Karna Parva — The beginning of battle
Volume VI — Karna, Shalya, Sauptika & Stri Parva · Chapter 46
Sanskrit
1संजय उवाच ततः परानीकसहं व्यूहमप्रतिमं कृतम्। समीक्ष्य कर्णः पार्थनां धृष्टद्युम्मभिरक्षितम्॥
2प्रययौ रथघोषेण सिंहनादरवेण च। वादित्राणां च निनदैः कम्पयन्निव मेदिनीम्॥
3वेपमान इव क्रोधाद् युद्धशौण्डः परंतपः। प्रतिव्यूह्य महातेजा यथावद् भरतर्षभ।॥
4व्यधमत् पाण्डवीं सेनामासुरीं मघवानिव। युधिष्ठिरं चाभ्यहनदपसव्यं चकार ह॥
5धृतराष्ट्र उवाच कथं संजय राधेयः प्रत्यव्यूहत पाण्डवान्। धृष्टद्युम्नमुखान् सर्वान् भीमसेनाभिरक्षितान्॥ सर्वानेव महेष्वासानजय्यानमरैरपि। के च प्रपक्षौ पक्षौ वा मम सैन्यस्य संजय॥
6प्रविभज्य यथान्यायं कथं वा समवस्थिताः। कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान्॥
7कथं चैव महद् युद्धं प्रावर्तत सुदारुणम्। क्व च बूभत्सुरभवद् यत् कर्णोऽयाद् युधिष्ठिरम्॥
8को हर्जुनस्य सान्निध्ये शक्तोऽभ्येतुं युधिष्ठिरम्। सर्वभूतानि यो ह्येकः खाण्डवे जितवान् पुरा। कस्तमन्यस्तु राधेयात् प्रतियुद्ध्येजिजीविषुः॥
9संजय उवाच शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः। परिवार्य नृपं स्वं संग्रामश्चाभवद् यथा॥
10कृपः शारद्वतो राजन् मागधाश्च तरस्विनः। सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः॥
11तेषां प्रपक्षे शकुनिरुलूकश्च महारथः। सादिभिर्विमलप्रासैस्तवानीकमरक्षताम्॥ गान्धारिभिरसम्भ्रान्तः पर्वतीयैश्च दुर्जयैः। शलभानामिव वातैः पिशाचैरिव दुर्दशैः॥
12चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम्। संशप्तका युद्धशौण्डा वाम पार्श्वमपालयन्॥ समन्वितास्तव सुतैः कृष्णार्जुनजिघांसवः।
13तेषां प्रपक्षाः काम्बोजाः शकाश्च यवनैः सह॥ निदेशात् सूतपुत्रस्य सरथाः साश्वपत्तयः। आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम्॥
14मध्ये सेनामुखे कर्णोऽप्यवातिष्ठत दंशितः। चित्रवर्माङ्गदः स्त्रग्वी पालयन् वाहिनीमुखम्॥
15रक्षमाणैः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः। वाहिनीं प्रमुख वीरः सम्प्रकर्षन्नशोभत॥ अभ्यवर्तन्महाबाहुः सूर्यवैश्वानरप्रभः।
16महाद्विपस्कन्धगत: पिङ्गाक्ष प्रियदर्शनः॥ दुःशासनो वृतः सैन्यैः स्थितौ व्यूहस्य पृष्ठतः।
17तमन्वयान्महाराज स्वयं दुर्योधन नृपः॥ चित्रास्त्रैचित्रसंनाहै: सोदयैरभिरक्षितः। रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः॥ अशोभत महाराज देवैरिव शतक्रतुः।
18अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः॥ नित्यमत्ताश्च मातङ्गाः शूरैर्लेच्छैः समान्विताः । अन्वयुस्तद् स्थानीकं क्षरन्त इव तोयदा॥
19ते ध्वजैर्वैजयन्तीभिर्व्वलद्भिः परमायुधैः। सादिभिश्चास्थिता रेजुर्द्रमवन्त इवाचलाः॥
20तेषां पदातिनागानां पादरक्षा सहस्रशः। पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः॥
21सादिभिः स्यन्दनै गैरधिकं समलङ्कृतेः। स व्यूहराजो विबभौ देवासुरचमूपमः॥
22बार्हस्पत्यः सुविहितो नायकेन विपश्चिता। नृत्यतीव महाव्यूहः परेषां भयमादधत्॥
23तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः। पत्यश्वरतमातङ्गाः प्रावृषीव बलाहकाः॥
24ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः। धनंजयममित्रघ्नमेकवीरमुवाच ह॥
25पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे। युक्तं पक्षैः प्रपक्षैश्च परानीकं प्रकाशते॥
26तदेतद् वै समालोक्य प्रत्यमित्रं महद् बलम्। यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम्॥
27एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नुपमब्रवीत्। यथा भवानाह तथा तत् सर्वेन तदन्यथा।॥
28यस्त्वस्य विहितो घातस्तं करिष्यामि भारत। प्रधानवध एवास्य विनाशस्तं करोम्यहम्॥
29युधिष्ठिर उवाच तस्मात् त्वमेव राधेयं भीमसेनः सुयोधनम्। वृषसेनं च नकुलः सहदेवोऽपि सौबलम्॥ दुःशासनं शतानीको हार्दिक्यं शिनिपुङ्गवः। धृष्टद्युम्नो द्रोणसुतं स्वयं योत्स्याम्यहं कृपम्॥
30द्रौपदेया धार्तराष्ट्रशिष्टान् सह शिखण्डिना। ते ते च तांस्तानहितानस्माकं मन्तु मामकाः॥
31संजय उवाच इत्युको धर्मराजेन तथेत्युक्त्वा धनंजयः। व्यादिदेश स्वसैन्यानि स्वयं चागाचमूमुखम्॥
32अग्निर्वैश्वानरः पूर्वो ब्रह्मेद्धः सप्तितां गतः। तस्माद् यः प्रथमं जातस्तं देवा ब्राह्मणं विदुः॥
33ब्रह्मेशानेन्द्रवरुणान् क्रमशो योऽवहत् पुरा। तमाद्यं रथमास्थाय प्रयातौ केशवार्जुनो॥
34अथ तं रथमायान्तं दृष्ट्वात्यद्भुतदर्शनम्। उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम्॥
35अयं सरथ आयातः श्वेताश्वः कृष्णसारथिः। दुर्वारः सर्वसैन्यानां विपाकः कर्मणामिव॥ निघ्नन्नमित्रान् कौन्तैयो यं कर्ण परिपृच्छसि।
36श्रूयते तुमुलः शब्दो यथा मेघस्वनो महान्॥ ध्रुवमेतौ महात्मनौ वासुदेवधनंजयौ।
37एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति॥ चक्रनेमिप्रणुन्नेव कम्पते कर्ण मेदिनी।
38प्रवात्येष महावायुरभितस्तव वाहिनीम्॥ क्रव्यादा व्याहरन्त्येते मृगाः क्रन्दन्ति भैरवम्।
39पश्य कर्ण महाघोरं भयदं लोमहर्षणम्॥ कबन्धं मेघसंकाशं भानुमावृत्य संस्थितम्।
40पश्य यूथैर्बहुविधैगाणां सर्वतोदिशम्॥ बलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते।
41पश्य कङ्कांश्च गृध्राश्च समवेतान् सहस्रशः॥ स्थितानभिमुखान् घोरानन्योन्यमभिभाषतः।
42रञ्जिताश्चामरा युक्तास्तव कर्ण महारथे॥ प्रवराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते।
43सवेपथून् हयान् पश्य महाकायान् महाजवान्॥ प्लवमानान् दर्शनीयानाकाशे गरुडानिवा
44ध्रुवमेषु निमित्तेषु भूमिमाश्रित्य पार्थिवाः॥ स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः।
45शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः॥ आनकानां च राधेय मृदङ्गानां च सर्वशः।
46बाणशब्दान् बहुविधान् नराश्वरगज वाजिनाम्॥ ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम्।
47हेमरूप्यप्रसृष्टानां वाससां शिल्पिनिर्मिताः॥ नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः।
48सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः॥ पश्य कर्णार्जुनस्यैताः सौदामन्य इवाम्बुदे।
49ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः॥ विभ्राजन्ति रथे कर्ण विमान दैवते यथा।
50सपताका रथाश्चैते पञ्चालानां महात्मनाम्॥ पश्य कुन्तीसुतं वीरं बीभत्सुमपराजितम्। प्रधर्षयितुमायान्तं कपिप्रवरकेतनम्॥
51एष ध्वजाये पार्थस्य प्रेक्षणीयः समन्ततः। दृश्यते वानरो भीमो द्विषतामघवर्धनः॥
52एतचक्रं गदा शाई शङ्खः कृष्णस्य धीमतः। अत्यर्थ भ्राजते कृष्णे कौस्तुभस्तु मणिस्ततः॥
53एष शङ्खगदापाणिर्वासुदेवोऽतिवीर्यवान्। वाहयन्नेति तुरगान् पाण्डुरान् वातरंहसः॥
54एतत् कूजति गाण्डीवं विकृष्टं सव्यसाचिना। एते हस्तवता मुक्ता घ्नन्त्यमित्राशिताः शराः॥
55विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः। एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम्॥
56एते सुपरिधाकाराः पुण्यगन्धानुलेपनाः। उद्यतायुधशौण्डानां पात्यन्ते सायुधा भुजाः॥
57निरस्तनेत्रजिह्वाश्च वाजिनः सह सादिभिः। पतिताः पात्यमानाश्च क्षितौ क्षीणाश्च शेरते॥
