हुन्छ।
34हे राजन्, यो स्पष्ट छ कि तपाईं जान्नुहुन्छ कि सुख धर्मयुक्त भोग्य वस्तुहरूबाट नै प्राप्त हुन्छ। तपाईं तिनका सामान्य अवस्थाहरू तथा तिनका महान् परिवर्तनहरू पनि जान्नुहुन्छ।
35ती (भोग्य वस्तुहरू)को नाश, विनाश, जीर्णता र मृत्युबाटै त्यो उत्पन्न हुन्छ, जसलाई क्लेश भनिन्छ। त्यही क्लेश हामीमाथि आइपरेको छ।
36पाँचै इन्द्रिय, मन तथा हृदय आ-आफ्ना उचित विषयहरूमा प्रवृत्त हुँदा जुन सुख उत्पन्न हुन्छ, त्यो मेरो विचारमा हाम्रा कर्महरूका श्रेष्ठतम फलहरूमध्ये एक हो।
37यसरी धर्म, अर्थ र कामलाई क्रमशः विचार गर्नुपर्छ। केवल धर्मको मात्र सेवन गर्नुहुँदैन। कसैले पनि अर्थ अथवा कामलाई आफ्नो अभिलाषाको सर्वोच्च लक्ष्य मान्नुहुँदैन। तीनैको सधैँ (समान रूपमा) सेवन गर्नुपर्छ। शास्त्रहरूले विधान गर्छन् कि बिहान धर्मको, मध्याह्नमा अर्थको र साँझ कामको सेवन गर्नुपर्छ।
38शास्त्रहरूले विधान गर्छन् कि जीवनको पहिलो भागमा कामको, दोस्रोमा अर्थको र अन्तिम भागमा धर्मको सेवन गर्नुपर्छ।
39हे वक्ताहरूमा श्रेष्ठ, जो विद्वान् छन् र कालका उचित विभाजनहरूसँग राम्ररी परिचित छन्, तिनले आफ्नो समयको यथोचित विभाजन गरी तीनै — धर्म, अर्थ र काम — को सेवन गर्छन्।
40हे राजन्, हे कुरुवंशी, सुखका अभिलाषीहरूका लागि यी तीनै (धर्म, अर्थ र काम)बाट मुक्ति श्रेष्ठ मार्ग हो अथवा तिनको अधिकार — यो तपाईंले राम्ररी विचार गरेर निश्चय गर्नुपर्छ। हे राजन्, त्यसपछि तपाईंले कत्ति पनि सङ्कोच नगरी या त तिनलाई प्राप्त गर्न अथवा तिनको त्याग गर्न कार्य गर्नुपर्छ, किनभने जो दुवैको बीचमा डग्मगाइरहन्छ, ऊ अत्यन्त दुःखी हुन्छ।
41यो राम्रो हो कि तपाईंको आचरण सधैँ धर्मले नियन्त्रित रहन्छ। यही जानेर तपाईंका विवेकी मित्रहरूले तपाईंलाई (यसरी) आचरण गर्न सल्लाह दिन्छन्।
42हे राजन्, दान, यज्ञ, सत्पुरुषहरूको सत्कार, वेदहरूको अध्ययन र सत्यनिष्ठा — यी सर्वोच्च धर्म हुन्, जो यस लोक र परलोक दुवैमा बलवान् छन्।
43तर, हे नरश्रेष्ठ, यी धर्महरू त्यस पुरुषद्वारा प्राप्त गर्न सकिँदैनन्, जोसँग धन छैन — चाहे उसमा अनन्त अन्य गुणहरू किन नहून्।
44हे राजन्, सम्पूर्ण जगत् धर्ममा आश्रित छ। धर्मभन्दा श्रेष्ठ केही पनि छैन। हे राजन्, धर्म (केवल) तिनैद्वारा प्राप्य छ, जोसँग धन छ।
45तर धन न भिक्षुकको जीवन बिताएर आर्जन हुन्छ, न दुर्बलताको जीवन बोकेर। हे राजन्, धन धर्मयुक्त बुद्धिद्वारा आर्जन गर्न सकिन्छ।
