Sarga 3
Sundara Kanda · Chapter 3
Sanskrit
1स लम्बशिखरे लम्बे लम्बतोयदसन्निभे। सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः।।5.3.1।। निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः। रम्यकाननतोयाढ्यां पुरीं रावणपालिताम्।।5.3.2।।
2स लम्बशिखरे लम्बे लम्बतोयदसन्निभे। सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः।।5.3.1।। निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः। रम्यकाननतोयाढ्यां पुरीं रावणपालिताम्।।5.3.2।।
3शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्। सागरोपमनिर्घोषां सागरानिलसेविताम्।।5.3.3।। सुपुष्टबलसम्पुष्टां यथैव विटपावतीम्। चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्।।5.3.4।। भुजगाचरितां गुप्तां शुभां भोगवतीमिव। तां स विद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम्।।5.3.5।। मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम्। शातकुम्भेन महता प्राकारेणाभिसंवृताम्।।5.3.6।। किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम्। आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्।।5.3.7।।
4शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्। सागरोपमनिर्घोषां सागरानिलसेविताम्।।5.3.3।। सुपुष्टबलसम्पुष्टां यथैव विटपावतीम्। चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्।।5.3.4।। भुजगाचरितां गुप्तां शुभां भोगवतीमिव। तां स विद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम्।।5.3.5।। मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम्। शातकुम्भेन महता प्राकारेणाभिसंवृताम्।।5.3.6।। किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम्। आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्।।5.3.7।।
5शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्। सागरोपमनिर्घोषां सागरानिलसेविताम्।।5.3.3।। सुपुष्टबलसम्पुष्टां यथैव विटपावतीम्। चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्।।5.3.4।। भुजगाचरितां गुप्तां शुभां भोगवतीमिव। तां स विद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम्।।5.3.5।। मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम्। शातकुम्भेन महता प्राकारेणाभिसंवृताम्।।5.3.6।। किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम्। आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्।।5.3.7।।
6शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्। सागरोपमनिर्घोषां सागरानिलसेविताम्।।5.3.3।। सुपुष्टबलसम्पुष्टां यथैव विटपावतीम्। चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्।।5.3.4।। भुजगाचरितां गुप्तां शुभां भोगवतीमिव। तां स विद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम्।।5.3.5।। मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम्। शातकुम्भेन महता प्राकारेणाभिसंवृताम्।।5.3.6।। किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम्। आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्।।5.3.7।।
7शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्। सागरोपमनिर्घोषां सागरानिलसेविताम्।।5.3.3।। सुपुष्टबलसम्पुष्टां यथैव विटपावतीम्। चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्।।5.3.4।। भुजगाचरितां गुप्तां शुभां भोगवतीमिव। तां स विद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम्।।5.3.5।। मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम्। शातकुम्भेन महता प्राकारेणाभिसंवृताम्।।5.3.6।। किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम्। आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्।।5.3.7।।
8विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः। जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः।।5.3.8।। वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः। तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः।।5.3.9।। वैढूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः। चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः।।5.3.10।। क्रौञ्चबर्हिणसङ्घुष्टैः राजहंस निषेवितैः। तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्।।5.3.11।। वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः। खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः।।5.3.12।।
9विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः। जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः।।5.3.8।। वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः। तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः।।5.3.9।। वैढूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः। चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः।।5.3.10।। क्रौञ्चबर्हिणसङ्घुष्टैः राजहंस निषेवितैः। तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्।।5.3.11।। वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः। खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः।।5.3.12।।
10विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः। जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः।।5.3.8।। वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः। तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः।।5.3.9।। वैढूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः। चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः।।5.3.10।। क्रौञ्चबर्हिणसङ्घुष्टैः राजहंस निषेवितैः। तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्।।5.3.11।। वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः। खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः।।5.3.12।।
11विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः। जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः।।5.3.8।। वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः। तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः।।5.3.9।। वैढूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः। चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः।।5.3.10।। क्रौञ्चबर्हिणसङ्घुष्टैः राजहंस निषेवितैः। तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्।।5.3.11।। वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः। खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः।।5.3.12।।
12विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः। जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः।।5.3.8।। वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः। तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः।।5.3.9।। वैढूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः। चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः।।5.3.10।। क्रौञ्चबर्हिणसङ्घुष्टैः राजहंस निषेवितैः। तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्।।5.3.11।। वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः। खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः।।5.3.12।।
13तां समीक्ष्य पुरीं रम्यां राक्षसाधिपतेः शुभाम्। अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान्।।5.3.13।।
14नेयमन्येन नगरी शक्या धर्षयितुं बलात्। रक्षिता रावणबलैरुद्यतायुधधारिभिः।।5.3.14।।
15कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः। प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि।।5.3.15।।
16विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः। ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत्।।5.3.16।।
17समीक्ष्य तु महाबाहू राघवस्य पराक्रमम्। लक्ष्मणस्य च विक्रान्तमभवत् प्रीतिमान् कपिः।।5.3.17।।
18तां रत्नवसनोपेतां कोष्ठागारावतंसकाम्। यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम्।।5.3.18।। तां नष्टतिमिरां दीप्तैर्भास्वरैश्च महागृहैः। नगरीं राक्षसेन्द्रस्य स ददर्श महाकपिः।।5.3.19।।
19तां रत्नवसनोपेतां कोष्ठागारावतंसकाम्। यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम्।।5.3.18।। तां नष्टतिमिरां दीप्तैर्भास्वरैश्च महागृहैः। नगरीं राक्षसेन्द्रस्य स ददर्श महाकपिः।।5.3.19।।
20थ सा हरिशार्दूलं प्रविशन्तं महाबलम्। नगरी स्वेन रूपेण ददर्श पवनात्मजम्।।5.3.20।।
21सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता। स्वयमेवोत्थिता तत्र विकृताननदर्शना।।5.3.21।।
22पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत। मुञ्चमाना महानादमब्रवीत्पवनात्मजम्।।5.3.22।।
23कस्त्वं केन च कार्येण इह प्राप्तो वनालय। कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते।।5.3.23।।
24न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया। रक्षिता रावणबलैरभिगुप्ता समन्ततः।।5.3.24।।
25अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम्। कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि।।5.3.25।।
26का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसि। किमर्थं चापि मां रुद्ध्वा निर्भर्त्सयसि दारुणा।।5.3.26।।
27हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी। उवाच वचनं क्रुद्धा परुषं पवनात्मजम्।।5.3.27।।
28अहं राक्षसराजस्य रावणस्य महात्मनः। आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम्।।5.3.28।।
29न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया। अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया।।5.3.29।।
30अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम। सर्वतः परिरक्षामि ह्येतत्ते कथितं मया।।5.3.30।।
31लङ्काया वचनं श्रुत्वा हनुमान् मारुतात्मजः। यत्नवान्स हरिश्रेष्ठः स्थितश्शैल इवापरः।।5.3.31।।
32स तां स्त्रीरूपविकृतां दृष्टवा वानरपुङ्गवः। आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः।।5.3.32।।
33द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम्। निर्विशङ्कमिमंलोकं पश्यन्त्यास्तवसांप्रतम्। इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे।।5.3.33।।
34वनान्युपवनानीह लङ्कायाः काननानि च। सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे।।5.3.34।।
35तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी। भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम्।।5.3.35।।
36मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालितां। न शक्यमद्य ते द्रष्टुं पुरीयं वानराधम।।5.3.36।।
37ततः स कपिशार्दूलस्तामुवाच निशाचरीम्। दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम्।।5.3.37।।
38ततः कृत्वा महानादं सा वै लङ्का भयावहम्। तलेन वानरश्रेष्ठं ताडयामास वेगिता।।5.3.38।।
39ततः स कपिशार्दूलो लङ्कया ताडितो भृशम्। ननाद सुमहानादं वीर्यवान् पवनात्मजः।।5.3.39।।
40ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः। मुष्टिनाऽऽभिजघानैनां हनुमान् क्रोधमूर्छितः।।5.3.40।। स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः।
41सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी।।5.3.41।। पपात सहसा भूमौ विकृताननदर्शना।
42ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम्।।5.3.42।। कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम्।
43ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम्।।5.3.43।। उवाचागर्वितं वाक्यं हनूमन्तं प्लवङ्गमम्।
44प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ।।5.3.44।। समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः।
45अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम।।5.3.45।। निर्जिताहं त्वया वीर विक्रमेण महाबल।
46इदं तु तथ्यं शृणु वै ब्रुवन्त्या मे हरीश्वर।।5.3.46।। स्वयंभुवा पुरा दत्तं वरदानं यथा मम।
47यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत्।।5.3.47।। तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्।
48स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात्।।5.3.48।। स्वयंभू विहितः सत्यो न तस्यास्ति व्यतिक्रमः।
49सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः।।5.3.49।। रक्षसां चैव सर्वेषां विनाशः समुपागतः।
50तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्।।5.3.50।। विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि।
51प्रविश्य शापोपहतां हरीश्वर शुभां पुरीं राक्षसमुख्यपालिताम्। यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम्।।5.3.51।।
English
1The mighty son of the Windgod, intelligent Hanuman, an elephant among vanaras, standing on the peak of the Lamba which looked like a high rainbearing cloud and relying on his energy, entered by night the city of Lanka, ruled by Ravana rich in delightful forests, groves and water pools.
