Anushasanika Parva — An account of gold and its gifts
Volume IX — Anushasana to Svargarohana Parva · Chapter 84
Sanskrit
1युधिष्ठिर उवाच उक्तं पितामहेनदं गवां दानमनुत्तमम्। विशेषेण नरेन्द्राणामिह धर्ममवेक्षताम्॥
2राज्यं हि सततं दुःखं दुर्धरं चाकृतात्मभिः। भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः॥
3पूयन्ते तत्र नियतं प्रयच्छन्तो वसुन्धराम्। सर्वे च कथिता धर्मास्त्वया मे कुरुनन्दन॥
4एवमेव गवामुक्तं प्रदानं ते नृगेण ह। ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम्॥
5वेदोपनिषदश्चैव सर्वकर्मसु दक्षिणाः। सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम्॥
6तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै। एतदिच्छाम्यहं श्रोतुं पितामह यथातथम्॥
7किं सुवर्णं कथं जातं कस्मिन् काले किमात्मकम्। किं दैवं किं फलं चैव कस्माच्च परमुच्यते॥
8कस्माद् दानं सुवर्णस्य पूजयन्ति मनीषिणः। कस्माच्च दक्षिणार्थं तद् यज्ञकर्मसु शस्यते॥
9कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम्। परमं दक्षिणार्थे च तद् ब्रवीहि पितामह॥
10भीष्म उवाच शृणु राजन्नवहितो बहुकारणविस्तरम्। जातरूपसमुत्पत्तिमनुभूतं च यन्मया।॥
11पिता मम महातेजाः शान्तनुर्निधनं गतः। तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम्॥
12तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम्। माता मे जाह्नवी चात्र साहाय्यमकरोत् तदा॥
13ततोऽग्रतस्ततः सिद्धानुपवेश्य बहूनृषीन्। तोयप्रदानात् प्रभृति कार्याण्यहमथारभम्॥
14तत् समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः। दातुं निर्वपणं सम्यग् यथावदहमारभम्॥
15ततस्तं दर्भविन्यासं भित्त्वा सुरुचिरागदः। प्रलम्बाभरणो बाहुरुदतिष्ठद् विशाम्पते॥
16तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम्। प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ॥
17ततो मे पुनरेवासीत् संज्ञा संचिन्त्य शास्त्रतः। नायं वेदेषु विहितो विधिहस्त इति प्रभो॥ पिण्डो देयो नरेणेह ततो मतिरभून्मम। साक्षान्नेह मनुष्यस्य पिण्डं हि पितरः क्वचित्॥ गृह्णन्ति विहितं चेत्थं पिण्डो देयः कुशेष्विति। ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम्॥ शास्त्रप्रमाण्यसूक्ष्मं तु विधिं पिण्डस्य संस्मरन्। ततो दर्भेषु तत् सर्वमददं भरतर्षभ।॥
18शास्त्रमार्गानुसारेण तद् विद्धि मनुजर्षभ। तत: सोऽन्तर्हितो बाहुः पितुर्मम जनाधिप॥
19ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तथा। प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ।॥ विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः। त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव॥
20आत्मा धर्मः श्रुतं वेदाः पितरश्चर्षिभिः सह। साक्षात् पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः॥ प्रमाणमुपनीता वै स्थिताश्च न विचालिताः। तदिदं सम्यगारब्धं त्वयात्र भरतर्षभ॥
21किं तु भूमेगंवां चार्थे सुवर्णं दीयतामिति। एवं वयं च धर्मज्ञ सर्वे चास्मत्पितामहाः॥ पाविता वै भविष्यन्ति पावनं हि परं हि तत्। दशपूर्वान् दशैवान्यांस्तथा संतारयन्ति ते॥ सुवर्णं ये प्रयच्छन्ति एवं मत्पितरोऽब्रुवन्। ततोऽहं विस्मितो राजन् प्रतिबुद्धो विशाम्पते॥
22सुवर्णदानेऽकरवं मतिं च भरतर्षभ। इतिहासमिमं चापि शृणु राजन् पुरातनम्॥
23जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च। जामदग्न्येन रामेण तीव्ररोषान्वितेन वै॥ त्रिःसप्तकृत्व: पृथिवी कृता निःक्षत्रिया पुरा। ततो जित्वा महीं कृत्स्ना रामो राजीवलोचनः॥ आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम्। वाजिमेधं महाराज सर्वकामसमन्वितम्॥
24पावनं सर्वभूतानां तेजोद्युतिविवर्धनम्। विपाप्मा च स तेजस्व तेन क्रतुफलेन च॥
25नैवात्मनोऽथ लघुतां जामदग्न्योऽध्यगच्छत। स तु क्रतुवरेणेष्वा महात्मा दक्षिणावता॥
26पप्रच्छागमसम्पन्नानृषीन् देवांश्च भार्गवः। पावनं यत् परं नृणामुग्रे कर्मणि वर्तताम्॥ तदुच्यतां महाभागा इति जातघृणोऽब्रवीत्। इत्युक्ता वेदशास्त्रज्ञास्तमूचुस्ते महर्षयः॥ राम विप्राः सक्रियन्तां वेदप्रामाण्यदर्शनात्। भूयश्च विप्रर्षिगणाः प्रष्टव्याः पावनं प्रति॥
27यद् ब्रूयूमहाप्राज्ञास्तच्चैव समुदाचर। ततो वसिष्ठं देवर्षिमगस्त्यमथ काश्यपम्॥ तमेवार्थं महातेजाः पप्रच्छ भृगुनन्दनः। जाता मतिर्मे विप्रेन्द्राः कथं पूयेयमित्युत॥
28केन वा कर्मयोगेन प्रदानेनेह केन वा। यदि वोऽनुग्रहकृता बुद्धिर्मा प्रति सत्तमाः।
29ऋषय ऊचुः गाश्च भूमिं च वित्तं च दत्त्वेह भृगुनन्दन। पापकृत् पूयते मर्त्य इति भार्गव शुश्रुम॥
30अन्यद् दानं तु विप्रर्षे श्रूयतां पावनं महत्। दिव्यमत्यद्भुताकारमपत्यं जातवेदसः॥
31दग्ध्वा लोकान् पुरा वीर्यात् सम्भूतमिह शुश्रुम। सुवर्णमिति विख्यातं तद् ददत् सिद्धिमेष्यसि॥
32ततोऽब्रवीद् वसिष्ठस्तं भगवान् संशितव्रतः। शृणु राम यथोत्पन्नं सुवर्णमनलप्रभम्॥
33फलं दास्यति ते यत्तु दाने परमिहोच्यते। सुवर्णं यच्च यस्माच्च यथा च गुणवतमम्॥
34तन्निबोध महाबाहो सर्वं निगदतो मम। अग्नीषोमात्मकमिदं सुवर्णं विद्धि निश्चये॥
35अजोऽग्निवरुणो मेषः सूर्योऽश्व इति दर्शनम्। कुञ्जराश्च मृगा नागा महिषाश्चासुरा इति॥ कुक्कुटाश्च वराहाश्च राक्षसा भृगुनन्दन। इडा गावः पयः सोमो भूमिरित्येव च स्मृतिः॥
36जगत् सर्वं च निर्मथ्य तेजोराशिः समुत्थितः। सुवर्णमेभ्यो विप्रर्षे रत्नं परममुत्तमम्॥
37एतस्मात् कारणाद् देवा गन्धर्वोरगराक्षसाः। मनुष्याश्च पिशाचाश्च प्रयता धारयन्ति तत्॥
38मुकुटैरङ्गदयुतैरलंकारैः पृथग्विधैः। सुवर्णविकृतैस्तत्र विराजन्ते भृगूत्तम॥
39तस्मात् सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम्। भूमेगोभ्योऽथ रत्नेभ्यस्तद् विद्धि मनुजर्षभा॥
40पूथिवीं गाश्च दत्त्वेह यच्चान्यदपि किंचन। विशिष्यते सुवर्णस्य दानं परमकं विभो॥
41अक्षयं पावनं चैव सुवर्णममराते। प्रयच्छ द्विजमुख्येभ्यः पावनं ह्येतदुत्तमम्॥
42सुवर्णमेव सर्वासु दक्षिणासु विधीयते। सुवर्णे ये प्रयच्छन्ति सर्वदास्ते भवन्त्युत॥
43देवतास्ते प्रयच्छन्ति ये सुवर्णं ददत्यथ। अग्निगर्हि देवताः सर्वाः सुवर्णं च तदात्मकम्॥
44तु तस्य तस्मात् सुवर्णं ददता दत्ताः सर्वाः स्म देवताः। भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः॥
45वसिष्ठ उवाच भूय एव च माहात्म्यं सुवर्णस्य निबोध मे। गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर॥
46मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन। प्रजापतेः कथयतो यथान्यायं वै॥
47शूलपाणेर्भगवतो रुद्रस्य च महात्मनः। गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह॥ देव्या विवाहे निवृत्ते रुद्राण्या भृगुनन्दन। समागमे भगवतो देव्या सह महात्मनः॥ तत: सर्वे समुद्विग्ना देवा रुद्रमुपागमन्। ते महादेवमासीनं देवीं च वरदामुमाम्॥ प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह। अयं समागमो देव देव्या सह तवानघ॥ तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः। अमोघतेजास्त्वं देव देवी चेयमुमा तथा॥
48अपत्यं युवयोर्देव बलवद् भविता विभो। तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति॥
49तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन। वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया॥
50अपत्यार्थं निगृह्वीष्व तेजः परमकं विभो। त्रैलोक्यसारौ हि युवां लोकं संतापयिष्यथः॥
51तदपत्यं हि युवयोर्देवानभिभवेद् ध्रुवम्। न हि ते पृथिवी देवी न च द्यौर्न दिवं विभो॥ नेदं धारयितुं शक्ताः समस्ता इति मे मतिः। तेज:प्रभावनिर्दग्धं तस्मात् सर्वमिदं जगत्॥
52तस्मात् प्रसादं भगवन् कर्तुमर्हसि नः प्रभो। न देव्यां सम्भवेत् पुत्रो भवतः सुरसत्तम। धैर्यादेव निगृह्णीष्व तेजो ज्वलितमुत्तमम्॥
53इति तेषां कथयतां भगवान् वृषभध्वजः। एवमस्त्विति देवांस्तान् विप्रर्षे प्रत्यभाषत॥
