Aranyaka Parva — The Pandava's reflections
Volume II — Vana Parva · Chapter 2
Sanskrit
1वैशम्पायन उवाच प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्। वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽचतः॥
2तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठरः। वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः॥ फलमूलाशनाहारा वनं गच्छाम दुःखिताः। वनं च दोषबहुलं बहुव्यालसरीसृपम्॥
3परिक्लेशश्च वो मन्येध्रुवं तत्र भविष्यति। ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्। किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः॥
4ब्राह्मणा ऊचु: गतिर्या भवतां राजस्तां वयं गन्तुमुद्यताः। नार्हस्यस्मान् परित्यक्तुं भक्तान् सद्धर्मदर्शिनः॥
5अनुकम्पां हि भक्तेषु देवता ह्यपि कुर्वते। विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु॥
6युधिष्ठिर उवाच ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः। सहायविपरिभ्रंशस्त्वयं सादयतीव माम्॥ आहरेयुरिमे येऽपि फलमूलमधूनि च। त इमे शोकजैर्दुःखैर्धातरो मे विमोहिताः॥ द्रौपद्या विप्रकर्षण राज्यापहरणेन च। दुःखार्दितानिमान् क्लेशैर्नाहं योक्तुमिहोत्सहे॥
7ब्राह्मणा ऊचुः अस्मत्पोषणजा चिन्ता मा भूत् ते हृदि पार्थिव। स्वयमाहत्य चान्नानि त्वानुयास्यामहे वयम्॥
8अनुध्यानेन जप्येन विधास्यामः शिवं तव। कथाभिश्चाभिरम्याभिः सह रंस्यामहे वयम्॥
9युधिष्ठिर उवाच एवमेतत्र संदेहो रमेऽहं सततं द्विजैः। न्यूनभावात् तु पश्यामि प्रत्यादेशमिवात्मनः॥
10कथं द्रक्ष्यामि वः सर्वान् स्वयमाहृतभोजनान्। मद्भक्त्या क्लिश्यतोऽनर्हान् धिक् पापान्धृतराष्ट्रजान्।
11वैशम्पायन उवाच इत्युक्त्वा स नृपः शोचन निषसाद महीतले। यात्मरतो विद्वाञ्छौनको नाम वै द्विजः॥ योगे सांख्ये च कुशलो राजानमिदमब्रवीत्॥
12शोकस्थानसहस्राणि भयस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥
13न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु। श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥
14अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोऽभिघातिनीम्। श्रुतिस्मृतिसमायुक्तां राजन् सा त्वय्यवस्थिता॥
15अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च। शारीरमानसैर्दुःखैन सीदन्ति भवद्विधाः॥
16श्रूयतां चाभिधास्यामि जनकेन यथा पुरा। आत्मव्यवस्थानकरा गीताः श्लोका महात्मना॥
17मनोदेहसमुत्थाभ्यां दुःखाभ्यमर्दितं जगत्। त्योर्व्याससमासाभ्यां शमोपायमिमं शृणु॥
18व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविर्वजनात्। दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते॥
19तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्। आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु॥
20मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते। मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम्॥
21मानसेन हि दुःखेन शरीरमुपतप्यते। अय:पिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्॥
22मानसं शमयेत् तस्माज्ज्ञानेनाग्निमिवाम्बुना। प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति॥
23मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते। स्नेहात् तु सज्जते जन्तुर्दुःखयोगमुपैति च॥
24स्नेहमूलानि दुःखानि स्नेहजानि भयानि च। शोकहर्षों तथाऽऽयासः सर्वं स्नेहात् प्रवर्तते॥ स्नेहाद् भावोऽनुरागश्च प्रजज्ञे विषये तथा। अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः॥
25कोटराग्निर्यथाशेषं समूलं पादपं दहेत्। धर्मार्थो तु तथाल्पोऽपि रागदोषो विनाशयेत्॥
26विप्रयोगे न तु त्यागी दोषदर्शी समागमे। विरागं भजते जन्तुर्निवैरो निरवग्रहः॥
27तस्मात् स्नेहं न लिप्सेत मित्रेभ्योधनसंचयात्। स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्॥
28ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु। न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्॥
29रागाभिभूतः पुरुषः कामेन परिकृष्यते। इच्छा संजायते तस्य ततस्तृष्णा विवर्धते॥ तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता। अधर्मबहुला चैव घोरा पापानुबन्धिनी॥
30या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥३६
31अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्। विनाशयति भूतानि अयोनिज इवानलः॥
32यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति। तथाकृतात्मा लोभेन सहजेन विनश्यति॥
33राजतः सलिलादग्नेश्चोरतः स्वजनादपि। भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥
34यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि। भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान्॥
35अर्थ एव हि केषांचिदनर्थं भजते नृणाम्। अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः॥
36तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः। कार्पण्यं दर्पमानौ च भयमुद्वेग एव च॥ अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्। अर्थस्योत्पादने चैव पालने च तथा क्षये।॥ सहन्ति च महद् दुःखं प्रन्ति चैवार्थकारणात्। अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः॥
37दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत्। असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः॥
38अन्तो नास्ति पिपासायाः संतोषः परमं सुखम्। तस्मात् संतोषमेवेह परं पश्यन्ति पण्डिताः॥
39अनित्यं यौवनं रूपं जीवितं रत्नसंचयः। ऐश्पर्य प्रियसंवासो गृध्येत् तत्र न पण्डितः॥
40त्यजेत संचयांस्तस्मात्तज्जान् क्लेशान् सहेत च। न हि संचयवान् कश्चिद् दृश्यते निरुपद्रवः। अतश्चधार्मिकैः पुंभिरनीहार्थः प्रशस्यते॥
41धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता। प्रक्षालनाद्धि पंकस्य श्रेयो न स्पर्शनं नृणाम्॥
42युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि। धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः॥
43युधिष्ठिर उवाच नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम। भरणार्थं तु विप्राणां ब्रह्मन् काझे न लोभतः॥
44कथं ह्यस्मद्विधो ब्रह्मन् वर्तमानो गृहाश्रमे। भरणं पालनं चापि न कुर्यादनुयायिनाम्॥
45संविभागो हि भूतानां सर्वेषामेव दृश्यते। तथैवापचमानेभ्यः प्रदेयं गृहमेधिना॥
46तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता। सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥ देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्। तृषितस्य च पानीयं क्षुधितस्य च भोजनम्॥
47चक्षुर्दद्यान्मनो दद्याद् वाचं दद्यात् सुभाषिताम्। उत्थाय चासनं दद्यादेषधर्मः सनातनः। प्रत्युत्थायाभिगमनं कुर्यात्र्यायेन चार्चनम्॥ अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः। पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः॥ आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत् पशून्। न च तत् स्वयमश्नीयाद् विधिवद् यन्न निर्वपेत्॥
48श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद् भुवि। वैश्वदेवं हि नामैतत् सायं प्रातश्च दीयते॥
49विघसाशी भवेत् तस्मान्नित्यं चामृतभोजनः। विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्॥
50चक्षुर्दघान्मनो दद्याद् वाचं दद्याच्च सूनृताम्। अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः॥
51यो दद्यादपरिक्लिष्टमध्वनि वर्तते। श्रान्तायदृष्टपूर्वाय तस्य पुण्यफलं महत्॥
52एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे। तस्यधर्म परं प्राहुः कथं वा विप्र मन्यसे॥
53शौनक उवाच अहो वत महत् कष्टं विपरीतमिदं जगत्। येनापत्रपते साधुरसाधुस्तेन तुष्यति॥
54शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु। मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः॥
55ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः। विमूढसंज्ञो दुष्टाश्वैरुद्धान्तैरिव सारथिः॥
56षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा। तदा प्रादुर्भवत्येषां पूर्वसंकल्पजं मनः॥
57मनो यस्येन्द्रियस्येह विषयान् याति सेवितुम्। तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते॥
58ततः संकल्पबीजेन कामेन विषयेषुभिः। विद्धः पतति लोभाग्नौ ज्योतिर्लोभात् पतङ्गवत्॥
59ततो विहारैराहारैर्मोहितश्च यथेप्सया। महामोहे सुखे मग्नो नात्मानमवबुध्यते॥ एवं पतति संसारे तासु तास्विह योनिषु। अविद्याकर्मतृष्णाभिर्धाम्यमाणोऽथ चक्रवत्॥ ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते। जले भुवि तथाऽऽकाशे जायमानः पुनः पुनः॥
60अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु। येधर्मे श्रेयसि रता विमोक्षरतयो जनाः॥
61तदिदं वेदवचनं कुरु कर्म त्यजेति च। तस्माद्धर्मानिमान् सर्वान् नाभिमानात् समाचरेत्।७४॥
62इज्याध्ययनदानानि तपः सत्यं क्षमा दमः। अलोभ इति मार्गोऽयंधर्मस्याष्टविधः स्मृतः॥
63अब पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः। कर्तव्यमिति यत् कार्यं नाभिमानात् समाचरेत्॥
64उत्तरो देवयानस्तु सद्भिराचरितः सदा। अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्॥
65सम्यक्संकल्पसंबन्धात् सम्यक् चेन्द्रियनिग्रहात् सम्यग्व्रतविशेषाच्च सम्यक च गुरुसेवनात्॥ सम्यगाहारयोगाच्च सम्यक् चाध्ययनागमात्। सम्यक्कर्मोपसंन्यासात् सम्यक्चित्तनिरोधनात्॥ एवं कर्माणि कुर्वन्ति संसारविजिगीषवः। रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः॥
66रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ। योगैश्वर्येण संयुक्ताधारयन्ति प्रजा इमाः॥
67तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्। तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत॥
68पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते। तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै॥
69सिद्धा हि यद् यदिच्छन्ति कुर्वते तदनुग्रहात्। तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्॥
English
1Vaishampayana said : When that night passed away and morning appeared, those Brahmanas, who supported themselves by alms, stood before those doers of exalted deeds (the Pandavas) who were on the point of entering the forest.
