Bhishma-Vadha Parva — Withdrawal of the forces in the eighth day's fight
Volume IV — Bhishma Parva · Chapter 98
Sanskrit
1संजय उवाच पुत्रं विनिहतं श्रुत्वा इरावन्तं धनंजयः। दुःखेन महताऽऽविष्टो निःश्वसन् पन्नगो यथा।॥
2अब्रवीत् समरे राजन् वासुदेवमिदं वचः। इदं नूनं महाप्राज्ञो विदुरो दृष्टवान् पुरा॥ कुरूणा पाण्डवानां च क्षयं घोरं महामतिः। स ततो निवारितवान् धृतराष्ट्र जनेश्ररम्॥
3अन्ये च बहवो वीराः संग्रामे मधुसूदन। निहताः कौरवैः संख्ये तथास्माभिश्च कौरवाः॥
4अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्। धिगर्थान् यत्कृते ह्येव क्रियते ज्ञातिसंक्षयः॥
5अधनस्य मृतं श्रेयो न च ज्ञातिवधाद् धनम्। किं न प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन् समागतान्॥
6दुर्योधनापराधेन शकुनेः सौबलस्य च। क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च॥
7इदानीं च विजानामि सुकृतं मधुसूदन। कृतं राज्ञा महाबाहो याचता च सुयोधनम्॥
8राज्याधु पञ्च वा ग्रामान् नाकार्षीत् स च दुर्मतिः। दृष्ट्वा हि क्षत्रियाशूराशयानान् धरणीतले॥
9निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम्। अशक्तमिति मामेते ज्ञास्यन्ते क्षत्रिया रणे।॥
10युद्धं तु मे न रुचितं ज्ञातिभिर्मधुसूदन। संचोदय हयाशीघ्रं धार्तराष्ट्रचमूं प्रति॥
11प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम्। नायं यापयितुं कालो विद्यते माधव क्वचित्॥
12एवमुक्तस्तु पार्थेन केशवः परवीरहा। चोदयामास तानश्वान् पाण्डुरान् वातरंहसः॥
13अथ शब्दो महानासीत् तव सैन्यस्य भारत। मारुतोद्धतवेगस्य सागरस्येव पर्वणि॥
14अपराह्ने महाराज संग्रामः समपद्यत। पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः॥
15ततो राजंस्तव सुता भीमसेनमुपाद्रवन्। परिवार्य रणे द्रोणं वसवो वासवं यथा॥
16ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः। भगदत्तः सुशर्मा च धनंजयमुपाद्रवन्।॥
17पुत्रास्तु तव कौन्तेयं हार्दिक्यो बाह्निकश्चैव सात्यकिं समभिद्रुतौ। अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः॥
18शेषास्त्वन्ये महाराज शेषानेव महारथान्। ततः प्रववृते युद्धं घोररूपं भयावहम्॥
19भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव जनेश्वर। प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव॥
20छादयाञ्चक्रिरे शरैः। प्रावृषीव महाराज जलदा इव पर्वतम्॥
21स च्छाद्यमानो बहुधा पुत्रैस्तव विशाम्पते। क्किणी संलिहन् वीरः शार्दूल इव दर्पितः॥
22व्यूढोरस्कं ततो भीमः पातयामास भारत। क्षुरप्रेण सुतीक्ष्णेन सोऽभवद् गतजीवितः॥
23अपरेण तु भल्लेन पीतेन न निशितेन तु। अपातयत् कुण्डलिनं सिंहः क्षुद्रमृगं यथा॥
24ततः सुनिशितान् पीतान् समादत्त शिलीमुखान्। ससर्ज त्वरया युक्तः पुत्रास्ते प्राप्य मारिष॥
25प्रेषिता भीमसेनेन शरास्ते दृढधन्वना। अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान्॥
26अनाधृष्टिं कुण्डभेदिं वैराटं दीर्घलोचनम्। दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम्॥
27प्रपतन्त स्म वीरास्ते विरेजुर्भरतर्षभ। वसन्ते पुष्पशबलाश्शूताः प्रपतिता इव॥
28ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे। तं कालमिव मन्यन्तो भीमसेनं महाबलम्॥
29द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव। यथाद्रिं वारिधाराभिः समन्ताद् व्यकिरच्छरैः। :॥
30तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम्। द्रोणेन वार्यमाणोऽपिनजघ्ने यत् सुतांस्तव॥
31यथा गोवृषभो वर्ष संधारयति खात् पतत्। भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत्॥
32अद्भुतं च महाराज तत्र चक्रे वृकोदरः। यत् पुत्रास्तेऽवधीत् संख्ये द्रोणं चैव न्यवारयत्॥
33पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः। मृगेष्विव महाराज चरन् व्याघ्रो महाबलः॥
34यथा हि पशुमध्यस्थो दारयेत पशून् वृकः। वृकोदरस्तव सुतांस्तथा व्यद्रावयद् रणे॥
35गाङ्गेयो भगदत्तश्च गौतमश्च महारथाः। पाण्डवं रभसं युद्धे वारयामासुरर्जुनम्॥
36अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे। प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे॥
37अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम्। विरथं रथिनां श्रेष्ठं वारयामास सायकैः॥
38विरथो वध्यमानस्तु सौभद्रेण यशस्विना। अवप्लुत्य रथात् तूर्णमम्बष्ठो वसुधाधिपः॥
39असिं चिक्षेप समरे सौभद्रस्य महात्मनः। आरुरोह रथं चैव हार्दिक्यस्य महाबलः॥
40आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः। लाघवाद् व्यंसयामास सौभद्रः परवीरहा॥
41व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा। साधु साध्विति सैन्यानां प्रणादोऽभूद् विशाम्पते॥
42धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन्। तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन्॥
43तत्राक्रन्दो महानासीत् तव तेषां च भारत। निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम्॥
44अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्यमानिनः। नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा॥
45तलैश्चैवाथ निस्त्रिंशैर्बाहुभिश्च सुसंस्थितैः। विवरं प्राप्य चान्योन्यमनयन् यमसादनम्॥
46न्यहनच्च पिता पुत्रं पुत्रश्च पितरं तथा। व्याकुलीकृतसर्वाङ्गा युयुधुस्तत्र मानवा॥
47रणे चारूणि चापानि हेमपृष्ठानि मारिष। हतानामपविद्धानि कलापाश्च महाधनाः॥
48जातरूपमयैः पुखैः राजतैर्निशिताः शराः। तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः॥
49हस्तिदन्तत्सरून् खङ्गाञ्जातरूपपरिष्कृतान्। चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनाम्॥
50सुवर्णविकृतप्रासान् पट्टिशान् हेमभूषितान्। जातरूपमयाश्च : शक्तीश्च कनकोज्ज्वलाः॥
51सुसंनाहाश्च पतिता मुसलानि गुरूणि च। परिधान् पट्टिशांश्चैव भिन्दिपालांश्च मारिष॥
52पतितान् विविधांश्चापाश्चित्रान् हेमपरिष्कृतान्। कुथा बहुविधाकाराश्चामरान् व्यजनानि च॥
53नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः। जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः॥
54गदाविमथितैर्गात्रैर्मुसलैभिन्नमस्तकाः। गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ॥
55तथैवाश्वनृनागानां शरीरैर्विबभौ तदा। संछन्ना वसुधा राजन् पर्वतैरिव सर्वशः॥
56समरे पतितैश्चैव शक्त्यष्टिशरतोमरैः। निस्त्रिशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः॥ परिचैर्भिन्दिपालैश्च शतघ्नीभिश्च मारिष। शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मेदिनी॥
57विशब्दरल्पशब्दैश्च शोणितौघपरिप्लुतैः। गतासुभिरमित्रघ्न विबभौ निचिता मही॥
58सतलत्रैः सकेयूरैर्बाहूभिश्चन्दनोक्षितैः। हस्तिहस्तोपमैश्छिरूरुभिश्च तरस्विनाम्॥ बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः। पातितैर्ऋषभाक्षाणां बभौ भारत मेदिनी॥
59कवचैः शोणितादिग्धैविप्रकीर्णश्च काञ्चनैः। रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः॥
60विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः। विप्रकीर्णैः शरैश्चैव रुक्मपुखैः समन्ततः॥
61रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः। वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वः सशोणितैः॥
62अनुकर्णैः पताकाभिरुपासङ्गैर्ध्वजैरपि। प्रवीराणां महाशङ्कुर्विप्रकीर्णैश्च पाण्डुरैः॥
63स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही। नानारूपैरलंकारैः प्रमदैवाभ्यलकृता॥
64दन्तिभिश्चापरैस्तत्र सप्रसैर्गाढवैदनैः। करैः शब्दं विमुञ्चद्भिः शीकरं च मुमुर्मुहुः॥ विबभौ तद् रणस्थानं स्यन्दमानैरिवाचलैः। नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम्॥
65वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः। घण्डाभिश्च गजेन्द्राणां पतिताभिः समन्ततः॥
66विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा। ग्रैवेयश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च॥
67यन्त्रैश्च बहुधाच्छिन्नस्तोमरैश्चापि काञ्चनैः। अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः॥
68सादिनां भुजगैश्छिन्नैः पतितैः साङ्गदैस्तथा। प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्टिभिः॥
69उष्णीषैश्च तथा चित्रैविप्रविब्रैस्ततस्ततः। विचित्रैर्बाणवर्धेश्च जातरूपपरिष्कृतैः॥
70अश्वास्तरपरिस्तोमै राङ्कवैर्मुदितैस्तथा। नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः॥
71छत्रैस्तथापविद्धैश्च चामरैर्व्यजनैरपि। पोन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः॥
72क्लप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः। अपविद्धैर्महाराज सुवर्णोज्ज्वकुण्डलैः॥
73ग्रहनक्षत्रशबला द्यौरिवासीद् वसुन्धरा। एवमेते महासेने मृदृिते तत्र भारत॥
74परस्परं समासाद्य तव तेषां च संयुगे। तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत॥
75रात्रिः समभवत् तत्र नापश्याम ततोऽनुगान्। ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः॥
76रजनीमुखे सुरौद्रे तु वर्तमाने महाभये। अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः। न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा॥
English
1Sanjaya said Hearing his son Iravat slain, Dhananjaya, overwhelmed with grief and sighing like a snake.
2Spoke, O king, these words addressing the son of Vasudeva, even on the field of battle. "Surely the high-minded Vidura of great wisdom divined before hand this dreadful destruction of the Kurus and the Pandavas. It he was therefore that forbade king Dhritarashtra.
3Innumerable other heroes, Oslayer of Madhu, have been slain by ourselves and the Kauravas in this sanguinary war.
4For the sake of wealth, O foremost of men, vile deeds are being perpetrated. Fie on that wealth for the sake of which this destruction of kinsmen is being perpetrated.
5Death is preferable, for him who has no wealth, to the acquisition of wealth by the slaughter of his kinsmen. What good 0 Krishna, shall we reap, slaughtering these our kinsmen assembled together.
6In consequence of the faults of Duryodhana and those of Shakuni the son of Subala, and in consequence of the wicked counsels of Karna, the Kshatriyas are suffering destruction.
7Now, O slayer of Madhu, do I realize what a great act of piety, O mighty-armed, one, did the king (Yudhishthira) do by begging of Suyodhana,
8Either half of the kingdom or else five villages only. But the pervert Duryodhana turned deaf ears to our solicitations. Beholding these Kshatriyas, all brave warriors, prostrate on the surface of the earth.
9I can not but reproach myself. Fie on the life of a Kshatriya. These Kshatriyas may consider me incapable of batting any longer,
10But, O slayer of Madhu, this battle with my kinsmen does not at all please me. However, swiftly drive the horses towards the army of the sons of Dhritarashtra.
11I shall cross this ocean of battle incapable of being crossed by the strength of my arms. Surely, O Madhava, this is not the time for the display of feminine sentiments."
12Thus spoken to by the son of Pritha that slayer of hostile heroes Keshava, urged on those cream colored steeds endued with the fleetness of the wind.
13Thereupon a deafening uproar was set up by your troops. O Bharata, like that of the ocean lashed into fury by the wind in the day of the new moon or the full moon.
14Then in the afternoon, O mighty monarch, the battle that was fought between Bhishma and the Pandavas, resembled in its din the rumble of the rain clouds Parjanya.
15Then your sons, O king, surrounding Drona like the Vasus encircling Vasava, assailed Bhimasena.
16Thereafter Bhishma the son of Shantanu, Kripa the foremost of car-warriors, Bhagadatta and Susharma rushed against Dhananjaya.
17The son of Hridika and Balhika both assailed Satyaki. King Ambashtaka encountered Abhimanyu.
18The rest of the warriors, O mighty monarch, engaged with other great car-warriors of the hostile party. Then commenced an awful engagement whose aspect was indeed terrible.
19Bhimasena beholding your sons, O ruler of me, in battle, blazed forth in anger like the sacrificial fire blazing forth with clarified butter.
20Your sons, o king, covered that son of Kunti with a shower of arrows like clouds covering a mountain with torrents of rain during the rainy season.
21Then, O ruler of men, when thus covered with arrows by your sons, that hero Bhima, agile as a tiger, began to lick the corners of his mouth.
22Thereafter, 0 Bharata, he felled Vyudoraska with a sharp arrow furnished with a head like that of a horse-shoe; and the letter was deprived of his life.
23Then again with an well tempered and well sharpened broad-headed shaft, he felled Kundalin, like a lion felling a smell deer.
24Then Bhima fixed on his bow-string arrows well-tempered and of exceeding sharpness. Getting near your sons. O sire, he let these arrows go with great lightness and with good aim.
25These arrows sped by that firm bowman Bhimasena began to overthrow your sons, all mighty car-warriors, from their seats.
26Bhima felled Anadhrishti, Kundabheda, Vairata, Deerghalochana, Deerghabhau and Kanakdhvaja.
27When falling, these heroes, O scion of the Bharata race, appeared beautiful like blossoming mango trees falling down in the spring.
