The history of the frogs
Volume II — Vana Parva · Chapter 192
Sanskrit
1वैशम्पायन उवाच भूय एव ब्राह्मणमहाभाग्यं वक्तुमर्हसीत्यब्रवीत् पाण्डवेयो मार्कण्डेयम्॥
2अथाचष्ट मार्कण्डेयोऽपूर्वमिदं श्रूयतां ब्राह्मणानां चरितम्॥
3अयोध्यायामिक्ष्वाकुकुलोद्वहः पार्थिवः परिक्षिन्नाम मृगयामगमत्॥
4तमेकाश्वेन मृगमनुसरन्तं मृगो दूरमपाहरत्॥
5अध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्चैकस्मिन् देशे नीलं गहनं वनखण्डमपश्यत्॥
6तच्च विवेश ततस्तस्य वनखण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्च एव व्यगाहत॥
7अथाश्वस्तः स बिसमृणालमश्वायाग्रतो निक्षिप्य पुष्करिणीतीरे संविवेश। ततः शयानो मधुरं गीतमशृणोत्॥
8स श्रुत्वाचिन्तयन्नेह मनुष्यगतिं पश्यामि कस्य खल्वयं गीतशब्द इति॥
9अथापश्यत् कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वन्ती गायन्तीं च। अथ सा राज्ञः समीपे पर्यक्रामत्॥
10तामब्रवीद् राजा कस्यासि भद्रे का वा त्वमिति। सा तां प्रत्युवाच कन्या स्मीति राजोवाचार्थी त्वयाहमिति॥
11अथोवाच कन्या समयेनाहं शक्या त्वया लब्धुं नान्यथेति राजा तां समयमपृच्छत्। कन्योवाच नोदकं मे दर्शयितव्यमिति॥
12स राजा तां बाढमित्युक्त्वा तामुपयेमे कृतोद्वाहश्च राजा परिक्षित् क्रीडपानो मुदा परमया युक्तस्तूष्णीं सङ्गम्य तया सहास्ते॥
13ततस्तत्रैवासीने राजनि सेनान्वगच्छत्॥
14सा सेनोपविष्टं राजानं परिवार्यातिष्ठत्। पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादवघोटितया स स्वं नगरमनुप्राप्य रहसि तया सहास्ते॥
15तत्राभ्याशस्थोऽपि कश्चिन्नापश्यदथ प्रधानामात्योऽभ्याशचरास्तस्य स्त्रियोऽपृच्छत्॥ किमत्र प्रयोजनं वर्तते इत्यथाब्रुवंस्ताः स्त्रियः॥
16अपूर्वमिव पश्याम उदकं नात्र नीयत इत्यथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं। बहुपुष्पफलमूलं तस्य मध्ये मुक्ताजालमायीं पार्श्वे वापी गूढां सुधासलिललिप्तां स रहस्युपगम्य राजान-मब्रवीत्॥ वनमिदमुदारकं साध्वत्र रम्यतामिति॥
17स तस्य वचनात् तयैव सह देव्या तद् वनं प्राविशत्। स कदाचित् तस्मिन् कानने रम्ये तयैव सह व्यवाहरदथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमुक्तकागार-मपश्यत्॥
18तत् प्रविश्य राजा सह प्रियया सुधाकृतां विमला सलिलपूर्णां वापीमपश्यत्॥ दृष्ट्वैव च तां तस्याश्च तीरे सहैव तया देव्यावातिष्ठत्॥
19अथ तां देवीं राजाब्रवीत् साध्ववतर वापीसलिलमिति। सा तद्वचः श्रुत्वावतीर्य वापी न्यमज्जन्न पुनरुदमज्जत्॥
20तां स मृगयमाणो राजा नापश्यद् वापीमथ निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास स राजा॥
21सर्वत्र मण्डूकवधः क्रियतामिति यो मयार्थी स मां मृतमण्डूकोपायनमदायोपतिष्ठेदिति॥
22अथ मण्डूकवधे तीरे क्रियमाणे दिक्षु सर्वासु मण्डूकान् भयमाविवेश। ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन्॥
23ततो मण्डूकाराट् तापसवेषधारी राजानमभ्यगच्छदुपेत्य चैनमुवाच॥
24मा राजन् क्रोधवशं गमः प्रसादं कुरु नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति। श्लोकौ चात्र भवतः॥
25मा मण्डूकान् जिघांस त्वं कोपं संधारयाच्युत। प्रक्षीयतेधनोद्रेको जनानामविजानताम्॥ प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसि। अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते॥
26तमेवंवादिनमिष्टजनशोकपरीतात्मा राजाथोवाच॥
27न हि क्षम्यते तन्मया हनिष्याम्येतानेतैर्दुरात्मभिः प्रिया मे भक्षिता सर्वथैव मे वध्या मण्डूका नार्हसि विद्वन् मामुपरो मिति॥
28स तद् वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच प्रसीद राजन्नहमायुर्नाम मण्डूकराजो मम सा दुहिता सुशोभना नाम। तस्या हि दौःशील्यमेतद् बवहस्त्या राजानो विप्रलब्धाः पूर्वा इति॥ तमब्रवीद् राजा तया समर्थी सा मे दीयतामिति।
29अथैनां राज्ञे पितादादब्रवीच्चैनामेनं राजानं शुश्रूषस्वेति॥
30स एवमुक्त्वा दुहितरं क्रुद्धः शशाप यस्मात् त्वया राजानो विप्रलब्धा बहवस्तस्माद ब्रह्मण्यानि तवापत्यानि भविष्यन्त्यानृतिकत्वात् तवेति॥
31स च राजा तामुपलभ्य तस्यां सुरतगुणानिवद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षेण वाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजमब्रवादनुगृहीतोऽस्मीति।।
32स च मण्डूकराजो दुहितरमनुज्ञाप्य यथागतमगच्छत्॥
33अथ कस्यचित् कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति। ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम्॥
34अथ कदाचिच्छलो मृगयामनुचरन् मृगमासाद्य रथेनान्वधावत्॥
35सूतं चोवाच शीघ्रं मां वहस्वेति स तथोक्तः सूतो राजानमब्रवीत्॥
36न क्रियतामनुबन्धो नैष शक्यस्त्वया मृगोऽयं ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति।।ततोऽब्रवीद् राजा सूतमाचक्ष्व मे वाम्यौ हन्मि च त्वामिति। स एवमुक्तो राजभयभीत: सूतो वामदेवशापभीतश्च सन् नाचख्यौ राज्ञे। ततः पुनः स राजा खङ्गमुद्यम्य शीघ्रं कथयस्वेति तमाह हनिय॑ त्वामिति। स तदाऽऽह राजभयभीतः सूतो वामदेवस्याश्चौ वाम्यौ मनोजवाविति॥
37अथैनमेवं ब्रुवाणमब्रवीद् राजा वामदेवाश्रमं प्रयाहीति स गत्वा वामदेवाश्रमं तमृषिमब्रवीत्॥
38भगवन् मृगो मे विद्धः पलायते सम्भावयितुमर्हसि वाम्यौ दातुमिति। तमब्रवीदृषिर्ददानि ते वाम्यौ कृतकार्येण भवता ममैव वाम्यौ निर्यात्यौ क्षिप्रमिति। स च तावश्वौ प्रतिगृह्यानुज्ञाप्य ऋषिं प्रायाद् वामीप्रयुक्तेन रथेन मृगं प्रतिगच्छंश्चाब्रवीत् सूतमश्वरत्नाविमावयोग्यौ ब्राह्मणानां नैतौ प्रतिदेयौ वामदेवायेत्युक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तः पुरेऽस्थापयत्॥
39अथर्षिश्चिन्तयामास तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते न प्रतिनिर्यातयत्यहो कष्टमिति॥
40स मनसा विचिन्त्य मासि पूर्णे शिष्यमब्रवीत्॥ गच्छात्रेय राजानं ब्रूहि यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति। स गत्वैवं तं राजानमब्रवीत् तं राजा प्रत्युवाच राज्ञामेतद्वाहनमनर्हा ब्राह्मणा रत्नानामेवंविधानां किं ब्राह्मणानामश्वैः कार्यं साधु गम्यताम्॥
41स गत्वैतदुपाध्यायाचष्ट तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमचोदयन्न चाददद् राजा॥
42वामदेव उवाच प्रयच्छ वाम्यौ मम पार्थिव त्वं कृतं हि ते कार्यमाभ्यामशक्यम्। मा त्वा वधीद् वरुणो घोरपाशौब्रह्मक्षत्रस्यान्तरे वर्तमानम्॥
43राजोवाच अनड्वाहौ सुव्रतौ साधु दान्तावेतद् विप्राणां वाहनं वामदेव। ताभ्यां याहि त्वं तत्र कामो महर्षे छन्दांसि वै त्वादृशं संवहन्ति॥
44वामदेव उवाच छन्दांसि वै मादृशं संवहन्ति लोकेऽमुष्मिन् पार्थिव यानि सन्ति। अस्मिन्स्तु लोके मम यानमेतदस्मद्विधानामपरेषां च राजन्॥
45राजोवाच चत्वारस्त्वां वा गर्दभाः संवहन्तु श्रेष्ठाश्वतर्यो हरयो वातरंहाः। तैस्त्वं याहि क्षत्रियस्यैष वाहो ममैव वाम्यौ न तवैतौ हि विद्धि॥
46वामदेव उवाच घोरं व्रतं ब्राह्मणस्यैतदाहुरेतद् राजन् यदिहाजीवमानः। अयस्मया घोररूपा महान्तश्चत्वारो वा यातुधानाः सुरौद्राः। मया प्रयुक्तास्त्वद्वधमीप्समाना वहन्तु त्वां शितशूलाश्चतु॥
47राजोवाच ये त्वां विदुर्ब्राह्मणं वामदेव वाचा हन्तुं मनसा कर्मणा वा। ते त्वां सशिष्यमिह पातयन्तु मद्वाक्यनुन्नाः शितशूलासिहस्ता:॥
48वामदेव उवाच ममैतौ वाम्यौ प्रतिगृह्य राजन् पुनर्ददानीति प्रपद्य त्वम्। प्रयच्छ शीघ्रं मम वाम्यौ त्वमश्वौ यद्यात्मानं जीवितुं ते क्षमं स्यात्॥
49राजोवाच न ब्राह्मणेभ्यो मृगया प्रसूता न त्वानुशास्म्यद्यप्रभृति हसत्यम्। तवैवाज्ञां सम्प्रणिधाय सर्वां तथा ब्रह्मन् पुण्यलोकं लभेयम्॥