2Thereupon the of Kunti, king Yudhishthira, thus spoke to them, “We are robbed to our kingdom, prosperity and everything. Living on fruits, roots and meat we go to the forest in sorrow. The forest is full of dangers and it abounds in reptiles and beasts of prey.
3It appears to me that you will have to suffer much privations and misery there. The sufferings of the Brahmanas may overwhelm even the celestials, what to speak of me! O Brahmanas, go back wherever you like.
4The Brahmanas said: O king, we are ready to go where you are going. You should not abandon us who are devoted to you and who follow the path of the true religion.
5The celestials have compassion on their devotees, specially on the Brahmanas whose conduct is pure.
6Yudhishthira said : O Brahmanas, I have always great devotion towards the Brahmanas. But this destitution has overwhelmed me. My these brothers who are to procure fruits and roots and the deer are stupified with grief for the afflictions that have overtaken them and for the distress of Draupadi and for the loss of our kingdom. Alas, as they are distressed, I cannot employ them in painful tasks!
7The Brahmanas said : O king, do not allow any anxiety for our maintenance to find a place in your heart. Procuring our food ourselves, we shall follow you.
8And we shall do you good by meditation and prayers and we shall entertain you with pleasant conversation and we shall ourselves be cheered in return.
9Yudhishthira said: There is no doubt that it must be as you say. I am ever pleased with the company of Brahmanas. But my fallen condition makes me regard myself as an object of reproach.
10How shall I see you all, my well-wishers, who do not deserve to suffer any trouble, subsist on food procured by yourselves? O fie on the sons of Dhritarashtra!
11Vaishampayana said : Having said this, that king (Yudhishthira) sat down weeping on the ground. Then a learned Brahmana, named Shaunaka, who was learned in the philosophy of the soul and in the Sankhya and Yoga, thus spoke to the king.
12Shaunaka said : Thousand causes of grief and hundred causes of fear overwhelm the ignorant day after day, but not the learned.
13Intelligent men like you never allow themselves to be deluded by acts which are opposed to true knowledge, which is fought with every kind of evil and which is destructive of salvation.
14O king, the understanding with the eight attributes, which is said to be capable of providing against all evils which results from the study of the Shrutis, is in you.
15Men like you are never stupified by poverty or by meeting with difficult ways or by afflictions that overtake his friends or by bodily or mental miseries.
16Hear, I shall recite to you the slokas which were chanted by the high-souled Janaka of old on the subject of controlling the soul.
17This world is afflicted with both bodily and mental sufferings. Listen to the means of allaying them as I indicate them both briefly and in detail.
18Disease, contact with painful things, toil and want of objects desired, these are the four causes of the sufferings of the body.
19Disease may be allayed by the application of medicine, but mental ailments, are cured by Yoga meditation.
20Therefore, intelligent physicians first seek to allay the mental sufferings of their patients by agreeable conversations and by the offer of desirable objects.
21As a hot iron ball makes the water of a jar hot, so mental grief brings in bodily pains.
22As water quenches fire, so knowledge allays mental ailments. When mind enjoys' peace, body also enjoys peace.
23It appears attachment is the root of all mental agonies; it is attachment that makes every creature miserable and brings on every kind of woe.
24Attachment is the root of all misery and of all fear. Attachment produces joy and grief of every kind. From attachment spring all worldly desires and it is from attachment that springs the love of worldly goods. Both of these are evils, but the first is worse than the second.
25As fire in the hollow of a tree consumes the tree itself to its roots, so attachment, however little it may be, destroys both Dharma and Artha,
26He, who has merely withdrawn from possessions, cannot be regarded as to have renounced the world. He, however, who remains in contact with the world, but sees its faults, may be said to have truly renounced the world. Such a man becomes freed from all evil passions and his soul is dependent on nothing.
27Therefore none should place his attachment on either friends or on wealth which he has carned. The attachment towards one's own body is destroyed by knowledge.
28Like the lotus leaf which is never drenched by water, souls of those men who are capable of knowing the everlasting and of men who are devoted to the pursuit of the eternal, learned in the Shastras and purified by knowledge, can never be touched by attachment.
29The man that is influenced by itachment is tortured by desire and from the desire that springs up in his heart, his thirst for worldly possessions increases. This thirst is sinful and is regarded as the source of all anxieties. It is this terrible thirst, fraught with sin, that leads to unrighteous acts.
30Those men, who can renounce this thirst, which can never be renounced by the wicked, which decays not with the decay of the body and which is a fatal disease, can be freed from misery.
31This thirst has neither beginning nor end. Like the fire of incorporeal origin, it destroys creatures by living within their hearts.
32As a faggot of wood is consumed by the fire that is fed by that faggot, so a person of impure soul meets with destruction from the covetousness born in his own heart.
33Creatures endued with life have always a dread of death; so men having wealth are in constant dread of the king, the water, the fire, the thief and his relatives.
34If a piece of meat be in the air, it may be devoured by the birds, if it is on the grounds, it may be devoured by beasts of prey and if in the water, by the fishes, so a man having wealth is exposed to dangers wherever he might be.
35To many men, the wealth they possess is their bane. The man, who sees happiness in wealth and becomes attached to it, knows not what true happiness is.
36Therefore, the accession of wealth is what increases covetousness and folly. It is the root of niggardliness, boastfulness, pride, fear and anxiety. These are the miseries that wise men see in wealth. Men have to suffer infinite miseries in the acquisition and retention of wealth. Its expenditure also is painful. Sometimes men are even killed for the sake of wealth. To abandon wealth is painful; even those men who are cherished become enemies for the sake of wealth.
37As the possession of wealth is fraught with such misery, one should not (at all) mind its loss. Ignorant men alone are discontented, but the wise men are always contented.
38The thirst for wealth can never be assuaged. Contentment is the highest happiness, therefore the wise men consider contentment to be the highest object to attain.
39The learned men, knowing youth, beauty, life, treasure, prosperity and association with beloved ones to be (all) unstable, never covet them.
