सुभद्रा-हरण पर्व — पाण्डु-कुमारों का जन्म
खण्ड 1 — आदि एवं सभा पर्व · अध्याय 221
संस्कृत
1वैशम्पायन उवाच उक्तवन्तो यथा वीर्यमसकृत् सर्ववृष्ण्यः। ततोऽब्रवीद् वासुदेवो वाक्यं धर्मार्थसंयुतम्॥
2नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान्। सम्मानोऽभ्यधिकस्तेन प्रयुक्तोऽयं न संशयः॥
3अर्थलुब्धान् न वः पार्थो मन्यते सात्वतान् सदा। स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः॥
4प्रदानमपि कन्यायाः पशुवत् कोऽनुमन्यते। विक्रयं चाप्यपत्यस्य कः कुर्यात् पुरुषो भुवि॥
5एतान् दोषांस्तु कौन्तेयो दृष्टवानिति मे मतिः। अतः प्रसह्य हृतवान् कन्यां धर्मेण पाण्डवः॥
6उचितश्चैव सम्बन्धः सुभद्रां च यशस्विनीम्। एष चापीदृशः पार्थः प्रसह्य हृतवानिति॥
7भरतस्यान्वये जातं शान्तनोश्च यशस्विनः। कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम्॥
8न च पश्यामि यः पार्थं विजयेत रणे बलात्। वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम्॥ अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष। स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः॥ योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत्। तमभिद्रुत्य सान्त्वेन परमेण धनंजयम्॥ न्यवर्तयत् संहृष्टा ममैषा परमा मतिः।
9यदि निर्जित्य वः पार्थो बलाद् गच्छेत् स्वकं पुरम्।।११ प्रणश्येद् वो यशः सद्यो न तु सान्त्वे पराजयः।
10तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप॥
11निवृत्तश्चार्जुनस्तत्र विवाहं कृतवान् प्रभुः। उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः॥
12विहत्य च यथाकामं पूजितो वृष्णिनन्दनैः। पुष्करे तु ततः शेषं कालं वर्तितवान् प्रभुः॥ पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमागतः।
13अभिगम्य च राजानं नियमेन समाहितः॥ अभ्यर्च्य ब्राह्मणान् पार्थो द्रौपदीमभिजग्मिवान्।
14तं द्रौपदी प्रत्युवाच प्रणयात् कुरुनन्दनम्॥ तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा।
15सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते॥ तथा बहुविधं कृष्णां विलपन्ती धनंजयः सान्त्वयामास भूयश्च क्षमयामास चासकृत्॥ सुभद्रां त्वरमाणश्च रक्तकौशेयवासिनीम्। पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः॥ साधिकं तेन रूपेण शोभमाना यशस्विनी।
16भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना।॥ ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी।
17तां कुन्ती चारुसर्वाङ्गीमुपाजिघ्रत मूर्धनि॥ प्रीत्या परमया युक्ता आशीर्भिर्युञ्जतातुलाम्।
18ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना॥ ववन्दे द्रौपदी भद्रा प्रेष्याहमिति चाब्रवीत्।
19प्रत्युत्थाय तदा कृष्णा स्वसारं माधवस्य च॥ परिष्वज्यावदत् प्रीत्या निःसपत्नोऽस्तु ते पतिः।
20तथैव मुदिता भद्रा तामुवाचैवमस्त्विति॥ ततस्ते हृष्टमनसः पाण्डवेया महारथाः। कुन्ती च परमप्रीता बभूव जनमेजय॥ श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वं पुरोत्तमम्। अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा॥ आजगाम विशुद्धात्मा सह रामेण केशवः।
21वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः॥ भ्रातृभिश्च कुमारैश्च योधैश्च बहुभिर्वृतः।
22सैन्येन महता शौरिरभिगुप्तः परंतपः॥ तत्र दानपतिर्धीमानाजगाम महायशाः। अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः॥ अनाधृष्टिर्महातेजा उद्धवश्च महायशाः।
23साक्षाद् बृहस्पतेः शिष्यो महाबुद्धिर्महामनाः॥ सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः।
24प्रद्युम्नश्चैव साम्बश्च निशद्दः शरुरेव च॥ चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च। सारणश्च महाबाहुर्गदश्च विदुषां वरः॥
25एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा। आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु॥
26ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम्। प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत् तदा॥
27ताभ्यां प्रतिगृहीतं तु वृष्णिचक्रं महर्द्धिमत्। विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम्॥
28सम्मृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम्। चन्दनस्य रसैः शीतैः पुण्यगन्धैनिषेवितम्॥
29दह्यतागुरुणा चैव देशे देशे सुगन्धिना। हृष्टपुष्टजनाकीर्णं वणिम्भिरुपशोभितम्॥
30प्रतिपेदे महाबाहुः सह रामेण केशवः। वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः॥ सम्पूज्यमानः पौरेश्च ब्राह्मणैश्च सहस्रशः। विवेश भवनं राज्ञः पुरन्दरगृहोपमम्॥
31युधिष्ठिरस्तु रामेण समागच्छद् यथाविधि। मूर्षि केशवमाघ्राय बाहुभ्यां परिषस्वजे॥
32तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन्। भीमं च पुरुषव्याघ्रं विधिवत् प्रत्यपूजयत्॥
33तांश्च वृष्ण्यन्धक श्रेष्ठान् कुन्तीपुत्रो युधिष्ठिरः। प्रतिजग्राह सत्कारैर्यथाविधि यथागतम्॥
34गुरुवत् पूजयामास कांश्चित् कांश्चिद् वयस्यवत्। कांश्चिदभ्यवदत् प्रेम्णा कैश्चिदप्यभिवादितः॥
35तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम्। हरणं वै सुभद्राया ज्ञातिदेयं महायशाः॥
36रथानां काञ्चनाङ्गानां किरूिणीजालमालिनाम्। चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः॥
37सहस्रं प्रददौ कृष्णो गवामयुतमेव च। श्रीमान् माधुर देश्यानां दोग्ध्रीणां पुण्यवर्चसाम्॥
38वडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम्। ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम्॥
39तथैवाश्वतरीणां च दान्तानां वातरंहसाम्। शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च॥
40स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम्। स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम्॥ सुवर्णशतकण्द्दीनामरोमाणां स्वलंकृताम्। परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः॥
41पृष्ठ्यनामपि चाश्वानां बालिकानां जनार्दनः। ददौ शतसहस्राख्यं कन्याधनमुत्तमम्॥
42कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः। मनुष्यभारान् दाशार्हो ददौ दश जनार्दनः॥
43गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम्। गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम्॥ क्लृप्तानां पटुघण्टानां चारूणां हेममालिनाम्। हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः॥ रामः पाणिग्रहणिकं ददौ पार्थाय लागली। प्रीयमाणो हलधरः सम्बन्धं प्रतिमानयन्॥ स महाधनरत्नौघौ वस्त्रकम्बलफेनवान्। महागजमहाग्राहः पताकाशैवलाकुलः॥
44पाण्डुसागरमाविद्धः प्रविवेश महाधनः। पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्॥ प्रतिजग्राह तत् सर्वं धर्मराजो युधिष्ठिरः। पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान्॥
45ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः। विजह्वरमरावासे नराः सुकृतिनो यथा॥
46तत्र तत्र महानादैरुत्कृष्टतलनादितैः। यथायोगं यथाप्रीति विजह्वः कुरुवृष्णयः॥
47एवमुत्तमवीर्यास्ते विहृत्य दिवसान् बहून्। पूजिताः कुरुभिर्जग्मुः पुनरवती प्रति॥
48राम पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः। रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः॥
49वासुदेवस्तु पार्थेन तत्रैव सह भारत। उवास नगरे रम्ये शक्रप्रस्थे महात्मना॥
50व्यचरद् यमुनातीरे मृगयां स महायशाः। मृगान् विध्यन् वराहांश्च रेमे सार्धं किरीटिना॥
51ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा। जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत्॥
52दीर्घबाहुं महोरस्कं वृषभाक्षमरिंदमम्। सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम्॥
53अभिश्च मन्युमांश्चैव ततस्तमरिमर्दनम्। अभिमन्युमिति प्राहुरार्जुनि पुरुषर्षभम्॥
54स सात्वत्यामतिरथः सम्बभूव धनंजयात्। मखे निर्मथनेनेव शमीगर्भाद्भुतासनः॥
55यस्मिञ्जाते महातेजाः कुन्तीपुत्रो युधिष्ठिरः। अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च भारत॥
56दयितो वासुदेवस्य बाल्यात् प्रभृति चाभवत्। पितृणामिव सर्वेषां प्रजानामिव चन्द्रमाः॥
57जन्मप्रभृति कृष्णाश्च चक्रे तस्य क्रियाः शुभाः। स चापि ववृधे बालः शुक्लपक्षे यथा शशी॥
58चतुष्पादं दशविधं धनुर्वेदमरिंदमः। अर्जुनाद् वेद वेदज्ञः सकलं दिव्यमानुषम्॥
59विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः। क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत्॥ आगमे च प्रयोगे च चक्रे तुल्यमिवात्मना। तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः॥
60सर्वसंहननोपेतं सर्वलक्षणलक्षितम्। दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम्॥
61सिंहदष महेष्वासं मत्तमातङ्गविक्रमम्। मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम्॥
62कृष्णस्य सदृशं शौर्ये वीर्य रूपे तथाऽकृतौ। ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा॥
63पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा। लेभे पञ्च सुतान् वीराश्रेष्ठान् पञ्चाचलानिव॥
64युधिष्ठिरात् प्रतिविन्ध्यं सुतसोमं वृकोदरात्। अर्जुनाच्छुतकर्माणं शतानीकं च नाकुलिम्॥ सहदेवाच्छ्रुतसेनमेतान् पञ्च महारथान्। पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा॥
65शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम्। परप्रहरणज्ञाने प्रतिविध्यो भवत्वयम्॥
66सुते सोमसहस्रे तु सोमार्कसमतेजसम्। सुतसोमं महेष्वासं सुषुवे भीमसेनतः॥
67श्रुतं कर्म महत् कृत्वा निवृत्तेन किरीटिना। जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोऽभवत्॥
68शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः। चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम्॥
69ततस्त्वजजनत् कृष्णा नक्षत्रे वह्निदैवते। सहदेवात् सुतं तस्माच्छ्रुतसेनेति यं विदुः॥
70एकवर्षान्तरास्वेते द्रौपदेया यशस्विनः। अन्वजायन्त राजेन्द्र परस्परहितैषिणः॥
71जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च। चकार विधिवद् धौम्यस्तेषां भरतसत्तम॥
72कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः। जगृहुः सर्वमिष्वस्त्रमर्जुनाद् दिव्यमानुषम्॥
73दिव्यगर्भोपमैः पुत्रैयूंढोरस्कैर्महारथैः। अन्वितो राजशार्दूल पाण्डवा मुदमाप्नुवन्॥
अंग्रेज़ी
1Vaishampayana said : When the powerful Vrishnis all began to speak in this strain, then Vasudeva (Krishna) spoke these words of deep import and true morality.
2Gudakesha (Arjuna) has not insulted our family by what he has done. There is no doubt he has enhanced our glory.
3Partha knows that we are never mercenary. The Pandava (Arjuna) also regards Svyaimvara as doubtful in its results.
4Who also would approved of accepting a bride in gift as if she were an animal? What man again is there on earth who would sell his offsprings?
5I think the son of Kunti (Arjuna) saw these faults in all other methods, therefore the Pandava took the maiden away by force according to ordinance.
6This alliance is very proper. Subhadra is an illustrious girl and so is Partha. Thinking all this, he has taken her away by force. a
7Who is there that would not desire to have Arjuna as a friend? He is born in the race of Bharata and the illustrious Shantanu and he is also the son of the daughter of Kuntibhoja.
8I do not see such a man in all the worlds, even with Indra and the Rudras, who can vanquish him in battle except the three eyed deity Shiva. His car is well known; my steeds are now yoked to it. Partha as a warrior is also well known and his lightness of hand too is well known. Who shall be equal to him? Go cheerfully to Dhananjaya; stop him by conciliation and bring him back. This is my opinion.
9If Partha goes away to his city (Indraprastha) by defeating us, our fame will be destroyed. But there is no disgrace in conciliation.
10O king, having heard these words of Vasudeva, they did as he directed.
11Stopped by them, the lord Arjuna returned to Dvarka and he was then united with Subhadra in marriage.
12Having worshipped by the Vrishnis, the son of Kunti remained for a year in Dvarka, sporting there at pleasure. The lord (Arjuna) passed the last portion of his excite at Pushkara. When twelve years were thus complete, he came back of Khandavaprastha.
13He went to Yudhishthira and worshipped him first; he then worshipped the Brahmanas and at last he went to Draupadi.
14Draupadi, out of jealousy, thus spoke to that descendant of Kuru, Arjuna, “O son of Kunti, go there where the daughter of the Satvata race is.
15A second always relaxes the first one, however strong it might be.” Thus Krishna (Draupadi) lamented in various strains and Dhananjaya (Arjuna) comforted her, asking again and again her forgiveness. Coming to Subhadra attired in red silk, Partha sent her (into the inner apartments) dressed in the grab of a cow-herd women. The illustrious lady looked handsome even in that dress.
16Arriving at that best of houses, that wife of a hero, the best of women, the illustrious Bhadra (Subhadra) of large and radish eyes worshipped Pritha.
17Out of excessive affection Kunti sinelt the head of that maiden of perfectly charming features and she then pronounced infinite blessings upon her.
18Then that damsel of the face like the full moon, Bhadra, soon went to Draupadi and worshipped her saying, "I am your maid."
19Krishna hastily rose and embraced the sister of Madhava; and out of affection she then said, “Let you husband be without a rival."
20Bhadra then with a delightful heart said to her, “But it so." O Janamejaya, from that time, those great car-warriors the Pandavas, lived happily and Kunti also became vary happy. Having heard that the best of the Pandavas Arjuna, had reached that excellent city, Indraprastha, the lotus-eyed and pure-souled Keshava (Krishna) came there with Rama (Baladeva),
21And the other heroes and great carwarriors of the Vrishni and the Andhaka races and his brothers and sons and many other warriors.
22That chastiser of foes, Shauri, came with a large army and there also came that chastiser of foes, that exceedingly liberal, greatly intelligent and illustrious commander-in-chief of the Vrishni heroes, Akrura. (There also came) the greatly illustrious Uddhava.
23Who was a man of great soul and great intelligence, like a disciple of Brihaspati himself. (There also came) Satyaka and Satyaki and Kritavarmana and Satvata,
24Pradyumna, Samba, Nishatha and Shanku, Chandrasena, the greatly powerful Jhilli, Vipritha, the mighty armed Sarana the foremost of all learned men Gada.
25These and many other Vrishni, Bhojas and Andhakas came to Indraprastha, bringing with them many bridal presents.
26Hearing that Madhava (Krishna) had come, the king Yudhishthira sent the twins (Nakula and Sahadeva) to receive him.
27Having been welcomed by them, the Vrishni heroes of great prosperity entered Khandavaprastha which was well-adorned with flags and standards.
28The street were well-swept and waters; they were adorned with floral wreathes and bunches, sprinkled over with cooling and fragrant Sandal-wood-water.
29Every part of the town was full of the sweet scent of burning aloes. The whole city was full of happy and healthy people and adorned with traders and merchants.
30That best of men, the mighty-armed Keshava (Krishna) with Rama and many of the Vrishni, Bhoja and Andhaka races entered the town and was worshipped by thousands of citizens and Brahmanas. He then entered the king's palace which was like the palace of Indra hiinself.
31Yudhishthira received Rama with all due ceremonies and the king embraced Keshava with both his arms ad smelt his head.
32Being much pleased with the reception, Govinda (Krishna) worshipped him (Yudhishthira) with all humility. He duly worshipped that best of men Bhima.