50वामदेव उवाच नानुयोगा ब्राह्मणानां भवन्ति मे वाचा राजन् मनसा कर्मणा वा। स्तेन श्रेष्ठो भवति हि जीवमानः॥
51मार्कण्डेय उवाच एवमुक्ते वामदेवेन राजन् समुत्तस्थू राक्षसा घोररूपाः। तैः शूलहस्तैर्वध्यमानः स राजा प्रोवाचेदं वाक्यमुच्चैस्तदानीम्॥
52विधेया मे यदि चेमे विशोऽपि। नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ नैवंविधाधर्मशीला भवन्ति॥
53हतो जगामाशु महीं क्षितीशः। मिक्ष्वाकवो वै दलमभ्यषिञ्चन्॥
54राज्ये तदा तत्र गत्वा स विप्रः प्रोवाचेदं वचनं वामदेवः। मेवं राजन् सर्वधर्मेषु दृष्टम्॥
55विभेषि चेत् त्वमधर्मान्नरेन्द्र प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ। एतच्छ्रुत्वा वामदेवस्य वाक्यं स पार्थिवः सूतमुवाच रोषात॥
56एकं हि मे सायकं चित्ररूपं दिग्धं विषेणाहर संगृहीतम्। येन विद्धो वामदेवः शयीत संदश्यमानः श्वभिरार्तरूपः॥
57वामदेव उवाच जानामि पुत्रं दशवर्षं तवाह जातं महिष्यां श्येनजितं नरेन्द्र। स्तूर्णं प्रियं सायकै?ररूपैः॥
58मार्कण्डेय उवाच वन्तःपुरे राजपुत्रं जघाना स सायकस्तिग्मतेजा विसृष्टः श्रुत्वा दलस्तत्र वाक्यं बभाषे॥
59राजोवाच इक्ष्वाकवो हन्त चरामि वः प्रियं निहन्मीमं विप्रमद्य प्रमथ्य। आनीयतामपरस्तिग्मतेजाः पश्यध्वं मे वीर्यमद्य क्षितीशाः॥
60वामदेव उवाच यत् त्वमेनं सायकं घोररूपं विषेण दिग्धं मम संदधासि। न त्वेतं त्वं शरवर्षं विमोक्तुं संधातुं वा शक्यसे मानवेन्द्र॥
61राजोवाच इक्ष्वाकवः पश्यत मां गृहीतं न वै शक्नोम्येष शरं विमोक्तुम्। न चास्य कर्तुं नाशमभ्युत्सहामि आयुष्मान् वै जीवतु वामदेवः॥
62वामदेव उवाच संस्पृश्यैनां महिषी सायकेन ततस्तस्मादेनसो मोक्ष्यसे त्वम्। ततस्तथा कृतवान् पार्थिवस्तु ततो मुनि राजपुत्री बभाषे॥
63राजपुत्र्युवाच यथा युक्ता वामदेवाहमेनं दिने दिने संदिशन्ती नृशंसम्। ब्राह्मणेभ्यो मृगयती सूनृतानि तथा ब्रह्मन् पुण्यलोकं लभेयम्॥
64वामदेव उवाच त्वया त्रातं राजकुलं शुभेक्षणे वरं वृणीष्वाप्रतिमं ददानि ते। प्रशाधीमं स्वजनं राजपुत्रि इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये॥
65राजपुत्र्युवाच वरं वृणे भगवंस्त्वेवमेष विमुच्यतां किल्बिषादद्य भर्ता। शिवेन चाध्याहि सपुत्रबान्धवं वरो वृतो ह्येष मया द्विजावय॥
66मार्कण्डेय उवाच स्तथास्त्विति प्राह कुरुप्रवीर। ततः स राजा मुदितो बभूव वाम्यौ चास्मै प्रददौ सम्प्रणम्य॥
English
1Vaishampayana said : The of Pandu spoke thus Markandeya, “You should speak to me about the greatness of the Brahmanas.": son to
2Markandeya replied, “Hear the account of the Brahmanas in the days of old."
3Markandeya said : A king of Ayodhya, born in Ikshvaku's dynasty, named Parikshit (once) went out hunting.
4Pursuing a deer alone on a single horse he went away to a great distance (from his followers and retinue).
5Fatigued and afflicted with hunger and thirst, he saw in that part of the country where he was (thus) led, a dark and dense forest.
6He entered it (the forest). Seeing in the deep forest a charming lake, he with his horse bathed there.
7Thus being refreshed and placing some lotus-stalks before the horse (for him to eat), he sat on the side of the lake. Lying down there he heard a sweet strain of music.
8Hearing it he reflected, “I do not see any trace of any human being here: whose strain of music is then this?"
9He then saw a damsel of great beauty and grace gathering flowers and singing (as she was doing it). She soon came near the king.
10To her said he, “O blessed lady, who are you and to whom do you belong?" "She replied, I am a maiden." The king said, “I ask you to be mine."
11To him replied the maiden, "Give me a pledge, only then I can be yours.” The king asked about the pledge and the maiden said, “I must never sce water."
12The king asked, “Be it so" and he then married her. Having married her, the king Parikshit sported with her in great joy and sat with her in silence.
13When he was thus living, his soldiers arrived at that spot.
14Seeing the kings, the soldiers stood surrounded him. Chcered by the arrival of his soldiers, the king entered a Palakin and went to his city. Arriving at his own city, he lived with her in privacy.
15Even those who were stationed near him could not see him. Thereupon his chief ininister asked those women that waited upon him, "What is your business?” The women said,
16“We see here a matchlessly beautiful damsel and the king has married her giving her a pledge, namely that he would never show her any water." Having heard all this, he (the minister) made an artificial forest containing many trees with numerous fruits and flowers. He excavated a large and deep tank within that forest in one of its corners. He covered it with a net of pearls and its water looked like ambrosia. One day he spoke thus to the king in private. “This is a beautiful forest having no water any where. Sport here in joy."
17At these words of the minister, he (the king) entered that forest with his beautiful wife. One day when he was sporting in that charming forest, he became tired and fatigued and afflicted with hunger and thirst. He then saw a bower of Madhavi (creeper).
18Entering it with his beloved, the king saw a tank full of water which was transparent and which was as sweet as nectar. Seeing it with his beautiful wife, he sat down on its bank.
19Then the king thus spoke to that lady, “Cheerfully bathe in this water." Having heard his words, she got down under the water, but she did not reappear again.
20When the king searched for her, he did not find any trace of her. He then ordered the water of the tank to be pumped out. He thereupon saw a frog sitting at the mouth of a hole. On seeing this, the king passed the following order in anger.
21“Kill all frogs wherever they are to be found. Whoever wishes to see me, let him come to me with a dead frog as tribute."
22When this fearful destruction of frogs went on, the frightened frogs went to their king and told him all that had happened.
23Thereupon the king of the frogs, assuming the garb of an ascetic Brahmana, came to that monarch and thus spoke to him,
24“O king, do not allow anger to take possession of you. Be king, you should not destroy the innocent frogs."
25Two slokas here follow O undeteriorating one, do not destroy the frogs. Pacify your wrath. The prosperity and ascetic merit of those that have their souls steeped in ignorance always suffer diminution. Pledge yourself not to be angry with the frogs. What need have you to commit such a sin? what purpose will be served by killing the frogs?”
