आरण्यक पर्व — काम्यक वन में प्रवेश
खण्ड 2 — वन पर्व · अध्याय 3
संस्कृत
1वैशम्पायन उवाच शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः। पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम्॥
2प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः। न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः॥
3परित्यक्तुं न शक्तोऽस्मि दानशक्तिश्च नास्ति मे। कथमत्र मया कार्यं तद् ब्रूहि भगवन् मम॥
4वैशम्पायन उवाच मुहूर्तमिव सध्यात्वाधर्मेणान्विष्य तां गतिम्। युधिष्ठिरमुवाचेदंधौम्योधर्मभृतां वरः॥
5धौम्य उवाच ततोऽनुकम्पया पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम्। तेषां सविता स्वपिता यथा॥ गत्वोत्तरायणं तेजो रसानुद्धृत्य रश्मिभिः। दक्षिणायनमावृत्तो महीं निविशते रविः॥
6क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः। दिवस्तेजः समुद्धृत्य जनयामास वारिणा॥
7निषिक्तश्चन्द्रतेजोभिः स्वयोनौ निर्गते रविः। ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि॥
8एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम्। पितैष सर्वभूतानां तस्मात् तं शरणं व्रज॥
9राजानो हि महात्मानो योनिकर्मविशोधिताः। उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम्॥
10भीमेन कार्तवीर्येण वैन्येन नहुषेण च। तपोयोगसमाधिस्थैरुद्धता ह्यापदः प्रजाः॥
11तथा त्वमपिधर्मात्मन् कर्मणा च विशोधितः। तप आस्थायधर्मेण द्विजातीन् भर भारत॥
12जनमेजय उवाच कथं कुरूणामृषभः स तु राजा युधिष्ठिरः। विप्रार्थमाराधितवान् सूर्यमद्भुतदर्शनम्॥
13वैशम्पायन उवाच शृणुष्वावहितो राजशुचिर्भूत्वा समाहितः! क्षणं च कुरु राजेन्द्र सम्प्रवक्ष्याम्यशेषतः॥
14धौम्येन तु यथा पूर्वं पार्थाय सुमहात्मने। नामाष्टशतमाख्यातं तच्छृणुष्व महामते॥
15धौम्य उवाच सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः। गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः॥ पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्। सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च॥ इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वै वरुणो यमः॥ वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः। धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः॥ कृतं त्रेता द्वापरश्च कलिः सर्तमलाश्रयः। कला काष्ठा मुहूर्ताश्च क्षपा यामस्तथा क्षणः॥ संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः। पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः॥ कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः। वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा॥ भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः। स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः। :॥ अनन्तः कपिलो भानुः कामदः सर्वतोमुखः। जयो विशालो वरदः सर्वधातुनिषेचिता॥ मन:सुपर्णो भूतादिः शीघ्रगः प्राणधारकः। धन्वन्तरिधूमकेतुरादिदेवोऽदितेः सुतः॥ द्वादशात्मारविन्दाक्षः पिता माता पितामहः। स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्॥ देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः। चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः॥
16एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः। नामाष्टशतकं चेदं प्रोक्तमेतत् स्वयंभुवा॥
17सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम्। वरकनकहुताशनप्रभं प्रणिपतितोऽस्मि हिताय भास्करम्॥
18सूर्योदये यः सुसमाहितः पठेत् स पुत्रदारान्धनरत्नसंचयान्। लभेत जातिस्मरतां नरः सदा धृतिं च मेधां च स विन्दते पुमान्॥
19इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमना: समाहितः ल्लभेत कामान् मनसा यथेप्सितान्॥
20वैशम्पायन उवाच एवमुक्तस्तुधौम्येन तत्कालसदृशं वचः। विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः॥ धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम्। पुष्पोपहारैलिभिरर्चयित्वा दिवाकरम्॥ सोऽवगाह जलं राजा देवस्याभिमुखोऽभवत्। योगमास्थायधर्मात्मा वायुभक्षो जितेन्द्रियः॥
21गाङ्गेयं वार्युपस्पृश्य प्राणायामेन तस्थिवान्। शुचिः प्रयतवाग् भूत्वा स्तोत्रमारब्धवांस्ततः॥
22युधिष्ठिर उवाच त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम्। त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम्॥
23त्वं गतिः सर्वसांख्यानां योगिनां त्वं परायणम्। अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षुताम्॥
24त्वया संधार्यते लोकस्त्वया लोकः प्रकाश्यते। त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया॥
25त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः। स्वशाखाविहितैर्मन्त्रैरर्चन्त्यषिगणार्चितम्॥
26तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः। सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः॥
27त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः। सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः॥
28उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः। दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः॥ गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः। ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम्॥ वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः। वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः॥
29सब्रह्मकेषु लोकेषु सप्तस्वष्यखिलेषु च। न तद्भूतमहं मन्ये यदर्कादतिरिच्यते॥ सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च। न त तेषां तथा दीप्तिः प्रभावो वा यथा तव॥ ज्योतीषिं त्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः। त्वयि सत्यं च सत्त्वं च सर्वे भावाश्च सात्त्विका:।४७॥ त्वत्तेजसा कृतं चक्रं सुनाभं विश्वकर्मणा। देवारीणां मदो येन नाशितः शार्ङ्गधन्वना॥
30त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम्। सौषधिरसानां च पुनर्वर्षासु मुञ्चसि॥
31तपन्त्यन्ये दहन्त्यन्ये गर्जन्त्यन्ये तथा घनाः। विद्योतन्ते प्रवर्षन्ति तव प्रावृषिः रश्मयः॥
32न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः। शीतवातार्दितं लोकं यथा तव मरीचयः॥
33त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम्। त्रयाणामपि लोकानां हितायैकः प्रवर्तसे॥
34तव यादयो न स्यादन्धं जगदिदं भवेत्। न चधर्मार्थकामेषु प्रवर्तेरन् मनीषिणः॥
35आधानपशुबन्धेष्टिमन्त्रयज्ञतपःक्रियाः। त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः॥
36यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसम्मितम्। तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः॥
37मनूनां मनुपुत्राणां जगतोऽमानवस्य च। मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः॥
38संहारकाले सम्प्राप्ते तव क्रोधविनिःसृतः। संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते॥
39त्वद्दीधितिसमुत्पन्न नानावर्णा महाघनाः। सैरावता: साशनयः कुर्वन्त्याभूतसम्लवम्॥
40कृत्वा द्वादशधाऽऽत्मानं द्वादशादित्यतां गतः। संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः॥
41त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः। त्वमग्निस्त्वं मनः सूक्ष्म प्रभुस्त्वं ब्रह्म शाश्वतम्॥
42त्वं हंसः सविता भानुरंशुमाली वृषाकपिः। विवस्वान् मिहिरः पूषा मित्रोधर्मस्तथैव च॥ सहस्ररश्मिरादित्यस्तपनस्त्वं गवाम्पतिः। मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत् तथा॥ दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः। आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे॥
43सप्तम्यामथवा षष्ठ्यां भक्त्या पूजां करोति यः। अनिविण्णोऽनहंकारी तं लक्ष्मीर्भजते नरम्॥
44न तेषामापदः सन्ति नाधयो व्याधयस्तथा। ये तवानन्यमनसः कुर्वन्त्यर्चनवन्दनम्॥
45सर्वरोगविरहिताः सर्वपापविवर्जिताः। तवद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः॥
46त्वं ममापनकामस्य सर्वातिथ्यं चिकीर्षतः। अन्नमन्नपते दातुमभितः श्रद्धयाहसि॥
47ये च तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः। माठरारुणदण्डाद्यास्तांस्तान् वन्देऽशनिक्षुभान्॥ क्षुभया सहिता मैत्री याश्चान्या भूतमातरः। ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम्॥
48वैशम्पायन उवाच एवं स्तुतो महराजा भास्करो लोकभावनः। ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्। दीप्यमानः स्ववपुषा ज्वलनिव हुताशनः॥
49विवस्वानुवाच यत् तेऽभिलषितं किंचित् तत् त्वं सर्वमवाप्स्यसि। अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः॥