33The son of Kunti, Yudhishthira, then welcomed with all due ceremonies all the other chief men of the Vrishni and the Andhaka races.
34He worshipped some as his superiors, he welcomed others as his equals; he received some with affection and he worshipped others with reverence.
35Then the illustrious Hrishikesha (Krishna) gave much wealth to the bridge groom's party. He gave to the illustrious Subhadra all the bridal presents given to her by her relatives.
36(He gave the Pandavas) one thousand golden cars adorned with rows of bells, to each of which were yoked four steeds driven by well-trained charioteers.
37Ten thousand well complexioned kine, belonging to the country of Mathura and yielding much milk were also presented (o the Pandavas) by Krishna.
38Being very much pleased, Janardana (Krishna) gave them one thousand moon-like with golden harnesses.
39(He also gave them) one thousand mules of white colour with black manes, all possessing the speed of wind and all well trained.
40(He gave them also) one thousand of skin perfectly polished, all young and virgin, all well-attired and of excellent complexion, each wearing one hundred pieces of gold round her neck, adorned with all ornaments and wellskilled in saving at bath and at drink and in every kind of service.
41Janardana (Krishna) also gave them as an excellent dowry of the bride, hundreds of thousands of horses, brought from the country of Balhikas.
42Janardana gave her (Subhadra) as her dowry ten loads of first class gold, possessing the splendour of fire; some portions of were purified and some portions in original state.
43The wielder of plough his weapon, the lover of heroism, Rama, gave Partha as his nuptial present one thousand elephants with secretions flowing in three streams from the thrce parts of their bodies, each as large as a mountain., each irresistible in battle, each decked with coverlets. Well adorned with everringing bells and other golden ornaments and cach equipped with excellent haudhas on its back. The large number of gems and the large quantity of wealth presented by the Yadavas looked like a sea, of which the cloths and blankets were the foams, the elephants were the alligators and sharks and the flags the floating weeds.
44The sea, thus swelling into large proportions, mingled with the ocean of wealth of the Pandavas. It was filled to the brim to the great sorrow of all their foes. Dharmaraja Yudhishthira accepted all these presents and worshipped all those great warriors of the Vrishni and Andhaka raccs.
45Those illustrious of the Kuru, Vrishni and Andhaka races passed their time all in merriment and in pleasure, as do the virtuous inen in heaven (after their death).
46The Kurus and the Vrishnis sported there with joyous hearts, often shouting and clapping their hands.
47Thus passing many days in pleasure and worshipped and entertained by the Kurus, the greatly effulgent Vrishni heroes then returned to the city of Dvaravati.
48The great warriors of the Vrishni and the Andhaka races, placing Rama at their head and carrying with them all those brilliant gems presented to them by the excellent Kuru, set out (for their own city).
49O descendant of Bharata, the high-souled Vasudeva (Krishna however) remained with Arjuna in the charming city of Indraprastha.
50That greatly illustrious hero roamed along the banks of Yamuna in search of deer. he sported and hunted with Kiriti (Arjuna), piercing deer and wild boars with his arrows.
51Then Subhadra, the beloved sister of Krishna, gave birth to an illustrious son, like Pauloma's daughter (Sachi) giving birth to Jayanta (son of Indra).
52He was of long arms, broad chest and bulllike eyes; that chastiser of focs, that best of men, that hero, the son of Subhadra, was named Abhimanyu.
53That best of the Bharata race, that chastiser of foes, that son of Arjuna, was called Abhimanyu, because he was fearless and wrathful.
54That great hero was begotten by Dhananjaya on the maiden of the Satvata race, like fire produced by rubbing in a sacrifice from within the Sami wood.
55O descendant of Bharata on the birth of this child the powerful son of Kunti, Yudhishthira, gave away to the Brahmanas ten thousand kine and many thousand gold coins.
56The child became a favourite of Vasudeva from his earliest years and of his father and uncles. He shone like the moon become and the favourite of all the people.
57Krishna performed all the usual rites of infancy on his birth. The child began to grow up like the moon in the white fortnight.
58That chastiser of foes learnt from Arjuna the science of arms with its four branches and ten divisions, both human and celestials; and he also became in the Vedas.
59That powerful boy (Abhimanyu) became equal to his father in counteracting the weapons hurled upon him, in great lightness of hands, in fleetness of inotion, forward and backward and in traversing and wheeling. Seeing his son, the son of Subhadra, (so skillful in arms), Dhananjaya became exceedingly happy.
60He possessed the power of crushing all his enemies-he had every auspicious mark on his body; he was invincible in battle and as broad shouldered as a bull; he had a face like that of a snake,
61He was as proud as the lion, he was a great powerful as a mad elephant. His voice was like that of the roars of clouds and his face was like that of the full moon.
62He was equal to Krishna in bravery, in energy, in beauty and in features. Vivatsu (Arjuna) saw his son as if he was Maghavata himself.
63The auspicious Panchala princess also obtained five heroic, excellent and mountainsons from the five Pandavas.
64Prativindhya begotten by Yudhishthira, Sutasoma by Vrikodara, Shrutakarmana by Arjuna, Shatanika by Nakula and Shrutasena by Sahadeva; they were all great car-warriors. The Panchala princess gave birth to these five heroes, as Aditi gave birth to the Adityas.
65The Brahmanas from their for-knowledge said to Yudhishthira, that because that son of his would be capable of bring like the Vindhya mountains the weapons of the foe, he should be called Prativindhyas. was
66Because the child that Draupadi bore to Bhimsena was born after Bhima had performed one thousand Soma sacrifices, he should be called the great bow-man Sutasoma.
67Because Arjuna's son was born on his relurn from exile during which he had achieved many celebrated feats, that child came to be called Shrutakarma.
68Nakula's son was named Shatanika after a royal sage of that name in the illustrious race of Kuru.
69And because the son, Draupadi bore to Sahadeva, was born under the constellation, called Vahni Daivata, therefore he was called after the commander-in-chief of the celestials ariny, Shrutasena.
70The sons of Draupadi were all born each at the interval of year. all of them became renowned and was much attached to one another.
71O king, all their rites of infancy and childhood according to the ordinance, such as Chudakarana and Upanayana, were duly performed by Dhaumya.
72After having studied the Vedas, those princes of excellent behaviour and vow learnt from Arjuna the use of all the weapons, both celestials and human.
73O best of kings, having obtained sons, all of whom were celestials, all of whom possessed broad chests and all whom became great warriors, the Pandavas became exceedingly happy.
हिन्दी
1वैशम्पायन ने कहा — जब समस्त पराक्रमी वृष्णि इस प्रकार कहने लगे, तब वासुदेव (कृष्ण) ने गम्भीर अर्थ और यथार्थ धर्म से युक्त ये वचन कहे।
2गुडाकेश (अर्जुन) ने जो किया है, उससे उन्होंने हमारे कुल का अपमान नहीं किया है। इसमें सन्देह नहीं कि उन्होंने हमारे यश को बढ़ाया ही है।
3पार्थ जानते हैं कि हम कभी धनलोभी नहीं हैं। पाण्डव (अर्जुन) भी स्वयंवर को उसके परिणाम में सन्दिग्ध मानते हैं।
4और कौन इस बात का अनुमोदन करेगा कि कन्या को पशु के समान दान में स्वीकार किया जाए? पृथ्वी पर फिर ऐसा कौन मनुष्य है जो अपनी सन्तान को बेचेगा?