54इत्युक्त्वा चोर्ध्वमनयद् रेतो वृषभवाहनः। उर्ध्वरेताः समभवत् ततः प्रभृति चापि सः॥ रुद्राणीति ततः क्रुद्धा प्रजोच्छेदे तदा कृते। देवानथाब्रवीत् तत्र स्त्रीभावात् परुषं वचः॥
55यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः। सुरा यूयमनपत्या भविष्यथ॥
56प्रजोच्छेदो मम कृतो यस्माद् युष्माभिरद्य वै। तस्मात् प्रजा वः स्वगमा: सर्वेषां न भविष्यति॥
57तस्मात् सर्वे पावकस्तु न तत्रासीच्छापकाले भृगूद्वह। देवा देव्यास्तथा शापादनपत्यास्ततोऽभवन्॥
58रुद्रस्तु तेजोऽप्रतिमं धारयामास वै तदा। प्रस्कन्नं तु ततस्तस्मात् किंचित्तत्रापतद् भुवि॥
59उत्पपात तदा वह्वौ ववृधे चाद्भुतोपमम्। तेजस्तेजसि संयुक्तमात्मयोनित्वमागतम्॥
60एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः। असुरस्तारको नाम तेन संतापिता भृशम्॥ आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि। साध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात्॥
61स्थानानि देवतानां हि विमानानि पुराणि च। ऋषीणां चाश्रमाश्चैव बभूवुरसुरैर्हताः॥
62ते दीनमनसः सर्वे देवता ऋषयश्च ये। प्रजग्मुः शरणं देवं ब्रह्माणमजरं विभुम्॥
English
1Yudhishthira said You have, O grandfather, expounded to me the highly meritorious gift of kine. In the case of kings performing their duties, that gift is most meritorious.
2Sovereignty is always painful. It is incapable of being borne by persons of impure souls. Generally kings fail to acquire auspicious ends.
3By always making, however, gifts of earth, they succeed in purifying themselves. You have, O prince of Kuru's race, describe to me many duties.
4You have described to me the gifts of kine formerly made by king Nriga. The Rishi Nachiketa, in ancient times, had described the merits of this act.
5The Vedas and the Upanishads also have laid down that in all sacrifices, in fact, in all sorts of religious rites, the sacrificial present should be earth or kine or gold.
6The Shrutis, however, declare that of all presents, gold is very superior and is, indeed, the best. I wish, O grandfather, to hear you describe truly this subject.
7What is gold? How did it spring up? When did it come into existence? What is its essence? Who is its presiding god? What are its fruits. Why is it considered as the foremost of all things?
8Why do wise men applaud the gift of gold? Why is gold considered as the best of presents in all sacrifices?
9Why also is gold considered as a purifier superior to earth itself and kine? Why, indeed, is it considered so superior as a sacrificial present? Do you, O grandfather, describe to me all this.
10Bhishma said Listen, O king, with rapt attention to me as I recite to you in detail the circumstances connected with the origin of gold as understood by me.
11When my highly energetic father Shantanu died, I proceeded to Gangadvara for performing his Shraddha.
12Arrived there I began the Shraddha of my father. My mother Janhavi coming there, gave me great assistance.
13Inviting many ascetics crowned with success and making them take their seats before me, I began the preliminary rites consisting of gifts of water and of other things.
14Having with concentrated mind performed all preliminary rites as laid down in the scriptures, I began to duly offer the obsequial cake.
15I then saw, O king, that a beautiful arm, adorned with armlets and other ornaments, rose a up, piercing the ground, through the blades of Kusha grass which I had spread.
16Seeing that arm rise from the ground, I became stricken with wonder. Indeed, O chief of Bharata's race, I thought that my father had come himself for accepting the cake I was about to offer.
17Reflecting then, by the light of the scriptures. I became convinced that the ordinance is in the Vedas that the cake should not be presented to the hand of him whose Shraddha is performed. My conviction was that the obsequial cake should never be presented in this world by a man to the visible hand of the nan whose obsequial rites are performed. The departed Manes do not come in their visible forms for taking the cake. On the other hand, the ordinance lays down that it should be presented on the blades of Kusha grass spread the earth for the purpose. I then, disregarding that hand which was the mark of may father's presence, and recollecting the true ordinance of the scriptures regarding to mode of presenting the cake, offered the entire cake, O chief of the Bharatas, upon those blades of Kusha grass that were spread before me.
18Know, O king, that what I did was perfectly consistent with the scriptural ordinance. After this, the arm of my father, O monarch, vanished, in our very sight. on more
19On that night as I slept, the departed Manes appeared to me in a dream. Pleased with me they said, O chief of Bharata's race, these words, We have been pleased with you, for the mark you have shown today of your adherence to the ordinance. It has pleased us to see that you have not deviated from the injunctions of the scriptures. The scriptural ordinance, followed by you, has become authoritative, O king.
20By such conduct you have honoured and maintained the authority of yourself, the scriptures, the Vedas, the Pitris and the Rishis, the Grandfather Brahman himself, and those elders, viz., the Prajapatis. Adherence to the scriptures has been upheld. You have today, O chief of the Bharatas, acted very properly.
21You have made gifts of earth and kine. Do you make gifts of gold. The gift of gold is very purifying. O you that are wellconversant with duties, know that by such acts both ourselves and our forefathers will all be purged of all our sins. Such gifts rescue both ancestors, and descendants of tenth degree of the person who makes them! These were the words that my ancestors, appearing to me in a dream, said to me. I then awoke, o king, and become filled with wonder.
22Indeed, O chief of Bharata's race, I determined upon making gifts of gold, Listen now, O king, to this old history.
23It is highly praiseworthy, and it gives longevity to a man who listens to it. It was first recited to Rama the son of Jamadagni. Formerly Jamadagni's son Rama, existed with great anger, rooted out the Kshatriyas from off the face of the Earth for twentyone times. Having subjugated the entire Earth, the heroic Rama having cyes like lotus petals began to make preparations for celebrating a Horse Sacrifice, O king, that is lauded by all Brahmanas and Kshatriyas and that is capable of granting the fruition of every desire.
24That sacrifice purifies all creatures and increases the energy and splendour of those who succeed in celebrating it. Gifted with great energy, Rama, by the celebration of that sacrifice, became sinless.
25Having, however, celebrated that foremost of sacrifices, the great Rama could not acquire perfect lightness of heart.