46हे नरश्रेष्ठ, तपाईंका लागि भिक्षा, जो ब्राह्मणहरूका लागि सिद्धि हो, निषिद्ध छ। त्यसैले पराक्रम र तेजद्वारा धन आर्जन गर्ने प्रयत्न गर्नुहोस्।
47तपाईंका लागि भिक्षावृत्तिको अथवा शूद्रको जीवन बिताउनु उचित छैन। पराक्रम र तेज नै क्षत्रियको विशेष धर्म हो।
48त्यसैले हे पृथापुत्र, आफ्नो (वर्ण)को धर्मको पालन गर्नुहोस् र शत्रुहरूको नाश गर्नुहोस्। मेरो तथा पार्थ (अर्जुन)को सहायताले धृतराष्ट्रका पुत्रहरूको पराक्रमको नाश गर्नुहोस्।
49बुद्धिमान् र विद्वान् पुरुषहरू भन्छन् कि सम्पत्ति नै धर्म हो। त्यसैले सम्पत्ति आर्जन गर्नुहोस्, किनभने तपाईं प्रमादमा रहनुहुँदैन।
50हे राजाधिराज, जाग्नुहोस् र (आफ्नो वर्णका) सनातन धर्महरू बुझ्नुहोस्। तपाईं जन्मले त्यस वर्णका हुनुहुन्छ, जसका कर्म क्रूर छन् र अरूका लागि पीडाका स्रोत छन्।
51हे राजन्, आफ्नो प्रजाको पालन गर्नुहोस् र (त्यो सत्कर्मका) ती फलहरू भोग्नुहोस्, जो कहिल्यै अनुचित हुन सक्दैनन्। यही सनातन धर्म हो, जसको विधान स्वयं ब्रह्माले (हामी क्षत्रियहरूका लागि) गरेका छन्।
52हे पृथापुत्र, यदि तपाईं त्यसबाट च्युत हुनुभयो भने, तपाईं (सबै मानिसहरूको) उपहासको पात्र बन्नुहुनेछ। आफ्नो (वर्ण)का धर्महरूबाट विचलनको कहिल्यै प्रशंसा हुँदैन।
53हे कुरुवंशी, त्यसैले आफ्नो हृदयलाई त्यस वर्णअनुरूप बनाउनुहोस् जसमा तपाईं जन्मनुभएको छ, र दुर्बलताको यो मार्ग त्यागेर पराक्रमको आह्वान गर्नुहोस् तथा (कर्तव्यको) आफ्नो भार त्यसै गरी बोक्नुहोस्, जसरी कुनै पुरुषोचित रीतिले त्यो बोक्छ।
54हे राजन्, कुनै पनि राजाले केवल धर्मपरायण भएर मात्र पृथ्वीको आधिपत्य, सम्पत्ति अथवा वैभव प्राप्त गर्न सक्दैन।
55जसरी व्याधले सजिलै लोभिने पक्षीहरूको बथानलाई कुनै आकर्षक भोजनको प्रलोभन देखाएर समात्छ, त्यसै गरी बुद्धिमान् पुरुषले शत्रुका मानिसहरू तथा लोभी शत्रुहरूलाई उपहार दिएर राज्य प्राप्त गर्छ।
56हे राजाहरूमा श्रेष्ठ, असुरहरू, यद्यपि तिनीहरू देवताहरूका जेठा दाजु थिए र वैभवमा (तिनीहरूभन्दा बढी) थिए, तैपनि देवताहरूद्वारा छल-नीतिले पराजित गरिए।
57हे महाबाहु वीर, हे जगत्का शासक, यसरी सबै कुरा तिनकै हो, जोसँग बल छ। छल-नीतिद्वारा शत्रुको नाश गर्नुहोस्।
58युद्धमा धनुष चलाउनमा अर्जुनसमान कोही छैन। गदा चलाउनमा मसमान कोही छैन।