40Therefore one should refrain from the acquisition of wealth and thus avoid the sufferings of misery. The man of wealth can never be without dangers. For this reason virtuous men praise those who have no desire for wealth.
41As regards those that acquire wealth for the virtuous purposes, it is better for them not to do it at all. It is better not to touch mud than to wash it off after being besmeared with it.
42O Yudhishthira, you should not covet anything. It you want to acquire virtue, free yourself from all desires for the possession of wealth.
43Yudhishthira said: O Brahmana, this my desire for wealth is not for the purpose of enjoying it when obtained. I do not desire it through avarice. I desire it only for the support of the Brahmanas.
44O Brahmana, for what purpose would one like to lead a domestic life, if he cannot cherish and support those that follow him?
45All creatures are seen to divide their food among those that depend on them. So should person leading a domestic life give a share of his food to Brahmacharis who have given up cooking.
46"The houses of good men can never be in want of grass, space, water and sweet words, the fourth. Bed to the tired, seat to one who is fatigued by standing, water to on who is thirsty and food to one who is hungry should be always given.
47Pleasant looks, cheerful heart and sweet words are due to a guest. Rising up, the host should advance towards the guest; he should offer him a seat and duly worship him. This is the eternal Dharma. They who do not perform Agnihotra, they who do not wait upon bulls and cherish their kinsmen, guest, friends, sons, wives and servants, for such negligence are consumed with sin. None should cook his food for himself, none should kill any animal for nothing. Non should eat that food which is not duly dedicated.
48By scattering morning and evening food on the earth for dogs, Chandalas and birds, a person should perform the Vishvadeva (sacrifice).
49He who eats Vighasa eats ambrosia. That, which remains after dedication in a sacrifice, is (also) regarded as ambrosia.
50The pleasant looks (one casts on his guests), the attention he devotes to him, the sweet words with which he addresses him, the respect with which he follows him and the food and drink with which he treats him, are the five Dakshinas in that sacrifice.
51He, who gives food freely to a fatigued way. farer, whom he has never seen before, obtains grcat virtuous merit.
52He, who leading domestic life, follows such practices, obtains, it is said, great religious merit. O Brahmana, what is your opinion?
53Shaunaka said: Alas, alas this worlds is full of contradictions! That which makes the good and the honest ashamed gratifies the wicked.
54Move by ignorance and passions and becoming slaves to their senses, ignorant men perform many acts to gratify their stomachs an sexual organs.
55Men are lcd astray by their seducing senses, as a charioteer who has lost his senses (is led। astray) by wicked horses.
56When any of the six senses finds its ! particular object, the desire springs up in the heart to enjoy that particular object.
57Thus when one's mind proceeds to enjoy the objects of any particular sense, a wish is entertained; that wish in its turn gives birth to a resolve.
58As an insect falls into a flame from love of light, man falls into the fire of temptation, as it were pierced by the arrows of the objects of enjoyments) which are discharged by the desire which is the seed of resolve.
59Blinded by sensual pleasure which he freely seeks and steeped in dark ignorance and folly which he mistakes for happiness, he thenceforth knows not himself. Like a wheel that is incessantly whirling, every creature, from ignorance, acts and desire, roves in various states in the world, wandering from one birth to another, ranging from Brahma to a blade of grass, an taking birth again and again now in water, now in earth and now in the sky.
60This is the career of those that are without knowledge. Listen to that of the wise, the men who are intent on virtue and who are desirous of Moksha (emancipation).
61This is the word of the Vedas, act, but act with renunciation. Therefore you should act renouncing Abhimana.
62Performances of sacrifices, study, gifts, penance, truth, forgiveness, subduing the senses and renunciation of desire, these are the eight Dharmas declared by the Smriti.
63Of these the first four pave the way to the regions of Pitris. Therefore it is the duty of all to act by renouncing Abhimana.
64The last four are always observed by the pious who aspire to attain to the region of the celestials. The men of pure soul should observe these eight (paths).
65Those, who wish to subdue the world for the purposes of salvation, should always act by fully renouncing all motives and by subduing their senses, rigidly observing vows, devotedly serving their preceptors, austerely regulating their food, diligently studying the Vedas, renouncing action as mean and restraining their heart. By renouncing desire and aversions, the celestials have obtained prosperity.
66It is for the virtue of their wealth of Yoga, that the Rudras, the Sadhyas, the Adityas, the Vasus and the Ashvins support all these creatures (of the world).
67O son of Kunti, O descendant of Bharata, therefore you too like them, entirely renouncing actions with motive, try to obtain success in Yoga and austerities.
68You have already obtained success as far as your debts to the Pitris, both male and female are concerned and you have obtained that success also which is derived from action. Try now to obtain success in from action. Try now to obtain success in penances in order to support the Brahmanas.
69Those that are crowned with ascetic success can by virtue of that success do whatever they like. Therefore practising asceticism, realise all your wishes.
Hindi
1वैशम्पायन ने कहा — वह रात्रि बीत जाने पर और प्रातःकाल होने पर, भिक्षा से अपना निर्वाह करने वाले वे ब्राह्मण उन महाकर्मा (पाण्डवों) के सम्मुख आ खड़े हुए, जो वन में प्रवेश करने ही वाले थे।
2तब कुन्ती के पुत्र राजा युधिष्ठिर ने उनसे इस प्रकार कहा — "हम अपने राज्य, समृद्धि और सर्वस्व से वंचित कर दिए गए हैं। फल, मूल और मांस पर जीवन बिताते हुए हम शोक में वन को जा रहे हैं। वन संकटों से भरा है और वहाँ सर्प तथा हिंसक पशु बहुत हैं।
3मुझे प्रतीत होता है कि वहाँ आपको बहुत अभाव और कष्ट सहने पड़ेंगे। ब्राह्मणों के कष्ट तो देवताओं को भी अभिभूत कर सकते हैं, फिर मेरी तो बात ही क्या! हे ब्राह्मणो, आप जहाँ चाहें, लौट जाइए।
4ब्राह्मणों ने कहा — हे राजन्, आप जहाँ जा रहे हैं, हम वहीं जाने को तत्पर हैं। आपको हमें नहीं त्यागना चाहिए, जो आपके प्रति अनुरक्त हैं और सद्धर्म के मार्ग पर चलते हैं।
5देवता अपने भक्तों पर करुणा करते हैं, विशेषतः उन ब्राह्मणों पर जिनका आचरण शुद्ध है।
6युधिष्ठिर ने कहा — हे ब्राह्मणो, ब्राह्मणों के प्रति मेरी सदा महती भक्ति रही है। किन्तु इस दरिद्रता ने मुझे अभिभूत कर दिया है। मेरे ये भाई, जिन्हें फल, मूल और मृग लाने हैं, अपने ऊपर आ पड़े क्लेशों से, द्रौपदी के दुःख से और राज्य के नाश से शोकाकुल हो रहे हैं। हाय, वे इस प्रकार दुःखी हैं, अतः मैं उन्हें कष्टसाध्य कार्यों में नहीं लगा सकता!
7ब्राह्मणों ने कहा — हे राजन्, हमारे भरण-पोषण की चिन्ता को अपने हृदय में स्थान न दीजिए। अपना आहार स्वयं जुटाकर हम आपके पीछे-पीछे चलेंगे।
8और हम ध्यान तथा प्रार्थनाओं से आपका कल्याण करेंगे, मधुर वार्तालाप से आपका मन बहलाएँगे और बदले में स्वयं भी प्रसन्न होंगे।
9युधिष्ठिर ने कहा — इसमें सन्देह नहीं कि जैसा आप कहते हैं, वैसा ही होना चाहिए। ब्राह्मणों का सान्निध्य मुझे सदा प्रिय है। किन्तु अपनी इस पतित दशा के कारण मैं स्वयं को निन्दा का पात्र मानता हूँ।
10आप सब मेरे हितैषी हैं और किसी कष्ट के योग्य नहीं; फिर आपको स्वयं जुटाए हुए आहार पर निर्वाह करते हुए मैं कैसे देख सकूँगा? धृतराष्ट्र के पुत्रों को धिक्कार है!