28Then considering the highly puissant Bhima to be the Destroyer incarnate, the rest of your sons, O ruler of men fled with haste.
29Then Drona covered that hero (Bhima) who had been consuming your sons, with a shower of shafts, like showers of rain covering the mountain breast.
30Then indeed we beheld the wonderful prowess of the son of Kunti, in as much as, though opposed by Drona himself, he succeeded in slaughtering your sons.
31Just as a heifer bears the shower of rain falling from the skies, so did Bhima bear the arrowy downpour discharged by Drona, like one undaunted.
32Really, O mighty monarch, Vrikodara achieved marvellous feats, in as much as he succeeded in slaying your sons and opposing Drona simultaneously.
33Then the elder brother of Arjuna played amidst your heroic sons like, O monarch, a powerful tiger roving amidst a herd of deer.
34Just a wolf, remaining inside a herd of cattle, chases and terrifies them, so, in that battle, did Vrikodara crush and frighten your sons.
35The son of Ganga, Bhagadatta, the mighty car-warrior Gautami's son, all opposed in battle Arjuna himself the son of Pandu.
36Then that Atiratha checking the enemies weapons with his own weapons, dispatched many mighty heroes of the hostile rank to the regions of Death.
37Then Abhimanyu with his shafts, deprived that foremost of car-warriors, viz., king Ambashta of world-wide fame, of his car.
38Deprived of his car and wondered by the illustrious son of Subhadra, he quickly jumped down from his car in shame and O lord of men.
39Hurled his sword at the high-souled son of Subhadra. Thereafter that highly-powerful hero ascended the car of the son of Hridika.
40Then that slayer of hostile hero, namely Abhimanyu, versed in all the modes, of warfare, beholding the swiftly advancing sword, evaded its strike by the agility of his movements.
41Beholding the sword thus baffled by the son of Subhadra, in that battle, the troops, O ruler of men, set up an uproar crying 'well-done' 'well-done'.
42Other warriors of the Pandava host headed by Dhrishtadyumna himself, engaged with your warriors; so also your warriors fought against the troops of the Pandavas.
43Then when they were thus slaughtering one another mercilessly and achieving feats difficult of being accomplished, fierce was the battle that raged between your and their warriors.
44In that battle the warriors, O sire, dragging one another by the hair, fought on striking one another with their finger-nails, their teeth, their blows and thighs,
45Their sabers and palms and sinewy arms. Availing themselves of another's one weaknesses, they dispatched one another to the regions of Death.
46Father slew son and son slew father in that battle men fought on making the best use of all limbs.
47Beautiful bows with their staves decked with gold, O Bharata, loosened from the hold of slain warriors, and precious ornaments,
48And whetted shafts furnished with golden or Argentine wings and cleansed with oil and resembling snakes that have recently cast of their slough, bone on the field (as they lay scattered thereon).
49Swords with hilts made of ivory and decked with gold, and bucklers, belonging to bowmen, embossed with gold, lay scattered on the field, loosened from the grasp of their wielders.
50Lances and dares and battle-axes, and javelins, all decked with gold and of golden hue,
51And, O sire, beautiful coats of mail, heavy and light bludgeons, inaces, battle-axes and small arrows,
52And diverse-sharped, capricious for elephants, and chamaras and fans and numerous bows variegated and decorated with gold, lay scattered on the field.
53Men lying on the field with diverse weapons in grasp looked as if alive, though those mighty car-warriors were all deprived of the vital breaths.
54With their bodies crushed with strokes of maces, their heads smashed with the blows of bludgeons, and thoroughly mangled by the cars and elephants and steed, men lay on the field.
55Then the surface of the earth covered over with carcasses and corpses of men and elephants and steeds, appeared, O king, as if covered with hillocks.
56The field of battle was strewn over with fallen dares, swords, arrows, lances, sabers, axes, piked stakes, iron crows, battle-axes, clubs and bludgeons, and Shataghnees and bodies mutilated with weapons.
57O slayer of enemies, the earth covered with some warriors silent in death, with others weltering in their blood and with some again moaning feebly, became highly beautiful.
58O Bharata, the field of battle assumed a beautiful aspect, being strewn over with arms of mighty warriors smeared with sandal paste and adorned with leather fences and bracelets, as also with well snapped thighs resembling the trunks of elephants, and with severed heads of large-eyed combatants, graced with gems and car-rings.
59Covered over with blood-soiled amours and golden ornaments, the field of battle appeared most beautiful as of scattered over with fires of mild flames.
60With ornaments of various kinds loosened from their places, with bows fallen about, with shafts of golden wings lying about,
61With many broken cars decked with rows of bells, with numerous slain steeds bespattered with gore and their tongues protruding,
62With car-bottons, and standards quivers, pennons, huge milk white conchs, belonging to mighty warrior,
63With trunkless elephants, scattered on the field, the earth appeared charming like a damsel adorned with various of ornaments.
64Then also with other elephants pierced with lances and pained to the extreme, and repeatedly uttering shrinks of agony with their trunks, the field of battle appeared beautiful as if covered with moving mountains. With blankets of various colors, and caparisons of elephants, sorts
65With well-shaped hooks having their handles decked with lapses, with bells of huge elephants scattered here and there.
66With clean housing of wonderful workmanship, with the skins of Ranku deer, with beautiful neck-laces and golden girths,
67With many broken implements of war, with golden dares, with many gold fringed breast plates of steeds soiled with dust,
68With served arms of horse soldiers, adorned with bracelets and scattered about, with well polished lances of keep points and with resplendent swords,
69With variegated turbans fallen off and lying about, with wonderful crescent shaped arrows of golden effulgence,
70With housings of steeds with skins of Ranku deer, torn and soiled, with beautiful and precious gems that had graced the turbans of the kings,
71With umbrellas, and chamaras and fans scattered about, with moon-like or lotus-like faces of warriors conspicuous with charming ear-rings,
72And graced with well clipped beards and beautified, O king, with Kundalas of golden effulgence,
73The earth looked like the sky be-spangled with the stars and the planets. Thus, O Bharata, the two mighty armies crushed one another,
74Encountering one another in battle. When, O Bharata, the two armies were crushed and exhausted and completely broken,
75The hideous pall of night fell over the earth and the fight could no longer be discerned. Then the Kurus and the Pandavas withdrew their forces from the field.
76When that hideous night, fierce and dreadful, set in, both the Kurus and the Pandavas, having withdrawn their forces, entered their encampments and retired to their respective tents.
Hindi
1सञ्जय ने कहा — अपने पुत्र इरावान् को मारा गया सुनकर धनञ्जय शोक से अभिभूत हो गए और सर्प के समान लम्बी साँसें भरने लगे।
2हे राजन्, उन्होंने रणभूमि में ही वसुदेव के पुत्र को सम्बोधित करके ये वचन कहे — "निश्चय ही महाबुद्धिमान् उदारचेता विदुर ने कुरुओं और पाण्डवों के इस भयंकर विनाश को पहले ही जान लिया था। इसीलिए उन्होंने राजा धृतराष्ट्र को मना किया था।
3हे मधुसूदन, इस रक्तरञ्जित युद्ध में हमारे तथा कौरवों के द्वारा असंख्य अन्य वीर मारे जा चुके हैं।
4हे पुरुषश्रेष्ठ, धन के लिए नीच कर्म किए जा रहे हैं। धिक्कार है उस धन को, जिसके लिए बन्धुओं का यह विनाश किया जा रहा है।
5जिसके पास धन नहीं है, उसके लिए अपने बन्धुओं का वध करके धन प्राप्त करने की अपेक्षा मृत्यु ही श्रेयस्कर है। हे कृष्ण, एकत्र हुए अपने इन बन्धुओं का वध करके हमें कौन-सा लाभ होगा?