26Going to Rishis conversant with every branch of learning as also the celestials, Rama of Bhrigu's race questioned them. Filled with repentance and mercy, he addressed them, saying, highly blessed ones, do you declare that which purifies men engaged in terrific deeds? Thus addressed by him, those great Rishis, fully read in the Vedas and the scriptures, answered him, saying, ( Rama, guided by the authority of the Vedas, do you honour all learned Brahmanas. Acting thus for sometime, do you once more ask the twice born Rishis as to what should be done by you for purifying yourself.
27Follow the advice which those highly wise persons would give! Going then to Vashishtha and Agastya and Kashyapa, that delighter of the Bhrigus, gifted with great energy, asked them the very question, You foremost of Brahmanas, even this is the wish that has originated in my heart. How, indeed, can I purify myself.
28wa urah fos wafafa autetar:118011 By what acts and rites may this be engendered? Or, if by gifts, what is that article by giving away which this wish of mine may be satisfied, O foremost of righteous persons, if you are bent upon doing me a favour, then do tell me, you who have asceticism for wealth, what is that by which I may succeed in purifying myself!
29The Rishis said O delighter of the Bhrigus, the mortal that has committed sin becomes purified by making gifts of kine, of earth, and of riches. This is what we have heard.
30There is another gift that is considered as a great purifier. Listen to us, O twiceborn Rishi, as we discourse on it! That article is excellent and is wonderful to look at and is, besides, the offspring of Fire
31Formerly the god Agni burnt all the world. We have heard that from his seed sprung gold of bright complexion. It passed by the name of the goodcomplexioned. By making gifts of gold you are sure to have your wish fulfilled.
32Then the illustrious Vashishtha in especial, of rigid vows, addressing him, said, Hear, O Rama, how gold, which is effulgent like fire, first came into being .
33That gold will confer merit on you. Ini matters of gifts, gold is highly spoken of. I shall also tell you what is gold, whence it has come, and how it has come to be endued with superior attributes.
34Listen to me, O you of mighty arms, as I describe these subjects. Know this as certain that gold is of the essence of Fire and Moor.
35The goat is Fire, the sheep is Varuna; the horse is the Sun; elephants are Nagas; buffaloes are Asuras; cocks and boars are Rakshasas; O delighter of the Bhrigus; earth is sacrifice, kine, water, and Soma. These are the declarations of the Smritis.
36Churning the entire universe, a mass of energy was found. That energy is gold. Hence, O twiceborn Rishi, compared to all these objects gold is surely superior. It is a valuable thing, high and excellent.
37It is therefore that the celestial and Gandharvas and Uragas and Rakshasas and human beings and Pishachas hold it with care.
38All these beings, O son of Bhrigu's race, shine in splendour, with the help of gold, after converting it into crowns and armlets and various ornaments.
39It is also for this reason that gold is considered as the most purifying of all cleansing things such as earth and kine and all other kinds of riches, O king.
40The gift of gold, O powerful king, is the highest gift. It is superior to the gift of earth, of kine, and of all other things.
41O you who are effulgent like an immortal, gold is an eternal purifier. Do you make gifts of it to the foremost of Brahmanas as it is the foremost of purifying things.
42Of all kinds of presents, gold is the best. They who make gifts of gold are said to be givers of all things,
43Indeed, they who make gifts of gold are considered as givers of celestials. Agni is all the deities in one, and gold has Agni for its essence.
44Hence it is that the person who makes gift of gold gives away all the celestials. Hence, O king, there is no gift higher than the gift of gold.
45Vashishtha said Hear once more, O twice born Rishi, as I describe the superiority of gold, O foremost of all wielders weapons.
46I heard this formerly in the Purana, O son of Bhrigu's race. It represents the speech of Prajapati himself.
47After the marriage was over of the illustrious and great Rudra armed with the trident, O son Bhrigu's race, with the goddess who became his consort, on the breast of that foremost of mountains, viz., Himavat, the illustrious and great deity wished to unite himself with the goddess. Thereupon all the celestials, stricken with anxiety, approached Rudra. Bending their heads with respect and pleasing Mahadeva and his boon-giving consort Uma, both of whom were seated together, they addressed Rudra, O perpetuator of Bhrigu's race, saying, This union, O illustrious and sinless one, of you with the goddess, is a union of an ascetic with another. Indeed, it is the union, O lord, of one energetic person with another equally so. You, O illustrious one, are of irresistible energy. The goddess Uma also is gifted with energy that is equally irresistible.
48The offspring that will result from a union like this, will, forsooth, O illustrious deity, be gifted with very great might. Indeed, powerful lord, that offspring will consume all things in the three worlds without leaving a residue.
49Do you then, O lord of all the universe, O you having large eyes, grant to these celestials prostrated before you, a boon from desire of benefiting the three worlds.
50Do you, O powerful one, restrain this great energy of yours may become the seed of offspring. Indeed, that energy is the essence of all forces in the three worlds. You two, by an act of congress, are sure of scorch the universe.
51Your offspring will certainly be able of afflict the celestials. Neither the goddess Earth, nor the Sky, nor Heaven, O powerful one, nor all of them together, will be able to bear your energy, we firmly believe. The entire universe yours which is certain to be burnt through the force of your energy.
52You should, O powerful one, show us favour, O illustrious deity. That favour consists in your not begetting a son, O foremost of the celestials, upon the goddess Uma. Do you, patiently govern your fiery and powerful energy.
53To the deities that said so, the holy Mahadeva having the bull for his sign, O twiceborn Rishi, answered, saying, So be it!
54Having said so, the deity that has the bull for his vehicle, drew up his vital seed. From that time he passed by the name of Urddharetas (one that has drawn up the vital seed). At this attempt of the celestials to stop procreation, the consort of Rudra became highly wroth. On account of her being the opposite sex, she used hard words. On account of her being the opposite sex, she used hard words.
55Since you have opposed my lord in procreating an offspring when he was desirous of procrcating one upon me, as the result of this act, you celestials, you all shall become sonless.
56Indeed, since you have opposed the birth of an offspring from me, therefore, you shall have no offspring of your own When this curse was imprecated.
57O perpetuator of Bhrigu's race, the deity of fire was not there. It is on account of this curse of the goddess that the deities have become childless.
58Rudra begged them, held in himself his energy of incomparable power. A small quantity, however, that came out o this body dropped on the Earth.
59That seed, falling on the Earth, leaped into a burning fire and there began to grow most wonderfully.
60The energy of Rudra, coming in contact with another energy of great power, became une with it in essence. Mean while, all the celestials headed by Indra were scorched by the Asura named Taraka. The Adityas, the Vasus, the Rudras, the Maruts, the Ashvins, and the Saddhyas all became greatly afflicted on account of the prowess of that son of Diti.
61All the regions of the celestials, their beautiful cars, and their palaces, and the asylums of the Rishis, we.e snatched away by the Asuras.
62Then the celestials and the Rishis, with depressed hearts, sought the protection of the illustrious and powerful Brahman of unfading glory.
Hindi
1युधिष्ठिर ने कहा — हे पितामह, आपने मुझसे अत्यन्त पुण्यमय गोदान का वर्णन किया। अपने कर्तव्यों का पालन करने वाले राजाओं के लिए वह दान सर्वाधिक पुण्यमय है।
2राज्य सदा कष्टदायक होता है। अशुद्ध आत्मा वाले पुरुष उसका भार सह नहीं सकते। प्रायः राजा शुभ गति प्राप्त करने में असफल रहते हैं।
3किन्तु सदा भूमि का दान करके वे अपने को शुद्ध करने में सफल होते हैं। हे कुरुनन्दन, आपने मुझसे अनेक धर्मों का वर्णन किया है।
4आपने मुझसे राजा नृग के द्वारा प्राचीन काल में किए गए गोदान का वर्णन किया। ऋषि नचिकेता ने भी प्राचीन काल में इस कर्म के फलों का वर्णन किया था।
5वेदों और उपनिषदों ने भी यह निर्धारित किया है कि समस्त यज्ञों में, वस्तुतः समस्त प्रकार के धार्मिक कर्मों में, यज्ञ की दक्षिणा भूमि, गौ अथवा सुवर्ण होनी चाहिए।
6किन्तु श्रुतियाँ यह घोषित करती हैं कि समस्त दक्षिणाओं में सुवर्ण अत्यन्त श्रेष्ठ है और सचमुच सर्वोत्तम है। हे पितामह, मैं आपसे इस विषय का यथार्थ वर्णन सुनना चाहता हूँ।
7सुवर्ण क्या है? उसकी उत्पत्ति कैसे हुई? वह कब अस्तित्व में आया? उसका सार क्या है? उसका अधिष्ठाता देवता कौन है? उसके क्या फल हैं? वह समस्त वस्तुओं में श्रेष्ठ क्यों माना जाता है?
