दिग्विजय पर्व — सहदेव की दिग्विजय
खण्ड 1 — आदि एवं सभा पर्व · अध्याय 265
संस्कृत
1वैशम्पायन उवाच तथैव सहदेवोऽपि धर्मराजेन पूजितः। महत्या सेनया राजन् प्रययौ दक्षिणां दिशम्॥
2स शूरसेनान् कात्स्न्र्येन पूर्वमेवाजयत् प्रभुः। मत्स्यराजं च कौरव्यो वशे चक्रे बलाद् बली॥
3अधिराजाधिपं चैव दन्तवक्रं महाबलम्। जिगाय करदं चैव कृत्वा राज्ये न्यवेशयत्॥
4सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्। तथैवापरमत्स्यांश्च व्यजयत् स पटच्चरान्॥
5निषादभूमि गोशृङ्गं पर्वतप्रवरं तथा। तरसैवाजयद् धीमान् श्रेणिमन्तं च पार्थिवम्॥
6नरराष्ट्रं च निर्जित्य कुन्तिभोजमुपाद्रवत्। प्रीतिपूर्वं च तस्याजौ प्रतिजग्राह शासनम्॥
7तत्तश्चर्मण्वतीकूले जम्भकंस्यात्मजं नृपम्। ददर्श वासुदेवेन शेषितं पूर्ववैरिणा॥
8चक्रे तेन स संग्राम सहदेवेन भारत। स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ॥
9सेकानपरसेकांश्च व्यजयत् सुमहाबलः। करं तेभ्य उपादाय रत्नानि विविधानि च॥
10ततस्तेनैव सहितो नर्मदामभितो ययौ। विन्दानुविन्दावावन्त्यौ सैन्येन महताऽऽवृतौ। जिगाय समरे वीरावाश्चिनेयः प्रतापवान्॥ ततो रत्नान्युपादाय पुरं भोजकटं ययौ।
11तत्र युद्धमभूद् राजन् दिवसद्वयमच्युत्॥ स विजित्य दुराधर्ष भीष्मकं माद्रिनन्दनः।
12कोसलाधिपतिं चैव तथा वेणातटाधिपम्॥ कान्तारकांश्च समरे तथा प्राक्कोसलान् नृपान्।
13नाटकेयांश्च समरे तथा हेरम्बकान् युधि॥ मारुधं च विनिर्जित्य रम्यग्राममथो बलात्। नाचीनानर्धकांश्चैव राज्ञश्चैव महाबलः॥ तांस्तानाटविकीन् सर्वानजयत् पाण्डुनन्दनः। वाताधिपं च नृपति वशं चक्रे महाबलः॥
14पुलिन्दांश्च रणे जित्वा ययौ दक्षिणतः पुरः। युयुधे पाण्ड्यराजेन दिवसं नकुलानुजः॥
15तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम्। गुहामासादयामास किष्किन्धां लोकविश्रुताम्॥
16तत्र वानरराजाभ्यां मैन्देन द्विविदेन च। युयुधे दिवसान् सप्त न च तौ विकृतिं गतौ॥
17ततस्तुष्टौ महात्मानौ सहदेवाय वानरौ। ऊचतुश्चैव संहृष्टौ प्रीतिपूर्वमिदं वचः॥
18गच्छ पाण्डवशार्दूल रत्नान्यादाय सर्वशः। अविघ्नमस्तु कार्याय धर्मराजाय धीमते॥
19ततो रत्नान्युपादाय पुरी माहिष्मती ययौ। तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः॥
20पाण्डवः परवीरनः सहदेवः प्रतापवान्। ततोऽस्यं सुमहद् युद्धमासीद् भीरुभयंकरम्॥
21सैन्यक्षयकरं चैव प्राणानां संशयावहम्। चक्रे तस्य हि साहाय्यं भगवान् हव्यवाहनः॥
22ततो रथा हया नागाः पुरुषाः कवचानि च। प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा॥
23ततः सुसम्भ्रान्तमना बभूव कुरुनन्दनः। नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय॥
24जनमेजय उवाच किमर्थं भगवान् वह्निः प्रत्यमित्रोऽभवद् युधि। सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज॥
25वैशम्पायन उवाच तत्र माहिष्मतीवासी भगवान् हव्यवाहनः। श्रूयते हि गृहीतो वै पुरस्तात् पारदारिकः॥
26नीलस्य राज्ञो दुहिता बभूवातीवशोभना। साग्निहोत्रमुपातिष्ठद् बोधनाय पितुः सदा॥
27व्यजनै—यमानोऽपि तावत् प्रज्वलते न सः। यावच्चारुपुटौष्ठेन वायुना न विधूयते॥
28ततः स भगवानाग्निश्चकमे तां सुदर्शनाम्। नीलस्य राज्ञः सर्वेषामुपनीतश्च सोऽभवत्॥
29ततो ब्राह्मणरूपेण रममाणो यदृच्छया। चकमे तां वरारोहां कन्यामुत्पललोचनाम्। तं तु राजा यथाशास्त्रमशासद् धार्मिकस्तदा॥
30प्रजज्वाल ततः कोपाद् भगवान् हव्यवाहनः। तं दृष्ट्वा विस्मितो राजा जगाम शिरसावनिम्॥
31ततः कालेन तां कन्यां तथैव हि तदा नृपः। प्रददौ विप्ररूपाय वह्नये शिरसा ततः॥
32प्रतिगृह्य च तां सुबूं नीलराज्ञः सुतां तदा। चक्रे प्रसादं भगवांस्तस्य राज्ञो विभावसुः॥
33वरेणच्छन्दयामास तं नृपं स्विष्टकृत्तमः। अभयं च स जग्राह स्वसैन्ये वै महीपतिः॥
34ततः प्रभृति ये केचिदज्ञानात् तां पुरी नृपाः। जिगीषन्ति बलाद् राजंस्ते दह्यन्ते स्म वह्निना॥
35तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह। बभूवुरनतिग्राह्या योषितश्छन्दतः किल॥ एवमग्निर्वरं प्रादात् स्त्रीणामप्रतिवारणे। वरिण्यस्तत्र नार्यो हि यथेष्टं विचरन्त्युत॥
36वर्जयन्ति च राजानस्तत् पुरं भरतर्षभ। भयादग्नेर्महाराज तदाप्रभृति सर्वदा॥
37सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयादितम्। परीतमग्निना राजन् नाकम्पत यथाचलः। उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत् पावकं ततः॥
38सहदेव उवाच त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन् नमोऽस्तु ते। मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक॥
39पावनात् पावकश्चासि वहनाद्धव्यवाहनः। वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि॥
40चित्रभानुः सुरेशश्च अनलस्त्वं विभावसो। स्वर्गद्वारस्पृशश्चासि हुताशो ज्वलनः शिखी॥
41वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरितेजसः। कुमारसूस्त्वं भगवान् रुद्रगर्भो हिरण्यकृत्॥
42अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे। पृथिवी बलमादध्याच्छिवं चापो दिशन्तु मे॥
43अपांगर्भ महासत्त्व जातवेदः सुरेश्वर। देवानां मुखमग्ने त्वं सत्येन विपुनीहि माम्॥
44ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि। नित्यं सुहुत यज्ञेषु सत्येन विपुनीहि माम्॥
45धूमकेतुः शिखी च त्वं पापहानिलसम्भवः। सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम्॥
46एवं स्तुतोऽसि भगवन् प्रीतेन शुचिना मया। तुष्टिं पुष्टिं श्रुतिं चैव प्रीतिं चाग्ने प्रयच्छ मे॥
47वैशम्पायन उवाच इत्येवं मन्त्रमाग्नेयं पठन् यो जुहुयाद् विभुम्। ऋद्धिमान् सततं दान्तः सर्वपापैः प्रमुच्यते॥
48सहदेव उवाच यज्ञविजमिमं कर्तुं नार्हस्त्वं हव्यवाहन। एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम्॥
49विधिवत् पुरुषव्याघ्रः पावकं प्रत्युपाविशत्। प्रमुखे तस्य सैन्यस्य भीतोद्विग्नस्य भारत॥
50न चैनमत्यगाद् वह्निर्वेलामिव महोदधिः। तमुपेत्य शनैर्वह्निरुवाच कुरुनन्दनम्॥
51सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः। उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया। वेदि सर्वमभिप्रायं तद धर्मसुतस्य च॥
52मया तु रक्षिताव्येयं पुरी भरतसत्तम। यावद् राज्ञो हि नीलस्य कुले वंशधरा इति॥
