चैत्ररथ पर्व — गन्धर्व के वचन
खण्ड 1 — आदि एवं सभा पर्व · अध्याय 170
संस्कृत
1वैशम्पायन उवाच गते भगवति व्यासे पाण्डवा हृष्टमानसाः। ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः॥
2आमन्त्र्य ब्राह्मणं पूर्वमभिवाद्यानुमान्य च। समैरुदडमुखैर्मागैर्यथोद्दिष्टं परंतपाः॥
3ते त्वगच्छन्नहोरात्रात् तीर्थं सोमाश्रयायणम्। आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः॥
4उल्मुकं तु समुद्यम्य तेषामग्रे धनंजयः। प्रकाशार्थं ययौ तत्र रक्षार्थं च महारथः॥
5तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः। ईर्युगन्धर्वराजो वै जलक्रीडामुपागतः॥
6शब्दं तेषां स शुश्राव नदी समुपसर्पताम्। तेन शब्देन चाविष्टश्चक्रोध बलवद् बली॥
7स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परंतपान्। विस्फारयन् धनुर्घोरमिदं वचनमब्रवीत्॥ संध्या संरज्यते घोरा पूर्वरात्रगमेषु या। अशीतिभिर्लवैीनं तन्मुहूर्तं प्रचक्षते॥
8विहितं कामचाराणां यक्षगन्धर्वरक्षसाम्। शेषमन्यन्मनुष्याणा कर्मचारेषु वै स्मृतम्॥
9लोभात् प्रचारं चरतस्तासु वेलासु वै नरान्। उपक्रान्तानि गृहणीमो राक्षसैः सह बालिशान्॥
10अतो रात्रौ प्राप्नुवन्तो जलं ब्रह्मविदो जनाः। गर्हयन्ति नरान् सर्वान् बलस्थान् नृपतीनपि॥
11आरात् तिष्ठत मा मह्यं समीपमुपसर्पत।। कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम्॥
12अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम्। अहं हि मानी चेर्युश्च कुबेरस्य प्रियः सखा॥
13अङ्गारपर्णमित्येवं ख्यातं चेदं वनं मम। अनुगङ्गं चरन् कामांश्चित्रं यत्र रमाम्यहम्॥
14न कौणपाः शृङ्गिणो वा न देवा न च मानुषाः। इदं समुपसर्पन्ति तत् किं समनुसर्पथ॥ अर्जुन उवाच समुद्रे हिमवत्पार्श्व नद्यामस्यां च दुर्मते। रात्रावहनि संध्यायां कस्य गुप्तः परिग्रहः॥
15भुक्तो वाप्यथवाभुक्तो रात्रावहनि खेचर। न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वराम्॥
16वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुम्। अशक्ता हि रणे क्रूरयुष्मानन्ति मानवाः॥
17पुरा हिमवतश्चैषा हेमशृङ्गाद् विनिस्सृता। गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यतः। १९॥
18गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम्। रथस्थां सरयूं चैव गोमती गण्डकी तथा॥
19अपर्युषितपाषास्ते नदीः सप्त पिबन्ति ये। इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः॥ देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम्।
20तथा पितृन् वैतरणी दुस्तरा पापकर्मभिः। गङ्गा भवति वै प्राप्य कृष्णद्वैपायनोऽब्रवीत्॥ असम्बाधा देवनदी स्वर्गसम्पादनी शुभा। कथमिच्छसि तां रोर्बु नैष धर्मः सनातनः॥
21अनिवार्यमसम्बाधं तव वाचा कथं वयम्। न स्पृशेम यथाकामं पुण्यं भागीरथीजलम्॥
22वैशम्पायन उवाच अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनप्य कार्मुकम्। मुमोच बाणान् निशितानहीनाशीविषानिव॥
23उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तरम्। व्यपोहत शरांस्तस्य सर्वानेव धनंजयः॥
24अर्जुन उवाच विभीषका वै गन्धर्व नास्त्रज्ञेषु प्रयुज्यते। अस्त्रज्ञेषु प्रयुक्तेयं फेनवत् प्रविलीयते॥
25मानुषानति गन्धर्वान् सर्वान् गन्धर्व लक्षये। तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया॥
26पुरास्त्रमिदमाग्नेयं प्रादात् किल बृहस्पतिः। भरद्वाजाय गन्धर्व गुरुर्मान्यः शतक्रतोः॥
27भरद्वाजादग्निवेश्यः अग्निवेश्याद् गुरुर्मम। साध्विदं मह्यमददद् द्रोणो ब्राह्मणसत्तमः॥
28वैशम्पायन उवाच इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह। प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत्॥
29विरथं विप्लुतं तं तु स गन्धर्वं महाबलः। अस्त्रतेजः प्रमूढ़ च प्रपतन्तमवाङ्मुखम्॥
30शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः। भ्रातृन् प्रति चकर्षाथ सोऽस्त्रपातादचेतसम्॥
31युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी। नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती॥
32गन्धर्युवाच त्रायस्व मां महाभाग पतिं चेमं विमुञ्च मे। गन्धर्वी शरणं प्राप्ता नाम्ना कुम्भीनसी प्रभो॥
33युधिष्ठिर उवाच युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम्। को निहन्याद् रिपुं तात मुञ्चेमं रिपुसूदन॥
34अर्जुन उवाच जीवितं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः। प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः॥
35गन्धर्व उवाच जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम्। न च श्लाघे बलेनाङ्गन नाम्ना जनसंसदि॥
36साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम्। गान्धर्व्या माययेच्छामि संयोजयितुमर्जुनम्॥
37अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः। सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम्॥
38सम्भृता चैव विद्येयं तपसेह मया पुरा। निवेदयिष्ये तामद्य प्राणदाय महात्मने॥
39संस्तम्भयित्वा तरसा जितं शरणमागतम्। यो रिपुं योजयेत् प्राणैः कल्याणं किं न सोऽर्हति॥४२
40चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः। ददौ स विश्वावसवे मम विश्वावसुर्ददौ॥
41सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति। आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे॥
42यच्चक्षुषा द्रष्टुमिच्छेत् त्रिषु लोकेषु किंचन। तत् पश्येद् यादृशं चेच्छेत् तादृशं द्रष्टुमर्हति॥
43एकपादेन षण्मासान् स्थितो विद्यां लभेदिमाम्। अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रतेऽकृते॥
44विद्यया ह्यनया राजन् वयं नृभ्यो विशेषिताः। अविशिष्टाश्च देवानामनुभावप्रदर्शिनः॥
45गन्धर्वजानामश्वानामहं पुरुषसत्तम। भ्रातृभ्यस्तव तुभ्यं च पृथग्दाता शतं शतम्॥
46देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः। क्षीणाक्षीणा भवन्त्येते न हीयन्ते च रंहसः॥
47पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणम्। दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि॥
48ततो भागीकृतो देवैर्वज्रभाग उपास्यते। लोके यशो धनं किंचित् सैव वज्रतनुः स्मृता॥
49वज्रपाणिर्ब्राह्मण: स्यात् क्षत्रं वज्ररथं स्मृतम्। वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः॥
50क्षत्रवज्रस्य भागेन अवध्या वाजिनः स्मृताः। रथाङ्ग वडवा सूते शूराश्चाश्वेषु ये मताः॥
51कामवर्णाः कामजवाः कामतः समुपस्थिताः। 'इति गन्धर्वजाः काम पूरयिष्यन्ति मे हयाः॥
52अर्जुन उवाच यदि प्रीतेन मे दत्तं संशये जीवितस्य वा। विद्याधनं श्रुतं वापि न तद् गन्धर्व रोचये॥
53गन्धर्व उवाच संयोगो वे प्रीतिकरो महत्सु प्रतिदृश्यते। जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते॥
54त्वत्तोऽप्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम्। तथा योग्यं बीभत्सो चिराय भरतर्षभ॥
55अर्जुन उवाच त्वत्तोऽस्त्रेण वृणोम्यश्वान् संयोगः शाश्वतोऽस्तु नौ सखे तद् ब्रूहि गन्धर्व युष्मभ्यो यद् भयं भवेत्।।५८।
56कारणं ब्रूहि गन्धर्व किं तद् येन स्म धर्षिताः। यान्तो वेदविदः सर्वे सन्तो रात्रावरिंदमाः॥
57गन्धर्व उवाच अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः। यूयं ततो धर्षिताः स्थ माया वै पाण्डुनन्दनाः॥
58यक्षराक्षसगन्धर्वाः पिशाचोरगदानवाः। विस्तरं कुरुवंशस्य धीमन्तः कथयन्ति ते॥
59नारदप्रभृतीनां तु देवर्षीणां मया श्रुतम्। गुणान् कथयतां वीर पूर्वेषां तव धीमताम्॥
60स्वयं चापि मया दृष्टश्चरता सागराम्बराम्। इमां वसुमती कृत्स्ना प्रभावः सुकुलस्य ते॥
61वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुना विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम्॥
62धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा। पाण्डं च कुरुशार्दूल षडेतान् कुरुवर्धनान्। पितृनेतानहं पार्थ देवमानुषसत्तमान्॥
63दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः। भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः॥ उत्तमां च मनोबुद्धिं भवतां भावितात्मनाम्। जानन्नपि च वः पार्थ कृतवानिह धर्षणाम्॥
64स्त्रीसकाशे च कौरव्य न पुमान् क्षन्तुमर्हति। धर्षणामात्मनः पश्यन् बाहुद्रविणमाश्रितः॥
65नक्तं च बलमस्माकं भूय एवाभिवर्धते। यतस्ततो मां कौन्तेय सदारं मन्युराविशत्॥
66सोऽहं त्वयेह विजित: संख्ये तापत्यवर्धन। येन तेनेह विधिना कीर्त्यमानं निबोध मे॥
67ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि। यस्मात् तस्मादहं पार्थ रणेऽस्मि विजितस्त्वया॥
68यस्तु स्यात् क्षत्रियः कश्चित् कामवृत्तः परंतप। नक्तं च युधि युध्येत न स जीवेत् कथंचन॥
69यस्तु स्यात् कामवृत्तोऽपि पार्थ ब्रह्मपुरस्कृतः। जयेन्नक्तंचरान् सर्वान् स पुरोहितधूर्गतः॥
70तस्मात् तापत्य यत्किंचिऋणां श्रेय इहेप्सितम्। तस्मिन् कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः।७४। वेदे षडङ्गे निरताः शुचयः सत्यवादिनः। धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः॥
71जयश्च नियतो राज्ञः स्वर्गश्च तदनन्तरम्। यस्य स्याद् धर्मविद् वाग्मी पुरोधाः शीलवान् शुचिः।।
72लाभं लब्धुमलब्धं वा लब्धं वा परिरक्षितुम्। पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम्॥
73पुरोहितमते तिष्ठेद् य इच्छेद् भूतिमात्मनः। प्राप्तुं वसुमती सर्वां सर्वशः सागराम्बराम्॥
74न हि केवलशौर्येण तापत्याभिजनेन च। जयेदब्राह्मणः कश्चिद् भूमि भूमिपतिः क्वचित्॥
75तस्मादेवं विजानीहि कुरूणां वंशवर्धन। ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम्॥
अंग्रेज़ी
1Vaishampayana said : When the illustrious Vyasa went away, those best of men, the Pandavas, proceeded with joyous heart, (towards Panchala) placing their mother at the head (of the procession.)
2Those chastisers of foes proceeded in a northerly direction in order to reach their destination. They walked day and night and reached (the several) Somashrama.
3Those best of men, the sons of Pandu, came to (the banks of) the Ganges. The great car-warriors Dhananjaya (Arjuna) walked before, carrying torch in his hand for showing them the way and for protecting them.
4There is the delightful waters of the Ganges was sporting in solitude the proud king of the Gandharvas (Chitraratha) with his wives.
5He heard the noise (of the footsteps of the Pandavas) approaching the river. The greatly strong (Gandharva) was inflamed with wrath by (hearing) the noise.
6Seeing there those chastisers of foes, the Pandavas, with their mother and drawing his fearful bow, he spoke thus,
7"It is known that excepting the first forty labas of the dark twilight that proceeds night, (the other portion of the night) is set apart for the Yakshas, the Gandharvas and the Rakshasas who are capable of going every where at will. The rest of the time is set apart for men.
8Therefore, if any man out of greed wander during those moments and come near us, both we, (the Gandharvas) and the Rakshasas kill those fools.
9The men learned in the Vedas disapprove (the actions of) those men, nay even of the kings at the head of their enemies who come to any lake or river at such a time.
10Stay at a distance. Do not come near me. Know you not that I am (now) bathing in the waters of the Bhagirathi.
11Know me to be the Gandharva, named Angarparna who depends only on his own strength of arms. I am proud and haughty; I am the friend of Kubera.
12This my forest on the banks of the Ganges is known by the name of Angarparna in which I sport to gratify myself.
13The Kapalikas, the Shringis or the Devas, dare not come here it appears you are human beings. How dare you (then) to approach me who is the brightest jewel in Kubera's crown?
14Arjuna said : O wretch, to whom can the ocean, the sides of the Himalayas, or this river Ganges be barred, whether at night or day or at twilight?
15O sky ranger, whether the stomach be empty or full, there is no special time to come to this foremost of all rivers, the Ganges, whether it is night or day.
16We are endued with prowess, we care not when, we disturb you. O wicked being, those men that are incapable (of fighting) worship you.
17This Ganges, issuing out of the golden peaks of the Himalayas, falls into the ocean by seven streams.
18(They are) Ganga, Yamuna, Sarasvati, Rathastha, Saraya, Gomti and Gandaki.
19Those that drink the waters of these seven rivers are cleansed of their sins. O Gandharva, this sacred Ganga, following through the celestials regions, is called there Alaknanda,
20And in the region of Pitris, it is called Vaitarani, which is not crossable by the sinners, Krishna Dvaipayana has said that this auspicious and celestials river is accessible at all times by all. Why do you wish to bar us from it? It is not consonant with the eternal virtue.
21Why should we not, disregarding your words, touch at pleasure the sacred waters of the Bhagirathi which is ever accessible to all.
22Vaishampayana said : Hearing this, Angarparna became very angry and drawing his bow he shot at them his arrows which were like the poisonous snakes.
23The Pandava Dhananjaya, who had an excellent shield, warded off all those arrows with it and with the torch in his hand.
24Arjuna said : O Gandharva, seek not to terrify those who are skilled in weapons, for weapons hurled at them vanish like froth.
25O Gandharva, I know Gandharvas are superior to men (in prowess). I shall therefore fight with you by using the celestials weapons. I shall not use delusions.
26The fire weapon that I hurl against you was formerly given by the preceptor of Indra, Brihaspati, to Bharadvaja.
27From Bharadvaja, it was obtained by Agnivaishya and from Agnivaishya by my preceptor, and that excellent Brahmana Drona gave it to mc.
28Vaishampayana said : Having said this, the Pandava (Arjuna) angrily hurled at the Gandharva that blazing fire weapon which immediately brunt his chariot.
29Having fainted away by the force of the weapon, the greatly powerful Gandharva was falling headlong downwards from his chariot,
30But Dhananjaya sized him by the hair of his head which was adorned with garlands of flowers. He dragged towards his brother that (Gandharva), insonsible in consequence of (being wounded by) the weapon.