59हे राजन्, पराक्रमी पुरुषहरू केवल आफ्नो पराक्रमकै भरमा युद्धमा प्रवृत्त हुन्छन्, न कि सङ्ख्या-बलको भरमा, न त गुप्तचरहरूद्वारा प्राप्त शत्रुको योजनाको सूचनाको भरमा। हे पाण्डुपुत्र, त्यसैले आफ्नो पराक्रमको प्रयोग गर्नुहोस्।
60पराक्रम नै धनको मूल हो; अरू जे-जति त्यसको मूल भनिन्छ, त्यो होइन। जसरी हिउँदमा रूखको छहारी निरर्थक हुन्छ, त्यसै गरी पराक्रमविना सबै कुरा निष्फल हुन्छ।
61हे कुन्तीपुत्र, जसले धन बढाउन चाहन्छ, उसले धन त्यसै गरी खर्च गर्नुपर्छ, जसरी भूमिमा बीउ छरिन्छ। यस विषयमा तपाईंको मनमा कुनै शङ्का नरहोस्।
62तर जहाँ धन आवश्यकताभन्दा बढी छ, त्यहाँ धनको खर्च गर्नुहुँदैन। यस्तो अवस्थामा धनको लगानी गधाको कन्याइजस्तै हो, जो पहिले सुखकर र पछि पीडादायक हुन्छ।
63हे नरेश्वर, जुन पुरुषले बढी धर्म आर्जन गर्न त्यो थोरै धर्मलाई, जसमा ऊ टाँसिएको छ, बीउझैँ छरिदिन्छ, ऊ निश्चय नै बुद्धिमान् मानिन्छ।
64जो विद्वान् छन्, तिनले मित्रवान् शत्रुका मित्रहरूलाई उसबाट विमुख पारिदिन्छन्। यसरी उसका मित्रहरूबाट उसको परित्याग गराई उसलाई दुर्बल पारेर तिनले उसलाई वशमा पार्छन्।
65हे राजन्, जो बलवान् छन्, तिनी आफ्नै साहसको भरमा युद्धमा प्रवृत्त हुन्छन्। तिनले निरन्तर प्रयासहरू अथवा सामका कलाहरूद्वारा मानिसहरूलाई जित्दैनन्।
66हे राजन्, कहिलेकाहीँ दुर्बलहरूले सङ्गठित भई बलवान् शत्रुको वध गर्छन्, जसरी मौरीहरूले आफ्नो सङ्ख्याको बलले आफ्नो मह लुट्नेलाई मार्छन्।
67हे राजन्, जसरी सूर्यले आफ्ना किरणहरूद्वारा सम्पूर्ण प्राणीहरूको पालन पनि गर्छ र नाश पनि, त्यसै गरी तपाईं पनि सूर्यको रीति अपनाउनुहोस्।
68हे राजन्, हामीले पुराणहरूमा सुनेका छौँ कि आफ्नो राज्यको रक्षा गर्नु र आफ्नो प्रजाको पालन गर्नु — जस्तो हाम्रा पुर्खाहरूले गरे — एक प्रकारको तप हो।
69हे राजन्, क्षत्रियले ती पुण्यलोकहरू अन्य कुनै उपायले प्राप्त गर्न सक्दैन, जो उसले धर्मयुद्धद्वारा प्राप्त गर्छ — चाहे (त्यो युद्ध) विजयमा टुङ्गियोस् वा पराजयमा।
70तपाईंको यो क्लेश देखेर संसार(का मानिसहरू) यस निष्कर्षमा पुगेका छन् कि (कुनै दिन) प्रकाशले सूर्यलाई त्याग्न सक्छ र (कुनै दिन) सौन्दर्यले चन्द्रमालाई त्याग्न सक्छ।
71हे राजन्, विद्वान् जनहरू, छुट्टाछुट्टै पनि र एकसाथ भेला भएर पनि, आपसमा तपाईंको प्रशंसा र त्यो अर्को (दुर्योधन)को निन्दा गर्दै कुराकानी गर्छन्।
72हे राजन्, यसबाहेक ब्राह्मणहरू र कुरुजनहरू भेला भई तपाईंको सत्यप्रतिको महान् निष्ठाबारे प्रसन्नतापूर्वक चर्चा गर्छन्।