53ईप्सितं तु करिष्यामि मनसस्तव पाण्डव॥ तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसा नतः।
54पूजयामाय माद्रेयः पावकं भरतर्षभ॥ पावके विनिवृत्ते तु नीलो राजाभ्यगात् तदा।
55पावकस्याज्ञया चैनमर्चयामास पार्थिवः॥ सत्कारेण नरव्याघ्रं सहदेवं युधाम्पतिम्। प्रतिगृह्य च तां पूजां करे च विनिवेश्य च॥
56माद्रीसुतस्ततः प्रायाद विजयी दक्षिणां दिशम्। त्रैपुरं स वशे कृत्वा राजानममितौजसम्॥
57निजग्राह महाबाहुस्तरसा पौरवेश्वरम्। आकृति कौशिकाचार्य यत्नेन महता ततः॥
58वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तदा। सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे॥ राजे भोजकटस्थाय महामात्राय धीमते। भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै॥
59स चास्य प्रतिजग्राह ससुतः शासनं तदा। प्रीतिपूर्वं महाराज वासुदेवमवेक्ष्य च॥
60ततः स रत्नान्यादाय पुनः प्रायाद् युधाम्पतिः। ततः शूर्पारकं चैव तालाकटमथापि च॥
61वशे चक्रे महातेजा दण्डकांश्च महाबलः। सागरद्वीपवासांश्च नृपतीन् म्लेच्छयोनिजान्॥
62निषादान् पुरुषादांश्च कर्णप्रावरणानपि। ये च कालमुखा नाम नरराक्षसयोनयः॥
63कृत्स्नं कोलागिरिं चैव सुरभीपत्तनं तथा। द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा॥
64तिमिङ्गिलं च स नृपं वशे कृत्वा महामतिः। एकपादांश्च पुरुषान् केरलान् वनवासिनः॥
65नगरी संजयन्ती च पाखण्डं करहाटकम्। दूतैरेव वशे चक्रे करं चैनानदापयत्॥
66पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोण्ड्रकेरलैः। आन्ध्रांस्तालवनांश्चैव कलिङ्गानुष्ट्रकर्णिकान्॥
67आटवीं च पुरी रम्यां यवनानां पुरं तथा। दूतैरेव वशे चक्रे करं चैनानदापयत्॥
68तत: कच्छगतो धीमान् दूतं माद्रवतीसुतः। प्रेषयामास हैडिम्बं पौलस्त्याय महात्मने। विभीषणाय धर्मात्मा प्रीतिपूर्वमरिंदमः॥ स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम्। तच्च कालकृतं धीमानभ्यमन्यत स प्रभुः॥
69ततः सम्प्रेषयामास रत्नानि विविधानि च। चन्दनागुरुकाष्ठानि दिव्यान्याभरणानि च॥
70वासांसि च महार्हाणि मणींश्चैव महाधनान्। न्यवर्तत ततो धीमान् सहदेवः प्रतापवान्॥
71एवं निर्जित्य तरसा सान्त्वेन विजयेन च। करदान् पार्थिवान् कृत्वा प्रत्यागच्छदरिंदमः॥
72धर्मराजाय तत् सर्व निवेद्य भरतर्षभ। कृतकर्मा सुखं राजन्नुवास जनमेजय॥
अंग्रेज़ी
1Vaishampayana said O king, having been sent away with affection by Dharmaraja (Yudhishthira), with a very large army Sahadeva, was marched towards the south.
2That powerful descendant of Kuru, the lord (Sahadeva), strong in his own strength, vanquished the Shurasenas at the very outset. He then subjugated the king of Matsya.
3Having vanquished the powerful king of the Adhirajas, Dantavakra, and having made him pay tribute, the hero (Sahadeva) then replaced him on his throne.
4He then subjugated Sukumara and the king Sumitra, and then the other Matsyas, and then the Patachharas.
5The greatly intelligent (Sahadeva) then soon conquered the country of the Nishadas and also the best of hills, called Goshringa, and the king, called Shrenimana.
6Having then conquered the country, named Nararashtra, he marched against Kuntibhoja. He (the king of Kuntibhoja) very willingly accepted the sway (of the Pandavas).
7Then on the banks of the Charmanvati, he met the son of the king Jambhaka who had been formerly defeated by Vasudeva for some old hostilities.
8O descendant of Bharata, he fought a battle with Sahadeva, but he (Sahadeva) defeated him and then marched towards the south.
9The greatly powerful hero then subjugated the Sekas and the other Sekas, and exacted tribute from them in the shape of various gems and jewels.
10With them all, he then went to wards the country watered by the Narmada. The mighty son of Ashvinis (Sahadeva) then vanquished in a battle the two heroic kings of Avanti, named Vinda and Anuvinda who were surrounded by a large number of soldiers. Having exacted much wealth from them, he went towards the city of Bhojakata.
11O king, O Achyuta (unfolding glory), a great battle was fought there for two days. But the son of Madri, Sahadeva, defeated the invincible Bhishmaka.
12He then defeated in battle the king of Kosala, the king of Venatatha, the Kantarakas, and the kings of the eastern Kosalas.
13Having then defeated in battle the Natakeyas and the Herambakas, and having subjugated the Marudhas, he conquered Munjagrama by force. He then vanquished the kings of the Nachinas, the Arbukas and the various other forest kings who ruled in that part of the country. The greatly powerful son of Pandu then subjugated the king Vatadhipa.
14Having defeated in battle the Pulindas, he marched towards the south. The younger brother of Nakula (Sahadeva) then fought for a day with the king of Pandya.
15Having vanquished him, the mighty armed (hero) went (further) towards the south. He then came to the world-renowned caves of Kishkindhya.
16Here fought he for seven days with the monkey kings, named Mainda and Dvivida. They too, however, did not at all feel fatigued (in the fight).
17Those two illustrious monkey-kings (were much) pleased with Sahadeva, and they thus joyfully spoke to him these affectionate words.
18"O best of the Pandavas, go (back) on receiving wealth from us. Let the work of the intelligent Dharmaraja be accomplished without any hindrance."
19Thereupon, having received wealth that best of men, (Sahadeva), marched towards the city of Mahishmati. He fought there a battle with king Nila.
20The battle between the chastiser of foes, the powerful Pandava, Sahadeva, and the king (Nila) was very fearful.