58एते पर्वतशृङ्गाणां तुल्यरूपा हता द्विपाः। संछिन्नभिन्नाः पार्थेन प्रपतन्त्यद्रयो यथा॥
59गन्धर्वनगराकारा रथा हतनरेश्वराः। विमानानीव पुण्यानि स्वर्गिणी नियतन्त्यमी॥
60व्याकुलकृतमत्यर्थं पश्य सैन्यं किरीटिना। नानामृगसहस्राणां यूथं केसरिणा यथाय॥
61जन्त्येते पार्थिवान् वीराः पाण्डवाः समभिद्रुताः। नागाश्वरथपत्योघांस्तावकान् समभिघ्नतः॥
62एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते। ध्वजायं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते॥
63अद्य द्रक्ष्यसि तं वीरं श्वेताश्चं कृष्णसारथिम्। निघ्नन्तं शात्रवान् संख्ये यं कर्ण परिपृच्छसि॥
64अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परंतपौ। वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथे स्थतौ॥
65सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम्। तं चेद्धन्तासि राधेन त्वं नो राजा भविष्यसि॥
66एष संशप्तकाहूतस्तानेवाभिमुखो गतः। करोति कदनं चैषां संग्रामे द्विषतां बली॥
67इति ब्रुवाणं मद्रेश कर्णः प्राहातिमन्युना। पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः॥
68एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते। एतदन्तोऽर्जुनः शल्य निमग्नो योधसागरे॥
69शल्य उवाच वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम्। को वानिलं निगृह्णीयात् पिबेद्वा को महार्णवम्।।७६
70ईदृग्रुपमहं मन्ये पार्थस्य युधि विग्रहम्। न हि शक्योऽर्जुनो जेतुं युधि सेन्द्रैः सुरासरैः॥
71अथवा परितोषस्ते वाचोक्त्वा सुमना भव। न स शक्यो युधा जेतुमन्यं कुरु मनोरथम्॥
72बाहुभ्यामुद्धरेद् भूमि दहेत् क्रुद्धः इमा प्रजाः। पातयेत् त्रिदिवाद् देवान् योऽर्जुनं समरे जयेत्॥
73पश्य कुन्तीसुतं वीरं भीममकिष्टकारिणम्। प्रभासन्तं महाबाहु स्थितं मेरुमिवापरम्॥
74अमर्षी नित्यसंरब्धश्चिर वैरमनुस्मरन्। एष भीमो जयेप्रेप्सुर्युधि तिष्ठति वीर्यवान्॥
75एष धर्मभृताः श्रेष्ठो धर्मराजो युधिष्ठिरः। तिष्ठत्यसुकरः संख्ये परैः परपुरञ्जयः॥
76एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ। नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ॥
77अमी स्थिता द्रौपदेयाः पञ्च पञ्चाचला इव। व्यवस्थिता योद्धुकामाः सर्वेऽर्जुनसमा युधि॥
78एते दुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः। स्फीताः सत्यजितो वीरास्तिष्ठन्ति परमौजसः॥
79असाविन्द्र इवासह्यः सात्यकिः सात्वतां पुरः। युयुत्सुरुपयात्यस्मान् क्रुद्धान्तकसमः पुरः॥
80इति संवदतोरेव तयोः पुरुषसिंहयोः। ते सेने समसज्जेतां गङ्गायमुनवद् भृशम्॥
English
1Sanjaya said Thereupon beholding that unrivalled arrangement of the army of Partha protected by Dhristadyumna who was capable of resisting all hostile armies Karna.
2Proceeded sending up leonine shouts and making his chariot produce a loud rattle. He made the earth tremble with the loud din of musical instruments.
3That chastiser of foes, irrepressible in battle, seemed to tremble in anger. Then arranging his own army in counter array, that hero of great energy, O best of Bharatas.
4Made a great havoc of the Pandava army like Indra killing the Asura army. Then wounding Yudhishthira with many arrows he placed the son of Pandu to his right.
5Dhritarashtra said How did, O Sanjaya, the son of Radha arrange his army against the Pandavas led by Dhristadyumna and protected by Bhimasena-all those great bowmen invincible even to the very gods. Who stood, O Sanjaya, at the one wing and at the other of my army?
6Dividing themselves duly how were they stationed? How did also the sons of Pandu arrange their army against mine?
7And how did that great and dreadful battle began? Where was Vibhatsu when Karna proceeded against Yudhishthira?
8Who could successfully assail Yudhishthira before Arjuna? Who else except the son of Radha, who wishes to keep his life, would fight with Arjuna who had defeated single-handed formerly all creatures at Khandava?
9Sanjaya said Hear now of the arrangement of the army and how Arjuna came and how the battle was fought by both sides encircling their respective kings.
10O king, Saradvata's son Kripa, the highly active Magadhas and Kritavarma of the Satvata race stood at the right wing.
11Standing at the right of these and accompanied by many dauntless Gandhara horse-men armed with bright lances and many invincible mountaineers numerous swarms of locusts and grim-visaged as the as the cars W Pishachas, Shakuni and the powerful carwarrior Uluka protected the Kuru army.
12Thirty-four thousand of the Samsaptakas never to come back from the battle-field mad after fight, encircling your son and desirous of killing Krishna and Arjuna, protected the left side.
13The Kambojas, the Sakas, the Yavanas, with their cars, horses and infantry stood on this left challenging Arjuna and the powerful Kesava.
14In the centre, stood Karna at the head of the army, clad in armour and a beautiful coat of mail and adorned with bracelets and garlands, for protecting it.
15Endued with the effulgence of the moon and fire, beautiful to look at and with twany eyes, protected by his greatly angry sons, that hero, the foremost of the wielders of weapons, shone at the head of his army drawing his bow.
16The mighty-armed Dushasana, encircled by his soldiers, stood at the back of the army on a huge elephant and proceeded therefrom.
17Protected by the highly energetic Madrakas and Kekayas the king shone there like the performer of hundred sacrifices surrounded by the celestials. Then followed him, O emperor, the king Duryodhana himself protected by his own brothers, clad in beautiful mails and riding on beautiful horses.
18Ashvatthama and other leading car-warriors and many infuriate elephants shedding temporal juice, resembling a mass of clouds and driven by brave Mlechchas followed that car force.
19With Vaijayanti flags, shining weapons and riders they appeared like hills filled with trees.
20The rear of that elephant army was protected by thousands of horses with swords and Patticas never to return back from battle.
21Brilliantly adorned with cavalry, carwarriors and elephants that best of armies looked exceedingly picturesque like that of that of the gods or of the demons.
22That army arranged after the plan of Vrihaspati by its expert commander appeared to dance and strike terror into the hearts of the enemies.