2The mighty son of the Windgod, intelligent Hanuman, an elephant among vanaras, standing on the peak of the Lamba which looked like a high rainbearing cloud and relying on his energy, entered by night the city of Lanka, ruled by Ravana rich in delightful forests, groves and water pools.
3Hanuman, happy to reach Lanka, stood on its rampart and surveyed the city of land which was splendid with beautiful mansions overcast with autumnal clouds pierced by glittering streaks of lightning, served by planets and stars with mild winds blowing (out of fear of Ravana), with the roaring sounds of the sea and with a wellfed army like Vitapavati (that is Alaka, the capital of Kubera, halfbrother of Ravana and the treasurer of celestials), which had elephants sationed at the outer gates, provided with white archways and protected by serpents like the auspicious city of Bhogavati (capital of Patala). Surrounded by a golden rampart, the city resembled Amaravati, the capital of Indra, decorated with flags fluttering, echoing with the jingling sounds of small bells.
4Hanuman, happy to reach Lanka, stood on its rampart and surveyed the city of land which was splendid with beautiful mansions overcast with autumnal clouds pierced by glittering streaks of lightning, served by planets and stars with mild winds blowing (out of fear of Ravana), with the roaring sounds of the sea and with a wellfed army like Vitapavati (that is Alaka, the capital of Kubera, halfbrother of Ravana and the treasurer of celestials), which had elephants sationed at the outer gates, provided with white archways and protected by serpents like the auspicious city of Bhogavati (capital of Patala). Surrounded by a golden rampart, the city resembled Amaravati, the capital of Indra, decorated with flags fluttering, echoing with the jingling sounds of small bells.
5Hanuman, happy to reach Lanka, stood on its rampart and surveyed the city of land which was splendid with beautiful mansions overcast with autumnal clouds pierced by glittering streaks of lightning, served by planets and stars with mild winds blowing (out of fear of Ravana), with the roaring sounds of the sea and with a wellfed army like Vitapavati (that is Alaka, the capital of Kubera, halfbrother of Ravana and the treasurer of celestials), which had elephants sationed at the outer gates, provided with white archways and protected by serpents like the auspicious city of Bhogavati (capital of Patala). Surrounded by a golden rampart, the city resembled Amaravati, the capital of Indra, decorated with flags fluttering, echoing with the jingling sounds of small bells.
6Hanuman, happy to reach Lanka, stood on its rampart and surveyed the city of land which was splendid with beautiful mansions overcast with autumnal clouds pierced by glittering streaks of lightning, served by planets and stars with mild winds blowing (out of fear of Ravana), with the roaring sounds of the sea and with a wellfed army like Vitapavati (that is Alaka, the capital of Kubera, halfbrother of Ravana and the treasurer of celestials), which had elephants sationed at the outer gates, provided with white archways and protected by serpents like the auspicious city of Bhogavati (capital of Patala). Surrounded by a golden rampart, the city resembled Amaravati, the capital of Indra, decorated with flags fluttering, echoing with the jingling sounds of small bells.
7Hanuman, happy to reach Lanka, stood on its rampart and surveyed the city of land which was splendid with beautiful mansions overcast with autumnal clouds pierced by glittering streaks of lightning, served by planets and stars with mild winds blowing (out of fear of Ravana), with the roaring sounds of the sea and with a wellfed army like Vitapavati (that is Alaka, the capital of Kubera, halfbrother of Ravana and the treasurer of celestials), which had elephants sationed at the outer gates, provided with white archways and protected by serpents like the auspicious city of Bhogavati (capital of Patala). Surrounded by a golden rampart, the city resembled Amaravati, the capital of Indra, decorated with flags fluttering, echoing with the jingling sounds of small bells.
8Surveying all over, Hanuman was wonderstruck to see as though it was leaping into the sky. The city had golden shutters, altars encrusted with vaidurya, mansions inlaid with diamonds, crystals, pearls and other gems, crowned with pure gold and silver. The staircases built with silver were studded with vaidurya. The beautiful quadrangles, coverd with grains of crystal were as though leaping into the air. It echoed with sounds of krauncha birds, peacocks and royal swans. Filled with sounds of musical instruments, it resembled the city of Vaswokasara.
9Surveying all over, Hanuman was wonderstruck to see as though it was leaping into the sky. The city had golden shutters, altars encrusted with vaidurya, mansions inlaid with diamonds, crystals, pearls and other gems, crowned with pure gold and silver. The staircases built with silver were studded with vaidurya. The beautiful quadrangles, coverd with grains of crystal were as though leaping into the air. It echoed with sounds of krauncha birds, peacocks and royal swans. Filled with sounds of musical instruments, it resembled the city of Vaswokasara.
10Surveying all over, Hanuman was wonderstruck to see as though it was leaping into the sky. The city had golden shutters, altars encrusted with vaidurya, mansions inlaid with diamonds, crystals, pearls and other gems, crowned with pure gold and silver. The staircases built with silver were studded with vaidurya. The beautiful quadrangles, coverd with grains of crystal were as though leaping into the air. It echoed with sounds of krauncha birds, peacocks and royal swans. Filled with sounds of musical instruments, it resembled the city of Vaswokasara.