50गृहणीष्व पिठरं तानं मया दत्त नराधिप। यावद् वय॑ति पाञ्चाली पात्रेणानेन सुव्रत॥ फलमूलामिषं शाकं संस्कृतं यन्महानसे। चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति॥ इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि।
51वैशम्पायन उवाच एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत॥
52इमं स्तवं प्रयतमनाः समाधिना पठेदिहान्योऽपि वरं समर्थयन्। तत् तस्य दद्याच्च रविर्मनीषितं तदाप्नुयाद् यद्यपि तत् सुदुर्लभम्॥
53यश्चेदंधारयेन्नित्यं शृणुयाद् वाप्यभीक्ष्णशः। पुत्रार्थी लभते पुत्रंधनार्थी लभतेधनम्। विद्यार्थी लभते विद्यां पुरुषोऽप्यथवा स्त्रियः॥
54उभे संध्ये पठेन्नित्यं नारी वा पुरुषो यदि। आपदं प्राप्य मुच्यते बद्धो मुच्येत बन्धनात्॥
55एतद् ब्रह्मा ददौ पूर्वं शक्राय सुमहात्मने। शक्राच्च नारदः प्राप्तोधौम्यस्तु तदनन्तरम्। धौम्याद् युधिष्ठिरः प्राप्य सर्वान् कामानवाप्तवान्।७८।।
56संग्रामे च जयेन्नित्यं विपुलं चाप्नुयाद् वसु। मुच्यते सर्वपापेभ्यः सूर्यलोकं स गच्छति॥
57वैशम्पायन उवाच लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्यधर्मवित्। जचाद पादौधौम्यस्य भ्रातुंश्च परिषस्वजे॥
58द्रौपद्या सह संगम्य वन्द्यमानस्तया प्रभुः। महानसे तदानीं तु साधयामास पाण्डवः॥
59संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम्। अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान्॥
60भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि। शेषं विघससंज्ञं तु पश्चाद् भुङ्क्ते युधिष्ठिरः॥
61युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती। द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च। एवं दिवाकरात् प्राप्य दिवाकरसमप्रभः॥ कामान् मनोऽभिलषितान् ब्राह्मणेभ्योऽददात् प्रभुः। पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु। यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः॥
62ततः कृतस्वस्त्ययनाधौम्येन सह पाण्डवाः। द्विजसबै परिवृताः प्रययुः काम्यकं वनम्॥
अंग्रेज़ी
1Vaishampayana said : Having been thus addressed by Shaunaka, the son of Kunti, Yudhishthira, conting to his priest, thus spoke to him in the midst of his brothers.
2Yudhishthira said: The Brahmanas, learned in the Vedas, are following me who am departing. Afflicted with many calamities, I am unable to support them.
3I cannot forsake them, but I have no power to provide them with their sustenance. O exalted one, tell me what should be now done by me.
4Vaishampayana said : After reflecting for a moment to seek out the (proper) course by the help of his Yoga prowess, that foremost of all virtuous men, Dhaumya, thus spoke to Yudhishthira.
5Dhaumya said : In the days of yore, all living beings that had been created were greatly afflicted with hunger. Thereupon Savita (sun) took compassion on them, as a father (does to his children). Going to the Northern declension, the sun drew up water by his rays and then coming back to the Southern declension and having centered his heat in himself, he stayed over the earth.
6While the sun so stayed, the lord of the vegetable world (moon), converting the effects of the sun's heat (vapours) created the clouds.
7Thus it is the sun himself who, being drenched by the lunar influence, is transformed from the sprouting of seeds into holy vegetables furnished with the six tastes. It is this which constitutes the food of all creatures on carth.
8Thus the food which supports the lives of creatures is the sun and therefore he is the father of all creatures. Therefore take shelter in him.
9All illustrious kings of noble birth and great deeds are known to have delivered their people by practising high asceticism.
10Dhaumya, Kartavirya, Vainya and Nahusha all protected their subjects from dangers by virtue.of ascetic meditation and vows.
11Therefore, O descendant of Bharata, O virtuous one, as you are purified by acts, you too, like like them, support virtuously the Brahmanas by entering upon a life of austerities.
12Janamejaya said : How does, for the sake of the Brahmanas, that foremost of the Kurus, king Yudhishthira, worshipped the sun of wonderful appearance?
13Vaishampayana said : O king, (first) purify yourself and (then) withdrawing your mind from all (the worldly) objects, (at that appointed hour) hear it with all attention. O king of kings, appoint a time. I shall (then) tell you everything in detail.
14O high souled one, listen to the one hundred and eight names (of the sun), as they were told by Dhaumya to the greatly illustrious son of Pritha (Yudhishthira).
15Dhaumya said : Surya, Aryama, Bhaga, Tvashta, Pusha, Arka, Savita, Ravi, Gabhastiman, Aja, Kala, Mrityu, Dhata, Prabhakara, Prithivi, Apa, Teja, Kha, Vayu, Parayana, Soma, Brihaspati, Shukra, Budha, Angaraka, Indra, Vivashvana, Dirtangshu, Suchi, Souri, Sanaichara, Brahma, Vishnu, Rudra, Skanda, Vaishravana, Yama, Vaidyutagni, Jatharagni, Aindhana, Tejaspati, Dharmadhvaja, Vedakarta, Vedanga, Vedavahana, Krita, Treta, Dvapara, Kali, Kala, Kastha, Muhurta, Kashyapa, Yama, Kshana, Samvatsarakara, Ashvatha, Kalachakra, Vibhavasu, Purusha, Sashvata, Yogin, Vyakta, Avyakta, Sanatana, Kaladhyaksha, Prajadhakshya, VishBakarman, Tamanooda, Varuna, Sagara, Ansa, Jimuta, Jivana, Ariha, Bhutashraya, Bhutapati, Srashta, Samvartaka, Vanhi, Sarvadi, Alolupa, Ananta, Kapila, Bhanu, Karmaprada, Sarvatamukha, Jaya, Vishala, Varada, Manas, Suparna, Bhutadi, Sighraga, Pranadharna, Dhanvantari, Dhumaketu, Adideva, Aditisuta, Dvadasatma, Aravindaksha, Pitri, Matri, Pitamaha, Svargadara, Prajadvara, Mokshadara, Prasanatma, Vishvatima, Vishvatamukha, Characharatman, Sukshatma and the merciful Maitra.
16These are the one hundred and eight names of immeasurably effulgent Surya as told by the self-created (Brahma).
17O Bhaskara (sun), who blazes like gold or fire, who is worshipped by the celestials, the Pitris, the Yakshas and who is adored by Asuras, Nishacharas and Siddhas, I bow you for the acquisition of prosperity.
18He who recites with fixed attention this hymn at sunrise, obtains wife, offspring, riches and the memory of his former existence. Men always get patience and memory (by reciting it).
19Let a man, concentrating his mind, recite this hymn of the foremost of gods (the sun). He will be proof against grief, forest-fire and ocean; and he will obtain every object of desire as he will wish for.
20Vaishampayana said : Having, heard these words uttered by Dhaumya suitable to the occasion, Dharmaraja (Yudhishthira), moved by the desire of supporting the Brahmanas of controlled and pure souls and of austere vows, began to observe excellent asceticism. Worshipping the sun with flowers and other articles and turning his face towards the lord of day (the sun), he bathed in the water. That virtuous minded man became rapt in Yoga, living on air ard becoming a victor over his passions.
21Purifying himself with the touch of the Ganges water and restraining his speech, he practised Pranayama (one of the processes of Yoga) for some time and he then recite this hymn of praise.
22Yudhishthira said: O sun, you are the eye of the universe. You are the soul of all corporeal existence. You are the creative organ of all things. You are the acts of all religious men.
23You are the refuge of all Sankhyas (the followers of Sankhya philosophy) and you are the support of all Yogins (the followers of Yoga philosophy). You are the door with bolts : unfastened, you are the refuge of men aspiring to salvation.
24You support the world, you make it manifest; you purify it and support it from compassion.