31(Seeing this), his wife, named Kumbhinasi, being desirous of rescuing her husband, came to Yudhishthira and asked his protection.
32The Gandharvi said : O exalted one, extend your protection to me. Set my husband free. () Lord, I am a Gandharvi, named Kumbhinasi, I ask your protection.
33Yudhishthira said : O chastiser of foes, who would kill an enemy who has been vanquished in the battle, who has been deprived of his fame, who is protected by a woman and who is incapable of defending himself), O child, set him free.
34Arjuna said : O Gandharva, take your life. Go hence and do not grieve. The king of the Kurus, Yudhishthira others me today to show you mercy.
35The Gandharva said: I have been defeated by you, therefore, I shall give up my former name of Angarparna. In name only I shall not be boastful when really I am not strong in prowess like men.
36It is a great fortune to me that I have obtained a man who wields celestials weapons. I am desirous to impart to Arjuna the power of illusions of the Gandharvas.
37My excellent and beautiful chariot has been brunt by your fire weapon. I was (formerly) called Chitraratha having a beautiful chariot, I shall now be called Dagdharatha (having the chariot) burnt..
38The science (of illusion) of which I spoke to you and which I formerly obtained by asceticism will be today given by me to that illustrious man who has given me my life.
39What good fortune does he not deserve to obtain who after defeating an enemy gives him his life when he asks it from him?
40This science is called Chakshushi. It was taught by Manu to Soma. Soma taught it to Vishvavasu, Vishvavasu, taught it to me.
41Having been given by the preceptor to one who is a Kapurusha (without energy) it went to die out. I have spoken to you about its coming (origin and transmission); listen now to its prowess.
42Whatever you will desire to see by your eyes in this world and whatever its nature it will be seen by you (by the help of this science).
43One can acquire this (science) by standing on one leg for six months. I shall impart to you this science without your observing any vows.
44O king, (only) on account of this science, we have a superiority over men. Because we are capable of seeing everything (by our spiritual eyes), we are equal to the celestials.
45O excellent man, I desire to give you and your brothers, cach separately, one hundred horses born in the regions of the Gandharvas.
46They are employed in carrying the Devas and the Gandharvas; they are of the celestials colour, and they possess speed as that of the mind. They may be lean and thin in body, but they never feel tired and their speed never suffers for this reason.
47The thunder was created by Indra in the days of yore in order to kill Vitra, (but) it broke into a thousand pieces when hurled on Vitra's head.
48Thereupon the celestials worshipped those fragments of the thunder thus broken into pieces. That which is known in the world as the wealth of fame is a portion of the thunder.
49The hands of Brahmanas are (the portion of) the thunder; the chariots of the Kshatriyas are (also the portions of) the thunder. The charity of the Vaishyas are (also the portions of) the thunder and the services of the Shudras are (also the portion of) the thunder.
50The horses of the Kshatriyas being the portions of the thunder, it is said they are never to be killed. The portions of the chariots (the horses) are the offspring of Vadaba. Those amongst them that are Shuras.
51Are capable of assuming any colour at pleasure, of going any where at will and of running at its owner's will. These horses of mine born in the Gandharva region will always fullfil your desire.
52Arjuna said : O Gandharva, if you give me out of your satisfaction for obtaining life in a crisis, these horses and the wealth of science shall not accept it.
53The Gandharva said : A meeting with an illustrious person is always a matter of gratification. Besides you have given me life. Thus being pleased with you, I give the science.
54O best of the Bharata race, O Bibhatsa, so that the obligation may be not only on one side, I shall take from you your excellent and eternal fire-weapon.
55Arjuna said : O Gandharva, I shall take your horses in exchange of my weapon. Let our friendship be ever-lasting. O friend, tell me that from which the danger of ours (human beings) arises from the Gandharvas.
56O Gandharva, we are all chastisers of foes; we are all learned in the Vedas and we are all) virtuous. Tell us why we were censured by you when travelling at night.
57The Gandharva said : O sons of Pandu, you do not keep fire; you have no wives; you have no Brahmanas walking before you; therefore you were censured by me.
58The Yakshas, the Rakshasas, the Gandharvas, the Pishachas, the Uragas and the Danavas are wise and intelligent. They speak much of the Kury race.
59O hero, I have heard from Narada and other Rishis the accomplishments of your intelligent ancestors.
60While roaming over the earth attired in her ocean-cloth, I myself have seen the great prowess of your race.
61O Arjuna, I personally know your preceptor, the illustrious son of Bharadvaja (Drona), who is celebrated in the three worlds for his learning in the Vedas and the science of archery.
62O best of the Kuru race, O Partha, I know also Dharma, Vayu, Indra, Ashvinis and Pandu, these six spreaders of the Kuru race. These (six) excellent celestials and man are your fathers.
63Knowing too that you are high-souled, you are illustrious, you are the foremost of all wielders of arms, you, all brothers, are great heroes, you are virtuous and observant of vows, your understandings and hearts are excellent and your behaviour faultless, I still censured you.
64O descendant of Kuru, no man, possessing strength of arms, ought to bear with patience any ill usage before his wife.
65O son of Kunti, our strength specially increases at the time of night. As I was accompanied by my wife, I was filled with wrath.
66O best of all vow-observing men, I was vanquished by you in battle; hear from me the reasons for with I was discomfited.
67Brahmacharya is a great virtue, you are in it (leAding that mode of life). O Partha it is for this that I was defeated by you in battle.
68O chastiser of foes, if any Kshatriya, engaged in the exercise of his desire, fight with us at night, he can never escape form us with his life.
69O Partha, a Kshatriya, engaged in the exercise of his desire, may defeat all the wanderers of night (as we are), if he is sanctified by Brahma and if he assigns the cares of his state to his priest.
70O descendant of Tapati, men should, therefore, always employ learned and selfcontrolled priests for the acquisition of every good fortune that he desires (to get). That man an is fit to be the priest of kings who is engaged in the study of the Vedas and their six branches, who is pure and truthful and who is virtuousminded and self-controlled.
71That king becomes ever victorious (in this world) and obtains heaven in the next, who has a priest, who is learned in the precepts of morals, who is a master of words and who is pure and well-behaved.
72The king should always select accomplished priest who can protect what he has and acquires what he has not.
73He, who desires his own prosperity, should ever be guided by his priest; he may then acquire the whole earth attired in her oceancloth.
74O descendant of Tapati, a king, who is without a Brahmana, can never acquire any land by his bravery or nobility of birth only.
75O spreader of the Kuru race, therefore, know that the kingdoms with Brahmanas at their heads can be retained for long.
