सम्भव पर्व — सत्यवती की कथा
खण्ड 1 — आदि एवं सभा पर्व · अध्याय 100
संस्कृत
1वैशम्पायन उवाच स राजा शान्तनु/मान् देवराजर्षिसत्कृतः। धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः॥
2दमो दानं क्षमा बुद्धिहींकृतिस्तेज उत्तमम्। नित्यान्यासन् महासत्त्वे शान्तनौ पुरुषर्षभ॥
3एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः। आसीद् भरतवंशस्य गोप्ता सर्वजनस्य च॥
4कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः। अन्वितः परिपूर्णार्यैः सर्वैर्नृपतिलक्षणैः॥ :॥
5तस्य कीर्तिमतो वृत्तमवेक्ष्य सततं नराः। धर्म एव परः कामादर्थाचेति व्यवस्थिताः॥
6एतान्यासन् महासत्त्वे शान्तनौ पुरुषर्षभे! न चास्य सदृशः कश्चिद् धर्मतः पार्थिवोऽभवत्॥
7वर्तमानं हि धर्मेषु सर्वधर्मभृतां वरम्। तं महीषा महीपालं राजराज्येऽभ्यषेचयन्॥
8वीतशोकभयाबाधाः सुखस्वप्ननिबोधनाः। पतिं भारत गोतारं समपद्यन्त भूमिपा:॥
9तेन कीर्तिमता शिष्टाः शक्रप्रतिमतेजसा। यज्ञदानक्रियाशीला: समपद्यन्त भूमिपाः॥
10शान्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा। नियमात् सर्ववर्णानां धर्मोत्तरमवर्तत॥
11ब्रह्म पर्यचरत् क्षत्रं विशः क्षत्रमनुव्रताः। ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन् विशः॥
12स हास्तिनपुरे रम्ये कुरूणां पुटभेदने। वसन् सागरपर्यन्तामन्वशासद् वसुन्धराम्॥
13स देवराजसदृशो धर्मज्ञः सत्यवागृजुः। दानधर्मतपोयोगाच्छ्रिया परमया युतः॥
14अरागद्वेषसंयुक्तः सोमवत् प्रियदर्शनः। तेजसा सूर्यकल्पोऽभूद् वायुवेगसमो जवे। अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः॥
15वधः पशुवराहाणां तथैव मृगपक्षिणाम्। शान्तनौ पृथिवीपाले नावर्तत तथा नृप॥
16ब्रह्मधर्मोत्तरे राज्ये शान्तनुर्विनयात्मवान्। समं शशास भूतानि कामरागविवर्जितः॥
17देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः। न चाधर्मेण केषांचित् प्राणिनामभवद् वधः॥
18असुखानामनाथानां तिर्यग्योनिषु वर्तताम्। स एव राजा सर्वेषां भूतानामभवत् पिता॥
19तस्मिन् कुरुपतिश्रेष्ठे राजराजेश्वरे सति। श्रिता वागभवत् सत्यं दानधर्माश्रितं मनः॥
20स समः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः। रतिमप्राप्नुवन् स्त्रीषु बभूव वनगोचरः॥
21तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः। गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः॥
22सर्वास्त्रेषु स निष्णान्तः पार्थिवेष्वितरेषु च। महाबलो महासत्त्वो महावीर्यो महारथः॥
23स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन् नदीम्। भागीरथीमल्पजलां शान्तनुर्दृष्टवान् नृपः॥
24तां दृष्ट्वा चिन्तयामास शान्तनुः पुरुषर्षभः। स्यन्दते किं त्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा॥
25ततो निमित्तमन्विच्छन् ददर्श स महामनाः। कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम्॥ दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम्। कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम्॥
26तां शरैराचितां दृष्ट्वा नदीं गङ्गां तदन्तिके। अभवद् विस्मितो राजा दृष्ट्वा कर्मातिमानुषम्॥
27जातमात्रं पुरा दृष्ट्वा तं पुत्रं शान्तनुस्तदा। नोपलेभे स्मृति धीमानभिज्ञातुं तमात्मजम्॥ तदद्भुतं ततो
28स तु तं पितरं दृष्ट्वा मोहयामास मायया। सम्मोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत॥
29दृष्ट्वा तत्र राजा स शान्तनुः। शङ्कमानः सुतं गङ्गामब्रवीद् दर्शयेति ह॥
30दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम्। गृहीत्वा दक्षिणे पाणौ तं कुमारमलंकृतम्॥
31अलंकृतामाभरणौर्विरजोऽम्बरसंवृताम्। दृष्टपूर्वामपि स तां नाभ्यजानात् स शान्तनुः॥
32गङ्गोवाच यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यविन्दथाः। स चायं पुरुषव्याघ्र सर्वास्त्रविदनुत्तमः॥
33गृहाणेमं महाराज मया संवर्धितं सुतम्। आदाय पुरुषव्याघ्र नयस्वैनं गृहं विभो॥
34वेदानधिजगे साङ्गान् वसिष्ठादेष वीर्यवान्। कृतास्त्रः परमेष्वासो देवराजसमो युधि॥
35सुराणां सम्मतो नित्यमसुराणां च भारत। उशना वेद यच्छास्त्रमयं तद् वेद सर्वशः॥
36तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः। यद् वेद शास्त्रं तचापि कृत्स्नमस्मिन् प्रतिष्ठितम्॥ तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि। ऋषिः परैरनाधृप्यो जामदग्न्यः प्रतापवान्॥ यदस्त्रं वेद रामश्च तदेतस्मिन् प्रतिष्ठितम्। महेष्वासमिमं राजन् राजधर्मार्थकोविदम्॥ मया दत्तं निजं पुत्रं वीरं वीर गृहं नय।
37वैशम्पायन उवाच तयैवं समनुज्ञातः पुत्रमादाय शान्तनुः॥ भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति। पौरवस्तु पुरीं गत्वा पुरन्दरपुरोपमाम्॥ सर्वकामसमृद्धार्थ मेने सोऽऽत्मानमात्मना। पौरवेषु ततः पुत्र राज्यार्थमभयप्रदम्॥ गुणवन्तं महात्मानं यौवराज्येऽभ्यषेचयत्। पौरवाञ्छान्तनोः पुत्रः पितरं च महायशाः॥ राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ। स तथा सह पुत्रेण रममाणो महीपतिः॥ वर्तयामास वर्षाणि चत्वार्यमितविक्रमः। स कदाचित् वनं यातो यमुनामभितो नदीम्॥ महीपतिरनिर्देश्यमाजिघ्रद् गन्धमुत्तमम्। तस्य प्रभवमन्विच्छन् विचचार समन्ततः॥
38स ददर्श तदा कन्यां दाशानां देवरूपिणीम्। तामपृच्छत् स दृष्ट्वैव कन्याममितलोचनाम्॥
39कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि। साब्रवीद् दाशकन्यास्मि धर्मार्थं वाहये तरिम्॥ पितुर्नियोगाद् भद्रं ते दाशराज्ञो महात्मनः। रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम्॥ समीक्ष्य राजा दाशेयी कामयामास शान्तनुः। स गत्वा पितरं तस्या वरयामास तां तदा॥
40पर्यपृच्छत् ततस्तस्याः पितरं सोऽऽत्मकारणात्। स च तं प्रत्युवाचेदं दाशराजो महीपतिम्॥ जातमात्रैव मे देया वराय वरवर्णिनी। हृदि कामस्तु मे कश्चित् तं निबोध जनेश्वर॥
41यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ। सत्यवागसि सत्येन समयं कुरु मे ततः॥
42समयेन प्रदद्यां ते कन्यामहमिमां नृप। न हि मे त्वत्समः कश्चिद् वरो जातु भविष्यति।॥
43शान्तनुरुवाच श्रुत्वा तव वरं दाश व्यवस्येयमहं तव। दातव्यं चेत् प्रदास्यामि न त्वदेयं कथंचन॥
44दाश उवाच अस्यां जायेत यः पुत्रः स राजा पृथिवीपते। त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव॥
45वैशम्पायन उवाच नाकामयत तं दातुं वरं दाशाय शान्तनुः। शरीरजेन तीव्रण दह्यमानोऽपि भारत॥
46स चिन्तयन्नेव तदा दाशकन्यां महीपतिः। प्रत्ययाद्धास्तिनपुरं कामोपहतचेतनः॥
47ततः कदाचिच्छोचन्तं शान्तनुं ध्यानमास्थितम्। पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत्॥
48सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः। तत् किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः॥
49ध्यायन्निव च मां राजन्नाभिभाषसि किंचन। न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः॥
50व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै। एवमुक्तः स पुत्रेण शान्तनुः प्रत्यभाषत॥
51असंशयं ध्यानपरो यथा वत्स तथा शृणु। अपत्यं नस्त्वमेवैकः कुले महति भारत॥
52शस्त्रनित्यश्च सततं पौरुषे पर्यवस्थितः। अनित्यतां च लोकानामनुशोचामि पुत्रक॥
53कथंचित् तव गाङ्गेय विपत्तौ नास्ति नः कुलम्। असंशयं त्वमेवैकः शतादपि वरः सुतः॥
54न चाप्यहं वृथा भूयो दारान् कर्तुमिहोत्सहे। संतानस्याविनाशाय कामये भद्रमस्तु ते॥
55अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः। अग्निहोत्रं त्रयीविद्यासंतानमपि चाक्षयम्॥ सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम्। एवमेतन्मनुष्येषु तच सर्वप्रजास्विति॥
56यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः। एषा त्रयीपुराणानां देवतानां च शाश्वती॥
57त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत। नान्यत्र युद्धात् तस्मात् ते निधनं विद्यते क्वचित्॥
58सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत्। इति ते कारणं तात दुःखस्योक्तमशेषतः॥
59वैशम्पायन उवाच ततस्तत्कारणं राज्ञो ज्ञात्वा सर्वमशेषतः। देवव्रतो महाबुद्धिः प्रज्ञया चान्वचिन्तयत्॥
60अभ्यगच्छत् तदैवाशु वृद्धामात्यं पितुर्हितम्। तमपृच्छत् तदाभ्येत्य पितुस्तच्छोककारणम्॥
61तस्मै स कुरुमुख्याय यथावत् परिपृच्छते। वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ॥
62ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा। अभिगम्य दाशराजं कन्यां वन्ने पितुः स्वयम्॥
63तं दाशः प्रतिजग्राह विधिवत् प्रतिपूज्य च। अब्रवीचैनमासीनं राजसंसदि भारत॥
64त्वमेव नाथः पर्याप्तः शान्तनोर्भरतर्षभ। पुत्रः शस्त्रभृतां श्रेष्ठः किं तु वक्ष्यामि ते वचः॥
65को हि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम्। अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः॥
66अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः। यस्य शुक्रात् सत्यवती सम्भूता वरवर्णिनी॥