21It destroyed many soldiers, and it endangered the life (of the hero Sahadeva), for the lord, the carrier of sacrificial libation (fire), was helping him (the king Nila).
22The cars, horses, elephants, and the wellarmoured of Sahadeva's army all appeared as if they were on fire.
23Seeing this, that descendant of Kuru was filled with great anxiety. O Janamejaya, seeing this, the hero could not resolve upon what he should do. inen was
24Janamejaya said O exalted one, O Brahmana, why was it that the deity Agni became hostile in battle to Sahadeva who fighting for the accomplishment of a sacrifice?
25Vaishampayana said It is heard that Agni, living in the city of Mahishmati, was formerly taken for an adulterer.
26The daughter of the king Nila was exceedingly handsome. She always used to stay near her father's Agnihotra (sacred fire) to stir it up.
27Being fanned as much as was possible, the fire did not blaze up, till it was not blown by the breaths of the sweet lips of that girl
28It was said in the king Nila's palace and in the houses of all (men) that the illustrious Agni wanted to marry that beautiful maiden; and he was (in fact) accepted by her.
29One day when he (Agni), assuming the form of a Brahmana, was enjoying at pleasure in the company of that handsome girl, he was discovered by the king. The virtuous monarch then ordered the Brahmana to be punished according to law.
30Thereupon the illustrious carrier of sacrificial libations (Agni) blazed up in wrath. Seeing this, the king was filled with astonishment, and he bent his head to the ground.
31After sometime, bending his head low, the king bestowed his that daughter on Agni who was in the disguise of a Brahmana.
32The illustrious Vibhavasu (Agni) accepted that fire-browed daughter of the king Nila, and he bestowed on the king his favours.
33The illustrious gratifier of all purposes (Agni) also asked the king to solicit a boon from him. The king asked the boon by which he with the troops while engaged in battle might never be struck with panic.
34O king, from that day he, who out of ignorance of this, desires to subjugate the city of the king (Nila), is consumed by fire.
35O perpetuator of the Kuru race, from that day the girls of the city of Mahishmati became rather unacceptable to others (as wives). Agni by his boon granted them sexual liberty. The women of that city, being not confined to a particular husband, always roamed as Sairini at will.
36O best of the Bharata race, O great king, from that day all the kings avoid this city for the fear of fire.
37O king, the virtuous-minded Sahadeva also, seeing his troops afflicted with fear and encircled with flames, stood motionless as a mountain. Touching water and purifying himself, he thus spoke to Pavaka (fire).
38Sahadeva said O Pavaka, O Krishnavartman, (having) smoke for marking your track, I bow to you. You are the mouth of the celestials; you are the sacrifice itself.
39You are called Pavaka, because you sanctify every thing; thing; you are called Havyavahana, because you carry the sacrificial libation of Ghee. The Vedas have all sprung from you, and therefore, you are called Jatavedas.
40You are Suresha (chief of the celestials), you Chitrabhanu, Anala, Svargadvarsparshi, Vibhavasu, Hutasha, Jvalana, Shikhi.
41Vaishvanara, Pingesha, Plavanga and Bhuritejas. You are the origin of Kumara (Kartikeya). O exalted one, you are called Rudragarbha and Hiranyakrit.
42O Agni, let yourself grant me energy and let Vayu grant me life. Let earth grant me nourishment and strength, and let water grant me prosperity.
43O the first cause of waters, O great purity, O the origin of the Vedas, Othe chief of the are celestials, O the mouth of the celestials, purify me by your truly.
44The Rishis, the Brahmanas, the celestials and the Asuras every day pour Ghee in the sacrifice according to the ordinance. Let the rays of truth emanate from you as you exhibit yourself in sacrifices. Purify me,
45O smoke-bannered deity, O possessor of flames, O deity born of Vayu, O god who is present in all creatures. Purify me by your rays of truth.
46O exalted one having cheerfully cleansed myself, I do pray to you, O Agni, grant me now contentment and prosperity, knowledge and gladness.
47Vaishampayana said He, who will pour Ghee into Agni reciting these Mantras, will be ever blessed with prosperity. Having his souls under his complete control, he will be cleansed of all his sins.
48Sahadeva said O carrier of sacrificial libation (Agni), you should not put obstacle to a sacrifice. Having said this, the son of Madri (Sahadeva) spread some Kusha grass of the ground.
49O descendant of Bharata, that best of men in expectation of the approaching fire then sat himself down in front of his terrified and anxious troops.
50Like the ocean that never pass beyond its shore, Agni did not pass over his (Sahadeva). Agni quietly came to him, and he thus spoke to that descendant of the Kuru.
51Sahadeva, that god among men, these words of assurance, "O descendant of Kuru rise up, rise up. I was only trying you.
52I know all your purposes as well as those of the son of Dharma (Yudhishthira). O best of the Bharata race, this city will be protected by me.
53So long as there will be a scion in the King Nila's dynasty. O son of Pandu, I shall, however, accomplish the desire of your heart.”
54O best of the Bharata race, the son of Madri rose up with a cheerful heart and bowing down his head with joined hands, he worshipped Pavaka (Agni).
55On the disappearance of Pavaka king Nila came there, and at the command of that deity (Agni), the king worshipped with due rites that best of men and that master in war, Sahadeva, He accepted his worship and made him pay tribute.
56Thereupon the victorious son of Madri went further towards the south. Having subjugated the immeasurably effulgent Tripura.
57The mighty armed (hero) soon vanquished and subjugated the Paurava King; and he then with great deal of effort subjugated the preceptor of Kaushika, Akriti.
58The mighty armed (hero) then subjugated the king of Shurashtra. He sent an ambassador to king Rukmin of Bhishmaka in the territories of Bhojakata, who, rich in wealth and intelligence, was the friend of Indra.
59O great king, remembering his friendship with Vasudeva (Krishna), that king with his son cheerfully accepted their (the Pandavas) sway.
60Taking many jewels and much wealth from him (Rukmin), that master of war (Sahadeva) then subjugated Shuparaka and Talakata.
61The greatly powerful (hero) then brought under his sway the exceedingly energetic Dandaka. Then he subjugated many kings born of the Mleccha race and living in the island in the sea;
62Then the Nishadas, the cannibals, the Karnapravanas, those tribes called Kalamukhas who were a cross race between the men and Rakshasas,
63The whole of the Cole mountains, also Shurabhipattna, the island called Copper Island and the mountain called Ramaka.
64Having brought under subjection, king Timingila, the illustrious warrior subjugated a wild tribe, named the Keralas who were men with one leg.
65The son of Pandu also subjugated the city of Sanjayanti and the country of the Pakhandas and Karahatakas by means of his messengers alone; and he made them all pay tribute to him.
66The hero also subjugated and exacted tribute from the Pandyas, the Dravidas the Udrakeralas, the Andhras, the Talavanas the Kalinga, and the Ushtrakarnikas.
67He brought under his away the charming city of Atavi and also the city of the Yavanas by sending messengers and by exacting tribute.
68O king of kings, that slayer of foes, the virtuous and intelligent son of Madri (Sahadeva), having (at last) arrived at the sea coast, sent ambassadors to the illustrious Vibhishana, the grandson of Pulastya. He also cheerfully accept his sway.
69He (Vibhishana) sent to him (Sahadeva) various kinds of jewels and gems, sandal and aloe-woods, many celestials ornaments.
70Many costly apparels and many valuable pearls. Thereupon the intelligent Sahadeva returned to his kingdom.