26To him the king whose heart was full of the grief for the disappearance of his dear one thus spoke,
27"I will never forgive the frogs. I will certainly destroy them. My beloved wife has been devoured by one of these wicked wretches. The frogs therefore will always deserve to be killed by me. O lcarned man, you shall not intercede on their behalf."
28Having heard his words, he (the frog king) thus spoke with his senses and mind much pained, "O king, be kind. I am the king of the frogs, named Ayu. She was my daughter, named Sushobhana. This is but an instance of her bad character. She had deceived many other kings before. Then the king said, “I desire to have her. Let her be given to me by you."
29Thereupon her father bestowed her upon him and he spoke to her thus, “Wait upon this king."
30Having said this, he thus cursed his daughter in anger, “As you have deceived many kings, for your this untruthful conduct, your sons will be haters of Brahmanas."
31Having obtained her, the king became greatly enamoured of her for her great accomplishments. Feeling that he had, as it were, obtained the sovereignty of the three worlds, he bowed down his head to the king of the frogs. Honouring him in due form he thus spoke with his voice choked with tears of joy, "I have been much favoured."
32The king of the frogs, then biding farewell to his daughter, went away whence he had come.
33After sometime, the king begot on her three sons. They were named, Shala, Dala and Bala. Sometime after, the king, their father, installing the eldest son on the throne, went to a forest with the desire of practising asceticism.
34One day Shala, when out in hunting, saw a deer and pursued it on his car.
35He spoke to the charioteer “Drive me faster.” Having been thus addressed the charioteer said to the king,
36"Do not entertain such a purpose. This deer is incapable of being caught by you. If however Vami horses were yoked to your chariot, then you could have caught it.” Thereupon the king said to the charioteer. Tell me all about the Vami horses or else I shall kill you,” Having been thus addressed by the king, the charioteer became greatly frightened. He was afraid of the king, he was also afraid of the Vamadeva; and therefore he did not tell the king anything. Thereupon the king uplifting his sword again said to him. “Tell me soon or I will certainly kill you.” Being afraid of the king, the charioteer said, “Vami horses are those that belong to Vamadeva, they are as fleet as the mind.
37When he said this, the king thus spoke to him, "go (at once) to the hermitage of Vamadeva." Having gone to the hermitage of Vamadeva, he thus spoke to that Rishi,
38"O exalted one, a deer shot by me is flying away. You should make me capable of catching it by giving me your pair of Vami horses. The Rishi replied, "I give you my pair of Vami horses; but after accomplishing your object, you must soon return them to me." Having taken those horses and having obtained the Rishi's permission, the king yoked the paid of Vami horses to his car and then pursued the deer. When he had left the hermitage, he thus spoke to his charioteer. “There (two) jewels of horses the Brahmanas (by no means) deserve to possess. They must not be returned to Vamadeva.” Having said this and caught the deer, he returned to his capital and kept the Vami horses in the inner apartments of his palace.
39Thereupon the Rishi reflected, “This prince is young. Having obtained an excellent pair of horses, he is sporting with them in great joy without returning them to me. Alas! What a pity!"
40Having thus thought in his mind, he spoke to one of his disciples after full one month had passed away. “O Atreya, go and ask the king what he had done with the Vami horses. He should return them to your preceptor. He went to the king and spoke to him as instructed. Thereupon the king replied, “These two horses deserve (only) to be possessed by kings. The Brahmanas do not deserve to possess jewels of such value. What business have Brahmanas with horses? Go back with contentment."
41Going back he told all to the preceptor. Having heard this sad news, Vamadeva was filled with wrath and he himself went to the king and asked for his horses. But he declined to give him what he asked.
42Vamadeva said: O king, give me my Vami horses. By them you have accomplished something which was impossible to be accomplished by you. By transgressing the practices of both the Brahmanas and the Kshatriyas, do not cause your own death by the terrible curse of Varuna.
43The king said : O Vamadeva, these two excellent, well trained and docile bulls are fit animals for Brahmanas. Go with them wherever you like. Even the Vedas carry person, like you, (what will you do with horses)?
44Vamadeva said : O king, the Vedas indeed carry persons like us, but that is in the next world. But in this world animals like these (horses) carry me and also men like me and also all others,
45The king said: Let four asses carry you or four mules of the best kind or four horses as fleet as the wind. Go away with these, the pair of Vami horses deserve to be possessed only by the Kshatriyas. Therefore, know that those (Vami horses) are not yours.
46Vamadeva said: O king, very severe vows have been ordained for the Brahmanas. If I have observed them, then let. four fearful and mightyRakshasas of terrible appearance and iron body pursue you at my command and kill you and then carry you on their sharp lances after cutting up your body into four parts.
47The king said: O Vamadeva, let those that are armed with bright lances and swords and that know you to be a Brahmana who desires to take life in thought, word and deed, at my command cut you down with all your disciples,
48Vamadeva said: O king, when you receive from me these Vami horses, you had said, I will return them." Therefore give me back my Vami horses, so that you can save your life.
49The king said: Hunting is ordained for the Kshatriyas. I do not punish you for your untruthfulness. O Brahmana, obeying all your commands, I shall obtain the blessed region.
50Vamadeva said : A Brahmana can never be punished in thoughts, words or deeds. That learned man who succeeds by ascetic austerities on knowing a Brahmana to be so does not attain to prominence in this world.
51Markandeya said : O king, when the king had been thus addressed by Vamadeva, there rose four fearful-featured Rakshasas. As they with up lifted lances in their hands came to the king with the intention of killing him, he thus cried aloud,
52"O Brahmana, if all the Ikshvakus, if Dala (my brother), if all these Vaishyas tell me, even then I will not give up these Vami horses to Vamadeva, for these men can never (then) be virtuous."
53When he was thus speaking, they (the Rakshasas) killed him and that lord of earth fell on the ground. Thereupon learning in the death of the king, the Ikshvakus installed Dala on the throne."
54Then the Brahmana Vamadeva went to his kingdom and spoke thus to the king Dala, “O king, it has been ordained in all the Shastras that men should give away to the Brahmanas.
55O king, if you fear sin, then give me my Vami horses back without any delay." Having heard these words of Vamadeva, that king spoke thus to the charioteer in anger,"
56Bring me one of those beautiful but poisonous arrows that are kept with you, so that pierced by it, Vamadeva may lie prostrate on the ground in pain and be torn by the dogs.
57Vamadeva said: O ruler of men, I know you have a son ten years old, born of Shyenajita, your queen, Urged by my word, soon kill your that beloved boy by these fearful arrows
58Markandeya said : O king, when Vamadeva had said this, the (arrows) killed the prince in the inner apartment. Hearing that he had been killed by his arrows, Dala spoke these words.
59The king said: O Ikshvakus, I shall today of your good. I will with great force kill this Brahmana. Bring me another of my greatly effulgent arrows. O rulers of earth, behold my prowess today.
60Vamadeva said : This fearful and poisonous arrow that you aim at me, O ruler of men, you shall not be able to aim or to shoot,
61The king said: O Ikshvakus, behold, I am incapable of shooting the arrow that has been taken by me; I fail to kill this Brahmana. Let Vamadeva be blessed with a long life.
62Vamadeva said: Touching your queen with this arrow, you may cleanse yourself off this sin. After that the king did as he was directed and then the princess spoke thus to the Rishi.
63The Queen said : O Vamadeva, let me be able to instruct duly this foolish, husband of mine from day to day imparting to him words of grave import. Let me always wait upon and serve the Brahmanas; and by this, O twice born one, let me acquire the sacred regions after death.
64Vamadeva said : O princess, O beautiful-eyed lady, you have saved this royal dynasty. Ask of me a matchless boon. I will grant you whatever you ask. O faultless lady; rule over your these kinsmen and over the kingdom of the Ikshvakus.
65The Queen said: O exalted one, this is the boon I ask, that my husband may now be freed from his sin and that you may think well of his son and kinsmen. O foremost of Brahmanas, this is the boon I ask.
66Markandeya said : Having heard her these words, O foremost of the Kurus, the Rishi said, “Be it so." Thereupon that king, becoming exceedingly happy and bowing to the great Rishi, gave him his Vami horses.