67तेन मे बहुशस्तात पिता ते परिकीर्तितः। अर्हः सत्यवतीं वोढुं धर्मज्ञः स नराधिपः॥
68अर्थितश्चापि राजर्षिः प्रत्याख्यातः पुरा मया। स चाप्यासीत् सत्यवत्या भृशमर्थी महायशाः॥ कन्यापितृत्वात् किंचित् तु वक्ष्यामि त्वां नराधिप। बलवत्सपत्नतामत्र दोषं पश्यामि केवलम्॥
69यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा। न स जातु चिरं जीवेत् त्वयि क्रुद्धे परंतप॥
70एतावानत्र दोषो हि नान्यः कश्चन पार्थिवा एतज्जानीहि भद्रं ते दानादाने परंतप॥
71वैशम्पायन उवाच एवमुक्तस्तु गाङ्गेयस्तयुक्तं प्रत्यभाषत। शृण्वतां भूमिपालानां पितुराय भारत॥
72इदं मे व्रतमादत्स्व सत्यं सत्यवतां वर। नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत्॥
73एवमेतत् करिष्यामि यथा त्वमनुभाषसे। योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति॥
74इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत। चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ॥
75त्वमेव नाथः सम्प्राप्तः शान्तनोरमिताते। कन्यायाश्चैव धर्मात्मन् प्रभुर्दानाय चेश्वरः॥
76इदं तु वचनं सौम्य कार्यं चैव निबोध मे। कौमारिकाणां शीलेन वक्ष्याम्यहमिरन्दम॥
77यत् त्वया सत्यवत्यर्थे सत्यधर्मपरायण। राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत्॥
78नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन। तवापत्यं भवेद् यत् तु तत्र नः संशयो महान्॥
79वैशम्पायन उवाच तस्यैतन्मतमाज्ञाय सत्यधर्मपरायणः। प्रत्यजानात् तदा राजन् पितुः प्रियचिकीर्षया॥
80दाशराज निबोधेदं वचनं मे नरोत्तम। शृण्वतां भूमिपालानां यद् ब्रवीमि पितुः कृते॥
81राज्यं तावत् पूर्वमेव मया त्यक्तं नराधिपाः। अपत्यहेतोरपि च करिष्येऽद्य विनिश्चयम्॥
82अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति। अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि॥
83वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः। ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत॥
84ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तदा। अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन्॥
85ततः स पितुराय तामुवाच यशस्विनीम्। अधिरोह रथं मातर्गच्छावः स्वगृहानिति॥
86वैशम्पायन उवाच एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भाविनीम्। आगम्य हास्तिनपुरं शान्तनोः संन्यवेदयत्॥
87तस्य तद् दुष्करं कर्म प्रशशंसुर्नराधिपाः। समेताश्च पृथक् चैव भीष्मोऽयमिति चाब्रुवन्॥
88तच्छ्रुत्वा दुष्करं कर्म कृतं भीष्मेण शान्तनुः। स्वच्छन्दमरणं तुष्टो ददौ तस्मै महात्मने॥
89न ते मृत्युः प्रभविता यावजीवितुमिच्छसि। त्वत्तो ह्यनुज्ञां सम्प्राप्य मृत्युः प्रभवितानघ॥
अंग्रेज़ी
1Vaishampayana said : The king Shantanu, adored of the celestials and the royal sages, was famous in all the worlds as being virtuous-minded and truthful.
2Self-control, liberality, forgiveness, intelligence, modesty, patience and superior energy ever dwelt in that best of men, Shantanu.
3That king endued with such accomplishments. He was learned in both Dharma and Artha. He was both the protector of the Bharata race and all the people,
4His neck was like the conch shell, his shoulder was broad, he was as powerful as a mad elephant. All the auspicious signs of royalty dwelt in his person and they considered that to be their best abode.
5The people, seeing the (virtuous) acts of that king of great achievements, came to know that virtue was ever superior to pleasure and profit. was
6These accomplishments were all in that best of men, Shantanu and no other king was to equal him in virtue.
7All the kings of the earth, seeing him devoted to all kinds of virtues, installed him as the king of kings.
8All the kings were free from misery, fear and anxiety of all kinds during the reign of that lord-protector of the Bharata race. They all slept in peace and rose in peace after happy dreams,
9All the kings became virtuous and devoted to liberality and religious acts and sacrifices from the great example set by that great king of wonderful achievements (Shantanu) who was like Indra himself.
10When the earth was ruled by Shantanu and other kings like him, the religious merits of every order greatly increased.
11The Brahmanas were served by the Kshatriyas; the Kshatriyas were served by the Vaishyas; the Shudras, adoring both the Brahmanas and the Kshatriyas, served the Vaishyas.
12Shantanu lived in Hastinapur, the beautiful capital of the Kurus; he ruled over the whole earth bounded by the sea.
13He was truthful and virtuous like the king of the celestial; and from his liberality, virtues and asceticism he acquired great fortune.
14He was free from anger and malice, he was as handsome as Soma himself. He was as effulgent as the sun and as courageous as the Vayu. He was like Yama in anger and like Earth in patience.
15O king, when Shantanu ruled the earth, no deer, beers, birds or other animals were needlessly killed.
16The virtue of kindness reigned in the kingdom of Shantanu, who himself was full of mercy and free from anger. He equally protected all creatures.
17The sacrifices in honour of the celestials, Rishis and Pitris were performed but no creature was sinfully deprived of its life.
18That king became a father of those that were miserable, of those that had not protectors, nay even of birds and beasts and all creatures.
19During the reign of that best of the Kuru kings, the king of all kings, (Shantanu) the speech was mixed with truth and mind was devoted to liberality and virtue.
20Having enjoyed the companionship of women thirty six years, he retired into a forest.
21Shantanu's son, the Vasu, born of Ganga, named Devavrata, resembled his father in beauty, in conduct, in habits and in learning.
22He was expert in all sorts of weapons belonging to heaven and earth. He was greatly strong and vastly energetic; he was a great carwarrior; and he was a great beauty.
23Once on a time, he (Shantanu) wounded a beer and pursued it along the banks of the Ganges. The king Shantanu saw that the Bhagirathi (Ganga) had became shallow.
24Having seen this, the best of men, Shantanu began to reflect, "Why, does not the best of rivers run as before?"
25In searching for its cause, the illustrious king saw a beautiful, strong built and amiable youth. Like Indra himself, who had checked the flow of the river Ganga by his sharp celestial weapons.
26The king, seeing this wonderful feat (of the youth), namely the checking of Ganga in her course by arrows, was very much surprised.
27Shantanu had seen him only once, a few minutes after his birth; therefore, he had not sufficient recollection to identify that youth with his son.
28But the youth, as soon as he saw his father, clouded the king's perception by Maya (delusion) and instantly disappeared before his very sight.
29The king Shantanu, being much surprised with what he saw and believing the youth to be his own son, said to Ganga, "Show me the child."
30Ganga, assuming a beautiful form, showed him the youth decked in ornaments, holding him by his right hand.
31Shantanu could not recognise that beautiful lady, bedecked with ornaments and attired in fine robes, though he had seen her before.
32Ganga said : O king, O best of men, the eighth son whom you formerly begot on me, is this, Know that this excellent child is expert in all the weapons.
33O great king, take him now. He has been carefully reared by me. O best of men, taking him with you, go home.
34This greatly energetic boy has studied with Vasistha all the Vedas with their Angas. He is skillful in all the weapons, he is a great bowman, he is like Indra himself in battle.
35O descendant of the Bharata race, both the celestial and the Asuras look on him with favour. Whatever the Vedas and Shastras are known to Ushanas (Shukra) are all known to this boy.