25The Brahmanas, learned in the Vedas, adore you by coming to you in proper time and by reciting the hymns from the respective branches (of the Vedas what each of them follows). You are the adored of the Rishis.
26The Siddhas, the Charanas, the Gandharvas, the Yakshas, the Guhyakas and the Nagas, being desirous of obtaining boons, follow your moving celestials car.
27Thirty three gods, with Upendra (Vishnu) and Mahendra (Indra) and the Vaimanikas (an order of celestials) have all attained success by worshipping you.
28By offering you garlands of the celestials Mandaras (celestials flowers), the best of the Vidyadharas have obtained all their desires. The Guhyakas and the seven orders of the Pitris, both divine and human, have attained superiority by adoring you. The Vasus, the Marutas, the Rudras the Saddhyas, the Marichipas, the Valkhilyas and the Siddhas have (all) attained prominence by bowing to you.
29There is nothing that I know in the whole of the seven worlds including that of Brahma which is beyond you. There are other beings both powerful and great, but none of them possesses lustre and prowess as you do. All light is in you. You are the lord of all light. In you are the elements, you are knowledge and you are all the ascetic properties. The discuss, by which the wielder of the Saranga (the bow of Vishnu) humble the pride of the Asuras and which is furnished with a beautiful have, was made by Vishvakarma with your effulgence.
30You draw by your rays moisture from all corporeal existence and from plants and liquid substances in summer. You pour it down (on the earth as rain) in the rainy season.
31Your rays are warm and they scorch (things). Becoming clouds they roar and flash lightning; they pour down showers when the scason comes.
32Neither fire, nor shelter, nor woolen blankets give greater comfort to one in cold than what is got from your rays.
33You illuminate by your rays the whole earth with her thirteen islands. You alone are (ever) engaged in doing good to the three worlds.
34If you do not rise, the universe becomes blind. The learned men cannot employ themselves in the attainment of Dharma, Artha and Kama.
35It is through your grace that the Brahmanas, Kshatriyas and Vaisyas are able to perform Adhana, Pashabandha, Ishti, Mantra, Yajona and Tapakrya (names of various duties, sacrifices and vows.)
36Those that know all about the Time say that you are the beginning and the end of the Brahma day which consists of full one thousand Yugas.
37You are the lord of the Manus, of the sons of Manus, of the universe, of mankind, of the Manvantaras and of all lords.
38When the time for final dissolution comes, the Samvartaka fire, born of your anger, only exists and reduces the three worlds to ashes.
39Clouds of various colors, born of your rays, accompanied by Airavata (Indra's elephant) and the thunder, produce the appointed deluges.
40Dividing yourself into twelve parts and becoming as many suns, you then drink up the ocean with your rays.
41You are called Indra, you are Vishnu, you are Rudra, (you are) Prajapati, you are fire, you are the subtle mind, you are the lord and the eternal Brahma.
42You are Hansa, you are Savitri, you are Bhanu, Anshumali, Vrishakapi, Vivasvana, Mihira, Pusha, Mitra and Dharma. You are thousand-rayed sun, you are Tapana, the lord of rays. You are Martanda, Arka, Ravi, Surya, Sharanga, the maker of the day. Dibakara, Saptasapti, Dhamakeshin, Virochana, Ashugami, Tamoghna and Haritashva.
43He who reverentially worships you on the sixth or the seventh lunar day with humility of mind obtains the grace of Lakshmi (goddess of wealth.)
44Those that adore and worship you with undivided attention are delivered from all dangers, agonies and afflictions.
45Those that believe you in everything becoming freed from all disease and all sins, grow happy in all their life.
46O lord of all food, you should grant me abundance of food to entertain all my guests with reverence.
47I bow to all your followers that have taken your feet, (namely) Mathara, Aruna, Danda and others including Asani, Kshubha and others. I also bow to the celestials mothers of all creatures, namely Kshubha and Maitri and to the others of the class. Let them deliver me who am suppliant (at their feet).
48Vaishampayana said : Thereupon the sun became gratified and that maker of day, self-luminous and blazing like fire, appeared before the Pandava (Yudhishthira).
49The Sun said: You shall get all that you desire to have. I shall provide you with food for all the twelve years (of your exile).
50O king, accept this copper vessel that I present you. O man of excellent vows, so long the Panchala excellent vows, so long the Panchala Princess (Draupadi) will hold this vessel without partaking of it contents-fruits, roots, meat and vegetables, cooked in your kitchen-the four kinds of food, shall from this day be (there) inexhaustible. You shall regain your kingdom on the fourteenth year from this.
51Vaishampayana said : Having said this, the deity (Sun) then and there vanished away.
52He, who with the desire of obtaining a boon, recites this hymn concentrating his mind with ascetic abstraction, obtains it from the sun, however difficult of acquisition it may be.
53A man or a woman that recites or hears this hymn day after day, if he or she is desirous of a son, obtains one; if desirous of wealth, cbtains it; and if desirous of learning, obtains it. The man or woman who always reads it in the two twlights (early morning and evening).
54Is delivered from danger and is freed from the bonds. This hymn was given of old to the high-souled Shakra.
55From Shakra it was obtained by Narada and from Narada by Dhaumya. Receiving it from Dhaumya, Yudhishthira obtained all that he desired.
56It is by the virtue of the hymn one may win victory in a war and acquire immense wealth. Making one freed from all sins, it leads a man to the region of the sun.
57The virtuous son of Kunti (Yudhishthira), having obtained the boon, rose from the water. He then took hold of Dhaúmya's feet and then embraced his brothers.
58O lord, the Pandava (Yudhishthira), going to the kitchen with Draupadi and being duly worshipped by her, began to cook food.
59The food, however little that was cooked, becoming four kinds increased and become inexhaustible. Who them he (Yudhishthira) fed the Brahman.
60After the Brahmanas had been fed and his younger brothers also, Yudhishthira himself ate the food that remained and which was called Vighasa.
61After Yudhishthira had partaken his food, the daughter of Prishata (Draupadi) took what remained. After Draupadi had taken her meal, the food became exhausted. The lord (Yudhishthira) as resplendent as the sun thus obtaining the boon from the sun, entertained the Brahmanas agrecable to their wishes. Obedient to his priest, he performed sacrifices with due Mantras and according to the ordinances and Shastras on auspicious lunar days, constellations and conjunctions.
62Thereupon the Pandavas, blessed by the auspicious rites and, accompained by Dhaumya and surrounded by the Brahmanas, set out for the forest of Kamyaka.