23Like the continual clouds of the rainy season, the infantry, cavalry, car-warriors and elephants, desirous of battle, began to issue from all the wings.
24Beholding Karna at the head of the army Yudhishthira addressed the following words to Dhananjaya, that slayer of foes, the one heroes in the battle.
25Behold, O Arjuna, the great army arranged by Karna. The enemy's army shines with all its wings.
26In the face of such a huge army you should take such precautions as we may not be defeated.
27Thus accosted by the king, Arjuna replied with joined hands “Every thing will be done as you say. Nothing will be otherwise."
28I will bring about the destruction of the enemy, O Bharata. By killing the head of this encompass their destruction.
29Yudhishthira said Having this in view you yourself proceed against the son of Radha; let Bhimasena proceed against Suyodhana; Nakula against Vrihsena, Sahadeva against the son of Subala, Satanika against Dushasana the best of Sinis; Shalyaki against the son of Hridika and Pandya against the son of Drona. I myself will fight with Kripa. army, I will
30Let the sons of Draupadi, with Shikhandin proceed against the remaining sons of Dhritarashtra. Let the other heroes proceed against the rest of our enemies.
31Sanjaya said Thus addressed by the pious Yudhishthira, Dhananjaya said-'so be it' and ordered his army. He then himself proceeded to the head.
32Keshava and Arjuna proceeded to battle on that prime car, for which the leader of the universe Agni who derives his effulgence from Brahman became the horses and
33Sri Krishna and Arjuna were marching forward to enemies for attack on an ancient chariot used by Brahma, Rudra, Indra and Varuna respectively for riding during ancient period.
34Beholding that wonderful car advance Shalya once more addressed the following words to that highly energetic warrior the son of Adhiratha.
35There comes the car drawn by white horses and having Krishna as its driver, the car which even all the soldiers cannot resist as the fruit follows the work. There comes the son of Kunti slaying all his foes along the way, he of whom you were inquiring.
36Undoubtedly they are the great Vasudeva and Arjuna as a tremendous uproar deep as the muttering of clouds is being heard.
37A cloud of dust is overspreading the welkin like a canopy. The whole earth, O Arjuna, is shaking cut deep by the wheels of Arjuna's cars.
38Violent winds are raging on both the sides of the army. The carnivorous animals are yelling aloud and the animals are emitting dreadful cries.
39Behold, O Arjuna, the dreadful and evil Ketu of vapoury form, capable of making hairs erect. It has appeared covering the sun.
40Behold various sorts of animals in large numbers and many powerful wolves and tigers are looking at the sun.
41Behold those terrible Kankas and vultures in thousands sitting with faces towards one another as if holding a conversation.
42O Karna, the coloured chowries attached to your huge car are waving roughly and your pennon is also trembling.
43See, your beautiful and large horses endued with great speed resembling the beautiful Garuda in the sky, are also trembling.
44It is evident from these evil omens O Karna, that hundreds and thousands of kings, deprived of their lives, will sleep the eternal sleep in the field of battles.
45There is being heard the hair-stirring and loud sound of the conch. The sound of drums and cymbals, O son of Radha, is being also heard on all sides.
46The whizz of the various sorts of shafts and the noise of chariots, horses and men is also being heard. Listen, O Karna, to the twang of the bows of the various warriors.
47Many flags of diverse colours and embroidered with gold, made by skillful artisans and shining on Arjuna's car shaken by the wind.
48See, O Karna, also the banners of Arjuna, adorned with rows of bells and golden moons and stars, like lightning on the clouds.
49Those banners, producing a sound, are being shaken by the wind; the high-souled Panchalas with their cars decked with flags look like the gods on their cars.
50Behold the heroic Vibhatsu, the son of Kunti, invincible in battle and having a flag with the emblem of a monkey, is coming forward to assail his enemies.
51On the top of Partha's banner a dreadful monkey is being seen capable of increasing the anger of the enemies.
52These are the discus, club, Sranga bow and the conch of the intelligent Krishna. The Kaustava jewel appears beautiful (on the breast of) Krishna.
53The highly energetic Vasudeva with club and Sranga bow in his hands is driving the yellow horses cndued with speed of the wind.
54This is the twang of the bow Gandiva drawn by Savyasachin. These sharpened arrows discharged off his hands will kill the enemies.
55The earth is strewn with the heads of the kings who never come back from the battlefield, having expansive coppery eyes and faces like the full moon.
56There are falling, the arms, resembling the spiked maces, with weapons and smeared with scents, of warriors taking delight in fight and contending with uplifted weapons.
57Horses with eyes, tongues and entrails drawn out, with their riders and falling, fallen and lie dead on earth.
58Wounded, mangled and pierced by Partha, lifeless elephants, huge as mountain tops, are falling down like hills.
59The cars, resembling the cities of the Gandharvas, with the kings slain are falling down like the celestial cars, on the wane of the piety of the inhabitants of heaven.
60Behold, the army has been greatly assailed by Kiritin as various animals are by a lion.
61Coming forward the heroic Pandavas are killing the kings, a good many elephants, horses, car-warriors and foot soldiers of your army engaged in battle.
62Partha is not visible like the sun covered with clouds. The top of his car is being seen and the twang of his bow is being heard.
63You will see him today, O Karna, about whom you are inquiring-that hero, with white horses and Krishna as his driver engaged in killing the enemies in battle.
64You will see today, O Karna, stationed on the same car in battle those two foremnost of men with coppery eyes-the subduers of enemies-Krishna and Arjuna.
65O son of Radha, you will be our king if you can slay him today who has Krishna for his driver and Gandiva for his bow.
66Challenged by Samsaptakas Partha proceeds against them; the powerful warrior is making a great havoc of his enemies in battle.
67Thereupon Karna in anger said to the king of Madras who had spoken thus. "See Partha is being assailed on all sides by the Samsaptakas.
68Like the sun covered by cloud Partha is no longer visible. Plunged into the deep of warriors O Shalya, Partha is sure to die."
69Shalya said Who is there who can slay the god of water with water and fire with fuel? Who is there who can get hold of the wind or drink off the ocean?
70Methinks, to assail Partha is just like this. Even the very gods and demons united together with Indra at their head cannot discomfit Arjuna in battle.
71Better satisfy yourself and make your mind comfortable by saying this. Partha is not to be conquered in battle. Better fulfill some other object you may have in view.
72He who will lift up the earth on his two arms, or consume all creatures with his wrath of hurl down the gods from heaven, may defeat Arjuna in battle.
73Behold Bhima, the other heroic son of Kunti who is never worn out with fatigue, shining in his native lustre, mighty armed and is like the second Meru.
74With his anger always burning, bent on wrecking revenge the highly energetic Bhima stands there with a view to acquire victory, remembering all his wrongs.
75There stands the impartial king Yudhishthira, the foremost of the pious and the conqueror of enemies' cities. The enemies can never resist him in battle.
76There stand the twins Nakula Sahadeva, the two Asvinis, the two foremost of men, invincible in battle.
77There stand the five Vrishni heroes like five inountains desirous of lighting all equal to Arjuna in battle.
78There stand the proud, beautiful heroic and highly energetic sons of Draupadi headed by Dhristadyumna.
79There advances against us Satyaki, the foremost of the Satvatas, irresistible like Indra, with view to fight like Death himself in anger.
80While these two best of men were thus speaking to each other the two armies encountered in battle like the streams of Ganga and Yamuna. While these two best of men were thus speaking to each other the two armies encountered in battle like the streams of Ganga and Yamuna.