36All the Vedas and Shastras that are known by the son of Angirasa (Brihaspati), adored of the celestials and Asuras, he is master of them all. All the weapons that were known to the powerful and invincible son of Jamadagni (Parashurama) are fully and completely known to your this illustrious and mighty-armed son. king, this boy is a great bow-man and learned in the treatises on the duties of kings. O hero, take home your this heroic son given by me.
37Vaishampayana said : Having been thus commanded by her (Ganga), Shantanu took his son, as effulgent as the sun and started for his own capital. Having reached the city which was like the City of Indra, the descendant of Puru (Shantanu) considered himself very fortunate and successful in his wishes. He then installed his accomplished and illustrious son as his heirapparent for the protection of the kingdom of the Kurus. O best of the Bharatas, the illustrious son soon pleased his father and all the members of his family. He pleased all the subjects of his kingdom by his conduct. The greatly powerful king lived happily with his son for four years. Once on a time, he went to a forest on the banks of the river, named Yamuna. When the kin was roaming there, he perceived a sweet scent coming from an unknown direction.
38Being desirous of finding out its cause, he wandered about hither and thither; and (at last) he saw a maiden of celestial beauty, belonging to the fishermen class.
39Having seen her, he asked that black-eyed maiden, "O timid maiden, who are you? What are you doing here?” She said, “Blessing be upon you! I am the daughter of the chief of the fishermen. By the command of my father I am engaged to row this boat of take people across this river for religious merits.” Having seen her endued with celestial beauty, amiableness and fragrance, the king Shantanu desired to possess her. He went to her father and asked him to bestow her upon him.
40He desired to know whether he was willing to give her in marriage. The chief of the fishermen replied to the king saying, “As soon as that best of beautiful girls was born it, it was understood by me that she should be bestowed (on some one). But, О king, hear the desire that I have in my heart.
41O sinless one, if you desire to makes her your lawful wife, you are truthful, then truly give me a pledge.
42O king, if you give me the pledge, I shall then bestow my daughter on you, for I can never obtain a husband for her like you."
43Shantanu said : O fisherman, after hearing what you ask, I can then say whether I will be able to grant it or not. If it is capable of being granted, I shall certainly grant it.
44The fisherman said: O king, the son that will be born of this girl shall be installed on your throne and none else shall you make your successor.
45Vaishampayana said : O descendant of Bharata race, Shantanu became unwilling to grant the wish of the fisherman, thought his body was being burnt by the fire of desire.
46That lord of the earth returned to Hastinapur, thinking of the daughter of the fisherman and his heart afflicted by desire.
47One day when he was thus meditating over (the girl) in sorrow, his son Devavrata came to him and said-
48"All is prosperity with you; all chiefs and potentates obey you, why then you grieve thus in sorrow?
49O king, deep in your own thoughts, you do not speak a word to me in reply. You do not now go out on horse back. You are pale and emaciated and discoloured.
50I wish to know the disease from which you suffer, so that I may try to get a remedy." Having been thus addressed by his son, Shantanu replied,
51"Truly I am melancholy. Hear why I am so. O descendant of Bharata race, you are the only son in this our great dynasty.
52You are always engaged in the sports of arms and achievement of power. O son, I am, however, always thinking of the instability of life.
53O son of Ganga, if anything happens to you, we shall be sonless and we shall have no descendants. Truly you alone are equal to one hundred best sons.
54I do not, therefore, desire to marry again. I only desire that prosperity may always attend on you, SO that our dynasty may be perpetuated.
55The religious men say that he who has one son has no son at all. The Agnihotra worship and three classes of study do not yield the one sixteenth part of the religious merits as are derived by the birth of a son. There is hardly any difference in this respect between men and other animals.
56I have no doubt that he who has got a son gains heaven. The three Vedas, which are the roots of the Puranas and which authoritative even to the celestials, contain many proofs of this.
57O descendant of the Bharata race, you are a hero of excitable temper; and you are always engaged in the exercises of arms. There is every likelihood of your being killed on the field of battle.
58"If it so happens, what would be the state of our race! For this reason I am melancholy. I have now told you the cause of my sorrow!” are
59Vaishampayana said : Having heard the cause (of his grief) from the king, the greatly intelligent and wise Devavrata thought for a while.
60He then went to the old minister, devoted to his father's welfare. He asked him the cause of his father's sorrow.
61O best of the Bharata race, that foremost of the Kurus asked him all about it and he then heard from him about the pledge regarding the maiden.
62Thereupon, Devavrata, accompanied with many venerable Kshatriya chiefs, went to the chief of the fishermen and begged his daughter for his father.
63The fisherman received him with all due adorations. O descendant of the Bharata race, when the prince was seated, he addressed him thus-
64"O best of the Bharata race, you are the lord of great prowess, you are the best of wielders of arms. You are the only son of Shantanu, But I have something to tell you.
65If the bride's father be Indra himself, still he is to repent for rejecting such an exceedingly honourable and desirable proposal of marriage.
66The great man from whose seed was born this most beautiful maiden Satyavati is equal to you in virtue.
67He has many times recounted to me the great achievements of your father. He has told me that, that virtuous king is worthy of marrying Satyavati.
68Allow me to tell you that I have formerly rejected the offer of that best of Brahmarshis, the celestial sage Asita, who had often asked Satyavati in marriage. O king, I have only one word to say on behalf of this maiden as her father. The only strong objection in this matter is the fact of a rival in a co-wife's son.
69O chastiser of foes, he is not safe, even he be an Asura or a Gandharva, who is your foe. He will never live long if you grow angry.
70O king, this is the only objection in the marriage. There is no other. O chastiser of foes, know, this is all I have to say in the matter of bestowal (of Satyavati)"
71Vaishampayana said : O descendant of the Bharata race, having been thus addressed, the son of Ganga (Devavrata) replied to him in the hearing of all the chiefs and potentates for the sake of his father.
72O foremost of truthful men, listen to the vow I take today. There is none born or will be born who will have the courage to take to take such a vow.
73I shall do what you demand. The son that will be born of this maiden will be our king.
74O best of the Bharata race, having been thus addressed (by Bhishma), the chief of the fishermen, desirous of achieving the difficult matter of making his daughter's son king, thus spoke to him.
75The Fisherman said : "O virtuous-minded man, you have come here as the full manager of your greatly glorious father. But also the sole manager on my behalf in the matter of the bestowal of this girl.
76O Gentle Sir, there is something else to be said and something else to be done. O chastiser of foes, those that have daughter must say what I say.
77O devotee of the religion of truth, the pledge that you have taken in the midst of these chiefs for the sake of Satyavati is worthy of you.
78I have not the least doubt that it will never be violated by you. But I have great doubt in respect of your sons.
79Vaishampayana said : O king, the devotee of religion of truth,(Devavrata), knowing the scruple of the fisherman and being moved by the desire of doing good to his father then said.
80O chief of the fishermen, O best of chiefs, hear what I say for the sake of my father before all these chiefs and potentates.
81O chiefs and potentates, I relinquished my right to the throne a few moments before. I shall now settle the doubt that has arisen in respect to my sons.
82O fisherman, from this day I adopt the vow of Brahmacharya. If I die sonless, still I shall ascend to the rejoins of the everlasting bliss.
83Vaishampayana said : Having heard those words, the hair of the fisherman stood erect in delight and he said, “I bestowed my daughter."
84Thereupon the Apsaras, the celestial and the various classes of Rishis, began to pour down flowers from the firmament (upon the head of Devavrata) and they all exclaimed "This man is Bhishma (the terrible.)"
85He (Bhishma) them for the sake of his father, addressed the illustrious (lady) thus, “O mother, ascend this chariot and let us go to our home."
86Vaishampayana said : Having said this, Bhishma made the beautiful maiden ascend his car. Then coming to Hastinapur, he told Shantanu all that had happened.
87All the assembled chiefs and potentates applauded him jointly and individually for his great act. They exclaimed, “He is (really) Bhishma."
88Having heard the great deed performed by his son Bhishma, Shantanu gave that illustrious man the boon of dying at will.
89He said, "O my sinless son! death will have no effect untill you wish to live. Death can influence you only after your permission.