8बुद्धिमान् पुरुष सुवर्ण के दान की प्रशंसा क्यों करते हैं? समस्त यज्ञों में सुवर्ण सर्वश्रेष्ठ दक्षिणा क्यों माना जाता है?
9और सुवर्ण को स्वयं भूमि तथा गौओं से भी श्रेष्ठ पवित्रकारक क्यों माना जाता है? सचमुच, यज्ञ की दक्षिणा के रूप में वह इतना श्रेष्ठ क्यों माना जाता है? हे पितामह, यह सब मुझे बताइए।
10भीष्म ने कहा — हे राजन्, एकाग्र चित्त से मुझसे सुनो; मैं तुम्हें सुवर्ण की उत्पत्ति से जुड़ी उन परिस्थितियों का विस्तार से वर्णन करता हूँ, जैसा मैंने उन्हें समझा है।
11जब मेरे महातेजस्वी पिता शान्तनु का देहान्त हुआ, तब मैं उनका श्राद्ध करने के लिए गंगाद्वार गया।
12वहाँ पहुँचकर मैंने अपने पिता का श्राद्ध आरम्भ किया। मेरी माता जाह्नवी ने वहाँ आकर मुझे बड़ी सहायता दी।
13सिद्धि से सम्पन्न अनेक तपस्वियों को निमन्त्रित करके और उन्हें अपने सामने आसनों पर बिठाकर मैंने जल आदि के दान से युक्त प्रारम्भिक कर्म आरम्भ किए।
14एकाग्र चित्त से शास्त्रों में निर्धारित समस्त प्रारम्भिक कर्मों को सम्पन्न करके मैंने विधिपूर्वक पिण्ड अर्पित करना आरम्भ किया।
15तब हे राजन्, मैंने देखा कि बाजूबन्दों और अन्य आभूषणों से अलंकृत एक सुन्दर भुजा, मेरे द्वारा बिछाए गए कुश के तिनकों को भेदकर, पृथ्वी को चीरती हुई ऊपर उठी।
16उस भुजा को पृथ्वी से उठते देखकर मैं आश्चर्य से भर गया। सचमुच, हे भरतश्रेष्ठ, मैंने सोचा कि जो पिण्ड मैं अर्पित करने वाला था, उसे स्वीकार करने के लिए मेरे पिता स्वयं आ गए हैं।
17तब शास्त्रों के प्रकाश में विचार करके मुझे यह विश्वास हुआ कि वेदों का विधान यह है कि जिसका श्राद्ध किया जा रहा हो, उसके हाथ में पिण्ड नहीं देना चाहिए। मेरा निश्चय यह था कि इस लोक में मनुष्य को कभी उस पुरुष के प्रत्यक्ष हाथ में पिण्ड नहीं देना चाहिए जिसके श्राद्धकर्म किए जा रहे हों। दिवंगत पितर पिण्ड लेने के लिए अपने प्रत्यक्ष रूपों में नहीं आते। इसके विपरीत, विधान यह कहता है कि पिण्ड इसी प्रयोजन के लिए पृथ्वी पर बिछाए गए कुश के तिनकों पर अर्पित करना चाहिए। तब हे भरतश्रेष्ठ, अपने पिता की उपस्थिति के चिह्न उस हाथ की अवहेलना करके और पिण्ड अर्पित करने की विधि के विषय में शास्त्रों के सच्चे विधान का स्मरण करके मैंने सम्पूर्ण पिण्ड अपने सामने बिछे उन कुश के तिनकों पर ही अर्पित कर दिया।
18हे राजन्, जान लो कि मैंने जो किया वह शास्त्रीय विधान के पूर्णतः अनुकूल था। इसके पश्चात् हे राजन्, मेरे पिता की वह भुजा हमारी आँखों के सामने ही अन्तर्धान हो गई।
19उस रात जब मैं सोया, तब दिवंगत पितर मुझे स्वप्न में दिखाई दिए। मुझ पर प्रसन्न होकर उन्होंने ये वचन कहे — हे भरतश्रेष्ठ, आज तुमने विधान के प्रति अपनी निष्ठा का जो प्रमाण दिया, उससे हम प्रसन्न हुए हैं। यह देखकर हमें आनन्द हुआ कि तुम शास्त्रों की आज्ञा से विचलित नहीं हुए। हे राजन्, तुम्हारे द्वारा अनुसरण किया गया शास्त्रीय विधान अब प्रमाण बन गया है।
20ऐसे आचरण से तुमने अपना, शास्त्रों का, वेदों का, पितरों और ऋषियों का, स्वयं पितामह ब्रह्मा का तथा उन वृद्धजनों — अर्थात् प्रजापतियों — का सम्मान और अधिकार बनाए रखा है। शास्त्रों की निष्ठा की रक्षा हुई है। हे भरतश्रेष्ठ, तुमने आज अत्यन्त उचित कार्य किया है।
21तुमने भूमि और गौओं का दान किया है। अब तुम सुवर्ण का दान करो। सुवर्ण का दान अत्यन्त पवित्र करने वाला है। हे धर्मों के ज्ञाता, जान लो कि ऐसे कर्मों से हम और हमारे पूर्वज — सब अपने समस्त पापों से शुद्ध हो जाएँगे। ऐसे दान दाता की दसवीं पीढ़ी तक के पूर्वजों और वंशजों — दोनों का उद्धार करते हैं! ये वे वचन थे जो मेरे पूर्वजों ने स्वप्न में मुझे दिखाई देकर मुझसे कहे। हे राजन्, तब मैं जागा और आश्चर्य से भर गया।
22सचमुच, हे भरतश्रेष्ठ, मैंने सुवर्ण का दान करने का निश्चय किया। हे राजन्, अब यह प्राचीन इतिहास सुनो।
23यह अत्यन्त प्रशंसनीय है और जो इसे सुनता है, उसे दीर्घ आयु देता है। यह सबसे पहले जमदग्नि के पुत्र राम को सुनाया गया था। प्राचीन काल में जमदग्नि के पुत्र राम ने महान् क्रोध में भरकर इक्कीस बार पृथ्वी के मुख से क्षत्रियों को उखाड़ फेंका। सम्पूर्ण पृथ्वी को जीतकर कमलदल के समान नेत्रों वाले वीर राम ने हे राजन्, उस अश्वमेध यज्ञ के अनुष्ठान की तैयारी आरम्भ की जिसकी समस्त ब्राह्मण और क्षत्रिय प्रशंसा करते हैं और जो प्रत्येक कामना की पूर्ति देने में समर्थ है।
24वह यज्ञ समस्त प्राणियों को पवित्र करता है और जो उसे सम्पन्न करने में सफल होते हैं, उनके तेज और कान्ति की वृद्धि करता है। महातेजस्वी राम उस यज्ञ के अनुष्ठान से निष्पाप हो गए।
25किन्तु उस श्रेष्ठ यज्ञ को सम्पन्न कर लेने पर भी महान् राम अपने हृदय में पूर्ण हलकापन प्राप्त न कर सके।
26विद्या की प्रत्येक शाखा के ज्ञाता ऋषियों तथा देवताओं के पास जाकर भृगुवंशी राम ने उनसे प्रश्न किया। पश्चात्ताप और करुणा से भरकर उन्होंने उनसे कहा — हे परम सौभाग्यशालियो, आप बताइए कि भयंकर कर्म करने वाले मनुष्यों को कौन-सी वस्तु पवित्र करती है? उनके इस प्रकार पूछने पर वेदों और शास्त्रों में पूर्ण रूप से पारंगत उन महर्षियों ने उन्हें उत्तर दिया — हे राम, वेदों के प्रमाण के अनुसार चलते हुए तुम समस्त विद्वान् ब्राह्मणों का सम्मान करो। कुछ काल तक इस प्रकार आचरण करके तुम पुनः द्विज ऋषियों से पूछना कि अपने को शुद्ध करने के लिए तुम्हें क्या करना चाहिए।
27वे परम बुद्धिमान् पुरुष जो सलाह दें, उसका पालन करना! तब वसिष्ठ, अगस्त्य और कश्यप के पास जाकर भृगुओं को आनन्दित करने वाले महातेजस्वी राम ने उनसे यही प्रश्न किया — हे ब्राह्मणश्रेष्ठो, मेरे हृदय में यही इच्छा उत्पन्न हुई है। मैं अपने को किस प्रकार शुद्ध कर सकता हूँ?