5मेरा विचार है कि कुन्ती के पुत्र (अर्जुन) ने अन्य समस्त विधियों में ये दोष देखे, इसीलिए उन पाण्डव ने शास्त्र-विधान के अनुसार कन्या का बलपूर्वक हरण किया।
6यह सम्बन्ध सर्वथा उचित है। सुभद्रा यशस्विनी कन्या है और पार्थ भी वैसे ही हैं। यह सब सोचकर ही उन्होंने उसे बलपूर्वक हर लिया है।
7ऐसा कौन है जो अर्जुन को मित्र रूप में पाना न चाहेगा? वे भरत और यशस्वी शन्तनु के वंश में उत्पन्न हैं और वे कुन्तिभोज की पुत्री के भी पुत्र हैं।
8इन्द्र और रुद्रों सहित समस्त लोकों में भी मैं ऐसा कोई पुरुष नहीं देखता जो त्रिनेत्रधारी देव शिव के अतिरिक्त उन्हें युद्ध में पराजित कर सके। उनका रथ विख्यात है; उसमें अब मेरे ही अश्व जुते हुए हैं। योद्धा के रूप में पार्थ भी विख्यात हैं और उनके हाथों की फुर्ती भी विख्यात है। उनकी समता कौन करेगा? प्रसन्न मन से धनंजय के पास जाओ; सामनीति से उन्हें रोको और लौटा लाओ। यही मेरा मत है।
9यदि पार्थ हमें पराजित करके अपने नगर (इन्द्रप्रस्थ) चले जाएँ, तो हमारा यश नष्ट हो जाएगा। किन्तु सामनीति में कोई अपयश नहीं है।
10हे राजन्, वासुदेव के ये वचन सुनकर उन्होंने वैसा ही किया जैसा उन्होंने निर्देश दिया।
11उनके द्वारा रोके जाने पर स्वामी अर्जुन द्वारका लौट आए और तब सुभद्रा के साथ उनका विवाह-सम्बन्ध हुआ।
12वृष्णियों द्वारा पूजित होकर कुन्ती के पुत्र एक वर्ष तक द्वारका में रहे और वहाँ इच्छानुसार क्रीड़ा करते रहे। उन स्वामी (अर्जुन) ने अपने प्रवास का अन्तिम भाग पुष्कर में बिताया। इस प्रकार जब बारह वर्ष पूरे हुए, तब वे खाण्डवप्रस्थ लौट आए।
13वे युधिष्ठिर के पास गए और सर्वप्रथम उनकी पूजा की; फिर उन्होंने ब्राह्मणों की पूजा की और अन्त में वे द्रौपदी के पास गए।
14द्रौपदी ने ईर्ष्यावश कुरुवंशी अर्जुन से इस प्रकार कहा — "हे कुन्तीपुत्र, वहीं जाइए जहाँ सात्वत वंश की कन्या है।
15दूसरी गाँठ पहली को सदा ढीला कर देती है, चाहे वह कितनी ही दृढ़ क्यों न हो।" इस प्रकार कृष्णा (द्रौपदी) ने अनेक प्रकार से विलाप किया और धनंजय (अर्जुन) ने बार-बार क्षमा माँगते हुए उन्हें सान्त्वना दी। लाल रेशमी वस्त्र पहने सुभद्रा के पास आकर पार्थ ने उसे ग्वालिनी के वेश में सजाकर (अन्तःपुर में) भेजा। उस यशस्विनी देवी ने उस वेश में भी सुन्दर लगीं।
16उस श्रेष्ठ भवन में पहुँचकर उस वीर की पत्नी, स्त्रियों में श्रेष्ठ, विशाल और रक्तवर्ण नेत्रों वाली यशस्विनी भद्रा (सुभद्रा) ने पृथा की पूजा की।
17अत्यधिक स्नेह के कारण कुन्ती ने अत्यन्त मनोहर अंगों वाली उस कन्या का मस्तक सूँघा और फिर उसे अनन्त आशीर्वाद दिए।
18तब पूर्ण चन्द्रमा के समान मुख वाली वह भद्रा शीघ्र ही द्रौपदी के पास गई और "मैं आपकी दासी हूँ" यह कहकर उनकी पूजा की।
19कृष्णा शीघ्र उठीं और उन्होंने माधव की बहन का आलिंगन किया; और स्नेहवश तब उन्होंने कहा — "तुम्हारा पति निष्प्रतिद्वन्द्वी हो।"
20तब भद्रा ने प्रसन्न हृदय से उनसे कहा — "ऐसा ही हो।" हे जनमेजय, उस समय से वे महारथी पाण्डव सुखपूर्वक रहने लगे और कुन्ती भी अत्यन्त प्रसन्न हुईं। यह सुनकर कि पाण्डवश्रेष्ठ अर्जुन उस उत्तम नगरी इन्द्रप्रस्थ पहुँच गए हैं, कमलनयन और पवित्रात्मा केशव (कृष्ण) राम (बलदेव) के साथ वहाँ आए,
21तथा वृष्णि और अन्धक वंशों के अन्य वीर और महारथी और उनके भाई और पुत्र तथा अन्य अनेक योद्धा भी आए।
22वे शत्रुदमन शौरि विशाल सेना के साथ आए और वहाँ शत्रुदमन, अत्यन्त उदार, महाबुद्धिमान् तथा यशस्वी वृष्णि वीरों के सेनापति अक्रूर भी आए। (वहाँ) परम यशस्वी उद्धव भी आए।
23जो महात्मा और महाबुद्धिमान् थे, मानो स्वयं बृहस्पति के शिष्य हों। (वहाँ) सत्यक और सात्यकि तथा कृतवर्मा और सात्वत भी आए,
24प्रद्युम्न, साम्ब, निशठ और शङ्कु, चन्द्रसेन, महाबली झिल्ली, विपृथु, महाबाहु सारण और समस्त विद्वानों में अग्रगण्य गद।
25ये और अन्य अनेक वृष्णि, भोज तथा अन्धक अपने साथ बहुत से विवाह-उपहार लेकर इन्द्रप्रस्थ आए।
26माधव (कृष्ण) के आने का समाचार सुनकर राजा युधिष्ठिर ने उनकी अगवानी के लिए जुड़वाँ भाइयों (नकुल और सहदेव) को भेजा।
27उनके द्वारा स्वागत किए जाने पर परम समृद्धिशाली वृष्णि वीरों ने ध्वजाओं और पताकाओं से भलीभाँति सजे खाण्डवप्रस्थ में प्रवेश किया।
28वीथियाँ भलीभाँति बुहारी और सींची गई थीं; वे पुष्पमालाओं और गुच्छों से अलंकृत थीं और उन पर शीतल तथा सुगन्धित चन्दन-जल छिड़का गया था।
29नगर का प्रत्येक भाग जलते अगुरु की मधुर सुगन्ध से भरा था। समस्त नगरी सुखी और स्वस्थ लोगों से भरी थी और व्यापारियों तथा वणिकों से अलंकृत थी।
30वे नरश्रेष्ठ, महाबाहु केशव (कृष्ण) राम तथा वृष्णि, भोज और अन्धक वंशों के अनेक जनों सहित नगर में प्रविष्ट हुए और सहस्रों नागरिकों तथा ब्राह्मणों द्वारा पूजित हुए। फिर उन्होंने राजा के उस प्रासाद में प्रवेश किया जो स्वयं इन्द्र के प्रासाद के समान था।
31युधिष्ठिर ने समस्त उचित विधियों के साथ राम का स्वागत किया और राजा ने दोनों भुजाओं से केशव का आलिंगन करके उनका मस्तक सूँघा।
32उस स्वागत से अत्यन्त प्रसन्न होकर गोविन्द (कृष्ण) ने पूर्ण विनय के साथ उनकी (युधिष्ठिर की) पूजा की। उन्होंने नरश्रेष्ठ भीम की भी विधिपूर्वक पूजा की।