हिन्दी
1वैशम्पायन ने कहा — जब यशस्वी व्यास चले गए, तब वे नरश्रेष्ठ पाण्डव अपनी माता को आगे रखकर प्रसन्न हृदय से (पाञ्चाल की ओर) चल पड़े।
2वे शत्रुदमन अपने गन्तव्य तक पहुँचने के लिए उत्तर दिशा में चले। वे दिन-रात चलते रहे और सोमाश्रम (नामक स्थानों) में पहुँचे।
3वे नरश्रेष्ठ, पाण्डु के पुत्र, गंगा के (तट पर) आए। महारथी धनंजय (अर्जुन) उन्हें मार्ग दिखाने और उनकी रक्षा करने के लिए हाथ में मशाल लिए आगे-आगे चल रहे थे।
4वहाँ गंगा के रमणीय जल में गन्धर्वों का घमण्डी राजा (चित्ररथ) अपनी स्त्रियों के साथ एकान्त में क्रीड़ा कर रहा था।
5उसने नदी के निकट आते (पाण्डवों के पदचापों का) शब्द सुना। उस शब्द को (सुनकर) वह महाबली (गन्धर्व) क्रोध से जल उठा।
6वहाँ उन शत्रुदमन पाण्डवों को उनकी माता सहित देखकर और अपना भयंकर धनुष खींचकर उसने इस प्रकार कहा —
7"यह विदित है कि रात्रि से पूर्व की सान्ध्य बेला के प्रथम चालीस लव को छोड़कर (रात्रि का शेष भाग) यक्षों, गन्धर्वों और राक्षसों के लिए नियत है, जो इच्छानुसार सर्वत्र जाने में समर्थ हैं। शेष समय मनुष्यों के लिए नियत है।
8अतः यदि कोई मनुष्य लोभवश उन क्षणों में विचरे और हमारे निकट आ जाए, तो हम (गन्धर्व) और राक्षस, दोनों ही उन मूर्खों का वध कर देते हैं।
9वेदों के ज्ञाता पुरुष उन मनुष्यों के, वरन् अपने शत्रुओं के आगे रहने वाले राजाओं तक के (कार्यों का) अनुमोदन नहीं करते जो ऐसे समय किसी सरोवर या नदी पर आते हैं।
10दूर ही रहो। मेरे निकट मत आओ। क्या तुम नहीं जानते कि मैं (इस समय) भागीरथी के जल में स्नान कर रहा हूँ?
11मुझे अंगारपर्ण नामक गन्धर्व जानो, जो केवल अपनी भुजाओं के बल पर निर्भर रहता है। मैं गर्वीला और उद्दण्ड हूँ; मैं कुबेर का मित्र हूँ।
12गंगा के तट पर स्थित यह मेरा वन अंगारपर्ण नाम से ही जाना जाता है, जिसमें मैं अपने मनोरंजन के लिए क्रीड़ा करता हूँ।
13कापालिक, शृंगी अथवा देवता तक यहाँ आने का साहस नहीं करते; ऐसा प्रतीत होता है कि तुम मनुष्य हो। (फिर) तुम मेरे निकट आने का साहस कैसे करते हो, जो कुबेर के मुकुट का सबसे उज्ज्वल रत्न हूँ?
14अर्जुन ने कहा — हे नीच, समुद्र, हिमालय के पार्श्व अथवा यह गंगा नदी किसके लिए वर्जित हो सकते हैं, चाहे रात हो, दिन हो या सन्ध्या?
15हे आकाशचारी, पेट खाली हो या भरा, समस्त नदियों में श्रेष्ठ इस गंगा पर आने का कोई विशेष समय नहीं है, चाहे रात हो या दिन।
16हम पराक्रम से युक्त हैं, हमें इसकी चिन्ता नहीं कि हम कब तुम्हें विचलित करते हैं। हे दुष्ट प्राणी, वे ही मनुष्य तेरी पूजा करते हैं जो (लड़ने में) असमर्थ हैं।
17हिमालय के स्वर्णशिखरों से निकलकर यह गंगा सात धाराओं में बहती हुई समुद्र में गिरती है।
18(वे हैं —) गंगा, यमुना, सरस्वती, रथस्था, सरयू, गोमती और गण्डकी।
19जो इन सात नदियों का जल पीते हैं, वे अपने पापों से मुक्त हो जाते हैं। हे गन्धर्व, स्वर्गलोक में बहती हुई यह पवित्र गंगा वहाँ अलकनन्दा कहलाती है,
20और पितृलोक में वह वैतरणी कहलाती है, जिसे पापी पार नहीं कर सकते। कृष्णद्वैपायन ने कहा है कि यह मंगलमयी और दिव्य नदी सब समय सबके लिए सुलभ है। तुम हमें इससे क्यों रोकना चाहते हो? यह सनातन धर्म के अनुकूल नहीं है।
21तुम्हारे वचनों की उपेक्षा करके हम भागीरथी के उस पवित्र जल का इच्छानुसार स्पर्श क्यों न करें, जो सदा सबके लिए सुलभ है?
22वैशम्पायन ने कहा — यह सुनकर अंगारपर्ण अत्यन्त क्रुद्ध हो गया और अपना धनुष खींचकर उसने उन पर विषैले सर्पों के समान अपने बाण छोड़े।
23उत्तम ढाल रखने वाले पाण्डव धनंजय ने उस ढाल से और अपने हाथ की मशाल से उन समस्त बाणों को रोक दिया।
24अर्जुन ने कहा — हे गन्धर्व, अस्त्रों में निपुण पुरुषों को डराने का प्रयत्न मत करो, क्योंकि उन पर फेंके गए अस्त्र फेन के समान विलीन हो जाते हैं।
25हे गन्धर्व, मैं जानता हूँ कि गन्धर्व (पराक्रम में) मनुष्यों से श्रेष्ठ हैं। अतः मैं तुमसे दिव्य अस्त्रों का प्रयोग करके युद्ध करूँगा। मैं माया का प्रयोग नहीं करूँगा।
26जो आग्नेय अस्त्र मैं तुम पर छोड़ रहा हूँ वह पहले इन्द्र के आचार्य बृहस्पति ने भरद्वाज को दिया था।
27भरद्वाज से वह अग्निवेश्य को प्राप्त हुआ और अग्निवेश्य से मेरे आचार्य को, और उन ब्राह्मणश्रेष्ठ द्रोण ने वह मुझे दिया।
28वैशम्पायन ने कहा — यह कहकर पाण्डव (अर्जुन) ने क्रोध में उस गन्धर्व पर वह प्रज्वलित आग्नेय अस्त्र छोड़ा, जिसने तत्काल उसका रथ जला दिया।
29उस अस्त्र के वेग से मूर्च्छित होकर वह महाबली गन्धर्व अपने रथ से सिर के बल नीचे गिर रहा था,
30किन्तु धनंजय ने उसे उसके सिर के केशों से पकड़ लिया, जो फूलों की मालाओं से सजे थे। उन्होंने उस (गन्धर्व) को, जो अस्त्र से (आहत होने के कारण) अचेत था, अपने भाइयों की ओर घसीटा।
31(यह देखकर) उसकी पत्नी कुम्भीनसी अपने पति को बचाने की इच्छा से युधिष्ठिर के पास आई और उसने उनकी शरण माँगी।
32गन्धर्वी ने कहा — हे महात्मा, मुझे अपनी शरण दीजिए। मेरे पति को मुक्त कीजिए। हे स्वामी, मैं कुम्भीनसी नामक गन्धर्वी हूँ, मैं आपकी शरण माँगती हूँ।
33युधिष्ठिर ने कहा — हे शत्रुदमन, ऐसे शत्रु का वध कौन करेगा जो युद्ध में परास्त हो चुका है, जो अपने यश से वंचित हो चुका है, जिसकी रक्षा एक स्त्री कर रही है और जो अपनी रक्षा करने में असमर्थ है? हे बालक, उसे मुक्त कर दो।
34अर्जुन ने कहा — हे गन्धर्व, अपने प्राण ले जाओ। यहाँ से जाओ और शोक मत करो। कुरुओं के राजा युधिष्ठिर आज मुझे तुम पर दया दिखाने की आज्ञा देते हैं।
35गन्धर्व ने कहा — मैं तुमसे परास्त हो चुका हूँ, अतः मैं अपना पूर्व नाम अंगारपर्ण त्याग दूँगा। जब वास्तव में मैं मनुष्यों के समान पराक्रम में बलशाली नहीं हूँ, तब केवल नाम में मैं अपनी डींग नहीं हाँकूँगा।
36यह मेरा बड़ा सौभाग्य है कि मुझे ऐसा मनुष्य मिला जो दिव्य अस्त्र धारण करता है। मैं अर्जुन को गन्धर्वों की माया-शक्ति प्रदान करना चाहता हूँ।
37मेरा उत्तम और सुन्दर रथ तुम्हारे आग्नेय अस्त्र से जल गया है। मैं (पहले) सुन्दर रथ वाला होने के कारण चित्ररथ कहलाता था, अब मैं जले हुए (रथ वाला) दग्धरथ कहलाऊँगा।
38(माया की) जिस विद्या की चर्चा मैंने तुमसे की और जिसे मैंने पहले तपस्या से प्राप्त किया था, वह आज मैं उस यशस्वी पुरुष को दूँगा जिसने मुझे मेरा जीवन दिया है।
39उसे कौन-सा सौभाग्य प्राप्त करने के अयोग्य कहा जा सकता है जो शत्रु को परास्त करके, उसके माँगने पर, उसे उसका जीवन दे देता है?