6दुर्योधन के दोषों से, सुबलपुत्र शकुनि के दोषों से तथा कर्ण की दुष्ट सलाहों से क्षत्रिय विनाश भोग रहे हैं।
7हे मधुसूदन, हे महाबाहु, अब मैं समझ पा रहा हूँ कि राजा (युधिष्ठिर) ने सुयोधन से केवल —
8— आधा राज्य अथवा केवल पाँच गाँव माँगकर कितना महान् धर्म का कार्य किया था। किन्तु उस कुटिल दुर्योधन ने हमारी प्रार्थनाओं पर कान ही नहीं दिया। इन क्षत्रियों को, जो सभी साहसी योद्धा थे, पृथ्वी के तल पर पड़ा देखकर —
9— मैं स्वयं को धिक्कारे बिना नहीं रह पाता। धिक्कार है क्षत्रिय के जीवन को। ये क्षत्रिय मुझे अब और लड़ने में असमर्थ मान सकते हैं,
10— किन्तु हे मधुसूदन, अपने ही बन्धुओं के साथ यह युद्ध मुझे तनिक भी प्रिय नहीं लगता। फिर भी, घोड़ों को शीघ्र धृतराष्ट्र के पुत्रों की सेना की ओर हाँकिए।
11मैं युद्ध के इस दुस्तर समुद्र को अपनी भुजाओं के बल से पार कर जाऊँगा। हे माधव, निश्चय ही यह स्त्रीसुलभ भावनाओं के प्रदर्शन का समय नहीं है।"
12पृथापुत्र द्वारा इस प्रकार कहे जाने पर शत्रुवीरों के संहारक केशव ने वायु के समान वेग वाले उन दुग्धवर्ण घोड़ों को आगे बढ़ाया।
13हे भरतवंशी, तब आपकी सेना ने कान बहरे कर देने वाला ऐसा कोलाहल मचाया, जैसा अमावस्या अथवा पूर्णिमा के दिन वायु से प्रचण्ड हुए समुद्र का होता है।
14हे महाराज, तब अपराह्ण में भीष्म और पाण्डवों के बीच जो युद्ध हुआ, उसका शब्द वर्षा के मेघों (पर्जन्य) की गड़गड़ाहट के समान था।
15हे राजन्, तब आपके पुत्रों ने द्रोण को इस प्रकार घेरकर, जैसे वसुगण वासव (इन्द्र) को घेर लेते हैं, भीमसेन पर आक्रमण किया।
16तत्पश्चात् शान्तनुपुत्र भीष्म, रथिश्रेष्ठ कृप, भगदत्त और सुशर्मा धनञ्जय पर टूट पड़े।
17हृदिकपुत्र और बाह्लीक — दोनों ने सात्यकि पर आक्रमण किया। राजा अम्बष्ठक अभिमन्यु से भिड़ा।
18हे महाराज, शेष योद्धा शत्रुपक्ष के अन्य महारथियों से जूझ पड़े। तब एक भयानक संग्राम आरम्भ हुआ, जिसका रूप सचमुच भयंकर था।
19हे नरेश्वर, युद्ध में आपके पुत्रों को देखकर भीमसेन क्रोध से इस प्रकार प्रज्वलित हो उठे, जैसे घृत पड़ने पर यज्ञाग्नि प्रज्वलित हो उठती है।
20हे राजन्, आपके पुत्रों ने उन कुन्तीपुत्र को बाणों की वर्षा से इस प्रकार ढक दिया, जैसे वर्षाकाल में मेघ जलधाराओं से पर्वत को ढक लेते हैं।
21हे नरेश्वर, तब आपके पुत्रों द्वारा इस प्रकार बाणों से ढके जाने पर व्याघ्र के समान फुर्तीले वे वीर भीम अपने मुख के कोने चाटने लगे।
22हे भरतवंशी, तत्पश्चात् उन्होंने अर्धचन्द्राकार फल वाले एक तीक्ष्ण बाण से व्यूढोरस्क को गिरा दिया; और वह प्राणों से रहित हो गया।
23फिर एक सुसंस्कृत और भलीभाँति तीक्ष्ण किए गए चौड़े फल वाले बाण से उन्होंने कुण्डलिन् को इस प्रकार गिरा दिया, जैसे सिंह किसी छोटे मृग को गिरा देता है।
24तब भीम ने अपनी प्रत्यञ्चा पर सुसंस्कृत और अत्यन्त तीक्ष्ण बाण चढ़ाए। हे तात, आपके पुत्रों के निकट पहुँचकर उन्होंने इन बाणों को बड़ी फुर्ती और अचूक निशाने से छोड़ा।
25उन दृढ़ धनुर्धर भीमसेन द्वारा छोड़े गए ये बाण आपके पुत्रों को, जो सभी महारथी थे, उनके आसनों से गिराने लगे।
26भीम ने अनाधृष्टि, कुण्डभेद, वैरात, दीर्घलोचन, दीर्घबाहु और कनकध्वज को गिरा दिया।
27हे भरतवंश के वंशज, गिरते हुए ये वीर ऐसे सुन्दर प्रतीत हुए, मानो वसन्त में मञ्जरियों से भरे आम्रवृक्ष गिर रहे हों।
28हे नरेश्वर, तब अत्यन्त पराक्रमी भीम को साक्षात् मूर्तिमान् काल मानकर आपके शेष पुत्र शीघ्रता से भाग खड़े हुए।
29तब आपके पुत्रों का संहार करते हुए उन वीर (भीम) को द्रोण ने बाणों की वर्षा से इस प्रकार ढक दिया, जैसे वर्षा की धाराएँ पर्वत के वक्षःस्थल को ढक लेती हैं।
30तब हमने कुन्तीपुत्र का अद्भुत पराक्रम देखा — क्योंकि स्वयं द्रोण द्वारा रोके जाने पर भी वे आपके पुत्रों का संहार करने में सफल रहे।
31जिस प्रकार बछिया आकाश से गिरती वर्षा की धारा सह लेती है, उसी प्रकार भीम ने द्रोण द्वारा छोड़ी गई बाणों की वर्षा को निर्भय होकर सह लिया।
32हे महाराज, वृकोदर ने सचमुच अद्भुत पराक्रम किया — क्योंकि वे एक ही साथ आपके पुत्रों का वध करने और द्रोण को रोकने में सफल रहे।
33हे महाराज, तब अर्जुन के ज्येष्ठ भ्राता आपके वीर पुत्रों के बीच इस प्रकार क्रीड़ा करने लगे, जैसे मृगों के झुण्ड के बीच कोई बलशाली व्याघ्र विचरता हो।
34जिस प्रकार गोधन के बीच घुसा भेड़िया उन्हें खदेड़ता और भयभीत करता है, उसी प्रकार उस युद्ध में वृकोदर ने आपके पुत्रों को कुचला और भयभीत किया।