Hindi
1सञ्जय ने कहा — तदनन्तर धृष्टद्युम्न द्वारा रक्षित पार्थ की उस अनुपम व्यूहरचना को देखकर, जो समस्त शत्रुसेनाओं का प्रतिरोध करने में समर्थ थी, कर्ण —
2सिंहनाद करते हुए और अपने रथ से प्रचण्ड घर्घर-ध्वनि कराते हुए आगे बढ़े। उन्होंने वाद्यों के महान् निनाद से पृथ्वी को कँपा दिया।
3युद्ध में अजेय वे शत्रुदमन क्रोध से काँपते हुए-से प्रतीत होते थे। तब अपनी सेना की प्रतिव्यूह-रचना करके, हे भरतश्रेष्ठ, उन महातेजस्वी वीर ने —
4पाण्डवसेना का ऐसा महान् संहार किया जैसे इन्द्र ने असुरसेना का किया था। तब अनेक बाणों से युधिष्ठिर को घायल करके उन्होंने पाण्डुपुत्र को अपनी दाहिनी ओर कर लिया।
5धृतराष्ट्र ने कहा — हे सञ्जय, धृष्टद्युम्न के नेतृत्व वाले और भीमसेन द्वारा रक्षित पाण्डवों के विरुद्ध राधापुत्र ने अपनी सेना कैसे सजाई — उन समस्त महाधनुर्धरों के विरुद्ध, जो स्वयं देवताओं के लिए भी अजेय हैं? हे सञ्जय, मेरी सेना के एक पार्श्व में और दूसरे पार्श्व में कौन खड़े थे?
6विधिपूर्वक विभाजित होकर वे किस प्रकार स्थित हुए? और पाण्डुपुत्रों ने मेरी सेना के विरुद्ध अपनी सेना कैसे सजाई?
7और वह महान् एवं भयंकर युद्ध कैसे आरम्भ हुआ? जब कर्ण युधिष्ठिर के विरुद्ध बढ़े, तब विभत्सु कहाँ थे?
8अर्जुन की उपस्थिति में कौन युधिष्ठिर पर सफलतापूर्वक आक्रमण कर सकता था? राधापुत्र के अतिरिक्त और कौन, जो अपने प्राण बचाना चाहता हो, उन अर्जुन से युद्ध करेगा जिन्होंने पूर्वकाल में खाण्डव में अकेले ही समस्त प्राणियों को परास्त किया था?
9सञ्जय ने कहा — अब सेना की व्यूहरचना सुनिए, और यह भी कि अर्जुन कैसे आए और दोनों पक्षों ने अपने-अपने राजाओं को घेरकर किस प्रकार युद्ध किया।
10हे राजन्, शरद्वान् के पुत्र कृप, परम कर्मठ मागध तथा सात्वतवंशी कृतवर्मा दक्षिण पार्श्व में स्थित हुए।
11इनके दाहिनी ओर खड़े होकर, चमकते भालों से सुसज्जित अनेक निर्भीक गान्धार अश्वारोहियों तथा टिड्डियों के दलों के समान असंख्य और पिशाचों के समान भयंकर मुख वाले अनेक अजेय पर्वतवासियों के साथ शकुनि और महारथी उलूक कौरवसेना की रक्षा करने लगे।
12चौंतीस सहस्र संशप्तक, जो रणभूमि से कभी न लौटने वाले और युद्ध के लिए उन्मत्त थे, आपके पुत्र को घेरकर तथा कृष्ण और अर्जुन का वध करने की इच्छा से वाम पार्श्व की रक्षा करने लगे।
13काम्बोज, शक और यवन अपने रथों, अश्वों और पैदल सैनिकों सहित इसी वाम पार्श्व में अर्जुन और बलशाली केशव को ललकारते हुए खड़े हुए।
14मध्य में, कवच और सुन्दर वर्म धारण किए हुए तथा बाजूबन्दों और मालाओं से अलंकृत कर्ण सेना की रक्षा के लिए उसके अग्रभाग में खड़े हुए।
15चन्द्रमा और अग्नि के तेज से सम्पन्न, देखने में सुन्दर और पिंगल नेत्रों वाले, अपने अत्यन्त क्रुद्ध पुत्रों द्वारा रक्षित वे वीर, अस्त्रधारियों में श्रेष्ठ, अपना धनुष खींचते हुए अपनी सेना के अग्रभाग में देदीप्यमान हुए।
16अपने सैनिकों से घिरे महाबाहु दुःशासन एक विशाल हाथी पर सवार होकर सेना के पृष्ठभाग में स्थित हुए और वहीं से आगे बढ़े।
17परम तेजस्वी मद्रकों और केकयों द्वारा रक्षित वे राजा वहाँ देवताओं से घिरे शतयज्ञकर्ता इन्द्र के समान शोभित हुए। हे सम्राट्, तब स्वयं राजा दुर्योधन अपने भाइयों द्वारा रक्षित होकर, सुन्दर कवच धारण किए और सुन्दर अश्वों पर आरूढ़ होकर उनके पीछे चले।
18अश्वत्थामा तथा अन्य प्रमुख रथी और मद बहाते हुए अनेक मदोन्मत्त हाथी, जो मेघपुञ्ज के समान प्रतीत होते थे और जिन्हें वीर म्लेच्छ हाँक रहे थे, उस रथसेना के पीछे चले।
19वैजयन्ती पताकाओं, चमकते अस्त्रों और अपने सवारों सहित वे वृक्षों से भरे पर्वतों के समान प्रतीत होते थे।
20उस गजसेना के पृष्ठभाग की रक्षा सहस्रों अश्वारोही कर रहे थे, जो खड्गों और पट्टिशों से सुसज्जित थे और युद्ध से कभी न लौटने वाले थे।
21अश्वारोहियों, रथियों और हाथियों से देदीप्यमान रूप से अलंकृत वह श्रेष्ठ सेना देवताओं अथवा दैत्यों की सेना के समान अत्यन्त मनोहर प्रतीत होती थी।
22अपने निपुण सेनापति द्वारा बृहस्पति की योजना के अनुसार सजाई गई वह सेना मानो नृत्य कर रही हो और शत्रुओं के हृदयों में भय उत्पन्न कर रही हो — ऐसी प्रतीत होती थी।
23वर्षाकाल के निरन्तर मेघों के समान युद्ध के इच्छुक पैदल सैनिक, अश्वारोही, रथी और हाथी समस्त पार्श्वों से निकलने लगे।
24सेना के अग्रभाग में कर्ण को देखकर युधिष्ठिर ने युद्ध के उन एकमात्र वीर, शत्रुसूदन धनञ्जय से ये वचन कहे।
25हे अर्जुन, कर्ण द्वारा सजाई गई इस विशाल सेना को देखो। शत्रु की सेना अपने समस्त पार्श्वों सहित देदीप्यमान है।
26ऐसी विशाल सेना के सम्मुख तुम्हें ऐसी सावधानियाँ बरतनी चाहिए जिससे हम परास्त न हों।
27राजा के इस प्रकार कहने पर अर्जुन ने हाथ जोड़कर उत्तर दिया — 'जैसा आप कहते हैं, सब वैसा ही होगा। कुछ भी अन्यथा न होगा।
28हे भरतवंशी, मैं शत्रु का विनाश करूँगा। इस सेना के मुख्य नायक का वध करके मैं इनका संहार सुनिश्चित करूँगा।'
29युधिष्ठिर ने कहा — यह ध्यान में रखकर तुम स्वयं राधापुत्र के विरुद्ध बढ़ो; भीमसेन सुयोधन के विरुद्ध जाएँ; नकुल वृषसेन के विरुद्ध, सहदेव सुबल के पुत्र के विरुद्ध, शतानीक दुःशासन के विरुद्ध, सिनिश्रेष्ठ सात्यकि हृदिक के पुत्र के विरुद्ध और पाण्ड्य द्रोणपुत्र के विरुद्ध जाएँ। मैं स्वयं कृप से युद्ध करूँगा।
30द्रौपदी के पुत्र शिखण्डी के साथ धृतराष्ट्र के शेष पुत्रों के विरुद्ध बढ़ें। अन्य वीर हमारे शेष शत्रुओं के विरुद्ध बढ़ें।
31सञ्जय ने कहा — धर्मात्मा युधिष्ठिर के इस प्रकार कहने पर धनञ्जय ने कहा — 'ऐसा ही हो' — और अपनी सेना को आदेश दिया। फिर वे स्वयं अग्रभाग की ओर बढ़े।
32केशव और अर्जुन उस श्रेष्ठ रथ पर युद्ध के लिए आगे बढ़े, जिसके लिए ब्रह्मा से तेज प्राप्त करने वाले जगन्नायक अग्नि ने अश्व प्रदान किए थे —