33तब कुन्ती के पुत्र युधिष्ठिर ने वृष्णि और अन्धक वंशों के अन्य समस्त प्रमुख पुरुषों का समस्त उचित विधियों के साथ स्वागत किया।
34किन्हीं की उन्होंने अपने से बड़ों के रूप में पूजा की, किन्हीं का अपने समकक्षों के रूप में स्वागत किया; किन्हीं को उन्होंने स्नेह से ग्रहण किया और किन्हीं की श्रद्धापूर्वक पूजा की।
35तब यशस्वी हृषीकेश (कृष्ण) ने वर पक्ष को प्रचुर धन दिया। उन्होंने यशस्विनी सुभद्रा को उसके सम्बन्धियों द्वारा दिए गए समस्त विवाह-उपहार दिए।
36(उन्होंने पाण्डवों को) घण्टियों की पंक्तियों से अलंकृत एक सहस्र स्वर्णमय रथ दिए, जिनमें से प्रत्येक में सुशिक्षित सारथियों द्वारा हाँके जाने वाले चार-चार अश्व जुते हुए थे।
37कृष्ण ने (पाण्डवों को) मथुरा देश की, सुन्दर वर्ण वाली और प्रचुर दूध देने वाली दस सहस्र गौएँ भी भेंट कीं।
38अत्यन्त प्रसन्न होकर जनार्दन (कृष्ण) ने उन्हें स्वर्णमय साज-सज्जा से युक्त एक सहस्र चन्द्रमा के समान (श्वेत अश्व) दिए।
39(उन्होंने उन्हें) काली अयालों वाले श्वेत रंग के एक सहस्र खच्चर भी दिए, जो सब वायु के समान वेग वाले और सब भलीभाँति सधे हुए थे।
40(उन्होंने उन्हें) एक सहस्र ऐसी दासियाँ भी दीं जिनकी त्वचा पूर्णतः निर्मल थी, जो सब तरुणी और कुमारी थीं, सब सुवेशा और उत्तम वर्ण वाली थीं, प्रत्येक अपने गले में सौ स्वर्णमुद्राएँ धारण किए हुए, समस्त आभूषणों से अलंकृत तथा स्नान और पान के समय की सेवा में और हर प्रकार की परिचर्या में सुनिपुण थीं।
41जनार्दन (कृष्ण) ने उन्हें वधू के उत्तम दहेज के रूप में बाह्लीक देश से लाए गए लाखों अश्व भी दिए।
42जनार्दन ने उसे (सुभद्रा को) दहेज में अग्नि की कान्ति वाला प्रथम श्रेणी का दस भार सोना दिया; उसका कुछ भाग परिष्कृत था और कुछ भाग मूल अवस्था में।
43हल को अपना अस्त्र बनाने वाले, शौर्य के प्रेमी राम ने पार्थ को विवाह-उपहार के रूप में एक सहस्र हाथी दिए, जिनके शरीर के तीन अंगों से तीन धाराओं में मद बह रहा था, प्रत्येक पर्वत के समान विशाल, प्रत्येक युद्ध में अजेय, प्रत्येक झूलों से सुसज्जित, सदा बजती रहने वाली घण्टियों और अन्य स्वर्णाभूषणों से भलीभाँति अलंकृत तथा प्रत्येक की पीठ पर उत्तम हौदा कसा हुआ। यादवों द्वारा भेंट किए गए रत्नों की विशाल राशि और धन की विपुल मात्रा एक समुद्र के समान दिखाई देती थी, जिसमें वस्त्र और कम्बल फेन थे, हाथी घड़ियाल और शार्क थे और ध्वजाएँ तैरती हुई शैवाल।
44इस प्रकार विशाल रूप धारण करता हुआ वह समुद्र पाण्डवों के धन के महासागर में जा मिला। वह अपने समस्त शत्रुओं के महान् शोक के लिए कगार तक भर गया। धर्मराज युधिष्ठिर ने ये समस्त उपहार स्वीकार किए और वृष्णि तथा अन्धक वंशों के उन सब महान् योद्धाओं की पूजा की।
45कुरु, वृष्णि और अन्धक वंशों के वे यशस्वी पुरुष अपना समय पूर्ण आनन्द और सुख में बिताने लगे, जैसे पुण्यात्मा पुरुष (मृत्यु के पश्चात्) स्वर्ग में बिताते हैं।
46कुरु और वृष्णि वहाँ प्रसन्न हृदय से क्रीड़ा करते रहे, बार-बार हर्षनाद करते और तालियाँ बजाते हुए।
47इस प्रकार अनेक दिन सुख में बिताकर तथा कुरुओं द्वारा पूजित और सत्कृत होकर वे परम तेजस्वी वृष्णि वीर द्वारावती नगरी लौट गए।
48वृष्णि और अन्धक वंशों के महान् योद्धा राम को आगे करके और श्रेष्ठ कुरुओं द्वारा उन्हें भेंट किए गए वे समस्त उज्ज्वल रत्न साथ लेकर (अपने नगर के लिए) चल पड़े।
49हे भरतवंशी, किन्तु महात्मा वासुदेव (कृष्ण) अर्जुन के साथ मनोहर नगरी इन्द्रप्रस्थ में ही रह गए।
50वे परम यशस्वी वीर मृगों की खोज में यमुना के तटों पर विचरते रहे। वे किरीटी (अर्जुन) के साथ क्रीड़ा और आखेट करते तथा अपने बाणों से मृगों और वन्य शूकरों को बींधते रहे।
51तब कृष्ण की प्रिय बहन सुभद्रा ने एक यशस्वी पुत्र को जन्म दिया, जैसे पुलोमा की पुत्री (शची) ने जयन्त (इन्द्र के पुत्र) को जन्म दिया था।
52वह लम्बी भुजाओं, विशाल वक्ष और वृषभ के समान नेत्रों वाला था; वह शत्रुदमन, वह नरश्रेष्ठ, वह वीर, सुभद्रा का पुत्र, अभिमन्यु कहलाया।
53भरतवंश के उस श्रेष्ठ पुरुष, उस शत्रुदमन, अर्जुन के उस पुत्र को अभिमन्यु कहा गया, क्योंकि वह निर्भय और क्रोधी था।
54वह महावीर धनंजय द्वारा सात्वत वंश की उस कन्या में उत्पन्न किया गया, जैसे यज्ञ में शमी काष्ठ के भीतर से मन्थन द्वारा अग्नि उत्पन्न की जाती है।
55हे भरतवंशी, इस बालक के जन्म पर कुन्ती के पराक्रमी पुत्र युधिष्ठिर ने ब्राह्मणों को दस सहस्र गौएँ और अनेक सहस्र स्वर्णमुद्राएँ दान कीं।
56वह बालक अपने आरम्भिक वर्षों से ही वासुदेव का तथा अपने पिता और चाचाओं का प्रिय बन गया। वह चन्द्रमा के समान शोभित हुआ और समस्त प्रजा का प्रिय हो गया।
57कृष्ण ने उसके जन्म पर शैशव के समस्त प्रचलित संस्कार सम्पन्न किए। वह बालक शुक्ल पक्ष के चन्द्रमा के समान बढ़ने लगा।
58उस शत्रुदमन ने अर्जुन से चार शाखाओं और दस विभागों वाली धनुर्विद्या मानवी तथा दिव्य दोनों रूपों में सीखी; और वह वेदों में भी पारंगत हुआ।
59वह बलशाली बालक (अभिमन्यु) अपने ऊपर छोड़े गए अस्त्रों को निष्फल करने में, हाथों की महान् फुर्ती में, आगे-पीछे की गति की तीव्रता में तथा तिरछे चलने और चक्कर काटने में अपने पिता के समान हो गया। अपने पुत्र, सुभद्रा के पुत्र को (अस्त्रों में इतना निपुण) देखकर धनंजय अत्यन्त प्रसन्न हुए।