35गङ्गापुत्र, भगदत्त तथा महारथी गौतमीपुत्र (कृप) — इन सबने युद्ध में स्वयं पाण्डुपुत्र अर्जुन का सामना किया।
36तब उन अतिरथी ने अपने अस्त्रों से शत्रुओं के अस्त्रों को रोककर शत्रुपक्ष के अनेक बलशाली वीरों को यमलोक भेज दिया।
37तब अभिमन्यु ने अपने बाणों से उन रथिश्रेष्ठ, विश्वविख्यात राजा अम्बष्ठ को उनके रथ से वञ्चित कर दिया।
38रथ से वञ्चित और यशस्वी सुभद्रापुत्र द्वारा घायल होकर वे लज्जा से शीघ्र ही अपने रथ से कूद पड़े और, हे नरेश्वर —
39— उन्होंने महात्मा सुभद्रापुत्र पर अपनी तलवार फेंकी। तत्पश्चात् वे अत्यन्त बलशाली वीर हृदिकपुत्र के रथ पर चढ़ गए।
40तब युद्ध की समस्त विधाओं में निपुण उन शत्रुवीरहन्ता अभिमन्यु ने वेग से आती हुई उस तलवार को देखकर अपनी गति की फुर्ती से उसके प्रहार को टाल दिया।
41हे नरेश्वर, उस युद्ध में सुभद्रापुत्र द्वारा उस तलवार को इस प्रकार व्यर्थ किया गया देखकर सेनाओं ने "साधु! साधु!" के उद्घोष से कोलाहल मचा दिया।
42स्वयं धृष्टद्युम्न के नेतृत्व वाले पाण्डवसेना के अन्य योद्धा आपके योद्धाओं से जूझ पड़े; और इसी प्रकार आपके योद्धा भी पाण्डवों की सेना से लड़े।
43तब जब वे इस प्रकार निर्दयतापूर्वक एक-दूसरे का संहार कर रहे थे और दुष्कर पराक्रम दिखा रहे थे, तब आपके और उनके योद्धाओं के बीच घोर युद्ध छिड़ गया।
44हे तात, उस युद्ध में योद्धा एक-दूसरे को केशों से खींचते हुए अपने नखों, दाँतों, मुक्कों और जाँघों से —
45— तथा अपनी तलवारों, हथेलियों और बलिष्ठ भुजाओं से एक-दूसरे पर प्रहार करते हुए लड़ते रहे। एक-दूसरे की दुर्बलताओं का लाभ उठाकर वे एक-दूसरे को यमलोक भेजते जाते थे।
46उस युद्ध में पिता ने पुत्र का और पुत्र ने पिता का वध किया; मनुष्य अपने समस्त अङ्गों का भरपूर उपयोग करते हुए लड़ते रहे।
47हे भरतवंशी, मारे गए योद्धाओं की पकड़ से छूटे हुए, स्वर्ण से सजी मूठों वाले सुन्दर धनुष तथा बहुमूल्य आभूषण —
48— और स्वर्ण अथवा रजत के पंखों से युक्त, तेल से चमकाए गए और अभी-अभी केंचुल त्यागे सर्पों के समान दिखने वाले तीक्ष्ण बाण रणभूमि में (बिखरे पड़े) चमक रहे थे।
49हाथीदाँत की मूठों वाली और स्वर्ण से सजी तलवारें तथा धनुर्धरों की स्वर्ण-जड़ित ढालें अपने धारकों की पकड़ से छूटकर रणभूमि में बिखरी पड़ी थीं।
50भाले, बरछे, फरसे और भल्ल — सभी स्वर्ण से सजे और स्वर्ण के समान वर्ण वाले —
51— और हे तात, सुन्दर कवच, भारी तथा हल्के मुद्गर, गदाएँ, फरसे और छोटे बाण —
52— तथा विविध आकार के हाथियों के साज-सामान, चामर, पंखे और स्वर्ण से चित्रित तथा सजे हुए अनेक धनुष रणभूमि में बिखरे पड़े थे।
53विविध शस्त्र हाथ में लिए रणभूमि में पड़े मनुष्य ऐसे दिखते थे मानो जीवित हों, यद्यपि वे महारथी सभी प्राणवायु से रहित हो चुके थे।
54गदाओं के प्रहार से चूर हुए शरीर लिए, मुद्गरों की चोट से फटे मस्तक लिए तथा रथों, हाथियों और घोड़ों द्वारा पूर्णतः कुचले हुए मनुष्य रणभूमि में पड़े थे।
55हे राजन्, तब मनुष्यों, हाथियों और घोड़ों के शवों तथा मृतदेहों से ढकी हुई पृथ्वी की सतह ऐसी प्रतीत होती थी, मानो छोटी-छोटी पहाड़ियों से ढकी हो।
56रणभूमि गिरे हुए भालों, तलवारों, बाणों, बरछों, कृपाणों, कुल्हाड़ियों, नुकीले खम्भों, लौह-दण्डों, फरसों, गदाओं, मुद्गरों, शतघ्नियों तथा शस्त्रों से क्षत-विक्षत शरीरों से पटी हुई थी।
57हे शत्रुहन्ता, कुछ योद्धाओं के मृत्यु में मौन पड़े रहने से, कुछ के अपने ही रक्त में लोटने से और कुछ के धीमे स्वर में कराहने से ढकी हुई वह पृथ्वी अत्यन्त (विचित्र रूप से) सुन्दर हो उठी।
58हे भरतवंशी, चन्दन से लिप्त तथा चर्मबन्धों और कङ्कणों से सजी बलशाली योद्धाओं की भुजाओं से, हाथियों की सूँड़ों के समान सुगठित जाँघों से तथा रत्नों और कुण्डलों से सुशोभित विशाल नेत्रों वाले योद्धाओं के कटे मस्तकों से पटी हुई वह रणभूमि सुन्दर रूप धारण कर गई।
59रक्त से सने कवचों और स्वर्ण के आभूषणों से ढकी हुई वह रणभूमि ऐसी अत्यन्त सुन्दर प्रतीत हुई, मानो मन्द ज्वालाओं वाली अग्नियाँ चारों ओर बिखरी हों।
60अपने स्थानों से छूटे विविध प्रकार के आभूषणों से, चारों ओर गिरे धनुषों से, स्वर्ण के पंखों वाले बिखरे बाणों से —
61— घण्टियों की पंक्तियों से सजे अनेक टूटे रथों से, रक्त से लथपथ और जीभें निकाले पड़े असंख्य मृत घोड़ों से —
62— बलशाली योद्धाओं के रथ-पीठों, ध्वजाओं, तूणीरों, पताकाओं तथा दूध के समान श्वेत विशाल शङ्खों से —