71Having vanquished by war and by, conciliation many kings and having also made them pay tribute to him, that chastiser of foes returned (to his own city).
72O king, O Janamejaya, the best of the Bharata race (Sahadeva) presented all, that wealth to Dharmaraja (Yudhishthira) and regarded himself crowned with success, and he became very happy.
हिन्दी
1वैशम्पायन ने कहा — हे राजन्, धर्मराज (युधिष्ठिर) द्वारा स्नेहपूर्वक विदा किए जाने पर सहदेव अत्यन्त विशाल सेना सहित दक्षिण की ओर चल पड़े।
2अपने ही बल में बलवान् उन पराक्रमी कुरुवंशी स्वामी (सहदेव) ने आरम्भ में ही शूरसेनों को पराजित किया। फिर उन्होंने मत्स्य के राजा को अपने अधीन किया।
3अधिराजों के पराक्रमी राजा दन्तवक्र को पराजित करके और उससे कर दिलवाकर उन वीर (सहदेव) ने उसे फिर उसके सिंहासन पर बैठा दिया।
4तब उन्होंने सुकुमार और राजा सुमित्र को, और फिर अन्य मत्स्यों को, और फिर पटच्चरों को अपने अधीन किया।
5तब उन महाबुद्धिमान् (सहदेव) ने शीघ्र ही निषादों का देश तथा गोशृंग नामक पर्वतश्रेष्ठ और श्रेणिमान् नामक राजा को जीता।
6तब नरराष्ट्र नामक देश जीतकर उन्होंने कुन्तिभोज पर चढ़ाई की। उन्होंने (कुन्तिभोज के राजा ने) बड़ी प्रसन्नता से (पाण्डवों का) शासन स्वीकार किया।
7तब चर्मण्वती के तट पर उन्होंने राजा जम्भक के पुत्र से भेंट की, जो पूर्वकाल में किसी पुरानी शत्रुता के कारण वासुदेव द्वारा पराजित हुआ था।
8हे भरतवंशी, उसने सहदेव से युद्ध किया, किन्तु उन्होंने (सहदेव ने) उसे पराजित किया और फिर वे दक्षिण की ओर बढ़े।
9तब उन महाबली वीर ने सेकों और अन्य सेकों को अपने अधीन किया, और उनसे नाना मणियों और रत्नों के रूप में कर वसूल किया।
10उन सबको साथ लेकर वे तब नर्मदा से सिंचित देश की ओर गए। अश्विनी के पराक्रमी पुत्र (सहदेव) ने तब अवन्ती के दोनों वीर राजाओं, विन्द और अनुविन्द को, जो विशाल सैन्यसंख्या से घिरे थे, एक युद्ध में पराजित किया। उनसे प्रचुर धन वसूल करके वे भोजकट की नगरी की ओर गए।
11हे राजन्, हे अच्युत (अक्षय कीर्ति वाले), वहाँ दो दिन तक महान् युद्ध हुआ। किन्तु माद्री के पुत्र सहदेव ने अजेय भीष्मक को पराजित किया।
12तब उन्होंने युद्ध में कोसल के राजा, वेणतट के राजा, कान्तारकों और पूर्वी कोसलों के राजाओं को पराजित किया।
13तब युद्ध में नाटकेयों और हेरम्बकों को पराजित करके और मरुधों को अपने अधीन करके उन्होंने मुञ्जग्राम को बल से जीता। तब उन्होंने नाचीनों, अर्बुकों और उस प्रदेश में शासन करने वाले नाना अन्य वनराजाओं को पराजित किया। तब पाण्डु के महाबली पुत्र ने राजा वातधिप को अपने अधीन किया।
14युद्ध में पुलिन्दों को पराजित करके वे दक्षिण की ओर बढ़े। नकुल के अनुज (सहदेव) ने तब पाण्ड्य के राजा से एक दिन तक युद्ध किया।
15उसे पराजित करके वे महाबाहु (वीर) (और आगे) दक्षिण की ओर गए। तब वे किष्किन्धा की जगत्प्रसिद्ध गुफाओं में आए।
16यहाँ उन्होंने मैन्द और द्विविद नामक वानरराजों से सात दिन तक युद्ध किया। किन्तु वे भी (युद्ध में) तनिक भी नहीं थके।
17वे दोनों यशस्वी वानरराज सहदेव से (अत्यन्त) प्रसन्न हुए, और उन्होंने हर्षपूर्वक उनसे ये स्नेहपूर्ण वचन कहे —
18"हे पाण्डवश्रेष्ठ, हमसे धन लेकर (लौट) जाइए। बुद्धिमान् धर्मराज का कार्य बिना किसी विघ्न के सम्पन्न हो।"
19तब धन प्राप्त करके वे नरश्रेष्ठ (सहदेव) माहिष्मती की नगरी की ओर बढ़े। उन्होंने वहाँ राजा नील से युद्ध किया।
20उन शत्रुदमन, पराक्रमी पाण्डव सहदेव और उस राजा (नील) के बीच का युद्ध अत्यन्त भयंकर था।
21उसने अनेक सैनिकों का विनाश किया, और उसने (वीर सहदेव के) प्राण संकट में डाल दिए, क्योंकि स्वामी, यज्ञीय आहुति के वाहक (अग्नि) उसकी (राजा नील की) सहायता कर रहे थे।
22सहदेव की सेना के रथ, अश्व, हाथी और कवचधारी सब ऐसे दिखाई देने लगे मानो वे जल रहे हों।
23यह देखकर वे कुरुवंशी महान् चिन्ता से भर गए। हे जनमेजय, यह देखकर वे वीर निश्चय न कर सके कि उन्हें क्या करना चाहिए।
24जनमेजय ने कहा — हे परमपुरुष, हे ब्राह्मण, ऐसा क्यों हुआ कि देव अग्नि उन सहदेव के प्रति युद्ध में शत्रुभाव रखने लगे जो एक यज्ञ की सिद्धि के लिए युद्ध कर रहे थे?