40यह विद्या चाक्षुषी कहलाती है। इसे मनु ने सोम को सिखाया था। सोम ने इसे विश्वावसु को सिखाया, और विश्वावसु ने इसे मुझे सिखाया।
41गुरु द्वारा किसी कापुरुष (तेजहीन) को दिए जाने पर यह लुप्त होने लगी थी। मैंने तुम्हें इसके आगमन (उत्पत्ति और परम्परा) के विषय में बताया; अब इसका प्रभाव सुनो।
42इस संसार में जो कुछ भी तुम अपनी आँखों से देखना चाहोगे और जिस भी प्रकार का वह हो, वह (इस विद्या की सहायता से) तुम्हें दिखाई देगा।
43इस (विद्या) को मनुष्य छह मास तक एक पैर पर खड़ा रहकर प्राप्त कर सकता है। मैं तुम्हें यह विद्या बिना किसी व्रत के पालन के ही दूँगा।
44हे राजन्, (केवल) इसी विद्या के कारण हमारी मनुष्यों पर श्रेष्ठता है। चूँकि हम (अपने दिव्य नेत्रों से) सब कुछ देखने में समर्थ हैं, अतः हम देवताओं के तुल्य हैं।
45हे श्रेष्ठ पुरुष, मैं तुम्हें और तुम्हारे भाइयों को, प्रत्येक को अलग-अलग, गन्धर्वलोक में उत्पन्न सौ-सौ अश्व देना चाहता हूँ।
46वे देवताओं और गन्धर्वों को ढोने में लगाए जाते हैं; वे दिव्य वर्ण के हैं और उनमें मन के समान वेग है। वे शरीर से दुबले और पतले हो सकते हैं, किन्तु वे कभी थकान अनुभव नहीं करते और इस कारण उनके वेग में कभी कमी नहीं आती।
47प्राचीन काल में वृत्र का वध करने के लिए इन्द्र ने वज्र की सृष्टि की थी, (किन्तु) वृत्र के सिर पर फेंके जाने पर वह सहस्र टुकड़ों में टूट गया।
48तदनन्तर देवताओं ने वज्र के इस प्रकार टूटे हुए उन टुकड़ों की पूजा की। संसार में जो कुछ यश का धन कहलाता है वह वज्र का ही एक अंश है।
49ब्राह्मणों के हाथ वज्र (के अंश) हैं; क्षत्रियों के रथ (भी) वज्र (के अंश) हैं। वैश्यों का दान (भी) वज्र (का अंश) है और शूद्रों की सेवा (भी) वज्र (का अंश) है।
50क्षत्रियों के अश्व वज्र के अंश होने के कारण कहा जाता है कि उनका वध कभी नहीं करना चाहिए। रथों के अंश (अश्व) वडवा की सन्तान हैं। उनमें जो शूर हैं —
51वे इच्छानुसार कोई भी रंग धारण करने में, इच्छानुसार कहीं भी जाने में और अपने स्वामी की इच्छा के अनुसार दौड़ने में समर्थ हैं। गन्धर्वलोक में उत्पन्न मेरे ये अश्व सदा तुम्हारी इच्छा पूरी करेंगे।
52अर्जुन ने कहा — हे गन्धर्व, यदि तुम संकट में प्राण पाने की सन्तुष्टि के कारण मुझे ये अश्व और यह विद्या का धन दे रहे हो, तो मैं इसे स्वीकार नहीं करूँगा।
53गन्धर्व ने कहा — किसी यशस्वी पुरुष से भेंट सदा ही प्रसन्नता की बात है। इसके अतिरिक्त तुमने मुझे जीवन दिया है। इस प्रकार तुमसे प्रसन्न होकर ही मैं यह विद्या देता हूँ।
54हे भरतवंश में श्रेष्ठ, हे बीभत्सु, जिससे उपकार केवल एक ही ओर से न रहे, इसलिए मैं तुमसे तुम्हारा वह उत्तम और शाश्वत आग्नेय अस्त्र ले लूँगा।
55अर्जुन ने कहा — हे गन्धर्व, मैं अपने अस्त्र के बदले तुम्हारे अश्व ले लूँगा। हमारी मित्रता चिरस्थायी हो। हे मित्र, मुझे बताओ कि हम (मनुष्यों) के लिए गन्धर्वों से किस कारण भय उत्पन्न होता है।
56हे गन्धर्व, हम सब शत्रुदमन हैं; हम सब वेदों के ज्ञाता हैं और हम सब धर्मात्मा हैं। बताओ कि रात्रि में यात्रा करने के कारण तुमने हमारी निन्दा क्यों की।
57गन्धर्व ने कहा — हे पाण्डु के पुत्रो, तुम अग्नि नहीं रखते; तुम्हारी पत्नियाँ नहीं हैं; तुम्हारे आगे कोई ब्राह्मण नहीं चलता; इसीलिए मैंने तुम्हारी निन्दा की।
58यक्ष, राक्षस, गन्धर्व, पिशाच, उरग और दानव बुद्धिमान् और चतुर हैं। वे कुरुवंश की बहुत चर्चा करते हैं।
59हे वीर, मैंने नारद तथा अन्य ऋषियों से तुम्हारे बुद्धिमान् पूर्वजों के गुणों के विषय में सुना है।
60समुद्ररूपी वस्त्र धारण किए हुए इस पृथ्वी पर विचरते हुए मैंने स्वयं तुम्हारे वंश का महान् पराक्रम देखा है।
61हे अर्जुन, मैं तुम्हारे आचार्य, भरद्वाज के यशस्वी पुत्र (द्रोण) को व्यक्तिगत रूप से जानता हूँ, जो वेदों और धनुर्विद्या के अपने ज्ञान के लिए तीनों लोकों में प्रसिद्ध हैं।
62हे कुरुवंश में श्रेष्ठ, हे पार्थ, मैं धर्म, वायु, इन्द्र, अश्विनीकुमारों और पाण्डु को भी जानता हूँ — कुरुवंश को फैलाने वाले ये छह। ये (छह) श्रेष्ठ देवता और मनुष्य तुम्हारे पिता हैं।
63यह जानते हुए भी कि तुम महात्मा हो, तुम यशस्वी हो, तुम समस्त अस्त्रधारियों में श्रेष्ठ हो, तुम सब भाई महान् वीर हो, तुम धर्मात्मा और व्रतों के पालक हो, तुम्हारी बुद्धि और हृदय उत्तम हैं और तुम्हारा आचरण निर्दोष है — फिर भी मैंने तुम्हारी निन्दा की।
64हे कुरुवंशी, भुजाओं का बल रखने वाले किसी भी पुरुष को अपनी पत्नी के सम्मुख किसी दुर्व्यवहार को धैर्यपूर्वक सहन नहीं करना चाहिए।
65हे कुन्तीपुत्र, रात्रि के समय हमारा बल विशेष रूप से बढ़ जाता है। चूँकि मेरे साथ मेरी पत्नी थी, अतः मैं क्रोध से भर गया।
66हे समस्त व्रतपालकों में श्रेष्ठ, मैं तुमसे युद्ध में परास्त हुआ; मुझसे उन कारणों को सुनो जिनसे मेरी पराजय हुई।