11Surveying all over, Hanuman was wonderstruck to see as though it was leaping into the sky. The city had golden shutters, altars encrusted with vaidurya, mansions inlaid with diamonds, crystals, pearls and other gems, crowned with pure gold and silver. The staircases built with silver were studded with vaidurya. The beautiful quadrangles, coverd with grains of crystal were as though leaping into the air. It echoed with sounds of krauncha birds, peacocks and royal swans. Filled with sounds of musical instruments, it resembled the city of Vaswokasara.
12Surveying all over, Hanuman was wonderstruck to see as though it was leaping into the sky. The city had golden shutters, altars encrusted with vaidurya, mansions inlaid with diamonds, crystals, pearls and other gems, crowned with pure gold and silver. The staircases built with silver were studded with vaidurya. The beautiful quadrangles, coverd with grains of crystal were as though leaping into the air. It echoed with sounds of krauncha birds, peacocks and royal swans. Filled with sounds of musical instruments, it resembled the city of Vaswokasara.
13Gazing at the enchanting, auspicious, prosperous city of the king of demons mighty Hanuman began to reflect:
14'It is not possible to attack this city by to outsiders as it is protected by the forces of Ravana with their weapons ready(to attack).
15'This land can be reached by Kumuda and Angada or the great vanara Sushena and even by Mainda and Dvivida.
16'Son of Vivaswan (Sugriva), the chief of vanaras, Kushaparva, Riksha (Jambavan), Ketumala and myself also will be able to reach this place.
17Reflecting upon the valour of longarmed Rama and valiant advances of Lakshmana Hamuman felt pleased (within himself).
18Hanuman looked at the city of the demon king, whose darkness was dispelled by bright gems and mighty mansions as if it were a young maiden. The prosperous city was like a well decorated woman, adorned with ornaments having walls for her dress, the stables for her earrings, the armouries for her breasts.
19Hanuman looked at the city of the demon king, whose darkness was dispelled by bright gems and mighty mansions as if it were a young maiden. The prosperous city was like a well decorated woman, adorned with ornaments having walls for her dress, the stables for her earrings, the armouries for her breasts.
20Assuming her real form the presiding deity of Lanka noticed the son of the Windgod, the tiger among vanaras of great prowess entering the city.
21Seeing the best of vanaras, the deity of the city of Lanka, ruled by Ravana rose up before him in a distorted form.
22She stood in front of the son of the Windgod and spoke to him in a loud voice.
23"O dweller of the forest, who are you? Why did you come here? Speak the truth about your identity, so long as you hold on to your life.
24"O vanara this Lanka is a secret place protected by Ravana's army everywhere. It is surely not possible for you to enter this city".
25Then Hanuman who was standing in front of her said, "I will tell you the truth since you are asking me".
26"Who are you, terrible woman of ugly, distorted eyes? Why are you obstructing me at the gate of the city? Why do you impound upon me?
27The spirit of Lanka who could assume any form at her will got enraged on hearing the words of Hanuman and spake in a harsh tone.
28"In obedience to the orders of the great demon king, Ravana, I am protecting this unassailable city.
29"It is not possible for you to enter this city ignoring my presence. Soon you will be killed. You will give up your life and attain eternal sleep.
30"O monkey I am the presiding ogress of Lanka presenting myself personally. I am to protect this city. This is my answer to you".
31On hearing the words of ogress of Lanka, the son of the Windgod stood up ready and appeared like another mountain.
32Seeing the monster of a woman, the powerful Hanuman, bull among vanaras endowed with wisdom spoke to her.
33"I would like to see this Lanka with marketplaces, gateways and ramparts. I have come here for that purpose. My curiosity has been roused to see this place.
34"I have arrived here to see Lanka's gardens, groves and forests and also all the important houses".
35On hearing Hanuman, the ogress of Lanka, who could assume any form, replied in harsh words:
36"O evilminded, foolish monkey It is not possible for you to enter the city ruled by Ravana, the king of demons without conquering me".
37The tiger among monkeys said to the, the nightwalker "O noble Lanka I shall see this city and go back".
38Then the ogress of Lanka made a loud and frightening sound and struck the most powerful vanara with the palm of her hand.
39At this strong slap, the heroic Hanuman, son of the Windgod roared loudly.
40Overcome by anger, Hanuman clenched the fingers of his left hand and hit her with his fist. Considering her to be, after all, a woman he did not turn outrageous.
41Struck by the blow of Hanuman the demoness fell down on the ground at once, her limbs shattered, her face distorted.
42Wise and brilliant Hanuman, seeing the deity fallen down, left her (without killing her) out of compassion, thinking that she is a woman, after all.
43Thereafter, the deflated demoness of Lanka with an agitated voice, said to Hanuman, the monkeyhero:
44"O, strongshouldered great monkey be gracious. Save me. Heroes endowed with great strength stay back when the time comes.
45"O monkey I am Lanka incarnate. You have conquered me by your strength and valour.
46"O lord of vanaras in the past Creator Brahma had given me a boon which has come true. I will tell you. listen.
47'When a vanara vanquishes you by his prowess, you may know that destruction of ogres will set in.
48"O gentle one the time ordained by Brahma has come today with your presence here. The truth revealed by Brahma, the selfborn, cannot be proved otherwise.
49"The ruin of all demons and evilminded king Ravana will take place due to (the abduction of) Sita.
50"O great vanara enter the city ruled by Ravana and accomplish your purpose.
51"O lord of vanaras you may search for the chaste lady, daughter of king Janaka all over freely entering this doomed city, ruled by the chief of demons. इत्यार्षे श्रीमद्रामायाणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे तृतीयस्सर्गः।। Thus ends the third sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.