33श्रीकृष्ण और अर्जुन उस पुरातन रथ पर आक्रमण के लिए शत्रुओं की ओर बढ़ रहे थे, जिस पर प्राचीन काल में ब्रह्मा, रुद्र, इन्द्र और वरुण क्रमशः आरूढ़ हुआ करते थे।
34उस अद्भुत रथ को आगे बढ़ते देखकर शल्य ने अधिरथ के उन परम तेजस्वी पुत्र से पुनः ये वचन कहे।
35वह आ रहा है श्वेत अश्वों से जुता और कृष्ण को सारथि बनाए हुए रथ — वह रथ जिसका प्रतिरोध समस्त सैनिक मिलकर भी नहीं कर सकते, जैसे कर्म का फल अवश्यम्भावी होता है। वह आ रहे हैं कुन्तीपुत्र, मार्ग में अपने समस्त शत्रुओं का वध करते हुए — वही, जिनके विषय में तुम पूछताछ कर रहे थे।
36निःसन्देह वे महान् वासुदेव और अर्जुन ही हैं, क्योंकि मेघों की गड़गड़ाहट के समान गम्भीर भयंकर कोलाहल सुनाई दे रहा है।
37धूल का बादल वितान के समान आकाश को ढँक रहा है। हे कर्ण, अर्जुन के रथ के पहियों से गहरी कटी हुई सम्पूर्ण पृथ्वी काँप रही है।
38सेना के दोनों पार्श्वों में प्रचण्ड वायु चल रही है। मांसभक्षी पशु जोर-जोर से चिल्ला रहे हैं और पशु भयंकर ध्वनियाँ कर रहे हैं।
39हे कर्ण, धूम्रवर्ण उस भयंकर और अशुभ केतु को देखो, जो रोमांच खड़ा कर देने में समर्थ है। वह सूर्य को आच्छादित करता हुआ प्रकट हुआ है।
40बड़ी संख्या में नाना प्रकार के पशुओं को देखो और अनेक बलवान् भेड़िये तथा बाघ सूर्य की ओर देख रहे हैं।
41उन भयंकर कंकों और गिद्धों को सहस्रों की संख्या में एक-दूसरे की ओर मुख किए हुए बैठा देखो, मानो वे परस्पर वार्तालाप कर रहे हों।
42हे कर्ण, तुम्हारे विशाल रथ में बँधे रंगीन चँवर उग्रता से हिल रहे हैं और तुम्हारी ध्वजा भी काँप रही है।
43देखो, आकाश में सुन्दर गरुड़ के समान महान् वेग से सम्पन्न तुम्हारे सुन्दर और विशाल अश्व भी काँप रहे हैं।
44हे कर्ण, इन अपशकुनों से यह स्पष्ट है कि सैकड़ों-सहस्रों राजा प्राणों से रहित होकर रणभूमि में चिरनिद्रा में सो जाएँगे।
45शंख की रोमांचकारी और उच्च ध्वनि सुनाई दे रही है। हे राधापुत्र, दुन्दुभियों और झाँझों की ध्वनि भी चारों ओर से सुनाई दे रही है।
46नाना प्रकार के बाणों की सनसनाहट तथा रथों, अश्वों और मनुष्यों का कोलाहल भी सुनाई दे रहा है। हे कर्ण, नाना योद्धाओं के धनुषों की टंकार सुनो।
47कुशल शिल्पियों द्वारा बनाई गई, स्वर्ण से कढ़ी हुई नाना रंगों की अनेक पताकाएँ अर्जुन के रथ पर वायु से हिलती हुई देदीप्यमान हो रही हैं।
48हे कर्ण, अर्जुन की उन ध्वजाओं को भी देखो, जो घण्टियों की पंक्तियों तथा स्वर्णमय चन्द्रों और तारों से अलंकृत हैं — मानो मेघों पर विद्युत् हों।
49ध्वनि करती हुई वे ध्वजाएँ वायु से हिल रही हैं; पताकाओं से सजे अपने रथों सहित वे महात्मा पाञ्चाल अपने-अपने विमानों पर स्थित देवताओं के समान प्रतीत होते हैं।
50देखो, युद्ध में अजेय और वानर के चिह्न वाली ध्वजा धारण किए कुन्तीपुत्र वीर विभत्सु अपने शत्रुओं पर आक्रमण करने आगे बढ़ रहे हैं।
51पार्थ की ध्वजा के शिखर पर एक भयंकर वानर दिखाई दे रहा है, जो शत्रुओं का क्रोध बढ़ाने में समर्थ है।
52ये हैं बुद्धिमान् कृष्ण के चक्र, गदा, शार्ङ्ग धनुष और शंख। और कृष्ण के (वक्षःस्थल पर) कौस्तुभ मणि सुशोभित हो रही है।
53हाथों में गदा और शार्ङ्ग धनुष लिए परम तेजस्वी वासुदेव वायु के समान वेगवान् उन पीतवर्ण अश्वों को हाँक रहे हैं।
54यह सव्यसाची द्वारा खींचे गए गाण्डीव धनुष की टंकार है। उनके हाथों से छोड़े गए ये तीक्ष्ण बाण शत्रुओं का वध कर देंगे।
55पृथ्वी उन राजाओं के सिरों से बिछ जाएगी जो रणभूमि से कभी नहीं लौटते — जिनके विस्तीर्ण नेत्र ताम्रवर्ण और मुख पूर्णचन्द्र के समान हैं।
56युद्ध में आनन्द लेने वाले और अस्त्र उठाकर लड़ने वाले योद्धाओं की वे भुजाएँ गिर रही हैं, जो कँटीली गदाओं के समान हैं, जो अस्त्रों सहित हैं और सुगन्धों से लिप्त हैं।
57नेत्र, जिह्वा और आँतें बाहर निकले हुए अश्व अपने सवारों सहित गिरते जा रहे हैं, गिर चुके हैं और पृथ्वी पर मृत पड़े हैं।
58पार्थ द्वारा घायल, क्षत-विक्षत और बेधे गए, पर्वतशिखरों के समान विशाल निष्प्राण हाथी पहाड़ों के समान गिर रहे हैं।
59गन्धर्वनगरों के समान वे रथ, जिनके राजा मारे जा चुके हैं, स्वर्गवासियों का पुण्य क्षीण होने पर गिरने वाले विमानों के समान गिर रहे हैं।
60देखो, किरीटी ने इस सेना पर वैसा ही प्रचण्ड आक्रमण किया है जैसा सिंह नाना पशुओं पर करता है।
61आगे बढ़ते हुए वीर पाण्डव युद्ध में लगे तुम्हारी सेना के राजाओं, बहुसंख्यक हाथियों, अश्वों, रथियों और पैदल सैनिकों का वध कर रहे हैं।
62मेघों से आच्छादित सूर्य के समान पार्थ दिखाई नहीं दे रहे हैं। उनके रथ का शिखर दिखाई दे रहा है और उनके धनुष की टंकार सुनाई दे रही है।
63हे कर्ण, आज तुम उन्हें देख लोगे जिनके विषय में तुम पूछताछ कर रहे थे — उन वीर को, जिनके श्वेत अश्व हैं और कृष्ण जिनके सारथि हैं, और जो युद्ध में शत्रुओं का वध करने में लगे हैं।
64हे कर्ण, आज तुम युद्ध में एक ही रथ पर स्थित उन दोनों नरश्रेष्ठ, ताम्रवर्ण नेत्रों वाले शत्रुदमन — कृष्ण और अर्जुन — को देख लोगे।
65हे राधापुत्र, यदि तुम आज उनका वध कर सको, जिनके सारथि कृष्ण और जिनका धनुष गाण्डीव है, तो तुम्हीं हमारे राजा होगे।
66संशप्तकों द्वारा ललकारे जाने पर पार्थ उनकी ओर बढ़ रहे हैं; वे महाबली योद्धा युद्ध में अपने शत्रुओं का महान् संहार कर रहे हैं।
67तदनन्तर क्रोध में भरकर कर्ण ने इस प्रकार बोलने वाले मद्रराज से कहा — 'देखिए, पार्थ पर संशप्तक चारों ओर से आक्रमण कर रहे हैं।
68मेघों से ढके सूर्य के समान पार्थ अब दिखाई नहीं देते। हे शल्य, योद्धाओं के महासागर में डूबे हुए पार्थ का मरना निश्चित है।'
69शल्य ने कहा — ऐसा कौन है जो जल से जलदेवता का और ईंधन से अग्नि का वध कर सके? ऐसा कौन है जो वायु को पकड़ ले अथवा समुद्र को पी जाए?