Hindi
1वैशम्पायन ने कहा — पाण्डुपुत्र ने मार्कण्डेय से इस प्रकार कहा — "आपको मुझे ब्राह्मणों की महिमा के विषय में बताना चाहिए।"
2मार्कण्डेय ने उत्तर दिया — "पूर्वकाल में ब्राह्मणों का जो वृत्तान्त हुआ, उसे सुनो।"
3मार्कण्डेय ने कहा — इक्ष्वाकु के वंश में उत्पन्न परीक्षित् नामक अयोध्या का एक राजा (एक बार) आखेट के लिए निकला।
4एक ही अश्व पर अकेले एक मृग का पीछा करते हुए वह (अपने अनुचरों और परिजनों से) बहुत दूर निकल गया।
5थका हुआ तथा भूख और प्यास से पीड़ित उसने देश के उस भाग में, जहाँ वह (इस प्रकार) पहुँच गया था, एक अन्धकारमय और घना वन देखा।
6उसने उस (वन) में प्रवेश किया। उस गहन वन में एक मनोहर सरोवर देखकर उसने अपने अश्व सहित वहाँ स्नान किया।
7इस प्रकार स्वस्थ होकर और अश्व के सामने कुछ कमलनाल (खाने के लिए) रखकर वह सरोवर के तट पर बैठ गया। वहाँ लेटे हुए उसने सङ्गीत की एक मधुर तान सुनी।
8उसे सुनकर उसने विचार किया — "यहाँ मुझे किसी मनुष्य का कोई चिह्न दिखाई नहीं देता; तो फिर यह सङ्गीत की तान किसकी है?"
9तब उसने परम सुन्दरी और लावण्यमयी एक कन्या को फूल चुनते और (चुनते-चुनते) गाते हुए देखा। वह शीघ्र ही राजा के समीप आ गई।
10उसने उससे कहा — "हे भद्रे, तुम कौन हो और किसकी हो?" उसने उत्तर दिया — "मैं एक कन्या हूँ।" राजा ने कहा — "मैं तुमसे प्रार्थना करता हूँ कि तुम मेरी हो जाओ।"
11उससे उस कन्या ने कहा — "मुझे एक वचन दीजिए, तभी मैं आपकी हो सकती हूँ।" राजा ने वचन के विषय में पूछा और कन्या ने कहा — "मुझे कभी जल नहीं देखना चाहिए।"
12राजा ने कहा — "ऐसा ही हो" और तब उसने उससे विवाह कर लिया। उससे विवाह करके राजा परीक्षित् ने महान् आनन्द से उसके साथ विहार किया और मौन होकर उसके साथ बैठा रहा।
13जब वह इस प्रकार रह रहा था, तब उसके सैनिक उस स्थान पर आ पहुँचे।
14राजा को देखकर सैनिक उसे घेरकर खड़े हो गए। अपने सैनिकों के आगमन से प्रसन्न होकर राजा पालकी में बैठा और अपने नगर को चला गया। अपने नगर पहुँचकर वह उसके साथ एकान्त में रहने लगा।
15जो उसके समीप ही नियुक्त थे, वे भी उसे नहीं देख पाते थे। तब उसके प्रधानमन्त्री ने उन स्त्रियों से पूछा जो उसकी सेवा में रहती थीं — "तुम्हारा क्या काम है?" स्त्रियों ने कहा —
16"हम यहाँ एक अनुपम सुन्दरी कन्या को देखते हैं और राजा ने उसे यह वचन देकर उससे विवाह किया है कि वह उसे कभी जल नहीं दिखाएँगे।" यह सब सुनकर उस (मन्त्री) ने एक कृत्रिम वन बनवाया, जिसमें प्रचुर फलों और फूलों से लदे अनेक वृक्ष थे। उस वन के एक कोने में उसने एक विशाल और गहरा जलाशय खुदवाया। उसने उसे मोतियों के जाल से ढक दिया और उसका जल अमृत के समान लगता था। एक दिन उसने एकान्त में राजा से इस प्रकार कहा — "यह एक सुन्दर वन है जिसमें कहीं जल नहीं है। यहाँ आनन्दपूर्वक विहार कीजिए।"
17मन्त्री के इन वचनों पर उस (राजा) ने अपनी सुन्दरी पत्नी के साथ उस वन में प्रवेश किया। एक दिन जब वह उस मनोहर वन में विहार कर रहा था, तब वह थका और श्रान्त हो गया तथा भूख और प्यास से पीड़ित हुआ। तब उसने माधवी (लता) का एक कुञ्ज देखा।
18अपनी प्रिया के साथ उसमें प्रवेश करके राजा ने जल से भरा एक जलाशय देखा, जो स्वच्छ था और अमृत के समान मधुर था। अपनी सुन्दरी पत्नी के साथ उसे देखकर वह उसके तट पर बैठ गया।
19तब राजा ने उस स्त्री से इस प्रकार कहा — "प्रसन्नतापूर्वक इस जल में स्नान करो।" उसके वचन सुनकर वह जल के भीतर उतर गई, किन्तु फिर कभी ऊपर नहीं आई।
20जब राजा ने उसे खोजा, तब उसे उसका कोई चिह्न नहीं मिला। तब उसने जलाशय का जल उलीच देने की आज्ञा दी। इसके पश्चात् उसने एक बिल के मुख पर बैठे हुए एक मेंढक को देखा। यह देखकर राजा ने क्रोध में यह आज्ञा दी।
21"मेंढक जहाँ कहीं भी मिलें, उन सबका वध कर दो। जो कोई मुझसे मिलना चाहे, वह भेंट के रूप में एक मरा हुआ मेंढक लेकर मेरे पास आए।"
22जब मेंढकों का यह भयङ्कर संहार चल रहा था, तब भयभीत मेंढक अपने राजा के पास गए और उन्हें सब कुछ बताया जो घटित हुआ था।
23तदनन्तर मेंढकों का राजा एक तपस्वी ब्राह्मण का वेश धारण करके उस नरेश के पास आया और उससे इस प्रकार बोला —
24"हे राजन्, क्रोध को अपने ऊपर अधिकार मत करने दीजिए। दयालु बनिए, आपको निरपराध मेंढकों का नाश नहीं करना चाहिए।"
25(यहाँ दो श्लोक इस प्रकार हैं) हे अविनाशी, मेंढकों का नाश मत कीजिए। अपने क्रोध को शान्त कीजिए। जिनकी आत्मा अज्ञान में डूबी रहती है, उनकी समृद्धि और तपस्या का पुण्य सदा क्षीण होता जाता है। प्रतिज्ञा कीजिए कि आप मेंढकों पर क्रोध नहीं करेंगे। ऐसा पाप करने की आपको क्या आवश्यकता है? मेंढकों का वध करने से क्या प्रयोजन सिद्ध होगा?
26उससे उस राजा ने, जिसका हृदय अपनी प्रिया के लोप के शोक से भरा था, इस प्रकार कहा —
27"मैं मेंढकों को कभी क्षमा नहीं करूँगा। मैं उनका निश्चय ही नाश करूँगा। मेरी प्रिय पत्नी को इन्हीं दुष्ट नराधमों में से एक ने निगल लिया है। इसलिए मेंढक सदा मेरे द्वारा वध के योग्य हैं। हे विद्वान्, आप उनकी ओर से मध्यस्थता न करें।"
28उसके वचन सुनकर उस (मेंढकराज) ने अपनी इन्द्रियों और मन में अत्यन्त पीड़ित होकर इस प्रकार कहा — "हे राजन्, दयालु बनिए। मैं आयु नामक मेंढकों का राजा हूँ। वह मेरी पुत्री थी, जिसका नाम सुशोभना था। यह तो उसके दुश्चरित्र का एक उदाहरण मात्र है। वह इससे पूर्व भी अनेक राजाओं को छल चुकी है।" तब राजा ने कहा — "मैं उसे पाना चाहता हूँ। आप उसे मुझे दे दीजिए।"
29तदनन्तर उसके पिता ने उसे उसे प्रदान कर दिया और उससे इस प्रकार कहा — "इस राजा की सेवा करना।"
30यह कहकर उसने क्रोध में अपनी पुत्री को इस प्रकार शाप दिया — "क्योंकि तुमने अनेक राजाओं को छला है, इसलिए तुम्हारे इस असत्य आचरण के कारण तुम्हारे पुत्र ब्राह्मणों से द्वेष करने वाले होंगे।"
31उसे पाकर राजा उसके महान् गुणों के कारण उस पर अत्यन्त मुग्ध हो गया। मानो उसने तीनों लोकों का राज्य प्राप्त कर लिया हो — ऐसा अनुभव करते हुए उसने मेंढकों के राजा के आगे अपना मस्तक झुकाया। विधिपूर्वक उसका सम्मान करके उसने हर्ष के आँसुओं से रुँधे कण्ठ से इस प्रकार कहा — "मुझ पर बड़ी कृपा हुई।"
32तदनन्तर मेंढकों का राजा अपनी पुत्री से विदा लेकर जहाँ से आया था वहीं लौट गया।
33कुछ समय पश्चात् राजा ने उससे तीन पुत्र उत्पन्न किए। उनके नाम शल, दल और बल थे। कुछ समय पश्चात् उनके पिता उस राजा ने ज्येष्ठ पुत्र को सिंहासन पर अभिषिक्त करके तपस्या करने की इच्छा से वन को प्रस्थान किया।
34एक दिन शल आखेट के लिए निकला हुआ था, तब उसने एक मृग देखा और अपने रथ पर उसका पीछा किया।
35उसने सारथि से कहा — "मुझे और तेज ले चलो।" इस प्रकार सम्बोधित किए जाने पर सारथि ने राजा से कहा —
36"ऐसा विचार मत कीजिए। यह मृग आपके द्वारा पकड़ा नहीं जा सकता। किन्तु यदि आपके रथ में वामी अश्व जोते जाएँ, तो आप इसे पकड़ सकते थे।" तब राजा ने सारथि से कहा — "मुझे वामी अश्वों के विषय में सब कुछ बताओ, अन्यथा मैं तुम्हें मार डालूँगा।" राजा द्वारा इस प्रकार सम्बोधित किए जाने पर सारथि अत्यन्त भयभीत हो गया। वह राजा से भी डरता था और वामदेव से भी; और इसलिए उसने राजा से कुछ नहीं कहा। तब राजा ने अपनी तलवार उठाकर उससे फिर कहा — "शीघ्र बताओ, अन्यथा मैं तुम्हें निश्चय ही मार डालूँगा।" राजा से डरकर सारथि ने कहा — "वामी अश्व वे हैं जो वामदेव के हैं, वे मन के समान वेगवान् हैं।"
37उसने यह कहा, तब राजा ने उससे इस प्रकार कहा — "(तुरन्त) वामदेव के आश्रम को चलो।" वामदेव के आश्रम में जाकर उसने उन ऋषि से इस प्रकार कहा —
38"हे महात्मन्, मेरे द्वारा घायल किया गया एक मृग भागा जा रहा है। आपको अपने वामी अश्वों की जोड़ी देकर मुझे उसे पकड़ने में समर्थ बनाना चाहिए।" ऋषि ने उत्तर दिया — "मैं तुम्हें अपने वामी अश्वों की जोड़ी देता हूँ; किन्तु अपना कार्य सिद्ध कर लेने पर तुम्हें उन्हें शीघ्र मुझे लौटाना होगा।" उन अश्वों को लेकर और ऋषि की अनुमति प्राप्त करके राजा ने वामी अश्वों की जोड़ी अपने रथ में जोती और तब उस मृग का पीछा किया। आश्रम से निकल जाने पर उसने अपने सारथि से इस प्रकार कहा — "ये (दो) अश्वरत्न रखने के ब्राह्मण (किसी प्रकार) योग्य नहीं हैं। इन्हें वामदेव को नहीं लौटाना चाहिए।" यह कहकर और उस मृग को पकड़कर वह अपनी राजधानी को लौट आया और वामी अश्वों को अपने महल के अन्तःपुर में रख लिया।
39तदनन्तर ऋषि ने विचार किया — "यह राजकुमार युवा है। उत्तम अश्वों की जोड़ी पाकर वह उन्हें मुझे न लौटाकर महान् आनन्द से उनके साथ क्रीड़ा कर रहा है। हाय! कैसा खेद है!"