11वैशम्पायन ने कहा — यह कहकर वे राजा (युधिष्ठिर) रोते हुए भूमि पर बैठ गए। तब शौनक नामक एक विद्वान् ब्राह्मण, जो अध्यात्मविद्या में तथा सांख्य और योग में निष्णात थे, राजा से इस प्रकार बोले।
12शौनक ने कहा — शोक के सहस्रों कारण और भय के सैकड़ों कारण अज्ञानी को दिन-प्रतिदिन अभिभूत करते हैं, किन्तु विद्वान् को नहीं।
13आप जैसे बुद्धिमान् पुरुष कभी उन कर्मों से मोहित नहीं होते जो सम्यक् ज्ञान के विरोधी हैं, जो सब प्रकार के अनिष्ट से भरे हैं और जो मोक्ष के नाशक हैं।
14हे राजन्, आठ गुणों से युक्त वह बुद्धि, जो समस्त अनिष्टों से रक्षा करने में समर्थ कही जाती है और जो श्रुतियों के अध्ययन से उत्पन्न होती है, आप में विद्यमान है।
15आप जैसे पुरुष न दरिद्रता से, न कठिन परिस्थितियों से, न अपने मित्रों पर आ पड़े क्लेशों से, और न शारीरिक या मानसिक दुःखों से कभी मोहित होते हैं।
16सुनिए, मैं आपको वे श्लोक सुनाता हूँ जिन्हें प्राचीन काल में महात्मा जनक ने आत्मसंयम के विषय में कहा था।
17यह संसार शारीरिक और मानसिक — दोनों प्रकार के दुःखों से पीड़ित है। उनके शमन के उपाय, जिन्हें मैं संक्षेप में भी और विस्तार से भी बताता हूँ, सुनिए।
18रोग, कष्टकर वस्तुओं का संसर्ग, परिश्रम और इष्ट वस्तुओं का अभाव — ये शरीर के दुःखों के चार कारण हैं।
19रोग औषधि के प्रयोग से शान्त किया जा सकता है, किन्तु मानसिक व्याधियाँ योगध्यान से ही दूर होती हैं।
20इसीलिए बुद्धिमान् वैद्य पहले मधुर वार्तालाप से और इष्ट वस्तुएँ देकर अपने रोगियों के मानसिक दुःखों को शान्त करने का यत्न करते हैं।
21जैसे तपा हुआ लोहे का गोला घड़े के जल को गरम कर देता है, वैसे ही मानसिक शोक शारीरिक पीड़ा उत्पन्न कर देता है।
22जैसे जल अग्नि को बुझा देता है, वैसे ही ज्ञान मानसिक व्याधियों को शान्त कर देता है। जब मन शान्ति पाता है, तब शरीर भी शान्ति पाता है।
23प्रतीत होता है कि आसक्ति ही समस्त मानसिक सन्तापों की जड़ है; आसक्ति ही प्रत्येक प्राणी को दुःखी बनाती है और सब प्रकार के शोक ले आती है।
24आसक्ति ही समस्त दुःख और समस्त भय की जड़ है। आसक्ति से ही सब प्रकार के हर्ष और शोक उत्पन्न होते हैं। आसक्ति से ही समस्त सांसारिक कामनाएँ जन्म लेती हैं और आसक्ति से ही सांसारिक पदार्थों के प्रति प्रेम उत्पन्न होता है। ये दोनों ही अनिष्टकर हैं, किन्तु इनमें पहला दूसरे से भी अधिक बुरा है।
25जैसे वृक्ष की कोटर में लगी अग्नि उसी वृक्ष को जड़ तक भस्म कर देती है, वैसे ही आसक्ति, चाहे कितनी ही थोड़ी क्यों न हो, धर्म और अर्थ दोनों का नाश कर देती है।
26जिसने केवल परिग्रह से मुँह मोड़ लिया है, उसे संसार का त्यागी नहीं माना जा सकता। किन्तु जो संसार के सम्पर्क में रहते हुए भी उसके दोषों को देखता है, वही वस्तुतः संसार का त्यागी कहा जा सकता है। ऐसा पुरुष समस्त दुर्वासनाओं से मुक्त हो जाता है और उसकी आत्मा किसी पर आश्रित नहीं रहती।
27अतः किसी को न मित्रों में आसक्ति रखनी चाहिए, न अपने अर्जित धन में। अपने शरीर के प्रति जो आसक्ति है, वह ज्ञान से नष्ट होती है।
28जैसे कमल का पत्ता जल से कभी भीगता नहीं, वैसे ही जो पुरुष नित्य तत्त्व को जानने में समर्थ हैं, जो सनातन की खोज में लगे हैं, शास्त्रों में निष्णात हैं और ज्ञान से शुद्ध हो चुके हैं, उनकी आत्मा को आसक्ति कभी स्पर्श नहीं कर सकती।
29जो पुरुष आसक्ति के वश में है, वह कामना से सन्तप्त होता है, और उसके हृदय में उत्पन्न कामना से सांसारिक पदार्थों की तृष्णा बढ़ती जाती है। यह तृष्णा पापमयी है और समस्त चिन्ताओं का मूल मानी जाती है। यही पापपूर्ण भयंकर तृष्णा अधर्ममय कर्मों की ओर ले जाती है।
30जो पुरुष इस तृष्णा का त्याग कर सकते हैं — जिसका त्याग दुर्जन कभी नहीं कर पाते, जो शरीर के क्षीण होने पर भी क्षीण नहीं होती और जो प्राणघातक रोग है — वे ही दुःख से मुक्त हो सकते हैं।
31इस तृष्णा का न आदि है न अन्त। अशरीरी उत्पत्ति वाली अग्नि के समान वह प्राणियों के हृदय में ही निवास करके उनका नाश करती है।
32जैसे काठ का गट्ठर उसी से पोषित अग्नि द्वारा भस्म हो जाता है, वैसे ही अशुद्ध अन्तःकरण वाला पुरुष अपने ही हृदय में उत्पन्न लोभ से विनाश को प्राप्त होता है।
33प्राणधारी जीव सदा मृत्यु से भयभीत रहते हैं; वैसे ही धनवान् मनुष्य राजा से, जल से, अग्नि से, चोर से और अपने ही सम्बन्धियों से निरन्तर भयभीत रहते हैं।
34यदि मांस का टुकड़ा आकाश में हो तो पक्षी उसे खा जाते हैं, यदि भूमि पर हो तो हिंसक पशु, और यदि जल में हो तो मछलियाँ; इसी प्रकार धनवान् पुरुष जहाँ कहीं भी रहे, संकटों से घिरा रहता है।
35बहुत से मनुष्यों के लिए उनका धन ही उनके विनाश का कारण होता है। जो पुरुष धन में सुख देखता है और उसमें आसक्त हो जाता है, वह वास्तविक सुख को जानता ही नहीं।
36अतः धन की वृद्धि ही लोभ और मूढ़ता को बढ़ाती है। वही कृपणता, आत्मश्लाघा, अभिमान, भय और चिन्ता की जड़ है। धन में विद्वान् पुरुष यही दुःख देखते हैं। धन के अर्जन और रक्षण में मनुष्यों को अनन्त कष्ट सहने पड़ते हैं। उसका व्यय भी कष्टप्रद है। कभी-कभी तो धन के लिए मनुष्य मार भी डाले जाते हैं। धन का त्याग भी दुःखदायी है; धन के कारण तो प्रिय जन भी शत्रु बन जाते हैं।
37जब धन का होना ही इतने दुःखों से भरा है, तब उसके नाश की (तनिक भी) चिन्ता नहीं करनी चाहिए। अज्ञानी ही असन्तुष्ट रहते हैं, विद्वान् तो सदा सन्तुष्ट रहते हैं।
38धन की तृष्णा कभी शान्त नहीं होती। सन्तोष ही परम सुख है, इसीलिए विद्वान् सन्तोष को ही प्राप्तव्य वस्तुओं में सर्वोच्च मानते हैं।
39विद्वान् पुरुष यौवन, सौन्दर्य, जीवन, कोष, समृद्धि और प्रियजनों के संग को (सब कुछ) अस्थिर जानकर उनकी कामना नहीं करते।
40अतः धन के अर्जन से विरत रहना चाहिए और इस प्रकार दुःखों के कष्ट से बचना चाहिए। धनवान् पुरुष कभी निर्भय नहीं रह सकता। इसी कारण सत्पुरुष उन्हीं की प्रशंसा करते हैं जिन्हें धन की कामना नहीं।
41जो धर्म के प्रयोजन से धन अर्जित करते हैं, उनके लिए भी उसे न करना ही श्रेष्ठ है। कीचड़ में सन जाने के पश्चात् उसे धोने की अपेक्षा कीचड़ को न छूना ही श्रेष्ठ है।
42हे युधिष्ठिर, आपको किसी वस्तु की कामना नहीं करनी चाहिए। यदि आप धर्म अर्जित करना चाहते हैं, तो धन के संग्रह की समस्त कामनाओं से स्वयं को मुक्त कीजिए।
43युधिष्ठिर ने कहा — हे ब्राह्मण, धन की मेरी यह कामना उसे पाकर भोगने के लिए नहीं है। मैं लोभवश उसकी इच्छा नहीं करता। मैं उसे केवल ब्राह्मणों के भरण-पोषण के लिए चाहता हूँ।
44हे ब्राह्मण, जो अपने आश्रितों का पालन और पोषण न कर सके, वह किस प्रयोजन से गृहस्थ जीवन बिताना चाहेगा?