Hindi
1वायुदेव के बलशाली पुत्र, बुद्धिमान् वानरगज हनुमान् ऊँचे वर्षामेघ के समान दिखते लम्ब पर्वत के शिखर पर खड़े होकर, अपने ओज के भरोसे रात्रि में रावण द्वारा शासित उस लङ्का नगरी में प्रविष्ट हुए, जो मनोहर वनों, उपवनों और जलाशयों से समृद्ध थी।
2वायुदेव के बलशाली पुत्र, बुद्धिमान् वानरगज हनुमान् ऊँचे वर्षामेघ के समान दिखते लम्ब पर्वत के शिखर पर खड़े होकर, अपने ओज के भरोसे रात्रि में रावण द्वारा शासित उस लङ्का नगरी में प्रविष्ट हुए, जो मनोहर वनों, उपवनों और जलाशयों से समृद्ध थी।
3लङ्का पहुँचकर प्रसन्न हुए हनुमान् उसकी प्राचीर पर खड़े होकर उस नगरी को देखने लगे, जो चमकती बिजली की रेखाओं से चिरे शरद् के मेघों से आच्छादित सुन्दर अट्टालिकाओं से शोभायमान थी; जहाँ ग्रह और नक्षत्र सेवा में थे, (रावण के भय से) मन्द वायु बहती थी, समुद्र की गर्जना गूँजती थी और वितपावती (अर्थात् अलका, रावण के सौतेले भाई तथा देवताओं के कोषाध्यक्ष कुबेर की राजधानी) के समान सुपोषित सेना थी; जिसके बाहरी द्वारों पर हाथी खड़े थे, जो श्वेत तोरणों से युक्त थी और भोगवती (पाताल की राजधानी) के समान सर्पों से रक्षित थी। स्वर्णमय प्राचीर से घिरी वह नगरी इन्द्र की राजधानी अमरावती के समान थी, जो फहराती ध्वजाओं से सजी थी और छोटी घण्टियों की रुनझुन से गूँजती थी।
4लङ्का पहुँचकर प्रसन्न हुए हनुमान् उसकी प्राचीर पर खड़े होकर उस नगरी को देखने लगे, जो चमकती बिजली की रेखाओं से चिरे शरद् के मेघों से आच्छादित सुन्दर अट्टालिकाओं से शोभायमान थी; जहाँ ग्रह और नक्षत्र सेवा में थे, (रावण के भय से) मन्द वायु बहती थी, समुद्र की गर्जना गूँजती थी और वितपावती (अर्थात् अलका, रावण के सौतेले भाई तथा देवताओं के कोषाध्यक्ष कुबेर की राजधानी) के समान सुपोषित सेना थी; जिसके बाहरी द्वारों पर हाथी खड़े थे, जो श्वेत तोरणों से युक्त थी और भोगवती (पाताल की राजधानी) के समान सर्पों से रक्षित थी। स्वर्णमय प्राचीर से घिरी वह नगरी इन्द्र की राजधानी अमरावती के समान थी, जो फहराती ध्वजाओं से सजी थी और छोटी घण्टियों की रुनझुन से गूँजती थी।
5लङ्का पहुँचकर प्रसन्न हुए हनुमान् उसकी प्राचीर पर खड़े होकर उस नगरी को देखने लगे, जो चमकती बिजली की रेखाओं से चिरे शरद् के मेघों से आच्छादित सुन्दर अट्टालिकाओं से शोभायमान थी; जहाँ ग्रह और नक्षत्र सेवा में थे, (रावण के भय से) मन्द वायु बहती थी, समुद्र की गर्जना गूँजती थी और वितपावती (अर्थात् अलका, रावण के सौतेले भाई तथा देवताओं के कोषाध्यक्ष कुबेर की राजधानी) के समान सुपोषित सेना थी; जिसके बाहरी द्वारों पर हाथी खड़े थे, जो श्वेत तोरणों से युक्त थी और भोगवती (पाताल की राजधानी) के समान सर्पों से रक्षित थी। स्वर्णमय प्राचीर से घिरी वह नगरी इन्द्र की राजधानी अमरावती के समान थी, जो फहराती ध्वजाओं से सजी थी और छोटी घण्टियों की रुनझुन से गूँजती थी।
6लङ्का पहुँचकर प्रसन्न हुए हनुमान् उसकी प्राचीर पर खड़े होकर उस नगरी को देखने लगे, जो चमकती बिजली की रेखाओं से चिरे शरद् के मेघों से आच्छादित सुन्दर अट्टालिकाओं से शोभायमान थी; जहाँ ग्रह और नक्षत्र सेवा में थे, (रावण के भय से) मन्द वायु बहती थी, समुद्र की गर्जना गूँजती थी और वितपावती (अर्थात् अलका, रावण के सौतेले भाई तथा देवताओं के कोषाध्यक्ष कुबेर की राजधानी) के समान सुपोषित सेना थी; जिसके बाहरी द्वारों पर हाथी खड़े थे, जो श्वेत तोरणों से युक्त थी और भोगवती (पाताल की राजधानी) के समान सर्पों से रक्षित थी। स्वर्णमय प्राचीर से घिरी वह नगरी इन्द्र की राजधानी अमरावती के समान थी, जो फहराती ध्वजाओं से सजी थी और छोटी घण्टियों की रुनझुन से गूँजती थी।
7लङ्का पहुँचकर प्रसन्न हुए हनुमान् उसकी प्राचीर पर खड़े होकर उस नगरी को देखने लगे, जो चमकती बिजली की रेखाओं से चिरे शरद् के मेघों से आच्छादित सुन्दर अट्टालिकाओं से शोभायमान थी; जहाँ ग्रह और नक्षत्र सेवा में थे, (रावण के भय से) मन्द वायु बहती थी, समुद्र की गर्जना गूँजती थी और वितपावती (अर्थात् अलका, रावण के सौतेले भाई तथा देवताओं के कोषाध्यक्ष कुबेर की राजधानी) के समान सुपोषित सेना थी; जिसके बाहरी द्वारों पर हाथी खड़े थे, जो श्वेत तोरणों से युक्त थी और भोगवती (पाताल की राजधानी) के समान सर्पों से रक्षित थी। स्वर्णमय प्राचीर से घिरी वह नगरी इन्द्र की राजधानी अमरावती के समान थी, जो फहराती ध्वजाओं से सजी थी और छोटी घण्टियों की रुनझुन से गूँजती थी।
8चारों ओर देखते हुए हनुमान् विस्मित रह गए, क्योंकि वह नगरी मानो आकाश में उछल रही थी। उस नगरी के कपाट स्वर्ण के थे, वेदियाँ वैदूर्य से जड़ी थीं, अट्टालिकाओं में हीरे, स्फटिक, मोती और अन्य रत्न जड़े थे तथा उन पर शुद्ध स्वर्ण और रजत के शिखर थे। रजत से बनी सीढ़ियों में वैदूर्य जड़े थे। स्फटिक के कणों से ढके सुन्दर आँगन मानो आकाश में उछल रहे थे। वह क्रौञ्च पक्षियों, मयूरों और राजहंसों की ध्वनि से गूँजती थी। वाद्यों की ध्वनि से भरी वह वस्वौकसारा नगरी के समान थी।
9चारों ओर देखते हुए हनुमान् विस्मित रह गए, क्योंकि वह नगरी मानो आकाश में उछल रही थी। उस नगरी के कपाट स्वर्ण के थे, वेदियाँ वैदूर्य से जड़ी थीं, अट्टालिकाओं में हीरे, स्फटिक, मोती और अन्य रत्न जड़े थे तथा उन पर शुद्ध स्वर्ण और रजत के शिखर थे। रजत से बनी सीढ़ियों में वैदूर्य जड़े थे। स्फटिक के कणों से ढके सुन्दर आँगन मानो आकाश में उछल रहे थे। वह क्रौञ्च पक्षियों, मयूरों और राजहंसों की ध्वनि से गूँजती थी। वाद्यों की ध्वनि से भरी वह वस्वौकसारा नगरी के समान थी।