40मन में इस प्रकार विचार करके पूरा एक मास बीत जाने पर उन्होंने अपने एक शिष्य से कहा — "हे आत्रेय, जाओ और राजा से पूछो कि उसने वामी अश्वों का क्या किया। उसे वे तुम्हारे गुरु को लौटा देने चाहिए।" वह राजा के पास गया और जैसा उसे कहा गया था वैसा ही उससे कहा। तब राजा ने उत्तर दिया — "ये दो अश्व (केवल) राजाओं के रखने योग्य हैं। ब्राह्मण इतने मूल्यवान् रत्न रखने योग्य नहीं हैं। ब्राह्मणों को अश्वों से क्या काम? सन्तोष करके लौट जाओ।"
41लौटकर उसने गुरु को सब कुछ बता दिया। यह दुःखद समाचार सुनकर वामदेव क्रोध से भर गए और स्वयं राजा के पास जाकर अपने अश्व माँगे। किन्तु उसने जो माँगा गया था, वह देने से इनकार कर दिया।
42वामदेव ने कहा — हे राजन्, मुझे मेरे वामी अश्व दे दो। उनके द्वारा तुमने वह कार्य सिद्ध किया है जो तुम्हारे लिए असम्भव था। ब्राह्मणों और क्षत्रियों — दोनों के आचारों का उल्लङ्घन करके वरुण के भयङ्कर शाप से अपनी ही मृत्यु मत बुलाओ।
43राजा ने कहा — हे वामदेव, ये दो उत्तम, सुशिक्षित और सीधे बैल ब्राह्मणों के योग्य पशु हैं। इन्हें लेकर जहाँ इच्छा हो चले जाइए। आप जैसे पुरुषों को तो वेद ही ढो ले जाते हैं (फिर अश्वों से आपका क्या काम)?
44वामदेव ने कहा — हे राजन्, हम जैसों को वेद निश्चय ही ढोते हैं, किन्तु वह परलोक में। इस लोक में तो ये (अश्व) जैसे पशु ही मुझे और मुझ जैसे मनुष्यों को तथा अन्य सबको ढोते हैं।
45राजा ने कहा — चार गधे आपको ढो लें, या उत्तम जाति के चार खच्चर, अथवा वायु के समान वेगवान् चार घोड़े। इन्हें लेकर चले जाइए; वामी अश्वों की यह जोड़ी केवल क्षत्रियों के रखने योग्य है। इसलिए जान लीजिए कि वे (वामी अश्व) आपके नहीं हैं।
46वामदेव ने कहा — हे राजन्, ब्राह्मणों के लिए अत्यन्त कठोर व्रत विहित किए गए हैं। यदि मैंने उनका पालन किया है, तो भयङ्कर आकृति और लौह-शरीर वाले चार भयानक और महाबली राक्षस मेरी आज्ञा से तुम्हारा पीछा करें, तुम्हें मार डालें और तब तुम्हारे शरीर के चार टुकड़े करके उन्हें अपने तीखे भालों पर लटकाकर ले जाएँ।
47राजा ने कहा — हे वामदेव, जो चमकीले भाले और तलवारें धारण किए हुए हैं और जो जानते हैं कि आप ऐसे ब्राह्मण हैं जो मन, वचन और कर्म से प्राण लेना चाहता है — वे मेरी आज्ञा से आपको आपके समस्त शिष्यों सहित काट डालें।
48वामदेव ने कहा — हे राजन्, जब तुमने मुझसे ये वामी अश्व लिए थे, तब तुमने कहा था — "मैं इन्हें लौटा दूँगा।" इसलिए मेरे वामी अश्व मुझे लौटा दो, जिससे तुम अपने प्राण बचा सको।
49राजा ने कहा — आखेट क्षत्रियों के लिए विहित है। मैं आपको आपके असत्य के लिए दण्ड नहीं देता। हे ब्राह्मण, आपकी समस्त आज्ञाओं का पालन करके मैं मङ्गलमय लोक प्राप्त करूँगा।
50वामदेव ने कहा — ब्राह्मण को मन, वचन या कर्म से कभी दण्डित नहीं किया जा सकता। जो विद्वान् ब्राह्मण को ऐसा जानकर भी तपस्या के बल से (उस पर) विजय पाता है, वह इस लोक में श्रेष्ठता प्राप्त नहीं करता।
51मार्कण्डेय ने कहा — हे राजन्, जब वामदेव ने राजा से इस प्रकार कहा, तब भयङ्कर आकृति वाले चार राक्षस उठ खड़े हुए। जब वे अपने हाथों में भाले उठाए राजा को मारने के उद्देश्य से उसके पास आए, तब उसने इस प्रकार ऊँचे स्वर में पुकारा —
52"हे ब्राह्मण, यदि समस्त इक्ष्वाकु कहें, यदि दल (मेरा भाई) कहे, यदि ये समस्त वैश्य भी मुझसे कहें, तो भी मैं ये वामी अश्व वामदेव को नहीं दूँगा; क्योंकि तब ये मनुष्य कभी धर्मात्मा नहीं हो सकते।"
53जब वह इस प्रकार कह रहा था, तभी उन (राक्षसों) ने उसे मार डाला और वह पृथ्वीपति भूमि पर गिर पड़ा। तदनन्तर राजा की मृत्यु का समाचार पाकर इक्ष्वाकुओं ने दल को सिंहासन पर अभिषिक्त किया।
54तब ब्राह्मण वामदेव उसके राज्य में गए और राजा दल से इस प्रकार बोले — "हे राजन्, समस्त शास्त्रों में यह विहित है कि मनुष्यों को ब्राह्मणों को दान देना चाहिए।
55हे राजन्, यदि तुम्हें पाप का भय है, तो मुझे मेरे वामी अश्व बिना किसी विलम्ब के लौटा दो।" वामदेव के ये वचन सुनकर उस राजा ने क्रोध में सारथि से इस प्रकार कहा —
56"तुम्हारे पास जो सुन्दर किन्तु विषैले बाण रखे हैं, उनमें से एक मुझे ला दो, जिससे उससे बिंधकर वामदेव पीड़ा में भूमि पर पड़ा रहे और कुत्तों द्वारा नोचा जाए।"
57वामदेव ने कहा — हे मनुष्यों के शासक, मैं जानता हूँ कि तुम्हारी रानी श्येनजिता से उत्पन्न दस वर्ष का एक पुत्र है। मेरे वचन से प्रेरित होकर तुम इन्हीं भयङ्कर बाणों से शीघ्र ही अपने उस प्रिय बालक का वध करोगे।
58मार्कण्डेय ने कहा — हे राजन्, जब वामदेव ने यह कहा, तब उन (बाणों) ने अन्तःपुर में उस राजकुमार का वध कर दिया। यह सुनकर कि वह उसके ही बाणों से मारा गया है, दल ने ये वचन कहे।
59राजा ने कहा — हे इक्ष्वाकुओ, आज मैं तुम्हारा हित करूँगा। मैं महान् बल से इस ब्राह्मण का वध करूँगा। मेरे अत्यन्त तेजस्वी बाणों में से दूसरा बाण मुझे लाकर दो। हे पृथ्वीपतियो, आज मेरा पराक्रम देखो।
60वामदेव ने कहा — हे मनुष्यों के शासक, यह भयङ्कर और विषैला बाण जो तुम मुझ पर ताक रहे हो, उसे न तो तुम ताक सकोगे और न चला सकोगे।
61राजा ने कहा — हे इक्ष्वाकुओ, देखो, जो बाण मैंने उठाया है उसे मैं चला नहीं सकता; मैं इस ब्राह्मण का वध करने में असमर्थ हूँ। वामदेव दीर्घायु हों।
62वामदेव ने कहा — इस बाण से अपनी रानी का स्पर्श करके तुम इस पाप से अपने को शुद्ध कर सकते हो। इसके पश्चात् राजा ने वैसा ही किया जैसा उसे बताया गया था और तब राजकुमारी ने ऋषि से इस प्रकार कहा।