63— और रणभूमि में बिखरे सूँड़रहित हाथियों से — इन सबसे युक्त वह पृथ्वी विविध आभूषणों से सजी किसी युवती के समान मनोहर प्रतीत होती थी।
64तब भालों से बिंधे और अत्यन्त पीड़ित तथा अपनी सूँड़ों से बार-बार आर्तनाद करते अन्य हाथियों से भी वह रणभूमि ऐसी सुन्दर प्रतीत हुई, मानो चलते-फिरते पर्वतों से ढकी हो। विविध रंगों के कम्बलों तथा हाथियों के साज-सामान से —
65— नीलमणि से सजी मूठों वाले सुगठित अङ्कुशों से, यहाँ-वहाँ बिखरे विशाल हाथियों के घण्टों से —
66— अद्भुत कारीगरी के स्वच्छ झूलों से, रङ्कु मृगों के चर्मों से, सुन्दर हारों और स्वर्ण की पेटियों से —
67— युद्ध के अनेक टूटे उपकरणों से, स्वर्ण के भालों से, धूल से सने घोड़ों की स्वर्णझालर वाली अनेक छाती-रक्षिकाओं से —
68— कङ्कणों से सजी और चारों ओर बिखरी अश्वारोहियों की कटी भुजाओं से, तीक्ष्ण नोक वाले भलीभाँति माँजे गए भालों से तथा देदीप्यमान तलवारों से —
69— गिरकर इधर-उधर पड़ी रंग-बिरंगी पगड़ियों से, स्वर्ण के समान देदीप्यमान अद्भुत अर्धचन्द्राकार बाणों से —
70— रङ्कु मृगों के चर्मों से बने, फटे और मैले हुए घोड़ों के झूलों से, तथा राजाओं की पगड़ियों को सुशोभित करने वाले सुन्दर और बहुमूल्य रत्नों से —
71— चारों ओर बिखरे छत्रों, चामरों और पंखों से, तथा मनोहर कुण्डलों से सुशोभित योद्धाओं के चन्द्रमा अथवा कमल के समान मुखों से —
72— जो भलीभाँति सँवारी दाढ़ियों से शोभित थे और, हे राजन्, स्वर्ण के समान देदीप्यमान कुण्डलों से सुसज्जित थे —
73— इन सबसे पृथ्वी तारों और ग्रहों से जड़े आकाश के समान दिखाई देती थी। इस प्रकार, हे भरतवंशी, वे दोनों विशाल सेनाएँ एक-दूसरे को कुचलती रहीं —
74— युद्ध में एक-दूसरे से भिड़ते हुए। हे भरतवंशी, जब वे दोनों सेनाएँ कुचली, थकी और पूर्णतः छिन्न-भिन्न हो गईं,
75— तब रात्रि का भयावह पर्दा पृथ्वी पर छा गया और युद्ध दिखाई देना बन्द हो गया। तब कुरुओं और पाण्डवों ने रणभूमि से अपनी सेनाएँ हटा लीं।
76जब वह भयावह, घोर और भयंकर रात्रि आ गई, तब कुरु और पाण्डव दोनों ही अपनी सेनाएँ हटाकर अपने शिविरों में प्रविष्ट हुए और अपने-अपने डेरों में विश्राम करने चले गए।
Nepali
1सञ्जयले भने — आफ्ना पुत्र इरावान् मारिए भन्ने सुनेर धनञ्जय शोकले अभिभूत भए र सर्पझैँ लामो सास फेर्न थाले।
2हे राजन्, उनले रणभूमिमै वसुदेवका पुत्रलाई सम्बोधन गर्दै यी वचन भने — "निश्चय नै महाबुद्धिमान् उदारचेता विदुरले कुरु र पाण्डवहरूको यस भयङ्कर विनाशलाई पहिले नै जानिसकेका थिए। त्यसैले उनले राजा धृतराष्ट्रलाई मनाही गरेका थिए।
3हे मधुसूदन, यस रक्तरञ्जित युद्धमा हामी तथा कौरवहरूद्वारा असङ्ख्य अन्य वीर मारिइसकेका छन्।
4हे पुरुषश्रेष्ठ, धनका लागि नीच कर्म गरिँदै छन्। धिक्कार छ त्यस धनलाई, जसका लागि बन्धुहरूको यो विनाश गरिँदै छ।
5जससँग धन छैन, उसका लागि आफ्ना बन्धुहरूको वध गरेर धन प्राप्त गर्नुभन्दा मृत्यु नै श्रेयस्कर हो। हे कृष्ण, जम्मा भएका आफ्ना यी बन्धुहरूको वध गरेर हामीलाई कुन लाभ हुनेछ?
6दुर्योधनका दोषले, सुबलपुत्र शकुनिका दोषले तथा कर्णका दुष्ट सल्लाहले क्षत्रियहरूले विनाश भोगिरहेका छन्।
7हे मधुसूदन, हे महाबाहु, अब म बुझ्न सक्दै छु कि राजा (युधिष्ठिर)ले सुयोधनसँग केवल —
8— आधा राज्य अथवा केवल पाँच गाउँ मागेर कति महान् धर्मको कार्य गरेका थिए। तर त्यस कुटिल दुर्योधनले हाम्रा प्रार्थनामा कान नै दिएन। यी क्षत्रियहरूलाई, जो सबै साहसी योद्धा थिए, पृथ्वीको सतहमा परेको देखेर —
9— म आफैलाई धिक्कारेर मात्र रहन सक्दिनँ। धिक्कार छ क्षत्रियको जीवनलाई। यी क्षत्रियहरूले मलाई अब अझ लड्न असमर्थ ठान्न सक्छन्,
10— तर हे मधुसूदन, आफ्नै बन्धुहरूसँगको यो युद्ध मलाई अलिकति पनि प्रिय लाग्दैन। तैपनि, घोडाहरूलाई चाँडै धृतराष्ट्रका पुत्रहरूको सेनातिर हाँक्नुहोस्।
11म युद्धको यस दुस्तर समुद्रलाई आफ्ना पाखुराको बलले पार गर्नेछु। हे माधव, निश्चय नै यो स्त्रीसुलभ भावनाको प्रदर्शन गर्ने समय होइन।"
12पृथापुत्रद्वारा यसरी भनिएपछि शत्रुवीरहरूका संहारक केशवले वायुसमान वेग भएका ती दुग्धवर्ण घोडाहरूलाई अगाडि बढाए।
13हे भरतवंशी, तब तपाईंको सेनाले कान बहिरो पार्ने यस्तो कोलाहल मच्चायो, जस्तो औंसी अथवा पूर्णिमाको दिन वायुले प्रचण्ड भएको समुद्रको हुन्छ।
14हे महाराज, तब अपराह्नमा भीष्म र पाण्डवहरूबीच जुन युद्ध भयो, त्यसको शब्द वर्षाका मेघ (पर्जन्य)को गडगडाहटसमान थियो।