हिन्दी
1वैशम्पायन ने कहा — शौनक के इस प्रकार कहने पर कुन्ती के पुत्र युधिष्ठिर अपने पुरोहित के पास जाकर, भाइयों के मध्य में उनसे इस प्रकार बोले।
2युधिष्ठिर ने कहा — वेदों के ज्ञाता ब्राह्मण मुझ प्रस्थान करते हुए के पीछे-पीछे आ रहे हैं। अनेक विपत्तियों से पीड़ित होने के कारण मैं उनका भरण-पोषण करने में असमर्थ हूँ।
3मैं उन्हें त्याग भी नहीं सकता, किन्तु उनके निर्वाह की व्यवस्था करने का मुझमें सामर्थ्य नहीं है। हे महाभाग, मुझे बताइए कि अब मुझे क्या करना चाहिए।
4वैशम्पायन ने कहा — अपने योगबल से (उचित) मार्ग खोजने के लिए क्षण भर विचार करके, समस्त धर्मात्माओं में श्रेष्ठ धौम्य ने युधिष्ठिर से इस प्रकार कहा।
5धौम्य ने कहा — प्राचीन काल में सृष्ट समस्त प्राणी भूख से अत्यन्त पीड़ित हुए। तब सविता (सूर्य) ने उन पर वैसी ही करुणा की जैसी पिता (अपनी सन्तानों पर करता है)। उत्तरायण में जाकर सूर्य ने अपनी किरणों से जल खींचा और फिर दक्षिणायन में लौटकर, अपने ताप को अपने ही में केन्द्रित करके, वह पृथ्वी के ऊपर स्थित हुआ।
6सूर्य के इस प्रकार स्थित रहने पर ओषधियों के स्वामी (चन्द्रमा) ने सूर्य के ताप के परिणाम (वाष्प) को परिवर्तित करके मेघों की सृष्टि की।
7इस प्रकार सूर्य ही, चन्द्रमा के प्रभाव से आर्द्र होकर, बीजों के अंकुरण से लेकर छह रसों से युक्त पवित्र ओषधियों के रूप में परिणत होता है। यही पृथ्वी के समस्त प्राणियों का आहार है।
8इस प्रकार जो अन्न प्राणियों के जीवन को धारण करता है, वह सूर्य ही है; और इसीलिए वह समस्त प्राणियों का पिता है। अतः उसी की शरण लीजिए।
9उत्तम कुल में उत्पन्न और महान् कर्म करने वाले समस्त यशस्वी राजा उग्र तपस्या करके अपनी प्रजा का उद्धार करते आए हैं — ऐसा प्रसिद्ध है।
10धौम्य, कार्तवीर्य, वैन्य और नहुष — इन सबने तपोमय ध्यान और व्रतों के बल से अपनी प्रजा की संकटों से रक्षा की।
11अतः हे भरतवंशी, हे धर्मात्मा, आप कर्मों से शुद्ध हैं; आप भी उन्हीं के समान तपस्या का जीवन ग्रहण करके धर्मपूर्वक ब्राह्मणों का भरण-पोषण कीजिए।
12जनमेजय ने कहा — ब्राह्मणों के हित के लिए कुरुश्रेष्ठ राजा युधिष्ठिर ने अद्भुत रूप वाले उस सूर्य की किस प्रकार आराधना की?
13वैशम्पायन ने कहा — हे राजन्, (पहले) स्वयं को शुद्ध कीजिए और (फिर) समस्त (सांसारिक) विषयों से मन हटाकर, (उस नियत समय पर) पूर्ण ध्यान से इसे सुनिए। हे राजाधिराज, समय नियत कीजिए। (तब) मैं आपको सब कुछ विस्तार से कहूँगा।
14हे महात्मन्, (सूर्य के) उन एक सौ आठ नामों को सुनिए, जिन्हें धौम्य ने परम यशस्वी पृथापुत्र (युधिष्ठिर) से कहा था।
15धौम्य ने कहा — सूर्य, अर्यमा, भग, त्वष्टा, पूषा, अर्क, सविता, रवि, गभस्तिमान्, अज, काल, मृत्यु, धाता, प्रभाकर, पृथिवी, अप्, तेज, ख, वायु, परायण, सोम, बृहस्पति, शुक्र, बुध, अंगारक, इन्द्र, विवस्वान्, दीर्घांशु, शुचि, सौरि, शनैश्चर, ब्रह्मा, विष्णु, रुद्र, स्कन्द, वैश्रवण, यम, वैद्युताग्नि, जठराग्नि, ऐन्धन, तेजस्पति, धर्मध्वज, वेदकर्ता, वेदांग, वेदवाहन, कृत, त्रेता, द्वापर, कलि, काल, काष्ठा, मुहूर्त, कश्यप, यम, क्षण, संवत्सरकर, अश्वत्थ, कालचक्र, विभावसु, पुरुष, शाश्वत, योगी, व्यक्त, अव्यक्त, सनातन, कालाध्यक्ष, प्रजाध्यक्ष, विश्वकर्मा, तमोनुद, वरुण, सागर, अंश, जीमूत, जीवन, अरिह, भूताश्रय, भूतपति, स्रष्टा, संवर्तक, वह्नि, सर्वादि, अलोलुप, अनन्त, कपिल, भानु, कर्मप्रद, सर्वतोमुख, जय, विशाल, वरद, मनस्, सुपर्ण, भूतादि, शीघ्रग, प्राणधारण, धन्वन्तरि, धूमकेतु, आदिदेव, अदितिसुत, द्वादशात्मा, अरविन्दाक्ष, पितृ, मातृ, पितामह, स्वर्गद्वार, प्रजाद्वार, मोक्षद्वार, प्रसन्नात्मा, विश्वात्मा, विश्वतोमुख, चराचरात्मा, सूक्ष्मात्मा तथा करुणामय मैत्र।
16स्वयम्भू (ब्रह्मा) द्वारा कहे गए अप्रमेय तेजस्वी सूर्य के ये एक सौ आठ नाम हैं।
17हे भास्कर (सूर्य), जो स्वर्ण अथवा अग्नि के समान देदीप्यमान हैं, जिनकी देवता, पितर और यक्ष उपासना करते हैं तथा जिनकी असुर, निशाचर और सिद्ध आराधना करते हैं — समृद्धि की प्राप्ति के लिए मैं आपको प्रणाम करता हूँ।
18जो सूर्योदय के समय एकाग्र चित्त से इस स्तोत्र का पाठ करता है, वह पत्नी, सन्तान, धन और पूर्वजन्म की स्मृति प्राप्त करता है। (इसके पाठ से) मनुष्य सदा धैर्य और स्मरणशक्ति पाते हैं।
19मनुष्य एकाग्र मन से देवश्रेष्ठ (सूर्य) के इस स्तोत्र का पाठ करे। वह शोक, दावानल और समुद्र से अभय हो जाएगा; और जिस-जिस वस्तु की कामना करेगा, वह सब प्राप्त करेगा।
20वैशम्पायन ने कहा — अवसर के अनुरूप धौम्य के कहे इन वचनों को सुनकर धर्मराज (युधिष्ठिर) ने, संयमी, शुद्ध अन्तःकरण वाले और कठोर व्रतधारी ब्राह्मणों के भरण-पोषण की इच्छा से प्रेरित होकर, उत्तम तपस्या का आचरण आरम्भ किया। पुष्प आदि उपचारों से सूर्य की पूजा करके और दिवसपति (सूर्य) की ओर मुख करके उन्होंने जल में स्नान किया। वह धर्मात्मा पुरुष, वायु पर ही जीवन धारण करता हुआ और अपनी वासनाओं पर विजय पाता हुआ, योग में लीन हो गया।
21गंगा-जल के स्पर्श से स्वयं को पवित्र करके और वाणी का संयम करके उन्होंने कुछ काल तक प्राणायाम (योग की एक क्रिया) का अभ्यास किया और फिर इस स्तुति का पाठ किया।
22युधिष्ठिर ने कहा — हे सूर्य, आप विश्व के नेत्र हैं। आप समस्त देहधारियों की आत्मा हैं। आप समस्त वस्तुओं की उत्पत्ति के कारण हैं। आप समस्त धर्मात्माओं के कर्म हैं।