45समस्त प्राणी अपने आश्रितों में अपना आहार बाँटते देखे जाते हैं। इसी प्रकार गृहस्थ को भी उन ब्रह्मचारियों को अपने अन्न का भाग देना चाहिए जिन्होंने पाक-क्रिया छोड़ दी है।
46सत्पुरुषों के घरों में तृण, स्थान, जल और चौथी वस्तु मधुर वचन — इनका कभी अभाव नहीं होता। थके हुए को शय्या, खड़े रहने से क्लान्त को आसन, प्यासे को जल और भूखे को अन्न — ये सदा देने चाहिए।
47अतिथि के प्रति प्रसन्न दृष्टि, प्रफुल्ल हृदय और मधुर वचन — ये उसका अधिकार हैं। गृहस्थ को उठकर अतिथि के सम्मुख जाना चाहिए; उसे आसन देकर विधिपूर्वक उसकी पूजा करनी चाहिए। यही सनातन धर्म है। जो अग्निहोत्र नहीं करते, जो गोवृषों की सेवा नहीं करते और जो अपने बन्धुओं, अतिथियों, मित्रों, पुत्रों, पत्नियों तथा सेवकों का पालन नहीं करते — वे ऐसी उपेक्षा से पाप के भागी होते हैं। किसी को केवल अपने लिए भोजन नहीं पकाना चाहिए, किसी को व्यर्थ किसी प्राणी का वध नहीं करना चाहिए। जो अन्न विधिपूर्वक समर्पित न हुआ हो, उसे नहीं खाना चाहिए।
48प्रातः और सायं कुत्तों, चाण्डालों तथा पक्षियों के लिए भूमि पर अन्न बिखेरकर मनुष्य को वैश्वदेव (यज्ञ) करना चाहिए।
49जो विघस खाता है, वह अमृत खाता है। यज्ञ में समर्पण के पश्चात् जो शेष रहता है, वह (भी) अमृत माना जाता है।
50(अतिथि पर डाली गई) प्रसन्न दृष्टि, उसके प्रति दिया गया ध्यान, जिन मधुर वचनों से उसे सम्बोधित किया जाता है, जिस आदर के साथ उसे विदा करते हुए पीछे-पीछे जाया जाता है, तथा जिस अन्न और पेय से उसका सत्कार किया जाता है — ये उस यज्ञ की पाँच दक्षिणाएँ हैं।
51जो थके हुए पथिक को, जिसे उसने पहले कभी नहीं देखा, उदारतापूर्वक अन्न देता है, वह महान् पुण्य प्राप्त करता है।
52जो गृहस्थ जीवन बिताते हुए ऐसे आचरणों का पालन करता है, वह महान् धर्मलाभ प्राप्त करता है — ऐसा कहा गया है। हे ब्राह्मण, इस विषय में आपका क्या मत है?
53शौनक ने कहा — हाय, हाय! यह संसार विरोधों से भरा है। जो सज्जनों और सदाचारियों को लज्जित करता है, वही दुर्जनों को तृप्त करता है।
54अज्ञान और वासनाओं से प्रेरित होकर तथा अपनी इन्द्रियों के दास बनकर अज्ञानी मनुष्य अपने उदर और जननेन्द्रिय की तृप्ति के लिए अनेक कर्म करते हैं।
55जैसे विवेक खो बैठा सारथि दुष्ट घोड़ों द्वारा (कुमार्ग पर) ले जाया जाता है, वैसे ही मनुष्य अपनी लुभाने वाली इन्द्रियों द्वारा भटका दिए जाते हैं।
56जब छह इन्द्रियों में से कोई अपना विषय पा लेती है, तब हृदय में उस विषय को भोगने की कामना उत्पन्न हो जाती है।
57इस प्रकार जब मन किसी इन्द्रिय के विषयों का भोग करने को प्रवृत्त होता है, तब इच्छा उत्पन्न होती है; और वह इच्छा फिर संकल्प को जन्म देती है।
58जैसे कीट प्रकाश के मोह से ज्वाला में गिर पड़ता है, वैसे ही मनुष्य, संकल्प के बीजरूप कामना द्वारा छोड़े गए भोग-विषयों के बाणों से मानो बिंधकर, प्रलोभन की अग्नि में गिर पड़ता है।
59जिस विषय-सुख को वह मुक्त भाव से ढूँढ़ता है, उससे अन्धा होकर तथा जिस घोर अज्ञान और मूढ़ता को वह सुख समझ बैठता है, उसमें डूबकर, वह तब से अपने आपको नहीं जानता। निरन्तर घूमते चक्र के समान प्रत्येक प्राणी अज्ञान, कर्म और कामना के कारण संसार में अनेक अवस्थाओं में भटकता है, एक जन्म से दूसरे जन्म में घूमता है, ब्रह्मा से लेकर तृण तक की योनियों में जाता है, और बार-बार कभी जल में, कभी पृथ्वी पर और कभी आकाश में जन्म लेता है।
60यह उन पुरुषों की गति है जो ज्ञानरहित हैं। अब उन विद्वानों की गति सुनिए जो धर्म में तत्पर हैं और मोक्ष (मुक्ति) की कामना करते हैं।
61वेदों का यही वचन है — कर्म करो, किन्तु त्यागपूर्वक करो। अतः आपको अभिमान का त्याग करके कर्म करना चाहिए।
62यज्ञ करना, स्वाध्याय, दान, तप, सत्य, क्षमा, इन्द्रियनिग्रह और कामना का त्याग — स्मृति द्वारा कहे गए ये आठ धर्म हैं।
63इनमें से प्रथम चार पितृलोक का मार्ग प्रशस्त करते हैं। अतः सबका कर्तव्य है कि अभिमान का त्याग करके कर्म करें।
64अन्तिम चार का पालन सदा वे पुण्यात्मा करते हैं जो देवलोक प्राप्त करने की आकांक्षा रखते हैं। शुद्ध अन्तःकरण वाले पुरुषों को इन आठों (मार्गों) का पालन करना चाहिए।
65जो मोक्ष के प्रयोजन से संसार को जीतना चाहते हैं, उन्हें सदा समस्त कामनाओं का पूर्ण त्याग करके तथा इन्द्रियों का निग्रह करके, कठोरता से व्रतों का पालन करते हुए, भक्तिपूर्वक गुरुओं की सेवा करते हुए, संयमपूर्वक आहार का नियमन करते हुए, यत्नपूर्वक वेदों का अध्ययन करते हुए, कर्म को क्षुद्र मानकर उसका त्याग करते हुए और हृदय को वश में रखते हुए कर्म करना चाहिए। राग और द्वेष का त्याग करके ही देवताओं ने समृद्धि प्राप्त की है।