25वैशम्पायन ने कहा — सुना जाता है कि माहिष्मती नगरी में रहने वाले अग्नि पूर्वकाल में एक व्यभिचारी के रूप में पकड़े गए थे।
26राजा नील की पुत्री अत्यन्त सुन्दरी थी। वह सदा अपने पिता के अग्निहोत्र (पवित्र अग्नि) के निकट उसे उद्दीप्त करने के लिए रहती थी।
27जितना भी सम्भव हो उतना पंखा झलने पर भी अग्नि तब तक प्रज्वलित नहीं होती थी जब तक उस कन्या के मधुर अधरों की साँसों से न फूँकी जाती।
28राजा नील के प्रासाद में और समस्त (लोगों के) घरों में कहा जाता था कि यशस्वी अग्नि उस सुन्दरी कन्या से विवाह करना चाहते हैं; और वे (वस्तुतः) उसके द्वारा स्वीकार भी कर लिए गए थे।
29एक दिन जब वे (अग्नि) ब्राह्मण का रूप धारण करके उस सुन्दरी कन्या के संग इच्छानुसार आनन्द भोग रहे थे, तब राजा ने उन्हें देख लिया। तब उन धर्मात्मा नरेश ने उस ब्राह्मण को विधि के अनुसार दण्ड देने की आज्ञा दी।
30तब यज्ञीय आहुतियों के यशस्वी वाहक (अग्नि) क्रोध में प्रज्वलित हो उठे। यह देखकर राजा विस्मय से भर गए, और उन्होंने भूमि तक सिर झुकाया।
31कुछ समय पश्चात् सिर झुकाकर राजा ने अपनी वह पुत्री ब्राह्मण के वेश में स्थित अग्नि को अर्पित कर दी।
32यशस्वी विभावसु (अग्नि) ने राजा नील की उस अग्निभ्रू पुत्री को स्वीकार किया, और उन्होंने राजा को अपने वरदान दिए।
33समस्त प्रयोजनों को तृप्त करने वाले उन यशस्वी (अग्नि) ने राजा से वर माँगने को भी कहा। राजा ने वह वर माँगा जिससे वे युद्ध में लगे रहते हुए अपने सैनिकों सहित कभी भयभीत न हों।
34हे राजन्, उस दिन से जो कोई इस बात से अनभिज्ञ होकर उस राजा (नील) की नगरी को अपने अधीन करना चाहता है, वह अग्नि से भस्म हो जाता है।
35हे कुरुवंश के प्रवर्धक, उस दिन से माहिष्मती नगरी की कन्याएँ दूसरों के लिए (पत्नी के रूप में) कुछ अस्वीकार्य हो गईं। अग्नि ने अपने वर से उन्हें कामस्वातन्त्र्य दे दिया। उस नगरी की स्त्रियाँ किसी एक पति तक सीमित न रहकर सदा स्वैरिणी के रूप में इच्छानुसार विचरती रहीं।
36हे भरतवंश में श्रेष्ठ, हे महाराज, उस दिन से समस्त राजा अग्नि के भय से इस नगरी से बचते रहे।
37हे राजन्, धर्मात्मा सहदेव भी अपने सैनिकों को भय से पीड़ित और ज्वालाओं से घिरा देखकर पर्वत के समान निश्चल खड़े रहे। जल स्पर्श करके और अपने को पवित्र करके उन्होंने पावक (अग्नि) से इस प्रकार कहा।
38सहदेव ने कहा — हे पावक, हे कृष्णवर्त्मन्, हे धूम से अपना मार्ग चिह्नित करने वाले, मैं आपको प्रणाम करता हूँ। आप देवताओं के मुख हैं; आप स्वयं यज्ञ हैं।
39आप पावक कहलाते हैं, क्योंकि आप सब कुछ पवित्र करते हैं; आप हव्यवाहन कहलाते हैं, क्योंकि आप घृत की यज्ञीय आहुति ले जाते हैं। वेद सब आपसे ही उत्पन्न हुए हैं, इसीलिए आप जातवेदा कहलाते हैं।
40आप सुरेश (देवताओं के अधिपति) हैं, आप चित्रभानु, अनल, स्वर्गद्वारस्पर्शी, विभावसु, हुताश, ज्वलन, शिखी,
41वैश्वानर, पिंगेश, प्लवंग और भूरितेजा हैं। आप कुमार (कार्तिकेय) के मूल हैं। हे परमदेव, आप रुद्रगर्भ और हिरण्यकृत् कहलाते हैं।
42हे अग्ने, आप मुझे तेज दें और वायु मुझे प्राण दें। पृथ्वी मुझे पोषण और बल दे, और जल मुझे समृद्धि दे।
43हे जलों के आदि कारण, हे महापवित्र, हे वेदों के मूल, हे देवताओं के अधिपति, हे देवताओं के मुख, अपने सत्य से मुझे पवित्र कीजिए।
44ऋषि, ब्राह्मण, देवता और असुर प्रतिदिन विधि के अनुसार यज्ञ में घृत डालते हैं। जैसे आप यज्ञों में अपने को प्रकट करते हैं, वैसे ही आपसे सत्य की किरणें निकलें। मुझे पवित्र कीजिए।
45हे धूमध्वज देव, हे ज्वालाओं के धारक, हे वायु से उत्पन्न देव, हे समस्त प्राणियों में विद्यमान देव, अपनी सत्य की किरणों से मुझे पवित्र कीजिए।
46हे परमदेव, प्रसन्नतापूर्वक अपने को शुद्ध करके मैं आपसे प्रार्थना करता हूँ; हे अग्ने, अब मुझे सन्तोष और समृद्धि, ज्ञान और आनन्द प्रदान कीजिए।
47वैशम्पायन ने कहा — जो इन मन्त्रों का पाठ करते हुए अग्नि में घृत डालेगा, वह सदा समृद्धि से मण्डित होगा। अपनी आत्मा को पूर्ण संयम में रखकर वह अपने समस्त पापों से मुक्त हो जाएगा।
48सहदेव ने कहा — हे यज्ञीय आहुति के वाहक (अग्ने), आपको यज्ञ में विघ्न नहीं डालना चाहिए। यह कहकर माद्री के पुत्र (सहदेव) ने भूमि पर कुछ कुशा बिछाई।
49हे भरतवंशी, तब वे नरश्रेष्ठ आती हुई अग्नि की प्रतीक्षा में अपने भयभीत और चिन्तित सैनिकों के सम्मुख बैठ गए।
50जैसे समुद्र कभी अपने तट के परे नहीं जाता, वैसे ही अग्नि उनके (सहदेव के) ऊपर से नहीं गुजरे। अग्नि शान्तिपूर्वक उनके पास आए, और उन्होंने उन कुरुवंशी से इस प्रकार कहा।
51मनुष्यों में देवस्वरूप सहदेव से ये आश्वासन के वचन — "हे कुरुवंशी, उठो, उठो। मैं तो केवल तुम्हारी परीक्षा ले रहा था।
52मैं तुम्हारे समस्त प्रयोजन जानता हूँ, और धर्म के पुत्र (युधिष्ठिर) के भी। हे भरतवंश में श्रेष्ठ, यह नगरी मेरे द्वारा रक्षित रहेगी —
53जब तक राजा नील के वंश में कोई सन्तान रहेगी। किन्तु हे पाण्डुपुत्र, मैं तुम्हारे हृदय की कामना पूर्ण करूँगा।"
54हे भरतवंश में श्रेष्ठ, माद्री के पुत्र प्रसन्न हृदय से उठे और हाथ जोड़कर सिर झुकाते हुए उन्होंने पावक (अग्नि) की पूजा की।
55पावक के अन्तर्धान होने पर राजा नील वहाँ आए, और उन देव (अग्नि) की आज्ञा से राजा ने विधिपूर्वक उन नरश्रेष्ठ और युद्धाचार्य सहदेव की पूजा की। उन्होंने उसकी पूजा स्वीकार की और उससे कर दिलवाया।
56तब विजयी माद्रीपुत्र और आगे दक्षिण की ओर गए। अपरिमित तेजस्वी त्रिपुरा को अपने अधीन करके —
57उन महाबाहु (वीर) ने शीघ्र ही पौरव राजा को पराजित करके अपने अधीन किया; और फिर उन्होंने बड़े प्रयत्न से कौशिक के आचार्य आकृति को अपने अधीन किया।
58तब उन महाबाहु (वीर) ने शूराष्ट्र के राजा को अपने अधीन किया। उन्होंने भोजकट के प्रदेशों में भीष्मक के पुत्र राजा रुक्मी के पास दूत भेजा, जो धन और बुद्धि से सम्पन्न होकर इन्द्र का मित्र था।