70मेरे विचार से पार्थ पर आक्रमण करना ठीक ऐसा ही है। इन्द्र को आगे रखकर देवता और दैत्य भी एक साथ मिलकर युद्ध में अर्जुन को विचलित नहीं कर सकते।
71अच्छा है कि तुम यह कहकर अपने को सन्तुष्ट कर लो और अपने मन को शान्ति दे लो। पार्थ युद्ध में जीते जाने योग्य नहीं हैं। अच्छा हो कि तुम अपने मन में कोई और ही प्रयोजन सिद्ध कर लो।
72जो अपनी दोनों भुजाओं पर पृथ्वी को उठा ले, अथवा अपने क्रोध से समस्त प्राणियों को भस्म कर दे, अथवा देवताओं को स्वर्ग से नीचे गिरा दे — वही युद्ध में अर्जुन को परास्त कर सकता है।
73कुन्ती के दूसरे वीर पुत्र भीम को देखो, जो कभी थकान से क्षीण नहीं होते, अपने ही स्वाभाविक तेज से देदीप्यमान हैं, महाबाहु हैं और दूसरे मेरु के समान हैं।
74अपने क्रोध को सदा प्रज्वलित रखते हुए, प्रतिशोध लेने पर उद्यत, परम तेजस्वी भीम अपने समस्त अपमानों का स्मरण करते हुए विजय प्राप्त करने के उद्देश्य से वहाँ खड़े हैं।
75वहाँ खड़े हैं समदर्शी राजा युधिष्ठिर, धर्मात्माओं में श्रेष्ठ और शत्रुओं के नगरों के विजेता। शत्रु युद्ध में उनका प्रतिरोध कदापि नहीं कर सकते।
76वहाँ खड़े हैं दोनों जुड़वाँ भाई नकुल और सहदेव, दो अश्विनीकुमारों के समान, दो नरश्रेष्ठ, युद्ध में अजेय।
77वहाँ खड़े हैं वृष्णिवंश के पाँच वीर, पाँच पर्वतों के समान, युद्ध के इच्छुक, और सब अर्जुन के ही समान।
78वहाँ खड़े हैं धृष्टद्युम्न के नेतृत्व वाले द्रौपदी के अभिमानी, सुन्दर, वीर और परम तेजस्वी पुत्र।
79हमारे विरुद्ध बढ़ रहे हैं सात्वतश्रेष्ठ सात्यकि, इन्द्र के समान अप्रतिरोध्य, जो क्रोध में साक्षात् मृत्यु के समान युद्ध करने आ रहे हैं।
80जब वे दोनों नरश्रेष्ठ इस प्रकार परस्पर वार्तालाप कर रहे थे, तब दोनों सेनाएँ गंगा और यमुना की धाराओं के समान युद्ध में परस्पर भिड़ गईं।
Nepali
1सञ्जयले भने — त्यसपछि धृष्टद्युम्नद्वारा रक्षित पार्थको त्यस अनुपम व्यूहरचना देखेर, जो सम्पूर्ण शत्रुसेनाको प्रतिरोध गर्न समर्थ थियो, कर्ण —
2सिंहनाद गर्दै र आफ्नो रथबाट प्रचण्ड घर्घर-ध्वनि गराउँदै अगाडि बढे। उनले वाद्यको महान् निनादले पृथ्वीलाई कँपाइदिए।
3युद्धमा अजेय ती शत्रुदमन क्रोधले काँप्दैजस्तै देखिन्थे। तब आफ्नो सेनाको प्रतिव्यूह-रचना गरेर, हे भरतश्रेष्ठ, ती महातेजस्वी वीरले —
4पाण्डवसेनाको यस्तो महान् संहार गरे जसरी इन्द्रले असुरसेनाको गरेका थिए। तब अनेक बाणले युधिष्ठिरलाई घाइते पारेर उनले पाण्डुपुत्रलाई आफ्नो दाहिनेतिर पारे।
5धृतराष्ट्रले भने — हे सञ्जय, धृष्टद्युम्नको नेतृत्वका र भीमसेनद्वारा रक्षित पाण्डवहरूविरुद्ध राधापुत्रले आफ्नो सेना कसरी सजाए — ती सम्पूर्ण महाधनुर्धरविरुद्ध, जो स्वयं देवताका लागि पनि अजेय छन्? हे सञ्जय, मेरो सेनाको एउटा पार्श्वमा र अर्को पार्श्वमा को उभिएका थिए?
6विधिपूर्वक विभाजित भई तिनीहरू कसरी स्थित भए? र पाण्डुपुत्रहरूले मेरो सेनाविरुद्ध आफ्नो सेना कसरी सजाए?
7र त्यो महान् एवं भयंकर युद्ध कसरी सुरु भयो? जब कर्ण युधिष्ठिरविरुद्ध बढे, तब विभत्सु कहाँ थिए?
8अर्जुनको उपस्थितिमा कसले युधिष्ठिरमाथि सफलतापूर्वक आक्रमण गर्न सक्थ्यो? राधापुत्रबाहेक अरू कसले, जो आफ्ना प्राण बचाउन चाहन्छ, ती अर्जुनसँग युद्ध गर्नेछ जसले पूर्वकालमा खाण्डवमा एक्लै सम्पूर्ण प्राणीलाई परास्त गरेका थिए?
9सञ्जयले भने — अब सेनाको व्यूहरचना सुन्नुहोस्, र यो पनि कि अर्जुन कसरी आए र दुवै पक्षले आ-आफ्ना राजालाई घेरेर कसरी युद्ध गरे।
10हे राजन्, शरद्वान्का पुत्र कृप, परम कर्मठ मागध तथा सात्वतवंशी कृतवर्मा दक्षिण पार्श्वमा स्थित भए।
11यिनका दाहिनेतिर उभिएर, चम्किला भालाले सुसज्जित अनेक निर्भीक गान्धार अश्वारोही तथा सलहका बथानसमान असङ्ख्य र पिशाचसमान भयंकर मुख भएका अनेक अजेय पर्वतवासीसँगै शकुनि र महारथी उलूकले कौरवसेनाको रक्षा गर्न थाले।
12चौँतीस हजार संशप्तक, जो रणभूमिबाट कहिल्यै नफर्कने र युद्धका लागि उन्मत्त थिए, तपाईंका पुत्रलाई घेरेर तथा कृष्ण र अर्जुनको वध गर्ने इच्छाले वाम पार्श्वको रक्षा गर्न थाले।
13काम्बोज, शक र यवनहरू आफ्ना रथ, अश्व र पैदल सैनिकसहित यसै वाम पार्श्वमा अर्जुन र बलशाली केशवलाई ललकार्दै उभिए।
14बीचमा, कवच र सुन्दर वर्म धारण गरेका तथा बाजुबन्द र मालाले अलङ्कृत कर्ण सेनाको रक्षाका लागि त्यसको अग्रभागमा उभिए।
15चन्द्रमा र अग्निको तेजले सम्पन्न, हेर्दा सुन्दर र पिङ्गल नेत्र भएका, आफ्ना अत्यन्त क्रुद्ध पुत्रहरूद्वारा रक्षित ती वीर, अस्त्रधारीहरूमा श्रेष्ठ, आफ्नो धनुष तान्दै आफ्नो सेनाको अग्रभागमा देदीप्यमान भए।
16आफ्ना सैनिकले घेरिएका महाबाहु दुःशासन एउटा विशाल हात्तीमा सवार भई सेनाको पछाडि स्थित भए र त्यहीँबाट अगाडि बढे।
17परम तेजस्वी मद्रक र केकयहरूद्वारा रक्षित ती राजा त्यहाँ देवताहरूले घेरिएका शतयज्ञकर्ता इन्द्रसमान शोभित भए। हे सम्राट्, तब स्वयं राजा दुर्योधन आफ्ना भाइहरूद्वारा रक्षित भई, सुन्दर कवच धारण गरेर र सुन्दर अश्वमा आरूढ भई उनको पछाडि हिँडे।