10चारों ओर देखते हुए हनुमान् विस्मित रह गए, क्योंकि वह नगरी मानो आकाश में उछल रही थी। उस नगरी के कपाट स्वर्ण के थे, वेदियाँ वैदूर्य से जड़ी थीं, अट्टालिकाओं में हीरे, स्फटिक, मोती और अन्य रत्न जड़े थे तथा उन पर शुद्ध स्वर्ण और रजत के शिखर थे। रजत से बनी सीढ़ियों में वैदूर्य जड़े थे। स्फटिक के कणों से ढके सुन्दर आँगन मानो आकाश में उछल रहे थे। वह क्रौञ्च पक्षियों, मयूरों और राजहंसों की ध्वनि से गूँजती थी। वाद्यों की ध्वनि से भरी वह वस्वौकसारा नगरी के समान थी।
11चारों ओर देखते हुए हनुमान् विस्मित रह गए, क्योंकि वह नगरी मानो आकाश में उछल रही थी। उस नगरी के कपाट स्वर्ण के थे, वेदियाँ वैदूर्य से जड़ी थीं, अट्टालिकाओं में हीरे, स्फटिक, मोती और अन्य रत्न जड़े थे तथा उन पर शुद्ध स्वर्ण और रजत के शिखर थे। रजत से बनी सीढ़ियों में वैदूर्य जड़े थे। स्फटिक के कणों से ढके सुन्दर आँगन मानो आकाश में उछल रहे थे। वह क्रौञ्च पक्षियों, मयूरों और राजहंसों की ध्वनि से गूँजती थी। वाद्यों की ध्वनि से भरी वह वस्वौकसारा नगरी के समान थी।
12चारों ओर देखते हुए हनुमान् विस्मित रह गए, क्योंकि वह नगरी मानो आकाश में उछल रही थी। उस नगरी के कपाट स्वर्ण के थे, वेदियाँ वैदूर्य से जड़ी थीं, अट्टालिकाओं में हीरे, स्फटिक, मोती और अन्य रत्न जड़े थे तथा उन पर शुद्ध स्वर्ण और रजत के शिखर थे। रजत से बनी सीढ़ियों में वैदूर्य जड़े थे। स्फटिक के कणों से ढके सुन्दर आँगन मानो आकाश में उछल रहे थे। वह क्रौञ्च पक्षियों, मयूरों और राजहंसों की ध्वनि से गूँजती थी। वाद्यों की ध्वनि से भरी वह वस्वौकसारा नगरी के समान थी।
13राक्षसराज की उस मनोहर, मङ्गलमय और समृद्ध नगरी को देखकर बलशाली हनुमान् विचार करने लगे —
14'इस नगरी पर बाहर वालों का आक्रमण सम्भव नहीं, क्योंकि इसकी रक्षा रावण की सेनाएँ (आक्रमण के लिए) अस्त्र तैयार किए हुए कर रही हैं।
15'इस भूमि तक कुमुद और अङ्गद, अथवा महान् वानर सुषेण तथा मैन्द और द्विविद भी पहुँच सकते हैं।
16'विवस्वान् के पुत्र वानरनायक सुग्रीव, कुशपर्व, ऋक्ष (जाम्बवान्), केतुमाल और मैं भी इस स्थान तक पहुँच सकते हैं।'
17महाबाहु राम के पराक्रम और लक्ष्मण के वीरतापूर्ण अभियानों का स्मरण कर हनुमान् (मन ही मन) प्रसन्न हुए।
18हनुमान् ने राक्षसराज की उस नगरी को देखा, जिसका अन्धकार चमकते रत्नों और विशाल अट्टालिकाओं ने दूर कर दिया था — वह किसी तरुणी के समान लगती थी। वह समृद्ध नगरी आभूषणों से अलंकृत भलीभाँति सजी स्त्री के समान थी, जिसकी प्राचीरें उसके वस्त्र, अश्वशालाएँ उसके कर्णाभूषण और आयुधागार उसके स्तन थे।
19हनुमान् ने राक्षसराज की उस नगरी को देखा, जिसका अन्धकार चमकते रत्नों और विशाल अट्टालिकाओं ने दूर कर दिया था — वह किसी तरुणी के समान लगती थी। वह समृद्ध नगरी आभूषणों से अलंकृत भलीभाँति सजी स्त्री के समान थी, जिसकी प्राचीरें उसके वस्त्र, अश्वशालाएँ उसके कर्णाभूषण और आयुधागार उसके स्तन थे।
20अपना वास्तविक रूप धारण कर लङ्का की अधिष्ठात्री देवी ने नगरी में प्रवेश करते महापराक्रमी वानरश्रेष्ठ वायुपुत्र को देख लिया।
21उन वानरश्रेष्ठ को देखकर रावण द्वारा शासित लङ्का नगरी की वह देवी विकृत रूप धारण कर उनके सामने आ खड़ी हुई।
22वह वायुपुत्र के सम्मुख खड़ी हुई और ऊँचे स्वर में उनसे बोली —
23'हे वनवासी! तुम कौन हो? यहाँ क्यों आए हो? जब तक तुम्हारे प्राण हैं, तब तक अपना सच्चा परिचय दो।
24'हे वानर! यह लङ्का एक गुप्त स्थान है, जिसकी रक्षा रावण की सेना सर्वत्र करती है। इस नगरी में तुम्हारा प्रवेश निश्चय ही सम्भव नहीं।'
25तब उसके सम्मुख खड़े हनुमान् ने कहा — 'तुम पूछ रही हो, इसलिए मैं तुम्हें सत्य बताऊँगा।'
26'तुम कौन हो, कुरूप और विकृत नेत्रों वाली भयङ्कर स्त्री? नगरी के द्वार पर तुम मुझे क्यों रोक रही हो? मुझ पर क्यों टूट पड़ती हो?'
27इच्छानुसार रूप धारण करने वाली लङ्का की वह देवी हनुमान् के वचन सुनकर क्रुद्ध हो उठी और कठोर स्वर में बोली —
28'महान् राक्षसराज रावण की आज्ञा का पालन करते हुए मैं इस दुर्जय नगरी की रक्षा करती हूँ।
29'मेरी उपस्थिति की उपेक्षा कर इस नगरी में प्रवेश करना तुम्हारे लिए सम्भव नहीं। शीघ्र ही तुम मारे जाओगे। तुम प्राण त्यागकर चिरनिद्रा को प्राप्त होगे।
30'हे वानर! मैं लङ्का की अधिष्ठात्री राक्षसी हूँ और स्वयं तुम्हारे समक्ष उपस्थित हूँ। मुझे इस नगरी की रक्षा करनी है। यही तुम्हें मेरा उत्तर है।'
31लङ्का की उस राक्षसी के वचन सुनकर वायुपुत्र तैयार होकर खड़े हो गए और किसी दूसरे पर्वत के समान दिखाई देने लगे।
32उस विकराल स्त्री को देखकर बुद्धि से सम्पन्न बलशाली वानरश्रेष्ठ हनुमान् ने उससे कहा —
33'मैं इस लङ्का को उसके बाज़ारों, द्वारों और प्राचीरों सहित देखना चाहता हूँ। मैं इसी प्रयोजन से यहाँ आया हूँ। इस स्थान को देखने की मेरी उत्कण्ठा जाग उठी है।
34'मैं लङ्का के उद्यानों, उपवनों और वनों तथा सब प्रमुख भवनों को देखने आया हूँ।'
35हनुमान् की बात सुनकर इच्छानुसार रूप धारण करने वाली लङ्का की उस राक्षसी ने कठोर वचनों में उत्तर दिया —
36'हे दुष्टबुद्धि मूर्ख वानर! मुझे जीते बिना राक्षसराज रावण द्वारा शासित इस नगरी में तुम्हारा प्रवेश सम्भव नहीं।'
37वानरश्रेष्ठ ने उस निशाचरी से कहा — 'हे श्रेष्ठ लङ्के! मैं इस नगरी को देखकर लौट जाऊँगा।'
38तब लङ्का की उस राक्षसी ने ऊँची और भयङ्कर ध्वनि की और उन परम बलशाली वानर पर अपनी हथेली से प्रहार किया।