हिन्दी
1वैशम्पायन ने कहा — देवताओं और राजर्षियों द्वारा पूजित राजा शान्तनु धर्मात्मा और सत्यवादी होने के कारण समस्त लोकों में प्रसिद्ध थे।
2आत्मसंयम, उदारता, क्षमा, बुद्धि, लज्जा, धैर्य और उत्कृष्ट तेज — ये सदा मनुष्यों में श्रेष्ठ उन शान्तनु में निवास करते थे।
3वे राजा ऐसे गुणों से सम्पन्न थे। वे धर्म और अर्थ — दोनों के ज्ञाता थे। वे भरतवंश और समस्त प्रजा — दोनों के रक्षक थे।
4उनका कण्ठ शंख के समान था, उनके कन्धे चौड़े थे, वे मत्त हाथी के समान बलशाली थे। राजोचित समस्त शुभ लक्षण उनके शरीर में निवास करते थे और वे उसे ही अपना सर्वोत्तम धाम मानते थे।
5महान् कर्मों वाले उन राजा के (पुण्य) कर्मों को देखकर प्रजा ने जान लिया कि धर्म सदा काम और अर्थ से श्रेष्ठ है।
6ये समस्त गुण मनुष्यों में श्रेष्ठ उन शान्तनु में थे और धर्म में कोई अन्य राजा उनकी समता नहीं कर सकता था।
7उन्हें सब प्रकार के धर्मों में निरत देखकर पृथ्वी के समस्त राजाओं ने उन्हें राजाधिराज पद पर अभिषिक्त किया।
8भरतवंश के उन रक्षक-अधिपति के शासनकाल में समस्त राजा दुःख, भय और सब प्रकार की चिन्ता से मुक्त थे। वे सब शान्ति से सोते थे और सुखद स्वप्नों के बाद शान्ति से जागते थे।
9साक्षात् इन्द्र के समान अद्भुत कर्मों वाले उन महान् राजा (शान्तनु) के महान् आदर्श से समस्त राजा धर्मात्मा तथा दान, धर्मकर्म और यज्ञों में निरत हो गए।
10जब पृथ्वी पर शान्तनु और उन जैसे अन्य राजाओं का शासन था, तब प्रत्येक वर्ण का धर्मपुण्य अत्यन्त बढ़ गया।
11ब्राह्मणों की सेवा क्षत्रिय करते थे; क्षत्रियों की सेवा वैश्य करते थे; और शूद्र ब्राह्मणों तथा क्षत्रियों — दोनों की पूजा करते हुए वैश्यों की सेवा करते थे।
12शान्तनु कुरुओं की सुन्दर राजधानी हस्तिनापुर में रहते थे; वे समुद्र से घिरी समस्त पृथ्वी पर शासन करते थे।
13वे देवराज के समान सत्यवादी और धर्मात्मा थे; और अपनी उदारता, गुणों तथा तप से उन्होंने महान् सम्पदा प्राप्त की।
14वे क्रोध और द्वेष से मुक्त थे, वे साक्षात् सोम के समान सुन्दर थे। वे सूर्य के समान तेजस्वी और वायु के समान साहसी थे। वे क्रोध में यम के समान और धैर्य में पृथ्वी के समान थे।
15हे राजन्, जब शान्तनु पृथ्वी पर शासन करते थे, तब कोई मृग, भालू, पक्षी अथवा अन्य प्राणी व्यर्थ नहीं मारा जाता था।
16शान्तनु के राज्य में दया का धर्म राज करता था; वे स्वयं करुणा से भरे और क्रोध से मुक्त थे। वे समस्त प्राणियों की समान रूप से रक्षा करते थे।
17देवताओं, ऋषियों और पितरों के सम्मान में यज्ञ होते थे, किन्तु किसी प्राणी को पापपूर्वक प्राणों से वंचित नहीं किया जाता था।
18वे राजा दुःखियों के, अनाथों के, यहाँ तक कि पशु-पक्षियों और समस्त प्राणियों के भी पिता बन गए।
19कुरुराजाओं में श्रेष्ठ, समस्त राजाओं के राजा उन (शान्तनु) के शासनकाल में वाणी सत्य से युक्त थी और मन दान तथा धर्म में निरत था।
20छत्तीस वर्ष तक स्त्रियों का संग भोगकर वे वन को चले गए।
21शान्तनु के पुत्र, गंगा से उत्पन्न वसु, जिनका नाम देवव्रत था, सौन्दर्य, आचरण, स्वभाव और विद्या में अपने पिता के समान थे।
22वे स्वर्ग और पृथ्वी के समस्त अस्त्र-शस्त्रों में निपुण थे। वे अत्यन्त बलशाली और महातेजस्वी थे; वे महारथी थे; और वे परम सुन्दर थे।
23एक बार उन्होंने (शान्तनु ने) एक भालू को घायल किया और गंगा के तट पर उसका पीछा किया। तब राजा शान्तनु ने देखा कि भागीरथी (गंगा) उथली हो गई है।
24यह देखकर मनुष्यों में श्रेष्ठ शान्तनु विचार करने लगे — "नदियों में श्रेष्ठ यह क्यों पहले की भाँति नहीं बह रही?"
25इसका कारण खोजते हुए उन यशस्वी राजा ने एक सुन्दर, बलिष्ठ और सौम्य युवक को देखा, जिसने साक्षात् इन्द्र के समान अपने तीक्ष्ण दिव्यास्त्रों से गंगा नदी का प्रवाह रोक रखा था।
26(उस युवक का) यह अद्भुत कर्म — अर्थात् बाणों से गंगा को उसके प्रवाह में रोक देना — देखकर राजा अत्यन्त विस्मित हुए।
27शान्तनु ने उसे केवल एक बार, उसके जन्म के कुछ ही क्षण पश्चात् देखा था; इसलिए उन्हें उस युवक को अपना पुत्र पहचानने योग्य स्मृति नहीं थी।
28किन्तु उस युवक ने अपने पिता को देखते ही माया से राजा की दृष्टि को आच्छादित कर दिया और उनके देखते-देखते तत्काल अन्तर्धान हो गया।
29जो कुछ उन्होंने देखा उससे अत्यन्त विस्मित और उस युवक को अपना ही पुत्र मानते हुए राजा शान्तनु ने गंगा से कहा — "मुझे वह बालक दिखाओ।"
30गंगा ने सुन्दर रूप धारण करके उस युवक को, जो आभूषणों से विभूषित था, उसका दाहिना हाथ पकड़कर उन्हें दिखाया।
31आभूषणों से सजी और महीन वस्त्र धारण किए उस सुन्दरी को शान्तनु पहचान नहीं सके, यद्यपि उन्होंने उसे पहले देखा था।
32गंगा ने कहा — हे राजन्, हे मनुष्यों में श्रेष्ठ, पूर्वकाल में आपने मुझसे जो आठवाँ पुत्र उत्पन्न किया था, वह यही है। जानिए, यह उत्तम बालक समस्त अस्त्रों में निपुण है।
33हे महाराज, अब इसे ले जाइए। मैंने इसका यत्नपूर्वक पालन किया है। हे मनुष्यों में श्रेष्ठ, इसे साथ लेकर घर जाइए।
34इस महातेजस्वी बालक ने वसिष्ठ के पास सांगोपांग समस्त वेदों का अध्ययन किया है। यह समस्त अस्त्रों में कुशल है, यह महान् धनुर्धर है, यह युद्ध में साक्षात् इन्द्र के समान है।
35हे भरतवंशी, देवता और असुर — दोनों इसे कृपादृष्टि से देखते हैं। उशना (शुक्र) को जो-जो वेद और शास्त्र ज्ञात हैं, वे सब इस बालक को ज्ञात हैं।
36देवताओं और असुरों द्वारा पूजित अंगिरा के पुत्र (बृहस्पति) को जो-जो वेद और शास्त्र ज्ञात हैं, यह उन सबका स्वामी है। जमदग्नि के बलशाली और अजेय पुत्र (परशुराम) को जो-जो अस्त्र ज्ञात थे, वे सब आपके इस यशस्वी और महाबाहु पुत्र को पूर्ण रूप से ज्ञात हैं। हे राजन्, यह बालक महान् धनुर्धर और राजधर्म के ग्रन्थों का ज्ञाता है। हे वीर, मेरे द्वारा दिए गए अपने इस वीर पुत्र को घर ले जाइए।
37वैशम्पायन ने कहा — उन (गंगा) द्वारा इस प्रकार आज्ञा दिए जाने पर शान्तनु अपने सूर्य के समान तेजस्वी पुत्र को लेकर अपनी राजधानी को चले। इन्द्र की नगरी के समान उस नगर में पहुँचकर पुरुवंशी (शान्तनु) ने स्वयं को अत्यन्त भाग्यशाली और अपनी कामनाओं में सफल माना। तब उन्होंने कुरुओं के राज्य की रक्षा के लिए अपने गुणसम्पन्न और यशस्वी पुत्र को युवराज पद पर अभिषिक्त किया। हे भरतवंश में श्रेष्ठ, उस यशस्वी पुत्र ने शीघ्र ही अपने पिता और अपने कुल के समस्त सदस्यों को प्रसन्न कर दिया। उसने अपने आचरण से राज्य की समस्त प्रजा को प्रसन्न किया। वे महाबली राजा अपने पुत्र के साथ चार वर्ष सुखपूर्वक रहे। एक बार वे यमुना नामक नदी के तट पर एक वन में गए। जब राजा वहाँ विचर रहे थे, तब उन्हें किसी अज्ञात दिशा से आती हुई मधुर सुगन्ध का अनुभव हुआ।
38उसका कारण जानने की इच्छा से वे इधर-उधर घूमते रहे; और (अन्ततः) उन्होंने धीवर जाति की एक दिव्य सौन्दर्य वाली कन्या को देखा।
39उसे देखकर उन्होंने उस कृष्णनयनी कन्या से पूछा — "हे भीरु बाले, तुम कौन हो? यहाँ क्या कर रही हो?" उसने कहा — "आपका कल्याण हो! मैं धीवरों के प्रधान की पुत्री हूँ। अपने पिता की आज्ञा से मैं इस नौका को खेकर पुण्य के लिए लोगों को इस नदी के पार पहुँचाने के कार्य में लगी हूँ।" उसे दिव्य सौन्दर्य, सौम्यता और सुगन्ध से सम्पन्न देखकर राजा शान्तनु ने उसे पाने की इच्छा की। वे उसके पिता के पास गए और उनसे उसे देने की याचना की।
40वे जानना चाहते थे कि क्या वह उसे विवाह में देने को तैयार है। धीवरों के प्रधान ने राजा को उत्तर देते हुए कहा — "उस सुन्दरियों में श्रेष्ठ कन्या के जन्म लेते ही मैंने समझ लिया था कि इसे (किसी को) दिया जाना है। किन्तु हे राजन्, मेरे हृदय में जो इच्छा है, उसे सुनिए।
41हे निष्पाप, यदि आप उसे अपनी विवाहिता पत्नी बनाना चाहते हैं और यदि आप सत्यवादी हैं, तो सचमुच मुझे एक वचन दीजिए।
42हे राजन्, यदि आप मुझे वह वचन देंगे, तो मैं अपनी पुत्री आपको दे दूँगा; क्योंकि मुझे उसके लिए आप जैसा पति कभी नहीं मिल सकता।"
43शान्तनु ने कहा — हे धीवर, तुम क्या माँगते हो यह सुनने के पश्चात् ही मैं कह सकूँगा कि मैं उसे दे सकूँगा या नहीं। यदि वह देने योग्य होगा, तो मैं उसे निश्चय ही दूँगा।
44धीवर ने कहा — हे राजन्, इस कन्या से जो पुत्र उत्पन्न होगा, वही आपके सिंहासन पर बैठाया जाएगा और आप किसी अन्य को अपना उत्तराधिकारी नहीं बनाएँगे।
45वैशम्पायन ने कहा — हे भरतवंशी, यद्यपि शान्तनु का शरीर कामाग्नि से जल रहा था, तथापि वे धीवर की यह इच्छा पूर्ण करने को तैयार नहीं हुए।
46वे पृथ्वीपति धीवर की उस कन्या का चिन्तन करते हुए और कामना से पीड़ित हृदय लिए हस्तिनापुर लौट आए।
47एक दिन जब वे इस प्रकार शोक में (उस कन्या का) ध्यान कर रहे थे, तब उनके पुत्र देवव्रत ने उनके पास आकर कहा —
48"आपका सब कुशल है; समस्त प्रधान और शासक आपकी आज्ञा मानते हैं; फिर आप इस प्रकार शोक में क्यों दुखी हैं?