28किन कर्मों और अनुष्ठानों से यह शुद्धि उत्पन्न हो सकती है? अथवा यदि दान से हो, तो वह कौन-सी वस्तु है जिसे देकर मेरी यह कामना पूर्ण हो सके? हे धर्मात्माओं में श्रेष्ठ, यदि आप मुझ पर अनुग्रह करना चाहते हैं, तो हे तपोधनो, मुझे बताइए कि वह क्या है जिसके द्वारा मैं अपने को शुद्ध करने में सफल हो सकूँ!
29ऋषियों ने कहा — हे भृगुनन्दन, जिस मर्त्य ने पाप किया हो, वह गौओं, भूमि और धन का दान करके शुद्ध हो जाता है। हमने ऐसा ही सुना है।
30एक और दान है जो महान् पवित्रकारक माना जाता है। हे द्विज ऋषे, हमसे सुनिए, हम उसका वर्णन करते हैं! वह वस्तु उत्कृष्ट है, देखने में अद्भुत है और इसके अतिरिक्त अग्नि की सन्तान है।
31प्राचीन काल में अग्निदेव ने समस्त संसार को जला डाला था। हमने सुना है कि उन्हीं के वीर्य से उज्ज्वल वर्ण वाला सुवर्ण उत्पन्न हुआ। वह 'सुवर्ण' अर्थात् उत्तम वर्ण वाला — इस नाम से प्रसिद्ध हुआ। सुवर्ण का दान करके तुम्हारी कामना निश्चय ही पूर्ण होगी।
32तब विशेष रूप से कठोर व्रत वाले यशस्वी वसिष्ठ ने उन्हें सम्बोधित करके कहा — हे राम, सुनो कि अग्नि के समान तेजस्वी सुवर्ण सबसे पहले किस प्रकार अस्तित्व में आया।
33वह सुवर्ण तुम्हें पुण्य प्रदान करेगा। दान के विषयों में सुवर्ण की अत्यन्त प्रशंसा की जाती है। मैं तुम्हें यह भी बताऊँगा कि सुवर्ण क्या है, वह कहाँ से आया, और वह श्रेष्ठ गुणों से किस प्रकार सम्पन्न हुआ।
34हे महाबाहु, मुझसे सुनो, मैं इन विषयों का वर्णन करता हूँ। यह निश्चित जान लो कि सुवर्ण अग्नि और चन्द्रमा के सार से बना है।
35हे भृगुनन्दन, बकरा अग्नि है, भेड़ वरुण है; अश्व सूर्य है; हाथी नाग हैं; भैंसे असुर हैं; मुर्गे और वराह राक्षस हैं; भूमि यज्ञ है, और गौएँ, जल तथा सोम भी। ये स्मृतियों की घोषणाएँ हैं।
36सम्पूर्ण विश्व का मन्थन करने पर तेज की एक राशि प्राप्त हुई। वही तेज सुवर्ण है। इसीलिए हे द्विज ऋषे, इन समस्त वस्तुओं की तुलना में सुवर्ण निश्चय ही श्रेष्ठ है। वह बहुमूल्य, उच्च और उत्कृष्ट वस्तु है।
37इसीलिए देवता, गन्धर्व, उरग, राक्षस, मनुष्य और पिशाच — सब उसे सावधानी से धारण करते हैं।
38हे भृगुवंशनन्दन, ये सब प्राणी सुवर्ण को मुकुटों, बाजूबन्दों और नाना आभूषणों में ढालकर उसकी सहायता से तेज से प्रकाशित होते हैं।
39हे राजन्, इसी कारण सुवर्ण को भूमि, गौओं और अन्य समस्त प्रकार के धन जैसी सब शुद्ध करने वाली वस्तुओं में सर्वाधिक पवित्रकारक माना जाता है।
40हे शक्तिशाली राजन्, सुवर्ण का दान सर्वोच्च दान है। वह भूमि, गौओं और अन्य समस्त वस्तुओं के दान से श्रेष्ठ है।
41हे अमर के समान तेजस्वी, सुवर्ण शाश्वत पवित्रकारक है। तुम उसका दान ब्राह्मणश्रेष्ठों को करो, क्योंकि वह पवित्र करने वाली वस्तुओं में श्रेष्ठ है।
42समस्त प्रकार की दक्षिणाओं में सुवर्ण सर्वश्रेष्ठ है। जो सुवर्ण का दान करते हैं, वे समस्त वस्तुओं के दाता कहे जाते हैं।
43सचमुच, जो सुवर्ण का दान करते हैं, वे देवताओं के ही दाता माने जाते हैं। अग्नि समस्त देवताओं का एक में समावेश है, और सुवर्ण का सार अग्नि ही है।
44इसीलिए जो सुवर्ण का दान करता है, वह समस्त देवताओं का दान कर देता है। इसीलिए हे राजन्, सुवर्ण के दान से बढ़कर कोई दान नहीं है।
45वसिष्ठ ने कहा — हे द्विज ऋषे, हे समस्त शस्त्रधारियों में श्रेष्ठ, एक बार फिर सुनो, मैं सुवर्ण की श्रेष्ठता का वर्णन करता हूँ।
46हे भृगुवंशनन्दन, मैंने यह प्राचीन काल में पुराण में सुना था। यह स्वयं प्रजापति के वचनों का प्रतिनिधित्व करता है।
47हे भृगुवंशनन्दन, त्रिशूलधारी यशस्वी महान् रुद्र का उस देवी के साथ विवाह सम्पन्न हो जाने के पश्चात्, जो उनकी सहचरी बनीं, पर्वतश्रेष्ठ हिमवान् के वक्ष पर उन यशस्वी महादेव ने देवी के साथ मिलन की इच्छा की। इस पर समस्त देवता चिन्ता से भरकर रुद्र के पास गए। आदरपूर्वक सिर झुकाकर और एक साथ बैठे हुए महादेव तथा उनकी वरदायिनी सहचरी उमा — दोनों को प्रसन्न करके उन्होंने रुद्र से कहा — हे यशस्वी और निष्पाप, देवी के साथ आपका यह मिलन एक तपस्वी का दूसरे तपस्वी के साथ मिलन है। सचमुच हे प्रभो, यह एक तेजस्वी का दूसरे समान तेजस्वी के साथ मिलन है। हे यशस्वी, आपका तेज अप्रतिहत है। देवी उमा भी समान रूप से अप्रतिहत तेज से सम्पन्न हैं।
48हे यशस्वी देव, ऐसे मिलन से जो सन्तान उत्पन्न होगी, वह निश्चय ही अत्यन्त महान् बल से सम्पन्न होगी। सचमुच, हे शक्तिशाली प्रभो, वह सन्तान तीनों लोकों की समस्त वस्तुओं को बिना कुछ शेष छोड़े भस्म कर देगी।
49हे विश्व के अधिपति, हे विशाल नेत्रों वाले, तब आप अपने आगे प्रणत इन देवताओं को तीनों लोकों के कल्याण की इच्छा से एक वरदान दीजिए।
50हे शक्तिशाली, आप अपने इस महान् तेज को रोक लीजिए, जो सन्तान का बीज बन सकता है। सचमुच, वह तेज तीनों लोकों की समस्त शक्तियों का सार है। आप दोनों संगम के द्वारा निश्चय ही विश्व को दग्ध कर देंगे।
51आपकी सन्तान निश्चय ही देवताओं को पीड़ित करने में समर्थ होगी। हे शक्तिशाली, न पृथ्वी देवी, न आकाश, न स्वर्ग — और न ही ये सब मिलकर — आपके तेज को सह सकेंगे, ऐसा हमारा दृढ़ विश्वास है। यह सम्पूर्ण विश्व आपका है, जो आपके तेज के बल से निश्चय ही जल जाएगा।
52हे शक्तिशाली, हे यशस्वी देव, आपको हम पर कृपा करनी चाहिए। वह कृपा यही है कि हे देवश्रेष्ठ, आप देवी उमा से पुत्र उत्पन्न न करें। आप अपने उस अग्निमय और शक्तिशाली तेज को धैर्यपूर्वक वश में रखिए।
53हे द्विज ऋषे, ऐसा कहने वाले देवताओं से वृषभचिह्न वाले पवित्र महादेव ने उत्तर दिया — ऐसा ही हो!