73तिनी भन्छन् कि तपाईंले कहिल्यै पनि मोहले, नीचताले, लोभले, भयले, कामनाले अथवा धनका कारण असत्य बोल्नुभएन।
74राज्य आर्जन गर्दा राजाले जुनसुकै पाप गरे पनि, त्यसलाई उसले ठूला दक्षिणा दिइने यज्ञहरूको अनुष्ठानद्वारा भस्म पार्छ।
75हे राजन्, जसरी चन्द्रमा बादलबाट निस्कन्छ, त्यसै गरी राजा ब्राह्मणहरूलाई हजारौँ गाउँ र गाईहरू दिएर सम्पूर्ण पापहरूबाट मुक्त हुन्छ।
76हे कुरुवंशी, हे युधिष्ठिर, नगरका तथा देशका सम्पूर्ण बासिन्दाहरू, बालक र वृद्ध सबैले तपाईंको प्रशंसा गर्छन्।
77"जसरी बँदेलको छालाको थैलीमा दूध, जसरी शूद्रमा वेद, जसरी लुटेरामा सत्य र जसरी स्त्रीमा बल — त्यस्तै दुर्योधनमा राज्य छ।
78यसरी मानिसहरू आपसमा कुरा गर्छन्। हे भरतवंशी, स्त्रीहरू र बालबालिकाहरूसम्मले यसलाई यसरी दोहोर्याउँछन्, मानौँ यो कुनै पाठ हो जसलाई तिनीहरू कण्ठ पार्न चाहन्छन्।
79हे शत्रुदमन, तपाईं मसहित यस अवस्थामा आइपर्नुभएको छ। हाय! तपाईंको यो विपत्तिका कारण हामी पनि तपाईंसँगै नष्ट हुँदै छौँ।
80त्यसैले युद्धका सम्पूर्ण उपकरणले सुसज्जित आफ्नो रथमा आरूढ भई, श्रेष्ठ ब्राह्मणहरूबाट आफूमाथि आशीर्वाद भन्न लगाई, आजै यही क्षण हस्तिनापुरतर्फ प्रस्थान गर्नुहोस्, जसले गर्दा तपाईंले ब्राह्मणहरूलाई आफ्नो विजयको धन दिन सक्नुहोस्। आफ्ना भाइहरूले घेरिएर, जो सबै महान् धनुर्धर छन्, तथा (अन्य) वीरहरूले घेरिएर, जो सबै अस्त्रमा कुशल र तीव्र विष भएका सर्पसमान छन्, तपाईं (तुरुन्तै) त्यसै गरी प्रस्थान गर्नुहोस्, जसरी मरुत्हरूले घेरिएका वृत्रहन्ता (इन्द्र)। आफ्नो पराक्रमले आफ्ना दुर्बल शत्रुहरूको नाश गर्नुहोस्, जसरी वृत्रहन्ता (इन्द्र)ले असुरहरूको नाश गरेका थिए। हे कुन्तीपुत्र, धृतराष्ट्रका पुत्र (दुर्योधन)बाट त्यो सम्पत्ति खोस्नुहोस्, जसको ऊ (अहिले) उपभोग गरिरहेको छ।
81गिद्धका प्वाँखले युक्त तथा तीव्र विष भएका सर्पसमान ती बाणहरूको स्पर्श कुनै पनि मर्त्यले सहन सक्दैन, जब ती गाण्डीव (धनुष)बाट छोडिन्छन्।
82हे भरतवंशी, त्यस्तो कुनै योद्धा छैन, न कुनै हात्ती, न कुनै घोडा, जसले युद्धमा म क्रुद्ध हुँदा मेरो गदाको वेग सहन सकोस्।
83हे कुन्तीपुत्र, सृंजयहरू, कैकेयहरू तथा वृष्णिहरूका प्रमुखको सहायताले महान् युद्ध गरेर हामीले आफ्नो शत्रुबाट आफ्नो राज्य किन नखोस्ने?
84हे राजन्, हामी आफ्नो शत्रुका हातबाट (पृथ्वीको आधिपत्य) खोस्न किन सफल नहोऔँला? हामी एउटा ठूलो सेनाको सहायताले प्रयत्न त गरौँ।