49हे राजन्, अपने ही विचारों में डूबे हुए आप मुझे उत्तर में एक शब्द भी नहीं कहते। अब आप अश्व पर बाहर भी नहीं जाते। आप विवर्ण, कृश और कान्तिहीन हो गए हैं।
50मैं वह रोग जानना चाहता हूँ जिससे आप पीड़ित हैं, जिससे मैं उसका उपचार खोजने का प्रयत्न करूँ।" पुत्र के इस प्रकार कहने पर शान्तनु ने उत्तर दिया —
51"सचमुच मैं उदास हूँ। सुनो, मैं ऐसा क्यों हूँ। हे भरतवंशी, हमारे इस महान् वंश में तुम एकमात्र पुत्र हो।
52तुम सदा शस्त्राभ्यास और पराक्रम-प्राप्ति में लगे रहते हो। हे पुत्र, किन्तु मैं सदा जीवन की अनित्यता का विचार करता रहता हूँ।
53हे गंगापुत्र, यदि तुम्हें कुछ हो गया, तो हम निःसन्तान हो जाएँगे और हमारा कोई वंशज नहीं रहेगा। सचमुच तुम अकेले ही सौ उत्तम पुत्रों के समान हो।
54इसलिए मैं पुनः विवाह करना नहीं चाहता। मैं केवल यही चाहता हूँ कि तुम्हारा सदा कल्याण हो, जिससे हमारा वंश चलता रहे।
55धर्मज्ञ पुरुष कहते हैं कि जिसके एक ही पुत्र है, उसके मानो कोई पुत्र नहीं है। अग्निहोत्र की उपासना और तीन प्रकार के अध्ययन से भी उतने धर्मपुण्य का सोलहवाँ भाग नहीं मिलता, जितना पुत्र के जन्म से मिलता है। इस विषय में मनुष्यों और अन्य प्राणियों में प्रायः कोई भेद नहीं है।
56मुझे इसमें कोई सन्देह नहीं कि जिसके पुत्र होता है वह स्वर्ग प्राप्त करता है। पुराणों के मूल और देवताओं के लिए भी प्रामाणिक तीनों वेदों में इसके अनेक प्रमाण हैं।
57हे भरतवंशी, तुम उत्तेजनशील स्वभाव वाले वीर हो; और तुम सदा शस्त्राभ्यास में लगे रहते हो। रणभूमि में तुम्हारे मारे जाने की पूरी सम्भावना है।
58"यदि ऐसा हुआ, तो हमारे वंश की क्या दशा होगी! इसी कारण मैं उदास हूँ। अब मैंने तुम्हें अपने शोक का कारण बता दिया है!"
59वैशम्पायन ने कहा — राजा से (अपने शोक का) कारण सुनकर वे अत्यन्त बुद्धिमान् और विवेकी देवव्रत कुछ क्षण विचार करते रहे।
60तत्पश्चात् वे अपने पिता के हितैषी उस वृद्ध मन्त्री के पास गए। उन्होंने उससे अपने पिता के शोक का कारण पूछा।
61हे भरतवंश में श्रेष्ठ, कुरुओं में अग्रगण्य उन्होंने उससे इस विषय में सब कुछ पूछा और तब उन्होंने उससे उस कन्या के विषय में माँगे गए वचन के बारे में सुना।
62तब देवव्रत अनेक आदरणीय क्षत्रिय प्रधानों को साथ लेकर धीवरों के प्रधान के पास गए और अपने पिता के लिए उसकी पुत्री माँगी।
63धीवर ने यथोचित सत्कार के साथ उनका स्वागत किया। हे भरतवंशी, जब राजकुमार आसन पर बैठ गए, तब उसने उनसे इस प्रकार कहा —
64"हे भरतवंश में श्रेष्ठ, आप महापराक्रमी स्वामी हैं, आप अस्त्रधारियों में श्रेष्ठ हैं। आप शान्तनु के एकमात्र पुत्र हैं। किन्तु मुझे आपसे कुछ कहना है।
65यदि कन्या का पिता स्वयं इन्द्र भी हो, तो भी विवाह के ऐसे अत्यन्त सम्माननीय और वांछनीय प्रस्ताव को ठुकराने पर उसे पछताना पड़ेगा।
66जिस महापुरुष के वीर्य से यह परम सुन्दरी कन्या सत्यवती उत्पन्न हुई, वह धर्म में आपके समान है।
67उसने मुझसे अनेक बार आपके पिता के महान् कर्मों का वर्णन किया है। उसने मुझसे कहा है कि वे धर्मात्मा राजा सत्यवती से विवाह करने के योग्य हैं।
68मुझे यह कहने दीजिए कि मैंने पूर्वकाल में ब्रह्मर्षियों में श्रेष्ठ, देवर्षि असित का प्रस्ताव भी ठुकराया था, जिन्होंने अनेक बार सत्यवती से विवाह की याचना की थी। हे राजन्, इस कन्या के पिता होने के नाते मुझे इसके विषय में केवल एक ही बात कहनी है। इस विषय में एकमात्र प्रबल आपत्ति यह है कि सपत्नी के पुत्र का प्रतिद्वन्द्वी होना।
69हे शत्रुदमन, जो आपका शत्रु है वह सुरक्षित नहीं है, चाहे वह असुर हो या गन्धर्व। यदि आप क्रुद्ध हो जाएँ, तो वह कभी दीर्घकाल तक जीवित नहीं रहेगा।
70हे राजन्, इस विवाह में यही एकमात्र आपत्ति है, और कोई नहीं। हे शत्रुदमन, जान लीजिए, (सत्यवती को) देने के विषय में मुझे इतना ही कहना है।"
71वैशम्पायन ने कहा — हे भरतवंशी, इस प्रकार कहे जाने पर गंगापुत्र (देवव्रत) ने अपने पिता के लिए समस्त प्रधानों और शासकों के सुनते हुए उसे उत्तर दिया।
72हे सत्यवादियों में अग्रगण्य, आज मैं जो व्रत ले रहा हूँ उसे सुनो। न कोई ऐसा उत्पन्न हुआ है, न होगा, जिसमें ऐसा व्रत लेने का साहस हो।
73तुम जो माँगते हो, मैं वही करूँगा। इस कन्या से जो पुत्र उत्पन्न होगा, वही हमारा राजा होगा।
74हे भरतवंश में श्रेष्ठ, (भीष्म द्वारा) इस प्रकार कहे जाने पर अपनी पुत्री के पुत्र को राजा बनाने के उस कठिन कार्य को सिद्ध करने की इच्छा से धीवरों के प्रधान ने उनसे इस प्रकार कहा।
75धीवर ने कहा — "हे धर्मात्मन्, आप यहाँ अपने महायशस्वी पिता के पूर्ण प्रतिनिधि के रूप में आए हैं। किन्तु इस कन्या को देने के विषय में आप मेरी ओर से भी एकमात्र प्रतिनिधि हैं।
76हे सौम्य महोदय, कुछ और भी कहना है और कुछ और भी करना है। हे शत्रुदमन, जिनकी पुत्रियाँ हैं, उन्हें वही कहना पड़ता है जो मैं कह रहा हूँ।
77हे सत्यधर्म के उपासक, सत्यवती के लिए इन प्रधानों के मध्य आपने जो वचन लिया है, वह आपके योग्य ही है।
78मुझे तनिक भी सन्देह नहीं कि आप उसका कभी उल्लंघन नहीं करेंगे। किन्तु आपके पुत्रों के विषय में मुझे बड़ा सन्देह है।