63रानी ने कहा — हे वामदेव, मैं अपने इस मूर्ख पति को दिन-प्रतिदिन गम्भीर अर्थ वाले वचन सुनाकर विधिपूर्वक उपदेश देने में समर्थ होऊँ। मैं सदा ब्राह्मणों की सेवा और परिचर्या करूँ; और इससे, हे द्विज, मैं मृत्यु के पश्चात् पवित्र लोक प्राप्त करूँ।
64वामदेव ने कहा — हे राजकुमारी, हे सुनयने, तुमने इस राजवंश की रक्षा की है। मुझसे कोई अनुपम वर माँगो। तुम जो कुछ माँगोगी, मैं वह दूँगा। हे निर्दोष देवि, अपने इन बन्धुओं पर और इक्ष्वाकुओं के राज्य पर शासन करो।
65रानी ने कहा — हे महात्मन्, मैं यही वर माँगती हूँ कि मेरे पति अब अपने पाप से मुक्त हो जाएँ और आप उनके पुत्र तथा बन्धुओं का भला सोचें। हे ब्राह्मणश्रेष्ठ, मैं यही वर माँगती हूँ।
66मार्कण्डेय ने कहा — हे कुरुश्रेष्ठ, उसके ये वचन सुनकर ऋषि ने कहा — "ऐसा ही हो।" तदनन्तर वह राजा अत्यन्त प्रसन्न होकर और उन महर्षि को प्रणाम करके उन्हें उनके वामी अश्व दे दिए।
Nepali
1वैशम्पायनले भने — पाण्डुपुत्रले मार्कण्डेयलाई यसरी भने — "तपाईंले मलाई ब्राह्मणहरूको महिमाका विषयमा बताउनुपर्छ।"
2मार्कण्डेयले उत्तर दिए — "पूर्वकालमा ब्राह्मणहरूको जुन वृत्तान्त भयो, त्यो सुन।"
3मार्कण्डेयले भने — इक्ष्वाकुको वंशमा उत्पन्न परीक्षित् नामक अयोध्याका एक राजा (एक पटक) सिकार खेल्न निस्के।
4एउटै अश्वमा एक्लै एउटा मृगको पछि लाग्दै उनी (आफ्ना अनुचर र परिजनहरूबाट) धेरै टाढा पुगे।
5थाकेको तथा भोक र तिर्खाले पीडित उनले देशको त्यस भागमा, जहाँ उनी (यसरी) पुगेका थिए, एउटा अन्धकारमय र घना वन देखे।
6उनले त्यस (वन) मा प्रवेश गरे। त्यस गहन वनमा एउटा मनोहर सरोवर देखेर उनले आफ्नो अश्वसहित त्यहाँ स्नान गरे।
7यसरी स्वस्थ भई र अश्वको अगाडि केही कमलनाल (खानका लागि) राखेर उनी सरोवरको किनारमा बसे। त्यहाँ पल्टिरहँदा उनले सङ्गीतको एउटा मधुर तान सुने।
8त्यो सुनेर उनले विचार गरे — "यहाँ मलाई कुनै मानिसको कुनै चिह्न देखिँदैन; त्यसो भए यो सङ्गीतको तान कसको हो?"
9तब उनले परम सुन्दरी र लावण्यमयी एउटी कन्यालाई फूल टिप्दै र (टिप्दा-टिप्दै) गाइरहेको देखे। उनी शीघ्रै राजाको समीप आइन्।
10उनले उनलाई भने — "हे भद्रे, तिमी को हौ र कसकी हौ?" उनले उत्तर दिइन् — "म एउटी कन्या हुँ।" राजाले भने — "म तिमीसँग प्रार्थना गर्दछु कि तिमी मेरी होऊ।"
11उनलाई ती कन्याले भनिन् — "मलाई एउटा वचन दिनुहोस्, तब मात्र म तपाईंकी हुन सक्छु।" राजाले वचनका विषयमा सोधे र कन्याले भनिन् — "मैले कहिल्यै पानी देख्नु हुँदैन।"
12राजाले भने — "यस्तै होस्" र तब उनले उनीसँग विवाह गरे। उनीसँग विवाह गरेर राजा परीक्षित्ले महान् आनन्दले उनीसँग विहार गरे र मौन भई उनीसँग बसिरहे।
13जब उनी यसरी बसिरहेका थिए, तब उनका सैनिकहरू त्यस स्थानमा आइपुगे।
14राजालाई देखेर सैनिकहरू उनलाई घेरेर उभिए। आफ्ना सैनिकहरूको आगमनले प्रसन्न भई राजा पालकीमा बसे र आफ्नो नगरतर्फ गए। आफ्नो नगर पुगेर उनी उनीसँग एकान्तमा बस्न थाले।
15जो उनकै समीपमा नियुक्त थिए, तिनीहरूले पनि उनलाई देख्न पाउँदैनथे। तब उनका प्रधानमन्त्रीले ती स्त्रीहरूलाई सोधे जो उनको सेवामा रहन्थे — "तिमीहरूको के काम छ?" स्त्रीहरूले भने —
16"हामी यहाँ एउटी अनुपम सुन्दरी कन्यालाई देख्छौँ र राजाले उनलाई यो वचन दिएर उनीसँग विवाह गर्नुभएको छ कि उहाँले उनलाई कहिल्यै पानी देखाउनुहुनेछैन।" यो सबै सुनेर ती (मन्त्री) ले एउटा कृत्रिम वन बनाए, जसमा प्रशस्त फल र फूलले लटरम्म भएका अनेक रूख थिए। त्यस वनको एउटा कुनामा उनले एउटा विशाल र गहिरो जलाशय खनाए। उनले त्यसलाई मोतीको जालले ढाकिदिए र त्यसको पानी अमृतसमान देखिन्थ्यो। एक दिन उनले एकान्तमा राजालाई यसरी भने — "यो एउटा सुन्दर वन हो जसमा कतै पानी छैन। यहाँ आनन्दपूर्वक विहार गर्नुहोस्।"
17मन्त्रीका यी वचनमा ती (राजा) ले आफ्नी सुन्दरी पत्नीसँग त्यस वनमा प्रवेश गरे। एक दिन जब उनी त्यस मनोहर वनमा विहार गरिरहेका थिए, तब उनी थाके र श्रान्त भए तथा भोक र तिर्खाले पीडित भए। तब उनले माधवी (लहरा) को एउटा कुञ्ज देखे।
18आफ्नी प्रियासँग त्यसमा प्रवेश गरेर राजाले पानीले भरिएको एउटा जलाशय देखे, जो स्वच्छ थियो र अमृतसमान मीठो थियो। आफ्नी सुन्दरी पत्नीसँग त्यो देखेर उनी त्यसको किनारमा बसे।
19तब राजाले ती स्त्रीलाई यसरी भने — "प्रसन्नतापूर्वक यस पानीमा स्नान गर।" उनका वचन सुनेर उनी पानीभित्र ओर्लिन्, तर फेरि कहिल्यै माथि आइनन्।
20जब राजाले उनलाई खोजे, तब उनलाई उनको कुनै चिह्न भेटिएन। तब उनले जलाशयको पानी उलिच्न आज्ञा दिए। त्यसपछि उनले एउटा दुलोको मुखमा बसेको एउटा भ्यागुतो देखे। यो देखेर राजाले क्रोधमा यो आज्ञा दिए।
21"भ्यागुता जहाँ कहीँ पनि भेटिऊन्, ती सबैको वध गरिदेओ। जो कोही मलाई भेट्न चाहन्छ, उसले भेटीका रूपमा एउटा मरेको भ्यागुतो लिएर मकहाँ आओस्।"
22जब भ्यागुताहरूको यो भयङ्कर संहार चलिरहेको थियो, तब भयभीत भ्यागुताहरू आफ्ना राजाकहाँ गए र उनलाई जे घटेको थियो सबै बताए।
23त्यसपछि भ्यागुताहरूका राजा एक तपस्वी ब्राह्मणको वेश धारण गरेर ती नरेशकहाँ आए र उनलाई यसरी भने —
24"हे राजन्, क्रोधलाई आफूमाथि अधिकार जमाउन नदिनुहोस्। दयालु बन्नुहोस्, तपाईंले निरपराध भ्यागुताहरूको नाश गर्नु हुँदैन।"
25(यहाँ दुई श्लोक यसप्रकार छन्) हे अविनाशी, भ्यागुताहरूको नाश नगर्नुहोस्। आफ्नो क्रोध शान्त पार्नुहोस्। जसको आत्मा अज्ञानमा डुबेको हुन्छ, तिनीहरूको समृद्धि र तपस्याको पुण्य सधैँ क्षीण हुँदै जान्छ। प्रतिज्ञा गर्नुहोस् कि तपाईं भ्यागुताहरूमाथि क्रोध गर्नुहुनेछैन। यस्तो पाप गर्नुको तपाईंलाई के आवश्यकता छ? भ्यागुताहरूको वध गर्नाले के प्रयोजन सिद्ध हुनेछ?