39इस प्रबल थप्पड़ से वीर वायुपुत्र हनुमान् ऊँचे स्वर में गरज उठे।
40क्रोध से अभिभूत होकर हनुमान् ने अपने बाएँ हाथ की अँगुलियाँ मुट्ठी में भींचीं और उससे उस पर प्रहार किया। यह विचार कर कि वह अन्ततः स्त्री ही है, उन्होंने प्रचण्ड रूप धारण नहीं किया।
41हनुमान् के प्रहार से आहत वह राक्षसी अङ्ग-भङ्ग होकर और मुख विकृत होकर तत्काल भूमि पर गिर पड़ी।
42बुद्धिमान् और तेजस्वी हनुमान् उस देवी को गिरी हुई देखकर यह सोचकर कि वह अन्ततः स्त्री ही है, करुणावश उसे (बिना मारे) छोड़ गए।
43तत्पश्चात् उस पराजित लङ्का-राक्षसी ने विचलित स्वर में वानरवीर हनुमान् से कहा —
44'हे बलिष्ठ कन्धों वाले महान् वानर! प्रसन्न होइए। मुझे बचाइए। महान् बल से सम्पन्न वीर समय आने पर पीछे हट जाते हैं।
45'हे वानर! मैं लङ्का की मूर्तिमान् अधिष्ठात्री हूँ। तुमने अपने बल और पराक्रम से मुझे जीत लिया है।
46'हे वानरनायक! पूर्वकाल में सृष्टिकर्ता ब्रह्मा ने मुझे एक वर दिया था, जो आज सत्य हुआ है। मैं तुम्हें बताती हूँ, सुनो।
47'जब कोई वानर अपने पराक्रम से तुम्हें पराजित कर दे, तब जान लेना कि राक्षसों का विनाश आरम्भ हो चुका है।'
48'हे सौम्य! ब्रह्मा द्वारा नियत वह समय आज तुम्हारे यहाँ आने से आ पहुँचा है। स्वयम्भू ब्रह्मा द्वारा प्रकट किया गया सत्य अन्यथा सिद्ध नहीं हो सकता।
49'सीता के (अपहरण के) कारण समस्त राक्षसों का और दुष्टबुद्धि राजा रावण का विनाश होगा।
50'हे महान् वानर! रावण द्वारा शासित इस नगरी में प्रवेश करो और अपना प्रयोजन सिद्ध करो।
51'हे वानरनायक! राक्षसराज द्वारा शासित इस विनाशोन्मुख नगरी में स्वच्छन्द विचरण कर तुम राजा जनक की पुत्री उस पतिव्रता देवी को सर्वत्र खोज सकते हो।' इस प्रकार महर्षि वाल्मीकि रचित आदिकाव्य श्रीमद्रामायण के सुन्दरकाण्ड का तृतीय सर्ग समाप्त हुआ।
Nepali
1वायुदेवका बलशाली छोरा, बुद्धिमान् वानरगज हनुमान् अग्लो वर्षामेघझैँ देखिने लम्ब पर्वतको शिखरमा उभिएर, आफ्नो ओजको भरमा रातमा रावणद्वारा शासित त्यस लङ्का नगरीमा प्रवेश गरे, जुन मनोहर वन, उपवन र जलाशयले समृद्ध थियो।
2वायुदेवका बलशाली छोरा, बुद्धिमान् वानरगज हनुमान् अग्लो वर्षामेघझैँ देखिने लम्ब पर्वतको शिखरमा उभिएर, आफ्नो ओजको भरमा रातमा रावणद्वारा शासित त्यस लङ्का नगरीमा प्रवेश गरे, जुन मनोहर वन, उपवन र जलाशयले समृद्ध थियो।
3लङ्का पुगेर प्रसन्न भएका हनुमान् त्यसको पर्खालमा उभिएर त्यस नगरीलाई हेर्न थाले, जुन चम्किने बिजुलीका रेखाले चिरिएका शरद्का मेघले ढाकिएका सुन्दर अट्टालिकाले शोभायमान थियो; जहाँ ग्रह र नक्षत्र सेवामा थिए, (रावणको भयले) मन्द वायु बग्थ्यो, समुद्रको गर्जन गुञ्जिन्थ्यो र वितपावती (अर्थात् अलका, रावणका सौतेनी दाजु तथा देवताहरूका कोषाध्यक्ष कुबेरको राजधानी) जस्तै सुपोषित सेना थियो; जसका बाहिरी ढोकामा हात्ती उभिएका थिए, जुन सेता तोरणले युक्त थियो र भोगवती (पातालको राजधानी) जस्तै सर्पहरूले रक्षित थियो। स्वर्णमय पर्खालले घेरिएको त्यो नगरी इन्द्रको राजधानी अमरावतीजस्तै थियो, जुन फर्फराउँदा ध्वजाले सजिएको थियो र साना घण्टीको रुनझुनले गुञ्जिन्थ्यो।
4लङ्का पुगेर प्रसन्न भएका हनुमान् त्यसको पर्खालमा उभिएर त्यस नगरीलाई हेर्न थाले, जुन चम्किने बिजुलीका रेखाले चिरिएका शरद्का मेघले ढाकिएका सुन्दर अट्टालिकाले शोभायमान थियो; जहाँ ग्रह र नक्षत्र सेवामा थिए, (रावणको भयले) मन्द वायु बग्थ्यो, समुद्रको गर्जन गुञ्जिन्थ्यो र वितपावती (अर्थात् अलका, रावणका सौतेनी दाजु तथा देवताहरूका कोषाध्यक्ष कुबेरको राजधानी) जस्तै सुपोषित सेना थियो; जसका बाहिरी ढोकामा हात्ती उभिएका थिए, जुन सेता तोरणले युक्त थियो र भोगवती (पातालको राजधानी) जस्तै सर्पहरूले रक्षित थियो। स्वर्णमय पर्खालले घेरिएको त्यो नगरी इन्द्रको राजधानी अमरावतीजस्तै थियो, जुन फर्फराउँदा ध्वजाले सजिएको थियो र साना घण्टीको रुनझुनले गुञ्जिन्थ्यो।
5लङ्का पुगेर प्रसन्न भएका हनुमान् त्यसको पर्खालमा उभिएर त्यस नगरीलाई हेर्न थाले, जुन चम्किने बिजुलीका रेखाले चिरिएका शरद्का मेघले ढाकिएका सुन्दर अट्टालिकाले शोभायमान थियो; जहाँ ग्रह र नक्षत्र सेवामा थिए, (रावणको भयले) मन्द वायु बग्थ्यो, समुद्रको गर्जन गुञ्जिन्थ्यो र वितपावती (अर्थात् अलका, रावणका सौतेनी दाजु तथा देवताहरूका कोषाध्यक्ष कुबेरको राजधानी) जस्तै सुपोषित सेना थियो; जसका बाहिरी ढोकामा हात्ती उभिएका थिए, जुन सेता तोरणले युक्त थियो र भोगवती (पातालको राजधानी) जस्तै सर्पहरूले रक्षित थियो। स्वर्णमय पर्खालले घेरिएको त्यो नगरी इन्द्रको राजधानी अमरावतीजस्तै थियो, जुन फर्फराउँदा ध्वजाले सजिएको थियो र साना घण्टीको रुनझुनले गुञ्जिन्थ्यो।
6लङ्का पुगेर प्रसन्न भएका हनुमान् त्यसको पर्खालमा उभिएर त्यस नगरीलाई हेर्न थाले, जुन चम्किने बिजुलीका रेखाले चिरिएका शरद्का मेघले ढाकिएका सुन्दर अट्टालिकाले शोभायमान थियो; जहाँ ग्रह र नक्षत्र सेवामा थिए, (रावणको भयले) मन्द वायु बग्थ्यो, समुद्रको गर्जन गुञ्जिन्थ्यो र वितपावती (अर्थात् अलका, रावणका सौतेनी दाजु तथा देवताहरूका कोषाध्यक्ष कुबेरको राजधानी) जस्तै सुपोषित सेना थियो; जसका बाहिरी ढोकामा हात्ती उभिएका थिए, जुन सेता तोरणले युक्त थियो र भोगवती (पातालको राजधानी) जस्तै सर्पहरूले रक्षित थियो। स्वर्णमय पर्खालले घेरिएको त्यो नगरी इन्द्रको राजधानी अमरावतीजस्तै थियो, जुन फर्फराउँदा ध्वजाले सजिएको थियो र साना घण्टीको रुनझुनले गुञ्जिन्थ्यो।