59हे महाराज, वासुदेव (कृष्ण) से अपनी मित्रता का स्मरण करके उस राजा ने अपने पुत्र सहित प्रसन्नतापूर्वक उनका (पाण्डवों का) शासन स्वीकार किया।
60उससे (रुक्मी से) अनेक रत्न और प्रचुर धन लेकर उन युद्धाचार्य (सहदेव) ने तब शूपारक और तालकट को अपने अधीन किया।
61तब उन महाबली (वीर) ने अत्यन्त तेजस्वी दण्डक को अपने अधीन किया। फिर उन्होंने म्लेच्छ वंश में उत्पन्न और समुद्र के द्वीप में रहने वाले अनेक राजाओं को अपने अधीन किया;
62फिर निषादों, नरभक्षियों, कर्णप्रावरणों, कालमुख नामक उन जातियों को, जो मनुष्यों और राक्षसों की मिश्रित जाति थीं,
63सम्पूर्ण कोल पर्वत, तथा शूरभिपत्तन, ताम्रद्वीप नामक द्वीप और रामक नामक पर्वत को भी।
64राजा तिमिंगिल को अपने अधीन करके उन यशस्वी योद्धा ने केरल नामक एक वन्य जाति को अपने अधीन किया, जो एक पैर वाले मनुष्य थे।
65पाण्डु के पुत्र ने केवल अपने दूतों के माध्यम से संजयन्ती नगरी तथा पाखण्डों और करहाटकों के देश को भी अपने अधीन किया; और उन्होंने उन सबसे कर दिलवाया।
66उन वीर ने पाण्ड्यों, द्रविड़ों, उद्रकेरलों, आन्ध्रों, तालवनों, कलिंगों और उष्ट्रकर्णिकों को भी अपने अधीन किया और उनसे कर वसूल किया।
67उन्होंने दूत भेजकर और कर वसूल करके अटवी की मनोहर नगरी तथा यवनों की नगरी को भी अपने अधीन किया।
68हे राजाधिराज, उन शत्रुहन्ता, धर्मात्मा और बुद्धिमान् माद्रीपुत्र (सहदेव) ने (अन्ततः) समुद्रतट पर पहुँचकर पुलस्त्य के पौत्र यशस्वी विभीषण के पास दूत भेजे। उन्होंने भी प्रसन्नतापूर्वक उनका शासन स्वीकार किया।
69उन्होंने (विभीषण ने) उन्हें (सहदेव को) नाना प्रकार के रत्न और मणि, चन्दन और अगुरु की लकड़ियाँ, अनेक दिव्य आभूषण,
70अनेक बहुमूल्य वस्त्र और अनेक मूल्यवान् मोती भेजे। तब बुद्धिमान् सहदेव अपने राज्य लौटे।
71युद्ध से और सामनीति से अनेक राजाओं को पराजित करके तथा उनसे कर भी दिलवाकर वे शत्रुदमन (अपनी नगरी) लौटे।
72हे राजन्, हे जनमेजय, उन भरतवंश में श्रेष्ठ (सहदेव) ने वह समस्त धन धर्मराज (युधिष्ठिर) को अर्पित किया और अपने को सफलता से मण्डित माना, और वे अत्यन्त प्रसन्न हुए।
नेपाली
1वैशम्पायनले भने — हे राजन्, धर्मराज (युधिष्ठिर)द्वारा स्नेहपूर्वक बिदा गरिएपछि सहदेव अत्यन्त विशाल सेनासहित दक्षिणतिर हिँडे।
2आफ्नै बलमा बलवान् ती पराक्रमी कुरुवंशी स्वामी (सहदेव)ले सुरुमै शूरसेनहरूलाई पराजित गरे। अनि उनले मत्स्यका राजालाई आफ्नो अधीनमा पारे।
3अधिराजहरूका पराक्रमी राजा दन्तवक्रलाई पराजित गरेर र उसबाट कर तिराएर ती वीर (सहदेव)ले उसलाई फेरि उसकै सिंहासनमा बसाइदिए।
4तब उनले सुकुमार र राजा सुमित्रलाई, र अनि अन्य मत्स्यहरूलाई, र अनि पटच्चरहरूलाई आफ्नो अधीनमा पारे।
5तब ती महाबुद्धिमान् (सहदेव)ले चाँडै नै निषादहरूको देश तथा गोशृङ्ग नामक पर्वतश्रेष्ठ र श्रेणिमान् नामक राजालाई जिते।
6तब नरराष्ट्र नामक देश जितेर उनले कुन्तिभोजमाथि चढाइ गरे। उनले (कुन्तिभोजका राजाले) ठूलो प्रसन्नताले (पाण्डवहरूको) शासन स्वीकार गरे।
7तब चर्मण्वतीको किनारमा उनले राजा जम्भकका पुत्रलाई भेटे, जो पूर्वकालमा कुनै पुरानो शत्रुताका कारण वासुदेवद्वारा पराजित भएको थियो।
8हे भरतवंशी, उसले सहदेवसँग युद्ध गर्यो, तर उनले (सहदेवले) उसलाई पराजित गरे र अनि उनी दक्षिणतिर बढे।
9तब ती महाबली वीरले सेकहरू र अन्य सेकहरूलाई आफ्नो अधीनमा पारे, र तिनीहरूबाट नाना मणि र रत्नका रूपमा कर उठाए।
10ती सबैलाई साथ लिएर उनी तब नर्मदाले सिञ्चित देशतिर गए। अश्विनीका पराक्रमी पुत्र (सहदेव)ले तब अवन्तीका दुवै वीर राजा, विन्द र अनुविन्दलाई, जो विशाल सैन्यसङ्ख्याले घेरिएका थिए, एउटा युद्धमा पराजित गरे। तिनीहरूबाट प्रशस्त धन उठाएर उनी भोजकटको नगरीतिर गए।
11हे राजन्, हे अच्युत (अक्षय कीर्ति भएका), त्यहाँ दुई दिनसम्म महान् युद्ध भयो। तर माद्रीका पुत्र सहदेवले अजेय भीष्मकलाई पराजित गरे।
12तब उनले युद्धमा कोसलका राजा, वेणतटका राजा, कान्तारकहरू र पूर्वी कोसलका राजाहरूलाई पराजित गरे।
13तब युद्धमा नाटकेय र हेरम्बकहरूलाई पराजित गरेर र मरुधहरूलाई आफ्नो अधीनमा पारेर उनले मुञ्जग्रामलाई बलले जिते। तब उनले नाचीन, अर्बुक र त्यस प्रदेशमा शासन गर्ने नाना अन्य वनराजाहरूलाई पराजित गरे। तब पाण्डुका महाबली पुत्रले राजा वातधिपलाई आफ्नो अधीनमा पारे।
14युद्धमा पुलिन्दहरूलाई पराजित गरेर उनी दक्षिणतिर बढे। नकुलका भाइ (सहदेव)ले तब पाण्ड्यका राजासँग एक दिनसम्म युद्ध गरे।
15उसलाई पराजित गरेर ती महाबाहु (वीर) (अझ अगाडि) दक्षिणतिर गए। तब उनी किष्किन्धाका जगत्प्रसिद्ध गुफामा आए।
16यहाँ उनले मैन्द र द्विविद नामक वानरराजहरूसँग सात दिनसम्म युद्ध गरे। तर तिनीहरू पनि (युद्धमा) अलिकति पनि थाकेनन्।
17ती दुवै यशस्वी वानरराज सहदेवसँग (अत्यन्त) प्रसन्न भए, र उनीहरूले हर्षपूर्वक उनलाई यी स्नेहपूर्ण वचन भने —
18"हे पाण्डवश्रेष्ठ, हामीबाट धन लिएर (फर्केर) जानुहोस्। बुद्धिमान् धर्मराजको कार्य कुनै विघ्नविना सम्पन्न होस्।"
19तब धन प्राप्त गरेर ती नरश्रेष्ठ (सहदेव) माहिष्मतीको नगरीतिर बढे। उनले त्यहाँ राजा नीलसँग युद्ध गरे।
20ती शत्रुदमन, पराक्रमी पाण्डव सहदेव र त्यस राजा (नील)बीचको युद्ध अत्यन्त भयङ्कर थियो।
21त्यसले अनेक सैनिकको विनाश गर्यो, र त्यसले (वीर सहदेवका) प्राण सङ्कटमा पार्यो, किनभने स्वामी, यज्ञीय आहुतिका वाहक (अग्नि)ले उसको (राजा नीलको) सहायता गरिरहेका थिए।
22सहदेवको सेनाका रथ, अश्व, हात्ती र कवचधारीहरू सबै यस्ता देखिन थाले मानौँ तिनीहरू बलिरहेका हुन्।
23यो देखेर ती कुरुवंशी महान् चिन्ताले भरिए। हे जनमेजय, यो देखेर ती वीरले निश्चय गर्न सकेनन् कि उनले के गर्नुपर्छ।
24जनमेजयले भने — हे परमपुरुष, हे ब्राह्मण, यस्तो किन भयो कि देव अग्नि ती सहदेवप्रति युद्धमा शत्रुभाव राख्न थाले जो एउटा यज्ञको सिद्धिका लागि युद्ध गरिरहेका थिए?