66अपने योगरूपी ऐश्वर्य के बल से ही रुद्र, साध्य, आदित्य, वसु और अश्विनीकुमार (संसार के) इन समस्त प्राणियों का पालन करते हैं।
67हे कुन्तीपुत्र, हे भरतवंशी, अतः आप भी उन्हीं के समान सकाम कर्मों का पूर्णतः त्याग करके योग और तप में सिद्धि प्राप्त करने का यत्न कीजिए।
68पितरों के प्रति — पुरुष और स्त्री, दोनों प्रकार के पितरों के प्रति — अपने ऋण के विषय में आप सिद्धि प्राप्त कर चुके हैं, और कर्म से प्राप्त होने वाली सिद्धि भी आपने पा ली है। अब ब्राह्मणों के भरण-पोषण के लिए तपस्या में सिद्धि प्राप्त करने का यत्न कीजिए।
69जो तपःसिद्धि से युक्त हैं, वे उसी सिद्धि के बल से जो चाहें कर सकते हैं। अतः तपस्या करके अपनी समस्त कामनाएँ पूर्ण कीजिए।
Nepali
1वैशम्पायनले भने — त्यो रात बितेपछि र प्रातःकाल भएपछि, भिक्षाबाट आफ्नो निर्वाह गर्ने ती ब्राह्मणहरू ती महाकर्मा (पाण्डवहरू)को सामु आएर उभिए, जो वनमा प्रवेश गर्नै लागेका थिए।
2तब कुन्तीका पुत्र राजा युधिष्ठिरले तिनीहरूलाई यसरी भने — "हामी आफ्नो राज्य, समृद्धि र सर्वस्वबाट वञ्चित पारिएका छौँ। फल, मूल र मासुमा जीवन बिताउँदै हामी शोकमा वनतिर जाँदै छौँ। वन सङ्कटले भरिएको छ र त्यहाँ सर्प तथा हिंस्रक पशु धेरै छन्।
3मलाई लाग्छ कि त्यहाँ तपाईंहरूले धेरै अभाव र कष्ट सहनुपर्नेछ। ब्राह्मणहरूका कष्टले त देवतालाई पनि अभिभूत पार्न सक्छ, मेरो त कुरै के! हे ब्राह्मणहरू, तपाईंहरू जहाँ मन लाग्छ, फर्केर जानुहोस्।
4ब्राह्मणहरूले भने — हे राजन्, तपाईं जहाँ जाँदै हुनुहुन्छ, हामी त्यहीँ जान तत्पर छौँ। तपाईंले हामीलाई त्याग्नु हुँदैन, जो तपाईंप्रति अनुरक्त छौँ र सद्धर्मको मार्गमा हिँड्छौँ।
5देवताहरूले आफ्ना भक्तहरूमाथि करुणा गर्छन्, विशेष गरी ती ब्राह्मणहरूमाथि जसको आचरण शुद्ध छ।
6युधिष्ठिरले भने — हे ब्राह्मणहरू, ब्राह्मणहरूप्रति मेरो सधैँ महान् भक्ति रहेको छ। तर यस दरिद्रताले मलाई अभिभूत पारेको छ। मेरा यी भाइहरू, जसले फल, मूल र मृग ल्याउनुपर्छ, आफूमाथि आइपरेका क्लेशले, द्रौपदीको दुःखले र राज्यको नाशले शोकाकुल भइरहेका छन्। हाय, तिनीहरू यसरी दुःखी छन्, त्यसैले म तिनीहरूलाई कष्टसाध्य कार्यमा लगाउन सक्दिनँ!
7ब्राह्मणहरूले भने — हे राजन्, हाम्रो भरणपोषणको चिन्तालाई आफ्नो हृदयमा स्थान नदिनुहोस्। आफ्नो आहार आफैँ जुटाएर हामी तपाईंको पछि-पछि हिँड्नेछौँ।
8र हामी ध्यान तथा प्रार्थनाद्वारा तपाईंको कल्याण गर्नेछौँ, मधुर वार्तालापले तपाईंको मन बहलाउनेछौँ र बदलामा आफैँ पनि प्रसन्न हुनेछौँ।
9युधिष्ठिरले भने — यसमा सन्देह छैन कि तपाईंहरूले भनेजस्तै हुनुपर्छ। ब्राह्मणहरूको सान्निध्य मलाई सधैँ प्रिय छ। तर आफ्नो यस पतित दशाका कारण म आफूलाई निन्दाको पात्र ठान्छु।
10तपाईंहरू सबै मेरा हितैषी हुनुहुन्छ र कुनै कष्टका योग्य हुनुहुन्न; अनि तपाईंहरूलाई आफैँले जुटाएको आहारमा निर्वाह गरिरहेको म कसरी हेर्न सकुँला? धृतराष्ट्रका पुत्रहरूलाई धिक्कार छ!
11वैशम्पायनले भने — यसो भनेर ती राजा (युधिष्ठिर) रुँदै भुइँमा बसे। तब शौनक नामक एक विद्वान् ब्राह्मण, जो अध्यात्मविद्यामा तथा साङ्ख्य र योगमा निष्णात थिए, राजालाई यसरी भने।
12शौनकले भने — शोकका हजारौँ कारण र भयका सयौँ कारणले अज्ञानीलाई दिनप्रतिदिन अभिभूत पार्छन्, तर विद्वान्लाई पार्दैनन्।
13तपाईंजस्ता बुद्धिमान् पुरुषहरू कहिल्यै ती कर्मबाट मोहित हुँदैनन् जुन सम्यक् ज्ञानका विरोधी छन्, जुन सबै किसिमका अनिष्टले भरिएका छन् र जुन मोक्षका नाशक छन्।
14हे राजन्, आठ गुणले युक्त त्यो बुद्धि, जुन सम्पूर्ण अनिष्टबाट रक्षा गर्न समर्थ भनिन्छ र जुन श्रुतिको अध्ययनबाट उत्पन्न हुन्छ, तपाईंमा विद्यमान छ।
15तपाईंजस्ता पुरुषहरू न दरिद्रताले, न कठिन परिस्थितिले, न आफ्ना मित्रहरूमाथि आइपरेका क्लेशले, न शारीरिक वा मानसिक दुःखले कहिल्यै मोहित हुन्छन्।
16सुन्नुहोस्, म तपाईंलाई ती श्लोक सुनाउँछु जुन प्राचीन कालमा महात्मा जनकले आत्मसंयमको विषयमा भनेका थिए।
17यो संसार शारीरिक र मानसिक — दुवै किसिमका दुःखले पीडित छ। तिनको शमनका उपाय, जुन म संक्षेपमा पनि र विस्तारमा पनि बताउँछु, सुन्नुहोस्।
18रोग, कष्टकर वस्तुको सङ्सर्ग, परिश्रम र इष्ट वस्तुको अभाव — यी शरीरका दुःखका चार कारण हुन्।
19रोग औषधिको प्रयोगले शान्त पार्न सकिन्छ, तर मानसिक व्याधि योगध्यानबाटै निको हुन्छ।
20त्यसैले बुद्धिमान् वैद्यहरूले पहिले मधुर वार्तालापले र इष्ट वस्तु दिएर आफ्ना रोगीहरूका मानसिक दुःख शान्त पार्ने प्रयत्न गर्छन्।
21जसरी तातेको फलामको गोलाले गाग्रीको पानीलाई तातो बनाइदिन्छ, त्यसरी नै मानसिक शोकले शारीरिक पीडा उत्पन्न गराउँछ।