60उसमें अपने समस्त शत्रुओं को कुचल देने की शक्ति थी — उसके शरीर पर प्रत्येक शुभ लक्षण था; वह युद्ध में अजेय था और वृषभ के समान चौड़े कन्धों वाला था; उसका मुख सर्प के मुख के समान था,
61वह सिंह के समान गर्वित था और मत्त हाथी के समान महाबली था। उसका स्वर मेघों की गर्जना के समान था और उसका मुख पूर्ण चन्द्रमा के समान।
62वह शौर्य में, तेज में, सौन्दर्य में और अंगों में कृष्ण के समान था। विवत्सु (अर्जुन) ने अपने पुत्र को ऐसे देखा मानो वह स्वयं मघवा (इन्द्र) हो।
63उन कल्याणी पाञ्चाल राजकुमारी ने भी पाँचों पाण्डवों से पाँच वीर, श्रेष्ठ और पर्वत के समान (दृढ़) पुत्र प्राप्त किए।
64युधिष्ठिर से उत्पन्न प्रतिविन्ध्य, वृकोदर से सुतसोम, अर्जुन से श्रुतकर्मा, नकुल से शतानीक और सहदेव से श्रुतसेन; वे सब महारथी थे। पाञ्चाल राजकुमारी ने इन पाँच वीरों को जन्म दिया, जैसे अदिति ने आदित्यों को जन्म दिया था।
65ब्राह्मणों ने अपने पूर्वज्ञान से युधिष्ठिर से कहा कि उनका वह पुत्र शत्रु के अस्त्रों को विन्ध्य पर्वत के समान सहन करने में समर्थ होगा, इसलिए उसे प्रतिविन्ध्य कहा जाए।
66द्रौपदी ने भीमसेन से जो पुत्र उत्पन्न किया वह भीम द्वारा एक सहस्र सोमयज्ञ सम्पन्न करने के पश्चात् जन्मा, इसलिए उसे महाधनुर्धर सुतसोम कहा जाए।
67अर्जुन का पुत्र उस प्रवास से लौटने पर जन्मा जिसमें उन्होंने अनेक विख्यात कार्य किए थे, इसलिए वह बालक श्रुतकर्मा कहलाया।
68नकुल के पुत्र का नाम यशस्वी कुरुवंश के उसी नाम वाले एक राजर्षि के अनुसार शतानीक रखा गया।
69और द्रौपदी ने सहदेव से जो पुत्र उत्पन्न किया वह वह्नि-दैवत नामक नक्षत्र में जन्मा था, इसलिए उसका नाम देवसेना के सेनापति के नाम पर श्रुतसेन रखा गया।
70द्रौपदी के पुत्र सब एक-एक वर्ष के अन्तर से जन्मे। वे सब विख्यात हुए और परस्पर अत्यन्त स्नेह रखते थे।
71हे राजन्, उन सबके शैशव और बाल्यकाल के समस्त संस्कार, जैसे चूड़ाकरण और उपनयन, धौम्य ने विधिपूर्वक सम्पन्न किए।
72वेदों का अध्ययन कर लेने के पश्चात् उत्तम आचरण और व्रत वाले उन राजकुमारों ने अर्जुन से समस्त अस्त्रों का — दिव्य और मानवी दोनों का — प्रयोग सीखा।
73हे राजाओं में श्रेष्ठ, ऐसे पुत्र प्राप्त करके, जिनमें से प्रत्येक देवतुल्य था, प्रत्येक विशाल वक्ष वाला था और प्रत्येक महान् योद्धा बना, पाण्डव अत्यन्त प्रसन्न हुए।
नेपाली
1वैशम्पायनले भने — जब सम्पूर्ण पराक्रमी वृष्णिहरू यसरी भन्न थाले, तब वासुदेव (कृष्ण)ले गम्भीर अर्थ र यथार्थ धर्मले युक्त यी वचन भने।
2गुडाकेश (अर्जुन)ले जे गरेका छन्, त्यसबाट उनले हाम्रो कुलको अपमान गरेका छैनन्। यसमा शङ्का छैन कि उनले हाम्रो यश बढाएकै छन्।
3पार्थ जान्दछन् कि हामी कहिल्यै धनलोभी होइनौँ। पाण्डव (अर्जुन)ले पनि स्वयंवरलाई त्यसको परिणाममा सन्दिग्ध मान्दछन्।
4अनि कसले यो कुराको अनुमोदन गर्ला कि कन्यालाई पशुजस्तै दानमा स्वीकार गरियोस्? पृथ्वीमा फेरि त्यस्तो कुन मानिस छ जसले आफ्नो सन्तान बेच्ला?
5मेरो विचार छ कि कुन्तीका पुत्र (अर्जुन)ले अन्य सम्पूर्ण विधिमा यी दोष देखे, त्यसैले ती पाण्डवले शास्त्रविधानअनुसार कन्याको बलपूर्वक हरण गरे।
6यो सम्बन्ध सर्वथा उचित छ। सुभद्रा यशस्विनी कन्या हुन् र पार्थ पनि त्यस्तै छन्। यो सबै सोचेरै उनले उनलाई बलपूर्वक हरण गरेका हुन्।
7त्यस्तो को छ जसले अर्जुनलाई मित्रका रूपमा पाउन नचाहोस्? उनी भरत र यशस्वी शन्तनुको वंशमा उत्पन्न छन् र उनी कुन्तिभोजकी पुत्रीका पनि पुत्र हुन्।
8इन्द्र र रुद्रहरूसहित सम्पूर्ण लोकमा पनि म त्यस्तो कुनै पुरुष देख्दिनँ जसले त्रिनेत्रधारी देव शिवबाहेक उनलाई युद्धमा पराजित गर्न सकोस्। उनको रथ विख्यात छ; त्यसमा अहिले मेरै अश्व जोतिएका छन्। योद्धाका रूपमा पार्थ पनि विख्यात छन् र उनका हातको फुर्ती पनि विख्यात छ। उनको बराबरी कसले गर्ला? प्रसन्न मनले धनञ्जयकहाँ जाऊ; सामनीतिले उनलाई रोक र फर्काएर ल्याऊ। यही मेरो मत हो।
9यदि पार्थ हामीलाई पराजित गरेर आफ्नो नगर (इन्द्रप्रस्थ) गए भने, हाम्रो यश नष्ट हुनेछ। तर सामनीतिमा कुनै अपयश छैन।
10हे राजन्, वासुदेवका यी वचन सुनेर उनीहरूले त्यस्तै गरे जस्तो उनले निर्देश दिएका थिए।
11तिनीहरूद्वारा रोकिएपछि स्वामी अर्जुन द्वारका फर्किए र तब सुभद्रासँग उनको विवाह-सम्बन्ध भयो।
12वृष्णिहरूद्वारा पूजित भई कुन्तीका पुत्र एक वर्षसम्म द्वारकामा रहे र त्यहाँ इच्छाअनुसार क्रीडा गरिरहे। ती स्वामी (अर्जुन)ले आफ्नो प्रवासको अन्तिम भाग पुष्करमा बिताए। यसरी जब बाह्र वर्ष पूरा भयो, तब उनी खाण्डवप्रस्थ फर्किए।
13उनी युधिष्ठिरकहाँ गए र सर्वप्रथम उनको पूजा गरे; अनि उनले ब्राह्मणहरूको पूजा गरे र अन्तमा उनी द्रौपदीकहाँ गए।
14द्रौपदीले ईर्ष्यावश कुरुवंशी अर्जुनलाई यसरी भनिन् — "हे कुन्तीपुत्र, त्यहीँ जानुहोस् जहाँ सात्वत वंशकी कन्या छिन्।
15दोस्रो गाँठोले पहिलोलाई सधैँ खुकुलो पारिदिन्छ, चाहे त्यो जति नै दृढ किन नहोस्।" यसरी कृष्णा (द्रौपदी)ले अनेक प्रकारले विलाप गरिन् र धनञ्जय (अर्जुन)ले बारम्बार क्षमा माग्दै उनलाई सान्त्वना दिए। रातो रेशमी वस्त्र लगाएकी सुभद्राकहाँ आएर पार्थले उनलाई गोठालिनीको वेशमा सजाएर (अन्तःपुरमा) पठाए। ती यशस्विनी देवी त्यस वेशमा पनि सुन्दर देखिइन्।