23आप समस्त सांख्यों (सांख्यदर्शन के अनुयायियों) के आश्रय हैं और समस्त योगियों (योगदर्शन के अनुयायियों) के आधार हैं। आप वह द्वार हैं जिसकी अर्गलाएँ खुली हैं; आप मोक्ष की कामना करने वालों की शरण हैं।
24आप जगत् को धारण करते हैं, आप ही उसे प्रकट करते हैं; आप उसे पवित्र करते हैं और करुणावश उसका पालन करते हैं।
25वेदज्ञ ब्राह्मण उचित समय पर आपके समीप आकर और अपनी-अपनी शाखाओं (जिस वेदशाखा का वे अनुसरण करते हैं) के मन्त्रों का पाठ करके आपकी आराधना करते हैं। आप ऋषियों के भी आराध्य हैं।
26सिद्ध, चारण, गन्धर्व, यक्ष, गुह्यक और नाग वर पाने की कामना से आपके चलते हुए दिव्य रथ के पीछे-पीछे चलते हैं।
27तैंतीस देवता, उपेन्द्र (विष्णु) और महेन्द्र (इन्द्र) सहित, तथा वैमानिक (देवताओं का एक वर्ग) — इन सबने आपकी उपासना करके ही सिद्धि प्राप्त की है।
28दिव्य मन्दार (स्वर्गीय पुष्प) की मालाएँ आपको अर्पित करके श्रेष्ठ विद्याधरों ने अपनी समस्त कामनाएँ प्राप्त कीं। गुह्यकों तथा दिव्य और मानव — दोनों प्रकार के पितरों के सातों वर्गों ने आपकी आराधना करके श्रेष्ठता प्राप्त की। वसु, मरुत्, रुद्र, साध्य, मरीचिप, वालखिल्य और सिद्ध — इन (सब) ने आपको प्रणाम करके प्रधानता प्राप्त की।
29ब्रह्मलोक सहित समस्त सात लोकों में मैं ऐसी कोई वस्तु नहीं जानता जो आपसे परे हो। अन्य प्राणी भी शक्तिशाली और महान् हैं, किन्तु उनमें से किसी में वैसा तेज और पराक्रम नहीं जैसा आप में है। समस्त प्रकाश आप में है। आप समस्त ज्योति के स्वामी हैं। आप में ही भूत हैं, आप ही ज्ञान हैं और आप ही समस्त तपोमय गुण हैं। जिस चक्र से शार्ङ्गधारी (विष्णु) असुरों का गर्व चूर्ण करते हैं और जो सुन्दर नाभि से युक्त है, उसे विश्वकर्मा ने आपके ही तेज से बनाया था।
30ग्रीष्म ऋतु में आप अपनी किरणों से समस्त देहधारियों से, ओषधियों से और द्रव पदार्थों से आर्द्रता खींच लेते हैं। वर्षा ऋतु में आप उसे (वृष्टि के रूप में पृथ्वी पर) बरसा देते हैं।
31आपकी किरणें उष्ण हैं और (वस्तुओं को) तपाती हैं। वे ही मेघ बनकर गरजती हैं और बिजली चमकाती हैं; ऋतु आने पर वे ही वृष्टि करती हैं।
32शीत में न अग्नि, न आश्रय, न ऊनी कम्बल — कोई भी उतना सुख नहीं देता जितना आपकी किरणों से प्राप्त होता है।
33आप अपनी किरणों से तेरह द्वीपों सहित समस्त पृथ्वी को आलोकित करते हैं। आप ही (सदा) तीनों लोकों का कल्याण करने में लगे रहते हैं।
34यदि आप उदित न हों तो विश्व अन्धा हो जाए। विद्वान् पुरुष धर्म, अर्थ और काम की प्राप्ति में स्वयं को नहीं लगा सकेंगे।
35आपकी ही कृपा से ब्राह्मण, क्षत्रिय और वैश्य आधान, पशुबन्ध, इष्टि, मन्त्र, यजन और तपःक्रिया (विविध कर्तव्यों, यज्ञों और व्रतों के नाम) कर पाते हैं।
36कालतत्त्व के ज्ञाता कहते हैं कि पूरे एक सहस्र युगों वाले ब्रह्मा के दिन के आदि और अन्त आप ही हैं।
37आप मनुओं के, मनुपुत्रों के, विश्व के, मनुष्यजाति के, मन्वन्तरों के और समस्त स्वामियों के स्वामी हैं।
38जब प्रलय का समय आता है, तब आपके क्रोध से उत्पन्न संवर्तक अग्नि ही शेष रहती है और तीनों लोकों को भस्म कर देती है।
39आपकी किरणों से उत्पन्न नाना वर्णों के मेघ, ऐरावत (इन्द्र के हाथी) और वज्रगर्जन के सहित, नियत प्रलयकालीन वृष्टि करते हैं।
40तब आप स्वयं को बारह भागों में विभक्त करके उतने ही सूर्य बन जाते हैं और अपनी किरणों से समुद्र को सोख लेते हैं।
41आप इन्द्र कहलाते हैं, आप विष्णु हैं, आप रुद्र हैं, (आप) प्रजापति हैं, आप अग्नि हैं, आप सूक्ष्म मन हैं, आप ईश्वर हैं और सनातन ब्रह्म हैं।
42आप हंस हैं, आप सवित्री हैं, आप भानु, अंशुमाली, वृषाकपि, विवस्वान्, मिहिर, पूषा, मित्र और धर्म हैं। आप सहस्ररश्मि सूर्य हैं, आप तपन हैं, किरणों के स्वामी हैं। आप मार्तण्ड, अर्क, रवि, सूर्य, शार्ङ्ग, दिवसकर, दिवाकर, सप्तसप्ति, धामकेशी, विरोचन, आशुगामी, तमोघ्न और हरितश्व हैं।
43जो षष्ठी अथवा सप्तमी तिथि को विनम्र मन से श्रद्धापूर्वक आपकी पूजा करता है, वह लक्ष्मी (धन की देवी) की कृपा प्राप्त करता है।
44जो अनन्य चित्त से आपकी आराधना और पूजा करते हैं, वे समस्त संकटों, वेदनाओं और क्लेशों से मुक्त हो जाते हैं।
45जो सर्वत्र आप पर ही विश्वास करते हैं, वे समस्त रोगों और समस्त पापों से मुक्त होकर जीवन भर सुखी रहते हैं।
46हे समस्त अन्न के स्वामी, आप मुझे अन्न की प्रचुरता प्रदान कीजिए, जिससे मैं अपने समस्त अतिथियों का श्रद्धापूर्वक सत्कार कर सकूँ।
47आपके चरणों की शरण लिए हुए आपके समस्त अनुचरों को — मठर, अरुण, दण्ड आदि को तथा अशनि, क्षुभा आदि को — मैं प्रणाम करता हूँ। समस्त प्राणियों की दिव्य माताओं को, अर्थात् क्षुभा और मैत्री को तथा उस वर्ग की अन्य माताओं को भी मैं प्रणाम करता हूँ। वे मुझ शरणागत का उद्धार करें।
48वैशम्पायन ने कहा — तब सूर्य प्रसन्न हो गए और वे दिवसकर, स्वयंप्रकाश तथा अग्नि के समान देदीप्यमान, पाण्डव (युधिष्ठिर) के सम्मुख प्रकट हुए।
49सूर्य ने कहा — तुम जो कुछ चाहते हो, वह सब तुम्हें प्राप्त होगा। मैं (तुम्हारे वनवास के) पूरे बारह वर्षों तक तुम्हें अन्न प्रदान करूँगा।