25वैशम्पायनले भने — सुनिन्छ कि माहिष्मती नगरीमा बस्ने अग्नि पूर्वकालमा एक व्यभिचारीका रूपमा पक्राउ परेका थिए।
26राजा नीलकी पुत्री अत्यन्त सुन्दरी थिइन्। उनी सधैँ आफ्ना पिताको अग्निहोत्र (पवित्र अग्नि)नजिकै त्यसलाई उद्दीप्त पार्न रहन्थिन्।
27जति सम्भव हुन्थ्यो त्यति पङ्खा हम्किँदा पनि अग्नि तबसम्म प्रज्वलित हुँदैनथ्यो जबसम्म ती कन्याका मधुर ओठका सासले नफुकिन्थ्यो।
28राजा नीलको प्रासादमा र सम्पूर्ण (मानिसका) घरमा भनिन्थ्यो कि यशस्वी अग्निले ती सुन्दरी कन्यासँग विवाह गर्न चाहन्छन्; र उनी (वस्तुतः) उनीद्वारा स्वीकार पनि गरिइसकेका थिए।
29एक दिन जब उनी (अग्नि) ब्राह्मणको रूप धारण गरेर ती सुन्दरी कन्यासँग इच्छाअनुसार आनन्द भोगिरहेका थिए, तब राजाले उनलाई देखे। तब ती धर्मात्मा नरेशले त्यस ब्राह्मणलाई विधिअनुसार दण्ड दिने आज्ञा दिए।
30तब यज्ञीय आहुतिका यशस्वी वाहक (अग्नि) क्रोधमा प्रज्वलित भए। यो देखेर राजा विस्मयले भरिए, र उनले भुइँसम्म शिर निहुराए।
31केही समयपछि शिर निहुराएर राजाले आफ्नी त्यो पुत्री ब्राह्मणको वेशमा रहेका अग्निलाई अर्पण गरिदिए।
32यशस्वी विभावसु (अग्नि)ले राजा नीलकी त्यस अग्निभ्रू पुत्रीलाई स्वीकार गरे, र उनले राजालाई आफ्ना वरदान दिए।
33सम्पूर्ण प्रयोजन तृप्त पार्ने ती यशस्वी (अग्नि)ले राजालाई वर माग्न पनि भने। राजाले त्यो वर मागे जसबाट उनी युद्धमा लागिरहँदा आफ्ना सैनिकसहित कहिल्यै भयभीत नहोऊन्।
34हे राजन्, त्यस दिनदेखि जो कोही यो कुराबाट अनभिज्ञ भई त्यस राजा (नील)को नगरीलाई आफ्नो अधीनमा पार्न चाहन्छ, ऊ अग्निले भस्म हुन्छ।
35हे कुरुवंशका प्रवर्धक, त्यस दिनदेखि माहिष्मती नगरीका कन्याहरू अरूका लागि (पत्नीका रूपमा) केही अस्वीकार्य भए। अग्निले आफ्नो वरले तिनीहरूलाई कामस्वातन्त्र्य दिइदिए। त्यस नगरीका स्त्रीहरू कुनै एक पतिमा सीमित नरही सधैँ स्वैरिणीका रूपमा इच्छाअनुसार विचरण गरिरहे।
36हे भरतवंशमा श्रेष्ठ, हे महाराज, त्यस दिनदेखि सम्पूर्ण राजा अग्निको भयले यस नगरीबाट बच्दै आए।
37हे राजन्, धर्मात्मा सहदेव पनि आफ्ना सैनिकहरूलाई भयले पीडित र ज्वालाले घेरिएको देखेर पर्वतजस्तै निश्चल उभिइरहे। जल स्पर्श गरेर र आफूलाई पवित्र पारेर उनले पावक (अग्नि)लाई यसरी भने।
38सहदेवले भने — हे पावक, हे कृष्णवर्त्मन्, हे धुवाँले आफ्नो बाटो चिह्नित गर्ने, म तपाईंलाई प्रणाम गर्दछु। तपाईं देवताहरूका मुख हुनुहुन्छ; तपाईं स्वयं यज्ञ हुनुहुन्छ।
39तपाईं पावक कहलिनुहुन्छ, किनभने तपाईंले सबै कुरा पवित्र पार्नुहुन्छ; तपाईं हव्यवाहन कहलिनुहुन्छ, किनभने तपाईंले घिउको यज्ञीय आहुति लैजानुहुन्छ। वेद सबै तपाईंबाटै उत्पन्न भएका हुन्, त्यसैले तपाईं जातवेदा कहलिनुहुन्छ।
40तपाईं सुरेश (देवताहरूका अधिपति) हुनुहुन्छ, तपाईं चित्रभानु, अनल, स्वर्गद्वारस्पर्शी, विभावसु, हुताश, ज्वलन, शिखी,
41वैश्वानर, पिङ्गेश, प्लवङ्ग र भूरितेजा हुनुहुन्छ। तपाईं कुमार (कार्तिकेय)का मूल हुनुहुन्छ। हे परमदेव, तपाईं रुद्रगर्भ र हिरण्यकृत् कहलिनुहुन्छ।
42हे अग्ने, तपाईंले मलाई तेज दिनुहोस् र वायुले मलाई प्राण दिऊन्। पृथ्वीले मलाई पोषण र बल दिऊन्, र जलले मलाई समृद्धि दिऊन्।
43हे जलका आदि कारण, हे महापवित्र, हे वेदका मूल, हे देवताहरूका अधिपति, हे देवताहरूका मुख, आफ्नो सत्यले मलाई पवित्र पार्नुहोस्।
44ऋषि, ब्राह्मण, देवता र असुरहरूले प्रतिदिन विधिअनुसार यज्ञमा घिउ हाल्दछन्। जसरी तपाईं यज्ञमा आफूलाई प्रकट गर्नुहुन्छ, त्यसै गरी तपाईंबाट सत्यका किरण निस्कून्। मलाई पवित्र पार्नुहोस्।
45हे धूमध्वज देव, हे ज्वालाका धारक, हे वायुबाट उत्पन्न देव, हे सम्पूर्ण प्राणीमा विद्यमान देव, आफ्नो सत्यका किरणले मलाई पवित्र पार्नुहोस्।
46हे परमदेव, प्रसन्नतापूर्वक आफूलाई शुद्ध पारेर म तपाईंसँग प्रार्थना गर्दछु; हे अग्ने, अब मलाई सन्तोष र समृद्धि, ज्ञान र आनन्द प्रदान गर्नुहोस्।