26उनलाई ती राजाले, जसको हृदय आफ्नी प्रियाको लोपको शोकले भरिएको थियो, यसरी भने —
27"म भ्यागुताहरूलाई कहिल्यै क्षमा गर्नेछैनँ। म तिनीहरूको निश्चय नै नाश गर्नेछु। मेरी प्रिय पत्नीलाई यिनै दुष्ट नराधमहरूमध्ये एकले निलेको छ। त्यसैले भ्यागुताहरू सधैँ मबाट वधयोग्य छन्। हे विद्वान्, तपाईं तिनीहरूका तर्फबाट मध्यस्थता नगर्नुहोस्।"
28उनका वचन सुनेर ती (भ्यागुतराज) ले आफ्ना इन्द्रिय र मनमा अत्यन्त पीडित भई यसरी भने — "हे राजन्, दयालु बन्नुहोस्। म आयु नामक भ्यागुताहरूको राजा हुँ। ती मेरी पुत्री थिइन्, जसको नाम सुशोभना थियो। यो त उनको दुश्चरित्रको एउटा उदाहरण मात्र हो। उनले यसभन्दा अघि पनि अनेक राजालाई छलिसकेकी छिन्।" तब राजाले भने — "म उनलाई पाउन चाहन्छु। तपाईंले उनलाई मलाई दिनुहोस्।"
29त्यसपछि उनका पिताले उनलाई उनी प्रदान गरे र उनलाई यसरी भने — "यी राजाको सेवा गर्नू।"
30यसो भनेर उनले क्रोधमा आफ्नी पुत्रीलाई यसरी श्राप दिए — "किनभने तिमीले अनेक राजालाई छलेकी छौ, त्यसैले तिम्रो यस असत्य आचरणका कारण तिम्रा पुत्रहरू ब्राह्मणहरूसँग द्वेष गर्ने हुनेछन्।"
31उनलाई पाएर राजा उनका महान् गुणका कारण उनीमाथि अत्यन्त मुग्ध भए। मानौँ उनले तीनै लोकको राज्य प्राप्त गरेका छन् — यस्तो अनुभव गर्दै उनले भ्यागुताहरूका राजाको अगाडि आफ्नो शिर निहुराए। विधिपूर्वक उनको सम्मान गरेर उनले हर्षका आँसुले रुँधिएको कण्ठले यसरी भने — "ममाथि ठूलो कृपा भयो।"
32त्यसपछि भ्यागुताहरूका राजा आफ्नी पुत्रीसँग बिदा लिएर जहाँबाट आएका थिए त्यहीँ फर्के।
33केही समयपछि राजाले उनीबाट तीन पुत्र उत्पन्न गरे। तिनका नाम शल, दल र बल थिए। केही समयपछि तिनका पिता ती राजाले जेठा पुत्रलाई सिंहासनमा अभिषिक्त गरेर तपस्या गर्ने इच्छाले वनतर्फ प्रस्थान गरे।
34एक दिन शल सिकार खेल्न निस्केका थिए, तब उनले एउटा मृग देखे र आफ्नो रथमा त्यसको पछि लागे।
35उनले सारथिलाई भने — "मलाई अझ छिटो लैजाऊ।" यसरी सम्बोधित गरिएपछि सारथिले राजालाई भने —
36"यस्तो विचार नगर्नुहोस्। यो मृग तपाईंबाट समात्न सकिँदैन। तर यदि तपाईंको रथमा वामी अश्व जोतिए भने, तपाईंले यसलाई समात्न सक्नुहुन्थ्यो।" तब राजाले सारथिलाई भने — "मलाई वामी अश्वका विषयमा सबै कुरा बताऊ, अन्यथा म तिमीलाई मारिदिनेछु।" राजाद्वारा यसरी सम्बोधित गरिएपछि सारथि अत्यन्त भयभीत भयो। ऊ राजासँग पनि डराउँथ्यो र वामदेवसँग पनि; र त्यसैले उसले राजालाई केही भनेन। तब राजाले आफ्नो तरवार उठाएर उसलाई फेरि भने — "शीघ्र बताऊ, अन्यथा म तिमीलाई निश्चय नै मारिदिनेछु।" राजासँग डराएर सारथिले भन्यो — "वामी अश्व ती हुन् जो वामदेवका हुन्, ती मनसमान वेगवान् छन्।"
37उसले यो भन्यो, तब राजाले उसलाई यसरी भने — "(तुरुन्तै) वामदेवको आश्रमतर्फ हिँड।" वामदेवको आश्रममा गएर उनले ती ऋषिलाई यसरी भने —
38"हे महात्मा, मबाट घाइते बनाइएको एउटा मृग भागिरहेको छ। तपाईंले आफ्ना वामी अश्वको जोडी दिएर मलाई त्यसलाई समात्न समर्थ बनाउनुपर्छ।" ऋषिले उत्तर दिए — "म तिमीलाई आफ्ना वामी अश्वको जोडी दिन्छु; तर आफ्नो काम सिद्ध गरेपछि तिमीले तिनलाई शीघ्र मलाई फर्काउनुपर्नेछ।" ती अश्व लिएर र ऋषिको अनुमति प्राप्त गरेर राजाले वामी अश्वको जोडी आफ्नो रथमा जोते र तब त्यस मृगको पछि लागे। आश्रमबाट निस्केपछि उनले आफ्नो सारथिलाई यसरी भने — "यी (दुई) अश्वरत्न राख्न ब्राह्मणहरू (कुनै पनि प्रकारले) योग्य छैनन्। यिनलाई वामदेवलाई फर्काउनु हुँदैन।" यसो भनेर र त्यस मृगलाई समातेर उनी आफ्नो राजधानीमा फर्के र वामी अश्वहरूलाई आफ्नो महलको अन्तःपुरमा राखे।
39त्यसपछि ऋषिले विचार गरे — "यो राजकुमार युवा छ। उत्तम अश्वको जोडी पाएर उसले तिनलाई मलाई नफर्काई महान् आनन्दले तिनीसँग क्रीडा गरिरहेको छ। हाय! कस्तो खेद छ!"
40मनमा यसरी विचार गरेर पूरा एक महिना बितेपछि उनले आफ्ना एक शिष्यलाई भने — "हे आत्रेय, जाऊ र राजासँग सोध कि उसले वामी अश्वहरूको के गर्यो। उसले ती तिम्रा गुरुलाई फर्काइदिनुपर्छ।" ऊ राजाकहाँ गयो र जस्तो उसलाई भनिएको थियो त्यसै गरी उनलाई भन्यो। तब राजाले उत्तर दिए — "यी दुई अश्व (केवल) राजाहरूले राख्न योग्य छन्। ब्राह्मणहरू यति मूल्यवान् रत्न राख्न योग्य छैनन्। ब्राह्मणहरूलाई अश्वसँग के काम? सन्तोष गरेर फर्केर जाऊ।"
41फर्केर उसले गुरुलाई सबै कुरा बताइदियो। यो दुःखद समाचार सुनेर वामदेव क्रोधले भरिए र स्वयं राजाकहाँ गई आफ्ना अश्व मागे। तर उनले जे मागिएको थियो, त्यो दिन अस्वीकार गरे।
42वामदेवले भने — हे राजन्, मलाई मेरा वामी अश्व देऊ। तिनैद्वारा तिमीले त्यो काम सिद्ध गरेका छौ जो तिम्रा लागि असम्भव थियो। ब्राह्मण र क्षत्रिय — दुवैका आचारको उल्लङ्घन गरेर वरुणको भयङ्कर श्रापले आफ्नै मृत्यु नबोलाऊ।
43राजाले भने — हे वामदेव, यी दुई उत्तम, सुशिक्षित र सोझा गोरु ब्राह्मणहरूका योग्य पशु हुन्। यिनलाई लिएर जहाँ इच्छा होस् जानुहोस्। तपाईंजस्ता पुरुषलाई त वेदले नै बोकेर लैजान्छ (अनि अश्वसँग तपाईंको के काम)?