50हे राजन्, यह ताम्रपात्र स्वीकार करो जो मैं तुम्हें दे रहा हूँ। हे उत्तम व्रतधारी, जब तक पांचाल राजकुमारी (द्रौपदी) इस पात्र को, उसमें रखी वस्तुओं — तुम्हारी रसोई में पके फल, मूल, मांस और शाक — का सेवन किए बिना धारण करती रहेगी, तब तक आज से ये चारों प्रकार के अन्न (उसमें) अक्षय रहेंगे। और अब से चौदहवें वर्ष तुम अपना राज्य पुनः प्राप्त करोगे।
51वैशम्पायन ने कहा — यह कहकर वे देव (सूर्य) वहीं तत्काल अन्तर्धान हो गए।
52जो वर पाने की कामना से तपोमय एकाग्रता के साथ मन को स्थिर करके इस स्तोत्र का पाठ करता है, वह सूर्य से उसे प्राप्त कर लेता है, चाहे उसका मिलना कितना ही कठिन क्यों न हो।
53जो पुरुष अथवा स्त्री प्रतिदिन इस स्तोत्र का पाठ करता या सुनता है, वह पुत्र की कामना करने पर पुत्र पाता है; धन की कामना करने पर धन पाता है; और विद्या की कामना करने पर विद्या पाता है। जो पुरुष या स्त्री दोनों सन्ध्याओं (प्रातःकाल और सायंकाल) में सदा इसका पाठ करता है —
54— वह संकट से उबर जाता है और बन्धनों से मुक्त हो जाता है। यह स्तोत्र प्राचीन काल में महात्मा शक्र (इन्द्र) को दिया गया था।
55शक्र से इसे नारद ने प्राप्त किया और नारद से धौम्य ने। धौम्य से इसे पाकर युधिष्ठिर ने वह सब प्राप्त किया जिसकी उन्होंने कामना की थी।
56इस स्तोत्र के प्रभाव से ही मनुष्य युद्ध में विजय पा सकता है और अपार धन प्राप्त कर सकता है। यह मनुष्य को समस्त पापों से मुक्त करके सूर्यलोक तक पहुँचाता है।
57वर प्राप्त करके धर्मात्मा कुन्तीपुत्र (युधिष्ठिर) जल से बाहर आए। तत्पश्चात् उन्होंने धौम्य के चरण पकड़े और फिर अपने भाइयों का आलिंगन किया।
58हे प्रभो, पाण्डव (युधिष्ठिर) द्रौपदी के साथ रसोई में जाकर और उसके द्वारा विधिपूर्वक पूजित होकर भोजन पकाने लगे।
59जितना भी थोड़ा अन्न पकाया जाता, वह चार प्रकार का होकर बढ़ जाता और अक्षय हो जाता। उसी से उन्होंने (युधिष्ठिर ने) ब्राह्मणों को भोजन कराया।
60ब्राह्मणों को और अपने छोटे भाइयों को भोजन करा चुकने के पश्चात् युधिष्ठिर ने स्वयं वह शेष अन्न खाया, जिसे विघस कहा जाता है।
61युधिष्ठिर के भोजन कर चुकने पर पृषत के वंश की कन्या (द्रौपदी) ने जो शेष बचा, वह ग्रहण किया। द्रौपदी के भोजन कर लेने पर अन्न समाप्त हो जाता। सूर्य के समान तेजस्वी उन प्रभु (युधिष्ठिर) ने इस प्रकार सूर्य से वर प्राप्त करके ब्राह्मणों का उनकी इच्छा के अनुरूप सत्कार किया। अपने पुरोहित के आज्ञाकारी होकर उन्होंने शुभ तिथियों, नक्षत्रों और योगों में विधिपूर्वक मन्त्रों के साथ तथा शास्त्रों और विधानों के अनुसार यज्ञ किए।
62तत्पश्चात् मंगल कर्मों से आशीर्वाद प्राप्त पाण्डव, धौम्य के साथ और ब्राह्मणों से घिरे हुए, काम्यक वन की ओर चल पड़े।
नेपाली
1वैशम्पायनले भने — शौनकले यसरी भनेपछि कुन्तीका पुत्र युधिष्ठिर आफ्ना पुरोहितकहाँ गएर, भाइहरूको बीचमा तिनलाई यसरी भने।
2युधिष्ठिरले भने — वेदका ज्ञाता ब्राह्मणहरू प्रस्थान गरिरहेको मेरो पछि-पछि आइरहेका छन्। अनेक विपत्तिले पीडित भएकाले म तिनीहरूको भरणपोषण गर्न असमर्थ छु।
3म तिनीहरूलाई त्याग्न पनि सक्दिनँ, तर तिनीहरूको निर्वाहको व्यवस्था गर्ने सामर्थ्य ममा छैन। हे महाभाग, मलाई भन्नुहोस् कि अब मैले के गर्नुपर्छ।
4वैशम्पायनले भने — आफ्नो योगबलले (उचित) मार्ग खोज्न क्षणभर विचार गरेर, सम्पूर्ण धर्मात्माहरूमा श्रेष्ठ धौम्यले युधिष्ठिरलाई यसरी भने।
5धौम्यले भने — प्राचीन कालमा सृष्टि गरिएका सम्पूर्ण प्राणी भोकले अत्यन्त पीडित भए। तब सविता (सूर्य)ले तिनीहरूमाथि त्यस्तै करुणा गरे जस्तो पिताले (आफ्ना सन्तानमाथि गर्छन्)। उत्तरायणमा गएर सूर्यले आफ्ना किरणले जल तानेर, फेरि दक्षिणायनमा फर्केर, आफ्नो तापलाई आफैँमा केन्द्रित गरी, पृथ्वीमाथि स्थित भए।
6सूर्य यसरी स्थित रहँदा ओषधिका स्वामी (चन्द्रमा)ले सूर्यको तापको परिणाम (वाष्प)लाई परिवर्तन गरेर मेघको सृष्टि गरे।
7यसरी सूर्य नै, चन्द्रमाको प्रभावले आर्द्र भई, बीजको अङ्कुरणदेखि लिएर छ रसले युक्त पवित्र ओषधिका रूपमा परिणत हुन्छन्। यही नै पृथ्वीका सम्पूर्ण प्राणीको आहार हो।
8यसरी जुन अन्नले प्राणीहरूको जीवन धान्छ, त्यो सूर्य नै हो; र त्यसैले उनी सम्पूर्ण प्राणीका पिता हुन्। त्यसैले उनकै शरण लिनुहोस्।
9उत्तम कुलमा जन्मेका र महान् कर्म गर्ने सम्पूर्ण यशस्वी राजाहरूले उग्र तपस्या गरेर आफ्नो प्रजाको उद्धार गर्दै आएका छन् — यस्तो प्रसिद्ध छ।
10धौम्य, कार्तवीर्य, वैन्य र नहुष — यी सबैले तपोमय ध्यान र व्रतको बलले आफ्नो प्रजालाई सङ्कटबाट जोगाए।
11त्यसैले हे भरतवंशी, हे धर्मात्मा, तपाईं कर्मले शुद्ध हुनुहुन्छ; तपाईं पनि तिनीहरूकै जस्तै तपस्याको जीवन ग्रहण गरेर धर्मपूर्वक ब्राह्मणहरूको भरणपोषण गर्नुहोस्।
12जनमेजयले भने — ब्राह्मणहरूको हितका लागि कुरुश्रेष्ठ राजा युधिष्ठिरले अद्भुत रूप भएका ती सूर्यको कसरी आराधना गरे?
13वैशम्पायनले भने — हे राजन्, (पहिले) आफूलाई शुद्ध पार्नुहोस् र (त्यसपछि) सम्पूर्ण (सांसारिक) विषयबाट मन हटाएर, (त्यस नियत समयमा) पूर्ण ध्यानले यो सुन्नुहोस्। हे राजाधिराज, समय नियत गर्नुहोस्। (तब) म तपाईंलाई सबै कुरा विस्तारपूर्वक भन्नेछु।
14हे महात्मन्, (सूर्यका) ती एक सय आठ नाम सुन्नुहोस्, जुन धौम्यले परम यशस्वी पृथापुत्र (युधिष्ठिर)लाई भनेका थिए।