47वैशम्पायनले भने — जसले यी मन्त्रको पाठ गर्दै अग्निमा घिउ हाल्नेछ, ऊ सधैँ समृद्धिले मण्डित हुनेछ। आफ्नो आत्मालाई पूर्ण संयममा राखेर ऊ आफ्ना सम्पूर्ण पापबाट मुक्त हुनेछ।
48सहदेवले भने — हे यज्ञीय आहुतिका वाहक (अग्ने), तपाईंले यज्ञमा विघ्न हाल्नुहुँदैन। यसो भनेर माद्रीका पुत्र (सहदेव)ले भुइँमा केही कुश ओछ्याए।
49हे भरतवंशी, तब ती नरश्रेष्ठ आउँदै गरेको अग्निको प्रतीक्षामा आफ्ना भयभीत र चिन्तित सैनिकहरूको सामु बसे।
50जसरी समुद्र कहिल्यै आफ्नो किनारभन्दा पर जाँदैन, त्यसै गरी अग्नि उनी (सहदेव)माथिबाट गएनन्। अग्नि शान्तिपूर्वक उनीकहाँ आए, र उनले ती कुरुवंशीलाई यसरी भने।
51मानिसहरूमा देवस्वरूप सहदेवलाई यी आश्वासनका वचन — "हे कुरुवंशी, उठ, उठ। म त केवल तिम्रो परीक्षा लिँदै थिएँ।
52म तिम्रा सम्पूर्ण प्रयोजन जान्दछु, र धर्मका पुत्र (युधिष्ठिर)का पनि। हे भरतवंशमा श्रेष्ठ, यो नगरी मद्वारा रक्षित रहनेछ —
53जबसम्म राजा नीलको वंशमा कुनै सन्तान रहनेछ। तर हे पाण्डुपुत्र, म तिम्रो हृदयको कामना पूर्ण गर्नेछु।"
54हे भरतवंशमा श्रेष्ठ, माद्रीका पुत्र प्रसन्न हृदयले उठे र हात जोडेर शिर निहुराउँदै उनले पावक (अग्नि)को पूजा गरे।
55पावक अन्तर्धान भएपछि राजा नील त्यहाँ आए, र ती देव (अग्नि)को आज्ञाले राजाले विधिपूर्वक ती नरश्रेष्ठ र युद्धाचार्य सहदेवको पूजा गरे। उनले उसको पूजा स्वीकार गरे र उसबाट कर तिराए।
56तब विजयी माद्रीपुत्र अझ अगाडि दक्षिणतिर गए। अपरिमित तेजस्वी त्रिपुरालाई आफ्नो अधीनमा पारेर —
57ती महाबाहु (वीर)ले चाँडै नै पौरव राजालाई पराजित गरेर आफ्नो अधीनमा पारे; र अनि उनले ठूलो प्रयत्नले कौशिकका आचार्य आकृतिलाई आफ्नो अधीनमा पारे।
58तब ती महाबाहु (वीर)ले शूराष्ट्रका राजालाई आफ्नो अधीनमा पारे। उनले भोजकटका प्रदेशमा भीष्मकका पुत्र राजा रुक्मीकहाँ दूत पठाए, जो धन र बुद्धिले सम्पन्न भई इन्द्रको मित्र थियो।
59हे महाराज, वासुदेव (कृष्ण)सँग आफ्नो मित्रता सम्झेर त्यस राजाले आफ्नो पुत्रसहित प्रसन्नतापूर्वक उनीहरूको (पाण्डवहरूको) शासन स्वीकार गर्यो।
60उसबाट (रुक्मीबाट) अनेक रत्न र प्रशस्त धन लिएर ती युद्धाचार्य (सहदेव)ले तब शूपारक र तालकटलाई आफ्नो अधीनमा पारे।
61तब ती महाबली (वीर)ले अत्यन्त तेजस्वी दण्डकलाई आफ्नो अधीनमा पारे। अनि उनले म्लेच्छ वंशमा उत्पन्न र समुद्रको द्वीपमा बस्ने अनेक राजालाई आफ्नो अधीनमा पारे;
62अनि निषाद, नरभक्षी, कर्णप्रावरण, कालमुख नामक ती जातिहरूलाई, जो मानिस र राक्षसका मिश्रित जाति थिए,
63सम्पूर्ण कोल पर्वत, तथा शूरभिपत्तन, ताम्रद्वीप नामक द्वीप र रामक नामक पर्वतलाई पनि।
64राजा तिमिङ्गिललाई आफ्नो अधीनमा पारेर ती यशस्वी योद्धाले केरल नामक एउटा वन्य जातिलाई आफ्नो अधीनमा पारे, जो एक खुट्टा भएका मानिस थिए।
65पाण्डुका पुत्रले केवल आफ्ना दूतहरूको माध्यमबाट सञ्जयन्ती नगरी तथा पाखण्ड र करहाटकहरूको देशलाई पनि आफ्नो अधीनमा पारे; र उनले ती सबैबाट कर तिराए।
66ती वीरले पाण्ड्य, द्रविड, उद्रकेरल, आन्ध्र, तालवन, कलिङ्ग र उष्ट्रकर्णिकहरूलाई पनि आफ्नो अधीनमा पारे र तिनीहरूबाट कर उठाए।
67उनले दूत पठाएर र कर उठाएर अटवीको मनोहर नगरी तथा यवनहरूको नगरीलाई पनि आफ्नो अधीनमा पारे।
68हे राजाधिराज, ती शत्रुहन्ता, धर्मात्मा र बुद्धिमान् माद्रीपुत्र (सहदेव)ले (अन्तमा) समुद्रतटमा पुगेर पुलस्त्यका नाति यशस्वी विभीषणकहाँ दूत पठाए। उनले पनि प्रसन्नतापूर्वक उनको शासन स्वीकार गरे।
69उनले (विभीषणले) उनलाई (सहदेवलाई) नाना प्रकारका रत्न र मणि, चन्दन र अगुरुका काठ, अनेक दिव्य गहना,
70अनेक बहुमूल्य वस्त्र र अनेक मूल्यवान् मोती पठाए। तब बुद्धिमान् सहदेव आफ्नो राज्य फर्किए।
71युद्धले र सामनीतिले अनेक राजालाई पराजित गरेर तथा तिनीहरूबाट कर पनि तिराएर ती शत्रुदमन (आफ्नो नगरी) फर्किए।
72हे राजन्, हे जनमेजय, ती भरतवंशमा श्रेष्ठ (सहदेव)ले त्यो सम्पूर्ण धन धर्मराज (युधिष्ठिर)लाई अर्पण गरे र आफूलाई सफलताले मण्डित माने, र उनी अत्यन्त प्रसन्न भए।