16त्यस श्रेष्ठ भवनमा पुगेर ती वीरकी पत्नी, स्त्रीहरूमा श्रेष्ठ, विशाल र रातो वर्णका नेत्र भएकी यशस्विनी भद्रा (सुभद्रा)ले पृथाको पूजा गरिन्।
17अत्यधिक स्नेहका कारण कुन्तीले अत्यन्त मनोहर अङ्ग भएकी ती कन्याको शिर सुँघिन् र अनि उनलाई अनन्त आशीर्वाद दिइन्।
18तब पूर्ण चन्द्रमाजस्तै मुख भएकी ती भद्रा चाँडै द्रौपदीकहाँ गइन् र "म तपाईंकी दासी हुँ" यसो भनी उनको पूजा गरिन्।
19कृष्णा तुरुन्त उठिन् र उनले माधवकी बहिनीलाई अङ्गालो हालिन्; अनि स्नेहवश उनले भनिन् — "तिम्रा पति निष्प्रतिद्वन्द्वी होऊन्।"
20तब भद्राले प्रसन्न हृदयले उनलाई भनिन् — "यस्तै होस्।" हे जनमेजय, त्यस बेलादेखि ती महारथी पाण्डवहरू सुखपूर्वक रहन थाले र कुन्ती पनि अत्यन्त प्रसन्न भइन्। यो सुनेर कि पाण्डवश्रेष्ठ अर्जुन त्यस उत्तम नगरी इन्द्रप्रस्थ पुगेका छन्, कमलनयन र पवित्रात्मा केशव (कृष्ण) राम (बलदेव)सँग त्यहाँ आए,
21तथा वृष्णि र अन्धक वंशका अन्य वीर र महारथी र उनका भाइ र पुत्र तथा अन्य अनेक योद्धा पनि आए।
22ती शत्रुदमन शौरि विशाल सेनासहित आए र त्यहाँ शत्रुदमन, अत्यन्त उदार, महाबुद्धिमान् तथा यशस्वी वृष्णि वीरहरूका सेनापति अक्रूर पनि आए। (त्यहाँ) परम यशस्वी उद्धव पनि आए।
23जो महात्मा र महाबुद्धिमान् थिए, मानौँ स्वयं बृहस्पतिका शिष्य हुन्। (त्यहाँ) सत्यक र सात्यकि तथा कृतवर्मा र सात्वत पनि आए,
24प्रद्युम्न, साम्ब, निशठ र शङ्कु, चन्द्रसेन, महाबली झिल्ली, विपृथु, महाबाहु सारण र सम्पूर्ण विद्वान्हरूमा अग्रगण्य गद।
25यी र अन्य अनेक वृष्णि, भोज तथा अन्धकहरू आफूसँग धेरै विवाह-उपहार लिएर इन्द्रप्रस्थ आए।
26माधव (कृष्ण) आएको समाचार सुनेर राजा युधिष्ठिरले उनको स्वागत गर्न जुम्ल्याहा भाइहरू (नकुल र सहदेव)लाई पठाए।
27तिनीहरूद्वारा स्वागत गरिएपछि परम समृद्धिशाली वृष्णि वीरहरूले ध्वजा र पताकाले राम्ररी सजिएको खाण्डवप्रस्थमा प्रवेश गरे।
28गल्लीहरू राम्ररी बढारिएका र सिँचिएका थिए; ती पुष्पमाला र गुच्छाले अलङ्कृत थिए र तीमाथि शीतल तथा सुगन्धित चन्दन-जल छर्किएको थियो।
29नगरको प्रत्येक भाग बलिरहेको अगुरुको मीठो सुगन्धले भरिएको थियो। सम्पूर्ण नगरी सुखी र स्वस्थ मानिसहरूले भरिएको थियो र व्यापारी तथा वणिक्हरूले अलङ्कृत थियो।
30ती नरश्रेष्ठ, महाबाहु केशव (कृष्ण) राम तथा वृष्णि, भोज र अन्धक वंशका अनेक जनसहित नगरमा प्रवेश गरे र हजारौँ नागरिक तथा ब्राह्मणद्वारा पूजित भए। अनि उनले राजाको त्यस प्रासादमा प्रवेश गरे जुन स्वयं इन्द्रको प्रासादजस्तै थियो।
31युधिष्ठिरले सम्पूर्ण उचित विधिसहित रामको स्वागत गरे र राजाले दुवै पाखुराले केशवलाई अङ्गालो हालेर उनको शिर सुँघे।
32त्यस स्वागतले अत्यन्त प्रसन्न भई गोविन्द (कृष्ण)ले पूर्ण विनयसहित उनको (युधिष्ठिरको) पूजा गरे। उनले नरश्रेष्ठ भीमको पनि विधिपूर्वक पूजा गरे।
33तब कुन्तीका पुत्र युधिष्ठिरले वृष्णि र अन्धक वंशका अन्य सम्पूर्ण प्रमुख पुरुषको सम्पूर्ण उचित विधिसहित स्वागत गरे।
34कतिपयको उनले आफूभन्दा ठूलाका रूपमा पूजा गरे, कतिपयको आफ्ना समकक्षका रूपमा स्वागत गरे; कतिपयलाई उनले स्नेहले ग्रहण गरे र कतिपयको श्रद्धापूर्वक पूजा गरे।
35तब यशस्वी हृषीकेश (कृष्ण)ले वरपक्षलाई प्रशस्त धन दिए। उनले यशस्विनी सुभद्रालाई उनका सम्बन्धीहरूद्वारा दिइएका सम्पूर्ण विवाह-उपहार दिए।
36(उनले पाण्डवहरूलाई) घण्टीका पङ्क्तिले अलङ्कृत एक हजार सुनौला रथ दिए, जसमध्ये प्रत्येकमा सुशिक्षित सारथिहरूले हाँक्ने चार-चार अश्व जोतिएका थिए।
37कृष्णले (पाण्डवहरूलाई) मथुरा देशका, सुन्दर वर्ण भएका र प्रशस्त दूध दिने दस हजार गाई पनि भेटी गरे।
38अत्यन्त प्रसन्न भई जनार्दन (कृष्ण)ले उनीहरूलाई सुनौलो साजसज्जाले युक्त एक हजार चन्द्रमाजस्तै (सेता अश्व) दिए।
39(उनले उनीहरूलाई) काला अयाल भएका सेता रङ्गका एक हजार खच्चर पनि दिए, जो सबै वायुजस्तै वेग भएका र सबै राम्ररी तालिम पाएका थिए।
40(उनले उनीहरूलाई) एक हजार यस्ता दासी पनि दिए जसको छाला पूर्णतः निर्मल थियो, जो सबै तरुणी र कुमारी थिए, सबै सुवेशा र उत्तम वर्णका थिए, प्रत्येकले आफ्नो घाँटीमा सय स्वर्णमुद्रा धारण गरेका, सम्पूर्ण गहनाले अलङ्कृत तथा स्नान र पानका बेलाको सेवामा र हरेक प्रकारको परिचर्यामा सुनिपुण थिए।
41जनार्दन (कृष्ण)ले उनीहरूलाई वधूको उत्तम दाइजोका रूपमा बाह्लीक देशबाट ल्याइएका लाखौँ अश्व पनि दिए।
42जनार्दनले उनलाई (सुभद्रालाई) दाइजोमा अग्निको कान्ति भएको प्रथम श्रेणीको दस भार सुन दिए; त्यसको केही भाग परिष्कृत थियो र केही भाग मूल अवस्थामै।
43हललाई आफ्नो अस्त्र बनाउने, शौर्यका प्रेमी रामले पार्थलाई विवाह-उपहारका रूपमा एक हजार हात्ती दिए, जसका शरीरका तीन अङ्गबाट तीन धारामा मद बगिरहेको थियो, प्रत्येक पर्वतजस्तै विशाल, प्रत्येक युद्धमा अजेय, प्रत्येक झुलले सुसज्जित, सधैँ बजिरहने घण्टी र अन्य स्वर्णाभूषणले राम्ररी अलङ्कृत तथा प्रत्येकको ढाडमा उत्तम हौदा कसिएको। यादवहरूद्वारा भेटी गरिएका रत्नको विशाल राशि र धनको विपुल मात्रा एउटा समुद्रजस्तै देखिन्थ्यो, जसमा वस्त्र र कम्बल फिँज थिए, हात्ती गोही र सार्क थिए र ध्वजाहरू पौडिरहेका सिवार।