79वैशम्पायन ने कहा — हे राजन्, सत्यधर्म के उपासक (देवव्रत) ने धीवर की शंका जानकर और अपने पिता का हित करने की इच्छा से प्रेरित होकर तब कहा।
80हे धीवरों के प्रधान, हे प्रधानों में श्रेष्ठ, इन समस्त प्रधानों और शासकों के समक्ष मैं अपने पिता के लिए जो कहता हूँ, उसे सुनो।
81हे प्रधानो और शासको, कुछ ही क्षण पूर्व मैंने सिंहासन पर अपना अधिकार त्याग दिया। अब मैं वह सन्देह भी दूर कर देता हूँ जो मेरे पुत्रों के विषय में उठा है।
82हे धीवर, आज से मैं ब्रह्मचर्य का व्रत ग्रहण करता हूँ। यदि मैं निःसन्तान ही मरूँ, तो भी मैं शाश्वत आनन्द के लोकों को जाऊँगा।
83वैशम्पायन ने कहा — ये वचन सुनकर हर्ष से धीवर के रोम खड़े हो गए और उसने कहा — "मैंने अपनी पुत्री दे दी।"
84तब अप्सराओं, देवताओं और विविध ऋषिगणों ने आकाश से (देवव्रत के मस्तक पर) पुष्पवर्षा आरम्भ कर दी और वे सब बोल उठे — "यह पुरुष भीष्म (भयंकर व्रत वाला) है।"
85तब उन्होंने (भीष्म ने) अपने पिता के लिए उस यशस्विनी (देवी) से कहा — "हे माता, इस रथ पर आरूढ़ हो जाइए और हम अपने घर चलें।"
86वैशम्पायन ने कहा — यह कहकर भीष्म ने उस सुन्दरी कन्या को अपने रथ पर बैठाया। तत्पश्चात् हस्तिनापुर आकर उन्होंने शान्तनु से सब कुछ कह सुनाया जो हुआ था।
87एकत्रित समस्त प्रधानों और शासकों ने उनके इस महान् कर्म के लिए सामूहिक रूप से और अलग-अलग भी उनकी प्रशंसा की। वे बोल उठे — "ये (वास्तव में) भीष्म हैं।"
88अपने पुत्र भीष्म द्वारा किया गया वह महान् कर्म सुनकर शान्तनु ने उस यशस्वी पुरुष को इच्छामृत्यु का वर दिया।
89उन्होंने कहा — "हे मेरे निष्पाप पुत्र! जब तक तुम जीवित रहना चाहोगे, तब तक मृत्यु का तुम पर कोई प्रभाव नहीं होगा। मृत्यु तुम्हारी अनुमति के बाद ही तुम पर प्रभाव डाल सकेगी।"
नेपाली
1वैशम्पायनले भने — देवता र राजर्षिहरूद्वारा पूजित राजा शान्तनु धर्मात्मा र सत्यवादी भएकाले सम्पूर्ण लोकमा प्रसिद्ध थिए।
2आत्मसंयम, उदारता, क्षमा, बुद्धि, लाज, धैर्य र उत्कृष्ट तेज — यी सदा मानिसहरूमा श्रेष्ठ ती शान्तनुमा निवास गर्थे।
3ती राजा यस्ता गुणले सम्पन्न थिए। उनी धर्म र अर्थ — दुवैका ज्ञाता थिए। उनी भरतवंश र सम्पूर्ण प्रजा — दुवैका रक्षक थिए।
4उनको घाँटी शङ्खजस्तै थियो, उनका काँध चौडा थिए, उनी मातेको हात्तीजस्तै बलशाली थिए। राजोचित सम्पूर्ण शुभ लक्षण उनको शरीरमा निवास गर्थे र तिनले त्यसैलाई आफ्नो सर्वोत्तम धाम ठान्थे।
5महान् कर्म भएका ती राजाका (पुण्य) कर्म देखेर प्रजाले थाहा पाए कि धर्म सदा काम र अर्थभन्दा श्रेष्ठ छ।
6यी सम्पूर्ण गुण मानिसहरूमा श्रेष्ठ ती शान्तनुमा थिए र धर्ममा अरू कुनै राजाले उनको समानता गर्न सक्दैनथ्यो।
7उनलाई सबै प्रकारका धर्ममा निरत देखेर पृथ्वीका सम्पूर्ण राजाहरूले उनलाई राजाधिराज पदमा अभिषिक्त गरे।
8भरतवंशका ती रक्षक-अधिपतिको शासनकालमा सम्पूर्ण राजा दुःख, भय र सबै प्रकारको चिन्ताबाट मुक्त थिए। तिनीहरू सबै शान्तिले सुत्थे र सुखद सपनापछि शान्तिले ब्युँझन्थे।
9साक्षात् इन्द्रजस्तै अद्भुत कर्म भएका ती महान् राजा (शान्तनु) को महान् आदर्शले सम्पूर्ण राजा धर्मात्मा तथा दान, धर्मकर्म र यज्ञमा निरत भए।
10जब पृथ्वीमा शान्तनु र उनीजस्ता अन्य राजाहरूको शासन थियो, तब प्रत्येक वर्णको धर्मपुण्य अत्यन्त बढ्यो।
11ब्राह्मणहरूको सेवा क्षत्रियहरूले गर्थे; क्षत्रियहरूको सेवा वैश्यहरूले गर्थे; र शूद्रहरू ब्राह्मण तथा क्षत्रिय — दुवैको पूजा गर्दै वैश्यहरूको सेवा गर्थे।
12शान्तनु कुरुहरूको सुन्दर राजधानी हस्तिनापुरमा बस्थे; उनी समुद्रले घेरिएको सम्पूर्ण पृथ्वीमा शासन गर्थे।
13उनी देवराजजस्तै सत्यवादी र धर्मात्मा थिए; र आफ्नो उदारता, गुण तथा तपले उनले महान् सम्पदा प्राप्त गरे।
14उनी क्रोध र द्वेषबाट मुक्त थिए, उनी साक्षात् सोमजस्तै सुन्दर थिए। उनी सूर्यजस्तै तेजस्वी र वायुजस्तै साहसी थिए। उनी क्रोधमा यमजस्तै र धैर्यमा पृथ्वीजस्तै थिए।
15हे राजन्, जब शान्तनुले पृथ्वीमा शासन गर्थे, तब कुनै मृग, भालु, पक्षी अथवा अन्य प्राणी व्यर्थै मारिँदैनथ्यो।
16शान्तनुको राज्यमा दयाको धर्मले राज गर्थ्यो; उनी आफैँ करुणाले भरिएका र क्रोधबाट मुक्त थिए। उनी सम्पूर्ण प्राणीको समान रूपले रक्षा गर्थे।
17देवता, ऋषि र पितृहरूको सम्मानमा यज्ञ हुन्थे, तर कुनै प्राणीलाई पापपूर्वक प्राणबाट वञ्चित गरिँदैनथ्यो।
18ती राजा दुःखीहरूका, अनाथहरूका, यहाँसम्म कि पशुपक्षी र सम्पूर्ण प्राणीका पनि पिता बने।
19कुरुराजाहरूमा श्रेष्ठ, सम्पूर्ण राजाका राजा ती (शान्तनु) को शासनकालमा वाणी सत्ययुक्त थियो र मन दान तथा धर्ममा निरत थियो।
20छत्तीस वर्षसम्म स्त्रीहरूको सङ्ग भोगेर उनी वनतिर गए।
21शान्तनुका पुत्र, गङ्गाबाट जन्मेका वसु, जसको नाम देवव्रत थियो, सौन्दर्य, आचरण, स्वभाव र विद्यामा आफ्ना पिताजस्तै थिए।
22उनी स्वर्ग र पृथ्वीका सम्पूर्ण अस्त्रशस्त्रमा निपुण थिए। उनी अत्यन्त बलशाली र महातेजस्वी थिए; उनी महारथी थिए; र उनी परम सुन्दर थिए।
23एक पटक उनले (शान्तनुले) एउटा भालुलाई घाइते पारे र गङ्गाको किनारमा उसको पिछा गरे। तब राजा शान्तनुले देखे कि भागीरथी (गङ्गा) उथलो भइसकेकी छिन्।
24यो देखेर मानिसहरूमा श्रेष्ठ शान्तनु विचार गर्न थाले — "नदीहरूमा श्रेष्ठ यो किन पहिलेझैँ बगिरहेको छैन?"