22जसरी जलले अग्नि निभाइदिन्छ, त्यसरी नै ज्ञानले मानसिक व्याधि शान्त पारिदिन्छ। जब मनले शान्ति पाउँछ, तब शरीरले पनि शान्ति पाउँछ।
23देखिन्छ कि आसक्ति नै सम्पूर्ण मानसिक सन्तापको जरा हो; आसक्तिले नै हरेक प्राणीलाई दुःखी बनाउँछ र सबै किसिमका शोक ल्याउँछ।
24आसक्ति नै सम्पूर्ण दुःख र सम्पूर्ण भयको जरा हो। आसक्तिबाटै सबै किसिमका हर्ष र शोक उत्पन्न हुन्छन्। आसक्तिबाटै सम्पूर्ण सांसारिक कामना जन्मन्छन् र आसक्तिबाटै सांसारिक पदार्थप्रतिको प्रेम उत्पन्न हुन्छ। यी दुवै अनिष्टकर छन्, तर यीमध्ये पहिलो दोस्रोभन्दा पनि नराम्रो छ।
25जसरी रूखको खोपिल्टोमा लागेको अग्निले त्यही रूखलाई जरासम्मै भस्म पारिदिन्छ, त्यसरी नै आसक्तिले, जति नै थोरै किन नहोस्, धर्म र अर्थ दुवैको नाश गरिदिन्छ।
26जसले केवल परिग्रहबाट मुख फर्काएको छ, उसलाई संसारको त्यागी मान्न सकिँदैन। तर जो संसारको सम्पर्कमा रहँदा-रहँदै पनि त्यसका दोष देख्छ, त्यही नै वास्तवमा संसारको त्यागी भन्न सकिन्छ। यस्तो पुरुष सम्पूर्ण दुर्वासनाबाट मुक्त हुन्छ र उसको आत्मा कसैमाथि आश्रित रहँदैन।
27त्यसैले कसैले न मित्रहरूमा आसक्ति राख्नुपर्छ, न आफूले आर्जन गरेको धनमा। आफ्नो शरीरप्रतिको जुन आसक्ति छ, त्यो ज्ञानले नष्ट हुन्छ।
28जसरी कमलको पात पानीले कहिल्यै भिज्दैन, त्यसरी नै जुन पुरुषहरू नित्य तत्त्वलाई जान्न समर्थ छन्, जो सनातनको खोजमा लागेका छन्, शास्त्रमा निष्णात छन् र ज्ञानले शुद्ध भइसकेका छन्, तिनीहरूको आत्मालाई आसक्तिले कहिल्यै छुन सक्दैन।
29जुन पुरुष आसक्तिको वशमा छ, ऊ कामनाले सन्तप्त हुन्छ, र उसको हृदयमा उत्पन्न कामनाबाट सांसारिक पदार्थको तृष्णा बढ्दै जान्छ। यो तृष्णा पापमयी हो र सम्पूर्ण चिन्ताको मूल मानिन्छ। यही पापपूर्ण भयंकर तृष्णाले अधर्ममय कर्मतर्फ लैजान्छ।
30जुन पुरुषहरूले यस तृष्णाको त्याग गर्न सक्छन् — जसको त्याग दुर्जनहरूले कहिल्यै गर्न सक्दैनन्, जुन शरीर क्षीण हुँदा पनि क्षीण हुँदैन र जुन प्राणघातक रोग हो — तिनीहरू नै दुःखबाट मुक्त हुन सक्छन्।
31यस तृष्णाको न आदि छ न अन्त। अशरीरी उत्पत्ति भएको अग्निजस्तै त्यसले प्राणीहरूको हृदयमै बसेर तिनको नाश गर्छ।
32जसरी दाउराको भारी त्यसैबाट पोषित अग्निले भस्म हुन्छ, त्यसरी नै अशुद्ध अन्तःकरण भएको पुरुष आफ्नै हृदयमा उत्पन्न लोभले विनाशमा पुग्छ।
33प्राणधारी जीवहरू सधैँ मृत्युदेखि भयभीत रहन्छन्; त्यसरी नै धनी मानिसहरू राजादेखि, जलदेखि, अग्निदेखि, चोरदेखि र आफ्नै आफन्तदेखि निरन्तर भयभीत रहन्छन्।
34यदि मासुको टुक्रा आकाशमा छ भने पक्षीहरूले खान्छन्, भुइँमा छ भने हिंस्रक पशुले, र जलमा छ भने माछाले; त्यसै गरी धनी पुरुष जहाँ भए पनि सङ्कटले घेरिएको हुन्छ।
35धेरै मानिसका लागि तिनीहरूको धनै तिनीहरूको विनाशको कारण बन्छ। जुन पुरुषले धनमा सुख देख्छ र त्यसमा आसक्त हुन्छ, उसले वास्तविक सुख जान्दै जान्दैन।
36त्यसैले धनको वृद्धिले नै लोभ र मूर्खता बढाउँछ। त्यही नै कञ्जुसी, आत्मश्लाघा, अभिमान, भय र चिन्ताको जरा हो। धनमा विद्वान् पुरुषहरूले यही दुःख देख्छन्। धनको आर्जन र रक्षामा मानिसहरूले अनन्त कष्ट सहनुपर्छ। त्यसको व्यय पनि कष्टप्रद छ। कहिलेकाहीँ त धनका लागि मानिस मारिन्छन् समेत। धनको त्याग पनि दुःखदायी छ; धनकै कारण त प्रियजन पनि शत्रु बन्छन्।
37जब धन हुनु नै यति धेरै दुःखले भरिएको छ, तब त्यसको नाशको (कत्ति पनि) चिन्ता गर्नुहुँदैन। अज्ञानीहरू मात्र असन्तुष्ट रहन्छन्, विद्वान्हरू त सधैँ सन्तुष्ट रहन्छन्।
38धनको तृष्णा कहिल्यै शान्त हुँदैन। सन्तोष नै परम सुख हो, त्यसैले विद्वान्हरूले सन्तोषलाई नै प्राप्त गर्नुपर्ने वस्तुहरूमा सर्वोच्च मान्छन्।
39विद्वान् पुरुषहरूले यौवन, सौन्दर्य, जीवन, कोष, समृद्धि र प्रियजनको सङ्गतलाई (सबै) अस्थिर जानेर तिनको कामना गर्दैनन्।
40त्यसैले धनको आर्जनबाट विरत रहनुपर्छ र यसरी दुःखका कष्टबाट बच्नुपर्छ। धनी पुरुष कहिल्यै निर्भय रहन सक्दैन। यसै कारण सत्पुरुषहरूले तिनैको प्रशंसा गर्छन् जसलाई धनको कामना छैन।
41जसले धर्मको प्रयोजनले धन आर्जन गर्छन्, तिनका लागि पनि त्यो नगर्नु नै श्रेष्ठ हो। हिलोमा लत्पतिएपछि त्यो पखाल्नुभन्दा हिलो नै नछुनु श्रेष्ठ हो।
42हे युधिष्ठिर, तपाईंले कुनै वस्तुको कामना गर्नुहुँदैन। यदि तपाईं धर्म आर्जन गर्न चाहनुहुन्छ भने, धनको सङ्ग्रहका सम्पूर्ण कामनाबाट आफूलाई मुक्त गर्नुहोस्।
43युधिष्ठिरले भने — हे ब्राह्मण, धनको मेरो यो कामना त्यसलाई पाएर भोग गर्नका लागि होइन। म लोभवश त्यसको इच्छा गर्दिनँ। म त्यसलाई केवल ब्राह्मणहरूको भरणपोषणका लागि चाहन्छु।
44हे ब्राह्मण, जसले आफ्ना आश्रितहरूको पालन र पोषण गर्न सक्दैन, उसले कुन प्रयोजनले गृहस्थ जीवन बिताउन चाहला?