18अश्वत्थामा तथा अन्य प्रमुख रथी र मद बगाइरहेका अनेक मदोन्मत्त हात्ती, जो मेघपुञ्जसमान देखिन्थे र जसलाई वीर म्लेच्छहरूले हाँकिरहेका थिए, त्यस रथसेनाको पछाडि हिँडे।
19वैजयन्ती पताका, चम्किला अस्त्र र आफ्ना सवारसहित तिनीहरू रूखले भरिएका पर्वतसमान देखिन्थे।
20त्यस गजसेनाको पछाडिको रक्षा हजारौँ अश्वारोहीले गरिरहेका थिए, जो खड्ग र पट्टिशले सुसज्जित थिए र युद्धबाट कहिल्यै नफर्कने थिए।
21अश्वारोही, रथी र हात्तीले देदीप्यमान रूपमा अलङ्कृत त्यो श्रेष्ठ सेना देवता अथवा दैत्यहरूको सेनासमान अत्यन्त मनोहर देखिन्थ्यो।
22आफ्ना निपुण सेनापतिद्वारा बृहस्पतिको योजनाअनुसार सजाइएको त्यो सेना मानौँ नृत्य गरिरहेको होस् र शत्रुहरूको हृदयमा भय उत्पन्न गरिरहेको होस् — यस्तै देखिन्थ्यो।
23वर्षाकालका निरन्तर मेघसमान युद्धका इच्छुक पैदल सैनिक, अश्वारोही, रथी र हात्तीहरू सम्पूर्ण पार्श्वबाट निस्कन थाले।
24सेनाको अग्रभागमा कर्णलाई देखेर युधिष्ठिरले युद्धका ती एकमात्र वीर, शत्रुसूदन धनञ्जयलाई यी वचन भने।
25हे अर्जुन, कर्णद्वारा सजाइएको यो विशाल सेना हेर। शत्रुको सेना आफ्ना सम्पूर्ण पार्श्वसहित देदीप्यमान छ।
26यस्तो विशाल सेनाको सामु तिमीले यस्ता सावधानी अपनाउनुपर्दछ जसबाट हामी परास्त नहोऔँ।
27राजाले यसरी भन्दा अर्जुनले हात जोडेर उत्तर दिए — 'जस्तो तपाईं भन्नुहुन्छ, सबै त्यस्तै हुनेछ। केही पनि अन्यथा हुनेछैन।
28हे भरतवंशी, म शत्रुको विनाश गर्नेछु। यस सेनाका मुख्य नायकको वध गरेर म यिनको संहार सुनिश्चित गर्नेछु।'
29युधिष्ठिरले भने — यो ध्यानमा राखेर तिमी स्वयं राधापुत्रविरुद्ध बढ; भीमसेन सुयोधनविरुद्ध जाऊन्; नकुल वृषसेनविरुद्ध, सहदेव सुबलका पुत्रविरुद्ध, शतानीक दुःशासनविरुद्ध, सिनिश्रेष्ठ सात्यकि हृदिकका पुत्रविरुद्ध र पाण्ड्य द्रोणपुत्रविरुद्ध जाऊन्। म स्वयं कृपसँग युद्ध गर्नेछु।
30द्रौपदीका पुत्रहरू शिखण्डीसँगै धृतराष्ट्रका बाँकी पुत्रविरुद्ध बढून्। अन्य वीरहरू हाम्रा बाँकी शत्रुविरुद्ध बढून्।
31सञ्जयले भने — धर्मात्मा युधिष्ठिरले यसरी भन्दा धनञ्जयले भने — 'त्यस्तै होस्' — र आफ्नो सेनालाई आदेश दिए। त्यसपछि उनी स्वयं अग्रभागतिर बढे।
32केशव र अर्जुन त्यस श्रेष्ठ रथमा युद्धका लागि अगाडि बढे, जसका लागि ब्रह्माबाट तेज प्राप्त गर्ने जगन्नायक अग्निले अश्व प्रदान गरेका थिए —
33श्रीकृष्ण र अर्जुन त्यस पुरातन रथमा आक्रमणका लागि शत्रुहरूतिर बढिरहेका थिए, जसमा प्राचीन कालमा ब्रह्मा, रुद्र, इन्द्र र वरुण क्रमशः आरूढ हुने गर्दथे।
34त्यस अद्भुत रथलाई अगाडि बढेको देखेर शल्यले अधिरथका ती परम तेजस्वी पुत्रलाई पुनः यी वचन भने।
35त्यो आइरहेको छ श्वेत अश्वले जोतिएको र कृष्णलाई सारथि बनाएको रथ — त्यो रथ जसको प्रतिरोध सम्पूर्ण सैनिक मिलेर पनि गर्न सक्दैनन्, जसरी कर्मको फल अवश्यम्भावी हुन्छ। ती आइरहेका छन् कुन्तीपुत्र, बाटोमा आफ्ना सम्पूर्ण शत्रुको वध गर्दै — तिनै, जसका विषयमा तिमी सोधपुछ गरिरहेका थियौ।
36निःसन्देह ती महान् वासुदेव र अर्जुन नै हुन्, किनभने मेघको गड्गडाहटसमान गम्भीर भयंकर कोलाहल सुनिइरहेको छ।
37धूलोको बादल वितानसमान आकाशलाई ढाकिरहेको छ। हे कर्ण, अर्जुनको रथका पाङ्ग्राले गहिरो कटेकी सम्पूर्ण पृथ्वी काँपिरहेकी छिन्।
38सेनाका दुवै पार्श्वमा प्रचण्ड वायु चलिरहेको छ। मांसभक्षी पशुहरू चर्को स्वरले कराइरहेका छन् र पशुहरूले भयंकर ध्वनि गरिरहेका छन्।
39हे कर्ण, धूम्रवर्णको त्यस भयंकर र अशुभ केतुलाई हेर, जो रोमाञ्च खडा गर्न समर्थ छ। त्यो सूर्यलाई आच्छादित गर्दै प्रकट भएको छ।
40ठूलो सङ्ख्यामा नाना प्रकारका पशु हेर र अनेक बलवान् ब्वाँसा तथा बाघहरू सूर्यतिर हेरिरहेका छन्।
41ती भयंकर कङ्क र गिद्धहरूलाई हजारौँको सङ्ख्यामा एक-अर्कातिर मुख फर्काएर बसेका हेर, मानौँ तिनीहरू आपसमा वार्तालाप गरिरहेका होऊन्।
42हे कर्ण, तिम्रो विशाल रथमा बाँधिएका रङ्गीन चँवर उग्रताले हल्लिरहेका छन् र तिम्रो ध्वजा पनि काँपिरहेको छ।
43हेर, आकाशमा सुन्दर गरुडसमान महान् वेगले सम्पन्न तिम्रा सुन्दर र विशाल अश्व पनि काँपिरहेका छन्।
44हे कर्ण, यी अपशकुनबाट यो स्पष्ट छ कि सयौँ-हजारौँ राजा प्राणरहित भई रणभूमिमा चिरनिद्रामा सुत्नेछन्।
45शङ्खको रोमाञ्चकारी र उच्च ध्वनि सुनिइरहेको छ। हे राधापुत्र, दुन्दुभि र झ्यालीहरूको ध्वनि पनि चारैतिरबाट सुनिइरहेको छ।
46नाना प्रकारका बाणको सनसनाहट तथा रथ, अश्व र मनुष्यको कोलाहल पनि सुनिइरहेको छ। हे कर्ण, नाना योद्धाका धनुषको टङ्कार सुन।
47कुशल शिल्पीहरूद्वारा बनाइएका, सुनले बुट्टा भरिएका नाना रङका अनेक पताका अर्जुनको रथमा वायुले हल्लिँदै देदीप्यमान भइरहेका छन्।
48हे कर्ण, अर्जुनका ती ध्वजालाई पनि हेर, जो घण्टीका पङ्क्ति तथा स्वर्णमय चन्द्र र ताराले अलङ्कृत छन् — मानौँ मेघमाथि विद्युत् होऊन्।