67ब्रह्मचर्य महान् धर्म है, तुम उसी में स्थित हो (उसी जीवन-पद्धति का पालन कर रहे हो)। हे पार्थ, इसीलिए मैं तुमसे युद्ध में परास्त हुआ।
68हे शत्रुदमन, यदि कोई क्षत्रिय, जो अपनी कामनाओं में लगा हो, रात्रि में हमसे युद्ध करे, तो वह हमसे कभी जीवित नहीं बच सकता।
69हे पार्थ, अपनी कामनाओं में लगा हुआ क्षत्रिय भी हम सब रात्रिचरों को परास्त कर सकता है, यदि वह ब्रह्म से पवित्र हो और यदि वह अपने राज्य का भार अपने पुरोहित को सौंप दे।
70हे तपती के वंशज, अतः मनुष्यों को चाहिए कि वे जिस भी सौभाग्य को प्राप्त करना चाहते हैं, उसके लिए सदा विद्वान् और जितेन्द्रिय पुरोहित नियुक्त करें। वही पुरुष राजाओं का पुरोहित होने योग्य है जो वेदों और उनके छह अंगों के अध्ययन में लगा हो, जो पवित्र और सत्यवादी हो और जो धर्मपरायण तथा जितेन्द्रिय हो।
71वह राजा (इस लोक में) सदा विजयी होता है और परलोक में स्वर्ग प्राप्त करता है, जिसका पुरोहित धर्म के उपदेशों का ज्ञाता, वाणी का स्वामी, पवित्र और सदाचारी हो।
72राजा को सदा ऐसा गुणसम्पन्न पुरोहित चुनना चाहिए जो उसके पास जो है उसकी रक्षा कर सके और जो उसके पास नहीं है उसे प्राप्त करा सके।
73जो अपनी समृद्धि चाहता है उसे सदा अपने पुरोहित के निर्देश पर चलना चाहिए; तब वह समुद्ररूपी वस्त्र धारण किए हुए समस्त पृथ्वी को प्राप्त कर सकता है।
74हे तपती के वंशज, जिस राजा के पास कोई ब्राह्मण नहीं है वह केवल अपनी वीरता अथवा जन्म की कुलीनता से कभी कोई भूमि प्राप्त नहीं कर सकता।
75हे कुरुवंश के विस्तारक, अतः जान लो कि जिन राज्यों के आगे ब्राह्मण होते हैं वे ही दीर्घकाल तक टिक सकते हैं।
नेपाली
1वैशम्पायनले भने — जब यशस्वी व्यास गए, तब ती नरश्रेष्ठ पाण्डवहरू आफ्नी मातालाई अगाडि राखेर प्रसन्न हृदयले (पाञ्चालतिर) हिँडे।
2ती शत्रुदमनहरू आफ्नो गन्तव्यमा पुग्न उत्तर दिशामा हिँडे। तिनीहरू दिनरात हिँडिरहे र सोमाश्रम (नामक ठाउँ)मा पुगे।
3ती नरश्रेष्ठ, पाण्डुका पुत्रहरू, गङ्गाको (तटमा) आए। महारथी धनञ्जय (अर्जुन) तिनीहरूलाई बाटो देखाउन र तिनको रक्षा गर्न हातमा राँको लिएर अगाडि-अगाडि हिँडिरहेका थिए।
4त्यहाँ गङ्गाको रमणीय पानीमा गन्धर्वहरूको घमण्डी राजा (चित्ररथ) आफ्ना स्त्रीहरूसँग एकान्तमा क्रीडा गरिरहेको थियो।
5उसले नदीको नजिक आउँदै गरेको (पाण्डवहरूका पाइलाको) आवाज सुन्यो। त्यो आवाज (सुनेर) त्यो महाबली (गन्धर्व) क्रोधले जल्यो।
6त्यहाँ ती शत्रुदमन पाण्डवहरूलाई तिनकी माता सहित देखेर र आफ्नो भयंकर धनुष तानेर उसले यसरी भन्यो —
7"यो विदित छ कि रातभन्दा अघिको साँझको प्रथम चालीस लव बाहेक (रातको बाँकी भाग) यक्ष, गन्धर्व र राक्षसहरूका लागि नियत छ, जो इच्छाअनुसार सर्वत्र जान समर्थ छन्। बाँकी समय मानिसहरूका लागि नियत छ।
8त्यसैले यदि कुनै मानिस लोभवश ती क्षणमा विचरण गर्यो र हाम्रो नजिक आयो भने, हामी (गन्धर्व) र राक्षस, दुवैले ती मूर्खहरूको वध गरिदिन्छौँ।
9वेदका ज्ञाता पुरुषहरूले ती मानिसका, बरु आफ्ना शत्रुका अगाडि रहने राजाहरूका समेत (कार्यको) अनुमोदन गर्दैनन् जो यस्तो बेला कुनै सरोवर वा नदीमा आउँछन्।
10टाढै रहो। मेरो नजिक नआऊ। के तिमीहरूलाई थाहा छैन कि म (यस बेला) भागीरथीको पानीमा नुहाइरहेको छु?
11मलाई अङ्गारपर्ण नामक गन्धर्व जान, जो केवल आफ्ना पाखुराको बलमा निर्भर रहन्छ। म गर्वी र उद्दण्ड छु; म कुबेरको मित्र हुँ।
12गङ्गाको तटमा रहेको यो मेरो वन अङ्गारपर्ण नामले नै चिनिन्छ, जसमा म आफ्नो मनोरञ्जनका लागि क्रीडा गर्दछु।
13कापालिक, शृङ्गी अथवा देवताले समेत यहाँ आउने साहस गर्दैनन्; यस्तो देखिन्छ कि तिमीहरू मानिस हौ। (अनि) तिमीहरू मेरो नजिक आउने साहस कसरी गर्छौ, जो कुबेरको मुकुटको सबैभन्दा उज्ज्वल रत्न हुँ?
14अर्जुनले भने — हे नीच, समुद्र, हिमालयका पाखा अथवा यो गङ्गा नदी कसका लागि वर्जित हुन सक्छन्, चाहे रात होस्, दिन होस् या साँझ?
15हे आकाशचारी, पेट खाली होस् या भरिएको, सम्पूर्ण नदीहरूमा श्रेष्ठ यस गङ्गामा आउने कुनै विशेष समय छैन, चाहे रात होस् या दिन।
16हामी पराक्रमले युक्त छौँ, हामीलाई यसको चिन्ता छैन कि हामीले कहिले तिमीलाई विचलित गर्छौं। हे दुष्ट प्राणी, तिनै मानिसले तेरो पूजा गर्छन् जो (लड्न) असमर्थ छन्।
17हिमालयका सुनौला शिखरबाट निस्केर यो गङ्गा सात धारामा बग्दै समुद्रमा खस्छ।
18(ती हुन् —) गङ्गा, यमुना, सरस्वती, रथस्था, सरयू, गोमती र गण्डकी।
19जसले यी सात नदीको पानी पिउँछन्, तिनीहरू आफ्ना पापबाट मुक्त हुन्छन्। हे गन्धर्व, स्वर्गलोकमा बग्ने यो पवित्र गङ्गा त्यहाँ अलकनन्दा भनिन्छे,
20र पितृलोकमा त्यो वैतरणी भनिन्छे, जसलाई पापीहरूले तर्न सक्दैनन्। कृष्णद्वैपायनले भनेका छन् कि यो मङ्गलमयी र दिव्य नदी सबै समय सबैका लागि सुलभ छ। तिमी हामीलाई यसबाट किन रोक्न चाहन्छौ? यो सनातन धर्मअनुकूल छैन।
21तिम्रा वचनको उपेक्षा गरेर हामी भागीरथीको त्यस पवित्र पानीलाई इच्छाअनुसार किन नछुऔँ, जुन सदा सबैका लागि सुलभ छ?