45सम्पूर्ण प्राणीले आफ्ना आश्रितहरूमा आफ्नो आहार बाँडेको देखिन्छ। त्यसै गरी गृहस्थले पनि ती ब्रह्मचारीहरूलाई आफ्नो अन्नको भाग दिनुपर्छ जसले पाकक्रिया त्यागिसकेका छन्।
46सत्पुरुषहरूका घरमा तृण, स्थान, जल र चौथो वस्तु मधुर वचन — यिनको कहिल्यै अभाव हुँदैन। थाकेकालाई ओछ्यान, उभिएर क्लान्त भएकालाई आसन, तिर्खाएकालाई जल र भोकाएकालाई अन्न — यी सधैँ दिनुपर्छ।
47अतिथिप्रति प्रसन्न दृष्टि, प्रफुल्ल हृदय र मधुर वचन — यी उसका अधिकार हुन्। गृहस्थले उठेर अतिथिको सामु जानुपर्छ; उसलाई आसन दिएर विधिपूर्वक उसको पूजा गर्नुपर्छ। यही सनातन धर्म हो। जसले अग्निहोत्र गर्दैनन्, जसले गोवृषको सेवा गर्दैनन् र जसले आफ्ना बन्धु, अतिथि, मित्र, पुत्र, पत्नी तथा सेवकहरूको पालन गर्दैनन् — तिनीहरू यस्तो उपेक्षाले पापका भागी हुन्छन्। कसैले केवल आफ्नै लागि भोजन पकाउनुहुँदैन, कसैले व्यर्थमा कुनै प्राणीको वध गर्नुहुँदैन। जुन अन्न विधिपूर्वक समर्पित भएको छैन, त्यो खानुहुँदैन।
48बिहान र बेलुका कुकुर, चाण्डाल तथा पक्षीहरूका लागि भुइँमा अन्न छरेर मानिसले वैश्वदेव (यज्ञ) गर्नुपर्छ।
49जसले विघस खान्छ, उसले अमृत खान्छ। यज्ञमा समर्पणपछि जुन बाँकी रहन्छ, त्यो (पनि) अमृत मानिन्छ।
50(अतिथिमाथि पारिएको) प्रसन्न दृष्टि, उसप्रति दिइएको ध्यान, जुन मधुर वचनले उसलाई सम्बोधन गरिन्छ, जुन आदरका साथ उसको पछि-पछि गएर बिदा गरिन्छ, तथा जुन अन्न र पेयले उसको सत्कार गरिन्छ — यी त्यस यज्ञका पाँच दक्षिणा हुन्।
51जसले थाकेको बटुवालाई, जसलाई उसले पहिले कहिल्यै देखेको छैन, उदारतापूर्वक अन्न दिन्छ, उसले महान् पुण्य प्राप्त गर्छ।
52जसले गृहस्थ जीवन बिताउँदै यस्ता आचरणको पालन गर्छ, उसले महान् धर्मलाभ प्राप्त गर्छ — यस्तो भनिएको छ। हे ब्राह्मण, यस विषयमा तपाईंको के मत छ?
53शौनकले भने — हाय, हाय! यो संसार विरोधले भरिएको छ। जसले सज्जन र सदाचारीहरूलाई लज्जित पार्छ, त्यसैले दुर्जनहरूलाई तृप्त पार्छ।
54अज्ञान र वासनाले प्रेरित भई तथा आफ्ना इन्द्रियका दास बनेर अज्ञानी मानिसहरूले आफ्नो पेट र जननेन्द्रियको तृप्तिका लागि अनेक कर्म गर्छन्।
55जसरी विवेक गुमाएको सारथि दुष्ट घोडाहरूद्वारा (कुमार्गमा) लगिन्छ, त्यसरी नै मानिसहरू आफ्ना लोभ्याउने इन्द्रियद्वारा बहकिन्छन्।
56जब छ इन्द्रियमध्ये कुनैले आफ्नो विषय पाउँछ, तब हृदयमा त्यस विषयलाई भोग गर्ने कामना उत्पन्न हुन्छ।
57यसरी जब मन कुनै इन्द्रियका विषयको भोग गर्न प्रवृत्त हुन्छ, तब इच्छा उत्पन्न हुन्छ; र त्यो इच्छाले फेरि सङ्कल्पलाई जन्म दिन्छ।
58जसरी कीरा प्रकाशको मोहले ज्वालामा खस्छ, त्यसरी नै मानिस, सङ्कल्पको बीजरूप कामनाद्वारा छाडिएका भोग-विषयका बाणले मानौँ बिझिएर, प्रलोभनको अग्निमा खस्छ।
59जुन विषय-सुख ऊ स्वच्छन्द भई खोज्छ, त्यसैले अन्धो भई तथा जुन घोर अज्ञान र मूर्खतालाई ऊ सुख ठान्छ, त्यसैमा डुबेर, ऊ त्यसपछि आफैँलाई चिन्दैन। निरन्तर घुमिरहेको चक्रजस्तै हरेक प्राणी अज्ञान, कर्म र कामनाका कारण संसारमा अनेक अवस्थामा भौँतारिन्छ, एक जन्मबाट अर्को जन्ममा घुम्छ, ब्रह्मादेखि लिएर तृणसम्मका योनिमा जान्छ, र बारम्बार कहिले जलमा, कहिले पृथ्वीमा र कहिले आकाशमा जन्म लिन्छ।
60यो ती पुरुषहरूको गति हो जो ज्ञानरहित छन्। अब ती विद्वान्हरूको गति सुन्नुहोस् जो धर्ममा तत्पर छन् र मोक्ष (मुक्ति)को कामना गर्छन्।
61वेदको यही वचन हो — कर्म गर, तर त्यागपूर्वक गर। त्यसैले तपाईंले अभिमानको त्याग गरेर कर्म गर्नुपर्छ।
62यज्ञ गर्नु, स्वाध्याय, दान, तप, सत्य, क्षमा, इन्द्रियनिग्रह र कामनाको त्याग — स्मृतिद्वारा भनिएका यी आठ धर्म हुन्।
63यीमध्ये पहिला चारले पितृलोकको मार्ग प्रशस्त गर्छन्। त्यसैले सबैको कर्तव्य हो कि अभिमानको त्याग गरेर कर्म गरून्।
64अन्तिम चारको पालन सधैँ ती पुण्यात्माहरूले गर्छन् जो देवलोक प्राप्त गर्ने आकाङ्क्षा राख्छन्। शुद्ध अन्तःकरण भएका पुरुषहरूले यी आठवटै (मार्ग)को पालन गर्नुपर्छ।
65जो मोक्षको प्रयोजनले संसारलाई जित्न चाहन्छन्, तिनीहरूले सधैँ सम्पूर्ण कामनाको पूर्ण त्याग गरेर तथा इन्द्रियको निग्रह गरेर, कठोरतापूर्वक व्रतको पालन गर्दै, भक्तिपूर्वक गुरुहरूको सेवा गर्दै, संयमपूर्वक आहारको नियमन गर्दै, यत्नपूर्वक वेदको अध्ययन गर्दै, कर्मलाई क्षुद्र ठानेर त्यसको त्याग गर्दै र हृदयलाई वशमा राख्दै कर्म गर्नुपर्छ। राग र द्वेषको त्याग गरेरै देवताहरूले समृद्धि प्राप्त गरेका हुन्।
66आफ्नो योगरूपी ऐश्वर्यकै बलले रुद्र, साध्य, आदित्य, वसु र अश्विनीकुमारहरूले (संसारका) यी सम्पूर्ण प्राणीको पालन गर्छन्।
67हे कुन्तीपुत्र, हे भरतवंशी, त्यसैले तपाईं पनि तिनीहरूकै जस्तै सकाम कर्मको पूर्णतः त्याग गरेर योग र तपमा सिद्धि प्राप्त गर्ने प्रयत्न गर्नुहोस्।
68पितृहरूप्रति — पुरुष र स्त्री, दुवै किसिमका पितृहरूप्रति — आफ्नो ऋणको विषयमा तपाईंले सिद्धि प्राप्त गरिसक्नुभएको छ, र कर्मबाट प्राप्त हुने सिद्धि पनि तपाईंले पाइसक्नुभएको छ। अब ब्राह्मणहरूको भरणपोषणका लागि तपस्यामा सिद्धि प्राप्त गर्ने प्रयत्न गर्नुहोस्।
69जो तपःसिद्धिले युक्त छन्, तिनीहरूले त्यही सिद्धिको बलले जे चाह्यो त्यही गर्न सक्छन्। त्यसैले तपस्या गरेर आफ्ना सम्पूर्ण कामना पूरा गर्नुहोस्।