25यसको कारण खोज्दै ती यशस्वी राजाले एक सुन्दर, बलिष्ठ र सौम्य युवकलाई देखे, जसले साक्षात् इन्द्रजस्तै आफ्ना तीखा दिव्यास्त्रले गङ्गा नदीको प्रवाह रोकिराखेका थिए।
26(त्यस युवकको) यो अद्भुत कर्म — अर्थात् बाणले गङ्गालाई उनको प्रवाहमै रोकिदिनु — देखेर राजा अत्यन्त विस्मित भए।
27शान्तनुले उनलाई केवल एक पटक, उनको जन्मको केही क्षणपछि मात्र देखेका थिए; त्यसैले उनलाई त्यस युवकलाई आफ्नो पुत्र चिन्न पुग्ने स्मृति थिएन।
28तर त्यस युवकले आफ्ना पितालाई देख्नासाथ मायाले राजाको दृष्टि आच्छादित पारिदिए र उनले हेर्दाहेर्दै तत्कालै अन्तर्धान भए।
29जे उनले देखे त्यसबाट अत्यन्त विस्मित र त्यस युवकलाई आफ्नै पुत्र ठान्दै राजा शान्तनुले गङ्गालाई भने — "मलाई त्यो बालक देखाऊ।"
30गङ्गाले सुन्दर रूप धारण गरेर त्यस युवकलाई, जो गहनाले विभूषित थिए, उनको दाहिने हात समातेर उनलाई देखाइन्।
31गहनाले सजिएकी र मसिना वस्त्र धारण गरेकी ती सुन्दरीलाई शान्तनुले चिन्न सकेनन्, यद्यपि उनले उनलाई पहिले देखेका थिए।
32गङ्गाले भनिन् — हे राजन्, हे मानिसहरूमा श्रेष्ठ, पूर्वकालमा तपाईंले मबाट जुन आठौँ पुत्र उत्पन्न गर्नुभएको थियो, त्यो यही हो। जान्नुहोस्, यो उत्तम बालक सम्पूर्ण अस्त्रमा निपुण छ।
33हे महाराज, अब यसलाई लैजानुहोस्। मैले यसको यत्नपूर्वक पालन गरेकी छु। हे मानिसहरूमा श्रेष्ठ, यसलाई सँगै लिएर घर जानुहोस्।
34यस महातेजस्वी बालकले वसिष्ठकहाँ साङ्गोपाङ्ग सम्पूर्ण वेदको अध्ययन गरेको छ। यो सम्पूर्ण अस्त्रमा कुशल छ, यो महान् धनुर्धर छ, यो युद्धमा साक्षात् इन्द्रजस्तै छ।
35हे भरतवंशी, देवता र असुर — दुवैले यसलाई कृपादृष्टिले हेर्छन्। उशना (शुक्र) लाई जुन-जुन वेद र शास्त्र ज्ञात छन्, ती सबै यस बालकलाई ज्ञात छन्।
36देवता र असुरहरूद्वारा पूजित अङ्गिराका पुत्र (बृहस्पति) लाई जुन-जुन वेद र शास्त्र ज्ञात छन्, यो ती सबैको स्वामी छ। जमदग्निका बलशाली र अजेय पुत्र (परशुराम) लाई जुन-जुन अस्त्र ज्ञात थिए, ती सबै तपाईंका यस यशस्वी र महाबाहु पुत्रलाई पूर्ण रूपले ज्ञात छन्। हे राजन्, यो बालक महान् धनुर्धर र राजधर्मका ग्रन्थको ज्ञाता छ। हे वीर, मैले दिएको आफ्नो यस वीर पुत्रलाई घर लैजानुहोस्।
37वैशम्पायनले भने — ती (गङ्गा) द्वारा यसरी आज्ञा दिइएपछि शान्तनु आफ्ना सूर्यजस्तै तेजस्वी पुत्रलाई लिएर आफ्नो राजधानीतिर लागे। इन्द्रको नगरीजस्तै त्यस नगरमा पुगेर पुरुवंशी (शान्तनु) ले आफूलाई अत्यन्त भाग्यशाली र आफ्ना कामनामा सफल ठाने। तब उनले कुरुहरूको राज्यको रक्षाका लागि आफ्ना गुणसम्पन्न र यशस्वी पुत्रलाई युवराज पदमा अभिषिक्त गरे। हे भरतवंशमा श्रेष्ठ, ती यशस्वी पुत्रले चाँडै नै आफ्ना पिता र आफ्नो कुलका सम्पूर्ण सदस्यलाई प्रसन्न पारे। उनले आफ्नो आचरणले राज्यका सम्पूर्ण प्रजालाई प्रसन्न पारे। ती महाबली राजा आफ्नो पुत्रसँग चार वर्ष सुखपूर्वक बसे। एक पटक उनी यमुना नामक नदीको किनारमा एक वनमा गए। जब राजा त्यहाँ विचरण गर्दै थिए, तब उनलाई कुनै अज्ञात दिशाबाट आइरहेको मधुर सुगन्धको अनुभव भयो।
38त्यसको कारण जान्ने इच्छाले उनी यताउति घुमिरहे; र (अन्ततः) उनले धीवर जातिकी एक दिव्य सौन्दर्य भएकी कन्यालाई देखे।
39उनलाई देखेर उनले ती कृष्णनयनी कन्यासँग सोधे — "हे भीरु बाला, तिमी को हौ? यहाँ के गरिरहेकी छ्यौ?" उनले भनिन् — "तपाईंको कल्याण होस्! म धीवरहरूका प्रधानकी पुत्री हुँ। आफ्ना पिताको आज्ञाले म यस डुङ्गा खियाएर पुण्यका लागि मानिसहरूलाई यस नदी तारिदिने कार्यमा लागेकी छु।" उनलाई दिव्य सौन्दर्य, सौम्यता र सुगन्धले सम्पन्न देखेर राजा शान्तनुले उनलाई पाउने इच्छा गरे। उनी उनका पिताकहाँ गए र उनीसँग उनलाई दिन याचना गरे।
40उनी जान्न चाहन्थे कि उनी उनलाई विवाहमा दिन तयार छन् कि छैनन्। धीवरहरूका प्रधानले राजालाई उत्तर दिँदै भने — "ती सुन्दरीहरूमा श्रेष्ठ कन्या जन्मनासाथ मैले बुझिसकेको थिएँ कि यसलाई (कसैलाई) दिइनुपर्छ। तर हे राजन्, मेरो हृदयमा जुन इच्छा छ, त्यो सुन्नुहोस्।
41हे निष्पाप, यदि तपाईं उनलाई आफ्नी विवाहिता पत्नी बनाउन चाहनुहुन्छ र यदि तपाईं सत्यवादी हुनुहुन्छ भने, साँच्चै मलाई एक वचन दिनुहोस्।
42हे राजन्, यदि तपाईंले मलाई त्यो वचन दिनुभयो भने, म आफ्नी पुत्री तपाईंलाई दिनेछु; किनकि मलाई उनका लागि तपाईंजस्तो पति कहिल्यै भेटिनेछैन।"
43शान्तनुले भने — हे धीवर, तिमी के माग्छौ भन्ने सुनेपछि मात्र म भन्न सक्नेछु कि म त्यो दिन सक्छु कि सक्दिनँ। यदि त्यो दिन योग्य भयो भने, म त्यो निश्चय नै दिनेछु।
44धीवरले भने — हे राजन्, यस कन्याबाट जुन पुत्र जन्मनेछ, उही तपाईंको सिंहासनमा राखिनेछ र तपाईंले अरू कसैलाई आफ्नो उत्तराधिकारी बनाउनुहुनेछैन।
45वैशम्पायनले भने — हे भरतवंशी, यद्यपि शान्तनुको शरीर कामाग्निले जलिरहेको थियो, तापनि उनी धीवरको यो इच्छा पूरा गर्न तयार भएनन्।
46ती पृथ्वीपति धीवरकी त्यस कन्याको चिन्तन गर्दै र कामनाले पीडित हृदय लिएर हस्तिनापुर फर्के।
47एक दिन जब उनी यसरी शोकमा (त्यस कन्याको) ध्यान गरिरहेका थिए, तब उनका पुत्र देवव्रतले उनीकहाँ आएर भने —
48"तपाईंको सबै कुशल छ; सम्पूर्ण प्रधान र शासकले तपाईंको आज्ञा मान्छन्; अनि तपाईं यसरी शोकमा किन दुःखी हुनुहुन्छ?
49हे राजन्, आफ्नै विचारमा डुबेका तपाईं मलाई उत्तरमा एक शब्द पनि भन्नुहुन्न। अब तपाईं अश्वमा बाहिर पनि जानुहुन्न। तपाईं विवर्ण, कृश र कान्तिहीन हुनुभएको छ।
50म त्यो रोग जान्न चाहन्छु जसबाट तपाईं पीडित हुनुहुन्छ, जसले गर्दा म त्यसको उपचार खोज्ने प्रयत्न गरूँ।" पुत्रले यसरी भनेपछि शान्तनुले उत्तर दिए —
51"साँच्चै म उदास छु। सुन, म किन यस्तो छु। हे भरतवंशी, हाम्रो यस महान् वंशमा तिमी एकमात्र पुत्र हौ।
52तिमी सदा शस्त्राभ्यास र पराक्रमप्राप्तिमा लागिरहन्छौ। हे पुत्र, तर म सदा जीवनको अनित्यताको विचार गरिरहन्छु।
53हे गङ्गापुत्र, यदि तिमीलाई केही भयो भने, हामी निःसन्तान हुनेछौँ र हाम्रो कुनै वंशज रहनेछैन। साँच्चै तिमी एक्लै सय उत्तम पुत्रबराबर छौ।
54त्यसैले म पुनः विवाह गर्न चाहन्नँ। म केवल यही चाहन्छु कि तिम्रो सदा कल्याण होस्, जसले गर्दा हाम्रो वंश चलिरहोस्।
55धर्मज्ञ पुरुषहरू भन्छन् कि जसको एउटै मात्र पुत्र छ, उसको मानौँ कुनै पुत्र छैन। अग्निहोत्रको उपासना र तीन प्रकारको अध्ययनले पनि त्यति धर्मपुण्यको सोह्रौँ भाग पाइँदैन, जति पुत्रको जन्मबाट पाइन्छ। यस विषयमा मानिस र अन्य प्राणीमा प्रायः कुनै भेद छैन।
56मलाई यसमा कुनै सन्देह छैन कि जसको पुत्र हुन्छ ऊ स्वर्ग प्राप्त गर्छ। पुराणका मूल र देवताका लागि पनि प्रामाणिक तीनै वेदमा यसका अनेक प्रमाण छन्।
57हे भरतवंशी, तिमी उत्तेजनशील स्वभाव भएका वीर हौ; र तिमी सदा शस्त्राभ्यासमा लागिरहन्छौ। रणभूमिमा तिमी मारिने पूरा सम्भावना छ।
58"यदि त्यसो भयो भने, हाम्रो वंशको के दशा होला! यसै कारण म उदास छु। अब मैले तिमीलाई आफ्नो शोकको कारण बताइसकेँ!"