15हे राजन्, तब तपाईंका पुत्रहरूले द्रोणलाई यसरी घेरेर, जसरी वसुगणले वासव (इन्द्र)लाई घेर्दछन्, भीमसेनमाथि आक्रमण गरे।
16त्यसपछि शान्तनुपुत्र भीष्म, रथिश्रेष्ठ कृप, भगदत्त र सुशर्मा धनञ्जयमाथि जाइलागे।
17हृदिकपुत्र र बाह्लीक — दुवैले सात्यकिमाथि आक्रमण गरे। राजा अम्बष्ठक अभिमन्युसँग भिडे।
18हे महाराज, बाँकी योद्धाहरू शत्रुपक्षका अन्य महारथीहरूसँग जुधे। तब एउटा भयानक सङ्ग्राम सुरु भयो, जसको रूप साँच्चै भयङ्कर थियो।
19हे नरेश्वर, युद्धमा तपाईंका पुत्रहरूलाई देखेर भीमसेन क्रोधले यसरी प्रज्वलित भए, जसरी घिउ खस्दा यज्ञाग्नि प्रज्वलित हुन्छ।
20हे राजन्, तपाईंका पुत्रहरूले ती कुन्तीपुत्रलाई बाणको वर्षाले यसरी छोपिदिए, जसरी वर्षाकालमा मेघले जलधाराले पर्वत छोप्दछन्।
21हे नरेश्वर, तब तपाईंका पुत्रहरूद्वारा यसरी बाणले छोपिँदा बाघजस्तै फुर्तिला ती वीर भीम आफ्नो मुखका कुना चाट्न थाले।
22हे भरतवंशी, त्यसपछि उनले अर्धचन्द्राकार फलको एउटा तिखो बाणले व्यूढोरस्कलाई ढालिदिए; र ऊ प्राणविहीन भयो।
23अनि एउटा सुसंस्कृत र राम्ररी तिखारिएको चौडा फलको बाणले उनले कुण्डलिन्लाई यसरी ढालिदिए, जसरी सिंहले कुनै सानो मृगलाई ढाल्दछ।
24तब भीमले आफ्नो ताँदोमा सुसंस्कृत र अत्यन्त तिखा बाण चढाए। हे तात, तपाईंका पुत्रहरूको नजिक पुगेर उनले यी बाण ठूलो फुर्ती र अचूक निसानाले छोडे।
25ती दृढ धनुर्धर भीमसेनद्वारा छोडिएका यी बाणले तपाईंका पुत्रहरूलाई, जो सबै महारथी थिए, तिनका आसनबाट ढाल्न थाले।
26भीमले अनाधृष्टि, कुण्डभेद, वैरात, दीर्घलोचन, दीर्घबाहु र कनकध्वजलाई ढालिदिए।
27हे भरतवंशका वंशज, ढल्दै गरेका यी वीरहरू यस्ता सुन्दर देखिए, मानौँ वसन्तमा मञ्जरीले भरिएका आँपका रूख ढल्दै छन्।
28हे नरेश्वर, तब अत्यन्त पराक्रमी भीमलाई साक्षात् मूर्तिमान् काल ठानेर तपाईंका बाँकी पुत्रहरू हतारिँदै भागे।
29तब तपाईंका पुत्रहरूको संहार गर्दै गरेका ती वीर (भीम)लाई द्रोणले बाणको वर्षाले यसरी छोपिदिए, जसरी वर्षाका धाराले पर्वतको छाती छोप्दछन्।
30तब हामीले कुन्तीपुत्रको अद्भुत पराक्रम देख्यौँ — किनभने स्वयं द्रोणद्वारा रोकिँदा पनि उनी तपाईंका पुत्रहरूको संहार गर्नमा सफल भए।
31जसरी बाच्छीले आकाशबाट खस्ने वर्षाको धारा सहन्छ, त्यसै गरी भीमले द्रोणले छोडेको बाणको वर्षालाई निर्भय भई सहे।
32हे महाराज, वृकोदरले साँच्चै अद्भुत पराक्रम गरे — किनभने उनी एकैसाथ तपाईंका पुत्रहरूको वध गर्न र द्रोणलाई रोक्न सफल भए।
33हे महाराज, तब अर्जुनका ज्येष्ठ दाजु तपाईंका वीर पुत्रहरूको बीचमा यसरी क्रीडा गर्न थाले, जसरी मृगहरूको बथानबीच कुनै बलशाली बाघ विचरण गर्दछ।
34जसरी गाईगोरुको बथानभित्र पसेको ब्वाँसोले तिनलाई लखेट्दछ र भयभीत पार्दछ, त्यसै गरी त्यस युद्धमा वृकोदरले तपाईंका पुत्रहरूलाई कुल्चे र भयभीत पारे।
35गङ्गापुत्र, भगदत्त तथा महारथी गौतमीपुत्र (कृप) — यी सबैले युद्धमा स्वयं पाण्डुपुत्र अर्जुनको सामना गरे।
36तब ती अतिरथीले आफ्ना अस्त्रले शत्रुहरूका अस्त्र रोकेर शत्रुपक्षका अनेक बलशाली वीरलाई यमलोक पठाइदिए।
37तब अभिमन्युले आफ्ना बाणले ती रथिश्रेष्ठ, विश्वविख्यात राजा अम्बष्ठलाई तिनको रथबाट वञ्चित पारिदिए।
38रथबाट वञ्चित र यशस्वी सुभद्रापुत्रद्वारा घाइते भई उनी लाजले चाँडै आफ्नो रथबाट हामफाले र, हे नरेश्वर —
39— उनले महात्मा सुभद्रापुत्रमाथि आफ्नो तरबार फ्याँके। त्यसपछि ती अत्यन्त बलशाली वीर हृदिकपुत्रको रथमा चढे।
40तब युद्धका सम्पूर्ण विधामा निपुण ती शत्रुवीरहन्ता अभिमन्युले वेगले आइरहेको त्यस तरबारलाई देखेर आफ्नो गतिको फुर्तीले त्यसको प्रहार टारिदिए।
41हे नरेश्वर, त्यस युद्धमा सुभद्रापुत्रद्वारा त्यो तरबार यसरी व्यर्थ पारिएको देखेर सेनाहरूले "साधु! साधु!" को उद्घोषले कोलाहल मच्चाए।
42स्वयं धृष्टद्युम्नको नेतृत्वमा रहेका पाण्डवसेनाका अन्य योद्धाहरू तपाईंका योद्धाहरूसँग जुधे; र त्यसै गरी तपाईंका योद्धाहरू पनि पाण्डवहरूको सेनासँग लडे।
43तब जब तिनीहरू यसरी निर्दयतापूर्वक एकअर्काको संहार गरिरहेका थिए र दुष्कर पराक्रम देखाइरहेका थिए, तब तपाईंका र तिनका योद्धाहरूबीच घोर युद्ध छेडियो।
44हे तात, त्यस युद्धमा योद्धाहरू एकअर्कालाई कपालले तान्दै आफ्ना नङ, दाँत, मुक्का र तिघ्राले —
45— तथा आफ्ना तरबार, हत्केला र बलिष्ठ पाखुराले एकअर्कामाथि प्रहार गर्दै लडिरहे। एकअर्काका कमजोरीको लाभ उठाएर तिनीहरू एकअर्कालाई यमलोक पठाउँदै गए।