54यह कहकर वृषभवाहन उस देवता ने अपना वीर्य ऊपर खींच लिया। उस समय से वे ऊर्ध्वरेता — अर्थात् जिसने वीर्य ऊपर खींच लिया हो — इस नाम से प्रसिद्ध हुए। सन्तानोत्पत्ति रोकने के देवताओं के इस प्रयत्न पर रुद्र की सहचरी अत्यन्त क्रुद्ध हो उठीं। विपरीत लिंग की होने के कारण उन्होंने कठोर वचन कहे। विपरीत लिंग की होने के कारण उन्होंने कठोर वचन कहे।
55चूँकि तुमने मेरे स्वामी को उस समय सन्तान उत्पन्न करने से रोका जब वे मुझसे सन्तान उत्पन्न करना चाहते थे, इस कर्म के फलस्वरूप हे देवताओ, तुम सब पुत्रहीन हो जाओगे।
56सचमुच, चूँकि तुमने मुझसे सन्तान की उत्पत्ति का विरोध किया, इसलिए तुम्हारी अपनी कोई सन्तान नहीं होगी। जब यह शाप दिया गया,
57हे भृगुवंशनन्दन, तब अग्निदेव वहाँ उपस्थित नहीं थे। देवी के इसी शाप के कारण देवता सन्तानहीन हो गए हैं।
58देवताओं की प्रार्थना पर रुद्र ने अपने अनुपम शक्तिशाली तेज को अपने में ही रोक लिया। किन्तु उनके शरीर से निकली थोड़ी-सी मात्रा पृथ्वी पर गिर पड़ी।
59पृथ्वी पर गिरा हुआ वह वीर्य प्रज्वलित अग्नि में जा कूदा और वहाँ अत्यन्त आश्चर्यजनक रूप से बढ़ने लगा।
60रुद्र का वह तेज महान् शक्ति वाले दूसरे तेज के सम्पर्क में आकर सार रूप में उसके साथ एक हो गया। इसी बीच इन्द्र के नेतृत्व में समस्त देवता तारक नामक असुर के द्वारा संतप्त किए जा रहे थे। आदित्य, वसु, रुद्र, मरुत्, अश्विनीकुमार और साध्य — सब उस दितिपुत्र के पराक्रम से अत्यन्त पीड़ित हो गए।
61देवताओं के समस्त लोक, उनके सुन्दर रथ और उनके प्रासाद तथा ऋषियों के आश्रम — ये सब असुरों ने छीन लिए।
62तब देवता और ऋषि खिन्न हृदय से अक्षय कीर्ति वाले यशस्वी और शक्तिशाली ब्रह्मा की शरण में गए।
Nepali
1युधिष्ठिरले भने — हे पितामह, तपाईंले मलाई अत्यन्त पुण्यमय गोदानको वर्णन गर्नुभयो। आफ्ना कर्तव्यको पालन गर्ने राजाहरूका लागि त्यो दान सर्वाधिक पुण्यमय छ।
2राज्य सधैँ कष्टदायक हुन्छ। अशुद्ध आत्मा भएका पुरुषहरूले त्यसको भार सहन सक्दैनन्। प्रायः राजाहरू शुभ गति प्राप्त गर्न असफल रहन्छन्।
3तर सधैँ भूमिको दान गरेर तिनीहरू आफूलाई शुद्ध पार्न सफल हुन्छन्। हे कुरुनन्दन, तपाईंले मलाई अनेक धर्मको वर्णन गर्नुभएको छ।
4तपाईंले मलाई राजा नृगले प्राचीन कालमा गरेको गोदानको वर्णन गर्नुभयो। ऋषि नचिकेताले पनि प्राचीन कालमा यस कर्मका फलको वर्णन गरेका थिए।
5वेद र उपनिषद्ले पनि यो निर्धारण गरेका छन् कि सम्पूर्ण यज्ञमा, वस्तुतः सम्पूर्ण प्रकारका धार्मिक कर्ममा, यज्ञको दक्षिणा भूमि, गाई अथवा सुन हुनुपर्छ।
6तर श्रुतिहरूले यो घोषणा गर्छन् कि सम्पूर्ण दक्षिणामा सुन अत्यन्त श्रेष्ठ छ र साँच्चै सर्वोत्तम छ। हे पितामह, म तपाईंबाट यस विषयको यथार्थ वर्णन सुन्न चाहन्छु।
7सुन के हो? त्यसको उत्पत्ति कसरी भयो? त्यो कहिले अस्तित्वमा आयो? त्यसको सार के हो? त्यसको अधिष्ठाता देवता को हो? त्यसका के फल छन्? त्यो सम्पूर्ण वस्तुमा श्रेष्ठ किन मानिन्छ?
8बुद्धिमान् पुरुषहरूले सुनको दानको प्रशंसा किन गर्छन्? सम्पूर्ण यज्ञमा सुन सर्वश्रेष्ठ दक्षिणा किन मानिन्छ?
9र सुनलाई स्वयं भूमि तथा गाईभन्दा पनि श्रेष्ठ पवित्रकारक किन मानिन्छ? साँच्चै, यज्ञको दक्षिणाका रूपमा त्यो यति श्रेष्ठ किन मानिन्छ? हे पितामह, यी सबै मलाई बताउनुहोस्।
10भीष्मले भने — हे राजन्, एकाग्र चित्तले मबाट सुन; म तिमीलाई सुनको उत्पत्तिसँग जोडिएका ती परिस्थितिको विस्तारपूर्वक वर्णन गर्छु, जस्तो मैले तिनलाई बुझेको छु।
11जब मेरा महातेजस्वी बुबा शान्तनुको देहान्त भयो, तब म उहाँको श्राद्ध गर्नका लागि गङ्गाद्वार गएँ।
12त्यहाँ पुगेर मैले आफ्ना बुबाको श्राद्ध आरम्भ गरेँ। मेरी आमा जाह्नवीले त्यहाँ आएर मलाई ठूलो सहायता गर्नुभयो।
13सिद्धिले सम्पन्न अनेक तपस्वीलाई निम्त्याएर र तिनलाई आफूअगाडि आसनमा बसालेर मैले जल आदिको दानले युक्त प्रारम्भिक कर्म आरम्भ गरेँ।
14एकाग्र चित्तले शास्त्रमा निर्धारित सम्पूर्ण प्रारम्भिक कर्म सम्पन्न गरेर मैले विधिपूर्वक पिण्ड अर्पण गर्न थालेँ।
15तब हे राजन्, मैले देखेँ कि बाजुबन्द र अन्य आभूषणले अलङ्कृत एउटा सुन्दर पाखुरा, मैले ओछ्याएका कुशका सिन्कालाई छेडेर, पृथ्वी चिर्दै माथि उठ्यो।
16त्यस पाखुरालाई पृथ्वीबाट उठेको देखेर म आश्चर्यले भरिएँ। साँच्चै, हे भरतश्रेष्ठ, मैले सोचेँ कि जुन पिण्ड म अर्पण गर्न लागेको थिएँ, त्यो स्वीकार गर्न मेरा बुबा आफैँ आउनुभएको छ।
17तब शास्त्रको प्रकाशमा विचार गरेर मलाई यो विश्वास भयो कि वेदको विधान यो हो कि जसको श्राद्ध गरिँदै छ, उसको हातमा पिण्ड दिनुहुँदैन। मेरो निश्चय यो थियो कि यस लोकमा मानिसले कहिल्यै त्यस पुरुषको प्रत्यक्ष हातमा पिण्ड दिनुहुँदैन जसका श्राद्धकर्म गरिँदै छन्। दिवङ्गत पितृहरू पिण्ड लिन आफ्ना प्रत्यक्ष रूपमा आउँदैनन्। यसको विपरीत, विधानले भन्छ कि पिण्ड यसै प्रयोजनका लागि भुइँमा ओछ्याइएका कुशका सिन्कामा अर्पण गर्नुपर्छ। तब हे भरतश्रेष्ठ, आफ्ना बुबाको उपस्थितिको चिह्न त्यस हातको अवहेलना गरेर र पिण्ड अर्पण गर्ने विधिका विषयमा शास्त्रको साँचो विधानको स्मरण गरेर मैले सम्पूर्ण पिण्ड आफूअगाडि ओछ्याइएका ती कुशका सिन्कामै अर्पण गरिदिएँ।