22वैशम्पायनले भने — यो सुनेर अङ्गारपर्ण अत्यन्त क्रुद्ध भयो र आफ्नो धनुष तानेर उसले तिनीहरूमाथि विषालु सर्पजस्ता आफ्ना बाण छोड्यो।
23उत्तम ढाल भएका पाण्डव धनञ्जयले त्यस ढालले र आफ्नो हातको राँकोले ती सम्पूर्ण बाण रोकिदिए।
24अर्जुनले भने — हे गन्धर्व, अस्त्रमा निपुण पुरुषहरूलाई तर्साउने प्रयत्न नगर, किनभने तिनीहरूमाथि फ्याँकिएका अस्त्र फिँजझैँ विलीन हुन्छन्।
25हे गन्धर्व, म जान्दछु कि गन्धर्वहरू (पराक्रममा) मानिसभन्दा श्रेष्ठ छन्। त्यसैले म तिमीसँग दिव्य अस्त्रको प्रयोग गरेर युद्ध गर्नेछु। म मायाको प्रयोग गर्नेछैनँ।
26जुन आग्नेय अस्त्र म तिमीमाथि छोड्दैछु त्यो पहिले इन्द्रका आचार्य बृहस्पतिले भरद्वाजलाई दिएका थिए।
27भरद्वाजबाट त्यो अग्निवेश्यलाई प्राप्त भयो र अग्निवेश्यबाट मेरा आचार्यलाई, र ती ब्राह्मणश्रेष्ठ द्रोणले त्यो मलाई दिए।
28वैशम्पायनले भने — यसो भनेर पाण्डव (अर्जुन)ले क्रोधमा त्यस गन्धर्वमाथि त्यो प्रज्वलित आग्नेय अस्त्र छोडे, जसले तत्कालै उसको रथ जलायो।
29त्यस अस्त्रको वेगले मूर्च्छित भई त्यो महाबली गन्धर्व आफ्नो रथबाट टाउको तल पारेर खस्दै थियो,
30तर धनञ्जयले उसलाई उसको टाउकोका केशबाट समाते, जुन फूलका मालाले सजिएका थिए। उनले त्यस (गन्धर्व)लाई, जो अस्त्रले (घाइते भएका कारण) अचेत थियो, आफ्ना भाइहरूतिर घिसारे।
31(यो देखेर) उसकी पत्नी कुम्भीनसी आफ्ना पतिलाई बचाउने इच्छाले युधिष्ठिरकहाँ आइन् र उनले उनको शरण मागिन्।
32गन्धर्वीले भनिन् — हे महात्मा, मलाई आफ्नो शरण दिनुहोस्। मेरा पतिलाई मुक्त गर्नुहोस्। हे स्वामी, म कुम्भीनसी नामक गन्धर्वी हुँ, म तपाईंको शरण माग्दछु।
33युधिष्ठिरले भने — हे शत्रुदमन, त्यस्तो शत्रुको वध कसले गर्नेछ जो युद्धमा परास्त भइसकेको छ, जो आफ्नो यशबाट वञ्चित भइसकेको छ, जसको रक्षा एक स्त्रीले गरिरहेकी छिन् र जो आफ्नो रक्षा गर्न असमर्थ छ? हे बालक, उसलाई मुक्त गरिदेऊ।
34अर्जुनले भने — हे गन्धर्व, आफ्नो प्राण लिएर जाऊ। यहाँबाट जाऊ र शोक नगर। कुरुहरूका राजा युधिष्ठिरले आज मलाई तिमीमाथि दया देखाउने आज्ञा दिन्छन्।
35गन्धर्वले भन्यो — म तिमीबाट परास्त भइसकेको छु, त्यसैले म आफ्नो पूर्व नाम अङ्गारपर्ण त्याग्नेछु। जब वास्तवमा म मानिसजस्तो पराक्रममा बलशाली छैनँ, तब केवल नाममा म आफ्नो डाकबाजी गर्नेछैनँ।
36यो मेरो ठूलो सौभाग्य हो कि मलाई त्यस्तो मानिस भेटियो जसले दिव्य अस्त्र धारण गर्दछ। म अर्जुनलाई गन्धर्वहरूको मायाशक्ति प्रदान गर्न चाहन्छु।
37मेरो उत्तम र सुन्दर रथ तिम्रो आग्नेय अस्त्रले जलेको छ। म (पहिले) सुन्दर रथ भएकाले चित्ररथ भनिन्थेँ, अब म जलेको (रथ भएको) दग्धरथ भनिनेछु।
38(मायाको) जुन विद्याको चर्चा मैले तिमीसँग गरेँ र जुन मैले पहिले तपस्याले प्राप्त गरेको थिएँ, त्यो आज म त्यस यशस्वी पुरुषलाई दिनेछु जसले मलाई मेरो जीवन दिएको छ।
39उसलाई कुन सौभाग्य प्राप्त गर्न अयोग्य भन्न सकिन्छ जसले शत्रुलाई परास्त गरेर, उसले मागेपछि, उसलाई उसको जीवन दिइदिन्छ?
40यो विद्या चाक्षुषी भनिन्छ। यसलाई मनुले सोमलाई सिकाएका थिए। सोमले यो विश्वावसुलाई सिकाए, र विश्वावसुले यो मलाई सिकाए।
41गुरुद्वारा कुनै कापुरुष (तेजहीन)लाई दिइँदा यो लोप हुन थालेको थियो। मैले तिमीलाई यसको आगमन (उत्पत्ति र परम्परा)का विषयमा बताएँ; अब यसको प्रभाव सुन।
42यस संसारमा जे-जे पनि तिमी आफ्ना आँखाले हेर्न चाहनेछौ र जुनसुकै प्रकारको त्यो होस्, त्यो (यस विद्याको सहायताले) तिमीलाई देखिनेछ।
43यो (विद्या) मानिसले छ महिनासम्म एक खुट्टामा उभिएर प्राप्त गर्न सक्छ। म तिमीलाई यो विद्या कुनै व्रतको पालनविनै दिनेछु।
44हे राजन्, (केवल) यसै विद्याका कारण हाम्रो मानिसहरूमाथि श्रेष्ठता छ। किनकि हामी (आफ्ना दिव्य नेत्रले) सबै कुरा देख्न समर्थ छौँ, त्यसैले हामी देवताको तुल्य छौँ।
45हे श्रेष्ठ पुरुष, म तिमीलाई र तिम्रा भाइहरूलाई, प्रत्येकलाई अलग-अलग, गन्धर्वलोकमा जन्मेका सय-सय घोडा दिन चाहन्छु।
46तिनीहरू देवता र गन्धर्वहरूलाई बोक्नमा लगाइन्छन्; तिनीहरू दिव्य वर्णका छन् र तिनमा मनजस्तै वेग छ। तिनीहरू शरीरले दुब्ला र पातला हुन सक्छन्, तर तिनीहरूले कहिल्यै थकान अनुभव गर्दैनन् र यस कारण तिनको वेगमा कहिल्यै कमी आउँदैन।
47प्राचीन कालमा वृत्रको वध गर्न इन्द्रले वज्रको सृष्टि गरेका थिए, (तर) वृत्रको टाउकोमा फ्याँकिँदा त्यो हजार टुक्रामा टुक्रियो।
48त्यसपछि देवताहरूले वज्रका यसरी टुक्रिएका ती टुक्राको पूजा गरे। संसारमा जे यशको धन भनिन्छ त्यो वज्रकै एक अंश हो।
49ब्राह्मणहरूका हात वज्र(का अंश) हुन्; क्षत्रियहरूका रथ (पनि) वज्र(का अंश) हुन्। वैश्यहरूको दान (पनि) वज्र(को अंश) हो र शूद्रहरूको सेवा (पनि) वज्र(को अंश) हो।