59वैशम्पायनले भने — राजाबाट (आफ्नो शोकको) कारण सुनेर ती अत्यन्त बुद्धिमान् र विवेकी देवव्रत केही क्षण विचार गरिरहे।
60त्यसपछि उनी आफ्ना पिताका हितैषी ती वृद्ध मन्त्रीकहाँ गए। उनले उनीसँग आफ्ना पिताको शोकको कारण सोधे।
61हे भरतवंशमा श्रेष्ठ, कुरुहरूमा अग्रगण्य उनले उनीसँग यस विषयमा सबै कुरा सोधे र तब उनले उनीबाट त्यस कन्याका विषयमा मागिएको वचनबारे सुने।
62तब देवव्रत अनेक आदरणीय क्षत्रिय प्रधानहरूलाई साथ लिएर धीवरहरूका प्रधानकहाँ गए र आफ्ना पिताका लागि उनकी पुत्री मागे।
63धीवरले यथोचित सत्कारसाथ उनको स्वागत गरे। हे भरतवंशी, जब राजकुमार आसनमा बसे, तब उनले उनलाई यसरी भने —
64"हे भरतवंशमा श्रेष्ठ, तपाईं महापराक्रमी स्वामी हुनुहुन्छ, तपाईं अस्त्रधारीहरूमा श्रेष्ठ हुनुहुन्छ। तपाईं शान्तनुका एकमात्र पुत्र हुनुहुन्छ। तर मलाई तपाईंसँग केही भन्नु छ।
65यदि कन्याका पिता स्वयं इन्द्र नै किन नहोऊन्, तापनि विवाहको यस्तो अत्यन्त सम्माननीय र वाञ्छनीय प्रस्ताव अस्वीकार गर्दा उनले पछुताउनुपर्छ।
66जुन महापुरुषको वीर्यबाट यी परम सुन्दरी कन्या सत्यवती जन्मिन्, उनी धर्ममा तपाईंजस्तै छन्।
67उनले मलाई अनेक पटक तपाईंका पिताका महान् कर्मको वर्णन गरेका छन्। उनले मलाई भनेका छन् कि ती धर्मात्मा राजा सत्यवतीसँग विवाह गर्न योग्य छन्।
68मलाई यो भन्न दिनुहोस् कि मैले पूर्वकालमा ब्रह्मर्षिहरूमा श्रेष्ठ, देवर्षि असितको प्रस्ताव पनि अस्वीकार गरेको थिएँ, जसले अनेक पटक सत्यवतीसँग विवाहको याचना गरेका थिए। हे राजन्, यस कन्याका पिता भएको नाताले मलाई यसका विषयमा केवल एउटै कुरा भन्नु छ। यस विषयमा एकमात्र प्रबल आपत्ति यो छ कि सपत्नीको पुत्रको प्रतिद्वन्द्वी हुनु।
69हे शत्रुदमन, जो तपाईंको शत्रु छ ऊ सुरक्षित छैन, चाहे ऊ असुर होस् या गन्धर्व। यदि तपाईं क्रुद्ध हुनुभयो भने, ऊ कहिल्यै दीर्घकालसम्म जीवित रहनेछैन।
70हे राजन्, यस विवाहमा यही एकमात्र आपत्ति छ, अरू केही होइन। हे शत्रुदमन, जान्नुहोस्, (सत्यवतीलाई) दिने विषयमा मलाई यति नै भन्नु छ।"
71वैशम्पायनले भने — हे भरतवंशी, यसरी भनिएपछि गङ्गापुत्र (देवव्रत) ले आफ्ना पिताका लागि सम्पूर्ण प्रधान र शासकहरूले सुन्ने गरी उनलाई उत्तर दिए।
72हे सत्यवादीहरूमा अग्रगण्य, आज म जुन व्रत लिँदै छु त्यो सुन। न कोही यस्तो जन्मेको छ, न जन्मनेछ, जसमा यस्तो व्रत लिने साहस होस्।
73तिमी जे माग्छौ, म त्यही गर्नेछु। यस कन्याबाट जुन पुत्र जन्मनेछ, उही हाम्रो राजा हुनेछ।
74हे भरतवंशमा श्रेष्ठ, (भीष्मद्वारा) यसरी भनिएपछि आफ्नी पुत्रीको पुत्रलाई राजा बनाउने त्यस कठिन कार्यलाई सिद्ध गर्ने इच्छाले धीवरहरूका प्रधानले उनलाई यसरी भने।
75धीवरले भने — "हे धर्मात्मन्, तपाईं यहाँ आफ्ना महायशस्वी पिताका पूर्ण प्रतिनिधिका रूपमा आउनुभएको छ। तर यस कन्यालाई दिने विषयमा तपाईं मेरो तर्फबाट पनि एकमात्र प्रतिनिधि हुनुहुन्छ।
76हे सौम्य महोदय, केही अरू पनि भन्नु छ र केही अरू पनि गर्नु छ। हे शत्रुदमन, जसका छोरी छन्, तिनले त्यही भन्नुपर्छ जो म भन्दै छु।
77हे सत्यधर्मका उपासक, सत्यवतीका लागि यी प्रधानहरूको बीचमा तपाईंले जुन वचन लिनुभयो, त्यो तपाईंकै योग्य छ।
78मलाई अलिकति पनि सन्देह छैन कि तपाईंले त्यसको कहिल्यै उल्लङ्घन गर्नुहुनेछैन। तर तपाईंका पुत्रहरूका विषयमा मलाई ठूलो सन्देह छ।
79वैशम्पायनले भने — हे राजन्, सत्यधर्मका उपासक (देवव्रत) ले धीवरको शङ्का बुझेर र आफ्ना पिताको हित गर्ने इच्छाले प्रेरित भई तब भने।
80हे धीवरहरूका प्रधान, हे प्रधानहरूमा श्रेष्ठ, यी सम्पूर्ण प्रधान र शासकहरूको सामु म आफ्ना पिताका लागि जे भन्छु, त्यो सुन।
81हे प्रधान र शासकहरू, केही क्षणअघि मैले सिंहासनमाथिको आफ्नो अधिकार त्यागेँ। अब म त्यो सन्देह पनि हटाइदिन्छु जो मेरा पुत्रहरूका विषयमा उठेको छ।
82हे धीवर, आजैदेखि म ब्रह्मचर्यको व्रत ग्रहण गर्छु। यदि म निःसन्तान नै मरेँ भने पनि म शाश्वत आनन्दका लोकमा जानेछु।
83वैशम्पायनले भने — यी वचन सुनेर हर्षले धीवरका रौँ ठाडा भए र उनले भने — "मैले आफ्नी पुत्री दिएँ।"
84तब अप्सरा, देवता र विविध ऋषिगणहरूले आकाशबाट (देवव्रतको शिरमाथि) पुष्पवर्षा सुरु गरे र तिनीहरू सबै बोले — "यी पुरुष भीष्म (भयंकर व्रत भएका) हुन्।"
85तब उनले (भीष्मले) आफ्ना पिताका लागि ती यशस्विनी (देवी) लाई भने — "हे माता, यस रथमा आरूढ हुनुहोस् र हामी आफ्नो घर जाऔँ।"
86वैशम्पायनले भने — यसो भनेर भीष्मले ती सुन्दरी कन्यालाई आफ्नो रथमा बसाले। त्यसपछि हस्तिनापुर आएर उनले शान्तनुलाई जे भएको थियो सबै भनिदिए।
87जम्मा भएका सम्पूर्ण प्रधान र शासकहरूले उनको यस महान् कर्मका लागि सामूहिक रूपले र छुट्टाछुट्टै पनि उनको प्रशंसा गरे। तिनीहरू बोले — "यिनी (वास्तवमा) भीष्म हुन्।"
88आफ्ना पुत्र भीष्मले गरेको त्यो महान् कर्म सुनेर शान्तनुले ती यशस्वी पुरुषलाई इच्छामृत्युको वर दिए।
89उनले भने — "हे मेरो निष्पाप पुत्र! जबसम्म तिमी जीवित रहन चाहनेछौ, तबसम्म मृत्युको तिमीमाथि कुनै प्रभाव हुनेछैन। मृत्युले तिम्रो अनुमतिपछि मात्र तिमीमाथि प्रभाव पार्न सक्नेछ।"