18हे राजन्, थाहा पाऊ कि मैले जे गरेँ त्यो शास्त्रीय विधानसँग पूर्णतः अनुकूल थियो। यसपछि हे राजन्, मेरा बुबाको त्यो पाखुरा हाम्रै आँखाअगाडि अन्तर्धान भयो।
19त्यस रात जब म सुतेँ, तब दिवङ्गत पितृहरू मलाई सपनामा देखा परे। ममाथि प्रसन्न भई उनीहरूले यी वचन भने — हे भरतश्रेष्ठ, आज तिमीले विधानप्रति आफ्नो निष्ठाको जुन प्रमाण दियौ, त्यसबाट हामी प्रसन्न भएका छौँ। यो देखेर हामीलाई आनन्द भयो कि तिमी शास्त्रको आज्ञाबाट विचलित भएनौ। हे राजन्, तिमीले अनुसरण गरेको शास्त्रीय विधान अब प्रमाण बनेको छ।
20यस्तो आचरणले तिमीले आफ्नो, शास्त्रको, वेदको, पितृ र ऋषिहरूको, स्वयं पितामह ब्रह्माको तथा ती वृद्धजन — अर्थात् प्रजापतिहरूको — सम्मान र अधिकार कायम राखेका छौ। शास्त्रको निष्ठाको रक्षा भएको छ। हे भरतश्रेष्ठ, तिमीले आज अत्यन्त उचित कार्य गरेका छौ।
21तिमीले भूमि र गाईको दान गरेका छौ। अब तिमी सुनको दान गर। सुनको दान अत्यन्त पवित्र पार्ने छ। हे धर्मका ज्ञाता, थाहा पाऊ कि यस्ता कर्मले हामी र हाम्रा पूर्वज — सबै आफ्ना सम्पूर्ण पापबाट शुद्ध हुनेछौँ। यस्ता दानले दाताको दसौँ पुस्तासम्मका पूर्वज र सन्तति — दुवैको उद्धार गर्छन्! यी ती वचन थिए जो मेरा पूर्वजहरूले सपनामा मलाई देखा परेर भने। हे राजन्, तब म ब्युँझेँ र आश्चर्यले भरिएँ।
22साँच्चै, हे भरतश्रेष्ठ, मैले सुनको दान गर्ने निश्चय गरेँ। हे राजन्, अब यो प्राचीन इतिहास सुन।
23यो अत्यन्त प्रशंसनीय छ र जसले यो सुन्छ, उसलाई दीर्घ आयु दिन्छ। यो सबभन्दा पहिले जमदग्निका छोरा रामलाई सुनाइएको थियो। प्राचीन कालमा जमदग्निका छोरा रामले महान् क्रोधले भरिएर एक्काइस पटक पृथ्वीको मुखबाट क्षत्रियहरूलाई उखेलेर फ्याँके। सम्पूर्ण पृथ्वी जितेर कमलदलजस्ता आँखा भएका वीर रामले हे राजन्, त्यस अश्वमेध यज्ञको अनुष्ठानको तयारी आरम्भ गरे जसको प्रशंसा सम्पूर्ण ब्राह्मण र क्षत्रियले गर्छन् र जो हरेक कामनाको पूर्ति दिन समर्थ छ।
24त्यो यज्ञले सम्पूर्ण प्राणीलाई पवित्र पार्छ र जसले त्यो सम्पन्न गर्न सफल हुन्छन्, तिनको तेज र कान्तिको वृद्धि गर्छ। महातेजस्वी राम त्यस यज्ञको अनुष्ठानले निष्पाप भए।
25तर त्यस श्रेष्ठ यज्ञ सम्पन्न गरिसकेपछि पनि महान् रामले आफ्नो हृदयमा पूर्ण हलुकापन प्राप्त गर्न सकेनन्।
26विद्याको हरेक शाखाका ज्ञाता ऋषिहरू तथा देवताहरूकहाँ गएर भृगुवंशी रामले तिनीहरूसँग प्रश्न गरे। पश्चात्ताप र करुणाले भरिएर उनले तिनीहरूलाई भने — हे परम सौभाग्यशालीहरू, तपाईंहरू बताउनुहोस् कि भयङ्कर कर्म गर्ने मानिसहरूलाई कुन वस्तुले पवित्र पार्छ? उनले यसरी सोधेपछि वेद र शास्त्रमा पूर्ण रूपले पारङ्गत ती महर्षिहरूले उनलाई उत्तर दिए — हे राम, वेदको प्रमाणअनुसार चल्दै तिमीले सम्पूर्ण विद्वान् ब्राह्मणको सम्मान गर। केही कालसम्म यसरी आचरण गरेर तिमीले फेरि द्विज ऋषिहरूसँग सोध्नू कि आफूलाई शुद्ध पार्नका लागि तिमीले के गर्नुपर्छ।
27ती परम बुद्धिमान् पुरुषहरूले जुन सल्लाह दिन्छन्, त्यसको पालन गर्नू! तब वसिष्ठ, अगस्त्य र कश्यपकहाँ गएर भृगुहरूलाई आनन्दित पार्ने महातेजस्वी रामले तिनीहरूसँग यही प्रश्न गरे — हे ब्राह्मणश्रेष्ठहरू, मेरो हृदयमा यही इच्छा उत्पन्न भएको छ। म आफूलाई कसरी शुद्ध पार्न सक्छु?
28कुन कर्म र अनुष्ठानले यो शुद्धि उत्पन्न हुन सक्छ? अथवा यदि दानले हुन्छ भने, त्यो कुन वस्तु हो जुन दिएर मेरो यो कामना पूरा होस्? हे धर्मात्माहरूमा श्रेष्ठ, यदि तपाईंहरू ममाथि अनुग्रह गर्न चाहनुहुन्छ भने, हे तपोधनहरू, मलाई बताउनुहोस् कि त्यो के हो जसद्वारा म आफूलाई शुद्ध पार्न सफल होऊँ!
29ऋषिहरूले भने — हे भृगुनन्दन, जुन मर्त्यले पाप गरेको छ, ऊ गाई, भूमि र धनको दान गरेर शुद्ध हुन्छ। हामीले यस्तै सुनेका छौँ।
30अर्को एउटा दान छ जो महान् पवित्रकारक मानिन्छ। हे द्विज ऋषि, हामीबाट सुन्नुहोस्, हामी त्यसको वर्णन गर्छौँ! त्यो वस्तु उत्कृष्ट छ, हेर्दा अद्भुत छ र यसबाहेक अग्निको सन्तान हो।
31प्राचीन कालमा अग्निदेवले सम्पूर्ण संसार जलाइदिएका थिए। हामीले सुनेका छौँ कि उनैको वीर्यबाट उज्ज्वल वर्णको सुन उत्पन्न भयो। त्यो 'सुवर्ण' अर्थात् उत्तम वर्ण भएको — यसै नामले प्रसिद्ध भयो। सुनको दान गरेर तिम्रो कामना निश्चय नै पूरा हुनेछ।
32तब विशेष रूपले कठोर व्रत भएका यशस्वी वसिष्ठले उनलाई सम्बोधन गरेर भने — हे राम, सुन कि अग्निजस्तै तेजस्वी सुन सबभन्दा पहिले कसरी अस्तित्वमा आयो।
33त्यो सुनले तिमीलाई पुण्य प्रदान गर्नेछ। दानका विषयमा सुनको अत्यन्त प्रशंसा गरिन्छ। म तिमीलाई यो पनि बताउनेछु कि सुन के हो, त्यो कहाँबाट आयो, र त्यो श्रेष्ठ गुणले कसरी सम्पन्न भयो।
34हे महाबाहु, मबाट सुन, म यी विषयको वर्णन गर्छु। यो निश्चित थाहा पाऊ कि सुन अग्नि र चन्द्रमाको सारबाट बनेको छ।
35हे भृगुनन्दन, बोका अग्नि हो, भेडा वरुण हो; घोडा सूर्य हो; हात्ती नाग हुन्; भैँसी असुर हुन्; भाले र बँदेल राक्षस हुन्; भूमि यज्ञ हो, र गाई, जल तथा सोम पनि। यी स्मृतिहरूका घोषणा हुन्।
36सम्पूर्ण विश्वको मन्थन गर्दा तेजको एउटा राशि प्राप्त भयो। त्यही तेज सुन हो। त्यसैले हे द्विज ऋषि, यी सम्पूर्ण वस्तुको तुलनामा सुन निश्चय नै श्रेष्ठ छ। त्यो बहुमूल्य, उच्च र उत्कृष्ट वस्तु हो।