7लङ्का पुगेर प्रसन्न भएका हनुमान् त्यसको पर्खालमा उभिएर त्यस नगरीलाई हेर्न थाले, जुन चम्किने बिजुलीका रेखाले चिरिएका शरद्का मेघले ढाकिएका सुन्दर अट्टालिकाले शोभायमान थियो; जहाँ ग्रह र नक्षत्र सेवामा थिए, (रावणको भयले) मन्द वायु बग्थ्यो, समुद्रको गर्जन गुञ्जिन्थ्यो र वितपावती (अर्थात् अलका, रावणका सौतेनी दाजु तथा देवताहरूका कोषाध्यक्ष कुबेरको राजधानी) जस्तै सुपोषित सेना थियो; जसका बाहिरी ढोकामा हात्ती उभिएका थिए, जुन सेता तोरणले युक्त थियो र भोगवती (पातालको राजधानी) जस्तै सर्पहरूले रक्षित थियो। स्वर्णमय पर्खालले घेरिएको त्यो नगरी इन्द्रको राजधानी अमरावतीजस्तै थियो, जुन फर्फराउँदा ध्वजाले सजिएको थियो र साना घण्टीको रुनझुनले गुञ्जिन्थ्यो।
8चारैतिर हेर्दै हनुमान् विस्मित भए, किनकि त्यो नगरी मानौँ आकाशमा उफ्रिरहेको थियो। त्यस नगरीका ढोका सुनका थिए, वेदीहरू वैदूर्यले जडिएका थिए, अट्टालिकामा हीरा, स्फटिक, मोती र अन्य रत्न जडिएका थिए तथा तिनमाथि शुद्ध सुन र चाँदीका शिखर थिए। चाँदीले बनेका भर्याङमा वैदूर्य जडिएका थिए। स्फटिकका कणले ढाकिएका सुन्दर आँगन मानौँ आकाशमा उफ्रिरहेका थिए। त्यो क्रौञ्च पक्षी, मयूर र राजहंसको ध्वनिले गुञ्जिन्थ्यो। बाजाको ध्वनिले भरिएको त्यो वस्वौकसारा नगरीजस्तै थियो।
9चारैतिर हेर्दै हनुमान् विस्मित भए, किनकि त्यो नगरी मानौँ आकाशमा उफ्रिरहेको थियो। त्यस नगरीका ढोका सुनका थिए, वेदीहरू वैदूर्यले जडिएका थिए, अट्टालिकामा हीरा, स्फटिक, मोती र अन्य रत्न जडिएका थिए तथा तिनमाथि शुद्ध सुन र चाँदीका शिखर थिए। चाँदीले बनेका भर्याङमा वैदूर्य जडिएका थिए। स्फटिकका कणले ढाकिएका सुन्दर आँगन मानौँ आकाशमा उफ्रिरहेका थिए। त्यो क्रौञ्च पक्षी, मयूर र राजहंसको ध्वनिले गुञ्जिन्थ्यो। बाजाको ध्वनिले भरिएको त्यो वस्वौकसारा नगरीजस्तै थियो।
10चारैतिर हेर्दै हनुमान् विस्मित भए, किनकि त्यो नगरी मानौँ आकाशमा उफ्रिरहेको थियो। त्यस नगरीका ढोका सुनका थिए, वेदीहरू वैदूर्यले जडिएका थिए, अट्टालिकामा हीरा, स्फटिक, मोती र अन्य रत्न जडिएका थिए तथा तिनमाथि शुद्ध सुन र चाँदीका शिखर थिए। चाँदीले बनेका भर्याङमा वैदूर्य जडिएका थिए। स्फटिकका कणले ढाकिएका सुन्दर आँगन मानौँ आकाशमा उफ्रिरहेका थिए। त्यो क्रौञ्च पक्षी, मयूर र राजहंसको ध्वनिले गुञ्जिन्थ्यो। बाजाको ध्वनिले भरिएको त्यो वस्वौकसारा नगरीजस्तै थियो।
11चारैतिर हेर्दै हनुमान् विस्मित भए, किनकि त्यो नगरी मानौँ आकाशमा उफ्रिरहेको थियो। त्यस नगरीका ढोका सुनका थिए, वेदीहरू वैदूर्यले जडिएका थिए, अट्टालिकामा हीरा, स्फटिक, मोती र अन्य रत्न जडिएका थिए तथा तिनमाथि शुद्ध सुन र चाँदीका शिखर थिए। चाँदीले बनेका भर्याङमा वैदूर्य जडिएका थिए। स्फटिकका कणले ढाकिएका सुन्दर आँगन मानौँ आकाशमा उफ्रिरहेका थिए। त्यो क्रौञ्च पक्षी, मयूर र राजहंसको ध्वनिले गुञ्जिन्थ्यो। बाजाको ध्वनिले भरिएको त्यो वस्वौकसारा नगरीजस्तै थियो।
12चारैतिर हेर्दै हनुमान् विस्मित भए, किनकि त्यो नगरी मानौँ आकाशमा उफ्रिरहेको थियो। त्यस नगरीका ढोका सुनका थिए, वेदीहरू वैदूर्यले जडिएका थिए, अट्टालिकामा हीरा, स्फटिक, मोती र अन्य रत्न जडिएका थिए तथा तिनमाथि शुद्ध सुन र चाँदीका शिखर थिए। चाँदीले बनेका भर्याङमा वैदूर्य जडिएका थिए। स्फटिकका कणले ढाकिएका सुन्दर आँगन मानौँ आकाशमा उफ्रिरहेका थिए। त्यो क्रौञ्च पक्षी, मयूर र राजहंसको ध्वनिले गुञ्जिन्थ्यो। बाजाको ध्वनिले भरिएको त्यो वस्वौकसारा नगरीजस्तै थियो।
13राक्षसराजको त्यस मनोहर, मङ्गलमय र समृद्ध नगरीलाई हेरेर बलशाली हनुमान् विचार गर्न थाले —
14'यस नगरीमाथि बाहिरकाहरूको आक्रमण सम्भव छैन, किनकि यसको रक्षा रावणका सेनाहरूले (आक्रमणका लागि) अस्त्र तयार पारेर गरिरहेका छन्।
15'यस भूमिसम्म कुमुद र अङ्गद, अथवा महान् वानर सुषेण तथा मैन्द र द्विविद पनि पुग्न सक्छन्।
16'विवस्वान्का छोरा वानरनायक सुग्रीव, कुशपर्व, ऋक्ष (जाम्बवान्), केतुमाल र म पनि यस स्थानसम्म पुग्न सक्छौँ।'
17महाबाहु रामको पराक्रम र लक्ष्मणका वीरतापूर्ण अभियानको सम्झना गरी हनुमान् (मनमनै) प्रसन्न भए।
18हनुमान्ले राक्षसराजको त्यस नगरीलाई हेरे, जसको अन्धकार चम्किने रत्न र विशाल अट्टालिकाले हटाइदिएका थिए — त्यो कुनै तरुणीजस्तै देखिन्थ्यो। त्यो समृद्ध नगरी आभूषणले अलङ्कृत राम्ररी सजिएकी स्त्रीजस्तै थियो, जसका पर्खाल उनका वस्त्र, अश्वशाला उनका कर्णाभूषण र आयुधागार उनका स्तन थिए।
19हनुमान्ले राक्षसराजको त्यस नगरीलाई हेरे, जसको अन्धकार चम्किने रत्न र विशाल अट्टालिकाले हटाइदिएका थिए — त्यो कुनै तरुणीजस्तै देखिन्थ्यो। त्यो समृद्ध नगरी आभूषणले अलङ्कृत राम्ररी सजिएकी स्त्रीजस्तै थियो, जसका पर्खाल उनका वस्त्र, अश्वशाला उनका कर्णाभूषण र आयुधागार उनका स्तन थिए।
20आफ्नो वास्तविक रूप धारण गरी लङ्काकी अधिष्ठात्री देवीले नगरीमा प्रवेश गर्दै गरेका महापराक्रमी वानरश्रेष्ठ वायुपुत्रलाई देखिन्।
21ती वानरश्रेष्ठलाई देखेर रावणद्वारा शासित लङ्का नगरीकी ती देवी विकृत रूप धारण गरी उनको अगाडि उभिइन्।
22उनी वायुपुत्रको सामु उभिइन् र ठूलो स्वरमा उनीसँग बोलिन् —
23'हे वनवासी! तिमी को हौ? यहाँ किन आयौ? जबसम्म तिम्रो प्राण छ, तबसम्म आफ्नो साँचो परिचय देऊ।
24'हे वानर! यो लङ्का एउटा गोप्य ठाउँ हो, जसको रक्षा रावणको सेनाले सर्वत्र गर्दछ। यस नगरीमा तिम्रो प्रवेश निश्चय नै सम्भव छैन।'
25तब उनको सामु उभिएका हनुमान्ले भने — 'तिमी सोधिरहेकी छौ, त्यसैले म तिमीलाई सत्य बताउनेछु।'
26'तिमी को हौ, कुरूप र विकृत आँखा भएकी भयङ्कर स्त्री? नगरीको ढोकामा तिमी मलाई किन रोकिरहेकी छौ? मउपर किन जाइलाग्छौ?'