44यसरी विशाल रूप धारण गर्दै त्यो समुद्र पाण्डवहरूका धनको महासागरमा गएर मिल्यो। त्यो आफ्ना सम्पूर्ण शत्रुका महान् शोकका लागि किनारसम्मै भरियो। धर्मराज युधिष्ठिरले यी सम्पूर्ण उपहार स्वीकार गरे र वृष्णि तथा अन्धक वंशका ती सबै महान् योद्धाको पूजा गरे।
45कुरु, वृष्णि र अन्धक वंशका ती यशस्वी पुरुषहरू आफ्नो समय पूर्ण आनन्द र सुखमा बिताउन थाले, जसरी पुण्यात्मा पुरुषहरू (मृत्युपछि) स्वर्गमा बिताउँछन्।
46कुरु र वृष्णिहरू त्यहाँ प्रसन्न हृदयले क्रीडा गरिरहे, बारम्बार हर्षनाद गर्दै र ताली बजाउँदै।
47यसरी अनेक दिन सुखमा बिताएर तथा कुरुहरूद्वारा पूजित र सत्कृत भई ती परम तेजस्वी वृष्णि वीरहरू द्वारावती नगरी फर्किए।
48वृष्णि र अन्धक वंशका महान् योद्धाहरू राम अगाडि राखेर र श्रेष्ठ कुरुहरूद्वारा उनीहरूलाई भेटी गरिएका ती सम्पूर्ण उज्ज्वल रत्न साथ लिएर (आफ्नो नगरतर्फ) हिँडे।
49हे भरतवंशी, तर महात्मा वासुदेव (कृष्ण) अर्जुनसँग मनोहर नगरी इन्द्रप्रस्थमै रहे।
50ती परम यशस्वी वीर मृगहरूको खोजीमा यमुनाका किनारमा विचरण गरिरहे। उनी किरीटी (अर्जुन)सँग क्रीडा र आखेट गर्दै तथा आफ्ना बाणले मृग र वन्य वराहलाई बिँध्दै रहे।
51तब कृष्णकी प्रिय बहिनी सुभद्राले एक यशस्वी पुत्रलाई जन्म दिइन्, जसरी पुलोमाकी पुत्री (शची)ले जयन्त (इन्द्रका पुत्र)लाई जन्म दिएकी थिइन्।
52ऊ लामा पाखुरा, विशाल छाती र साँढेजस्ता नेत्र भएको थियो; त्यो शत्रुदमन, त्यो नरश्रेष्ठ, त्यो वीर, सुभद्राको पुत्र, अभिमन्यु कहलियो।
53भरतवंशका ती श्रेष्ठ पुरुष, त्यो शत्रुदमन, अर्जुनका ती पुत्रलाई अभिमन्यु भनियो, किनभने ऊ निर्भय र क्रोधी थियो।
54त्यो महावीर धनञ्जयद्वारा सात्वत वंशकी ती कन्यामा उत्पन्न गरिएको थियो, जसरी यज्ञमा शमी काठभित्रबाट मन्थनद्वारा अग्नि उत्पन्न गरिन्छ।
55हे भरतवंशी, यस बालकको जन्ममा कुन्तीका पराक्रमी पुत्र युधिष्ठिरले ब्राह्मणहरूलाई दस हजार गाई र अनेक हजार स्वर्णमुद्रा दान गरे।
56त्यो बालक आफ्ना प्रारम्भिक वर्षदेखि नै वासुदेवको तथा आफ्ना पिता र काकाहरूको प्रिय बन्यो। ऊ चन्द्रमाजस्तै शोभित भयो र सम्पूर्ण प्रजाको प्रिय भयो।
57कृष्णले उसको जन्ममा शैशवका सम्पूर्ण प्रचलित संस्कार सम्पन्न गरे। त्यो बालक शुक्ल पक्षको चन्द्रमाजस्तै बढ्न थाल्यो।
58त्यस शत्रुदमनले अर्जुनबाट चार शाखा र दस विभाग भएको धनुर्विद्या मानवी तथा दिव्य दुवै रूपमा सिक्यो; र ऊ वेदमा पनि पारङ्गत भयो।
59त्यो बलशाली बालक (अभिमन्यु) आफूमाथि छोडिएका अस्त्रलाई निष्फल पार्नमा, हातको महान् फुर्तीमा, अगाडि-पछाडिको गतिको तीव्रतामा तथा तेर्सो हिँड्न र चक्कर काट्नमा आफ्ना पिताजस्तै भयो। आफ्ना पुत्र, सुभद्राका पुत्रलाई (अस्त्रमा यति निपुण) देखेर धनञ्जय अत्यन्त प्रसन्न भए।
60उसमा आफ्ना सम्पूर्ण शत्रुलाई कुल्चिदिने शक्ति थियो — उसको शरीरमा प्रत्येक शुभ लक्षण थियो; ऊ युद्धमा अजेय थियो र साँढेजस्तै फराकिला काँध भएको थियो; उसको मुख सर्पको मुखजस्तै थियो,
61ऊ सिंहजस्तै गर्वित थियो र मत्त हात्तीजस्तै महाबली थियो। उसको स्वर मेघको गर्जनजस्तै थियो र उसको मुख पूर्ण चन्द्रमाजस्तै।
62ऊ शौर्यमा, तेजमा, सौन्दर्यमा र अङ्गमा कृष्णजस्तै थियो। विवत्सु (अर्जुन)ले आफ्ना पुत्रलाई यसरी देखे मानौँ ऊ स्वयं मघवा (इन्द्र) हो।
63ती कल्याणी पाञ्चाल राजकुमारीले पनि पाँचै पाण्डवबाट पाँच वीर, श्रेष्ठ र पर्वतजस्तै (दृढ) पुत्र प्राप्त गरिन्।
64युधिष्ठिरबाट उत्पन्न प्रतिविन्ध्य, वृकोदरबाट सुतसोम, अर्जुनबाट श्रुतकर्मा, नकुलबाट शतानीक र सहदेवबाट श्रुतसेन; ती सबै महारथी थिए। पाञ्चाल राजकुमारीले यी पाँच वीरलाई जन्म दिइन्, जसरी अदितिले आदित्यहरूलाई जन्म दिएकी थिइन्।
65ब्राह्मणहरूले आफ्नो पूर्वज्ञानले युधिष्ठिरलाई भने कि उनको त्यो पुत्र शत्रुका अस्त्रलाई विन्ध्य पर्वतजस्तै सहन गर्न समर्थ हुनेछ, त्यसैले उसलाई प्रतिविन्ध्य भनियोस्।
66द्रौपदीले भीमसेनबाट जुन पुत्र उत्पन्न गरिन् त्यो भीमले एक हजार सोमयज्ञ सम्पन्न गरेपछि जन्मेको हुनाले उसलाई महाधनुर्धर सुतसोम भनियोस्।
67अर्जुनको पुत्र त्यस प्रवासबाट फर्केपछि जन्मेको थियो जसमा उनले अनेक विख्यात कार्य गरेका थिए, त्यसैले त्यो बालक श्रुतकर्मा कहलियो।
68नकुलका पुत्रको नाम यशस्वी कुरुवंशका सोही नाम भएका एक राजर्षिअनुसार शतानीक राखियो।
69र द्रौपदीले सहदेवबाट जुन पुत्र उत्पन्न गरिन् त्यो वह्नि-दैवत नामक नक्षत्रमा जन्मेको थियो, त्यसैले उसको नाम देवसेनाका सेनापतिको नाममा श्रुतसेन राखियो।
70द्रौपदीका पुत्रहरू सबै एक-एक वर्षको अन्तरमा जन्मे। ती सबै विख्यात भए र परस्पर अत्यन्त स्नेह राख्थे।
71हे राजन्, ती सबैका शैशव र बाल्यकालका सम्पूर्ण संस्कार, जस्तै चूडाकरण र उपनयन, धौम्यले विधिपूर्वक सम्पन्न गरे।
72वेदहरूको अध्ययन गरिसकेपछि उत्तम आचरण र व्रत भएका ती राजकुमारहरूले अर्जुनबाट सम्पूर्ण अस्त्रको — दिव्य र मानवी दुवैको — प्रयोग सिके।
73हे राजाहरूमा श्रेष्ठ, यस्ता पुत्र प्राप्त गरेर, जसमध्ये प्रत्येक देवतुल्य थियो, प्रत्येक विशाल छाती भएको थियो र प्रत्येक महान् योद्धा बन्यो, पाण्डवहरू अत्यन्त प्रसन्न भए।