15धौम्यले भने — सूर्य, अर्यमा, भग, त्वष्टा, पूषा, अर्क, सविता, रवि, गभस्तिमान्, अज, काल, मृत्यु, धाता, प्रभाकर, पृथिवी, अप्, तेज, ख, वायु, परायण, सोम, बृहस्पति, शुक्र, बुध, अंगारक, इन्द्र, विवस्वान्, दीर्घांशु, शुचि, सौरि, शनैश्चर, ब्रह्मा, विष्णु, रुद्र, स्कन्द, वैश्रवण, यम, वैद्युताग्नि, जठराग्नि, ऐन्धन, तेजस्पति, धर्मध्वज, वेदकर्ता, वेदांग, वेदवाहन, कृत, त्रेता, द्वापर, कलि, काल, काष्ठा, मुहूर्त, कश्यप, यम, क्षण, संवत्सरकर, अश्वत्थ, कालचक्र, विभावसु, पुरुष, शाश्वत, योगी, व्यक्त, अव्यक्त, सनातन, कालाध्यक्ष, प्रजाध्यक्ष, विश्वकर्मा, तमोनुद, वरुण, सागर, अंश, जीमूत, जीवन, अरिह, भूताश्रय, भूतपति, स्रष्टा, संवर्तक, वह्नि, सर्वादि, अलोलुप, अनन्त, कपिल, भानु, कर्मप्रद, सर्वतोमुख, जय, विशाल, वरद, मनस्, सुपर्ण, भूतादि, शीघ्रग, प्राणधारण, धन्वन्तरि, धूमकेतु, आदिदेव, अदितिसुत, द्वादशात्मा, अरविन्दाक्ष, पितृ, मातृ, पितामह, स्वर्गद्वार, प्रजाद्वार, मोक्षद्वार, प्रसन्नात्मा, विश्वात्मा, विश्वतोमुख, चराचरात्मा, सूक्ष्मात्मा तथा करुणामय मैत्र।
16स्वयम्भू (ब्रह्मा)द्वारा भनिएका अप्रमेय तेजस्वी सूर्यका यी एक सय आठ नाम हुन्।
17हे भास्कर (सूर्य), जो स्वर्ण वा अग्निजस्तै देदीप्यमान हुनुहुन्छ, जसको देवता, पितृ र यक्षहरूले उपासना गर्छन् तथा जसको असुर, निशाचर र सिद्धहरूले आराधना गर्छन् — समृद्धिको प्राप्तिका लागि म तपाईंलाई प्रणाम गर्दछु।
18जसले सूर्योदयको समयमा एकाग्र चित्तले यस स्तोत्रको पाठ गर्छ, उसले पत्नी, सन्तान, धन र पूर्वजन्मको स्मृति प्राप्त गर्छ। (यसको पाठले) मानिसहरूले सधैँ धैर्य र स्मरणशक्ति पाउँछन्।
19मानिसले एकाग्र मनले देवश्रेष्ठ (सूर्य)को यस स्तोत्रको पाठ गरोस्। ऊ शोक, दावानल र समुद्रबाट अभय हुनेछ; र जुन-जुन वस्तुको कामना गर्नेछ, त्यो सबै प्राप्त गर्नेछ।
20वैशम्पायनले भने — अवसरअनुकूल धौम्यले भनेका यी वचन सुनेर धर्मराज (युधिष्ठिर)ले, संयमी, शुद्ध अन्तःकरण भएका र कठोर व्रतधारी ब्राह्मणहरूको भरणपोषणको इच्छाले प्रेरित भई, उत्तम तपस्याको आचरण सुरु गरे। पुष्प आदि उपचारले सूर्यको पूजा गरेर र दिवसपति (सूर्य)तर्फ मुख फर्काएर तिनले जलमा स्नान गरे। ती धर्मात्मा पुरुष, वायुमै जीवन धारण गर्दै र आफ्ना वासनामाथि विजय पाउँदै, योगमा लीन भए।
21गङ्गाजलको स्पर्शले आफूलाई पवित्र पारेर र वाणीको संयम गरेर तिनले केही काल प्राणायाम (योगको एक क्रिया)को अभ्यास गरे र त्यसपछि यस स्तुतिको पाठ गरे।
22युधिष्ठिरले भने — हे सूर्य, तपाईं विश्वका नेत्र हुनुहुन्छ। तपाईं सम्पूर्ण देहधारीहरूको आत्मा हुनुहुन्छ। तपाईं सम्पूर्ण वस्तुको उत्पत्तिको कारण हुनुहुन्छ। तपाईं सम्पूर्ण धर्मात्माहरूको कर्म हुनुहुन्छ।
23तपाईं सम्पूर्ण साङ्ख्यहरू (साङ्ख्यदर्शनका अनुयायीहरू)का आश्रय हुनुहुन्छ र सम्पूर्ण योगीहरू (योगदर्शनका अनुयायीहरू)का आधार हुनुहुन्छ। तपाईं त्यो ढोका हुनुहुन्छ जसका अर्गला खुला छन्; तपाईं मोक्षको कामना गर्नेहरूको शरण हुनुहुन्छ।
24तपाईं जगत्लाई धारण गर्नुहुन्छ, तपाईंले नै त्यसलाई प्रकट गर्नुहुन्छ; तपाईं त्यसलाई पवित्र पार्नुहुन्छ र करुणावश त्यसको पालन गर्नुहुन्छ।
25वेदज्ञ ब्राह्मणहरू उचित समयमा तपाईंको नजिक आएर र आ-आफ्ना शाखा (जुन वेदशाखाको तिनीहरू अनुसरण गर्छन्)का मन्त्रको पाठ गरेर तपाईंको आराधना गर्छन्। तपाईं ऋषिहरूका पनि आराध्य हुनुहुन्छ।
26सिद्ध, चारण, गन्धर्व, यक्ष, गुह्यक र नागहरू वर पाउने कामनाले तपाईंको चलिरहेको दिव्य रथको पछि-पछि हिँड्छन्।
27तेत्तीस देवता, उपेन्द्र (विष्णु) र महेन्द्र (इन्द्र)सहित, तथा वैमानिक (देवताहरूको एक वर्ग) — यी सबैले तपाईंको उपासना गरेरै सिद्धि प्राप्त गरेका छन्।
28दिव्य मन्दार (स्वर्गीय पुष्प)का माला तपाईंलाई अर्पण गरेर श्रेष्ठ विद्याधरहरूले आफ्ना सम्पूर्ण कामना प्राप्त गरे। गुह्यक तथा दिव्य र मानव — दुवै किसिमका पितृहरूका सातै वर्गले तपाईंको आराधना गरेर श्रेष्ठता प्राप्त गरे। वसु, मरुत्, रुद्र, साध्य, मरीचिप, वालखिल्य र सिद्ध — यी (सबै)ले तपाईंलाई प्रणाम गरेर प्रधानता प्राप्त गरे।
29ब्रह्मलोकसहित सम्पूर्ण सात लोकमा म यस्तो कुनै वस्तु जान्दिनँ जुन तपाईंभन्दा पर होस्। अन्य प्राणीहरू पनि शक्तिशाली र महान् छन्, तर तीमध्ये कसैमा त्यस्तो तेज र पराक्रम छैन जस्तो तपाईंमा छ। सम्पूर्ण प्रकाश तपाईंमै छ। तपाईं सम्पूर्ण ज्योतिका स्वामी हुनुहुन्छ। तपाईंमै भूतहरू छन्, तपाईं नै ज्ञान हुनुहुन्छ र तपाईं नै सम्पूर्ण तपोमय गुण हुनुहुन्छ। जुन चक्रले शार्ङ्गधारी (विष्णु)ले असुरहरूको गर्व चूर्ण गर्छन् र जुन सुन्दर नाभिले युक्त छ, त्यसलाई विश्वकर्माले तपाईंकै तेजबाट बनाएका थिए।
30ग्रीष्म ऋतुमा तपाईं आफ्ना किरणले सम्पूर्ण देहधारीबाट, ओषधिबाट र तरल पदार्थबाट आर्द्रता तान्नुहुन्छ। वर्षा ऋतुमा तपाईं त्यसलाई (वृष्टिका रूपमा पृथ्वीमा) बर्साइदिनुहुन्छ।
31तपाईंका किरण उष्ण छन् र (वस्तुहरूलाई) तताउँछन्। तिनै मेघ बनेर गर्जन्छन् र बिजुली चम्काउँछन्; ऋतु आएपछि तिनैले वर्षा गर्छन्।
32जाडोमा न अग्निले, न आश्रयले, न ऊनी कम्बलले — कसैले पनि त्यति सुख दिँदैन जति तपाईंका किरणबाट प्राप्त हुन्छ।
33तपाईं आफ्ना किरणले तेह्र द्वीपसहित सम्पूर्ण पृथ्वीलाई आलोकित पार्नुहुन्छ। तपाईं नै (सधैँ) तीनै लोकको कल्याण गर्नमा लाग्नुभएको छ।
34यदि तपाईं उदाउनुभएन भने विश्व अन्धो भइहाल्छ। विद्वान् पुरुषहरूले धर्म, अर्थ र कामको प्राप्तिमा आफूलाई लगाउन सक्नेछैनन्।