37त्यसैले देवता, गन्धर्व, उरग, राक्षस, मानिस र पिशाच — सबैले त्यसलाई सावधानीपूर्वक धारण गर्छन्।
38हे भृगुवंशनन्दन, यी सबै प्राणीले सुनलाई मुकुट, बाजुबन्द र नाना आभूषणमा ढालेर त्यसको सहायताले तेजले प्रकाशित हुन्छन्।
39हे राजन्, यसै कारण सुनलाई भूमि, गाई र अन्य सम्पूर्ण प्रकारका धनजस्ता सबै शुद्ध पार्ने वस्तुमा सर्वाधिक पवित्रकारक मानिन्छ।
40हे शक्तिशाली राजन्, सुनको दान सर्वोच्च दान हो। त्यो भूमि, गाई र अन्य सम्पूर्ण वस्तुको दानभन्दा श्रेष्ठ छ।
41हे अमरजस्तै तेजस्वी, सुन शाश्वत पवित्रकारक हो। तिमी त्यसको दान ब्राह्मणश्रेष्ठहरूलाई गर, किनभने त्यो पवित्र पार्ने वस्तुमा श्रेष्ठ छ।
42सम्पूर्ण प्रकारका दक्षिणामा सुन सर्वश्रेष्ठ छ। जसले सुनको दान गर्छन्, तिनीहरू सम्पूर्ण वस्तुका दाता भनिन्छन्।
43साँच्चै, जसले सुनको दान गर्छन्, तिनीहरू देवताहरूकै दाता मानिन्छन्। अग्नि सम्पूर्ण देवताको एउटैमा समावेश हो, र सुनको सार अग्नि नै हो।
44त्यसैले जसले सुनको दान गर्छ, उसले सम्पूर्ण देवताको दान गरिदिन्छ। त्यसैले हे राजन्, सुनको दानभन्दा बढी कुनै दान छैन।
45वसिष्ठले भने — हे द्विज ऋषि, हे सम्पूर्ण शस्त्रधारीमा श्रेष्ठ, फेरि एक पटक सुन, म सुनको श्रेष्ठताको वर्णन गर्छु।
46हे भृगुवंशनन्दन, मैले यो प्राचीन कालमा पुराणमा सुनेको थिएँ। यसले स्वयं प्रजापतिका वचनको प्रतिनिधित्व गर्छ।
47हे भृगुवंशनन्दन, त्रिशूलधारी यशस्वी महान् रुद्रको त्यस देवीसँग विवाह सम्पन्न भएपछि, जो उनकी सहचरी बनिन्, पर्वतश्रेष्ठ हिमवान्को छातीमा ती यशस्वी महादेवले देवीसँग मिलनको इच्छा गरे। यसमा सम्पूर्ण देवताहरू चिन्ताले भरिएर रुद्रकहाँ गए। आदरपूर्वक शिर निहुराएर र सँगै बसेका महादेव तथा उनकी वरदायिनी सहचरी उमा — दुवैलाई प्रसन्न पारेर तिनीहरूले रुद्रलाई भने — हे यशस्वी र निष्पाप, देवीसँगको तपाईंको यो मिलन एक तपस्वीको अर्को तपस्वीसँगको मिलन हो। साँच्चै हे प्रभु, यो एक तेजस्वीको अर्को समान तेजस्वीसँगको मिलन हो। हे यशस्वी, तपाईंको तेज अप्रतिहत छ। देवी उमा पनि समान रूपले अप्रतिहत तेजले सम्पन्न हुनुहुन्छ।
48हे यशस्वी देव, यस्तो मिलनबाट जुन सन्तान उत्पन्न हुनेछ, त्यो निश्चय नै अत्यन्त महान् बलले सम्पन्न हुनेछ। साँच्चै, हे शक्तिशाली प्रभु, त्यो सन्तानले तीनै लोकका सम्पूर्ण वस्तुलाई केही बाँकी नछोडी भस्म पारिदिनेछ।
49हे विश्वका अधिपति, हे विशाल नेत्र भएका, तब तपाईंले आफूअगाडि नतमस्तक यी देवताहरूलाई तीनै लोकको कल्याणको इच्छाले एउटा वरदान दिनुहोस्।
50हे शक्तिशाली, तपाईं आफ्नो यस महान् तेजलाई रोक्नुहोस्, जो सन्तानको बीज बन्न सक्छ। साँच्चै, त्यो तेज तीनै लोकका सम्पूर्ण शक्तिको सार हो। तपाईं दुवैले सङ्गमद्वारा निश्चय नै विश्वलाई दग्ध पारिदिनुहुनेछ।
51तपाईंको सन्तान निश्चय नै देवताहरूलाई पीडित गर्न समर्थ हुनेछ। हे शक्तिशाली, न पृथ्वी देवीले, न आकाशले, न स्वर्गले — न त यी सबै मिलेर पनि — तपाईंको तेज सहन सक्नेछन्, यस्तो हाम्रो दृढ विश्वास छ। यो सम्पूर्ण विश्व तपाईंकै हो, जो तपाईंको तेजको बलले निश्चय नै जल्नेछ।
52हे शक्तिशाली, हे यशस्वी देव, तपाईंले हामीमाथि कृपा गर्नुपर्छ। त्यो कृपा यही हो कि हे देवश्रेष्ठ, तपाईंले देवी उमाबाट छोरा उत्पन्न नगर्नुहोस्। तपाईं आफ्नो त्यस अग्निमय र शक्तिशाली तेजलाई धैर्यपूर्वक वशमा राख्नुहोस्।
53हे द्विज ऋषि, यसो भन्ने देवताहरूलाई वृषभचिह्न भएका पवित्र महादेवले उत्तर दिए — यस्तै होस्!
54यसो भनेर वृषभवाहन ती देवताले आफ्नो वीर्य माथि तानिहाले। त्यस समयदेखि उनी ऊर्ध्वरेता — अर्थात् जसले वीर्य माथि तानेको छ — यसै नामले प्रसिद्ध भए। सन्तानोत्पत्ति रोक्ने देवताहरूको यस प्रयत्नमा रुद्रकी सहचरी अत्यन्त क्रुद्ध भइन्। विपरीत लिङ्गकी भएका कारण उनले कठोर वचन भनिन्। विपरीत लिङ्गकी भएका कारण उनले कठोर वचन भनिन्।
55किनभने तिमीहरूले मेरा स्वामीलाई त्यस बेला सन्तान उत्पन्न गर्नबाट रोक्यौ जब उहाँ मबाट सन्तान उत्पन्न गर्न चाहनुहुन्थ्यो, यस कर्मको फलस्वरूप हे देवताहरू, तिमीहरू सबै पुत्रहीन हुनेछौ।
56साँच्चै, किनभने तिमीहरूले मबाट सन्तानको उत्पत्तिको विरोध गर्यौ, त्यसैले तिमीहरूको आफ्नो कुनै सन्तान हुनेछैन। जब यो शाप दिइयो,
57हे भृगुवंशनन्दन, तब अग्निदेव त्यहाँ उपस्थित थिएनन्। देवीको यसै शापका कारण देवताहरू सन्तानहीन भएका छन्।
58देवताहरूको प्रार्थनामा रुद्रले आफ्नो अनुपम शक्तिशाली तेजलाई आफूमै रोकिराखे। तर उनको शरीरबाट निस्केको थोरै मात्रा पृथ्वीमा खस्यो।
59पृथ्वीमा खसेको त्यो वीर्य प्रज्वलित अग्निमा गएर हामफाल्यो र त्यहाँ अत्यन्त आश्चर्यजनक रूपले बढ्न थाल्यो।
60रुद्रको त्यो तेज महान् शक्ति भएको अर्को तेजको सम्पर्कमा आएर सार रूपमा त्यससँग एक भयो। यसै बीच इन्द्रको नेतृत्वमा सम्पूर्ण देवताहरू तारक नामक असुरद्वारा सन्तप्त पारिँदै थिए। आदित्य, वसु, रुद्र, मरुत्, अश्विनीकुमार र साध्य — सबै त्यस दितिपुत्रको पराक्रमले अत्यन्त पीडित भए।
61देवताहरूका सम्पूर्ण लोक, तिनका सुन्दर रथ र तिनका प्रासाद तथा ऋषिहरूका आश्रम — यी सबै असुरहरूले खोसे।
62तब देवता र ऋषिहरू खिन्न हृदयले अक्षय कीर्ति भएका यशस्वी र शक्तिशाली ब्रह्माको शरणमा गए।