50क्षत्रियहरूका घोडा वज्रका अंश भएकाले भनिन्छ कि तिनको वध कहिल्यै गर्नु हुँदैन। रथका अंश (घोडा) वडवाका सन्तान हुन्। तीमध्ये जो शूर छन् —
51तिनीहरू इच्छाअनुसार कुनै पनि रङ धारण गर्न, इच्छाअनुसार जहाँ पनि जान र आफ्ना स्वामीको इच्छाअनुसार दौडन समर्थ छन्। गन्धर्वलोकमा जन्मेका मेरा यी घोडाले सदा तिम्रो इच्छा पूरा गर्नेछन्।
52अर्जुनले भने — हे गन्धर्व, यदि तिमी सङ्कटमा प्राण पाएको सन्तुष्टिका कारण मलाई यी घोडा र यो विद्याको धन दिँदैछौ भने, म यो स्वीकार गर्नेछैनँ।
53गन्धर्वले भन्यो — कुनै यशस्वी पुरुषसँगको भेट सदा नै प्रसन्नताको कुरा हो। यसबाहेक तिमीले मलाई जीवन दिएका छौ। यसरी तिमीसँग प्रसन्न भएर नै म यो विद्या दिन्छु।
54हे भरतवंशमा श्रेष्ठ, हे बीभत्सु, जसबाट उपकार केवल एकैतर्फबाट नरहोस्, त्यसैले म तिमीबाट तिम्रो त्यो उत्तम र शाश्वत आग्नेय अस्त्र लिनेछु।
55अर्जुनले भने — हे गन्धर्व, म आफ्नो अस्त्रको साटो तिम्रा घोडा लिनेछु। हाम्रो मित्रता चिरस्थायी होस्। हे मित्र, मलाई भन कि हामी (मानिसहरू)का लागि गन्धर्वहरूबाट कुन कारणले भय उत्पन्न हुन्छ।
56हे गन्धर्व, हामी सबै शत्रुदमन छौँ; हामी सबै वेदका ज्ञाता छौँ र हामी सबै धर्मात्मा छौँ। भन कि रातमा यात्रा गरेकाले तिमीले हाम्रो निन्दा किन गर्यौ।
57गन्धर्वले भन्यो — हे पाण्डुका पुत्रहरू, तिमीहरू अग्नि राख्दैनौ; तिमीहरूका पत्नी छैनन्; तिमीहरूको अगाडि कुनै ब्राह्मण हिँड्दैन; त्यसैले मैले तिमीहरूको निन्दा गरेँ।
58यक्ष, राक्षस, गन्धर्व, पिशाच, उरग र दानवहरू बुद्धिमान् र चतुर छन्। तिनीहरूले कुरुवंशको धेरै चर्चा गर्छन्।
59हे वीर, मैले नारद तथा अन्य ऋषिहरूबाट तिम्रा बुद्धिमान् पूर्वजका गुणका विषयमा सुनेको छु।
60समुद्ररूपी वस्त्र धारण गरेकी यस पृथ्वीमा विचरण गर्दै मैले स्वयं तिम्रो वंशको महान् पराक्रम देखेको छु।
61हे अर्जुन, म तिम्रा आचार्य, भरद्वाजका यशस्वी पुत्र (द्रोण)लाई व्यक्तिगत रूपमा चिन्दछु, जो वेद र धनुर्विद्याको आफ्नो ज्ञानका लागि तीनै लोकमा प्रसिद्ध छन्।
62हे कुरुवंशमा श्रेष्ठ, हे पार्थ, म धर्म, वायु, इन्द्र, अश्विनीकुमार र पाण्डुलाई पनि चिन्दछु — कुरुवंशलाई फैलाउने यी छ। यी (छ) श्रेष्ठ देवता र मानिस तिम्रा पिता हुन्।
63यो जान्दाजान्दै पनि कि तिमीहरू महात्मा हौ, तिमीहरू यशस्वी हौ, तिमीहरू सम्पूर्ण अस्त्रधारीहरूमा श्रेष्ठ हौ, तिमीहरू सबै भाइ महान् वीर हौ, तिमीहरू धर्मात्मा र व्रतका पालक हौ, तिमीहरूका बुद्धि र हृदय उत्तम छन् र तिमीहरूको आचरण निर्दोष छ — तैपनि मैले तिमीहरूको निन्दा गरेँ।
64हे कुरुवंशी, पाखुराको बल भएको कुनै पनि पुरुषले आफ्नी पत्नीको सामु कुनै दुर्व्यवहार धैर्यपूर्वक सहनु हुँदैन।
65हे कुन्तीपुत्र, रातको समयमा हाम्रो बल विशेष रूपमा बढ्छ। मसँग मेरी पत्नी थिइन्, त्यसैले म क्रोधले भरिएँ।
66हे सम्पूर्ण व्रतपालकहरूमा श्रेष्ठ, म तिमीबाट युद्धमा परास्त भएँ; मबाट ती कारण सुन जसबाट मेरो पराजय भयो।
67ब्रह्मचर्य महान् धर्म हो, तिमी त्यसैमा स्थित छौ (त्यही जीवनपद्धतिको पालन गरिरहेका छौ)। हे पार्थ, त्यसैले म तिमीबाट युद्धमा परास्त भएँ।
68हे शत्रुदमन, यदि कुनै क्षत्रिय, जो आफ्ना कामनामा लागेको छ, रातमा हामीसँग युद्ध गर्दछ भने, ऊ हामीबाट कहिल्यै जीवित उम्कन सक्दैन।
69हे पार्थ, आफ्ना कामनामा लागेको क्षत्रियले पनि हामी सबै रात्रिचरलाई परास्त गर्न सक्छ, यदि ऊ ब्रह्मले पवित्र छ भने र यदि उसले आफ्नो राज्यको भार आफ्नो पुरोहितलाई सुम्पिदिन्छ भने।
70हे तपतीका वंशज, त्यसैले मानिसहरूले जुनसुकै सौभाग्य प्राप्त गर्न चाहन्छन्, त्यसका लागि सदा विद्वान् र जितेन्द्रिय पुरोहित नियुक्त गर्नुपर्छ। उही पुरुष राजाहरूको पुरोहित हुन योग्य छ जो वेद र तिनका छ अङ्गको अध्ययनमा लागेको होस्, जो पवित्र र सत्यवादी होस् र जो धर्मपरायण तथा जितेन्द्रिय होस्।
71त्यो राजा (यस लोकमा) सदा विजयी हुन्छ र परलोकमा स्वर्ग प्राप्त गर्दछ, जसको पुरोहित धर्मका उपदेशका ज्ञाता, वाणीका स्वामी, पवित्र र सदाचारी होस्।
72राजाले सदा त्यस्तो गुणसम्पन्न पुरोहित छान्नुपर्छ जसले उसँग जे छ त्यसको रक्षा गर्न सकोस् र उसँग जे छैन त्यो प्राप्त गराउन सकोस्।
73जसले आफ्नो समृद्धि चाहन्छ उसले सदा आफ्नो पुरोहितको निर्देशनमा चल्नुपर्छ; तब उसले समुद्ररूपी वस्त्र धारण गरेकी सम्पूर्ण पृथ्वी प्राप्त गर्न सक्छ।
74हे तपतीका वंशज, जुन राजासँग कुनै ब्राह्मण छैन उसले केवल आफ्नो वीरता अथवा जन्मको कुलीनताले कहिल्यै कुनै भूमि प्राप्त गर्न सक्दैन।
75हे कुरुवंशका विस्तारक, त्यसैले जान कि जुन राज्यहरूको अगाडि ब्राह्मण हुन्छन् तिनै दीर्घकालसम्म टिक्न सक्छन्।