35तपाईंकै कृपाले ब्राह्मण, क्षत्रिय र वैश्यले आधान, पशुबन्ध, इष्टि, मन्त्र, यजन र तपःक्रिया (विविध कर्तव्य, यज्ञ र व्रतका नाम) गर्न सक्छन्।
36कालतत्त्वका ज्ञाताहरू भन्छन् कि पूरा एक हजार युगको ब्रह्माको दिनको आदि र अन्त तपाईं नै हुनुहुन्छ।
37तपाईं मनुहरूका, मनुपुत्रहरूका, विश्वका, मनुष्यजातिका, मन्वन्तरहरूका र सम्पूर्ण स्वामीहरूका स्वामी हुनुहुन्छ।
38जब प्रलयको समय आउँछ, तब तपाईंको क्रोधबाट उत्पन्न संवर्तक अग्नि मात्र बाँकी रहन्छ र तीनै लोकलाई भस्म पारिदिन्छ।
39तपाईंका किरणबाट उत्पन्न नाना वर्णका मेघहरूले, ऐरावत (इन्द्रको हात्ती) र वज्रगर्जनसहित, नियत प्रलयकालीन वर्षा गर्छन्।
40तब तपाईं आफूलाई बाह्र भागमा विभक्त गरी त्यति नै सूर्य बन्नुहुन्छ र आफ्ना किरणले समुद्रलाई सुकाइदिनुहुन्छ।
41तपाईं इन्द्र भनिनुहुन्छ, तपाईं विष्णु हुनुहुन्छ, तपाईं रुद्र हुनुहुन्छ, (तपाईं) प्रजापति हुनुहुन्छ, तपाईं अग्नि हुनुहुन्छ, तपाईं सूक्ष्म मन हुनुहुन्छ, तपाईं ईश्वर हुनुहुन्छ र सनातन ब्रह्म हुनुहुन्छ।
42तपाईं हंस हुनुहुन्छ, तपाईं सवित्री हुनुहुन्छ, तपाईं भानु, अंशुमाली, वृषाकपि, विवस्वान्, मिहिर, पूषा, मित्र र धर्म हुनुहुन्छ। तपाईं सहस्ररश्मि सूर्य हुनुहुन्छ, तपाईं तपन हुनुहुन्छ, किरणहरूका स्वामी हुनुहुन्छ। तपाईं मार्तण्ड, अर्क, रवि, सूर्य, शार्ङ्ग, दिवसकर, दिवाकर, सप्तसप्ति, धामकेशी, विरोचन, आशुगामी, तमोघ्न र हरितश्व हुनुहुन्छ।
43जसले षष्ठी वा सप्तमी तिथिमा विनम्र मनले श्रद्धापूर्वक तपाईंको पूजा गर्छ, उसले लक्ष्मी (धनकी देवी)को कृपा प्राप्त गर्छ।
44जसले अनन्य चित्तले तपाईंको आराधना र पूजा गर्छन्, तिनीहरू सम्पूर्ण सङ्कट, वेदना र क्लेशबाट मुक्त हुन्छन्।
45जसले सबैतिर तपाईंमै विश्वास गर्छन्, तिनीहरू सम्पूर्ण रोग र सम्पूर्ण पापबाट मुक्त भई जीवनभर सुखी रहन्छन्।
46हे सम्पूर्ण अन्नका स्वामी, तपाईंले मलाई अन्नको प्रचुरता प्रदान गर्नुहोस्, जसबाट म आफ्ना सम्पूर्ण अतिथिको श्रद्धापूर्वक सत्कार गर्न सकूँ।
47तपाईंका चरणको शरण लिएका तपाईंका सम्पूर्ण अनुचरहरूलाई — मठर, अरुण, दण्ड आदिलाई तथा अशनि, क्षुभा आदिलाई — म प्रणाम गर्दछु। सम्पूर्ण प्राणीका दिव्य माताहरूलाई, अर्थात् क्षुभा र मैत्रीलाई तथा त्यस वर्गका अन्य माताहरूलाई पनि म प्रणाम गर्दछु। तिनीहरूले म शरणागतको उद्धार गरून्।
48वैशम्पायनले भने — तब सूर्य प्रसन्न भए र ती दिवसकर, स्वयंप्रकाश तथा अग्निजस्तै देदीप्यमान, पाण्डव (युधिष्ठिर)को सामु प्रकट भए।
49सूर्यले भने — तिमीले जे-जे चाहन्छौ, त्यो सबै तिमीलाई प्राप्त हुनेछ। म (तिम्रो वनवासका) पूरै बाह्र वर्षसम्म तिमीलाई अन्न प्रदान गर्नेछु।
50हे राजन्, यो ताम्रपात्र स्वीकार गर जुन म तिमीलाई दिँदै छु। हे उत्तम व्रतधारी, जबसम्म पाञ्चाल राजकुमारी (द्रौपदी)ले यस पात्रलाई, त्यसमा राखिएका वस्तु — तिम्रो भान्सामा पाकेका फल, मूल, मासु र सागपात — को सेवन नगरी धारण गरिरहनेछिन्, तबसम्म आजैदेखि यी चारै किसिमका अन्न (त्यसमा) अक्षय रहनेछन्। र अबदेखि चौधौँ वर्षमा तिमीले आफ्नो राज्य पुनः प्राप्त गर्नेछौ।
51वैशम्पायनले भने — यसो भनेर ती देव (सूर्य) त्यहीँ तत्कालै अन्तर्धान भए।
52जसले वर पाउने कामनाले तपोमय एकाग्रताका साथ मन स्थिर गरी यस स्तोत्रको पाठ गर्छ, उसले सूर्यबाट त्यो प्राप्त गर्छ, त्यसको प्राप्ति जति नै कठिन किन नहोस्।
53जुन पुरुष वा स्त्रीले प्रतिदिन यस स्तोत्रको पाठ गर्छ वा सुन्छ, उसले पुत्रको कामना गरे पुत्र पाउँछ; धनको कामना गरे धन पाउँछ; र विद्याको कामना गरे विद्या पाउँछ। जुन पुरुष वा स्त्रीले दुवै सन्ध्या (प्रातःकाल र सायंकाल)मा सधैँ यसको पाठ गर्छ —
54— ऊ सङ्कटबाट उम्कन्छ र बन्धनबाट मुक्त हुन्छ। यो स्तोत्र प्राचीन कालमा महात्मा शक्र (इन्द्र)लाई दिइएको थियो।
55शक्रबाट यो नारदले प्राप्त गरे र नारदबाट धौम्यले। धौम्यबाट यो पाएर युधिष्ठिरले आफूले चाहेको सबै प्राप्त गरे।
56यस स्तोत्रकै प्रभावले मानिसले युद्धमा विजय पाउन सक्छ र अपार धन प्राप्त गर्न सक्छ। यसले मानिसलाई सम्पूर्ण पापबाट मुक्त गरी सूर्यलोकसम्म पुर्याउँछ।
57वर प्राप्त गरेर धर्मात्मा कुन्तीपुत्र (युधिष्ठिर) जलबाट बाहिर निस्के। त्यसपछि तिनले धौम्यका चरण समाते र फेरि आफ्ना भाइहरूलाई अङ्गालो हाले।
58हे प्रभो, पाण्डव (युधिष्ठिर) द्रौपदीसँग भान्सामा गएर र उनद्वारा विधिपूर्वक पूजित भई भोजन पकाउन थाले।
59जति नै थोरै अन्न पकाइए पनि, त्यो चार किसिमको भई बढ्थ्यो र अक्षय हुन्थ्यो। त्यसैबाट तिनले (युधिष्ठिरले) ब्राह्मणहरूलाई भोजन गराए।
60ब्राह्मणहरूलाई र आफ्ना कान्छा भाइहरूलाई भोजन गराइसकेपछि युधिष्ठिरले आफैँ त्यो बाँकी अन्न खाए, जसलाई विघस भनिन्छ।
61युधिष्ठिरले भोजन गरिसकेपछि पृषतको वंशकी कन्या (द्रौपदी)ले जे बाँकी रह्यो, त्यो ग्रहण गरिन्। द्रौपदीले भोजन गरिसकेपछि अन्न सकिन्थ्यो। सूर्यजस्तै तेजस्वी ती प्रभु (युधिष्ठिर)ले यसरी सूर्यबाट वर प्राप्त गरेर ब्राह्मणहरूको तिनीहरूकै इच्छाअनुसार सत्कार गरे। आफ्ना पुरोहितका आज्ञाकारी भई तिनले शुभ तिथि, नक्षत्र र योगमा विधिपूर्वक मन्त्रसहित तथा शास्त्र र विधानअनुसार यज्ञ गरे।
62त्यसपछि मङ्गल कर्मबाट आशीर्वाद प्राप्त पाण्डवहरू, धौम्यसँगै र ब्राह्मणहरूले घेरिएर, काम्यक वनतर्फ लागे।