44वामदेवले भने — हे राजन्, हामीजस्तालाई वेदले निश्चय नै बोक्दछ, तर त्यो परलोकमा। यस लोकमा त यी (अश्व) जस्ता पशुले नै मलाई र मजस्ता मानिसलाई तथा अरू सबैलाई बोक्दछन्।
45राजाले भने — चार गधाले तपाईंलाई बोकून्, वा उत्तम जातका चार खच्चर, अथवा वायुसमान वेगवान् चार घोडा। यिनलाई लिएर जानुहोस्; वामी अश्वको यो जोडी केवल क्षत्रियहरूले राख्न योग्य छ। त्यसैले जान्नुहोस् कि ती (वामी अश्व) तपाईंका होइनन्।
46वामदेवले भने — हे राजन्, ब्राह्मणहरूका लागि अत्यन्त कठोर व्रत विहित गरिएका छन्। यदि मैले तिनको पालन गरेको छु भने, भयङ्कर आकृति र लौह-शरीर भएका चार भयानक र महाबली राक्षसले मेरो आज्ञाले तिम्रो पछि लागून्, तिमीलाई मारून् र तब तिम्रो शरीरका चार टुक्रा पारेर तिनलाई आफ्ना धारिला भालामा झुन्ड्याएर लगून्।
47राजाले भने — हे वामदेव, जसले चम्किला भाला र तरवार धारण गरेका छन् र जसले जान्दछन् कि तपाईं यस्ता ब्राह्मण हुनुहुन्छ जसले मन, वचन र कर्मले प्राण लिन चाहन्छ — तिनीहरूले मेरो आज्ञाले तपाईंलाई तपाईंका सम्पूर्ण शिष्यसहित काटिदिऊन्।
48वामदेवले भने — हे राजन्, जब तिमीले मबाट यी वामी अश्व लिएका थियौ, तब तिमीले भनेका थियौ — "म यिनलाई फर्काइदिनेछु।" त्यसैले मेरा वामी अश्व मलाई फर्काइदेऊ, जसले गर्दा तिमी आफ्नो प्राण बचाउन सक।
49राजाले भने — सिकार क्षत्रियहरूका लागि विहित छ। म तपाईंलाई तपाईंको असत्यका लागि दण्ड दिन्नँ। हे ब्राह्मण, तपाईंका सम्पूर्ण आज्ञाको पालन गरेर म मङ्गलमय लोक प्राप्त गर्नेछु।
50वामदेवले भने — ब्राह्मणलाई मन, वचन वा कर्मले कहिल्यै दण्डित गर्न सकिँदैन। जुन विद्वान्ले ब्राह्मणलाई त्यस्तो जानेर पनि तपस्याको बलले (उसमाथि) विजय पाउँछ, उसले यस लोकमा श्रेष्ठता प्राप्त गर्दैन।
51मार्कण्डेयले भने — हे राजन्, जब वामदेवले राजालाई यसरी भने, तब भयङ्कर आकृति भएका चार राक्षस उठे। जब तिनीहरू आफ्ना हातमा भाला उठाएर राजालाई मार्ने उद्देश्यले उनको छेउमा आए, तब उनले यसरी ठूलो स्वरमा पुकारे —
52"हे ब्राह्मण, यदि सम्पूर्ण इक्ष्वाकुले भनून्, यदि दल (मेरो भाइ) ले भनोस्, यदि यी सम्पूर्ण वैश्यले पनि मलाई भनून्, तैपनि म यी वामी अश्व वामदेवलाई दिन्नँ; किनभने तब यी मानिसहरू कहिल्यै धर्मात्मा हुन सक्दैनन्।"
53जब उनी यसरी भनिरहेका थिए, तब नै ती (राक्षसहरू) ले उनलाई मारिदिए र ती पृथ्वीपति भूमिमा लडे। त्यसपछि राजाको मृत्युको समाचार पाएर इक्ष्वाकुहरूले दललाई सिंहासनमा अभिषिक्त गरे।
54तब ब्राह्मण वामदेव उनको राज्यमा गए र राजा दललाई यसरी भने — "हे राजन्, सम्पूर्ण शास्त्रमा यो विहित छ कि मानिसहरूले ब्राह्मणहरूलाई दान दिनुपर्छ।
55हे राजन्, यदि तिमीलाई पापको भय छ भने, मलाई मेरा वामी अश्व कुनै ढिलाइविना फर्काइदेऊ।" वामदेवका यी वचन सुनेर ती राजाले क्रोधमा सारथिलाई यसरी भने —
56"तिमीसँग जुन सुन्दर तर विषालु बाण राखिएका छन्, तीमध्ये एउटा मलाई ल्याइदेऊ, जसले गर्दा त्यसले बिझेर वामदेव पीडामा भूमिमा पल्टिरहोस् र कुकुरहरूले लछारपछार गरून्।"
57वामदेवले भने — हे मनुष्यहरूका शासक, म जान्दछु कि तिम्री रानी श्येनजिताबाट उत्पन्न दस वर्षको एउटा पुत्र छ। मेरो वचनले प्रेरित भई तिमीले यिनै भयङ्कर बाणले शीघ्रै आफ्नो त्यस प्रिय बालकको वध गर्नेछौ।
58मार्कण्डेयले भने — हे राजन्, जब वामदेवले यो भने, तब ती (बाणहरू) ले अन्तःपुरमा त्यस राजकुमारको वध गरे। यो सुनेर कि ऊ उनकै बाणले मारिएको छ, दलले यी वचन भने।
59राजाले भने — हे इक्ष्वाकुहरू, आज म तिमीहरूको हित गर्नेछु। म महान् बलले यस ब्राह्मणको वध गर्नेछु। मेरा अत्यन्त तेजस्वी बाणहरूमध्ये अर्को बाण मलाई ल्याइदेऊ। हे पृथ्वीपतिहरू, आज मेरो पराक्रम हेर।
60वामदेवले भने — हे मनुष्यहरूका शासक, यो भयङ्कर र विषालु बाण जुन तिमी ममाथि ताकिरहेका छौ, त्यसलाई न त तिमी ताक्न सक्नेछौ, न चलाउन।
61राजाले भने — हे इक्ष्वाकुहरू, हेर, जुन बाण मैले उठाएको छु त्यो म चलाउन सक्दिनँ; म यस ब्राह्मणको वध गर्न असमर्थ छु। वामदेव दीर्घायु होऊन्।
62वामदेवले भने — यस बाणले आफ्नी रानीको स्पर्श गरेर तिमी यस पापबाट आफूलाई शुद्ध पार्न सक्छौ। त्यसपछि राजाले त्यसै गरे जस्तो उनलाई बताइएको थियो र तब राजकुमारीले ऋषिलाई यसरी भनिन्।
63रानीले भनिन् — हे वामदेव, म आफ्ना यी मूर्ख पतिलाई दिनप्रतिदिन गम्भीर अर्थ भएका वचन सुनाएर विधिपूर्वक उपदेश दिन समर्थ होऊँ। म सधैँ ब्राह्मणहरूको सेवा र परिचर्या गरूँ; र यसबाट, हे द्विज, म मृत्युपछि पवित्र लोक प्राप्त गरूँ।
64वामदेवले भने — हे राजकुमारी, हे सुनयना, तिमीले यस राजवंशको रक्षा गरेकी छौ। मबाट कुनै अनुपम वर माग। तिमीले जे माग्नेछौ, म त्यो दिनेछु। हे निर्दोष देवी, आफ्ना यी बन्धुहरूमाथि र इक्ष्वाकुहरूको राज्यमाथि शासन गर।
65रानीले भनिन् — हे महात्मा, म यही वर माग्दछु कि मेरा पति अब आफ्नो पापबाट मुक्त होऊन् र तपाईंले उनका पुत्र तथा बन्धुहरूको भलो सोच्नुहोस्। हे ब्राह्मणश्रेष्ठ, म यही वर माग्दछु।
66मार्कण्डेयले भने — हे कुरुश्रेष्ठ, उनका यी वचन सुनेर ऋषिले भने — "यस्तै होस्।" त्यसपछि ती राजा अत्यन्त प्रसन्न भई र ती महर्षिलाई प्रणाम गरेर उनलाई उनका वामी अश्व दिइदिए।