49ध्वनि गरिरहेका ती ध्वजा वायुले हल्लिरहेका छन्; पताकाले सजिएका आफ्ना रथसहित ती महात्मा पाञ्चालहरू आ-आफ्ना विमानमा स्थित देवतासमान देखिन्छन्।
50हेर, युद्धमा अजेय र वानरको चिह्न भएको ध्वजा धारण गरेका कुन्तीपुत्र वीर विभत्सु आफ्ना शत्रुहरूमाथि आक्रमण गर्न अगाडि बढिरहेका छन्।
51पार्थको ध्वजाको शिखरमा एउटा भयंकर वानर देखिइरहेको छ, जो शत्रुहरूको क्रोध बढाउन समर्थ छ।
52यी हुन् बुद्धिमान् कृष्णका चक्र, गदा, शार्ङ्ग धनुष र शङ्ख। र कृष्णको (छातीमा) कौस्तुभ मणि सुशोभित भइरहेको छ।
53हातमा गदा र शार्ङ्ग धनुष लिएका परम तेजस्वी वासुदेवले वायुसमान वेगवान् ती पीतवर्ण अश्वलाई हाँकिरहेका छन्।
54यो सव्यसाचीद्वारा तानिएको गाण्डीव धनुषको टङ्कार हो। उनका हातबाट छोडिएका यी तीखा बाणले शत्रुहरूको वध गरिदिनेछन्।
55पृथ्वी ती राजाहरूका शिरले छापिनेछ जो रणभूमिबाट कहिल्यै फर्कँदैनन् — जसका विस्तीर्ण नेत्र ताम्रवर्ण र मुख पूर्णचन्द्रसमान छन्।
56युद्धमा आनन्द लिने र अस्त्र उठाएर लड्ने योद्धाहरूका ती पाखुरा खसिरहेका छन्, जो काँडेदार गदासमान छन्, जो अस्त्रसहित छन् र सुगन्धले लिप्त छन्।
57नेत्र, जिब्रो र आन्द्रा बाहिर निस्किएका अश्वहरू आफ्ना सवारसहित खस्दै छन्, खसिसकेका छन् र पृथ्वीमा मृत परेका छन्।
58पार्थद्वारा घाइते, क्षतविक्षत र बेधिएका, पर्वतशिखरसमान विशाल निष्प्राण हात्तीहरू पहाडसमान खसिरहेका छन्।
59गन्धर्वनगरसमान ती रथ, जसका राजा मारिइसकेका छन्, स्वर्गवासीहरूको पुण्य क्षीण हुँदा खस्ने विमानसमान खसिरहेका छन्।
60हेर, किरीटीले यस सेनामाथि त्यस्तै प्रचण्ड आक्रमण गरेका छन् जस्तो सिंहले नाना पशुमाथि गर्दछ।
61अगाडि बढ्दै वीर पाण्डवहरूले युद्धमा लागेका तिम्रो सेनाका राजा, धेरै सङ्ख्याका हात्ती, अश्व, रथी र पैदल सैनिकको वध गरिरहेका छन्।
62मेघले आच्छादित सूर्यसमान पार्थ देखिइरहेका छैनन्। उनको रथको शिखर देखिइरहेको छ र उनको धनुषको टङ्कार सुनिइरहेको छ।
63हे कर्ण, आज तिमीले उनलाई देख्नेछौ जसका विषयमा तिमी सोधपुछ गरिरहेका थियौ — ती वीरलाई, जसका श्वेत अश्व छन् र कृष्ण जसका सारथि छन्, र जो युद्धमा शत्रुहरूको वध गर्नमा लागेका छन्।
64हे कर्ण, आज तिमीले युद्धमा एउटै रथमा स्थित ती दुवै नरश्रेष्ठ, ताम्रवर्ण नेत्र भएका शत्रुदमन — कृष्ण र अर्जुन — लाई देख्नेछौ।
65हे राधापुत्र, यदि तिमीले आज उनको वध गर्न सक्यौ, जसका सारथि कृष्ण र जसको धनुष गाण्डीव छ, त तिमी नै हाम्रा राजा हुनेछौ।
66संशप्तकहरूद्वारा ललकारिएपछि पार्थ उनीहरूतिर बढिरहेका छन्; ती महाबली योद्धाले युद्धमा आफ्ना शत्रुहरूको महान् संहार गरिरहेका छन्।
67त्यसपछि क्रोधले भरिएर कर्णले यसरी बोल्ने मद्रराजलाई भने — 'हेर्नुहोस्, पार्थमाथि संशप्तकहरूले चारैतिरबाट आक्रमण गरिरहेका छन्।
68मेघले ढाकिएको सूर्यसमान पार्थ अब देखिँदैनन्। हे शल्य, योद्धाहरूको महासागरमा डुबेका पार्थको मर्नु निश्चित छ।'
69शल्यले भने — यस्तो को छ जसले जलले जलदेवताको र इन्धनले अग्निको वध गर्न सकोस्? यस्तो को छ जसले वायुलाई समातोस् अथवा समुद्रलाई पिइदेओस्?
70मेरो विचारमा पार्थमाथि आक्रमण गर्नु ठीक यस्तै हो। इन्द्रलाई अगाडि राखेर देवता र दैत्यहरूले पनि एकसाथ मिलेर युद्धमा अर्जुनलाई विचलित पार्न सक्दैनन्।
71राम्रो छ कि तिमी यसो भनेर आफूलाई सन्तुष्ट पार र आफ्नो मनलाई शान्ति देऊ। पार्थ युद्धमा जितिनयोग्य छैनन्। राम्रो होस् कि तिमी आफ्नो मनमा अरू नै कुनै प्रयोजन सिद्ध गर।
72जसले आफ्ना दुवै पाखुरामा पृथ्वीलाई उठाओस्, अथवा आफ्नो क्रोधले सम्पूर्ण प्राणीलाई भस्म पारिदेओस्, अथवा देवतालाई स्वर्गबाट तल खसालिदेओस् — उसैले युद्धमा अर्जुनलाई परास्त गर्न सक्दछ।
73कुन्तीका अर्का वीर पुत्र भीमलाई हेर, जो कहिल्यै थकानले क्षीण हुँदैनन्, आफ्नै स्वाभाविक तेजले देदीप्यमान छन्, महाबाहु छन् र दोस्रो मेरुसमान छन्।
74आफ्नो क्रोधलाई सधैँ प्रज्वलित राख्दै, प्रतिशोध लिन उद्यत, परम तेजस्वी भीम आफ्ना सम्पूर्ण अपमानको स्मरण गर्दै विजय प्राप्त गर्ने उद्देश्यले त्यहाँ उभिएका छन्।
75त्यहाँ उभिएका छन् समदर्शी राजा युधिष्ठिर, धर्मात्माहरूमा श्रेष्ठ र शत्रुहरूका नगरका विजेता। शत्रुहरूले युद्धमा उनको प्रतिरोध कहिल्यै गर्न सक्दैनन्।
76त्यहाँ उभिएका छन् दुवै जुम्ल्याहा भाइ नकुल र सहदेव, दुई अश्विनीकुमारसमान, दुई नरश्रेष्ठ, युद्धमा अजेय।
77त्यहाँ उभिएका छन् वृष्णिवंशका पाँच वीर, पाँच पर्वतसमान, युद्धका इच्छुक, र सबै अर्जुनकै समान।
78त्यहाँ उभिएका छन् धृष्टद्युम्नको नेतृत्वका द्रौपदीका अभिमानी, सुन्दर, वीर र परम तेजस्वी पुत्रहरू।
79हामीविरुद्ध बढिरहेका छन् सात्वतश्रेष्ठ सात्यकि, इन्द्रसमान अप्रतिरोध्य, जो क्रोधमा साक्षात् मृत्युसमान युद्ध गर्न आइरहेका छन्।
80जब ती दुवै नरश्रेष्ठ यसरी आपसमा वार्तालाप गरिरहेका थिए, तब दुवै सेना गङ्गा र यमुनाका धारासमान युद्धमा आपसमा भिडे।