27इच्छाअनुसार रूप धारण गर्ने लङ्काकी ती देवी हनुमान्का वचन सुनेर क्रुद्ध भइन् र कठोर स्वरमा बोलिन् —
28'महान् राक्षसराज रावणको आज्ञा पालन गर्दै म यस दुर्जय नगरीको रक्षा गर्दछु।
29'मेरो उपस्थितिको उपेक्षा गरी यस नगरीमा प्रवेश गर्नु तिम्रा लागि सम्भव छैन। चाँडै तिमी मारिनेछौ। तिमी प्राण त्यागेर चिरनिद्रा प्राप्त गर्नेछौ।
30'हे वानर! म लङ्ककी अधिष्ठात्री राक्षसी हुँ र स्वयं तिम्रो सामु उपस्थित छु। मैले यस नगरीको रक्षा गर्नुपर्छ। यही तिमीलाई मेरो उत्तर हो।'
31लङ्काकी ती राक्षसीका वचन सुनेर वायुपुत्र तयार भई उभिए र कुनै अर्को पर्वतझैँ देखिन थाले।
32त्यस विकराल स्त्रीलाई देखेर बुद्धिले सम्पन्न बलशाली वानरश्रेष्ठ हनुमान्ले उनीसँग भने —
33'म यस लङ्कालाई त्यसका बजार, ढोका र पर्खालसहित हेर्न चाहन्छु। म यही प्रयोजनले यहाँ आएको हुँ। यो ठाउँ हेर्ने मेरो उत्कण्ठा जागेको छ।
34'म लङ्काका उद्यान, उपवन र वन तथा सबै प्रमुख भवन हेर्न आएको हुँ।'
35हनुमान्को कुरा सुनेर इच्छाअनुसार रूप धारण गर्ने लङ्काकी ती राक्षसीले कठोर वचनमा उत्तर दिइन् —
36'हे दुष्टबुद्धि मूर्ख वानर! मलाई नजितीकन राक्षसराज रावणद्वारा शासित यस नगरीमा तिम्रो प्रवेश सम्भव छैन।'
37वानरश्रेष्ठले ती निशाचरीसँग भने — 'हे श्रेष्ठ लङ्के! म यस नगरीलाई हेरेर फर्कनेछु।'
38तब लङ्काकी ती राक्षसीले ठूलो र भयङ्कर ध्वनि गरिन् र ती परम बलशाली वानरमाथि आफ्नो हत्केलाले प्रहार गरिन्।
39यस प्रबल थप्पडबाट वीर वायुपुत्र हनुमान् ठूलो स्वरमा गर्जे।
40क्रोधले अभिभूत भई हनुमान्ले आफ्नो देब्रे हातका औँला मुट्ठीमा कसे र त्यसले उनीमाथि प्रहार गरे। उनी अन्ततः स्त्री नै हुन् भन्ने विचार गरी उनले प्रचण्ड रूप धारण गरेनन्।
41हनुमान्को प्रहारले आहत ती राक्षसी अङ्गभङ्ग भई र मुख विकृत भई तत्कालै भुइँमा खसिन्।
42बुद्धिमान् र तेजस्वी हनुमान् ती देवीलाई खसेको देखेर उनी अन्ततः स्त्री नै हुन् भन्ने सोचेर करुणावश उनलाई (नमारीकन) छाडेर गए।
43त्यसपछि ती पराजित लङ्का-राक्षसीले विचलित स्वरमा वानरवीर हनुमान्सँग भनिन् —
44'हे बलिया काँध भएका महान् वानर! प्रसन्न हुनुहोस्। मलाई बचाउनुहोस्। महान् बलले सम्पन्न वीरहरू समय आएपछि पछि हट्दछन्।
45'हे वानर! म लङ्काकी मूर्तिमान् अधिष्ठात्री हुँ। तिमीले आफ्नो बल र पराक्रमले मलाई जितिसक्यौ।
46'हे वानरनायक! पूर्वकालमा सृष्टिकर्ता ब्रह्माले मलाई एउटा वर दिएका थिए, जुन आज सत्य भएको छ। म तिमीलाई बताउँछु, सुन।
47'जब कुनै वानरले आफ्नो पराक्रमले तिमीलाई पराजित गर्दछ, तब थाहा पाउनू कि राक्षसहरूको विनाश सुरु भइसक्यो।'
48'हे सौम्य! ब्रह्माद्वारा नियत त्यो समय आज तिम्रो यहाँ आउनुले आइपुगेको छ। स्वयम्भू ब्रह्माद्वारा प्रकट गरिएको सत्य अन्यथा सिद्ध हुन सक्दैन।
49'सीताको (अपहरणको) कारण सम्पूर्ण राक्षस र दुष्टबुद्धि राजा रावणको विनाश हुनेछ।
50'हे महान् वानर! रावणद्वारा शासित यस नगरीमा प्रवेश गर र आफ्नो प्रयोजन सिद्ध गर।
51'हे वानरनायक! राक्षसराजद्वारा शासित यस विनाशोन्मुख नगरीमा स्वच्छन्द विचरण गरी तिमी राजा जनककी छोरी ती पतिव्रता देवीलाई सर्वत्र खोज्न सक्छौ।' यसरी महर्षि वाल्मीकिद्वारा रचित आदिकाव्य श्रीमद्रामायणको सुन्दरकाण्डको तेस्रो सर्ग समाप्त भयो।