46त्यस युद्धमा पिताले पुत्रको र पुत्रले पिताको वध गरे; मानिसहरू आफ्ना सम्पूर्ण अङ्गको भरपूर उपयोग गर्दै लडिरहे।
47हे भरतवंशी, मारिएका योद्धाहरूको समाइबाट फुत्केका, सुनले सजिएका मूठ भएका सुन्दर धनु तथा बहुमूल्य आभूषण —
48— र सुन अथवा चाँदीका पखेटा भएका, तेलले चम्काइएका र भर्खरै काँचुली फेरेका सर्पजस्तै देखिने तिखा बाण रणभूमिमा (छरिएर) चम्किरहेका थिए।
49हात्तीको दाँतका मूठ भएका र सुनले सजिएका तरबारहरू तथा धनुर्धरहरूका सुनजडित ढालहरू आफ्ना धारकहरूको समाइबाट फुत्केर रणभूमिमा छरिएका थिए।
50भाला, बर्छी, बन्चरो र भल्ल — सबै सुनले सजिएका र सुनसमान वर्णका —
51— र हे तात, सुन्दर कवच, गह्रौँ तथा हलुका मुड्गर, गदा, बन्चरो र साना बाण —
52— तथा विविध आकारका हात्तीका साजसामान, चमर, पङ्खा र सुनले चित्रित तथा सजिएका अनेक धनु रणभूमिमा छरिएका थिए।
53विविध शस्त्र हातमा लिएर रणभूमिमा परेका मानिसहरू यस्ता देखिन्थे मानौँ जीवित छन्, यद्यपि ती महारथीहरू सबै प्राणवायुबाट रहित भइसकेका थिए।
54गदाका प्रहारले चूर भएका शरीर लिएर, मुड्गरका चोटले फुटेका शिर लिएर तथा रथ, हात्ती र घोडाहरूद्वारा पूर्णतः कुल्चिएका मानिसहरू रणभूमिमा परेका थिए।
55हे राजन्, तब मानिस, हात्ती र घोडाका शव तथा मृतदेहले छोपिएको पृथ्वीको सतह यस्तो देखिन्थ्यो, मानौँ साना-साना डाँडाले छोपिएको छ।
56रणभूमि खसेका भाला, तरबार, बाण, बर्छी, कृपाण, बन्चरो, टुप्पे खम्बा, फलामे दण्ड, फरसा, गदा, मुड्गर, शतघ्नी तथा शस्त्रले क्षतविक्षत शरीरले भरिएको थियो।
57हे शत्रुहन्ता, कतिपय योद्धा मृत्युमा मौन परेकाले, कतिपय आफ्नै रगतमा लडिरहेकाले र कतिपय मधुरो स्वरमा कन्थन गरिरहेकाले छोपिएको त्यो पृथ्वी अत्यन्त (विचित्र रूपले) सुन्दर भयो।
58हे भरतवंशी, चन्दनले लेपिएका तथा चर्मबन्ध र कङ्कणले सजिएका बलशाली योद्धाहरूका पाखुराले, हात्तीका सुँडजस्तै सुगठित तिघ्राले तथा रत्न र कुण्डलले सुशोभित विशाल नेत्र भएका योद्धाहरूका काटिएका शिरले भरिएको त्यो रणभूमिले सुन्दर रूप धारण गर्यो।
59रगतले सनिएका कवच र सुनका आभूषणले छोपिएको त्यो रणभूमि यस्तो अत्यन्त सुन्दर देखियो, मानौँ मन्द ज्वाला भएका अग्निहरू चारैतिर छरिएका छन्।
60आफ्ना ठाउँबाट फुत्केका विविध प्रकारका आभूषणले, चारैतिर खसेका धनुले, सुनका पखेटा भएका छरिएका बाणले —
61— घण्टीका पङ्क्तिले सजिएका अनेक भाँचिएका रथले, रगतले लतपतिएका र जिब्रो निकालेर परेका असङ्ख्य मृत घोडाले —
62— बलशाली योद्धाहरूका रथपीठ, ध्वजा, तूणीर, पताका तथा दूधजस्तै सेता विशाल शङ्खले —
63— र रणभूमिमा छरिएका सुँडविहीन हात्तीले — यी सबैले युक्त त्यो पृथ्वी विविध आभूषणले सजिएकी कुनै युवतीसमान मनोहर देखिन्थ्यो।
64तब भालाले बिँधिएका र अत्यन्त पीडित तथा आफ्ना सुँडले बारम्बार आर्तनाद गर्दै गरेका अन्य हात्तीले पनि त्यो रणभूमि यस्तो सुन्दर देखियो, मानौँ हिँड्ने पर्वतले छोपिएको छ। विविध रङका कम्बल तथा हात्तीका साजसामानले —
65— नीलमणिले सजिएका मूठ भएका सुगठित अङ्कुशले, यताउता छरिएका विशाल हात्तीका घण्टले —
66— अद्भुत कारीगरीका स्वच्छ झुलले, रङ्कु मृगका छालाले, सुन्दर हार र सुनका पेटीले —
67— युद्धका अनेक भाँचिएका उपकरणले, सुनका भालाले, धूलोले सनिएका घोडाका सुनझल्लर भएका अनेक छाती-रक्षकले —
68— कङ्कणले सजिएका र चारैतिर छरिएका अश्वारोहीहरूका काटिएका पाखुराले, तिखो टुप्पो भएका राम्ररी माझिएका भालाले तथा देदीप्यमान तरबारले —
69— खसेर यताउता परेका रङ्गीबिरङ्गी फेटाले, सुनसमान देदीप्यमान अद्भुत अर्धचन्द्राकार बाणले —
70— रङ्कु मृगका छालाबाट बनेका, च्यातिएका र मैला भएका घोडाका झुलले, तथा राजाहरूका फेटा सुशोभित गर्ने सुन्दर र बहुमूल्य रत्नले —
71— चारैतिर छरिएका छत्र, चमर र पङ्खाले, तथा मनोहर कुण्डलले सुशोभित योद्धाहरूका चन्द्रमा अथवा कमलसमान मुखले —
72— जो राम्ररी मिलाइएका दाह्रीले शोभित थिए र, हे राजन्, सुनसमान देदीप्यमान कुण्डलले सुसज्जित थिए —
73— यी सबैले पृथ्वी तारा र ग्रहले जडिएको आकाशसमान देखिन्थ्यो। यसरी, हे भरतवंशी, ती दुवै विशाल सेनाले एकअर्कालाई कुल्चिरहे —
74— युद्धमा एकअर्कासँग भिड्दै। हे भरतवंशी, जब ती दुवै सेना कुल्चिइए, थाकिए र पूर्णतः छिन्नभिन्न भए,
75— तब रातको भयावह पर्दा पृथ्वीमा छायो र युद्ध देखिन बन्द भयो। तब कुरु र पाण्डवहरूले रणभूमिबाट आआफ्ना सेना हटाए।
76जब त्यो भयावह, घोर र भयङ्कर रात आयो, तब कुरु र पाण्डव दुवैले आआफ्ना सेना हटाएर आफ्ना शिविरमा प्रवेश गरे र आआफ्ना डेरामा विश्राम गर्न गए।